युक्त्यनुशासन / युक्त्यनुशासनटीका १९१९
+ Identification
+ Original line breaks
− References to notes
माणिकचन्द्र–दिगम्बर–जैन–ग्रन्थमालायाःपञ्चदशो ग्रन्थः । श्रीमत्समन्तभद्राचार्यप्रणीतं युक्त्यनुशासनम् । श्रीविद्यानन्दाचार्यविरचितया टीकया समन्वितं साहित्यशास्त्रि–पण्डित–इन्द्रलालैःकाव्यतीर्थ–पण्डित– श्रीलालैश्च सम्पादितं संशोधितं च । प्रकाशयित्री– माणिकचन्द्र–दिगम्बर–जैन–ग्रन्थमाला–समितिः वैशाख, श्रीवोर नि° संवत् २४४६ । प्रथमावृत्तिः] वि° सं° १९७७ । [५०० १ओं श्रीवीतरागाय नमः । आचार्यप्रवरश्रीमद्विद्यानंदिप्रणीतया टीकयाविभूषितं श्रीमत्समंतभद्राचार्यवर्यप्रणीतं ०५युक्त्यनुशासनं । प्रमाणनयनिर्णीतवस्तुतत्त्वम् अबाधितं । जीयात् समन्तभद्रस्य स्तोत्रं युक्त्यनुशासनं ॥ श्रीमत्समन्तभद्रस्वामिभिर् आप्तमीमांसायामन्ययोगव्यवच्छे- १०दाद् व्यवस्थापितेन भगवता श्रीमतार्हतान्त्यतीर्थंकरपरमदेवेन मां परीक्ष्य किं चिकीर्षवो भवन्तः ? इति ते पृष्टा इवप्राहुः — कीर्त्या महत्या भुवि वर्द्धमानं त्वां वर्द्धमानं स्तुतिगोचरत्वं । निनीषवः स्मो वयम् अद्य वीरं १५विशीर्णदोषाशयपाशबन्धं ॥ १ ॥ स्तुतिगोचरत्वं स्तोत्रविषयत्वं निनीषवो नेतुम् इ- च्छवो वयं मुमुक्षवो ऽद्यास्मिन् काले परीक्षावसानसमये स्मो भवामस् त्वां वीरं नान्यत् किंचित् कर्तुकामा इतिप्रतिवचनेनाभि- २संबंधः । कुतः स्तुतिगोचरत्वं नेतुम् इच्छवोभवन्त इत्य् आहुः — ऋद्धमानम् इति प्रवृद्धप्रमाणत्वाद् इत्य् अर्थः, ऋद्धंप्रवृद्धं मानं प्रमाणं यस्य स एव वर्द्धमान इत्य् उच्यते । किं पुनस् तत्र प्रमाणं प्रवृद्धम् इति चेत्, तत्त्वज्ञानमेव, ०५तत्त्वज्ञानं प्रमाणं स्याद् इति वचनात् तस्यैवप्रवृद्धत्वोपपत्तेः स्याद्वादनयसंस्कृतत्वात् । सन्निकर्षादेर् उपचाराद् अन्यत्रप्रमाण- त्वायोगान् निर्विकल्पकदर्शनवत् प्रवृद्धत्वासंभवात् । तत्त्वज्ञानं पुनः स्वार्थव्यवसायात्मकं तत्त्वज्ञानत्वान्यथानुपपत्तेः । न ह्य् अव्यव- सायात्मकं तत्त्वज्ञानं नामा किंचित् करस्यतत्त्वज्ञानत्वप्रसंगात् । १०नाकिंचित्करं तत्त्वज्ञानं व्यवसायकरस्य तत्त्वज्ञानत्वादिति चेत्, न स्वयम् अव्यवसायात्मनो दर्शनस्यव्यवसायकरत्वविरो- धात् सुगतदर्शनवत् । क्षणक्षयादिदर्शनबुद्धव्यवसायवासना- प्रबोधसहकारि दर्शनं व्यवसायकारणं नापरम् इति चेत्, कुतो व्यवसायवासनाप्रबोधः ? दर्शनाद् इति चेत्, तर्हिक्षणक्षयादा- १५व् अपि स्यात् कथं च सुगतदर्शनं न स्यात् ? तत्राविद्योदयसत्त्वा- द् इति चेत्, तर्हि अविद्योदयसहायादर्शनात् स च भवतु क्ष- णक्षयादौ, नास्तीति मतं तदा दर्शनभेदप्रसंगः, न ह्येकम् एव दर्शनं नीलादौव्यवसायवासनाप्रबोधनिबंधनाविद्योदयसमा- क्रान्तं क्षणक्षयादाव् अन्यथेति वक्तुं युक्तम् । स्यान् मतं, दर्शन- २०स्याविद्योदयवैचित्र्याद् वैचित्र्यं ततस् तस्यान्यत्वात्तदन्यत्वे दर्श- नस्य वास्तवत्वाविरोधाद्, वास्तवं हि दर्शनम् अवास्तवावाऽवि- द्या, तदुभयभेदान् न दर्शनभेद इति । तद् अपिस्वसिद्धान्तमात्रं, ३तस्या विकल्पवासनाहेतुत्वविरोधात्, वास्तवं हिकिंचित् क- स्यचित् कारणम् इष्टं नावास्तवं शशविषाणं, न चाविद्या वा- स्तविका । यदि पुनर् यथा वास्तवं कारणं वास्तवम् एवकार्यम् उ- पजनयति तद्वदवास्तवम् अवास्तवं विरोधाभावात्, ततश्चाविद्यो- ०५दयः स्वयम् अवास्तवो विकल्पवासनाप्रबोधम् अवास्तवंकरिष्यती- त्य् अभिधीयते, तदा विकल्पवासनाप्रबोधो ऽप्य् अवास्तवोनीलादि- व्यवसायम् अवास्तवम् एव जनयेत् । वास्तवदर्शनहेतुत्वात्वास्त- वो ऽपि नीलादिविकल्प इति चेत्; तर्हि वास्तवावास्तवाभ्यां दर्शनविकल्पवासनाप्रबोधाभ्यां जनितो नीलादिविकल्पो वा- १०स्तवावास्तवः स्यात्, तथा च तज्जनकं दर्शनं कथम् इवतत्त्व- ज्ञानम् उपपद्येत संशयादिविकल्पजनकस्यापि दर्शनस्यतत्त्वज्ञान- त्वप्रसंगात् । यथैव हि नीलादिविकल्पः स्वरूपे वास्तवःस्वा- लंबने चावास्तवस् तथा संशयादिविकल्पो ऽपि, सर्वचित्तचैत्ताना- म् आत्मसंवेदनस्य वास्तवत्वात् तदालंबनस्यचाऽन्यापोहस्यावा- १५स्तवत्वात् वास्तवावास्तवोपवत्तिः । ननु दर्शनपृष्टभाविनोवि- कल्पस्य वस्तुव्यवसायकत्वात् तज्जनकं दर्शनंतत्त्वज्ञानं, न पुनः संशयादिविकल्पजनकं तस्यावस्तुपरामर्शित्वात् । नहि संशयेन विषयीक्रियमाणं चलिताकारद्वयं वस्तुरूपं, नाऽपि विपर्यासेनालंब्यमानं विपरीतं वस्तुरूपं यतो ऽस्यवस्तुपराम- २०र्शिता स्याद् इति कश्चित् । सो ऽप्य् एवं प्रष्टव्यः, कुतो नीलादि- विकल्पस्य वस्तुव्यवसायित्वं सिद्धं ? वस्तुव्यवसायिविकल्प- वासनाप्रबोधात्, सो ऽपि वस्तुव्यवसाय्यविद्योदयाद् इति चेत् ४तर्ह्य् अविद्योदयवंशप्रभवो नीलादिविकल्प इत्य् एतदायातम् । तथा च तज्जननान् न दर्शनं तत्त्वज्ञानं युक्तम् अतिप्रसंगात् । तदविसंवादकत्वात् तत्त्वज्ञानम् इति चेत्, तद् अपि यद्यर्थ- क्रियाप्राप्तिनिमित्तत्वं तच् च प्रवर्त्तकत्वं तद् अपिप्रवृत्तिविषयो- ०५पदर्शकत्वम् उच्यते तदा न व्यवतिष्ठतेदर्शनस्याव्यवसाया- त्मनः प्रवृत्तिविषयोपदर्शकत्वेक्षणक्षयाद्युपदर्शकत्वप्रसंगात् नीलाद्युपदर्शकत्ववत्, नीलादिवत् क्षणक्षयादाव् अपि दर्शन- विषयत्वाविशेषात् । क्षणक्षयादौ विपरीतसमारोपान् नतदुपद- र्शकत्वम् इति चेत्, सो ऽपि कुतः ? सदृशापरापरोत्पत्तिदर्शनाद् अ- १०विद्योदयाच् चेति चेत्, न सदृशापरापरोत्पत्तिदर्शनस्यसमारोप- निमित्तस्यापरापरजलबुद्बुदोत्पत्तिदर्शनेन व्यभिचारात्तत्रै- कत्वसमारोपासंभवात्, तथान्तरंगस्य चाविद्योदयस्यवाह्यकार- णरहितस्यासमर्थत्वात्, तन्मात्राद् एवान्यथा सर्वत्रविभ्रमप्रसंगात् । स्यान् मतं, अपरापरजलबुद्बुदेषुसदृशापरापरोत्पत्तिदर्श- १५ने सत्य् अप्य् अविद्योदयासंभवान् नैकत्वसमारोपः ततो नव्यभिचार इति । तद् अयुक्तम्, क्षणक्षयादिदर्शनस्याबोधिसत्त्वादप्रसिद्धेः, पश्यन्न् अयं क्षणिकम् एव न पश्यतीति वचनस्यस्वमनोरथमात्र- त्वात्, शक्यं हि वक्तुं पश्यन्न् अयं नित्यम् एव पश्यत्यनाद्यविद्योद- याद् अपरापरज्ञानोत्पत्तिषु क्षणिकत्वसमारोपान्नावधारयतीति । २०क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधस् तु नित्यस्येवक्षणिकस्यापि विद्यत एव ततः पश्यन्न् अयं जात्यन्तरम् एवं पश्यतिदर्शनमोहोद- यात् तु दुरागमजनितवासनासहायाद् विपरीतसमारोपसंभवान्नाव- धारयतीति युक्तम् उत्पश्यामः । तथा चाक्षादिज्ञानस्यद्रव्यप- ५र्यायात्मकः कथंचित् नित्यानित्यात्मासदृशेतरपरिणामात्म- कः सामान्यविशेषात्मकः जात्यन्तरभूतो ऽनेकान्तात्मार्थोविष- यः सिद्धः सुनिश्चतासंभवद्बाधकप्रमाणत्वात्तदुपदर्शकत्वं प्रवृत्तिविषयोपदर्शकत्वं तत् प्रवर्त्तकत्वंतत्त्वार्थक्रियाप्राप्तिनि- ०५मित्तत्वं तद् अप्य् अविसंवादित्वं तल्लक्षणं तत्त्वज्ञानंकथम् अविकल्पकं जात्याद्यात्मकस्य सविकल्पकस्यार्थसामर्थ्येनसमुद्भूतत्वा- ज् जात्यादिरहितस्य स्वलक्षणार्थस्यसर्वथाऽनर्थक्रियाकारिणो ऽनुपपत्तेः तत्कारणेन तत्त्वज्ञानस्योद्भवासंभवात्निर्विकल्प- कत्वाद् असिद्धेः । स्यान् मतम्, संहृतसकलविकल्पावस्थायांअ- १०श्वविकल्पकाले गोदर्शनविषयाणां निर्विकल्पकं प्रत्यक्षंप्रत्य- क्षत एव सिद्धं । विकल्पेन नामसंश्रयेण प्रत्यात्मनावेद्येन रहितस्य प्रत्यक्षस्य संवेदनात् । तद् उक्तम् — प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिद्ध्यति । प्रत्यात्मवेद्यः सर्वेषां विकल्पो नामसंश्रयः ॥ इति १५तद् असत् । व्यवसायात्मकस्यैव प्रत्यक्षस्यस्वसंवेदनप्रत्य- क्षतः प्रसिद्धेः नामसंश्रयस्य विकल्पस्यतत्राऽनुपलंभे ऽप्य् अक्षादि- संश्रयस्य संवेद्यमानत्वात्, संहृतसकलविकल्पावस्थायामपि स्तिमितेनान्तरात्मना स्थितस्य चक्षुषा रूपमीक्षमाणस्याक्षजा- या मतेः सविकल्पकात्मिकाया एव प्रतीतेः । अन्यथा व्युत्थि- २०तचित्तावस्थायां तथैव स्मरणानुपपत्तेः एतेनानुमानात्प्रत्यक्षे कल्पनाविरहसिद्धिर् अपास्ता । पुनः किंचिद् विकल्पयतोयथाऽ- श्वकल्पना ममासीद् इति वित्तिस् तथा गोनिश्चयो ऽप्यश्वविकल्प- ६काले ममेन्द्रियबलाद् आसीद् इति वित्तिर् अपि कथमन्यथोपपद्येत ग- वाश्वविकल्पयोर् युगपद्विरोधात् । नैवं वित्तिः सत्येति चेत्, न तयोः क्रमाद् एवाशूत्पत्तेर् यौगपद्याभिधानात् । तत्त्वतोज्ञानद्वयस्य सोपयोगस्य युगपदसंभवात्, क्वचिदुपयुक्तानुपयुक्तज्ञानयौग- ०५पद्यवचनेपि विरोधाभावात् । तर्हि गोदर्शनम् अनुपयुक्तमश्वविक- ल्पस् तूपयुक्तस् ततस् तयोर् युगपद्भावो युक्त एवेति चेत्, नकिंचि- द् अनिष्टं स्याद्वादिनां । तथाऽनुपयुक्तवेदनस्यनिर्विकल्पकत्वस्या- पीष्टत्वात् । क्वचित् किंचिद् उपयुक्तं हि ज्ञानंव्यवसायात्मकम् इ- ष्यते सर्वथाऽनुपयुक्तस्याव्यवसायात्मकस्यतत्त्वज्ञानत्वविरो- १०धात् । न चैवं केवलज्ञानम् अतत्त्वज्ञानं प्रसज्येततस्यापि नित्योप- युक्तत्त्वेन व्यवसायात्मकत्वोपगमात् । ननु च वीतारागाणांक्व- चित् प्रवृत्त्यसंभवात् सर्वदौदासीन्याद् उपयोगाभावादनुपयुक्तम् एव ज्ञानम् अनुमन्तव्यम् । तथा च निर्विकल्पकं तत् सिद्धं । तद्वदक्षा- दिज्ञानम् अपि निर्विकल्पकं सत् तत्त्वज्ञानं भविष्यतीतिकेचित्, १५ते ऽपि न युक्तिवादिनः, यौगज्ञानस्यानुपयुक्तत्वेसर्वपदार्थप्र- तिभासनस्य विरोधात्, तस्यैवोपयोगरूपत्वाद्, युगपत्सर्वार्थ- ग्रहणम् एव ह्य् उपयोगः सर्वज्ञविज्ञानस्य, न पुनर्जिहासोपादित्साभ्यां हानोपादानलक्षणा प्रवृत्तिः, तस्यारागद्वेषोपयोगनिबंधनत्वात् प्रलीनरागद्वेषस्य सर्वज्ञस्य तदसंभवात् । कथम् एवंसर्वज्ञविज्ञानं २०निष्फलं न भवेद् इति चेत्, न तदभिन्नस्य फलस्यसकलाज्ञान- निवृत्तिलक्षणस्य सद्भावात्, सर्वस्य ज्ञानस्य साक्षादज्ञाननि- वृत्तिफलत्वाद् धानोपादानोपेक्षाविषयस्यपरंपराज्ञानफलत्वप्र- ७सिद्धेः सकलवेदिविज्ञानस्य परम्परयाप्युपेक्षामात्रफलत्वात् । तथा चोक्तम् — उपेक्षा फलम् आद्यस्य शेषस्यादानहानधीः । पूर्वा वाऽज्ञाननाशो वा सर्वस्यास्य स्वगोचरे ॥ इति ०५नित्योपयुक्तत्वात् सर्वज्ञविज्ञानस्यस्वार्थव्यवसायात्मकत्वम् एव युक्तम् अन्यथा तस्याकिंचित्करत्वप्रसंगात्तद्वदक्षादिज्ञानानाम् अ- पीति न किंचिदव्यवसायात्मकं तत्त्वज्ञानम् अस्ति येनसाधन- व्यभिचारः स्यात् । अत्रापरः प्राह — सत्यम्, व्यवसायात्मकं तत्त्वज्ञानं अर्थव्यवसायलक्षणत्वात्, न तुस्वव्यवसायात्मकं १०तस्य ज्ञानांतरेण व्यवसायाद् इति । सो ऽपि न प्रेक्षावतामभिधे- यवचनो ऽनवस्थानुषंगत्वात् । कस्यचिद् अर्थज्ञानस्य हियेन ज्ञानेन व्यवसायस् तन् न तावद् अव्यवसितम् एव तस्य व्यवसायकंपरात्मज्ञा- नवत्, ज्ञानान्तरेण तद्व्यवसाये तु तस्यापि ज्ञानान्तरेणव्य- वसाय इत्य् अनवस्थानं दुर्निवारं । ननु च ज्ञानस्यस्वविषये व्य- १५वसितिजनकत्वं व्यवसायात्मकत्वं तच् च ज्ञानान्तरेण व्य- वसितस्याऽपि युक्तं सन्निकर्षवत् । न हि सन्निकर्षादिः केनचिद् व्यवसितो व्यवसितिम् उपजनयति तद्वदर्थज्ञानंज्ञा- नान्तरेणाव्यवसितम् एव व्यवसितिम् उत्पादयतीति कश्चित् । सो ऽपि न प्रातीतिकवचनो ऽर्थज्ञानस्यापिज्ञानान्तरेणाव्यवसित- २०स्यैवार्थव्यवसितिजनकत्वप्रसंगात्ज्ञानज्ञानपरिकल्पनवैय- र्थ्यात् । तथा लिंगस्य ज्ञानेनाव्यवसितस्य स्वलिंगिनि, शब्द- स्याभिधेये, सादृश्यस्योपमेये, व्यवसितिजनकत्वसिद्धेस्तद्वि- ८ज्ञानान्वेषणं किमर्थं पुष्णीयात् । यदि पुनरुभयथा दर्शनाद् अ- दोष इति मतं तदाऽपि किंचिल् लिंगादिकम् अज्ञातंस्वलिंग्यादिषु व्यवसितिम् उपजनयत् कथम् अपवार्यते । चक्षुरादिकम् अपिकिंचिद् वि- ज्ञानम् एव स्वविषये परिच्छित्तिम् उत्पादयद् उभयथादर्शनात् । ०५स्यान् मतं चक्षुरादिकम् एवाज्ञातं स्वविषयज्ञाप्तिनिमित्तंदृष्टं, न तु लिंगादिकं तद् अपि ज्ञातम् एव नान्यथा ततोनोभयत्रोभयथा प्रसंगः प्रतीतिविरोधाद् इति । तर्हि यथार्थज्ञानंव्यवसितम् अर्थ- ज्ञप्तिनिमित्तं तथा ज्ञानज्ञानम् अपि ज्ञाने ऽस्तु तत्राऽप्युभयथा परिक- ल्पनायां प्रतीतिविरोधस्याविशेषात् । कया पुनः प्रतीत्याऽत्र १०विरोध इति चेच् चक्षुरादिषु कयेति समः पर्यनुयोगः । विवादापन्नं चक्षुरादिकम् अज्ञातम् एवार्थज्ञप्तिनिमित्तं चक्षुरादित्वात्, यद् एवं तद् एवं यथाऽस्मच् चक्षुरादि, तथा च विवादापन्नंचक्षुरादि, त- स्मात् तथा । विवादाध्यासितं लिंगादिकं ज्ञातम् एव क्वचिद्विज्ञप्तिनि- मित्तं लिंगादित्वात्, यद् इत्थं तद् इत्थंयथोभयवादिप्रसिद्धं धूमादि, १५तथा च विवादाध्यासितं लिंगादि, तस्मात् तथेत्यनुमानप्रतीत्या तत्रोभयथाकल्पने विरोध इति चेत्, तर्हि विवादापन्नंज्ञानं- ज्ञानं ज्ञातम् एव स्वविषये ज्ञप्तिनिमित्तं, ज्ञानत्वात्, यदेवं तद् एवं य- थार्थज्ञानं, तथा च विवादाध्यासितं ज्ञानज्ञानं, तस्मात्तथेत्य् अनु- मानप्रतीत्यैव तत्रोभयथा कल्पनायां विरोधो ऽस्तुसर्वथा वि- २०शेषाभावात् तथा चानवस्थानं दुर्निवारम् एव नैयायिकंमन्यानां । स्याद् आकूतम् अर्थज्ञानम् अप्य् अर्थे ज्ञानांतरेणाज्ञातम् एवज्ञप्तिम् उत्पाद- यति यथा विशेषणज्ञानं विशेष्ये र्थे, न पुनर् ज्ञानं, तद्विज्ञानोत्पत्तेः ९प्राग् एव तत्र ज्ञप्तेर् अभावप्रसंगात्, न चैवं, तथा प्रतीतेर् अर्थजिज्ञासायां हि स्वहेतोर् अर्थज्ञानम् उत्पद्यते । ज्ञानजिज्ञासायान् तुपश्चाद् एव ज्ञाने ज्ञानं प्रतीतेर् एवं विधत्वाद् इति । तद् अप्य् असत्यम् । स्वयम् अर्थज्ञानं ममेदम् इत्य् अप्रतिपत्तौ तथा प्रतीतेर् असंभवात्प्रतिपत्तौ तु स्वत- ०५स् तत्प्रतिपत्तिर्ज्ञानान्तरात् वा । स्वतश् चेत् ? स्वार्थपरिच्छेदक- त्वसिद्धिर् वेदनस्य वस्तुबलप्राप्ता क्कचिद् अर्थे जिज्ञासायांसत्या- महम् उत्पन्नम् इति स्वयं प्रतिपद्यमानं हि विज्ञानंस्वार्थपरिच्छे- दकम् अभ्यनुज्ञायते नान्यथेति जैनमतसिद्धिः । यदिपुन- र् ज्ञानान्तरात् तथा प्रतिपत्तिस् तदाऽपितदर्थज्ञानप्रज्ञातम् एव मयार्थस्य १०परिच्छेदकम् इति स्वयं ज्ञानान्तरं प्रतिपद्यते चेत् तदेव स्वार्थ- परिच्छेदकं सिद्धं, न प्रतिपद्यते चेत् कथं तथाप्रतिपत्तिः? किं चेदं च विचार्यते — ज्ञानान्तरम् अर्थज्ञानम् अर्थमात्मानं च प्रति- पद्याज्ञातम् एव मया ज्ञातम् अर्थं जानातीतिप्रतिपाद्याऽप्रतिपाद्य वा प्रथमे पक्षे ऽर्थस्य तत् ज्ञानस्य स्वात्मनःस्वपरिच्छेदकत्वविष- १५यं ज्ञानान्तरं प्रसज्येत । द्वितीयपक्षे पुनर् अतिप्रसंगःसुखादिकम् अ- ज्ञातम् एवादृष्टं मया करोतीत्य् अपि जानीयाद् अविशेषात् ततःकिं बहुनो- क्तेन ज्ञानम् अर्थपरिच्छेदकताम् इच्छता स्वपरिच्छेदकमेषितव्यम् । यथेश्वरज्ञानं स्वपरिच्छेदकत्वाभावेर्थज्ञानत्वानुपपत्तेः । तथा चैवं प्रयोगः कर्त्तव्यः — विवादाध्यासितं ज्ञानंस्वपरिच्छेदकम् अर्थ- २०ज्ञानत्वात्, यद् अर्थज्ञानं तत् स्वपरिच्छेदकंयथेश्वरज्ञानं । अर्थज्ञानं च विवादाध्यासितं तस्मात् स्वपरिच्छेदकं । न चक्षुरादिना हे- तोर् व्यभिचारस् तस्याज्ञानत्वात्, नाऽपिमूर्च्छितादिज्ञानेनार्थवि- १०शेषणत्वात् । सद् धि मूर्च्छितादिज्ञानं नार्थज्ञानंपुनस् तदर्थे स्म- रणप्रसंगात् । न च मूर्च्छितादिदशायां परैर् ज्ञानम् इष्टंयेन व्य- भिचारः स्यात् । येषां तु तस्याम् अपि दशायां वेदनयानिद्रया- वाऽभिभूतं विद्यमानम् एव मत्तदशायां मदिरेत्यादिवत्मदाभि- ०५भूतिवेदनवद् अन्यथा तदा नैरात्म्यापत्तेर् इति मतं, तेषांविज्ञानस्य स्वव्यवसायो ऽपि तदाभिभूतप्रसिद्ध एवेति कथंतेनानैकान्ति- कता ज्ञानत्वस्य हेतोः स्यात् ततो ऽर्थज्ञानत्वंस्वव्यवसायात्मकत्वं साधयत्य् एव साध्याविनाभावनियमनिश्चयात् । नन्वीश्वरज्ञान- म् उदाहरणसाध्यशून्यं तस्य स्वव्यवसायात्मकत्वाभावाद् इति १०चेन् नेश्वरस्य सर्वज्ञत्वविरोधात् । ज्ञानान्तरेणात्मज्ञानस्यपरि- ज्ञानात् सर्वज्ञत्वे तद् अपि ज्ञानान्तरं स्वव्यवसायात्मकंचेत् तद् एवो- दाहरणं । ज्ञानान्तरेण व्यवसितं चेदनवस्थानं तत्राऽप्येवं पर्यनुयोगात् । न चेश्वरस्य नानाज्ञानपरिकल्पना युक्तासह- स्रकिरणवत् साक्षात् सकलपदार्थप्रकाशकम् एकमेवेश्वरस्यं मेच- १५कज्ञानम् इति सिद्धान्तविरोधात्, तद् ईश्वरस्य ज्ञानमुदाहरणम् एव साध्यवैकल्यानुपपत्तेः साधनवैकल्याभावाच् च । अर्थज्ञानत्वं हि साधनं तदुदाहरणे विद्यत एव विपक्षेबाधकप्रमाणसद्भावाद् वा साध्याविनाभावनियमस्य प्रसिद्धेः प्रकृतसाधनं साध्यंसाध- यत्य् एव । स्वव्यवसायरहितत्वे ज्ञानस्यानीश्वर इवेश्वरे पिप्रमाण- २०विरुद्धत्वात् । स्वव्यवसायात्मकसकलार्थज्ञानात् कथंचिदभिन्नस्य परमात्मन एवाप्तपरीक्षायाम् ईश्वरत्वम् अर्थनात् । ततःस्थितम् ए- तत् स्वार्थव्यवसायात्मकं तत्त्वज्ञानं प्रवृद्धं मानंप्रमाणम् इति । ११परमार्थतः स्वव्यवसायात्मकम् एव तत्त्वज्ञानंचेतनत्वात् स्वप्ने- न्द्रजालादिज्ञानवद् इत्य् अपरस् तस्यापीदम् अनुमानज्ञानंस्वव्यवसा- यार्थस्य व्यवसायकम् अव्यवसायकं वा, व्यवसायकं चेत्सिद्धं स्वार्थव्यवसायात्मकं, तद्वत् सर्वतत्त्वज्ञानं तथा स्यात् । अव्यव- ०५सायकं चेद् असाधनांगं व्यर्थत्वात् । संव्यवहारतोऽनाद्यविद्यो- दयकल्पितात् तद्व्यवसायात्मकम् इति चेत् तर्हि परमार्थतोना- स्माद् अनुमानात् स्वव्यवसायात्मकं साध्यं सिद्ध्येद् इति । यत्किं- चन भाषी स्वव्यवसायात्मकज्ञानैकान्तवादीस्वार्थव्यवसाया- त्मनो ज्ञानस्यार्थक्रियार्थिभिः संव्यहारिभिरादरणीयत्वात्, १०प्रकाश्याप्रकाशकस्य पदार्थस्य प्रकाशार्थिभिरनादरणीयत्वा- त् तद् अलम् अतिप्रसंगेन प्रपंचतः प्रमाणपरीक्षायांप्रमाणस्य तत्त्वज्ञा- नस्य स्वार्थव्यवसायात्मकस्य परीक्षितत्वात् । ननु च त्वां वर्द्धमानं वीरं स्तुतिगोचरत्वं निनीषवःस्मो वयम् अद्येति वाक्यं न युक्तं व्याख्यातुं, त्वां वा त्वाम् एववीरम् ए- १५वेति वाशब्देनावधारणार्थेन ततो ऽन्यतीर्थकरसमूहस्यस्तुत्य- स्याभिमतस्य स्तुतिगोचरत्वव्यवच्छेदानुषंगात् तथा चसिद्धा- न्तविरोध इति कश्चित् । सो ऽपि न विपश्चित्, स्तोतुरभिप्राया- परिज्ञानात् तस्य ह्य् अयम् अभिप्रायो न्त्यतीर्थकरस्यैवैदंयुगीनतीर्थप्रका- शनप्रधानस्य वर्द्धमानत्वेन स्तुतिगोचरत्वसमर्थनेसकलस्य २०स्तुत्यस्य सिद्धान्तप्रसिद्धस्य स्तुतिगोचरत्वं समर्थितंभवत्य् एव वर्द्धमानत्वस्य तत्साधनस्याविशेषात् यस्य यस्यवर्द्धमानं प्रवृद्धं मानं प्रमाणं केवलज्ञानं परमगुरोः, श्रुतज्ञानादि वापरगुरोर् निश्ची- १२यते सुनिश्चितासंभवद्बाधकप्रमाणत्वेन सुखादिवत्तस्य तस्य स्तुतिगोचरत्वं प्रसिद्धं भवति । वीरशब्देन वा सर्वस्यस्तुत्य- स्याभिधानात्, नायुक्तम् अवधारणार्थं वाशब्दव्याख्यानंमहतो महासत्वस्यासहायस्यान्तरारातिनिर्जयनोद्यतस्यपुरुषविशेषस्य ०५शक्तिशुद्धिप्रकर्षं दधानस्य लोके वीरशब्दप्रयोगात् । विशिष्टां मां लक्ष्मीं मुक्तिलक्षणामभ्युदयलक्षणां वा रातीति वीर इतिव्युत्प- त्तिपक्षाश्रयणाद् वा सर्वस्य स्तुत्यस्य संग्रहात्प्रकृतवाक्यव्या- ख्यानं युक्तम् उत्पश्यामः ॥ किं विशिष्टं मांवीरमृद्धमानं निश्चिन्व- न्ति भवन्तो यतः स्तुतिगोचरत्वं निनीषवोद्य भवन्तीतिभगवता १०पृष्टा इव सूरयः प्राहुः — विशीर्णदोषाशयपाशबन्धम् इति । अत्राज्ञा- नादिदोषस् तस्याशयः संस्कारः पूर्वो दोष आशेते ऽस्मिन्न् इति व्युत्पत्तेः । दोषहेतुर् वाज्ञानावरणादिकर्मप्रकृतिविशेषोदय इति भावकर्मणो द्रव्यकर्मणश् च वचनं, दोषश् चाशयश् चदोषाशयौ ता- व् एव पाशौ ताभ्यां बन्धः पारतंत्र्यं विशीर्णोदोषाशयपाशबं- १५न्धो ऽस्येति विग्रहः । तदैतेनैतद् उक्तं भवति, यस्मात्त्वां विशीर्ण- दोषाशयपाशबन्धं वयं निरणैष्म तस्माद् वर्धमानंस्तुतिगोचरत्वं निनीषवः स्म इति । कथम् एवं विधं मांनिरणैषुर्भवन्त इत्य् आहुर् यतः कीर्त्त्या महत्या भुवि वर्द्धमानं त्वां निरणैष्म । कीर्त्यन्ते जीवा- दयस् तत्त्वार्थां यया सा कीर्तिर् भगवतो वाक्, महतीयुक्तिशास्त्रा- २०विरोधीनी तया । भुवि समवशरण भूमौ साक्षात्परंपरया सक- लपृथिव्यां परमागमविषयभूतां वर्द्धमानःपुष्यन्निखिलप्रेक्षाव- ज्जनमनांसि परापराणि व्याप्नुवन्न् इत्य् अभिधीयते । सर्वत्र स- १३र्वदा सर्वेषां युक्तिशास्त्राविरोधिवाक् सिद्ध इत्यर्थः । ततो ऽयं समुदायार्थः, स्तुतिगोचरो भगवान् वीरः परमात्माऋद्धमानत्वात् यस् तु नैवं स न वर्द्धमानो यथा रथ्या पुरुषस् तथाचायं भग- वान् इति । तद्वद् वर्धमानो भगवान्विशीर्णदोषाशयपाशबन्धत्वात् ०५यस् तु नेत्थं स न तथा यथा मिथ्यादृक् तथा च भगवानिति । विशीर्णदोषाशयपाशबंधो भगवान् कीर्त्या महत्या भुविवर्द्ध- मानत्वात् यस् तु नैवं विधः स न तथा यथा प्रसिद्धोनाप्तः, की- र्त्त्या महत्या भुवि वर्द्धमानश् च भगवान् तस्माद्विशीर्णदोषाशय- पाशबंध इति केवलव्यतिरेकी हेतुरन्यथोपपत्तिनियमनिश्चयैक- १०लक्षणत्वात् स्वसाध्यं साधयत्य् एव तथाऽऽप्तमीमांसायांव्या- सतः समर्थितत्वात् । किंलक्षणा स्तुतिर् यद् गोचरत्वं मांनेतु- म् इच्छन्ति भवन्त इति भगवता प्रश्ने कृत इव सूरयःप्राहुः — याथात्म्यम् उल्लङ्घ्य गुणोदयाख्या लोके स्तुतिर् भूरिगुणोदधेस् ते । १५अणिष्ठम् अप्य् अंशम् अशक्नुवन्तो वक्तुं जिन त्वां किम् इव स्तुयाम ॥ २ ॥ "याथात्म्यम् उल्लंघ्य गुणोदयाख्या लोके स्तुतिः" इतिचतुरा- शीतिर् लक्षाणि गुणास् तेषां गुणानां याथात्म्यंयथावस्थितस्व- भावस् तदुल्लंघ्य गुणोदयस्याख्या लोके स्तुतिर् इति लक्ष्यते २०यद्य् एवं तदा स्तुतिकर्त्तारस् तावन्तः किं शक्ताः भगवताइति पर्यनुयुक्ताः प्राहुः — १४"भूरिगुणोदधेस् ते । अणिष्ठम् अप्य् अंशमशक्नुवन्तो वक्तुं जिन त्वां किम् इव स्तुयाम । " इति, तर्हि भूरिगुणोदधेर् अ- नन्तगुणसमुद्रस्य ममाणिष्ठम् अप्य् अंशं सूक्ष्मतमम् अपिगुणं वक्तुं यदि न शक्नुवन्ति भवन्तः किम् अप्य् उपमानम् अपश्यन्तस्तदा कि- ०५म् इति स्तोतारो भवन्तीति भगवता पर्यनुयुक्ता इवप्राहुः — तथापि वैयात्यम् उपेत्य भक्त्या स्तोताऽस्मि ते शक्त्यनुरूपवाक्यः । इष्टे प्रमेये ऽपि यथास्वशक्ति किन् नोत्सहन्ते पुरुषाः क्रियाभिः ॥ ३ ॥ १०"तथाऽपि वैयात्यम् उपेत्य भक्त्या स्तोतास्मि ते शक्त्यनु- रूपवाक्यः । " तथाऽपि ते ऽणिष्ठम् अप्य् अंशं वक्तुमशक्नुवन्न् अपि वैया- त्यं धार्ष्ट्यम् उपेत्योपगम्य भक्त्या हेतुभूतया ते वीरस्यस्तोता- ऽस्मि शक्त्यनुरूपवाक्यः सन्न् अहम् इति संबन्धः परे ऽप्येवम् उत्सह- मानाः सन्तीति दर्शनार्थम् इदम् उक्तम् । १५"इष्टे प्रमेये ऽपि यथास्वशक्ति किं नोत्सहन्ते पुरुषाः क्रियामिः । " इति उत्सहन्त एवेत्य् अर्थः । यदि यथास्वशक्ति स्वेष्टे प्राप्ये र्थे प्रवृत्त्यादिक्रियाभिःसमुत्सहमानपुरुषवत् भव- न्तः स्तुतिं वक्तुं प्रवर्तन्ते तदा कियत् वक्तुं शक्ता इत्याह — त्वं शुद्धिशक्त्योर् उदयस्य काष्ठां २०तुलाव्यतीतां जिन ! शान्तिरूपाम् । १५अवापिथ व्रह्मपथस्य नेता महान् इतीयत् प्रतिवक्तुम् ईशाः ॥ ४ ॥ ज्ञानदर्शनावरणविगमाद् अमलज्ञानदर्शनाविर्भूतिःशुद्धिस् त- थान्तरायविनाशाद् वीर्यलब्धिः शक्तिस् तयोर् उदयस्यप्रकर्षस्य ०५काष्ठाऽवस्था तां जिन ! भगवन् ! अवापिथ त्वं । किंविशिष्टां तुलाव्यतीताम् उपमातिक्रान्तां तथा शान्तिरूपांप्रशमसुखात्मिकां सकलमोहक्षयोद्भूतत्वात् ततो व्रह्मपथस्य नेता महान्परमात्मे- ति, इयन् मात्रं प्रतिवक्तुम् ईशाः समर्था इत्य् अनेन यावतीस्वशक्तिः भगवत्संस्तवने तावती सूरिभिर् निवेदिता । तत्र शुद्धिःक्वचि- १०त् पुरुषविशेषे परां काष्ठाम् अधितिष्ठतीति प्रकृष्यमाणत्वात्परिमाण- वत् तथा शक्तिः क्वचित् पुरुषविशेषे परां काष्ठाम् अवाप्नोतिप्रकृ- ष्यमाणत्वात् परिमाणवद् एवेति शुद्धिशक्त्योःप्रकर्षपर्यन्तं गमनं प्रतिवर्ण्यते न पुनर्ज्ञानं क्वचित् परां काष्ठांप्रतिपद्यत इति साध्यते । प्रतिज्ञानस्य श्रुतज्ञानस्य च धर्मित्वे परस्यसिद्धसाध्यतानुषंगात् १५स्याद्वादिनश् च स्वेष्टसिद्धेर् अभावात् । अवध्यादिज्ञानत्रयस्य धर्मि- त्वे परेषां धर्म्यसिद्धिः । सर्वज्ञवादिनांसाधनवैफल्यं तत्सिद्धे- र् इव साध्यत्वात् । ज्ञानसामान्यधर्मित्वे ऽपि मीमांसकस्य सिद्धसाधनम् एव चोदनाज्ञानस्य परमप्रकर्षप्राप्तस्यसिद्धत्वात् । शुद्धेस् तु धर्मित्वनिर्देशे नोक्तदूषणावकाशः परेषां तत्रविवादात् २०सिद्धसाध्यतानुषंगाभावात् वादिनः स्वेष्टसिद्धेरप्रतिबंधात् सर्व- ज्ञत्वसामान्यस्य प्रसिद्धेः । १६ननु च यद्य् अहम् एव महान् इति प्रतिवक्तुंशक्यस् तदा मदीय- शासनस्यैकाधिपत्यलक्ष्मीः किम् अन्यतीर्थिभिर् अपोह्यतेतदपवाद- हेतुः कश्चिद् अस्तीति चेत् सो ऽभिधीयताम् इति भगवत्प्रश्नेसूरयः प्राहुः — ०५कालः कलिर् वा कलुषाशयो वा श्रोतुः प्रवक्तुर् वचनाशयो वा । त्वच्छासनैकाधिपतित्वलक्ष्मी- प्रभुत्वशक्तेर् अपवादहेतुः ॥ ५ ॥ तव शासनं सर्वम् अनेकांतात्मकं इति मतंतस्यैकाधिपति- १०त्वं सर्वैर् अवश्याश्रयणीयत्वम् अर्थक्रियार्थिभिर् अन्यथातदनुपपत्तेस् त- द् एव लक्ष्मीः, निःश्रेयसाभ्युदयलक्ष्मीहेतुत्वात् तस्यांप्रभुत्वं सकलं प्रवादितिरस्कारित्वं तत्र शक्तिः सामर्थ्यं परमागमान्वितायुक्ति- स् तस्याः संप्रत्यपवादहेतुर् वाह्यः साधारणः कलिर् एवकालः सोऽ साधारणस् तु वक्तुर् वचनाशय एव, अन्तरंगस् तु स्तोतुःकलु- १५पाशय एव दर्शनमोहाक्रांतचेतः । सर्वत्र वाशब्द एव का- रार्थी द्रष्टव्यः पक्षान्तरसूचको वा, तेन कलिर् वा कालःक्षेत्रा- दिर् वा तथाविध इत्य् अवगम्यते । तथाचार्यस्य प्रवक्तुर्वचना- शयो वाऽनुष्ठानाशयो वेति ग्राह्यम् । तथा स्तोतुः कलुषाशयो वा जिज्ञासानुपपत्तिर् वा हेतुर् अय[? ]वादक इतिप्रतिपत्तव्यः ॥ २०कीदृशं पुनर् मदीयशासनम् इत्य् अभिधीयते — १७दयादमत्यागसमाधिनिष्ठं नयप्रमाणप्रकृतांजसार्थम् । अधृष्यमन्यैर् अखिलैः प्रवादै- र् जिन ! त्वदीयं मतम् अद्वितीयम् ॥ ६ ॥ ०५साकल्येन देशतो वा प्राणिहिंसातो विरतिर् दयाव्रतम् अनृ- तादिविरतेस् तत्रान्तर्भावात् । मनोज्ञामनोज्ञेन्द्रियविषयेषुराग- द्वेषविरतिर् दमः संयमः । वाह्याभ्यन्तरपरिग्रहत्यजनं त्यागः । पात्रदानं वा । प्रशस्तं ध्यानं शुक्ल्यं धर्म्यं वासमाधिः । दया च दमश् च त्यागश् च समाधिश् चेति द्वन्द्वेनिमित्तनैमित्तिक- १०भावनिबंधनः पूर्वोत्तरवचनक्रमः, दया हि निमित्तंदमस्य तस्यां सत्यां तदुपपत्तेः, दमश् च त्यागस्य, तस्मिन् सतितद्घट- नात्, त्यागश् च समाधेस् तस्मिन् सत्य् एवविक्षेपादिनिवृत्तिसिद्धे- र् एकाग्रस्य समाधिविशेषस्योपपत्तेः, अन्यथा तदनुपपत्तेः । तेषु दयादमत्यागसमाधिषु निष्ठा तत्परता यस्मिन् मते तत्त्वदीयं मतं १५शासनम् अद्वितीयम् एकम् एव सर्वाधिनायकम् इत्य् अर्थः । कुतोमदीयं मतम् ए- वं विधं सिद्धम् इति चेत् "नयप्रमाणप्रकृतांजसार्थम्"यस्मात्, नयौ च प्रमाणे च नयप्रमाणानीति द्वन्द्वे प्रमाणशब्दादभ्य- र्हितार्थाद् अपि नयशब्दस्याल्पाच्तरस्य छन्दोवशात्पूर्वनिपातो न विरुद्ध्यते । प्रकर्षेणसर्वदेशकालपुरुषपरिषदपेक्षालक्षणेन २०कृतो निश्चित इत्य् अर्थः । अंजसा परमार्थेन प्रणीतआंजसो ऽसं- भवद्बाधक इति भावः । अर्थो जीवादिर्द्रव्यपर्यायात्मा । नयप्र- १८माणैः प्रकृत आंजसो ऽर्थो ऽस्मिन्न् इतिनयप्रमाणप्रकृतांजसार्थं मतम् । नयप्रमाणैः सुनिश्चितासंभवद्बाधकविषयम् इत्यर्थः । तथाविधम् अपि कुतः सिद्धम् इति चेत् यस्माद् अधृष्यमन्यैरखिलैः प्रवादैर् इति निवेद्यते । दर्शनमोहोदयपरवशैःसर्वथैकान्तवा- ०५दिभिः प्रकल्पिता वादाः प्रवादाः सर्वथैकान्तवादास् तैरखिलैर् अ- खिलदेशकालपुरुषगतैर् अधृष्यम् अबाध्यम् इति निश्चयः । कस्मात् तैः कल्पिता वादा न पुनः परमार्थावभासिन इति चेत्, यस्मात् त्वदीयमताद् अन्ये वाह्याः सम्यगनेकान्तमताब्धेर् वाह्यामिथ्यैका- न्ता भवन्ति ते च कल्पितार्थाः प्रसिद्धास् तद्वादाः कथमिव १०परमार्थपथप्रस्थापकाः स्युर् यतस् तैर् अबाध्यंत्वदीयं मतं न स्यात्, न हि मिथ्याप्रवादैः सम्यग्वादो बाधितुं शक्यो ऽतिप्रसंगात् । ननु च द्रव्यार्थिकनयेन निश्चितो र्थो न पारमार्थिकोमदीय- मतस्य सिद्धः परेषां संभवद् बाधकत्वात्, पर्यायार्थिकनयैस् तु निश्चितार्थवत् । तथा हि — न जीवादिकद्रव्यम् एकम् अनपायिवा- १५स्तवं क्रमयौगपद्याभ्याम् अर्थक्रियाविरोधात् । न हिद्रव्यस्य दे- शकृतस् तावत् कश्चित् क्रमः संभवति निष्क्रियत्वात् तस्यदेशा- न्तरगमनायोगात्, सक्रियत्वे सर्वव्यापकत्वविरोधात् । नाऽपि कालकृतः शाश्वतिकत्वात् सकलकालव्यापित्वात् प्रतिनियत- कालत्वे नित्यत्वविरोधात् द्रव्यत्वाघटनात् । स्वयमक्रमस्य सह- २०कारिकारणक्रमापेक्षः क्रम इत्य् अप्य् असारं, सहकारिभ्यःकंचिद् अप्य् अ- तिशयमनासादयतस् तदपेक्षानुपपत्तेर् अतिप्रसंगात् । सहकारिकृत- म् उपकारम् आत्मसात् कुर्वतः कार्यत्वप्रसंगादनित्यत्वापत्तेः । यदि तु १९नित्यद्रव्यस्य कंचिद् अप्य् उपकारम् अकुर्वताम् अपिसहकारित्वम् उररीक्रि- यते तेन सह संभूय कार्यकरणशीलानाम् एवसहकारित्वव्यव- स्थितिर् इति मतं, तद् अपि न नित्यद्रव्यस्य क्रमः सिद्ध्येत् तस्याक्रमत्वात्; सहकारिणाम् एव क्रमवत्त्वात् । सहकार्यपेक्षः ०५क्रमो ऽपि द्रव्यस्यैवेति चेत् न, तस्याऽपि देशकृतस्यकालकृत- स्य वा विरोधात् । तथा क्रमेण सहकारिणम् अपेक्षमाणस्य कालभेदाद् अनित्यत्वप्रसंगात् कार्येणाऽपि क्रमेणापेक्षमाणस्य भेदापत्तेः सहकारिविशेषवत् ततो न क्रमः सर्वथाद्रव्यस्य संभवति । नाऽपि यौगपद्यं युगपद् एकस्मिन् समयेसकलार्थक्रिया- १०निष्पादनाद् द्वितीयसमयेऽनर्थक्रियाकारित्वेनाऽवस्तुत्वप्रसंगात्; निष्पादितनिष्पादनप्रसंगाद् वा । तद् एवं द्रव्यान्नित्यात्मकात् क्रम- यौगपद्ये निवर्तमाने स्वव्याप्याम् अर्थक्रियां निवर्तयतः, सा च निवर्त्तमाना वास्तवत्वम् इति व्यापकानुपलब्धेर् बाधिकायाः संभवान् नासंभवद्बाधकत्वं द्रव्यस्य सिद्धंसौगतानां । नाऽपि १५पर्यायस्य क्षणिकस्यासंभवद्बाधकत्वं सिद्ध्यति तत्राऽपिव्या- पकानुपलंभस्य बाधकस्य संभवात् । तथा हि — पर्यायो नवा- स्तवो ऽर्थक्रियानुपलंभात्, न तत्रार्थक्रियोपलंभःक्रमयौगप- द्यविरोधात्, न तत्र क्रमयौगपद्ये संभवतःपरिणामानुपल- ब्धेः, न तत्र परिणामो ऽस्तिपूर्वोत्तराकारव्यापिद्रव्यस्थितेर् अनु- २०पलब्धेः, न तत्र पूर्वोत्तराकारव्यापिद्रव्यस्थितिर् अस्तिप्रतिक्ष- णाम् उत्पादानन्तरं निरन्वयविनाशाभ्युपगमात् । न च तत्रक- स्यचित् कुतश्चिद् उत्पत्तिर् घटते, सति कारणेकार्यस्योत्पत्तौ क्ष- २०णभंगप्रसंगाद् असति कारणे कार्यस्योदयेविनष्टतमस्य भविष्य- त्तमस्य च कारणत्वप्रसंगस् तस्मिन्न् अप्य् असतिकार्यस्योदयात् । ए- तेन स्वकाले सति कारणे कार्यस्योत्पत्तिर् इति पक्षान्तरम् अप्यपा- स्तम् । कारणत्वेनाभिमतस्यापि स्वाकाले सत्त्वोपपत्तेः । त- ०५दित्थं नयनिश्चितो ऽर्थो न पारमार्थिकः शासनस्य संभ- वद्बाधकत्वात् तैमिरिकज्ञाननिश्चितेन्दुद्वयवत् । तथाप्रमाणप्रकृ- तो ऽप्य् अर्थो द्रव्यपर्यायात्मको नांजसः सिद्ध्येत्, तत एवतद्वत् स हि येनात्मना नित्यस् तेनैवात्मनाऽनित्यश् चेद् विरोधोबाधकः, स्वभावांतरेण चेद् वैयधिकरण्यं तस्य प्राप्तंपरस्परविरुद्धयोर् नि- १०त्यानित्यात्मनोर् एकाधिकरणत्वादर्शनात्, क्वचिद् देशे शीतोष्ण- स्पर्शवत्, तयोर् एकाश्रयत्वे वा युगपद् एकेनैवात्मनानित्यानित्यत्व- योः प्रसक्तेः संकरः स्यात् । येनात्मना नित्यत्वम् इष्टंतेना- नित्यत्वम् एव, येन चानित्यत्वं तेन नित्यत्वम् एवेतिपरस्परगम- नात् व्यतिकरः, अयम् आत्मानं पुरोधाय नित्यो जीवादिर् अर्थःक- १५थ्यते, एवं पुरोधायानित्यस् तौ यदि ततो ऽर्थान्तरभूतौ, तदा वस्तुत्रयप्रसंगस् तानि च त्रीण्य् अपि वस्तूनि यदिनित्यानित्या- त्मकानि तदा प्रत्येकं पुनर् वस्तुत्रयप्रसंग इतिअनवस्था स्यात् । वदि तु तौ ततो ऽनर्थान्तरभूतौ तदा जीवाद्यर्थ एव नतावा- त् प्रानौ तदभावात् ते न नित्याश् चानित्याश् चव्यवस्थाप्यंते, ताव् एव २०चात्मानौ न ततो ऽपरो ऽर्थः स्याद् इति कस्यचिन् नित्यत्वा- नित्यत्वे तौ साधयेयातां । स्वयम् एव तौ नित्यानित्यौस्याता- म् इति चेत् तर्हि यो नित्यः स नित्य एव, यश् चानित्यः सोऽनित्य २१एवेति प्राप्तं, तथा चोभयदोषानुषंगःसर्वथैकस्य नित्यानि- त्यात्मकस्यार्थस्याप्रतिपत्तिप्रसंगः । दृश्यतयोपगम्यमानस्य च सर्वथाऽनुपलब्धेर् अभावप्रसंगः तस्यादृश्यत्वप्रतिज्ञानेचादृष्टप- रिकल्पनम् अनुषज्येतेत्य् अनेकबाधकोपनिपातान् नप्रमाणनिश्चितो ऽर्थः ०५शासनस्यांजसः स्याद् आकाशकेशपाशप्रकाशकशासनवत् तैमि- रिकस्येति कथं नयप्रमाणप्रकृतांजसार्थं मदीयं मतंस्याद् अन्यैर् अ- खिलैः प्रवादैः सौगतादिभिः धृष्यमाणत्वात् तत एव नदयाद- मत्यागसमाधिनिष्ठं सर्वथा संभवद्बाधकस्य जीवस्यदयादिचतु- ष्टयासंभवात् तद्विषयस्य दयादिनिष्ठत्वासिद्धेस् तथा चकथम् अद्विती- १०यं सर्वाधिनायकत्वानुपपत्तेर् इति वदन्तम् इव भगवन्तंविज्ञापयन्तः सूरयः प्रमाणनयप्रकृतं पारमार्थिकं तत्त्वंसाधयन्ति — अभेदभेदात्मकम् अर्थतत्त्वं तव स्वतंत्रान्यतरत् खपुष्पम् । अवृत्तिमत्त्वात् समवायवृत्तेः १५संसर्गहानेः सकलार्थहानिः ॥ ७ ॥ अभेदो द्रव्यं नित्यं, भेदः पर्यायोनश्वरस् ता- व् आत्मानौ, यस्य तदभेदभेदात्मकं तव भगवन् !अर्थतत्त्वं जीवादितत्त्वं परस्परतंत्रं द्रव्यपर्यायात्मकम् इत्यभिधीयते । अ- स्माभिर् न पुनः स्वतंत्रं द्रव्यमात्रं पर्यायमात्रं वातदुभयं वा २०विज्ञाप्यते तस्य खपुष्पसमत्वात्, प्रतिपादितक्रमेणसंभवद्बाध- कस्यास्माभिर् अपीष्टत्वाद् वास्तवत्वानुपपत्तेः, नयप्रकृतस्य प्रमाण- २२प्रकृतस्य वाऽर्थस्य जात्यंतरस्यांजसस्यत्वदीयमतेन स्वीकर- णाद् अद्वितीयम् एव तवेदं मतम् अनुमन्यामहे ततो ऽन्यैरखिलैः प्रवा- दैर् अधृष्यत्वसिद्धेः । ननु चास्तु स्वतंत्रं द्रव्यम् एकं खपुष्पसमानंप्रत्यक्षादिभि- ०५र् अनुपलभ्यमानत्वात् क्षणिकपर्यायवत् । तदुभयं तुद्रव्यगुणकर्म- सामान्यविशेषसमवायरूपं सत्तत्त्वं प्रागभावादिरूपमेवासत्तत्वं स्वतंत्रम् अपि कथं खपुष्पवत् स्यात् तस्यद्रव्यादिप्रत्ययविशेषवि- षयस्य सकलजनप्रसिद्धत्वाद् इति चेत्, नकारणकार्यद्रव्ययोर् गु- णगुणिनोः कर्मतद्वतोः सामान्यतद्वतोर् विशेष्यतद्वतोश् चपदार्था- १०न्तरतया स्वतंत्रयोः सकृद् अप्य् अप्रतीयमानत्वात्सर्वदावयवावय- व्यात्मनोर् गुणगुण्यात्मनः कर्मतद्वदात्मनःसामान्यविशेषात्मन- श् चार्थतत्त्वस्य जात्यन्तरस्य प्रत्यक्षादितः सर्वस्यनिर्बाधम् अव- भासनात् । स्यान् मतं, परस्परनिरपेक्षम् अपि पदार्थपंचकंसमवायसंबंध- १५विशेषवशात् परस्परात्मकम् इवावभासतेऽनुत्पन्नब्रह्मतुलाख्य- ज्ञानातिशयानाम् अस्मादृशाम् इति । तद् अपि न परीक्षाक्षमंसर्वदाऽ- स्मदादिप्रत्यक्षस्य भ्रांतत्वप्रसंगात् तत्पूर्वकानुमानादेरपि प्रमाण- त्वानुपपत्तेर् अप्रमाणभूतात् प्रत्ययविशेषात्पदार्थविषयव्यवस्थापना- संभवात्; तथाऽभ्युपगम्यापिपर्यनुयुंज्महे — अवयवावयव्यादीनां २०समवायवृत्तिः पदार्थान्तरभूता ततो वृत्तिमती वा स्यादवृत्तिमती वा ? न तावत् प्रथमकल्पना संभवति तत्र संयोगवृत्तेरयोगात् तस्या द्रव्यवृत्तित्वाद् अन्यथा गुणत्ववद्विरोधात् । नसमवायवृत्तिः समवा- २३न्तरस्यानभ्युपगमात् विशेषणभावस्यापिवृत्तिविशेषस्य स्वतं- त्रपदार्थाविषयत्वाद् अन्यथातिप्रसंगात् सह्यविंध्ययोर् अपिविशेषण- विशेष्यभावानुषंगात् । संभवंती वा विशेषणभावाख्यावृत्तिमद्भ्यो ऽर्थान्तरभूता वृत्त्यंतरानपेक्षा न जाघटीतितद्वृत्त्यंतरापेक्षायाम् अ- ०५नवस्थानात् कृतो वृत्तिर् व्यवस्थिता स्याद् ययासमवायवृत्तिर् वृत्ति- म् अतीष्यते । यदि पुनर् अवृत्तिमतीति कल्पनोत्तरासमाश्रियते तदाप्य् अवृत्तिमत्त्वात् समवायवृत्तेः संसर्गहानिःसकलार्थानाम् अ- नुषज्यमाणा महेश्वरेणापि निवारयितुम् अशक्यापनीपद्येत । यदि पुनः स्वभावतः सिद्धः संसर्गः पदार्थानाम् अन्योन्यं नपुनर् असं- १०स्पृष्टानां समवायवृत्त्या संसर्गः क्रियतेसमवायसमवायिवद् इति मतांतरम् उररीक्रियते तदा स्याद्वादशासनम् एवाश्रितं स्यात्स्वभा- वत एव द्रव्यस्य गुणकर्मसामान्यविशेषैर् अशेषैःकथंचित् तादा- त्म्यम् अनुभवतः प्रत्ययविशेषवशाद् इदं द्रव्यम् अयंगुणः कर्मेदं सा- मान्यम् एतत् विशेषो ऽसौ तत्संबंधो ऽयमविष्वग्भावलक्षणः सम- १५वाय इत्य् अपोद्धृत्य सन्नयनिबंधनो व्यवहारः प्रवर्त्ततैत्य् अनेका- न्तमतस्य प्रसिद्धत्वात्; स्वतः परतो वार्थानांसंसर्गहानौ तु सक- लार्थहानिः स्यात्, ताम् अनिच्छद्भिर् अभेदभेदात्मकमर्थतत्त्वं परस्प- रतंत्रं प्रातीतिकम् अर्थक्रियासमर्थं सामर्थ्यात्समर्थनीयं तत्र विरो- धानवकाशात् तत्रोपलंभस्याबाधितस्य सद्भावात्तद्विरोधस्य वाऽनु- २०पलंभलक्षणत्वात् सुदूरम् अप्य् अनुसृत्य सर्वैः प्रवादिभिरेकस्य वस्तुनो ऽनेकात्मकस्याश्रयणीयत्वात् योगैः सामान्यविशेषवत्; न हिसा- मान्यविशेष एकएवानुवृत्तिव्यावृत्तिप्रत्ययजननशक्तिद्वयात्मको २४नेष्यते । स्वसमयविरोधाच् छक्तिद्वयस्य ततो भेदोनैको ऽनेका- त्मक इति चेत् न, तस्य निःशक्तिकत्वप्रसंगात् । तस्य शक्ति- भ्यां संबंधान् न निःशक्तिकत्वम् इति चेत् तर्हि तस्यशक्तिभ्यां संबन्धौ स्वीकुर्वतः कथम् अनेकात्मकं न स्यात् । तत्संबंधयोर् अपि ०५ततो भेदे तद् एव निःशक्तिकत्वं ताभ्याम् अपि संबंधाभ्यामन्ययो संबंधयोः परिकल्पनायाम् अनवस्था स्यात् । तद् असत्, तत्संबंधात्म- कत्वोपगमे शक्तिद्वयात्मकत्वम् एवास्तु शक्तिशक्तिमतोःकंथचित्ता- दात्म्यात्, तथा च सामान्यविशेष एवैको ऽनेकान्तात्मके वस्तुनि विरोधं निरुणद्धीति किं नश्चिन्तया, तद्वद्वैयधिकरण्यादिदूषण- १०कदंबकम् अपि ततो दूरतरं समुत्सारयतीति कृतंप्रयासेन; स्वयं मेच- कज्ञानं चैकान् एकं प्रतिभासं स्वीकुर्वत् कथम् अनेकान्तंनिरसितुम् उ- त्सहते सचेतनः । मेचकज्ञानम् एवेत्य् अयुक्तं तस्यनानास्वभावत्वा- भावे ऽनेकार्थग्राहित्वविरोधात्; नानार्थग्रहणस्वभावो ऽप्येक एव त- स्येष्यते सत्त्वादिसामान्यस्य नानाव्यक्तिव्यापकैकस्वभाववदिति १५चेत्, न तथा परं प्रति साध्यत्वात् सत्प्रत्ययाविशेषाद्विशेषलिंगा- भावाद् एकं सत्त्वसामान्यम् एकस्वभावं सिद्धं तद्वत्द्रव्यादिसामान्यं द्रव्यत्वादिप्रत्ययाविशेषाद् विशेषलिंगाभावाच् चेतिचेत्, न सत्त्व- द्रव्यादिप्रत्ययस्य प्रतिव्यक्तिविशेषसिद्धेःसत्त्वद्रव्यत्वादिसामा- न्यस्यानेकत्वव्यवस्थितेः । इदं च सद् इदं च सद् इतिसमाने इमे २०सती तथा समाने द्रव्ये गुणौ कर्मणी चेति समानप्रत्ययात्समान- परिणामस्य प्रतिव्यक्ति व्यक्त्यंतरापेक्षया प्रभिद्यमानस्यनिर्वाध- बोधाधिरूढत्वात् । तत्रवृत्तिविकल्पानवस्थादिबाधकस्यानवका- २५शात् । ननु च समानपरिणामेषु समानप्रत्ययात्समानपरिणामा- न्तरप्रसंगाद् अनवस्थानं बाधकम् अत्रास्त्य् एवेति चेत्, नसमानपरिणा- मानां व्यक्तिष्व् एव स्वेष्व् अपि समानप्रत्ययहेतुत्वादनवस्थानुपपत्तेः स्वयं व्यक्तयस् तथा समानप्रत्ययहेतवः सन्तु किंसमानपरिणा- ०५मकल्पनयेत्य् अनालोच्याभिधानं कर्कादिव्यक्तीनाम् अपि गोप्र- त्ययहेतुत्वप्रसंगात् । गोरूपेण समानेन परिणता एवखंडादि- व्यक्तयो गोप्रत्ययहेतव इति चेत् सिद्धः समानपरिणामोऽनेकः प्रतिव्यक्तिभेदप्रतीतेः । न हि गोत्वं सामान्यम् एकंतत्समवा- यात् खंडादिषु गोप्रत्यय इति व्यवस्थापयितुं शक्यंकर्कादि- १०व्यक्तिष्व् अपि तत्समवायात् गोप्रत्ययत्वप्रसंगात् । न चसर्व- व्यक्तिभ्यः सामान्यस्य समवायस्य च सर्वथा भेदे ऽपिखंडा- दिव्यक्तिष्व् एव गोत्वं समवैति न पुनः कर्कादिष्व् इतियुक्तम् उ- त्पश्यामः । इह खंडादिषु गोत्वम् इति सत्प्रत्ययाविशेषात्खंडा- दिष्व् एव गोत्वस्य समवाय इति चेत्, तर्हि नानासमवायः १५सिद्धः प्रतिसमवायिप्रत्ययभेदात् समवायिन एव नानासम- वायस् तत्त्वंभावेन व्याख्यातम् इति वचनात् । सत्तावत्तदेकत्वप्र- सिद्धेर् इति चेत्, नैकस्य निरंशस्यदेशकालभिन्नसमवायिषु सर्वथेहेदम् इति प्रत्ययहेतुत्वविरोधात् संयोगस्याप्येकस्यानंशस्य संयोगिषु संयुक्तप्रत्ययहेतुत्वप्रसंगात् तथा चैक एवसमवा- २०यवत् संयोगः स्याद् इति यौगमतम् अतिवर्त्तते । यदि पुनर्नाना संयोगः शिथिलः संयोगो निविडः संयोग इति विशेषप्रत्य- यान् मन्यध्वं तदा नित्यः समवायो नश्वरः समवाय इतिप्रत्य- २६यभेदात् समवायो ऽपि । नानावस्तुसमवायिनोरनित्यत्वात् स चेत् तर्हि संयोगिनोः शिथिलत्वात् संयोगः शिथिल इत्य् उपच- र्यतां परमार्थतस् तस्य निविडरूपत्वात् । नानासंयोगोयुतसिद्ध- द्रव्याश्रयत्वाद् विभागवद् इति चेत् न, द्रव्यत्वेनपरस्परव्यभिचा- ०५रात् तथा समवायो नाना स्यादयुतसिद्धावयवावयविद्रव्याश्र- यत्वाद् द्वित्वसंख्यावद् इत्य् अपि शक्यं वक्तुं । समवायस्यानाश्रय- त्वाद् असिद्धो त्र हेतुर् इति चेत्, न षण्णाम् आश्रितत्वमन्यत्र नित्य- द्रव्येभ्य इति वचनविरोधात् । समवायस्योपचारादाश्रितत्व- सिद्धेस् तथा वचनं न विरुध्यते समवायिनोः सतोरेवेहेदम् इ- १०ति प्रत्ययोत्पादस्योपचारकारणस्य सद्भावाद् इति चेत्, कथ- म् एवम् अवयवावयविद्रव्याश्रयत्वात् इति हेतुर् असिद्धः स्यात्तस्यो- पचारानुपचारानपेक्षयाश्रितत्वात्, सामान्यरूपत्वेनाभिधानात् । परमार्थतो ऽनाश्रितत्वे ऽपि एतद् अभिधीयते — नानासमवायोनाश्रि- तत्वात् परमाणुवद् इति । नन्व् एवं वदन् समवायं धर्मिणंप्रप- १५द्यते चेत्, कालात्ययापदिष्टो हेतुश् चधर्मिग्राहकप्रमाणबाधि- तत्वात् । न प्रतिपद्यते चेद् आश्रयासिद्धो हेतुर् इत्य् अपि नदूषणं समवायस्याविष्वग्भावसंबंधस्य कदाचित्तादात्म्यलक्षणस्यैक- त्वानेकत्वाभ्यां विवादापन्नस्य प्रतिपत्तेर्धार्मिग्राहकप्रमाणान्त- रैकत्वासिद्धेस् तेन बाधाऽनुपपत्तेःकालात्ययापदिष्टत्वायोगात् । २०तदेकत्वसाधनस्य च प्रमाणस्यासंभवात् स्वप्रत्ययविशेषस्यासि- द्धत्वात् । कालादिभिर् व्यभिचार इति चेत्, न तेषाम् अपिकथंचि- न् नानात्वसिद्धेः कालस्यासंख्येयद्रव्यत्वात्स्वस्यानंतप्रदेशत्वात् २७स्याद्वादिनां मते, ततः समवायस्य नानात्वप्रसिद्धौच सामान्यस्य प्रतिव्यक्तिसमवायं कथंचित्तादात्म्यं प्रतिपद्यमानस्यनानात्व- सिद्धिर् नानाव्यक्तितादाम्येन स्थितत्वात् व्यक्तिस्वरूपवद् इति नैकस्वभावं सामान्यं सत्वं द्रव्यत्वादि वा परम् अपरंवा सिद्धं यत ०५इदम् उच्यते नानाव्यक्तिव्यापकैकस्वभावसामान्यवन्नानार्थग्रा- हकैकस्वभावं मेचकज्ञानम् इति । नानास्वभावत्वे तुमेचकज्ञा- नस्यैकस्य तद् एवाभेदभेदात्मकं वस्त्वेकानेकात्मकंनित्या- नित्यात्मकं साधयेत्सकलविरोधादिबाधकपरिहरणसमर्थत्वात् सौगतानां च वेद्यवेदकाकारसंवेदनं तत्त्वम् एकमनेकात्मकं साध- १०यत्य् एव । वेद्यवेदकाकारयोर् भ्रांतत्वे संवेदनस्यचाभ्रान्तत्वे भ्रान्तेतराकारम् एकं संवेदनं, भ्रान्ताकारस्य चासत्त्वेसंविदा- कारस्याभ्रान्तस्य सत्वे सदसदात्मकम् एकं, विषयाकारविवे- कितया परोक्षत्वे संविद्रूपतया प्रत्यक्षत्वेपरोक्षप्रत्यक्षाकारम् एकं विज्ञानं कथं निराकुर्युः यतो ऽनेकान्तासिद्धिर् न भवेत् । कपि- १५लानां तु तत्त्वम् एकं प्रधानं सत्त्वरजस्तमोरूपंसर्वथैकान्तकल्प- नां शिथिलयत्य् एव । तस्यैवानेकान्तात्मकवस्तुसाधनत्वात् । सत्त्वादीनाम् एव साम्यमापन्नानां विनिवृत्तप्रसवप्रवृत्तीनांप्रधान- व्यपदेशात् । तद्व्यतिरिक्तप्रधानाभावान् नैकमनेकान्तात्मकम् इति चेत् नैकप्रधानाभ्युपगमविरोधात् प्रधानत्रयसिद्धेः । सर्वसं- २०हारकाले प्रधानम् एकम् एवाद्वयं न सत्त्वादयस् तेषांतत्रैव लीनत्वा- द् इति चेत्, कथम् एकस्माद् अनेकाकारं महत्प्रजायेतातिप्रसंगात् । सुखदुःखमोहशक्तित्रयात्मकत्वात् प्रधानस्य न दोष इतिचेत्, २८कथम् एवम् एकम् अनेकशक्त्यात्मकं प्रधानमनेकांतं न साधयेत्, भो- क्तृत्वाद्यनेकधर्मात्मकपुरुषतत्त्ववत् । भोक्तृत्वादीनामवास्तवत्वा- द् एकम् एव पुरुषतत्त्वम् इति चेत्, न वास्तवावास्तत्वसिद्धेः, पुरु- षस्यानेकत्वानिवृत्तेः । तस्यावास्तवधर्मरूपेणासत्वान्नानेकरूप- ०५त्वम् इति चेत्, न तथा सदसदात्मकतयाऽनेकांतसिद्धेः । ततो भगवतो जिनस्य मतम् अद्वितीयम् एवनयप्रमाणप्रकृतांजसार्थत्वा- द् अखिलैः प्रवादैर् अधृष्यत्वाच् च व्यवस्थितम् इतियोगमतस्यैव स- दोषत्वसिद्धेर् अखिलार्थहानिर् व्यवतिष्ठते । इतश् च सकलार्थहानिर् यौगानाम् इत्य् अभिधीयते — १०भावेषु नित्येषु विकारहाने- र् न कारकव्यापृतकार्ययुक्तिः । न बंधभोगौ न च तद्विमोक्षः, समंतदोषं मतम् अन्यदीयं ॥ ८ ॥ दिक्कालाकाशात्ममनःसु पृथिव्यादिपरमाणुद्र- १५व्येषु परममहत्वादिषु गुणेषु सामान्यविशेषसमवायेषु चभा- वेषु नित्येष्व् एवाभ्यनुज्ञायमानेषु विकारस्य विक्रियाख्यस्य हानिः प्रसज्येत । विकारहानेश् च न कारकव्यापृतंकर्त्रादिका- रकव्यापारस्य विक्रियापाये संभवाऽभावात् । क्रियाविष्टंद्रव्यं कारकम् इति प्रसिद्धेः । कारकव्यापृताभावे च न कार्यंद्रव्यगु- २०णकर्मलक्षणं प्रतिष्ठाम् इयर्त्तीति । तदप्रतिष्ठायाञ् चन युक्तिर् अनु- मानलक्षणानुबंधे साध्ये तस्याः कार्यलिंगत्वात्तदभावे चाघ- २९टनात् । बंधाभावे च भोगः फलं न भवति । नाऽपि तद्विमो- क्षस् तस्य बंधपूर्वकत्वाद् इति सकलार्थहानिः स्यात् । भावानाम् अ- भावे प्रागभावादीनाम् अप्य् असंभवात् तेषां भावविशेषणत्वात्स्वतंत्रा- णाम् अनुपपत्तेः । एतेन मीमांसकानां शब्दात्मादिषुभावेषु ०५नित्येषु प्रतिज्ञायमानेषु विकारहानेःकारकव्यापृतकार्ययुक्तिः प्रत्याख्याता, तन्निबन्धनौ च बंधभोगौ, तद्विमोक्षश्चानंदात्म- कब्रह्मपदावाप्तिरूपः प्रतिक्षिप्तः । कथंचिदभेदभेदात्मकत्वे तु भावानाम् अभ्युपगम्यमाने स्याद्वादाश्रयणंनित्यत्वैकांतविरोध- प्रातीतिकम् अवश्यं भावि दुर्निवारं इति समंतदोषमन्यदीयम् अन्येषां १०वैशेषिकनैयायिकानां मीमांसकानाञ् चेदम् अन्यदीयम् इतिप्रति- पत्तव्यम् । अथवा कापिलानां मतम् अन्यदीयंसमन्तदोषम् इति व्याख्यायते समन्तात् देशकालपुरुषविशेषापेक्षयाऽपि सर्वतः प्रत्यक्षानुमेयागमगम्येषु सर्वेषु स्थानेषु सर्वत इतिग्राह्यं सम- न्तात् दोषो बाधकं प्रमाणं यस्मिंस् तत्समन्तदोषं, तच्चान्यदीयं १५मतं न त्वदीयम् इति भावः । कथं तत्समन्तदोषम् इत्युच्यते ? यस्माद् भावेषु नित्येषु निरतिशयेषु पुरुषेषु सांख्यैरभिमतेषु निर्विकारस्य पुरुषार्थप्रधानप्रवृत्तिविक्रियालक्षणस्यहानिः प्र- सज्यते । स हि प्रधानस्य विकारो महदादिः पुरुषार्थोभवतु, पुरुषस्य कंचिद् उपकारं करोति वा न वा ? यदि करोति तदा २०पुरुषाद् अनर्थान्तरम् अर्थान्तरं वा । ततो ऽनर्थान्तरंचेत्, तम् एव क- रोतीति कार्यत्वप्रसंगात् पुंसो नित्यत्वविरोधः । ततोऽर्थान्तरं चेन् न तस्य किंचित् कृतं स्याद् इति कथं पुरुषार्थःप्रकृतेर् विकारः ३०स्यात् । प्रकृतिकृतविकारोपकारेणपुरुषस्योपकारान्तरकरणे ऽ- नवस्थाप्रसंगात् । ननु च न पुरुषस्योपकारकरणान्महदादिः पुरु- षार्थो ऽभिधीयते सांख्यैर् नापि पुरुषेणतस्योपकारसंपादनात् सर्वथा तस्योदासीनत्वात् । किं तर्हि पुरुषेण दर्शनात् पुरु- ०५षार्थः कथ्यते । पुरुषभोग्यत्वाद् इति केचित्, ते ऽपि नपरीक्ष- काः सर्वथोदासीनस्य पुरुषस्य भोक्तृत्वविरोधात् दृश्यस्यभोग्य- त्वायोगात् । ननु च वीतरागसर्वज्ञदर्शनवत् पुंसो विषय- दर्शनं भोगः, स च शुद्धस्यात्मनः संभवत्य् एवरागादिमलाभा- वात् । तद्विषयस्य च भोग्यत्वं निर्विषयस्य भोगासंभवात्ततः १०सर्वथोदासीनस्यापि भोक्तृत्वं न विरुध्यते इति चेत् न, परि- णामित्वप्रसंगात् स्याद्वादिनः सर्वज्ञवत्, स हि सर्वज्ञःपूर्वोत्त- रस्वभावत्यागोत्पादनाभ्याम् अवस्थितस्वभावः परिणाम्य् एवसर्वा- र्थान् पश्यति नान्यथा, प्रतिसमयं दृश्यस्य परिणामित्वेद्रष्टुर् अप- रिणामान् उपपत्तेर् न चायं दृश्यम् अर्थम् अपरिणामिनं वक्तुंसमर्थः स्वयं १५तस्य परिणामित्वोपगमात् सिद्धांतपरित्यागानुषंगात् । चि- च्छक्तिर् अपरिणामिन्येति चेत्, नादर्शितविषयत्वत्यागेनदर्शित- विषयत्वोपादानाद् अवस्थिताया एव तस्याः परिणामित्वसिद्धेः । एतेनाप्रतिसंक्रमत्वाद् अपरिणामिनी चेतनेति प्रत्युक्तं । प्रति- विषयं दर्शितविषयत्वे संक्रमात् तथा बुद्धेर् एवप्रतिसंक्रमो न तु २०चिच्छक्तेर् इति चेत्, व बुद्धेर् अप्य् अप्रतिसंक्रमप्रसंगात्विषयस्यैव प्रतिसंक्रमप्रसंगात्, बुद्ध्यावसीयमानस्य विषयस्यप्रतिसंक्रमे बुद्धेः कथम् अप्रतिसंक्रम इति चेत्, तर्हि बुद्धेःप्रतिदर्शि- ३१कायाः प्रतिसंक्रमे तद्विषयस्य चितिशक्तिः कथमप्रतिसंक्र- मेति चिन्त्यं, यथैव हि विषयं प्रतिनियतं दर्शयन्तीबुद्धि- श् चितिशक्तये संक्रामति तथा क्रमेण चितिशक्तिर् अपिपश्यंती विशेषाभावात कथम् अन्यथा क्रमेणा दर्शितविषया स्यात् । चि- ०५च्छक्तिर् अप्रतिसंक्रमैव सर्वदा शुद्धत्वाद् इति चेत्, नशुद्धात्मनो- ऽपि स्वशुद्धपरिणामं प्रतिसंक्रमाविरोधात्तत्राशुद्धपरिणामसंक्र- मस्यैवासंभवात् । शुद्धपरिणामेनापि चितिशक्तिरप्रतिसंक्र- मानं तत्वाद् इति चेत्, न प्रकृत्या व्यभिचारात् । सा ऽपि ह्यनंता सांतत्वेऽपि नित्यत्वविरोधात् । प्रकृतेर्महदादिपरिणामसद्भावा- १०त् प्रतिसंक्रमः सिद्धयेन् न पुनश् चिच्छक्तेर् अपरिणामित्वादिति चेत्, न तस्या अपि दृश्यदर्शनपरिणामसद्भावसिद्धेः । एतेन चि- च्छक्तेर् अप्रतिसंक्रमे साध्ये परिणामरहितत्वे सत्यनंतत्वाद् इति हेतोर् असिद्धत्वं व्यवस्थापितम् । स्यान् मतं, चिच्छाक्तिर् अपरिणामिन्य् अप्रतिसंक्रमाशुद्धत्वे सत्य् अ- १५नंतत्वात् परसंग्रहविषयसत्तावद् इति । तद् अप्य् असत् । सत्ताया गु- णीभूतपरिणामसंक्रमाया एव परसंग्रहविषयायाः स्याद्वादिभिर् अ- भीष्टत्वात् साध्यसमत्वाद् उदाहरणस्य । न हिनिराकृतपरिणा- मसंक्रमं किंचिद् द्रव्यं द्रव्यार्थिकनयं प्रत्यापयतिदुर्नयत्वप्रसंगात् ब्रह्मवादवत् । नाऽपि स्वपरिणामभिन्नमुपचरितपरिणामसंक्र- २०मम् उररीक्रियते, यतस् तदुदाहरणीकृत्य चिच्छक्तिस् तथाविधा साध्येति । ननु च परेषां दृश्यस्य द्रष्टुर् अत्यंतभेदात्दृश्ये परिणा- मिनि प्रतिसंक्रमो द्रष्टुर् इति चिच्छाक्तिलक्षणे शुद्धात्मनिउप- ३२चर्यते तयोः संसर्गाश् चेतनस्यदर्शितविषयत्वोपगमात् ततो न परमार्थतो परिणामप्रतिसंक्रमं तं प्रनिषेद्धुम् उचितमिति चेत् तर्हि दर्शितविषयत्वम् यो ऽचरितत्वे दर्शनम् अनुपचरितमात्मनः प्रसज्येत, अथ दर्शनभेदस् तत्रोपचरित एव भिन्नस्यदर्शनस्य ०५दृशिशक्तिरूपस्य वास्तवत्वाद् इति मतं तद् अपि न सम्यक् । दृशि- शक्तेः स्वभावभेदम् अन्तरेण नानाविधदृश्यदर्शनविरोधात्तद्द- र्शितविषयस्वभावभेदस्य पारमार्थिकस्यैव सिद्धेः । स्यान् मतं चिच्छक्तेर् एक एवाभिन्नः स्वभावोऽभ्युपगम्यते ऽ- स्माभिर् येन यो यदा यत्र यथा दृश्यपरिणामोबुद्धयाध्यवसीयते १०तं तदा तत्र तथा पश्यतीति दर्शितविषयत्वे पि तस्याःप्रतिविषयं न स्वभावभेद इति । तद् अप्य् असंभाव्यं, तथा बुद्धेरप्य् एकस्वभावत्वप्र- संगात् । शक्यं हि वक्तुं बुद्धेर् एक एव क्रमभाव्यनेकविषयव्यवसा- यस्वभावो येन यथाकालं यथादेशं यथाप्रकारं चविषयम् अ- ध्यवस्यतीति व किंचिद् अनेकस्वभावं सिध्येत्तथेन्द्रियमनोऽहंका- १५राणाम् अपिविषयालोचनसंकल्पनाभिमननैकस्वभावत्वप्रसंगात् । तन्मात्रभूतानाम् अपिनानास्वकार्यकरणैकस्वभावत्वोपपत्तेः । कस्यचिद् अनेकशो ऽनेककार्यहेतोर् अनेकक्रियाशाक्तिस्वभावत्वेचि- च्छक्तेर् अपि नानादृश्यदर्शनक्रियास्वभावनानात्वं कथमपा- क्रियते । तथा च न चिच्छक्तिर् निरतिशयैकनित्यस्वभावा २०सिध्यति तत्र दर्शितविषया यतस् तदर्थोबहुधाऽनेकविकारो महदादिः स्याद् इति नित्येषु भावेषु प्रकृतिपुरुषेषुविकारहानिः सिद्धा । विकारहानेश् च न कारकव्यापृतकार्ययुक्तिः । करोति ३३इति कारकं कर्तृप्रधानं तस्य व्यापृतं व्यापारः, कार्यं महदादि व्यक्तं, युक्तिर्योगः संबंधः संसर्गः कारकव्यापृतं चकार्यं च ताभ्यां युक्तिः पुरुषस्य संसर्गो न स्यात् । तथाकारकत्वेनाभि- मतं प्रधानं न महदादिकार्यकारि निर्व्यापारत्वात्पुरुषवत् । ०५निर्व्यापारं तत् सर्वथाविक्रियाशून्यत्वात् तद्वत् । विकाररहितं प्रधानं नित्यत्वाद् आत्मवद् इति न कारकव्यापृतकार्ययोर्व्यवस्था । तदभावे च न ताभ्यां युक्तिः पुरुषस्य सिद्ध्येत्, तदसिद्धौ च न बंधभोगौ स्यातां मुक्तात्मवत्, प्रधानव्यापारकार्यायोगे हि न धर्माधर्माभ्यां प्रकृतेर् बंधः संभवति, तदसंभवे च न तत्फलं १०सुखदुःखं यस्य भोगे दर्शनं पुरुषस्य स्यात् तदभावेन तद्वि- मोक्षः प्रधानस्य सिद्ध्येद् बंधाभावे मोक्षानुपपत्तेः, बंधपूर्वकत्वा- द् विमोक्षस्येति समंतदोषं मतम् अन्यदीयं सिद्धम् । "स्यान्मतं नित्येष्व् अप्य् आत्मादिषु भावेषु स्वभावत एव विकारः सिद्ध्येत् ततः कारकव्यापारः कार्यं च तद्युक्तिश् चोपपद्यते इतिसकल- १५दोषासंभव एवेति तद् अपि न परीक्षाक्षमम् इत्य् आहुः — अहेतुकत्वं प्रथितः स्वभाव- स् तस्मिन् क्रियाकारकविभ्रमः स्यात् । आबालसिद्धेर् विविधार्थसिद्धि- र् वादान्तरं किं तद् असूयतां ते ॥ ९ ॥ २०स्वभाववादी तावद् एवं प्रष्टव्यः — किम् अयं स्वभावो निर्हेतुकत्वं प्रथितः? किम् उत आबालसिद्धेर्विविधार्थसिद्धिर् इति ? ३४निर्हेतुकत्वं प्रथितः स्वभाव इति चेत्, तर्हिज्ञप्त्युत्पत्तिलक्ष- णायाः क्रियायाः प्रतीयमानाया विभ्रमः स्यात् स्वभावत एव भावानां ज्ञानाद् आविर्भावाच् चान्यथा निर्हेतुकत्वासिद्धेः । क्रिया- विभ्रमे च कारकस्य सकलस्य प्रतिभासमानस्य विभ्रमो ०५भवेत्, क्रियाविशिष्टस्य द्रव्यस्य कारकत्वप्रसिद्धेःक्रियायाः कारकानुपपत्तेः । न च क्रियाकारकविभ्रमःस्वभाववादिभि- र् अभ्युपगंतुं युक्तो वादान्तरप्रसंगात् । अस्तुसर्वविभ्रमैकान्तो वादान्तरम् इति चेत्, तर्हि विभ्रमे किम् अविभ्रमो विभ्रमो वा स्यात् ? यद्य् अविभ्रमस् तदा न विभ्रमैकांतः सिध्येत् तत्राऽपि वि- १०भ्रमे सर्वत्राभ्रान्तिसिद्धिः सर्वत्र विभ्रमे विभ्रमस्यसर्ववास्तव- स्वरूपत्वात् ततो वादान्तरं किं तद् असूयतां ते तवभगवतः स्या- द्वादभानोः असूयतां विद्विषां विभ्रमैकान्तस्यापि वादान्तर- स्यासंभवान् न किंचिद् वादान्तरम् अस्तीति वाक्यार्थः । अथना- हेतुत्वं प्रथितः स्वभावो ऽभ्युपगम्यते किं त्वाबालसिद्धेर् विविधा- १५र्थसिद्धिः प्रथितः स्वभाव इति निगद्यते तर्हिसैवाबालसिद्धे- र् निर्णीतिर् नित्याद्यैकां तवादाश्रयणे न संभवति यतःसर्वेषाम् अर्था- नां कार्याणां कारणानां वा सिद्धिः स्यात् । न च प्रत्यक्षा- दिप्रमाणतो विविधार्थसिद्धेर् असंभवे परेषां पर्यनुयोगेस्वभाव- वादाव् अलंबनं युक्तम् अतिप्रसंगात् । प्रत्यक्षादिप्रमाणसामर्थ्यात् वि- २०विधार्थसिद्धिः स्वभाव इति वचने कथमिवस्वभावैकांतवादः सिध्येत् । स्वभावस्य स्वभावत एव व्यवस्थितेस् तस्यप्रत्यक्षा- दिप्रमाणसामर्थ्यात् व्यवस्थापितत्वात्, वादान्तरं तु किं तत् ३५ते ऽसूयतां स्यात्? तव सुहृदाम् एव वादान्तरंसम्यगनेकांतवा- दरूपं प्रसिध्येत् न तु तव प्रतिक्षाणांमिथ्यैकांतवादिना- म् इत्य् अर्थः । किं च नित्यैकान्तवादिनः किम् आत्मतत्त्वंदेहाद् अनन्य- देव वदेयुर् अन्येदेव वा ? प्रथमकल्पनायां संसाराभावःप्रसज्येत, ०५देहात्मकस्यात्मनो देहरूपादिवद्भवांतरगमनासंभवात्तद्भव एव विनाशप्रसंगात्, नित्यत्वविरोधाच्चार्वाकमताश्रयणप्रसंगश् च । स च प्रमाणविरुद्ध एवात्मतत्त्ववादिनो ऽनिष्टश् च । द्वितीयकल्पनायां तु देहस्यानुग्रहोपघाताभ्याम् आत्मनः सुखदुःखे न स्यातांस्वदे- हाद् अप्य् आत्मनो ऽन्यत्वाभिनिवेशात् देहान्तरवत्, सुखदुःखाभावे १०च नेच्छाद्वेषौ, तदभावे च धर्माधर्मौ न संभवतैति स्वेदेहे ऽनु- रागसद्भावाद् अनुग्रहोपघाताभ्याम् आत्मनः सुखदुःखेस्वगृहाद्य- नुग्रहोपघाताभ्याम् इव कथम् उपपद्यते । देहाद् अनन्यत्वान्यत्वाभ्याम् अवक्तव्यमात्मतत्त्वमभ्युपगच्छतां बाधकम् आहुः — १५येषाम् अवक्तव्यम् इहात्मतत्त्वं देहाद् अनन्यत्वपृथक्त्वकॢप्तेः । तेषां ज्ञतत्वे ऽनवधार्यतत्त्वे का बंधमोक्षस्थितिर् अप्रमेये ॥ १० ॥ न देहाद् आत्मतत्त्वस्यानन्यत्वकॢप्तिर् नापि पृथक्त्व- २०कॢप्तिर् उक्तदोषानुषंगात् । किं तर्हि ? देहादनन्यत्वपृथक्त्वकल्प- नाद् आत्मतत्त्वम् अवक्तव्यम् एवेति येषाम् अभिनिवेशस् तेषांज्ञतत्त्वं सर्वथाऽ- ३६नवधार्यतत्त्वं प्रसज्यतेतत्स्वरूपस्यावधारयितुम् अशक्यत्वात् । देहाद् अनन्यत्वेन पृथक्त्वेन वा तस्यानवधारणेप्रोक्तदोषानु- षंगात् तदुभयकल्पनयाप्य् अनवधार्यतत्त्वस्य प्रसिद्धेरवक्तव्यत्ववत् । तथा च सकलवाग्विज्ञानगोचरातिक्रांतम् आत्मतत्त्वम् इत्यायातं । ०५तत्र चानवधार्यतत्त्वे ज्ञतत्त्वे का बंधमोक्षस्थितिरप्रमेये सर्वथा ऽनवधार्यतत्त्वं ह्य् आत्मतत्त्वम् अप्रमेयम् आपन्नं तत्रचाप्रमेये प्रत्यक्षा- दिप्रमाणाविषये ज्ञतत्त्वे का बंधमोक्षस्थितिर् वासंभाव्यते बंध्या- पुत्रवत् न कापीत्य् अर्थः । तद् एवं नित्यैकांतात्मवादिमतं समंतदोषंव्यवस्थाप्य संप्र- १०त्यनित्यात्मवादिमतम् अपि समंतदोषम् उपदर्शयितुमारभते — हेतुर् न दृष्टो ऽत्र न चाप्य् अदृष्टो यो ऽयं प्रवादः क्षणिकात्मवादः । न ध्वस्तम् अन्यत्र भवे द्वीतीये संतानभिन्ने न हि वासनाऽस्ति ॥ ११ ॥ १५यो ऽयं क्षणिकात्मवादः सौगतानां नध्वस्तं चित्तम् अन्यत्र द्वितीये भवे क्षणे भवेद् इति, स प्रवादएव केवलः प्रमाणशून्यो वादः प्रवादः प्रलाप इत्य् अर्थः । कुत एतत्, यो ऽत्र क्षणिकात्मवादे हेतुर् ज्ञापकः कश्चिन् न विद्यतेऽयत्सत्तत्सर्वं क्षणिकंऽ यथा शब्दविद्युदादिः संश्च स्वात्मेति स्वभावहेतुर् ज्ञापकोऽस्त्य् एवेति २०चेत्, स तर्हि स्वयं प्रतिपत्रा दृष्टो वा स्याद् अदृष्टो वा ? नतावत् दृष्टः संभवति, तस्य दर्शनानन्तरम् एव विनाशादनुमानकाले ऽ- ३७प्य् अभावात् तदनुमातुश् च चित्तविशेषलिंगदर्शिनोऽसंभवात् । न चाऽप्य् अदृष्टो हेतुः कल्पनारोपितः संभवति तत्कल्पनायाअपि अनुमानकाले विनाशात् । व्याप्तिग्रहणकाललिंगदर्शनविकल्प- विनाशेपि तद्वासनासद्भावातनुमानकाललिंगदर्शनप्रबुद्धवा- ०५सनासामर्थ्याद् अनुमानं प्रवर्त्तत एवेति चायुक्तंहेतुहेतुमद्भाव- व्याप्तिग्राहिचित्ताद् अनुमातृचित्ते संतानाभिन्नेवासनानुपपत्तेः सन्तानभिन्नम् इव सन्तानभिन्नं चित्तं तस्मिन् न हिवासनाऽस्ति, जिनदत्तदेवदत्तं सतानभिन्ने पि चित्ते वासनास्ति त्वानुषंगात् । देवदत्तचित्तेन साध्यसाधनव्याप्तौ गृहीतायां जिनदत्तस्यतत्सा- १०धनदर्शनात् साध्यानुमानम् आसज्येताविशेषात् । तथा चवासना नास्ति संतानभिन्ने चित्ते तथा न तत्कारणकार्यभावःसंभव- तीति क्रियाध्याहारः । संतानभिन्नयोर् अपि चित्तयोःकार्यकार- णभावे देवदत्तजिनदत्तचित्तयोर् अपि कारणकार्यभावःप्रवर्त्तेत । सामान्यरूपाणाम् एव चित्तक्षणानाम् एकसंतानवर्तिनां कार्यका- १५रणभावो न तु भिन्नसन्तानवर्त्तिनाम् असमानरूपाणाम् इतिचेत्, न तर्हि चित्तक्षणाः क्षणविनश्वरा निरन्वयाः केनसमानरूपाः ? न केनापि स्वभावेन ते समानरूपा इत्य् अर्थः । तथाहि — यदि तावत् सत्स्वभावेन चित्स्वभावेन वा समानरूपाः स्युस् तदाभि- न्नसंतानवर्तिनो ऽपि तथा भवेयुर् अविशेषात् । यदि पुनरतद्धेतुभ्यः २०संतानान्तरवर्त्तिभ्यश् चित्तक्षणेभ्यो व्यावृत्तेनतद्धेत्वपेक्षित्वेन समा- नरूपाः केचिदेवैकसंतानवर्त्तिनश् चित्तक्षणाः इष्यन्तेपूर्वपूर्वस्यो- ३८पादानहेत्वपेक्षित्वाद् उत्तरोत्तरचित्तस्येति मतंतदापि तदुत्तरं चित्तम् उत्पन्नं सत्स्वहेतुम् अपेक्षते ऽनुत्पन्नम् असद् वा । नतावत् प्रथमः पक्षः । सतः सर्वनिराशंसत्त्वाद् उत्पन्नस्यहेत्वपेक्षत्वविरोधात् । द्वितीयपक्षे त्व् असत्खपुष्पं न हि हेत्वपेक्षं दृष्टं । एतद् उक्तं भवति, ०५यद् असत् तन् न हेत्वपेक्षं दृष्टं यथा खपुष्पं असच्चोत्पत्तेः पूर्वं कार्य- चित्तम् इति ततो न सिध्यत्य् उभयोर् असिद्धं । न हि किंचिदसद् अपि हेत्वपेक्षं वादिप्रतिवादिनोर् उभयोः सिद्धम् अस्ति । यन्निदर्श- नीकृत्योत्तरम् उत्तरं चित्तम् अनुत्पन्नम् अपि तद् धेत्वपेक्षंसाध्यते तदसाधने च कथं तद्धेत्वपेक्षत्वेनापि समानरूपाश्चित्तक्षणाः १०केचिद् एवैकसंतानभाजः सिद्धेयुर् यतः कारणकार्यभावस्तेषा- म् उपादानोपादेयलक्षणः स्यात्, वास्य वासकभावहेतुर् इति न तत्र वासना संभवति भिन्नसंतानचित्तक्षणवत्, ततःसूक्तं सूरिभिर् इदम् — तथा न तत्कारणकार्यभावा १५निरन्वयाः केन समानरूपाः । असत् खपुष्पं न हि हेत्वपेक्षं दृष्टं न सिध्यत्य् उभयोर् असिद्धम् ॥ १२ ॥ खंडशो ऽस्य व्याख्यानात् । यथा च हेतोर् अपेक्षकं फलचित्तम् असन् न घटतेतथा हेतुर् अपि २०फलचित्तस्यापेक्षणीयो न संभवत्य् एवेत्य् आहुः — नैवास्ति हेतुः क्षणिकात्मवादे३९न सन्न् असन् वा विभवाद् अकस्मात् । नाशोदयैकक्षणता च दृष्टा संतानाभिन्नक्षणयोर् अभावात् ॥ १३ ॥ अभ्युपगम्येदम् उक्तं — कार्यचित्तं सद्रूपम् असद्रूपं ०५वा न हेत्वपेक्षम् इति परमार्थस् तु क्षणिकात्मवादेहेतुर्नैवाऽस्ति । स हि सन् वा हेतुः स्याद् असन् वा ? न तावत् सन् नेवपूर्वचित्तक्षण उत्तरचित्तक्षणस्य हेतुर् भवति विभवाद् विभवप्रसंगादित्य् अर्थः । सत्येकक्षणे चित्ते चित्तान्तरस्योत्पत्तौ तत्कार्यस्यापितदैवो- त्पत्तिर् इति सकलचित्तचैत्तक्षणानामेकक्षणवर्त्तित्वोत्पत्तौ यु- १०गपत् सकलजगद्व्यापिचित्तप्रकारासिद्धेर् विभुत्वम् एवक्षणिकं क- थम् इव निवार्येत । पूर्वं पश्चाच् च चित्तशून्यं जगदापनीपद्येत तथा च संताननिर्वाणलक्षणो मोक्षो विभवःसर्वस्यानुपायसिद्धः स्यात् । अथैतद्दोषभयाद् असन्न् एव हेतुर् अति ब्रूयात् तदाप्यकस्मा- त्कारणम् अंतंरेण कार्योत्पत्तिप्रसंगस् ततो ऽसन्न् अपि नहेतुः संभवति । १५स्यान् मतं — यस्य नाश एव कार्योत्पादः स तद्धेतुर्नाशो- दययोर् एकक्षणतोपपत्तेः, कारणनाशानंतरंकार्यस्योदयस्यानि- ष्टेर् अकस्मात्कार्योदयप्रसंगाद् इति चेत्, तद् अप्य् असत् । यतोना- शोदयैकक्षणतायाः संतानभिन्नक्षणयोर् अभावात्, भिन्नौच तौ क्षणौ च भिन्नक्षणौ कालव्यवहितौ संतानस्यभिन्नक्ष- २०णौ संतानभिन्नक्षणौ तयोः सुषुप्तसंतानेजाग्रच्चित्तप्रबुद्धचि- त्तक्षणयोर् अभावान् नाशोदयैकक्षणताया इतिविभक्तिपरिणामः । ४०न हि तत्र जाग्रच्चित्तस्य नाशकाल एवप्रबुद्धचित्तस्योदयो ऽ- स्ति मुहूर्त्तादिकालेनानेकक्षणेन व्यवधानात् तथा चजाग्रच्चित्तं प्रबुद्धचित्तस्य हेतुर् न स्यात् तन्नाशस्यैवप्रबुद्धचित्तोदयत्वाभा- वात् जाग्रच्चित्तप्रबुद्धचित्तनाशोदययोर् एकक्षणतापायात् । अथ- ०५वा संताने प्रदीपादेर् निरन्वयनाशिनि नाशोदययोरेकक्षणताया असंभवात् भिन्नक्षणतेति व्याख्येयं ततो ऽसत्येव हेतौ कालान्तरेण स्वयम् उत्पद्यमानो ऽर्थः प्रलय इवाकस्मिकःस्यात् । तत्र चेदं दूषणम् आवेदयन्ति सूरयः — कृतप्रणाशाकृतकर्मभोगौ १०स्याताम् असंचेतितकर्म्म च स्यात् । आकस्मिके ऽर्थे प्रलयस्वभावो मार्गो न युक्तो बधकश् च न स्यात् ॥ १४ ॥ यथा कारणम् अन्तरेणैव भवन्प्रलयः स्यादाकस्मिकः सौगतस्य तथा कार्योदयो ऽपीति प्रलयस्वभावो ऽर्थःप्रमाण- १५बलाद् आयातः परिहर्त्तुम् अशक्यत्वात् तस्मिंश् चाकस्मिके ऽर्थेप्रलयस्व- भावे युक्त्या पूर्वचित्तेन कृतं कर्म शुभम् अशुभं वातस्य तत्फल- भोगाभावात् कृतप्रणाशः स्यात् तदुत्तरभाविना चचित्तेनाकृत- स्यैव कर्मणो भोगः स्याद् एकस्य कर्मणां कर्तुस्तत्फलभो- क्तुश् चावस्थितस्याभावाद् इति कृतप्रणाशाकृतकर्मभोगौस्यातां । २०तथा येन चित्तेन संचेतितं कर्म तस्य निरन्वयप्रलयात्येना- ४१संचेतितम् उत्तरचित्तेन तस्यैव कर्म भवेदित्य् अतो ऽसंचेतितं च कर्म स्यात् । तथा च सकलास्रवनिरोधलक्षणमोक्षस्यचित्तसंतति- नाशरूपस्य वा शांतनिर्वाणस्य मार्गोहेतुर्नैरात्म्यभावनालक्षणो न युक्तः स्यान् नाशकस्य कस्यचिद्विरोधात् । तथाकस्यचित्प्रा- ०५णिनः कश्चिद्वधको ऽपि स्यात् तद्वधकस्यप्रलयस्वभावस्या- कस्मिकत्वात् । किञ्चान्यत् स्याद् इत्य् आचार्या व्याचक्षते — न बन्धमोक्षौ क्षणिकैकसंस्थौ न संवृतिः साऽपि मृषास्वभावा । १०मुख्यादृते गौणविधिर् न दृष्टो विभ्रान्तदृष्टिस् तव दृष्टितो ऽन्या ॥ १५ ॥ क्षणिकम् एकं यच् चित्तं तत्संस्थौ बंधमोक्षौ नस्यातां । यस्य चित्तस्य बंधस्तस्य निरन्वयप्रणाशात्तदुत्तरचित्तम्या- बद्धस्यैव मोक्षप्रसंगात् । यस्यैव बन्धस्तस्यैव मोक्षैत्य् एक- १५चित्तसंस्थौ बंधमोक्षौ संवृत्यातदेकत्वारोपविकल्पलक्षणाया स्याताम् इति चेत् तर्हि सापि संवृतिर् मृषास्वभावा स्यात् गौण- विधिर्वा ? तत्र तावन् न संवृतिः मृषास्वभावाबंधमोक्षयोः क्षणिकैकचित्तसंस्थयोः मृषात्वप्रसक्तेः । गौणविधिर् एवसंवृति- र् इति चेत्, तर्हि मुख्यौ बंधमोक्षौ क्वचिच्चित्तेसंतिष्ठमानौ २०प्रतिपत्तव्यौ यतो मुख्यादृते गौणविधिर् न दृष्टःपुरुषसिंहवत् । न हि मुख्यसिंहादृते गौणस्य पुरुषे सिंहविधेर् दर्शनमस्ति । ४२तद् एवं विभ्रान्तदृष्टिस् तव दृष्टितो ऽन्या, तववीरस्य स्याद्वादा- मृतसमुद्रस्य या दृष्टिर् अबाधिता ततो ऽन्याक्षणिकात्मवादिदृ- ष्टिर् विभ्रान्तदृष्टिर् एव समंतदोषत्वाद् इति सूरेरभिप्रायः । तम् एवाहुः — ०५प्रतिक्षणं भंगिषु तत्पृथक्त्वा- न् न मातृघाती स्वपतिः स्वजाया । दत्तग्रहो नाधिगतस्मृतिर् न न क्त्वार्थसत्यं न कुलं न जातिः ॥ १६ ॥ क्षणं क्षणं प्रति भंगवत्सु पदार्थेषुप्रतिज्ञाय- १०मानेषु न मातृघाती कश्चित्पुत्रोत्पत्तिक्षण एव मातुः स्वयंनाशात् तदनंतरे क्षणे पुत्रस्यापि प्रलयाद् अपुत्रस्यैवप्रादुर्भावात् । लोकव्य- वहारतो मातरं दूरतरं हन्तुं प्रवृत्तो ऽपि न मातृघातीभवेद् इ- त्य् अर्थः । तथा न स्वपतिः कुलयोषितो ऽपि कश्चित् स्यात् तद्वोढुः पत्युर् विनाशाद् अन्यस्योत्पादात् । तदूढाया योषितश्च विना- १५शात् तदन्यस्या एवोत्पादात् पारदारिकत्वप्रसंग इत्य् अर्थः । तथा स्वजायाऽपि न स्यात् । तत एव तथा दत्तग्रहो न स्यात् — धनि- ना दत्तस्य धनस्याधमर्णात् ग्रहणं न स्यात् दातुर्निरन्वयनाश द- धमर्णस्याप्य् अन्यस्य प्रादुर्भावात् साक्षिलिखितादेर् अपिपरिध्वं- साद् इत्य् अर्थः । तथाऽधिगतस्य शास्त्रार्थस्य स्मृतिर् अपिन स्याद् इति २०शास्त्राभ्यासस्य वैफल्यम् आसज्येत । तथा नक्त्वार्थसत्यं पूर्वो- त्तरक्रिययोर् एककर्तृकयोः पूर्वकाले क्त्वार्थसत्येनपरमार्थेन प्रमा- ४३णोपपन्नेन न्यायेन क्त्वार्थश् च सत्यं चक्त्वार्थसत्यं "राजदंतादिषु परं" इति सत्यपदस्य परनिपातः, तद् अपि प्रतिक्षणंभंगिषु विषय विषयिषु नोपपद्येत । तथा न कुलं सूर्यवंशादिकं भवेत्क्षत्रि- यस्य, यत्र कुले ऽसौ जातस् तस्य निरन्वयविनाशात्तज्जन्मनि ०५कुलाभावात् । तथा न जातिः क्षत्रियत्वादिः तदव्यक्तिव्यति- र् एकेण तदसंभवात् । अनेकव्यक्तेर् अतद्व्यावृत्तिग्राहिणश्चित्त- स्यैकस्यासंभवात् तदन्यापोहलक्षणायाश् च जातेरनुपपत्तेः । किञ्च — न शास्तृशिष्यादिविधिव्यवस्था १०विकल्पबुद्धिर् वितथाऽखिला चेत् । अतत्त्वतत्त्वादिविकल्पमोहे निमज्जतां वीतविकल्पधीः का ॥ १७ ॥ शास्ता सुगतः शिष्यस् तद्विनेयस् तयोर् विधिःस्व- भावस् तस्य व्यवस्था विशेषेणान्यव्यवच्छेदेनावस्था सापिन १५स्यात्, प्रतिक्षणं भंगिषु चित्तेष्व् इति सम्बन्धनीयम् । तत्त्व् अदर्श- नं परानुग्रहतत्त्वप्रतिपिपादयिषातत्त्वप्रतिपादनकालव्यापिनः कस्यचिद् एकस्य शासकस्यानुपपत्तेः । शिष्यस्य चशासनशुश्रूषा- श्रवणग्रहणधारणाभ्यासनादिकालव्यापिनः कस्याचिदघटनात् । अयं शास्ताऽहं शिष्य इति प्रतिपत्तेः कस्यचिद् अयोगात् । तथादि- २०शब्देन स्वामिभृत्यविधिव्यवस्था जनकतनयविधिव्यवस्थानप्तृ- पितामहादिविधिव्यवस्था च न स्याद् इति ग्राह्यं । ननु चवहिर् अन्त- ४४श् च प्रतिक्षणं विनश्वरेषु स्वलक्षणेषुपरमार्थतो मातृघातीत्य् आदि- शास्तृशिष्यादिविधिव्यवस्थाव्यवहारो न संभवति । किंतर्हि ? वि- कल्पबुद्धिर् इयम् अखिलानादिवासनासमुद्भूतामातृघात्यादिव्य- वस्थाहेतुर् वितथैव सर्वनिर्विषयत्वाद् इति यद्यभिमन्यं ते सौगतास् त- ०५दा तेषाम् अतत्त्वतत्त्वादिविकल्ममोहे निमज्जतां का नामवीतविकल्प- धीरर्थवती तथ्या कथ्येत । मातृघात्यादिसकलम् अतत्त्वमेव ततो ऽ- न्यत्तु तत्त्वं इति व्यवस्थितेर् अपिविकल्पबासनावलायातत्वात् संवृ- तिर् अतत्त्वं परमार्थतस् तत्त्वम् इत्य् अपिविकल्पशिल्पिघटितम् एव स्यात् । ननु वस्तुवलाद् इति विकल्पमोहो महाम्भोधिर् इव दुष्पारः १०प्रसज्येत । "द्वे सत्ये समुपाश्रित्य बुद्धानां धर्मदेशना । लोक- संवृतिसत्यं च परमार्थतः" इत्य् एतस्यापि विभागस्यविकल्प- मात्रत्वात् तात्त्विकत्वानुपपत्तेः । वीतसकलविकल्पा धीःस्वलक्ष- णमात्रविषया तात्त्विकीत्य् अपि न संभाव्यं तस्याश्चतुर्विधाया इन्द्रियमानसस्वसंवेदनयोगिप्रत्यक्षलक्षणायाःपरमार्थतो व्य- १५वस्थापयितुम् अशक्तेः । "प्रत्यक्षं कल्पनापोढम् अभ्रान्त"म् इति प्रत्यक्षसामान्यलक्षणस्य प्रत्यक्षविशेषलक्षणस्य चविकल्प- मात्रत्वाद् अवास्तवत्वोपपत्तेः । न चावास्तवं लक्षणंवस्तुभूतं लक्ष्यं लक्षयितुम् अलम् अतिप्रसंगाद् इति किं केन लक्ष्येत । अत्रापरे प्राहुः — न वहिः स्वलक्षणालंबनकल्पनाविकला २०काचिद् बुद्धिर् अस्ति सर्वस्या बुद्धेर् आलंबने भ्रान्तत्वात्स्वप्नबु- द्धिवत् स्वांशमात्ररूपपर्यवसितत्वाद् विज्ञानमात्रस्यैवतस्य प्रसिद्धे- र् इति । सो ऽप्य् एवं प्रष्टः स्पष्टम् आचष्टां — विज्ञानमात्रस्यसिद्धिः ४५ससाधना निःसाधना वा ? ससाधना चेत्साध्यसाधनबुद्धिः सिद्धा । सा चानर्थिकाऽर्थवती वा स्यात् ? प्रथमपक्षेद्वितीय- पक्षे च दूषणान्य् अभिदधते सूरयः — अनर्थिका साधनसाध्यधीश् चे- ०५द् विज्ञानमात्रस्य न हेतुसिद्धिः । अथार्थवत्त्वं व्यभिचारदोषो न योगिगम्यं परवादिसिद्धम् ॥ १८ ॥ विज्ञानमात्रं हि तत्त्वं परवादिनो ऽनुमानाद् एव प्रत्याययेयुः स्वसंवेदनप्रत्यक्षेण तेषां प्रत्याययितुमशक्तेः । १०तच् चानुमानं — यत्प्रतिभासते तद्विज्ञानमात्रम् एव यथाविज्ञानस्वरूपं प्रतिभासते च नीलसुखादिकम् इति । न चाविज्ञानंप्रतिभासते जडस्य प्रतिभासायोगाद् इति पक्षे बाधकप्रमाणमनुमानसमर्थन म् असमर्थितस्यासाधनत्वाद् इति । तत्रेदम् अनुमानं साधनंविज्ञानमात्रं साध्यम् इति साध्यसाधनधीर् यद्य् अनर्थिका तदाविज्ञानमात्रस्य तत्त्व- १५स्य यो हेतुः साधनं तस्य सिद्धिर् न स्यात्स्वप्नोपालंभसाधनवत् । अथार्थवत्त्वम् एव तस्याः साध्यसाधनबुद्धेस् तदाऽनयैवव्यभिचारः प्रकृतहेतोः सर्वं ज्ञानं निरालंबनं ज्ञानत्वादित्य् एतत्परं प्रति वक्तुं युक्तं न स्यात् स च महान् दोषः परिहर्तुम् अशक्यत्वात् । यथै- व हीदम् अनुमानज्ञानं स्वसाध्येनावलंबनेन सालंबनंतथा २०विवादाध्यासितम् अपि ज्ञानं सालंबनं किं न भवेद् इति संशयकरत्वात् । यदापि विज्ञानमात्रं सर्वस्य वस्तुनःप्रतिभा- ४६समानत्वेन हेतुना साध्यते, तदापीदम् अनुमानंवचनात्मकं परार्थप्रतिभासमानम् अपि न विज्ञानमात्रं ततो ऽन्यत्वादिति व्यभि- चारदोषः प्रकृतहेतोः स्याद् एव । साध्येविज्ञानमात्रात्मकत्वे साधनस्य साध्यतमत्वानुषंगात् तत एव समाध्यवस्थायांप्रतिभा- ०५समानं संवेदनाद्वैतं तत्त्वम् अस्तु स्वरूपस्य स्वतोगतेरिति च न सुभाषितं तस्य परवादिनाम् असिद्धत्वात् । न हि योगिनो गम्यं परवादिनां सिद्धं नामेति स्वगृह- मान्यम् एतत् । किं चेदं संवेदनाद्वैतं नानासंवेदनवत् नस्वस्य सिद्धं न च परस्मै प्रतिपाद्यम् इति निवेदयन्ति । १०तत्त्वं विशुद्धं सकलैर् विकल्पै- र् विश्वाभिलापास्पदताम् अतीतम् । न स्वस्य वेद्यं न च तन् निगद्यं सुषुप्त्यवस्थं भवदुक्तिबाह्यम् ॥ १९ ॥ कार्यकारणग्राह्यग्राहकवास्यवासकसाध्यसाधनवा- १५ध्यबाधकवाच्यवाचकभावादिविकल्पैः सकलैर् विशुद्धंशून्यं तद्वि- ज्ञानाद्वैतं तत्त्वं न स्वस्य वेद्यं । संहृतसकलविकल्पावस्थायाम् अपि योगिनो ग्राह्यग्राहकाकारविकल्पात्मनः संवेदनस्यप्रतिभासनात् नापि तं निगदितुं शक्यं । विश्वाभिलापास्पदताम् अतीतत्वाद्विश्वे च ते ऽभिलापाश् च विश्वाभिलापा विश्वाभिलापा जातिगुणद्रव्य- २०क्रियायदृच्छा शब्दास् तेषाम् आस्पदम् आश्रयो विश्वाभिलाषास्पदंतस्य भावो विश्वाभिलापास्पदता ताम् अतीतं तत्त्वं कथम् इवनिगद्यं परस्मै ४७स्यात् । नहि जात्यादिशब्दैस् तन् निगद्यतेजातिद्रव्यगुणक्रियादि- कल्पनाभिर् अपि शून्यत्वात् नापि यदृच्छाशद्बेन तत्र तस्यसंकेत- यितुम् अशक्तेः संकेतहेतुविकल्पेनाऽपि शून्यत्वाद् इति सुषुप्तौ याऽवस्था संवेदनस्य सा स्यात् तत्त्वस्य । ततःसुषुप्त्यवस्थम् एतत् ०५सर्वथा विकल्पाभिलापशून्यत्वाभ्युपगमाद् भवदुक्तिवाह्यंभवतो वीरस्योक्तिः स्याद्वादस् ततो वाह्यं सर्वथैकान्ततत्त्वम् इत्युच्यते । विज्ञानार्थपर्यायादेशाद् धि विज्ञानार्थतत्त्वंसकलविकल्पाभिला- पविकलम् ऋजुसूत्रनयावलंबिभिर् अभिन्यतेव्यवहारनयाश्रयिभिर् वि- कल्पाभिलापास्पदम् इति स्याद्वादाश्रयणे तत्त्वं नभवदुक्ति- १०तो वाह्यं स्याद् इत्य् अर्थाद् नम्यते । पुनर् अपि परमतम् अनूद्य दूषयितुम् आहुर् आचार्याः — मूकात्मसंवेद्यवद् आत्मवेद्यं, तन्म्लिष्टभाषाप्रतिम् अप्रलापम् । अनंगसंज्ञं तदवेद्यम् अन्यैः १५स्यात्, त्वद्द्विषां वाच्यम् अवाच्यतत्त्वम् ॥ २० ॥ यथा मूकस्यात्मसंवेद्यं स्वसंवेदनंतथात्मसंवेद्यमेव संविदद्वैतं न चात्मसंवेद्यम् इति शब्देनाऽपि तत्त्वमभिलप्यते तत् कुतो यतो म्लिष्टा अस्पष्टा भाषा मूकभाषेव तत्प्रतिमः प्रलापो निरर्थको यस्मिंस् तन्म्लिष्टभाषाप्रतिम् अप्रलापं नपुनर् अ- २०भिलाप्यं ततस् तदवेद्यम् एवान्यैः प्रतिपाद्यैर् इति मन्यंते, केचित् । यथा चाभिलापास् तदवेद्यम् अन्यैस् तथांगसंज्ञयाऽपिसूचीहस्तलक्ष- ४८णयाऽनवेद्यम् अनंगसंज्ञत्वात् । यद् धिसर्वथाऽनभिलाप्यं तत्रांग- संज्ञासंकेतो ऽपि न प्रवर्त्तते । न चासंकेतितांगसंज्ञाक्वचिद् वित्ति- निमित्तं शब्दवद् इति च ये प्रतिपद्यं ते तेषां त्वद्द्विषांसंविदद्वै- तवादिनाम् अवाच्यम् एव तत्त्वं वाच्यं स्यात्, नैव स्याद् इति काक्वा ०५व्याख्यातव्यम् तेषां मौनम् एव शरणं स्याद् इति यावत् । तद् एवं सौगतमतम् उपहासास्पदम् एवेतिनिवेदयंति — अशासदञ्जांसि वचांसि शास्ता, शिष्याश् च शिष्टा वचनैर्न ते तैः । अहो इदं दुर्गतमं तमो ऽन्यत् १०त्वया विना श्रायसमार्य किं तत् ॥ २१ ॥ शास्ता सुगत एवाशासदनवद्यानि वचांसियथा- र्थदर्शनादिगुणयुक्तत्वान् न च तैर् वचनैः शिष्यास् तेप्रतिपादिता इतीदम् अहो दुर्गतमं साश्चर्यमन्यतमः स्यात्कृच्छ्रतमेनाधिगम्य- त्वात् । तत्त्वानुशासनं हि सति शास्तरि गुणवति प्रतिपाद्ये- १५भ्यस् तत्त्वप्रतिपत्तियोगेभ्यः सत्यैर् एव वचनैःप्रसिद्धं । तत्र सु- गते शास्तरि प्रसिद्धेपि सौगतानां तद्वचनेषु च सत्येषुसंभवत्सु शिष्याः सन्तो ऽपि प्रणिहितमनसो न शिष्टा इति कथम् अमोहः प्रतिपद्येतेति प्रेक्षावताम् उपहासास्पदम् इदं दर्शनमाभासते । स्यान् मतं — संवृत्याशास्तृशिष्यशासनतदुपायवचनसद्भा- २०वान् नोपहासास्पदम् एतत्परमार्थतः संविदद्वैतस्यनिःश्रेयसलक्षण- स्य प्रसिद्धेर् इति, तद् अप्य् असत् । त्वयास्याद्वादन्यायनायकेन ४९विना भगवन् ! आर्य ! वीरभट्टारक ! मे नैवश्रायसं किंचित् संभवति यतः प्रमाणेन परीक्ष्यमाणाम् इति प्रत्येयं । तद्विसंविदद्वैतरूपं निर्वाणं प्रत्यक्षबुद्धिबोध्यंलिंगगम्यं वा, परार्थानुमानवचनप्रतिपाद्यं वा स्याद् गत्यंतराभावान्न च ०५तत्र प्रत्यक्षादिप्रमाणं संभवतीति प्रतिपत्त्यभावम् एवसाधय- न्त्य् आचार्याः — प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिंगगम्यं न तदर्थलिंगम् । वाचो न वा तद्विषयेण योगः १०का तद्गतिः कष्टम् अशृण्वतां ते ॥ २२ ॥ यत्र संविदद्वैते तत्त्वे प्रत्यक्षबुद्धिर् नक्रमते न प्रवर्त्तते कस्यचित् तथा निश्चयानुत्पत्तेस् तल्लिंगगम्यं स्यात्स्वर्गप्रापणशक्त्या- दिवत् । न च तत्रार्थरूपं लिंगं संभवतितत्स्वभावलिंगस्य तद्वत् प्रत्यक्षबुद्ध्यतिक्रान्तात्वाल् लिंगान्तरगम्यत्वेऽनवस्थानुषंगात्तत्कार्य- १५लिंगस्य वा संभवात् संभवे वा द्वैतप्रसंगात् । न चवाचः परा- र्थानुमानरूपायास् तद्विषयेण संविदद्वैतरूपेण योगःपरंपरयाऽपि संबंधायोगात्, ततः का तस्य तत्त्वस्य गतिर् न काचित् । प्रत्यक्षा लैंगिकी शाब्दी वा प्रतिपत्तिर् अस्तीति कष्टं दर्शनं ते तवशासन- म् अशृण्वतां ताथागतानाम् इति ग्राह्यं । संवृत्यातत्प्रतिपत्तिर् न कष्टम् इति २०अन्यमानान् प्रत्याहुः — ५०रागाद्यविद्यानलदीपनं च विमोक्षविद्यामृतशासनं च । न भिद्यते संवृतिवादिवाक्यं भवत्प्रतीपं परमार्थशून्यम् ॥ २३ ॥ ०५यथैव हि रागाद्यविद्यानलस्य दीपनं च वाक्यं "अग्निष्टोमेन यजेत स्वर्गकामः" इत्य् आदिकं संवृतिवादिनां सौगतानां परमार्थशून्यं तथा विमोक्षविद्यामृतस्यशासनम् अपि वाक्यं "सम्यग्ज्ञानवैतृष्णाभावनातो निःश्रेयसम्" इत्याद्यपि, ततो न भिद्यते परमार्थशून्यत्वाविशेषात् । परमार्थशून्यत्वं तु १०तद्वाक्यस्य भवत्प्रतीपत्वात्सर्वथैकान्तविषयतयैवोपगतत्वात् । भवतो हि वीरस्यानेकान्तशासनस्य न किंचिद् वाक्यं सर्वथा परमार्थशून्यं रागाद्यं विद्यानलदीपनस्यापि वाक्यस्यबंध- कारणलक्षणेन परमार्थेनाशून्यत्वात्, विमोक्षविद्यामृत- शासनस्येव वाक्यस्य मोक्षकारणरूपेण परमार्थेनेति १५तात्पर्यार्थः । ननु च संवृतिवादिनो ऽपि श्रुतमयी चिन्तामयी च भावना प्रकर्षपर्यन्तं प्राप्ता योगिनः प्रत्यक्षसंविदद्वयंप्रसूते, गुरुणोपदि- ष्टायाः कस्याश्चिद् अविद्यायाः प्रकृष्टविद्याप्रसूत्यै स्वयंशील्य- मानायाः संभवाविरोधाद् इति च प्रतिपद्यमानान् प्रतिप्राहुः — २०विद्याप्रसूत्यै किल शील्यमाना, ५१भवत्य् अविद्या गुरुणोपदिष्टा । अहो त्वदीयोक्त्यनभिज्ञमोहो, यज्जन्मने यत् तदजन्मने तत् ॥ २४ ॥ सकला ह्यविद्या तावद् अविद्यान्तरप्रसूत्यै प्रसिद्धा ०५लोके सा गुरुणाप्य् उपदिष्टा भाव्यमाना विद्याप्रसूत्यैभवतीति वदतः सौगतस्य कथमहो भगवन् ! वीर !त्वदीयोक्त्यन- भिज्ञस्य मोहो न भवेत् ! दर्शनमोहोदयापायेविरुद्धाभिनिवे- शासंभवात् । यद् धि निमित्तम् अविद्यालक्षणम् अविद्याजन्मनेतद् एव तस्याः पुनरजन्मने प्रसिद्धं स्याद् इति विरुद्धोऽभिनिवेशः १०स्यात् । नहि मदिरापानं मदजन्मने प्रसिद्धं मदाजन्मननि- मित्तं भवितुम् अर्हति । ननु च यथा विषभक्षणंविषविकार- कारणं प्रसिद्धम् अपि किंचिद् विषविकाराजन्मने दृष्टं तथाकाचि- द् अविद्याऽपि भाव्यमाना स्वयम् अविद्याजन्माभावाय भविष्य- ति विरोधाभावाद् इति कश्चित्; सो ऽप्य् अपर्यालोचितवचनः । १५अन्यद् धि जंगमविषं भ्रमदाहमूर्च्छादिविकारस्य जन्मनेप्रसिद्धं तदजन्मने पुनर् अन्यद् एव स्थावरविषंतत्प्रतिपक्षभूतम् इति विषमम् उ- दाहरणं । तर्ह्य् अविद्यापि संसारहेतुरनादिवासनासमुद्भूताऽन्यैवा- विद्यानुकूला, मोक्षहेतुः, पुनरनाद्यविद्याजन्मनिवृत्तिकरीविद्याऽ- नुकूला चान्या तत्प्रतिपक्षभूतत्वाद् इति साम्यमुदाहरणस्यास्तु २०विशेषाभावाद् इति वचनं न परीक्षाक्षमंअविद्याप्रतिपक्षभूताया एवाविद्यायाः संभवाभावाद् विद्यात्वानुषंगात् । नन्व् एवंविषप्रतिप- ५२क्षभूतस्य विषान्तरस्यापि विषत्वंमाभूत्तस्यामृतत्वानुषंगात् । इत्य् एतद् अपि न प्रतिकूलं नः । जंगमविषप्रतिपक्षभूतंहि स्थावर- विषमत एव विषममृतम् इति प्रसिद्धं सर्वथा तस्यविषत्वे वि- षान्तरप्रतिपक्षत्वविरोधात् । कथंचिद् विषत्वं क्षीरादेरपि न ०५निवार्यते तदभ्यवहरणानंतरम् अपि कस्यचिन्मरणदर्शनात् । काचिद् अविद्या तु विद्यानुकूला यदि कथंचिद् विद्या निगद्येता- न्यथानाद्यविद्याप्रतिपक्षत्वायोगात् तदा न किंचिद् अनिष्टंस्याद्वा- दिमताश्रयणात् संवृतिवादिमतविरोधात् । स्याद्वादिनां हि के- वलज्ञानरूपां परमां विद्यामपेक्ष्य क्षायिकीं क्षायोपशमिकी १०मतिज्ञानादिरूपापकृष्टविद्याप्य् अविद्याऽभिप्रेता नानादिमिथ्या- ज्ञानदर्शनलक्षणाविद्यापेक्षया तस्यास्तत्प्रतिपक्षभूतत्वाद् विद्या- त्वसिद्धेर् इति न सर्वथाऽप्य् अविद्यात्मिकाभावनागुरुणोपदिष्टापि विद्याप्रसूत्यै व्याघाताद् गुरोर् अपि तदुपदेष्टुरगुरुत्वप्रसंगाद् विद्यो- पदेशिन एव गुरुत्वप्रसिद्धेः । ततो ऽनुपायम् एवसंविदद्वैतं त- १५त्त्वं सर्वप्रमाणगोचरातिक्रांतत्वात् पुरुषाद्वैतवद् इतिस्थितम् । संप्रत्यवसरप्राप्तम् अभावैकांतवादिमतम् अनूद्यनिराकर्त्तुम् आर- भन्ते सूरिवर्याः — अभावमात्रं परमार्थवृत्तेः सा संवृतिः सर्वविशेषशून्या । २०तस्या विशेषौ किल बंधमोक्षौ हेत्वात्मनेति त्वदनाथवाक्यम् ॥ २५ ॥ ५३न च वहिरन्तश् चनिरन्वयक्षणिकपरमाणुमात्रं तत्त्वं सौत्रान्तिकनिराकरणात् । नाप्यन्तःसंवित्परमाणुमात्रं संविदद्वैतमात्रं वा योगाचारमतनिरसनात् । किं तर्ह्यभाव- मात्रं तत्त्वं माध्यमिकमतम् एव परमार्थवृत्तेरभ्युपगम्यते । सा तु ०५परमार्थवृत्तिः संवृतिः न पुनः शून्यसंवित्तिस् तात्त्विकीयतः शून्यसंविदो विप्रतिषेधः स्यात् । तथाहि — सापरमार्थवृत्तिः संवृतिः सर्वविशेषशून्यत्वात् सर्वेषां विशेषाणांपदार्थसद्भाव- वादिभिर् अभ्युपगम्यमानानां तदभ्युपगमेनैवबाध्यमानानां व्य- वस्थानासंभवाद् अविद्याया एव प्रसिद्धेः, बंधमोक्षाव् अपितस्या एव १०संवृतेर् अविद्यात्मिकायाः सकलतात्त्विकविशेषशून्याया अपि वि- शेषौ सांवृतौ सांवृतेनैवहेतुस्वभावेनात्मात्मीयाभिनिवेशेन नैरा- त्म्यभावनाभ्यासेन च विधीयमानौ न विरुद्धौ किलेति शून्यवादिमतसूचनं, तद् एतद् त्वदनाथानां सर्वथाशून्यवादिनां वाक्यं, न पुनस् त्वं भगवान् वीरो नाथो येषामनेकान्तवादि- १५नां तेषाम् एतद् वाक्यं तैः स्वरूपादिचतुष्टयेन सतामेवाकल्पिता- त्मकानां पररूपादिचतुष्टयेनार्थानां शून्यत्ववचनात् । तदभाव- मात्रस्यापि स्वरूपेणासत्त्वे पारमार्थिकत्वविरोधात् । संवि- न्मात्रस्य शून्यस्य स्वरूपेण सत्त्वे पररूपेणग्राह्यग्राहकभावा- दिना चासत्त्वे सदसदात्मकस्य कथंचिच् छून्यस्य सिद्धेःस्या- २०द्वादिवाक्यस्यैव व्यवस्थानात् ततस् त्वदनाथवाक्यमव्यवस्थि- तम् एव मृषेत्य् अर्थः । यथा न शून्यवादिनां शून्यं तत्त्वम् अनुपपन्नंतथाऽनेकान्त- ५४वादिनस् त्वत्तः परेषाम् अपि शून्यम् अनुपपन्नम् अपिसंप्राप्तम् इति प्रति पादयन्ति श्रीसूरयः — व्यतीतसामान्यविशेषभावा- द् विश्वाभिलापार्थविकल्पशून्यम् । ०५खपुष्पवत्स्याद् असद् एव तत्त्वं प्रबुद्धतत्त्वाद्भवतः परेषाम् ॥ २६ ॥ ये तावद् व्यतीतसामान्यभावात् सर्वतो व्यावृ- त्तानर्थानाचक्षते भेदवादिनः सौगताःप्रबुद्धतत्त्वाद् भवतो वीरा- त् परे तेषां सामान्यापह्नवे विशेषाणाम् अभावः प्रसज्येततेषां सामा- १०न्यनांतरीयकत्वात् तदभावे तद्भावायोगात् सर्वथानिरुपाख्य- म् एवायातं । येऽपि च सामान्यमेव प्रधानमेकं प्रवदंतिमहदहंका- रादिविशेषाणां तद्व्यतिरेकेणासत्त्वात् तेषाम् अपि भवतःपरेषां सकलविशेषाभावे सामान्यस्याऽपि तदविनाभाविनो ऽसत्त्वप्र- संगात् व्यक्ताव्यक्तात्मनश् च भोग्यस्याभावे भोक्त्तुर् अप्यात्मनो ऽसं- १५भव इति सर्वशून्यत्वम् अनिच्छतो ऽपि सिध्येत् । व्यक्ताव्यक्तयोः कथंचिद्भेदप्रतिज्ञाने तु स्याद्वादन्यायानुसरणान् नत्वदनाथवा- क्यं स्यात् तथा परस्परनिरपेक्षसामान्यविशेषभाववादिनो यौगाः कथंचित्सामान्यविशेषभावानभ्युपगमात् व्यतीतसा- मान्यविशेषभावाः प्रसिद्धा एव भवतः परे तेषाम् अपिखपुष्प- २०वद् असद् एव तत्त्वम् आयातं विश्वाभिलापार्थविकल्पशून्यत्वात्व्य- तीतसामान्यभाववादिवत् व्यतीतविशेषभाववादिवच् च । सर्वथा ५५शून्यवादिवद् वेति वाक्यभेदेन व्याख्यातव्यं । परंहि सामान्यं सत्त्वं द्रव्यगुणकर्मभ्यो भिन्नम् अभिदधतां द्रव्यादीनामसत्त्वं स्यात् सत्त्वाद् भिन्नत्वात् प्रागभावादिवत् । ननु द्रव्यादीनामप्रति- पत्तौ हेतोर् आश्रयासिद्धिः प्रतिपत्तौधर्मिग्राहकप्रमाणबाधितः ०५पक्षः कालात्ययापदिष्टश् च हेतुर् इति चेत्, न द्रव्यादीनां धर्मिणां कथंचित्सत्त्वाद् अभिन्नानां प्रत्यक्षादिप्रमाणतःसिद्धेस् त- द्भेदैकांतसाधनायैव प्रयुक्तस्य हेतोःकालात्ययापदिष्टत्वसिद्धेः । ननु च सत्त्वाद् भिन्नत्वाद् इत्य् एतस्य हेतोर् अप्रतिपत्तौस्याद् असिद्धत्वं प्रतिपत्तौ तु धर्मिग्राहकप्रमाणबाधितः पक्षो हेतुश् चकालात्ययो- १०दितः स्याद् द्रव्यादीनां सत्त्वाद् अभेदग्रहणस्यद्रव्याद्यस्तित्वप्रति- पत्तिनान्तरीयकत्वात् तदसत्त्वे तदभेदप्रतिपत्तेर् अयोगादिति च न समीचीनं वचनं प्रसंगसाधनप्रयोगात् इति चेत् न सत्त्वाद्भिन्नत्वं हि प्रागभावादिषु परैः स्वयमसत्त्वेन व्याप्तं प्रतिपन्नंद्रव्यादिषु प्रतिपद्यमानम् असत्त्वं साधयतीति साध्यसाधनयोर्व्याप्यव्यापक- १५भावनिश्चये सति व्याप्याभ्युपगमस्यव्यापकाभ्युपगमनान्तरी- यकस्य प्रदर्शनं प्रसंगसाधनम् अनुमन्यताम् । ननु चकिं सत्त्वा- समवायो ऽसत्त्वं साध्यते किं वा नास्तित्वम् इतिपक्षद्वितयं । न तावद् उत्तरः पक्षः श्रेयान् नास्तित्वेन सत्त्वाद्भिन्नत्वस्याव्याप्तत्वात् । प्रागभावादीनां सत्त्वाद् भिन्नत्वे ऽपि सद्भावादन्यथोदाहरण- २०त्वविरोधात् । प्रथमपक्षे तु प्रमाणबाधःसत्त्वसमावायस्य द्रव्यादिषु प्रमाणतः प्रतीतेः सत्त्वासमवायस्य तयाबाध्यमा- नत्वं । तथा हि — द्रव्यादीनि सत्तासमवायभांजिसत्प्रत्यय- ५६विषयत्वात्, यत् तु न सत्तासमवायभाक्तन् नसत्प्रत्ययविषयो यथा प्रागभावाद्यसत्तत्त्वं । सत्प्रत्ययविषयाश् चद्रव्यादीनि तस्मात् सत्तासमवायंभांजीति द्रव्यादिषु सत्त्वस्यसमवायप्रतीतिः सत्त्वासमवायस्य बाधिकास्ति ततो न द्रव्यादीनाम् असत्त्वं ०५सत्त्वासमवायलक्षणं साधयितुं शक्यंनास्तित्वलक्षणासत्त्ववद् इ- ति केचित् । ते ऽपि न परीक्षकाः । सत्प्रत्ययविषयत्वस्यहेतोः परेषां सामान्यादिभिर् व्यभिचारात् तेषुसत्त्वसमवायासंभवे ऽपि भावात् । यदि पुनर्मुख्यसत्प्रत्ययविषयत्वस्य हेतुत्वान्नोपच- रितसत्प्रत्ययविषयत्वेन व्यभिचारोद्भावनं युक्तमतिप्रसंगाद् इति १०निगद्यते तदा सामान्यादिषु कुतः सत्प्रत्ययविषयत्वमुपचरि- तम् इति वक्तव्यं । स्वरूपसत्त्वनिमित्तत्त्वाद् इति केचित् । व्याह- तम् एतत् । स्वरूपसत्त्वनिमित्तं चोपचरितं चेति को ह्य् अबा- लिशः स्वरूपसत्त्वनिमित्तं सत्प्रत्ययविषयत्वम् उपचरितमर्थान्तर- भूतसत्तासंबंधत्वान् मुख्यम् इति ब्रूयाद् अन्यत्रजडात्मनः, यष्टि- १५स्वरूपनिमित्तं हि यष्टौ यष्टिप्रत्ययविषयत्वं मुख्यंलोके प्रसिद्धं, यष्टिसंबंधात् तु पुरुषे गौणम् इतिमुख्योपचरितव्यवस्था- तिक्रमाद् अनादेयवचनताऽस्य स्यात् । स्याद् आकूतं ते सत्तास- मवायनिमित्तं सत्प्रत्ययविषयत्वं द्रव्यादिषु मुख्यंतद्विशेषणस- त्त्वग्रहणपूर्वकत्वाद् विशेषणप्रत्ययनिमित्तस्यविशेषप्रत्ययस्य मु- २०ख्यत्वसिद्धेःयष्टित्वविशेषणग्रहणनिमित्तकविशेष्ययष्टिप्रत्य- यवत् सत्त्वविशेषणग्रहणम् अंतरेण सामान्यादिषुसत्प्रत्यय- ५७स्योपचरितत्वसिद्धेः पुरुषे यष्टित्वग्रहणमन्तरेण यष्टिप्रत्ययव- द् इति । तद् अप्य् असम्यक् । तत एव व्यभिचारसिद्धेःसत्प्रत्य- पविषयत्वस्य सत्त्वसमवायासंभवे ऽपि भावात् । ततोद्रव्यादीनां सत्तातो ऽत्यंतभेदोपगमे सत्वासमवायलक्षणम् असत्त्वंसिद्धम् एव । ०५तथा पृथिव्यादीनाम् अद्रव्यत्वं द्रव्यात्वाद् भिन्नत्वाद्रूपादिवत्, रूपा- दीनां चागुणत्वं गुणत्वाद् अन्यत्वाद् उत्क्षेपणादिवत्, उत्क्षेपणा- दीनाम् अकर्मकत्वं कर्मत्वाद् अर्थान्तरत्वाद् धरादिवद् इतिव्यतीतसा- मान्यत्वं द्रव्यगुणकर्मणाम् असत्त्वं साधयतिव्यतीतविशेषत्ववत् । तत् सूक्तं सूरिभिः सदसत्तत्त्वं यौगानाम् असद् एवव्यतीतसामान्य- १०विशेषभावात् खपुष्पवद् इति सामान्यविशेषसमवायानां हिस्व- यम् असामान्यविशेषत्वाभ्युपगमात् प्रागभावादिवन् नासिद्धंव्यती- तसामान्यविशेषत्ववत्त्वं साधनं । नाऽपिद्रव्यगुणकर्मणां सामा- न्याद्यभावे प्रसिद्धे तेषांव्यतीतसामान्यविशेषत्वस्याप्रिसिद्धि- र् अथवा द्रव्यादीनां नास्तित्वम् एव साध्यं खपुष्पवद् इतिदृष्टांत- १५सामर्थ्यात्, ततो विश्वाभिलापार्थविकल्पशून्यं तत्त्वमायातं । अभिलापः पदं तस्यार्थः, अभिलापार्थः पदार्थ इतियावत्, तस्य विकल्पा भेदाः षट्द्रव्यादयोर् वैशेषिकाणां, प्रमाणादयः षोडश नैयायिकानां, विश्वे च ते ऽभिलापार्थविकल्पाश् चेति स्वपदार्थवृत्तिस् तैः शून्यं तत्त्वं स्यात् खपुष्पवद् असदेव प्रबुद्धत- २०त्वाद् भवतः परेषाम् इति वचनाद् भवतोवीरस्यानेकांततत्त्ववादिनो नासत्तत्त्वं स्याद् इति प्रतीयते । कथंचित्सामान्यविशेषभावस्य द्रव्यादिषु प्रतीयमानत्वात् प्रमाणादिषु बाधकाभावात् द्रव्या- ५८त् कथंचिद् अभेदो गुणकर्मणोर् अशक्यविवेचनत्वात्सिद्धस् तथा सा- मान्यविशेषसमवायानां प्रागभावादीनां च विशेषाभावात्तद्व- त्प्रमाणप्रमेयसंशयप्रयोजनदृष्टांतसिद्धांतावयवतर्कनिर्णयवादज- ल्पवितंडाहेत्वाभासछलजातिनिग्रहस्थानानां चद्रव्यपर्याय- ०५विशेषाणां द्रव्यात् कथंचिद् भेदस्य संप्रत्ययान् नासत्त्वंपर्यायान्त- रवत् । न हि यत एव ऽपर्याया द्रव्यस्यऽ इति नियमोव्यवति- ष्ठते विपर्ययानध्यवसाययोर् अपिप्रमाणादिषोडशपदार्थेभ्यो- ऽर्थान्तरभूतयोः प्रतीतेः । पदार्थसंख्यानियमानभ्युपगमे वाने- कान्तवादानतिक्रम एव सिद्धः । यथा च भवतः परेषांवैशे- १०षिकनैयायिकानां सकलपदार्थभेदशून्यं तत्त्वम् असद् एवस्यात् ख- पुष्पवत् तथा सांख्यादीनाम् अपिव्यतीतसामान्यविशेषत्वाविशेष- त्वात् । ततः सर्वेषाम् अपि सर्वेथैकांतवादिनाम् असद् एवतत्त्वम् इति संक्षेपतः प्रतिपत्तव्यम् । सांप्रतं परमतम् आशंक्य पुनर् अपि निराकर्त्तुमारभते — १५अतत्स्वभावे ऽप्य् अनयोर् उपायाद् गतिर् भवेत् तौ वचनीयगम्यौ । सम्बन्धिनौ चेन् न विरोधि दृष्टं वाच्यं यथार्थं न च दूषणं तत् ॥ २७ ॥ तदभावमात्रं स्वभावो ऽस्येति तत्स्वभावंशून्यस्वभाव २०तत्त्वं न तत्स्वभावम् अतत्स्वभावं अशून्यस्वभावंसत्स्वभावम् इत्य् अर्थः । तस्मिन्न् अतत्स्वभावे ऽपि तत्त्वे ऽभ्युपगभ्यमाने ऽनयोर्बंन्धमोक्षयो- ५९र् उपायात् कारकरूपाद् गतिः प्रतिपत्तिः स्यान् नान्यथाज्ञायक- रूपाच् चोपायाद् गतिः प्रतिपत्तिः स्यान् नान्यथेति निश्चेतव्यं । स च प्रतिपत्त्युपायः परार्थस् तावद् वचनं स्वार्थश् चप्रत्यक्षमनुमानं वा, तत्र यदा वचनं बंधमोक्षयोर् गतेर् उपायास् तदावचनीयौ तौ ०५यदा पुनर् अनुमानम् उपायस् तदा गम्यौ ताव् अनुमेयौ, यदा तुप्रत्य- क्षम् उपायस् तदा प्रत्यक्षेण गम्यौ परिच्छेद्यौ तौसंबंधिनौ पर- स्पराविनाभूतौ बंधेन विना मोक्षस्यानुपपत्तेर्बंन्धपूर्वकत्वान् मो- क्षस्य, मोक्षेण च विना न बंधः संभवति प्रागबद्धस्यपश्चाद् व- न्धोपपत्तेर् अन्यथा शाश्वतिकबंधप्रसक्तेः । अनादिबंधसंताना- १०पेक्षया बन्धपूर्वकत्वे ऽपि बंधस्य बंधविशेषापेक्षयातस्याबंधपू- र्वकत्वसिद्धेः प्रागबद्धस्यैव देशतो मोक्षरूपत्वान्मोक्षविनाभावी वंध इत्य् अविनाभाविबंधेन संबंधिनौ तौ बंधमौक्षोचेद् इति पर- मतस्य सूचकशब्दस् तन् नेत्य् अनेन प्रतिषिध्यते नैवंसत्स्वभावं तत्त्वं दृष्टं सर्वथा क्षणिकम् अक्षणिकं वा विरोधित्वात्तद्विरोधि दृष्टं १५प्रत्यक्षतो वहिर् अंतश् च नित्यानित्यात्मनो जात्यंतरस्यंसर्वथा क्ष- णिकाक्षणिकैकांतविरोधिनो निर्वाधं विनिश्चयात्, सम्यगनु- मानतो ऽपि तस्यैवानुमेयत्वात् । सर्वम् अनेकांतात्मकं वस्तुवस्तुत्वा- न्यथाऽनुपपत्तेर् इति स्वभावविरुद्धोपलंभःपरमततत्त्वं विरुणद्धि । नास्ति परमते सत्तत्त्वं सर्वथा क्षणिकम् अक्षणिकं वाततो जा- २०त्यंतरस्यानेकांतस्य दर्शनाद् इति स्वभावानुपलंभो वातद्विप्र- तिषेध इति नास्ति सर्वथैकांतात्मकं सत्तत्त्वंप्रत्यक्षाद्यनुपल- ब्धेर् इति माभूत्स्वयं प्रत्यक्षादिप्रमाणतः सतत्त्वस्यदर्शनं । पर- ६०पक्षदूषणत्वात् तत्सिद्धिर् एवेति चायुक्तं यस्माद्वाच्यं यथार्थं न च दूषणं तत् यद् दृ[? ]षणं परपक्षे स्वयम् उच्यतेक्षणिकैकांतवादिना तत्र च यथार्थं वाच्यं तच् च न सम्यग् दूषणं वक्तुंशक्यम् इत्य् अर्थः । न नित्यं वस्तु सदनर्थक्रियाकारित्वात्क्रमयौगपद्यरहितत्वात् ०५खपुष्पवद् इति दूषणस्यायथार्थत्वाद् दूषणाभासत्वसिद्धेःपरप- क्षवत् स्वपक्षे ऽपि भावान् न तत्प्रत्यनयोः पक्षयोःक्वचिद्विशेषो ऽ- स्ति । ताभ्यां हि सर्वथैकांताभ्याम् अनेकान्तो निवर्त्ततेविरोधा- त् तन्निवृत्तौ तु क्रमाक्रमौ निवर्त्तते तयोस् तेनव्याप्तत्वात् । एक- स्यानेकदेशकालव्यापिनो देशक्रमकालक्रमदर्शनात् । तथै- १०कस्यानेकशक्त्यात्मकस्य नानाकार्यकरणे यौगपद्यसिद्धेः । क्रमाक्रमयोश् च निवृत्तौ ततो ऽर्थक्रियाया निवृत्तिस् तस्यास्ताभ्यां व्याप्तत्वात् क्रमक्रमाभ्यां विना क्वचिद् अर्थक्रियानुपलब्धेस्त- न्निवृत्तौ च वस्तुतत्त्वं न व्यवतिष्ठते तस्यार्थक्रिययाव्याप्त- त्वात् । न च स्वपक्षं परपक्षवत् निराकुर्वद्दूषणंयथार्थं भवि- १५तुम् अर्हति न सर्वथाऽप्य् असत्तत्त्वं तत एव नोभयमनुभयं चार्थक्रि- याविरोधात् । किं तर्हि सकलम् अवाच्यम् एवेत्य् एकान्तवादे ऽपि दूषणम् आ- वेदयन्ति । उपेयतत्त्वानभिलाप्यताव- २०द् उपायतत्त्वानभिलाप्यता स्यात् । ६१अशेषतत्त्वानभिलाप्यतायां द्विषां भवद्युक्त्यभिलाप्यतायाः ॥ २८ ॥ भवतो वीरस्य युक्तिर् न्यायः स्याद्वादनीतिस् तस्या अभिलाप्यता कथंचित् सद् एवाशेषं तत्त्वंस्वरूपादिचतुष्टयात् कथं- ०५चिदसद् एव विपर्यासाद् इत्यादिवचनविषयता तस्या द्विषां श- त्रूणाम् अशेषस्यापि तत्त्वस्यानभिलाप्यतायाम् अभिप्रेतायां किं स्याद् उपायतत्त्वस्यानभिलाप्यता स्याद् उपेयतत्त्वस्येवाविशेषात् । ततश् च यथोपेयं तत्त्वं निःश्रेयसं सर्वथाभिलापितुमशक्यं तथो- पायतत्त्वम् अपि, तत्प्राप्तेः कारकं ज्ञायकं चेतिसर्वथाऽप्य् अनभिला- १०प्यं तत्त्वम् इत्य् अपि नाभिलपितुं शक्येत प्रतिज्ञातविरोधादित्य् अ- भिप्रायम् आविःकुर्वन्ति स्वामिनः — अवाच्यम् इत्य् अत्र च वाच्यभावा- द् अवाच्यम् एवेत्य् अयथाप्रतिज्ञम् । स्वरूपतश् चेत् पररूपवाचि १५स्वरूपवाचीति वचो विरुद्धम् ॥ २९ ॥ सर्वथाऽप्य् अशेषं तत्त्वम् अवाच्यं स्यात् स्वरूपतो वा पररूपतो वा गत्यंतराभावात् । प्रथमपक्षे तावद् अवाच्यमयथा- प्रतिज्ञं प्रसज्येत इति क्रियाध्याहारः । कुत एतत् अवाच्य- म् इत्य् अत्र वाच्यभावाद् अवाच्यम् इत्य् अस्यैव वाच्यत्वाद् इत्यर्थः । सप्त- २०भ्याः षष्ठ्यर्थत्वाच् च शब्दस्यैव शब्दार्थत्वात् । स्वरूपेणावाच्य- ६२म् इति द्वितीयपक्षे स्वरूपवाचि सर्वं वच इतिविरुद्धवचनम् आ- सज्येत । पररूपेणावाच्यतत्त्वम् इति तृतीयपक्षे ऽपिपररूपवाचि सर्वं वच इति विरुध्यते । सर्वत्र स्वप्रतिज्ञाव्यतिक्रमादयथा- प्रतिज्ञम् इति सम्बन्धनीयम् । तद् एवं न भावमात्रंनाभावमात्रं ०५नोभयं नावाच्यम् इति चत्वारो मिथ्याप्रवादाः प्रतिषिद्धाः सामर्थ्यान् न सद् अवाच्यं तत्त्वं नासद् अवाच्यंनोभयावाच्यं नानु- भयावाच्यम् इति निवेदितं भवति न्यायस्य समानत्वात् । कथञ्चिद्वाच्यत्वप्रतिज्ञायां तत्त्वस्य प्रतिपादकंवचनं सत्यम् एवानृतम् एव वेत्याद्येकान्तनिरासार्थम् आहुः — १०सत्यानृतं वाऽप्य् अनृतानृतं वाऽ- प्य् अस्तीह किं वस्त्वतिशायनेन । युक्तं प्रतिद्वंद्व्यनुबंधिमिश्रं न वस्तु तादृक् त्वदृते जिनेदृक् ॥ ३० ॥ किंचिद्वचन सत्यानृतम् एवाऽस्ति प्रतिद्वन्द्विमिश्रं १५सत्येतरज्ञानपूर्वकत्वाच् छाखायां चन्द्रमसं, पश्येति, यथा तत्र हि चन्द्रमसं पश्येति सत्यं चन्द्रमसो दर्शनात्संवादकप्रादुर्भा- वात् । शाखायाम् इति वचनम् अनृतंशाखाप्रत्यासन्नत्व[? ]दर्शनस्य चन्द्रमसि विसंवादकत्त्वात्तन्निबंधनवचनस्यानृतत्वसिद्धेः । सत्यं च तदनृतं चेति सत्यानृतम् अवतिष्ठते प्रदिद्वन्द्विभ्यांसत्यानृ- २०ताभ्यां वस्त्वंशाभ्यां मिश्रं युतम् इति संबंधनीयं । परवचनम- नृतानृतम् एवास्ति तच् चानुबंधिमिश्रं यथा चन्द्रद्वयंगिरौ पश्ये- ६३ति । तत्र हि यथा चन्द्रद्वयवचनम् अनृतं तथागिरौ चन्द्रवचनम् अपि विसंवादिज्ञानपूर्वकत्वात् । एकस्माद् अनृताद् अपरम् अनृतमनुबंधि स- मभिघीयते तेनानुबंधिना मिश्रमनुबंधिमिश्रम् इतिप्रत्येयं । प्रति- द्वन्द्वि चानुबंधि च प्रतिद्वन्द्व्यनुबंधिनी ताभ्यां मिश्रंसत्यानृतं ०५चाप्य् अनृतानृतं चेति यथासंख्यम् अभिसंबधाद्वाशब्दस्यैवकारार्थत्वा- द् एव व्याख्यातव्यम् । तच् चेदृक् भगवन् । जिन! नाथ!त्वदृते त्वत्तो विना वस्तुनो ऽतिशायनेनाभिधेयस्यातिशयेन वचनंप्रवर्तमानं किं युक्तं, नैव युक्तम् इत्य् अर्थात् तवैव युक्तम् एतदितिगम्यते तादृगने- कान्तमेकं नावास्तवं भवति त्वदृतेसर्वथैकान्तस्यावस्तुत्व- १०व्यवस्थानात् । कथं पुनः किंचिद् अनृतम् अपि सत्यं सत्यम् अप्य् अनृतंकिंचि- द् अनृतम् अनृतम् एवेति भेदो ऽनृतस्य स्याद् इत्य् आवेदयन्ति । सहक्रमाद् वा विषयाल्पभूरि भेदे ऽनृतं भेदि न चात्मभेदात् । १५आत्मान्तरं स्याद् भिदुरं समं च स्याच् चानृतात् मानभिलाप्यता च ॥ ३१ ॥ विषयस्याभिधेयस्याल्पभूरिभेदोल्पानल्पविकल्प- स् तस्मिन् सति स्याद् एवानृतं भेदवत् यस्य हिवचनस्याभिधे- यम् अल्पम् असत्यं भूरि सत्यं तत्सत्यानृतम् इति, सत्यविशेषणेनानृतं २०भेदि प्रतिपाद्यते । यस्य तु वचनस्याभिधेयम् अल्पंसत्यम् अनृतं भूरि तदनृतानृतम् इति, अन्त[? ]विशेषणेनानृतं । नचात्मभेदादनृतं ६४भेदि भव[? :इ]तुम् अर्हति तस्यानृतात्मना सामान्येनभेदाभावात् । आत्मान्तरं तु तस्यानृतस्यात्मविशेषलक्षणं स्यात् भिदुरंभे- दस्वभावं विशेषणभेदात् स्यात् सममभेदस्वभावंविशेषणभेदा- भावात् चशब्दाद् उभयं हेतुद्वयार्पणाक्रमेणेतियथासंभवम् अभि- ०५संबध्यते न तु यथासंख्यं छन्दोवशात् तथाभिधानात्सहद्वया- र्पणात् । स्याच् चानृतात्मानभिलाप्यता च सहोभाभ्यां धर्मा- भ्याम् अभिलपितुम् अशक्यत्त्वाच् चशब्दोऽनभिलाप्यांतराभिलाप्यांतर- भंगत्रयसमुच्चयः स्याद् भिदुरं चानभिलाप्यं च स्यात्समं चाऽन- भिलाप्यं चेति स्याद् उभयं चाऽनभिलाप्यं चेति सप्तभंगी १०प्रत्यया । ननु च न वस्तुनो ऽतिशायनं, संभवति, सदेकरूपत्वादि- त्य् एके । असदेकान्तात्मकत्वाद् इत्य् अपरे । सत्त्वासत्त्वाद्यशेष- धर्मप्रतिषेधाद् इति चेतरे । तन्निराकरणपुरःसरंवस्तुनो ऽनेका- तिशयसद्भावम् आवेदयन्ति — १५न सच् च नासच् च न दृष्टम् एक- म् आत्मान्तरं सर्वनिषेधगम्यम् । दृष्टं विमिश्रं तदुपाधिभेदा- त् स्वप्ने ऽपि नैतत्त्वदृषेः परेषाम् ॥ ३२ ॥ न तावत् सत्ताद्वैतं तत्त्वं दष्टम् इतिस्वभावानुपलं- २०भेन सन्मात्रं निराक्रियते । तथा हि — नास्ति सन्मात्रंसकल- विशषणरहितं दृश्यस्य सत जातुचिददर्शनात् असन्मात्रवदि- ६५त्य् अनेन नासद् एव तत्त्वं दृष्टम् इति व्याख्यातंचशब्दस्य समुच्च- यार्थत्वात् । परस्परनिरपेक्षं सत्तत्त्वम् असत्तत्त्वं नदृष्टम् इति घटना- त् तेन न परस्परनिरपेक्षं सदसत्तत्त्वं संभवतिसर्वप्रमाणतो दृष्टत्वात् सन्मात्रतत्त्ववद् असन्मात्रत्त्ववद् वेतिप्रतिपादितं प्रतिप- ०५त्तव्यं । तथा न सन्नाप्य् असन्नोभयं नैकं नानेकमित्याद्य- शेषधर्मप्रतिषेधगम्यम् आत्मान्तरं परमब्रह्मातत्त्वमित्य् अपि न संभवति । कदाचित् तथैवादर्शनाद् इति न दृष्टम् एकम् आत्मान्तरंसर्वनिषेधग- म्यम् इति व्याख्यातव्यं । तद् एवं सत्त्वासत्त्वविमिश्रंपरस्परापेक्षं तत्त्वं दृष्टम् इत्य् अनेन सदसदाद्येकांतव्यवच्छेदेनसदासदाद्य- १०नेकान्तत्वं साध्यते, तदुपाधिभेदात् । उपाधिर् विशेषणांस्व- द्रव्यक्षेत्रकालभावाः परद्रवक्षेत्रकालभावाश् चतद्भेदाद् इत्य् अर्थः । तेनेदम् उक्तं भवति — स्यात् सद् एव सर्वं तत्त्वंस्वरूपादिचतुष्टयात्, स्याद् असद् एव सर्वं तत्त्वं पररूपादिचतुष्टयात्, स्यादुभयं स्वपर- रूपादिचतुष्टयद्वैतक्रमार्पितात्, स्याद् अवाच्यं, सहार्पिततद्द्वैतात्, १५स्यात् सदवाच्यं स्वरूपादिचतुष्टयाद् अशक्तेः, स्यादसदवाच्यं प- ररूपादिचतुष्टयाद् अशक्तेः, स्यात् सदसदवाच्यंक्रमार्पितस्वपररू- पादिचतुष्टयद्वैतात् सहार्पिततद्द्वैताच् च । इत्येवं तदेव सदसदादि- विमिश्रं तत्त्वं दृष्टम् इति वस्तुनो ऽतिशायनेन किंचित्सत्यानृतं किंचिद् अनृतानृतं वचनं तवैव युक्तम् । त्वत्तो महर्षेरन्येषां २०सदाद्येकान्तवादिनां स्वप्नेपि नैतत् संभवतीति वाक्यार्थः प्रतिपत्तव्यः । ननु च निर्विकल्पकं प्रत्यक्षंनिरंशवस्तुप्रतिभास्येव न ६६धर्मिधर्मात्त्मकवस्तुप्रतिभासितपृष्टभाविविकल्पनज्ञानोत्थंधर्मो धर्मो ऽयम् इति धर्मिधर्मव्यवहारस्य प्रवृत्तेस् तेन चसकलकल्प- नापोढेन प्रत्यक्षेण निरंशस्वलक्षणास्यादर्शनम् असिद्धंकथं तद- भावं साधयेद् इति वदन्तं प्रत्याहुः — ०५प्रत्यक्षनिर्देशवद् अप्य् असिद्ध[? -] म् अकल्पकं ज्ञापयितुं ह्य् अशक्यम् । विना च सिद्धेर् न च लक्षणार्थो न तावकद्वेषिणि वीर ! सत्यम् ॥ ३३ ॥ प्रत्यक्षेण निर्देशः प्रत्यक्षनिर्देशः, प्रत्यक्षतो १०दृष्ट्वा नीलादिकम् इदम् इति वचनम् अन्तरेणांगुल्या प्रदर्शनमित्य् अ- र्थः । स प्रत्यक्षनिर्देशो ऽस्यास्तीति प्रत्यक्षनिर्देशवत् । तद् अप्य् अ- सिद्धं । कुत एतत्, यस्माद् अकल्पकं ज्ञापयितुं कुतश्चिदप्य् अ- शक्यं, हि यस्माद् अर्थे । तेनेदम् उक्तं भवति — यस्मादकल्पकं कल्प- नापोढं, न विद्यते कल्पः कल्पनाऽस्मिन्न् इति विग्रहात्, तद्ज्ञाप- १५यितुं संशयितेभ्यो विनेयेभ्यः प्रतिपादयितुं न शक्यं, तस्मा- त् प्रत्यक्षनिर्देशवद् अपि तत्त्वम् इदम् असिद्धम् इति । तद्धि प्रत्यक्षम् अक- ल्पकं न तावत् प्रत्यक्षतो ज्ञापयितुं शक्यं तस्यपरासंवेद्यत्वात् । नाऽप्य् अनुमानात् तत्प्रतिबद्धलिंगप्रतिपत्तेर् असंभवात्परेषाम् अगृहीतलिं- गलिंगिसम्बंधानाम् अनुमानज्ञानेन ज्ञापयितुम् अशक्तेः । स्वयं प्रति- २०पन्नकल्पनापोढप्रत्यप्रतिबद्धलिंगानां तुतज्ज्ञापनानर्थक्यात् । ६७को हि स्वयम् अकल्पकं प्रत्यक्षं तदविनाभाविलिंगंच प्रतिपद्यमानः प्रत्यक्षम् अकल्पकं न प्रतिपद्येत । प्रतिपद्यमानस्यापिविपरीतसमारो- पसंभवात् तज्ज्ञापनम् अनुमानेन नानर्थकम् इति चेत्, न, समारोपव्य- वच्छेदे [? ’]पि पर्यनुयोगस्य समानत्वात् । किंप्रतिपन्नसाध्यसाध- ०५नसंबंधस्यानुमानेन संमारोपव्यवच्छेदः साध्यते, स्वयम् अप्रतिपन्न- साध्यसाधनसंबंधस्य वेति ? न तावत् प्रथमः पक्षः, समारोपस्यै- वासंभवात् । स्वयं प्रत्यक्षम् अकल्पकंतदविनाभाविसाधनं च प्रति- पद्यमानस्य समारोपे परेणा प्रत्यायने ऽपि तस्यसमारोपप्रसं- गात् । नाऽप्य् अप्रतिपन्नसाध्यसाधनसंबंधस्यसाधनप्रदर्शनेन १०समारोपव्यवच्छेदनं युक्तम् अतिप्रसंगात् । यदिपुनर्गृहीतविस्मृ- तसंबंधस्य साध्यसाधनसंबंधस्मरणकारणात् समारोपोव्यव- च्छिद्यत इति मतं, तद् अप्य् अयुक्तम् । संबंधग्रहणस्यैवासंभवात्, स्वयमविकल्पकप्रत्यक्षानिश्चये तत्स्वभावकार्यानिश्चये चतत्सं- बंधस्य निश्चेतुम् अशत्त्केः । परतो निश्चयात् तन्निश्चयेतत्स्वरूप- १५स्यापि निश्चयान्तरान् निश्चयप्रसंगाद् अनवस्थानात् । निश्चयस्व- रूपानिश्चये ततो [? ’]कल्पकप्रत्यक्षव्यवस्थानानुपपत्तेःसर्वथा तस्य ज्ञापयितुम् अशक्तेः कुतः सिद्धिः स्यात् ? विना च सिद्धेर् नच लक्षणार्थः संभवति "कल्पनापोढम् अभ्रान्तं प्रत्यक्ष"म् इति ल- क्षणम् अस्यार्थः प्रत्यक्षप्रत्यायनं, न च प्रत्यक्षस्यसिद्धेर् विना २०तत्प्रत्यायनं कर्त्तुं शक्यम् इति नैव लक्षणार्थः कश्चित्संगच्छते । ततो न तावकद्वेषिणि वीर! सत्यं सर्वथा संभवति । तवाऽयं तावकः स चासौ द्वेषी चेति तावकद्वेषी तावकशत्रुर् इत्य् अ- ६८र्थः । तस्मिन् न सत्यं वीर ! भगवन्न् इतिव्याख्यानं । अथवा तवेदं मतं तावकं तद् द्वेषिती तावकद्वेषीसदाद्येकान्तवाद- स् तस्मिन् न सत्यम् एकांततः साधयितुं शक्यत इतिव्याख्येयं । यथा सत्यं न संभवति तथा कर्त्ता शुभस्याशुभस्यवा कर्मणः, ०५कार्यं च शुभम् अशुभं वा तद्द्विषां न घटत इतिप्रतिपादयंति — कालान्तरस्थे क्षणिके ध्रुवे वाऽ- पृथक्पृथक्त्वावचनीयतायाम् । विकारहानेर् न च कर्त्तृकार्ये वृथा श्रमो ऽयं जिन ! विद्विषां ते ॥ ३४ ॥ १०वस्तुनो जन्मकालाद् अन्यः कालः कालान्तरं तत्र तिष्ठतीति कालांतरस्थं तस्मिन् वस्तुनि प्रतिज्ञायमाने ऽपिन कर्त्ता कश्चिद् उपपद्यते, क्षणिके ध्रुवे वा । वाशब्द इवार्थस्तेनेदम् उक्तं भवति, यथा क्षणिके निरन्वयविनाशिनि वहिरन्तश् चवस्तुनि न कर्त्ताऽस्ति क्रमयौगपद्यविरोधात् क्रियाया एवासंभवात् । १५यथा च ध्रुवे कूटस्थे नित्ये निरतिशये पुरुषे सति नकर्त्ता विद्यते तथा कालांतरस्थे [? ’]पि अपरिणामिनि पदार्थे नकश्चित् क- र्त्ता संभवति, कर्तुरभावे च न कार्यं स्वयं समीहितंसिध्यति कर्तृनान्तरीयकत्वात् कार्यस्येति । कुत एतद् इति चेत्, विकार- हानेर् विकारः परिणामः स्वयम् अवस्थितस्य द्रव्यस्यपूर्वाकार- २०परित्यागाजहदुत्तरोत्तराकारोत्पादस् तस्य हानिर् अभावस् ततो विकारहानेर् इति हेतुनिर्देशः । विकारो हि विनिवर्त्तमानः ६९क्रमाक्रमौ निवर्तयति तयोस् तेन व्याप्तत्वात्, तन्निवृत्तौ तन्नि- वृत्तिसिद्धेस् तौ च निवर्तमानौ क्रियां निवर्तयतस् तस्यास्ताभ्यां व्याप्तत्त्वात् । क्रियापाये च न कर्त्ता क्रियाधिष्ठस्यद्रव्यस्य स्वतंत्रस्य कर्तृत्वसिद्धेः । कर्तुर् अभावे च न कार्यंस्वर्गापवर्गल- ०५क्षणम् इति वृथा श्रमो ऽयं तपोलक्षणास् तदर्थंक्रियमाणः स्यात् जिन ! स्वामिन् ! वीर ! तव द्विषां सर्वथैकान्तवादिनांसर्वे- षाम् इति संक्षेपतो व्याख्येयम् । ननु च वस्तुनि क्षणिके विकारस्य हानिर् अवस्थितस्य द्रव्यस्याभावात्, ध्रुवे च पूर्वाकारविनाशोत्तराकारोत्पादाभा- १०वात्, कालान्तरस्थे तु कथं तत्रोभयसंभवाद् इति केचित् । ते ऽपि न प्रामाणिकाः । प्रागसत एवोत्पन्नस्य कालान्तरस्थस्यापि पश्चाद् असत्त्वैकान्ते सर्वथैकक्षणस्थाद्विशेषाभावादनन्वयत्वस्य तदवस्थत्वात् । ननु नित्यस्यात्मनो [? ’]न्तस्तत्त्वस्यपूर्वानुभूत- स्मृतिहेतोः प्रत्यभिज्ञातुर् अर्थक्रियायां व्याप्तियमाणस्यकर्त्तुः १५कार्यस्य च तेन क्रियमाणस्य घटनाद् विशेषःकालान्तरस्थस्य क्षणिकाद् इति केचित् । नात्मनो ऽपिनित्यस्यैककर्त्तृत्वानुपपत्तेः । बुद्ध्याद्यतिशयसद्भावात् कर्त्तात्मेति चेत्, न, बुद्धी- च्छाद्वेषप्रयत्नसंस्काराणाम् आत्मनो ऽर्थान्तरत्वेखादिवत्कर्त्तृत्वा- नुपपत्तेः, इदं मे सुखसाधनं दुःखसाधनं चेतिबुद्ध्या खलु २०किंचिदात्मा जिघृक्षति वा जिहासति वा ग्रहणाय हानाय वा प्रयतमानः पूर्वानुभवसंस्कारात् कार्यस्योपादाता हाता वाकर्त्तो- च्यते सुखदुःखे च यदात्मनो भिन्ने स्यातां स्वादेर् इव नतदा ७०सुखदुःखे पुंस एवेति नियमः सिध्येत् । तयोः पुंसिसमवा- यात् पुंस एव सुखदुःखे न पुनः खादेर् इति चेत्, कुतस्तयोः पुंस्येव समवायः स्यात् । मयि सुखं दुःखं चेति बुद्धेरिति चेत्, सा तर्हि बुद्धिः पुनरात्मन्येवेति कुतः सिध्येत् । समवा- ०५याद् इति चेत्, कुतस् तस्यास् तत्रैव समवायो न च गगनादाविति निश्चेतव्यं । मयि बुद्धिर् इति बुद्ध्यंतराद् इति चेत्, तदपि बुद्ध्यंतरम् आत्मन्येवेति कुतः ? समवायाद् इति चेत्, कुतस्तस्या- स् तत्रैव समवाय इत्यादि पुनर् आवर्त्तत इतिचक्रकप्रसंगः । यस्य यद्बुद्धिपूर्वकाविच्छाद्वेषौ तत्र तद्बुद्धेः समवाय इतिचेत्, कुतः १०पुंस एव बुद्धिपूर्वकाविच्छाद्वेषौ न पुनः खादेरितिनिश्चयः ? पुंस एव प्रयत्नाद् इति चेत्, प्रयत्नो ऽप्य् आत्मन एवेति कुतःसंप्र- त्ययः ? प्रवृत्तेर् इति चेत् सा तर्हिप्रवृत्तिरूपादानपरित्याग- लक्षणा कुशला वाऽकुशला वा मनोवाक्कायनिमित्ता प्रयत्न- विशेषं बुद्धिपूर्वकम् अनुमापयंती पुंस एवेति कुतःसाधयेत् ? १५शरीरादाव् अचेतने तदसंभवात् पारिशेष्याद् आत्मन एव सेतिचेत्, नात्मनो ऽपि स्वयम् अचेतनत्वाभ्युपगमात् । चेतनासमवायादात्मा[? -] चेतन इति चेत्, न स्वतो ऽचेतनस्य चेतनासमवाये खादि- ष्व् अपि तत्प्रसंगात्, स्वतश् चेतनत्वेचेतनासमवायवैयर्थ्यात् । स्वरूपचेतनया साधारणरूपया चेतनस्यसाधारणचेतनासमवाय २०इति चेत्, नासाधारणचेतनायाः पुंसो ऽनर्थान्तरत्वेसाधारण चेतनाया अप्य् अनर्थान्तरत्वम् अतिप्रसंगाच्चेतनाविशेषसामान्ययोः पुंसस् तादात्म्यसिद्धौ च परमतानुसरणं दुर्निवारं । चेतनावि- ७१शेषस्यापि चेतनासामान्यवद् आत्मनो ऽर्थान्तरत्वे कुतोन गगना- देर् विशेषो ऽचेतनत्वाद् इति शरीरादाव् इव पुंस्य् अपि प्रवृत्तिर्न सि- ध्येत् तदसिद्धौ न तत्रैव प्रयत्नसिद्धिरिच्छाद्वेषसिद्धिर् वा सुख- दुःखबुद्धिश् चेति न कर्ताऽत्मा सिध्येत्, कार्यं वा यतःकालांतरस्थे ०५बुद्ध्यादौ कर्तृकार्ये न विरुध्येते क्षणस्थितिबुद्ध्यादिवत् । अथवा महदादिः कालंतरस्थायी नित्यात् प्रधानादपृथग्भूतः पृथग्भूतो वा ? प्रथमपक्षे न कर्तृकार्ये, विकारस्यहानेः, कर्तृ प्रधानं, कार्यं महदादिव्यक्तं, तयोश्चापृथग्भावे यथाप्रधानामवि- कारि तथा महदादि व्यक्तम् अपि तदपृथक्त्वात्प्रधानस्वरूपवत् १०तथा च न कार्यं प्रधानवत्, कार्याभावे च कस्य कर्तृप्रधानं स्याद् विकारस्य कार्यस्याभावात् ततो नापृथक्त्वे व्यक्ताव्यक्त- योः कर्तृकार्ये व्यक्ताव्यक्ते स्यातां । द्वितीयपक्षे ऽपि नकर्तृकार्ये, तथा हि — न प्रधानं कर्तृ महदादिकार्यात् पृथग्भूतत्वात् पुरुषवत्, विपर्ययप्रसंगो वा महदादि च न कार्यंकर्त्तुर् अभा- १५वात् पुरुषवत् । न हि प्रधानं महदादेः कर्तृतस्याविकारित्वात् पुरु- षवद् इति नासिद्धः कर्तुर् अभावः । यदिपुनर्व्यक्ताव्यक्तयोर् अपृथ- क्त्वपृथक्त्वभ्याम् अवाच्यता स्वीक्रियते तदाऽप्यपृथक्त्वपृथक्त्वा- वचनीयतायां न कर्तृकार्ये विकारस्य हानेःपुरुषभोक्तृत्वादि- वत् । पुरुषाद् धि भोक्त्तृत्वादिरपृथक्त्वपृथक्त्वाभ्यामवच- २०नीयो ऽन्यथा तदपृथक्त्वेन भोक्ता नित्यः सर्वगतो ऽक्रियो निर्गुणो ऽकर्त्ता शुद्धो वा सिध्येत् पुरुष एव भोक्तृत्वनित्य- त्वसर्वगतत्वाक्रियत्वनिर्गुणत्वाकर्तृत्त्वशुद्धत्वधर्माणामन्तर्भावा- ७२त् । तेषां पुरुषात् पृथग्भावे वा स एव दोषः स्यात्भोक्तृत्वादि- भ्यो ऽन्यस्य भोक्तृत्वादिविरोधात् । प्रधानवदपृथक्त्वपृथक्त्त्व- भ्याम् अवचनीयत्वे च न कर्त्तात्मा भोक्तृत्वादेर् नापिभोक्तृत्वादिः कार्यं पुरुषस्येति नोदाहरणं साध्यसाधनविकलंकर्तृकार्यत्वाभा- ०५वसाधनस्य विकाराभावस्य साध्यस्यपृथक्त्वापृथक्त्वावचनीयत्व- स्य च साधनस्य सद्भावात्, ततो यत्रानन्यत्वान्यत्वाभ्यामवच- नीयता तत्र विकारहानिः साध्यते । यत्र च विकारहानिस्तत्र कर्तृकार्यत्वाभाव इति कालान्तरस्थे ऽपि महदादौ नकर्तृकार्ये । पृथक्त्वापृथक्त्वावचनीयताया विकारहानेर् इतिवाक्यभेदेनापृथ- १०क्त्वे पृथक्त्वे च व्यक्ताव्यक्तयोर् अपृथक्त्वपृथक्त्वाभ्यामवचनी- यतायां चेति पक्षत्रये ऽपि दृषणं योजनीयम् । तथा चसांख्या- नाम् अपि जिन ! तव विद्विषां वृथा श्रमः सकलोयमनियमास- नप्राणायामप्रत्याहारध्यानधारणासमाधिलक्षणयोगांगानुष्ठान- प्रयासः खेदो वृथैव स्याद् वैशेषिकनैयायिकानाम् इवेतिवाक्या- १५र्थः । तद् एवं समंतदोषं मतम् अन्यदीयम् इतिसमर्थितं । जिन ! त्वदीयं मतम् अद्वितीयम् इति प्रकाशितं च । ततस् त्वम् एवमहा- न् इतीयत्प्रतिवक्तुम् ईशा एव वयम् इति प्रकृतसिद्धिः । साम्प्रतं चार्वाकमतम् अनूद्य दूषयन्ति — मद्यांगवद् भूतसमागमे ज्ञः २०शक्त्यन्तरव्यक्तिर् अदैवसृष्टिः । इत्य् आत्मशिश्नोदरपुष्टितुष्टै-७३र् निर्ह्रीभयैर् हा ! मृदवः प्रलब्धाः ॥ ३५ ॥ मद्यांगानि पिष्टोदकगुडधातक्यादीनि तेष्व् इव तद्धेतुभूतानि पृथिव्यप्तेजोवायुतत्त्वानि तेषां समागमःसमुदाय- स् तस्मिन् सति ज्ञश् चेतनः परिणामविशेषःसुखदु[? ḥ]खहर्षविषादादि- ०५विवर्त्तात्मको गर्भादिमरणपर्यन्तः प्रादुर्भवत्याविर्भवति वा कार्यवादाभिव्यक्तिवादाश्रयिणाम् इति भावः । पृथिव्यप्तेजो- वायुर् इति तत्त्वानि तत्समुदये शरीरेन्द्रियविषयसंज्ञास्तेभ्यश् चै- तन्यम् इत्य् अत्र सूत्रे कार्यवादिभिर् अविद्धकर्मादिभिरुत्पद्यते इति क्रियाध्याहारात्, तथाऽभिव्यक्तिवादिभिः पुरंदरादिभिरभि- १०व्यज्यत इति क्रियाध्याहारात् । भूतसमागमे ज्ञ इतिभूतसमु- दायस्य परंपरया कारणत्वम् अभिव्यंजकत्वं वा प्रत्येयं । साक्षा- च् छरीरेन्द्रियविषयसंज्ञेभ्य एवज्ञस्योत्पादाभिव्यक्तिवचनात् अहं चक्षषा रूपं जानामीति ज्ञातुः प्रतीतेस् तेषामन्यतमस्याप्य् अ- पाये ज्ञस्याप्रतीतेर् ज्ञानक्रियायाःकर्तृकरणकर्मनान्तरीयकत्वात् । १५तत्र शरीरसंज्ञस्य कर्तृत्वाच्चैतन्यविशिष्टकायव्यतिरेकेणापरस्या- त्मनस् तत्त्वांतरस्य कुतश्चित् प्रमाणाद् अप्रतिपत्तेश्चक्षुरादींद्रियसंज्ञस्य करणत्वाच् चैतन्यविशिष्टेन्द्रियव्यतिरेकेणकरणास्याऽसंप्रत्ययात् । विषयसंज्ञस्य वा कर्मत्वात् तस्य ज्ञेयतयाऽवस्थितत्वात् । न च मृतशरीरेन्द्रियविषयेभ्यश् चैतन्यस्यानुदयदर्शनात्तेभ्यश् चैतन्यम् इति २०दुःसाधनं, चैतन्यविशिष्टानाम् एवजीवशरीरेन्द्रियविषयसंज्ञानां संज्ञाननिबंधनत्ववचनात्, कुतः पुनर्भूतानां सर्वेषामपि समागमे ७४शरीरेन्द्रियविषयसंज्ञा असंभवंत्यःप्रतिनियम्यंते ? शरीराध्यारं- Bहकभूतानाम् एव समुदाये सति संभवंति न पुनःपिठरादिभूत- समुदाय इति न चोद्यं तेषां शक्त्यन्तरव्यक्तेः । यथैवहि मद्यां- गनां पिष्टोदकादीनां समागमे मदहेतोः शक्त्यंरस्य व्यक्ति- ०५स् तथा पृथिव्यादिभूतानां ज्ञानहेतोः शक्त्यंतरस्य व्यक्तिः स्यात् । तर्हि शक्त्यंतरव्यक्तिप्रतिनियतेष्व् एव भूतेषुसमुदितेषु संभवन्ती दैवनिमित्ता स्यात्, दृष्टाकारणव्यभिचार[? :आ]दिति च न शंकनीयं दैवस्य तत्सृष्टिनिमित्तस्य कादाचित्कतयादैवान्त- रात् सृष्टिप्रसंगात् । यदि पुनर्दैवव्यक्तिः कादाचित्क्य् अपिस्वा- १०भाविकीति न तस्या दैवत्सृष्टिः परस्मादन्यथानवस्थाप्रसंगा- द् इति मतं तदा शक्त्यंतरव्यक्तिर् अप्य् अदैवसृष्टिः सिद्धासुदूरम् अ- पि गत्वा स्वभावस्यावश्यम् आश्रयणीयत्वात् । शक्त्यंतरं हि शक्तिविशेषो ऽन्तरशब्दस्य विशेषवाचिनः प्रयोगात् ततो यथा मद्यांगानां समागमे कालविशेषविशिष्टे पात्रादिविशेषविशिष्टे १५चाऽविकले ऽनुपहते च मदजननशक्तिविशेषव्यक्तिरदैवसृष्टि- र्दृष्टा मद्यांगानाम् असाधारणानां साधारणानां च समागमेसति स्वभावत एव भावात्, तथा ज्ञानहेतुशक्तिविशेषव्यक्तिर् अप्य- दैवसृष्टिरेव ज्ञानांगानां भूतानाम् असाधरणानां चसमागमे सति स्वभावत एव भावात्, ज्ञानजननसमर्थस्यैवकललादिशरीर २०स्यासाधारणस्य शरीरसंज्ञत्ववचनात् तथा ज्ञानक्रियायांसाधक- तमस्यैवेन्द्रियस्यासाधरणस्येन्द्रियसंज्ञत्वसिद्धेर्विषयस्य च ज्ञा- नक्रियाश्रयस्यैवासाधारणस्य विषयसंज्ञत्वोपपत्तेर् नसर्वे श- ७५रीरादयः शरीरादिसंज्ञात्वं लभन्ते यतःप्रतिनियमो न स्या- त् कालाहारादेर् एव साधारणस्यानियामात्ततो दृष्टनियतानियत- कारणसृष्टित्वाच् चैतन्यशक्त्यभिव्यक्तेर् न सा दैवसृष्टिर्मदशक्त्य- भिव्यक्तिवद् विरेचनशक्त्यभिव्यक्तिवद् वा, हरीतक्यादिसमुदये न ०५हि देवतां प्राप्य हरीतकी विरेचयतीति युक्तं वक्तुंकदाचि- त् ततः कस्यचिद् अविरेचने ऽपि हरीतक्यादियोगस्यपुराणत्वादिना शक्त्त्[? :ओम्]इवैकल्यस्यैव सिद्धेर् उपयोक्तुःप्रकृतिविशेषस्य चाप्रती- तेर् इति यैर् अभिमन्यते तैर् मृदवः प्रलब्धाःसुकुमारप्रज्ञानाम् एव मृदूनां विप्रलंभयितुं शक्यत्वात् । कीदृशैस् तैर्निर्ह्व्[? ]ईभयैः शिश्नो- १०दरपुष्टतुष्टैर् इति । ये हि स्त्रीपानादिव्यसनिनो निर्लज्जानिर्भ- यास् त एव मृदून् विप्रलभंते परलोकिनो ऽभावात् परलोका- भावः पुणयपापकर्मणस् तु दैवस्याभावात्, तत्साधनस्यशुभा- शुभानुष्ठानस्याभाव इति यथेष्टं प्रवर्त्तितव्यं, तपःसंयमादीनां च यातनाभोगवंचमात्रत्वाद् अग्निहोत्रादिकर्मणो ऽपि बालक्री- १५डोपमत्वात् । तद् उक्तम् — तपांसि यातनाश् चित्राः संयमो भोगवंचकः । अग्निहोत्रादिकं कर्म बालक्रीडेव लक्ष्यते ॥ इति नानाविधविप्रलंभनवचनसद्भावात् । परमार्थतोऽनादिनिध- नस्योपयोगलक्षणस्यात्मनो ज्ञस्य प्रमाणतः प्रसिद्धःभूतसमागमे २०ज्ञ इति व्यवस्थापयितुम् अशक्तेः । तानि हि पृथिव्यादीनिभूतानि कायाकारपरिणतानि संगतान्य् अपि अविकलानुपहतवीर्याणि चैतन्यशक्तिं सतीम् एव प्रागसतीम् एव वाऽभिव्यंजयेयुःसदसतीं ७६वा ? गत्यंतराभावात् । प्रथमकल्पनायामनादित्वसिद्धिर् अनंतत्व- सिद्धिश् च चेतनाशक्तेः सर्वदा सत्या एवाभिव्यक्तिसिद्धेः । तथा हि — कथंचिन् नित्या चैतन्यशक्तिः सदकारणत्वत्पृथिव्यादि- सामान्यवत् न पृथिव्यादिव्यक्त्यानेकान्तस् तस्यास् तत्सत्त्वे ऽपि ०५सकारणत्वात्, नाऽपि प्रागभावेन व्यभिचारस् तस्याकारणत्वेऽ- पि सद्रूपत्वासिद्धेस् ततः समुदितो हेतुर् न व्यभिचारीसर्वथा वि- पक्षावृत्तित्वात् तत एव न विरुद्धो, नाप्य् असिद्धः सतोऽभिव्यं- ग्यस्य सदकारणत्वसिद्धेर् अभिब्यंजकस्याकारणत्वात् । ननुच मद्यांगैः पिष्टोदकादिभिर् अभिव्यज्यमानाऽपि मदशक्तिःप्राक्सती १०न नित्याभ्युपेयते ततस् तया सदकारणया व्यभिचार एवहेतोर् इति चेत्, न तस्या अपि कथंचिन् नित्यत्वसिद्धेश्चेतनद्रव्यस्यैव मद- शक्तिस्वभावत्वात् सर्वथाऽप्य् अचेतनेषु मदशक्तेरसंभवात् । मनसो मदशक्तिर् इति चेत्, न तस्याप्य् अचेतनत्वाद् भावमनस एवचेतनस्य मदशक्तिसंभवात् । एतेनेद्रियाणाम् अचेतनानां मदशक्तेरसंभवः १५प्रतिपादितः । भावेन्द्रियाणां तु चेतनानाम् एवमदशक्तिसंभा- वनायां च किंचिद् अचेतनद्रव्यं माद्यति नाममद्यभाजनस्यापि मदप्रसंगात् । न चैवं मुक्तानाम् अपि मदशक्तिः प्रसज्यतेतेषां तदभिव्यक्तिकारणासंभवात् । मदशक्तिर् हिव्[? ब्]अहिरंगकारणम् अभि- व्यक्तौ मद्यादि चेतनस्यात्मनस् तस्यानियतत्वात् । अन्तरंगंतु २०कारणं मोहनीयाख्यं । न च मुक्तानां तदुभयकारणम् अस्तियत- स् तेषां मदशक्तेर् अभिव्यक्तिः स्यात् । तत्रानभिव्यक्तामदशक्ति- र् अस्त्व् इति चेत्, सा यदि चैतन्यद्रव्यरूपा तदास्त्य् एव, मोहो- ७७दयरुपातु न संभवति मोहस्यात्यंतपरिक्षयात्कर्मान्तरवत्, तन् न मदशक्त्या व्यभिचारः साधनस्य, मदजननस्य शक्त्यामद्यांग- समागमेनाभिव्यज्यमानया सत्या कारणया व्यभिचार इति चेत्, न तस्याः सुरांगसमागमकार्यत्वात्, ततः पूर्वं प्रत्येकंपिष्टा- ०५दिषु तत्सद्भावावेदकप्रमाणाभावात् । एतेन मोहोदयनिमि- त्तयाऽऽत्मनो मदशक्त्या पराभ्युपगतया व्यभिचारोद्भावनमपा- स्तं तस्याश् च मोहोदयकार्यत्वात् क्षीणामोहस्यासंभवात् ततो निरवद्यो हेतुश् चैतन्यशक्तेर् नित्यत्वसाधनेसदकारणत्वाद् इति सिद्धः परलोकित्वम् अनिच्छतां न सती चैतन्यशक्तिरभिव्य- १०ज्यत इति वक्तव्यं । यदि पुनः प्रागसती चैतन्यशक्तिरभिव्य- ज्यते तदा प्रतीतिविरोधः सर्वथाप्य् असतः कस्यचिद- भिव्यक्त्यदर्शनात् । कथंचित् सती वासती वाऽभिव्यज्यतैति चेत्, परमतसिद्धिः, कथंचिद् द्रव्यतः सत्याश्चैतन्यशक्तेः पर्या- यतश् चासत्याः कायाकारपरिणतपुद्गलैर् अभिव्यक्तेरभीष्टत्वात् स्या- १५द्वादिभिस् ततो विप्रलब्धा एवचैतन्यशक्त्यभिव्यक्तिवादिभिः सुकुमारप्रज्ञाः, सर्वथा चैतन्याभिव्यक्तेःप्रमाणबाधितत्वात् । येषां तु भूतसमागमकार्यं चैतन्यशक्तिस् तेषांसर्वचैतन्यशक्ती- नाम् अविशेषप्रसंगात् प्रतिप्राणि बुद्ध्यादिचैतन्यविशेषो न स्यात् । २०प्रतिसत्त्वं भूतसमागमस्य विशिष्टत्वात्तद्विशेषसिद्धिर् इति वदन्तं प्रति प्राहुः सूरयः — ७८दृष्टे ऽविशिष्टे जननादिहेतौ विशिष्टता का प्रतिसत्त्वम् एषाम् । स्वभावतः किं न परस्य सिद्धि- र् अतावकानाम् अपि हा प्रपातः ॥ ३६ ॥ ०५दृष्ट एवाविशिष्टे हेतौ पृथिव्यादिसमुदये तन्नि- मित्ते वा शरीरेन्द्रियविषयसंज्ञे ऽभ्युपगम्यमानेदैवसृष्टेर् अनभ्युप- गमात् का नाम विशिष्टता सत्त्वं सत्त्वं प्रतिभूतसमागमस्य स्यात्, न काचिद् विशिष्टता संभवतीत्य् अर्थः । स्वभावतएव विशिष्टभूतानाम् इति चेत्, (ख) परस्याऽपि पृथिव्यादि- १०भूतेभ्यो ऽन्यस्यापि पंचमस्यात्मतत्त्वस्य सिद्धिः किं नस्यात् किं भूतकार्यचैतन्यवादेन ? स्यान् मतं, कायाकारपरिणतभूतकार्यत्वाच् चैतन्यस्यस्वभा- वतः सिद्धिस् तर्हि भूतानि किम् उपादानकारणं चैतन्यस्यसह- कारिकारणं वा ? यद्य् उपादानकारणं तदा चैतन्यस्यभूतान्वय १५प्रसंगः सुवर्णोपादाने किरीटादौ सुवर्णन्वयवत् । पृथिव्याद्यु- पादाने वा काये पृथिव्याद्यन्वयवत् । प्रदीपोपादानेनकज्जलेन प्रदीपानन्वितेन व्यभिचार इति चेत्, न कज्जलस्य प्रदीपो- पादानत्वासिद्धेः । प्रदीपज्वाला हिप्रदीपज्वालान्तरस्योपादानं न कज्जलस्य, तस्य तैलवर्त्युपादानत्वात्, प्रदीपकलिकांसहका- २०रिणीम् आसाद्य तैलं कज्जलरूपेण परिणमदूर्ध्वं गच्छदुपलभ्यते । न च तत्तैलान्वितं रूपादिभिः समन्वयदर्शनात् । एकस्य ७९पुद्गलद्रव्यस्य तैलरूपतां परित्यज्यकज्जलरूपतापासादयतः प्रदीपसहकारिविशेषवशाद् रूपादिनान्वितस्यप्रतीतिसिद्धस्यान्य- था वक्तुम् अशक्तेः, त्यक्तात्यक्तात्मरूपस्य पूर्वापूर्वेणवर्त्तमानस्य कालत्रये ऽपि विषयस्य द्रव्यस्योपादानत्वसिद्धेः । तदुक्तम् — ०५त्यक्तात्यक्तात्मरूपं यत्पूर्वापूर्वेण वर्त्तते । कालत्रये ऽपि तद्द्रव्यम् उपादानम् इति स्मृतम् ॥ न चैवं भूतसमुदायः पूर्वम् अचेतनाकारं परित्यज्यचेतना- कारं गृह्णन् धारणेरेण द्रवोष्णतालक्षणेनभूतस्वभावेनान्वितः संलक्ष्यते चैतन्यस्य धारणादिस्वभावरहितस्यसंवेदनात् । १०न चात्यंतविजातीयं कार्यं कुर्वाणः कश्चिद् अर्थः प्रतियतेपार- दादिः पारदीयं कुर्वन्न् अपि नात्यंतविजातीयं कुरुतेरूपादित्वेन सजातीयत्वात्, तर्हि चैतन्यम् अपि नात्यंतविजातीयंभूतसमु- दायः कुरुते । तस्य सत्त्वार्थक्रियाकारित्वादिभिर् धर्मैःसजातीय- त्वाद् इति चेत्, किम् इदानीं जलानलादीनां परस्परम् उपादा- १५नोपादेयभावो न भवेत् तत एव तेषां तत्त्वान्तरत्वात् । धारणा- द्यसाधारणपरस्परविलक्षणत्वान् नोपादानोपादेयभाव इतिचेत्, किम् एवं भूतचैतन्ययोर् असाधारणलक्षणयोःपरस्परविलक्षणयो- र् उपादानोपादेयभावो ऽभ्यनुज्ञायते । धारणादिलक्षणं हिभूत- चतुष्टयम् उपलभ्यते न चैतन्यं तद् अपिज्ञानदर्शनोपयोगलक्षणम् उप- २०लक्ष्यते न भूतचतुष्टयम् इति नपरस्परविलक्षणलक्षणत्वं भूतचैतन्ययोर् असिद्धं ततो नोपादानोपादेयभावो युक्तः । सा- धारणसत्त्वादिधर्मसाधर्म्यमात्रात् तयोर् उपादानोपादेयत्वेऽतिप्रसं- ८०गस्य दुर्निवारत्वात् । यदि पुनः सहकारिकारणंभूतसमुदय- श् चैतन्योत्पत्तौ प्रतिपाद्यते [? ] तदोपादानकारणमन्यद्वाच्यं, निरु- पादानस्य कस्यचित् कार्यस्यानुपलब्धेः । शब्दविद्युत्प्रदीपादि- वन्निरुपादानं चैतन्यम् इति चेत्, न, तस्यापि स्वोपादानत्व- ०५सिद्धेः । तथा हि स्वोपादानकारणपूर्वकः शब्दादिःकार्यत्वा- त् पटादिवत् । किं पुनस् तस्योपादानं ताल्वादिसहकारिव्यति- रिक्तं दृष्टम् इति चेत्, शब्दादिपुद्गव्यम् इति ब्रूमस् तथा हि शब्दादिः पुद्गलद्रव्योपादान एव वाह्येन्द्रियप्रत्यक्षत्वात्घटवत् । सामान्येन व्यभिचार इति चेत्, न, तस्यापिमूर्त्तद्रव्याधारस्य १०सदृशपरिणामलक्षणस्य वाह्येन्द्रियग्राह्यस्यपुद्गलद्रव्योपा- दानत्वसिद्धेः । तथा सति सामान्यस्यानित्यत्वप्रसंगः इति चेत्, कथंचिद् इष्टत्वाद् अदोष इति सर्वथा नित्यस्य सामान्य- स्य स्वप्रत्ययहेतुत्वविरोधात् । द्रव्येणसंग्रहनयविषयेण सा- मान्येनानेकांत इति चेत्, न तस्याप्य् अतीन्द्रियस्यवाह्येन्दिरया- १५प्रत्यक्षत्वात् तेन व्यभिचाराभावात् । यत्र वाह्येन्द्रिग्राह्यं पुद्गलस्कंधद्रव्यं व्यवहारनयसिद्धंतत्सूक्ष्मपुद्गलोपादानम् एवेति कथं तेनानेकांत इति च । ततो नानुपादानं शब्दादिकम् अस्ति यतस् तद्वत्सहकारिमात्राच् चैतन्यम् अनुपादानम् उत्पद्यतेइति प्रपद्येमहि । न चोपादानसहकारिपक्षद्वयव्यतिर् एकेण किंचित् कारणमस्ति येन २०भूतचतुष्टयं चैतन्यस्य जनकम् उररीक्रियते । ततःस्वभावत एव चैतन्यस्य सिद्धिर् अस्तु पृथिव्यादिभूतविशेषवद् इतितत्त्वान्तर- सिद्धिस् ताम् अपन्हवानाम् अतावकानांदर्शनमोहोदयाकुलितचेतसां ८१जीविकामात्रतंत्राणां विचारयताम् अपि हा ! कष्टंप्रकृष्टः पातः संसारसमुद्रावर्त्तपतनलक्षणः संजात इति सूरयःकरु- णाविषयत्वं दर्शितवन्तः । दीक्षात एव मुक्तिर् इति मन्यमानान् मंत्रिणःप्रत्याहुः — ०५स्वच्छन्दवृत्तेर्जगतः स्वभावा- द् उच्चैर् अनाचारपथेष्व् अदोषम् । निर्घुष्य दीक्षासमम् उक्तिमाना- स् त्वद्दृष्टिवाह्या वत विभ्रमंति ॥ ३७ ॥ हिंसाऽनृतस्तेयाब्रह्मपरिग्रहा उच्चैर् अनाचारपथाः १०पंच महापातकानि तेष्व् अनुष्ठीयमानेष्व् अप्य् अदोषंनिर्घोषयन्ति के- चित्, स्वभावत एव जगतः स्वच्छन्देन वृत्तेर् इत्युपपत्तिम् आचक्षते । तथा हि — जगतो ऽनाचारपथा महान्तो ऽपि न दोषहेतवः स्व- भावतो यथेच्छवर्त्तमानत्वात् प्रसिद्धजीवन्मुक्तवद् इतिनिर्घु- ष्य दीक्षासमकालां मुक्तिं मन्यन्ते । दीक्षया समा समकाला १५दीक्षासमा सा चासौ मुक्तिश् च सा दीक्षासमम् उक्तिस् तस्यांमानोऽ- भिमानो येषां ते दीक्षासमम् उक्तिमाना इति पदघटना । ते चत्व- द्दृष्टेर्बंधमोक्षतत्कारणानिश्चयनिबंधनस्याद्वाददर्शनात्वाह्याः सर्वथैकांतवादित्वात् विभ्रमंत्य् एव केवलं वत कष्टं, पुनस् तत्त्वनिश्चयं नासादयन्तीत्य् अर्थः । दीक्षा हि मंत्रविशेषारोपणम् उपसन्नमनसी- २०ष्यते, सा च यदि यमनियमसहिता तदा त्वदृष्टिर् एवेतिभग- वद्दर्शनाद् अवाह्या एव दीक्षावादिनस् तथातत्त्वविनिश्चयप्राप्तेः । ८२अथ यमनियमरहिता दीक्षा कक्षीक्रियते तदा न सादोषविपक्ष- भूताऽनाचारप्रतिपक्षभूता वा यतो ऽनाचारक्षयकारिणी स्यात्, न चानाचारक्षयकारणम् अन्तरेण दीक्षासमकालम् एव मुक्तिर्युक्ति- म् अवतरत्य् अतिप्रसंगात् । स्यान् मतिर् एषा भवतां समर्थादीक्षोच्चैर् अ- ०५नाचारपथम् अथ न पटीयसी न पुनर् असमर्था यतोदीक्षासमये एवा- ऽनाचारनिराकरणम् उपसन्न् अजनानाम् अनुषज्यत इति साऽपि न श्रेयसी दीक्षायाः सामर्थ्ये ऽपि तत्समकालं मुक्त्यनवलो- कनात् । तथा हि — सामर्थ्यं दीक्षायाः स्वभावभूतमर्थान्तर- भूतं वा ? स्वभावभूतं चेत्, कथं कदाचित् क्वचित्कस्याश्चि- १०द् एव स्यात् । दीक्षातो ऽर्थान्तरभूतं सामर्थ्यम् इति चेत् तत् किं कालविशेषरूपं देशविशेषरूपं दक्षिणादिविशेषरूपं वा ? कालविशेषरूपं चेत्, न, तिथिवारनक्षत्रवेलादिकाल- विशेषस्याविशेषे ऽपि कस्यचिद् दीक्षासमकाले मुक्त्यदर्शनात् । क्षेत्रविशेषसामर्थ्यम् इति चेत्, नतीर्थस्नानदेवतालयमंड- १५लादिविशेषसाम्ये ऽपि कस्याचिन् मुक्त्यभावात् । दक्षिणादिवि- शेषरूपं सामर्थ्यम् इति चेत्, न, गुरुदक्षिणायां यथोक्तायां सत्याम् अपि विनयप्रणमननमस्कारात्मसमर्पणसद्भावे ऽपिचो- च्चैर् अनाचारपथप्रवृत्तिदर्शनात् । सकला सामग्रीश्रद्धाविशेषो- पगृहीतद्रव्यगुणकर्मलक्षणा निवर्त्तकधर्मविशेषजनिकादीक्षायाः २०सामर्थ्यम् इति चेत्, कः पुनः श्रद्धाविशेषो नाम ? हेयेजिहासा शश्वदुपादेये चोपादित्सा श्रद्धाविशेष इति चेत्, तर्हि हेयं दुःखम् अनारतं तत्कारणं च मिथ्यादर्शनं रागादिदोषपश्चेति ८३कथम् अनाचारपथेष्व् अदोषो निर्घुष्यते । श्रद्धाविशेषश् च सम्यग्द- र्शनं तदनुगृहीता दीक्षा सम्यग्ज्ञानपूर्विका सम्यक्चारित्रामिति सम्यग्दर्शनज्ञानचारित्रत्रयाद् एव सात्मीभावम् आपन्नान्मुक्तिर् उक्ता स्यात् तथा च त्वद्दृष्टिर् एव श्रेयसी । तद्वाह्यास् तुविभ्रमन्त्य् एवेति ०५सूक्तम् । अथवा दीक्षासं यथा भवत्य् एवम् अमुक्तिमाना मीमांस- कास् त्वद्दृष्टिवाह्या वत कष्टं विभ्रमंति ! किं कृत्वाउच्चैर् अना- चारपथेष्व् अदोषं निर्घुष्य — "न मांसभक्षणे दोषो न मद्ये न च मैथुने । " १०इति वचनात् । कुतः ? इत्य् उपपत्तिम् आचक्षते — स्वच्छंदवृत्तेर् ज- गतः स्वभावाद् इति प्रवृत्तिर् एव भूतानाम् इति वचनात्, नकदा- चिद् अनीदृशं जगद् इत्य् अभ्युपगमाच् च । कुतस् तेषांविभ्रम इति चेत्, दोषे ऽप्य् अदोषनिर्घोषणात् वेदविहितेषूच्चैर् अनाचारपथेषुपशुवधा- दिष्व् अदोषो निर्घुष्यते न पुनर् वेदवाह्येषु ब्रह्महत्यादिषुतत्र दोष- १५स्यैव निर्घोषणात्, "ब्राह्मणो न हन्तव्यः सुरा नपातव्येति" निषेधवचनात् । स्वच्छन्दवृत्तेर् अपि जगतः स्वभावाद्वेदेन श्रेयः- प्रत्यवायसाधनप्रकाशिना नियमितत्वात्, तथावेदविहितदीक्षा- याश् चाप्रतिक्षेपात् पाखंडिदीक्षाया एव निरसनात् । नामुक्तिमानाः श्रोत्रियाः परमब्रह्मपदावाप्तिलक्षणस्यमोक्षस्यानंदरूपस्य तैः २०स्वयम् अभ्युपगमात् । अनंतज्ञानादिरूपाया एव मुक्तेर्निराकर- णाद् इति केचित् ते ऽपि स्वगृहमान्या एव, वेदविहितेष्व् अप्य् अ- नाचारेषु दोषाभावस्य व्यवस्थापयितुम् अशक्तेः । खारपटिकशा- ८४स्त्रविहितेषु सधनगर्भिणीवधादिषुदोषाभावानुषंगात् । खार- पटिकागमज्ञानस्याप्य् अप्रमाणत्वान् न तद्विहितेष्व् अनाचारेषुदोषा- भावप्रसंग इति चेत्, वेदज्ञानस्य कुतः प्रामाण्यं येनतद्वि- हितेषु पशुवधादिषु दोषाभावो व्यवतिष्ठते । दोषवर्जितैः ०५कारणैर् जन्यमानत्वाद् इति चेत्, न स्वरूपे ऽपि वेदज्ञानस्यप्रामा- ण्यप्रसंगात्, दोषाश्रयपुरुषेणाकृतस्य स्वरूपवादस्यापिसिद्धेः । तत्रापूर्वार्थविज्ञानं निश्चितं बाधवर्जितम् । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतम् ॥ कार्यवादवत् दोषवर्जितैः कारणैर् जन्यमानत्वाविशेषात् १०बाधवर्जितत्वाच् चोदनाज्ञानस्य प्रामाण्यम् इति चेत्, नासि- द्धत्वाद् अनाचारविधायिनश् चोदनाज्ञानस्य बाधसद्भावात् । तथा हि — पशुबधादयः प्रत्यवायहेतव एव प्रमत्तयोगात्प्राणातिपाता- दित्वात् खरपटागमविहितसधनवधादिवत् । प्रमत्तयोगोऽसिद्ध इति चेत् न, काम्यानुष्ठानस्य रागादिप्रमादपूर्वकस्यप्रमत्त- १५योगनिबंधनत्वात् । सत्य् अपि रागादिप्रमादयोगेपशुवधादिषु प्रत्यवायासंभवे सधनवधादिष्व् अपि कुतः प्रत्यवायःसंभाव्यते सर्वथा विशेषाभावात् । पशुवधादीनांस्वर्गादिश्रेयःसाधन- त्वान् न प्रत्यवायसाधनत्वम् इति चेत्, न सधनवधादीनामपि धनै- श्वर्यादिश्रेयःसाधनत्वात् प्रत्यवायहेतुत्वं मा भूत्, तदात्व् अ- २०स्तोकश्रेयःसाधनत्वे ऽपि सधनवधादीनांपारत्रिकबृहत्प्र- त्यवायसाधनत्वम् अपि विरुद्धम् एवेति चेत् तर्हिपशुवधादीनाम् अपि पशुलाभार्थलाभादिस्वल्पश्रेयःसाधनत्वे ऽपिपारत्रिकबृहत्प्रत्य- ८५वायसाधनत्वाद् एव स्वर्गादिश्रेयःसाधनत्वं मा भूद्विरोधात् । ऋत्विगादिदक्षिणाविशेषाद् दीनानाथसकलजनानंदिदानविशे- षाच् च श्रद्धापूर्वकव्रतनियमाभिसंबंधाच् च यजमानस्यस्वर्गा- दिश्रेयःसाधनत्वं पशुवधे ऽपि न विरुध्यत इति चेत् किमेवं ०५पशुवधादिना, दक्षिणादिभ्य एव श्रेयःसंप्राप्तेस् तदभावे प्रत्यवायस्यैव सिद्धेस् तस्य श्रेयःसाधनत्वासंभवात् । कथं चायं सधनवधकादीनाम् अपि दानादिविधायिनां धर्माद्यभि- संधिश्रद्धाविशेषशालिनां स्वागमविहितमार्गादिगामिनां स्व- र्गादिश्रेयःप्राप्तिप्रतिषेधसमर्थः । ननु चधर्माभिसंधीनां १०सधनवधादिर् अधर्महेतुर् विरुद्ध इति चेत्, पशुवधादिस्तादृक् कथ- म् अविरुद्धः ? तथा वेदविहितत्वाद् इति चेत्खरपटशास्त्रविहित- त्वात् सधनवधादिर् अपि विरुद्धो मा भूत् । धनलोभादिनिबंधन- त्वात् सधनवधादेर् धर्माभिसंधिविरोधेस्वर्गादिलोभनिमित्तत्त्वा- त् पशुवधादेर् धर्माभिसंधिविरोधो ऽस्तु विशेषाभावात् । दृष्टार्थधन- १५लोभादेर् अदृष्टार्थस्वर्गादिलोभादीनां महत्त्वाच् चतन्निबंधनस्यैव पशुवधादेर् धर्मविरोधो महानेवेति च युक्तं वक्तुं । नन्व् अनंत- निर्वाणसुखलोभनिबंधनस्य स्वपरकायपरितापनस्याप्येवं ध- र्मविरोधः कथं महत्तमो न स्याद् इति चेत् न, योगिनांनिर्वा- णसुखश्रद्धायाम् अपि लोभाभावाद् इति, ब्रूमस् तेषामात्मस्वरूप- २०प्रतिबंधिकर्ममलविगमायैव समाधिविशेषप्रवृत्तेःक्वचिल् लोभमा- त्रे ऽपि निर्वाणप्राप्तिविरोधात् । तद् उक्तम् — "मोक्षे ऽपि नयस्य कांक्षा स मोक्षम् अधिगच्छतीति" । तर्हि याज्ञिकानाम् अपिप्रत्य- ८६वायजिहासया नित्यनैमित्तिकयोर् वेदविहितयोःप्रवृत्तेर् न स्व- र्गादिलोभनिबंधनत्वम् इति चेत्, किम् एवं खारपटिकानांदौर्गत्य- जिहासया सधनवधादिषु प्रवृत्तिर्धनलोभनिबंधनाऽभिधीयते ? दौर्गत्यजिहासैव धनलोभ इति चेत्, प्रत्यवायजिहासैव ०५स्वर्गादिश्रेयोलोभः कथं न स्यात् । न चैवं योगिनां संसारकारणक्रोधलोभादिनिराचिकीर्षैव निश्रेयसो लोभ इति वक्तुं युक्तं व्याघातात्, मोक्षार्थिनां सर्वत्राप्रवृत्तेर्न लोभनिबंधना प्रवृत्तिर् इति विषमो ऽयम् उपन्यासः । ततःसूक्त- म् इद[? ṃ] पशुवधादियज्ञवादिनां वेदवाक्यानां बाधकमनुमानं, पशु- १०वधादयः प्रत्यवायहेतवः प्रमत्तयोगात्, प्राणातिपातादित्वात् सधनवधादिवद् इति । चैत्यालयकरणादिषुनानाप्राणिगणप्रा- णातिपातादिभिर् अनेकांत इति चेत्, न प्रमत्तयोगाद् इति वच- नात्, न च चैत्यालयकरणादिषु प्रमत्तयोगो ऽस्ति सम्य- क्त्ववर्धनक्रियायाः समीहितत्वात्, तत्राऽपि निदानकरणेप्रत्य- १५वायहेतुत्वस्याभ्यनुज्ञानात् पक्षान्तरवर्त्तित्वान् न तैरेनैकांतिक- तोद्भावयितुं युक्ता । तन् न वाधवर्जितत्वेनाऽपिचोदनाप्रमाणं बाधकस्य व्यवस्थितेः खारपटिकशास्त्रवत् अप्रमाणकं चोच्चैर् अनाचारपथेष्व् अदोषं निर्घोषयन्तः कथं नविभ्रमयंति मीमांसकाः । २०इति त्वद्दृष्टिबाह्यानां कष्टम् अनिवार्यं ततस् तम एवप्ररूढं याज्ञिकानां सर्वचेष्टितम् इति सूरयो निवेदयन्ति — प्रवृत्तिरक्तैः शमतुष्टिरिक्तै-८७र् उपेत्य हिंसाऽभ्युदयाङ्गनिष्ठा । प्रवृत्तितः शांतिर् अपि प्ररूढं तमः परेषां तव सुप्रभातम् ॥ ३८ ॥ हिंसानृतस्तेयाब्रह्मपरिग्रहेषु नियमम् अंतरेणप्रक- ०५र्षेण वृत्तिः प्रवृत्तिस् तत्र रक्ता मीमांसकास्तथाऽभिनिवेशात् । तैर् उपेत्य प्रवृत्तिं स्वयं प्रतिपद्य हिंसाभ्युदयकस्यस्वर्गादेर् अंगं- कारणं निष्ठा, किं भूतैस् तैः शमतुष्टिरिक्तैर् इतिहेतुवचनं तेन शम- तुष्टिरिक्तत्वाद् इत्य् अर्थः, क्रोधादिशान्तिः शमः, तुष्टिः, सन्तोषः शमेन तुष्टिः शमतुष्टिस् तया रिक्तैर् इति प्रत्येयं । तदेतत् प्ररूढं १०वृहत्तमं तमः परेषां यज्ञवादिनाम् अज्ञानत्वम् इत्य् अर्थः, तथाप्रवृ- त्तितः शान्तिर् अपि प्ररूढं तमः परेषां तस्याःशांतिप्रतिपक्षि- त्वात् । प्रवृत्तिर् हि रागाद्युद्रेकस्य कारणं न पुनारागादिशा- न्तेर् व्याघातात् । स्यान् मतं, तेषां, प्रवृत्तिर् द्वेधा, रागादिहेतुःशांतिहेतुश् च । १५तत्र या वेदवाक्येनाविहिता सा रागाद्युदयनिमित्तं यथा ब्रा- ह्मणवधसुरापानादि । वेदविहिता तु शांतिहेतुर् यथा यज्ञेपशु- वधादिस् तस्या अदृष्टार्थत्वात्क्रोधाद्युदयनिबंधनत्वाभावाद् इति । तद् अप्य् असत् । वेदविहितायाः प्रवृत्तेःशांतिहेतुत्वनियमानुपपत्तेः अन्यथा मातरम् उपैहि स्वसारम् उपैहीति वेदवाक्यविहितायामातृ- २०स्वसृगमनलक्षणायाः प्रवृत्तेः शांतिहेतुत्वप्रसंगात् । वेदाविहि- तायाश् च प्रवृत्तेः सत्पात्रदानादिलक्षणायाःशांतिप्रतिपक्षत्वा- ८८पत्तेः । अथ मतम् एतत् — परंपरया प्रवृत्तिर् अपिशांतिहेतुर् उपपद्यत एव यथा देवताराधनादिप्रवृत्तिर् इति । तद् अप्य् असंभाव्यं, वेदविहि- तहिंसादिप्रवृत्तेः, परंपरया शांतिहेतुत्वानुपपत्तेः । नच शान्त्य- र्थिनः शांतिप्रतिकूलेषु हिंसादिषु वर्तमानाःप्रेक्षापूर्वकारिणः ०५स्युर् मदाभावाय मद्यपाने प्रवर्त्तमानजनवत् । सत्पात्रदानदेवतार्च- नादिषु स्वयम् अनभिसंधितसूक्ष्मप्राणिवधादिप्रवृत्तिस् तुपरंपरया शांतिहेतुर् उपपद्यत एवदर्शनविशुद्धिपरिग्रहपरित्यागप्रधानतया तस्याः समवस्थितत्वाद् अन्यथा तदभावविरोधात् । इतिसूक्त- म् एतत् प्रवृत्तितः शांतिर् इति वचनं महातमोविजृम्भितंपरेषा- १०म् इति ततस् तवैव मतं सुप्रभातंसकलतमोनिरसनपटीयस्त्वा- द् इति सिद्धम् । साम्प्रतं मतान्तरं निराचिकीर्षवः प्राहुः — शीर्षोपहारादिभिर् आत्मदुःखै- र् देवान् किलाराध्य सुखाभिगृद्धाः । १५सिद्ध्यन्ति दोषापचयानपेक्षा युक्तं च तेषां त्वम् ऋषिर् न येषाम् ॥ ३९ ॥ शीर्षोपहारः स्वशिरोवलिश् छागादिशिरोवलिर् वा । स आदिर् येषां गुग्गुलधारणमकरभोजनभृगुपतनप्रकाराणांते शी- र्षोपहारादयस् तैर् आत्मदुःखैर् जीवदुःखनिमित्तैर् देवान्यक्षमहेश्वरादी- २०न् आराध्य सिध्यन्ति दोषापचयानपेक्षा दोषापचयमनपेक्षमाणाः सुखाभिगृद्धाः कामसुखादिलोलुपाः किलेति सूरयः प्रमा- ८९णानुपपन्नत्वेन रुचिं प्रकाशयन्ति । केषां पुनरिदं युक्तम् इत्य् अभि- धीयते — "युक्तं च तेषां त्वम् ऋषिर् न येषाम्" इति । येषां नत्व- म् ऋषिर् गुरुर् वीतदोषः सर्वज्ञस्वामी न भवसि तेषाम् एवमिथ्यादृशां युक्तं उपपन्नम् एवैतत् प्ररूढं तमो न पुनर् येषां त्वंगुरुः शुद्धि- ०५शक्त्योः परां काष्ठाम् अधितिष्ठन्न् अभिमतो ऽसि तेषांसभ्यग्दृष्टी- नां हिंसादिविरतिचेतसां दयादम् अत्यागसमाधिनिष्ठंत्वदीयं म- तम् अद्वीतीयं प्रतिपद्यमानानांनयप्रमाणविनिश्चितपरमार्थयथाव- तारिजीवादितत्त्वार्थप्रतिपत्तिकुशलमनसां प्रमादतोऽशक्तितो वा । क्वचित् प्रवृत्तिम् आचरताम् अपि तेषांतत्राभिनिवेशपाशानवकाशात् । १०तद् इत्थं समंतदोषं मतम् अन्यदीयं संक्षेपतो दर्शितम् । विस्तर- तो देवागमे तस्य समन्तभद्रस्वामिभिः प्रतिपादनात्"भावैका- न्ते पदार्थाना" मित्यादिना । तत एव त्वदीयं मतमद्वितीयम् इति च समासतो व्यवस्थितं । व्यासतो देवागमे एव तस्य त- था व्यवस्थापितत्वात्, "कथञ्चित् ते सदेवेष्टं कथंचिदसद् एव १५तद्" इत्यादिना तथैव स्वामिभिर् अभिधानात् । स्तोत्रे युक्त्यनुशासने जिनपतेर् वीरस्य निःशेषतः संप्राप्तस्य विशुद्धिशक्तिपदवीं काष्ठां परामाश्रिताम् । निर्णीतं मतम् अद्वितीयम् अमलं संक्षेपतो ऽपाकृतं तद् वाह्यं वितथं मतं च सकलं सद्धीधनैर् बुध्यताम् ॥ २०इति युक्त्यनुशासने परमेष्ठिस्तोत्रे प्रथमः प्रस्तावः । ९०अथ भेदाभेदात्मकं सामान्यविशेषात्मकमर्थतत्त्वं मदीयं मतम् अद्वितीयं नयप्रमाणप्रकृतांजसार्थत्वाद् अस्तु नामकेवलं सामा- न्यनिष्ठाः विशेषाः स्युर् विशेषनिष्ठं वा सामान्यं स्यादुभयं वा परस्परनिष्ठम् इति भगवत्पर्यनुयोगे सूरयः प्राहुः — ०५"सामान्यनिष्ठा विविधा विशेषाः" इति सामान्यं द्विविधम् ऊर्ध्वतासामान्यं तिर्यक्सामान्यं चेति । तत्रोर्ध्वतासामान्यं क्रमभाविषु पर्यायेष्व् एकत्वान्वयप्रत्यग्राह्यं द्रव्यं । तिर्यक्सामान्यं नानाद्रव्येषु पर्यायेषु च सादृश्यप्रत्ययग्राह्यंसदृशपरिणामरूपं । तत्र सामान्ये निष्ठा परिसमाप्तिर् येषां ते सामान्यनिष्ठाः । के ते ? १०विशेषाः पर्यायाः । किं प्रकाराः ? विविधाः केचित् क्रमभुवः केचित् सहभुव एकद्रव्यवृत्तयः । तत्र क्रमभुवःपरिस्पंदरूपा उत्क्षेपणादयः, अपरिस्पंदात्मकाः साधारणाः साधारणासाधा- रणाश् च असाधारणाश् चेति त्रिविधाः । साधारणधर्माःसत्त्वप्रमे- यत्वादयः, साधारणासाधारणाः द्रव्यत्वजीवत्वादयः, असाधा- १५रणाः प्रतिद्रव्यं प्रभिद्यमानाः प्रतिनियता अर्थपर्यायाइति विविधप्रकारा विशेषा एकद्रव्यनिष्ठत्वादूर्ध्वतासामान्यनिष्ठा- स् तद्व्यतिरेकेणासंभाव्यमानत्वात् । नन्व् एवं विधंविशेषनिष्ठं सा- मान्यं कस्मान् न स्याद् इति चेत्, न, कस्यचिद् विशेषस्यापायेऽपि सामान्यस्य विशेषान्तरेषूपलब्धेःसर्वविशेषनिष्ठत्वविरोधात् । २०कतिपयविशेषनिष्ठत्वे तु सामान्यस्य तदन्यविशेषाणां निः- सामान्यत्वप्रसंगात् । विनष्टानुत्पन्नविशेषनिष्ठत्वेसामान्यस्य वि- नाशानुत्पादप्रसंगो व्याहतः प्रसज्येत । विशेषाणां विनाशेऽपि ९१सामान्यस्याविनाशेनागतत्वे ऽपि वर्त्तमानत्वे चविरुद्धधर्माध्या- सात् भेदप्रसंगान् न विशेषनिष्ठत्वं सामान्यस्यप्रसज्येतातिप्र- संगात् । विशेषेषु व्यक्तिरूपेषु द्रव्यगुणकर्मसु सामान्यस्यसम- वायाद् विशेषनिष्ठं सामान्यम् इति चेत् न, तस्यतिर्यक्सामान्यरूप- ०५त्वात्, न चैतद् अपि विशेषनिष्ठं द्रव्यत्वस्यसकलद्रव्यव्यक्तिनिष्ठत्वे कार्यद्रव्यव्यक्तिविनाशप्रसंगात्कतिपयद्रव्यव्यक्तिनिष्ठत्वे द्रव्य- व्यक्त्यंतराणां निःसामान्यत्वप्रसंगस्य तदवस्थत्वात् । नित्य- सर्वगतत्वात् सामान्यस्यायमदोष इति चेत्, न, सर्वव्यक्तीनां नित्यत्वप्रसंगात् तत्र नित्यसामान्यस्य निष्ठनात् । यदिपुन- १०र् व्यापकं सामान्यं (व्यक्तीनां) व्याप्यास् तु व्यक्तयस् ततोव्याप्या- भावे ऽपि व्यापकस्य सद्भावाविरोधात् सत्य् अपि नित्ये सामान्ये व्यक्तीनाम् अभावाविरोधान् न नित्यतापत्तिर् इति मतम् तदा सामान्यनिष्ठा एव विशेषाः स्युर् अवस्थिते सामान्ये विशेषाणामु- त्पादाद् विनाशाच् चेति सिद्धाः सामान्यनिष्ठा विविधा विशेषाः, १५न पुनर्विशेषनिष्ठं सामान्यं । एतेन परस्परनिष्ठमुभयम् इत्य् अपि पक्षः प्रतिक्षिप्तः । यदि सामान्यनिष्ठा विशेषास् तदा पदं किं विशेषं नयते सामान्यं वा तद् उभयं वाऽनुभयं वेति शंकायाम् इदमभिधीयते सूरिभिः — "पदं विशेषान्तरपक्षपाति" विशेषं नयत इति २०विशेषो द्रव्यगुणकर्मभेदात् त्रिविधः । तत्र द्नव्येप्रवर्त्तमानं पदं द्रव्यद्वारेण विशेषांतरं गुणं कर्म वा स्वीकरोतीतिविशे- षान्तरपक्षपाति, पक्षपातो हि स्वीकारः परिग्रहः सोऽस्यास्तीति ९२पक्षपाति विशेषांतरे पक्षपाति विशेषान्तरपक्षपाति । यथा दंडी- तिपदं संयोगिद्रव्यद्वारेण द्रव्ये देवदत्तादौप्रवर्तमानं गुणम् अपि दंडपुरुषसंयोगलक्षणं परिगृह्णाति, कर्म च दंडगतंपुरुषगतं च परिस्पन्दलक्षणं विशेषान्तरं स्वीकरोतीति । तदस्वीकारणेदं- ०५डीतिपदस्य द्रव्ये प्रवृत्तिविरोधात् । तथा विषाणीति पदंसमवा- यिद्रव्यविषयं समवायिविषाणिद्वारेण, गवादिसमवायिनिप्रव- र्तमानत्वात् । तत्र च विषाणिद्रव्ये प्रवर्त्तमानंतद्गुणमपि विशे- षांतरं धवलादि गृह्णात्य् एव, क्रियां च विशेषांतरंगवादिगतं विषाणगतं वा स्वीकारोत्य् एवेति विशेषांतरपक्षपातीत्य् उच्यते । १०तथा शुक्ल इति पदं, गुणद्वारेण द्रव्ये प्रवर्त्तमानंगुणविषयतां स्वीकुर्वत् तदन्वयद्रव्यं विशेषांतरं परिगृह्णातीतिविशेषान्तरपक्ष- पाति । तता चरतीति पदं क्रियाद्वारेण द्रव्येप्रवर्त्तमानं क्रि- याविषयतां प्रतिपद्यमानम् अपि विशेषांतरंतदाधारद्रव्यं तदेका- र्थसमवायि कर्म च स्वीकरोतीति विशेषांतरपक्षपातिसिद्धं, १५विशेषं नयत इति द्रव्यं गुणं कर्म च नयते प्रापयतीत्यर्थः । चतुर्विधं हि पदं नामाख्यातनिपातोपसर्गभेदात् केचि- द् अमंसत । कर्मप्रवचनीयं च पदम् इतिपचं[? पंच]विधम् अन्ये । तत्र नाम पदं किंचिद् द्रव्यमभिधत्ते गुणं वा, तद्वन्निपातपदं । आख्या- तपदं तु क्रियम् अभिदधाति तथा चोपसर्गपदं तस्यक्रियो- २०द्योतकत्वात् । कर्मप्रवचनीयपदं तु पारिभाषिकं कर्मेतिसं- प्रतिपद्यते । तद् एवं सुप्तिङन्तविकल्पाद् विविधम् अपिपदं चातुर्विध्यं पांचविध्यं वा समास्कन्दद्विशेषांतरवृत्तिसद्विशेषं नयतेसमान- ९३भावं समानत्वम् इति । नयतेर् द्विकर्मकत्वादभिसबंधः कर्त्तव्यस् तद् अ- नेन प्रधानभावेन द्रव्यादिव्यक्तिरूपं विशेषं गुणीभूतंसामान्यं पदं प्रतिपादयतीत्य् अभिहितम् । अन्यत्पदं जातिविषयंसमानभावं सामान्यं विशेषं नयते यथा गौर् इति पदंगोत्वजातिद्वारेण ०५द्रव्ये प्रवर्त्तमानं जातिपदं स्वाश्रयभूतद्रव्यविशेषमपि सामान्य- रूपं प्रापयति तथा गुणत्वजातिपदं गुणत्वजातिद्वारेणगुणे वर्त्तमानं गुणम् अपि स्वाश्रयं विशेषं जातिरूपतां नयते । तथा कर्मत्वजातिपदं कर्मत्वजातिद्वारेण कर्मणि प्रवर्तमानंकर्मापि स्वाधिकरणं विशेषं समानभावं नयते । कुत इत्य् उच्यते, "अ- १०न्तर्विशेषान्तरवृत्तितः" इति अन्तर्गतं विशेषांतरम् अस्येत्यंतर्वि- शेषान्तरः समानभावः समानपरिणामस् तत्र वृत्तेःप्रवर्त्तना- त् पदस्येत्य् अर्थवशाद् विभक्तिपरिणामः । तद् एतेनप्रधानभूतसामा- न्यं गुणीभूतं विशेषं पदं प्रकाशयतीति निगदितं । ततोनिर्वि- शेषम् एव पद न नयते सामान्यं निरपेक्षं तस्यासंभावात्खर- १५विषाणवद् इति न व्यक्तिवादे पदार्थः सगच्छते तत्रतस्यास- त्यत्वप्रसंगात् । नाऽपि सामान्यं केवलं विशेषनिरपेक्षंपदं प्रकाशयति तस्याऽप्य् असंभवात् कूर्मरोगादिवद् इति । नजातिर् वा व्यक्तिर् वाऽस्य पदार्थः समवतिष्ठते तस्यापि तन्मात्रेप्रवर्त्तमान- स्यासत्यतापत्तेः । न च परस्परानिरपेक्षम् उभयंपदार्थस् तस्या- २०प्य् अप्रतीयमानत्वात् वंध्यापुत्रादिवत् । तत्रप्रवर्त्तमानस्य पद- स्यायथार्थत्वप्रसक्तेः । न चाप्य् अनुभयं पदम् आवेदयतितस्याप्य् अन्य- था वृत्तिमात्रस्यावस्तुभूतस्य प्रतिपादने पदात्प्रवृत्तिविरोधात् । ९४जात्यन्तरं तु सामान्यविशेषात्मकं वस्तुप्रधानगुणभावेन पदं प्रकाशयत् यथार्थतां नातिक्रामति प्रतिपत्तुःप्रवृत्तिप्राप्तिघटनात् प्रत्यक्षादिप्रमाणाद् इवेति देवागमपद्यवार्तिकालंकारेनिरूपि- तप्रायम् । तद्यथा — ०५सामान्यनिष्ठा विविधा विशेषाः पदं विशेषांतरपक्षपाति । अन्तर्विशेषान्तरवृत्तितो ऽन्य- त् समानभावं नयते विशेषम् ॥ ४० ॥ इति वृत्तं खंडशो व्याख्यातम् । १०अथवा पदं किंचिद् विशेषं संकेतकालवर्तिनंसमानभावं नयते कुतो यस्माद् विशेषान्तरपक्षपाति, संकेतकालवर्तिनोवि- शेषाद् अव्यवहारकालवर्तिविशेषो ऽन्यो विशेषांतरंतत्पक्षपाति- त्वाद् इत्य् अर्थः । अन्यत्पदं समानभावम् अपि विशेषं नयतेकस्मा- द् अन्तर्विशेषान्तरवृत्तितः, विशेषान्तराणाम् अन्तःअन्तर्विशेषा- १५न्तरं । अंतःशब्दस्य पूर्वनिपातो "अन्तरादेष्ठण्" इतिज्ञापका- द् अन्तर्मुहूर्त्तवत् । अन्तर्विशेषान्तरे वृत्तिरन्तर्विशेषान्तरवृत्तिस् ततो विशेषान्तराणां संकेतसमयवर्त्तिसामान्यविशेषणविशेषेभ्योऽ- न्येषां विशेषाणाम् अन्तर्वृत्तित्त्वाद् विशेषान्तराद्व्[? ब्]अहिर्भावाद् इत्य् अर्थः । कुतः ? पुनः किंचित् पदं विशेषे द्रव्यादौ प्रवर्त्तमानंतं विशेषं २०सामान्यरूपतां नयते परन्तु सामान्ये प्रवर्त्तमानंद्रव्यत्वादौ सामान्यम् अपि विशेषरूपतां प्रापयतीति चेत्, यतः सामान्य- ९५निष्ठा विविधा विशेषा इत्य् उपपत्तिर् अभिहिता यस्मात्सामान्ये निष्ठा विशेषाणां तस्मात् पदं विशेषं सामान्यरूपतां नयतेय- स्माच् च सामान्यम् अपि पदं विशेषं नयत इत्य् अर्थः । किं पुनस् तत्पदं व्[? ब्]अहिर्भूतं वर्णात्मकमन्तर्भूतं वा चिदात्म- ०५किम् इति शंकायां पदस्य विशेषणम् अन्तर् इति । तेनैवंव्याख्या- यते — यद् अन्तःपदं ज्ञानात्मकं तद् अन्यद् एववर्णात्मकपदात् विशे- षांतरवृत्तितो विशेषान्तरपक्षपाति सद्विशेषं समानभावंनयते न पुनर् वर्णसमूहलक्षणं वर्णानाम् उत्पन्नापवर्गित्वात्समूहानुपपत्तेः पदस्यैवासंभवात् । वर्णनित्यतायाम् अपि तदभिव्यक्तेरनित्यत्वाद् अ- १०भिव्यक्तवर्णसमूहात्मकं पदं न संभावयितुं शक्यं, गौर् इति पदे गकाराभिव्यक्तिकाले तदवयवभूतयोर् औकारविसर्गयोरभिव्य- क्त्यभावात् तदभिव्यक्तिकाले च गकाराभिव्यक्तेर् विनाशात् । न चाभिव्यक्तान् अभिव्यक्तवर्णानां समूहः संभवति । यदिपुनः क्रमे- णोत्पन्नानाम् अभिव्यक्तानां वा बुद्धौ विपरिवर्तमानानांक्रमविशे- १५षात्मकः समूहः पदम् इत्य् अभिधीयते तदाऽप्येकवर्णबुद्धिकाले वर्णान्तरबुद्धेर् अनुत्पत्तेर् उत्तरवर्णबुद्धेर् उत्पत्तिकालेच पूर्ववर्णबुद्धेः प्रध्वंसान्नेकबुद्धौ वर्णानां नानात्मनां विपरिवर्त्तनंसंभवति । न चैका बुद्धिर् नानाक्रंमवर्त्त्यैकवर्णकालव्यापिनीसंभवति तस्याः कालान्तरस्थायित्वासंभवात् । बुद्धिजनितसंस्कारःकालान्तर- २०स्थायीति चेत्, न, नानावर्णविज्ञानजनितसंस्काराणां क्रम- भुवां वर्णस्मरणजनयताम् असत्कल्पत्वात्, जनयतां तु नयुगपत् स्मरणं संभवति, क्रमतो वर्णस्मरणसंभवे ऽपिनैकवर्णस्मरणका- ९६ले वर्णान्तरस्मरणम् अस्ति विरोधात् कुतःस्मर्यमाणानाम् अपि वर्णानां समूहः, तत एव पदस्फोटःपदार्थप्रतिपत्तिनिमित्तं, वर्णानां प्रत्येकम् अर्थप्रतिपत्तिनिमित्तत्वेवर्णान्तरवैयर्थ्यप्रसंगात् स- मूहस्यासंभवात् तद्बुद्धिस्मरणसमूहवद् इत्य् अपरे । तेषामपि पद- ०५स्फोटो नित्यो निरंशः सर्वगतो ऽमूर्तः किम् अनभिव्यक्तएवार्थप्रति- पत्तिहेतुर् अभिव्यक्तो वा ? प्रथमपक्षेवर्णोच्चारणानर्थक्यं सर्व- दा सर्वत्र सर्वथाऽप्रतिहतार्थप्रतिपत्तिः प्रसज्येत ? कदाचित् क्व- चित् कथंचिद् असंभवाभावात् । द्वितीयपक्षे तु पदस्फोटोऽभिव्य- ज्यमानः प्रत्येकं वर्णेनाभिव्यज्यते वर्णसमूहेन वा ? यदि प्रत्येकं १०वर्णेनाभिव्यज्यते तदैकवर्णेन सर्वात्मनांतस्याभिव्यक्तत्वात् सर्वत्र सर्वथा वर्णान्तरोच्चारणवैयर्थ्यं कथंविनिवार्येत ? । पदार्थान्तरप्रतिपत्तिव्यवच्छेदार्थत्वाद्वर्णान्तरोच्चारणस्य न वै- यर्थ्यम् इति चेत् न, वर्णान्तरोच्चारणाद् अपिपदार्थान्तरप्रति- पत्तेर् एवानुषंगात्, यथा हि गौर् इति पदस्यार्थोगकारोच्चारणा- १५त् प्रतीयेत तथौकारोच्चारणदौशनस इति पदस्यार्थःप्रतिपद्येता- द्येन गकारेण गौर् इति पदस्येव प्रथममौकारेणौशनसैति पदस्य स्फोटस्याभिव्यक्तेः । तथा च गौर् इति पदाद् एवगौर् औ- शनस इति वाक्यार्थप्रतिपत्तिः प्रसज्येत, संशयो वा स्यात् । किम् एकपदस्फोटाभिव्यक्तये, गकाराद्यनेकवर्णोच्चारणंपदां- २०तरस्फोटव्यवच्छेदेन, किंवाऽनेकपदस्फोटाभिव्यक्तयेगका- राद्यनेकवर्णोच्चारणम् इति ततो नैकेनैव वर्णेनपदस्फोटस्य स- र्वात्मनाऽभिव्यक्तिर् घटते । नाऽप्य् एकदेशेनसांशत्वप्रसंगात्, ९७सांशस्य च स्वांशेभ्यो ऽनर्थान्तरत्वेनानात्वप्रसंगो नाना- वयवेभ्योनर्थान्तरस्यैकत्वविरोधात् । एकस्मादनर्थान्तरभूतानां नानावयवानां नानात्वविरोधवत् । स्वांशेभ्यो ऽर्थान्तरत्वे तस्यानभिव्यक्तिप्रसक्तिस् ततो भिन्नानाम् एवांशानांनानावर्णैर् अ- ०५भिव्यक्तित्वात् । यदि पुनर्नानावर्णाभिव्यक्तैःपटस्फोटस्यां- शैर् अभिव्यक्तिर् अभिधीयतेतदैकवर्णाभिव्यक्तपदस्फोटावयवेन सर्वात्मना पदस्फोटस्याभिव्यक्तौवर्णान्तराभिव्यक्ततदवयव- वैयर्थ्यम् आसज्येत, तस्यैकदेशेनाऽभिव्यक्तौनानावयवत्वम् अवयवा- न्तरैर् इति, तेभ्यो ऽपितस्यानर्थान्तरत्वार्थान्तरत्वविकल्पयोस् तद् ए- १०व दूषणम् अनवस्था च दुर्निवारा स्यात् । यदि वर्णसमूहेनपद- स्फोटो ऽभिव्यज्यत इति मतं, तदापि क्षणप्रध्वंसिनांवर्णानां कथं समूहः सिद्ध्येत् यो ऽभिव्यंजकः स्यात्, नित्यानाम् अपि वर्णानाम् अनभिव्यक्तानां समूहो न व्यंजकःसर्वदाभिव्यक्ति- प्रसंगात् । अभिव्यक्तानां तु समूहो न संभवत्य् एवतदेकवर्णाभि- १५व्यक्तिसमये वर्णान्तराभिव्यक्त्ययोगात्, व्यक्ताव्यक्तात्मकानां तु वर्णानां समूहो न पदस्फोटस्याभिव्यंजकः स्यात् तदु- भयदोषानुषंगात् । स्यान् मतं, पूर्वपूर्ववर्णश्रवणज्ञानाहितसंस्कारस्यात्मनोऽ- न्त्यवर्णश्रवणज्ञानानंतरं पदस्फोटस्याभिव्यक्तेःपदार्थप्रतिपत्ति- २०र् इति । तद् अप्य् असत् । तथैव पदार्थप्रतिपत्तिसिद्धेःस्फोटपरिकल्प- नानर्थक्यात् । चिदात्मव्यतिर् एकेण तत्त्वांतरस्यस्फोटस्यार्थप्रका- शनसामर्थ्यानुपपत्तेः । स एव चिदात्मा विशिष्टशक्तिः स्फो- ९८टो ऽस्तु "स्फोटति प्रकटीभवत्यर्थो ऽस्मिन्न् इतिस्फोट" श् चिदात्मा, पदार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टःपदस्फोटो, वा- क्यार्थज्ञानावरणवीर्यान्तरायक्षयोपशमविशिष्टो वाक्यस्फोटैति प्रकरणाह्निकाध्यायशास्त्रमहाशास्त्रादिरंगप्रविष्टांगवाह्यविकल्पः ०५स्फोटः प्रसिद्धो भवति, भावश्रुतज्ञानपरिणतस्यात्मनस्तथाभि- धानाविरोधात् । न हि निरतिशयनित्यैकान्तस्वभावो ऽयमात्मा नानार्थग्रहणपरिणामविरोधान्निरन्वयविनश्वरक्षणिकचित्तवत् क्रमयौगपद्यविरोधात् । नापिसातिशयनित्यैकान्तस्वभावोत्य- न्तार्थान्तरभूतैर् अतिशयैः संबंधानुपपत्तेः । ज्ञानादिपरिणामानाम् आ- १०त्मनि समवायसंबंध इति चेत् न, तस्यकथंचित्तादात्म्यव्यतिर् एके- ण पदार्थान्तरस्यासंभवात् । परिणामिन् अस्तु प्रमाणबलादेव स्थित- स्यात्मनो नानार्थग्रहणपरिणामोपपत्तेर् अन्तःस्वरूपं पदंचिदात्म- कम् इति व्यवतिष्ठते । तस्मिन् सति वक्तुःक्रमविशेषविशिष्टवर्ण- समूहलक्षणं वाह्यं पदं श्रोत्रज्ञानविषयभावमापद्यमानम् अनुमन्या- १५महे तस्यैवश्रोत्रिजनपदार्थज्ञानजनननिबंधनत्वनिर्णयात् । तत- स् तद् एव विशेषं समानभावं नयतेविशेषांतरपक्षपातित्वात् सा- मान्यं च विशेषं नयते विशेषान्तरवृत्तेः स्वयं सामान्यनिष्ठवि- विधविशेषविषयीकरणसमर्थत्वात् । एतेनांतरंगं वाक्यं प्रकरणमान्हिकम् अध्यायः शास्त्रादि २०भावश्रुतविशेषं विविधं समानभावं नयते, सामान्यं वानैकप्रकारं विशेषं नयत इति प्रतिपत्तव्यम् । ९९अथाऽस्ति जीव इत्य् अत्राऽस्त्य् एव जीव इत्यवधार्यते वा न वेति प्रथमकल्पनायां दूषणम् आवेदयंति सूरयः — यद् एव कारोपहितं पदं त- द् अस्वार्थतः स्वार्थम् अवच्छिनत्ति । ०५पर्यायसामान्यविशेषसर्वं, पदार्थहानिश् च विरोधिवत् स्यात् ॥ ४१ ॥ एव कारेणावधारणार्थेन निपातेनोपहितं विशिष्टं यत् पदं तत् स्वार्थम् अस्वार्थाद् व्यवच्छिनत्ति यथा तथास्वार्थप- र्यायान् व्यवच्छिनत्त्य् एव । तद्यथा — जीव एवेति पदस्यजीवत्वं १०स्वार्थस् तद्विरोधी चास्वार्थः स्याद् अजीवत्वं तच् चयथैव जीवत्वं व्यवच्छिनत्ति तथा जीवपर्यायान् अपि सुरवज्ञानादीन् व्यव- च्छिनत्त्य् एवान्यथा सुखादिपदोपन्यासवैयर्थ्यात्जीवपदेनैव तेषां विषयीकृतत्वात्, तथा चाहं सुखीत्य् आदिप्रयोगो न भवेत् । सामान्यम् अपि द्रव्यत्वचेतनत्वादि सर्वंव्यवच्छिंद्यात् १५अन्यथा द्रव्यमहं चेतनो ऽहम् इति प्रयोगो विरुध्यतेजीवपदे- नैव द्रव्यत्वादेर् अभिधानात् । तथा विशेषान् अप्यर्थपर्यायान् अनंतान- भिधानाविषयान् व्यवच्छिंद्याद् अन्यथातद्विषयीकरणप्रसंगात् । तथा च पर्यायाणां क्रमभुवां धर्माणां सामान्यानां चसहभुवां विशेषाणां चानभिधेयानां व्यवच्छेदे पदार्थस्यजीवपदाभिधे- २०यस्य जीवत्वस्याऽपि हानिः स्यात् तद्विरोध्यजीवत्ववत् (तेषामभावे प्य् अजीवत्ववत्) तेषाम् अभावे तदसंभवात् । प्रतियोगिनम् एवाजीवपदं १००व्यवच्छिनत्ति न पुनर् अप्रतियोगिनस्तत्पर्यायसामान्य विशेषान् तेषाम् अप्रस्तुतत्वाद् इति चेत्, नैवंस्याद्वादानुप्रवेशप्रसंगात् । तर्हि द्वितीयकल्पनास् तु सर्वं पदम् अनेवकारम् इतिवदंतं प्रत्याहुः — अनुक्ततुल्यं यद् अनेवकारं ०५व्यावृत्त्यभावान् नियमद्वये ऽपि । पर्यायभावे ऽन्यतराप्रयोग- स् तत् सर्वम् अन्यच्युतम् आत्महीनम् ॥ ४२ ॥ अस्ति जीव इत्य् अत्रास्तीति यत् पदम् अनेवकारं तद- नुक्ततुल्यं नास्तित्वव्यवच्छेदाभावान्नास्तित्वस्याप्रतिपादनात् । १०तथा जीव इति पदम् अनेवकारम् अजीवत्वस्यापि तेनाकथनात् । निय- मद्वये ऽपि व्यावृत्त्यभावात् । अस्त्य् एवेति पूर्वावधारणं, जीव एवे- त्य् उत्तरावधारणं नियमद्वयं । तस्मिन्न् इष्ठे ऽप्येवकाराभावे व्यावृ- त्त्यभावात् प्रतिपक्षनिवृत्त्यसंभवाद् इत्य् अर्थः । तथाचास्तिनास्ति- पदयोर् जीवाजीवपदयोश् च पर्यायभावः स्याद्धटकुटशब्दवत् अस्ती- १५ति पदेन नास्तित्वस्यापि प्रतिपादनान् नास्तीति पदेनचास्तित्व- स्यापि प्रतिपादनात् । तथा जीवपदेनाजीवार्थस्यापि वचनात्, अ- जीवपदेनापि जीवार्थस्यापीति, पर्यायभावे चपरस्परप्रतियोगिप- दयोर् अपि सकलजनस्यान्यतराप्रयोगः स्यात् घटकुटपदवदेव, तद- न्यतराप्रयोगे च सर्वम् अभिधेयं वस्तुजातम् अन्येनप्रतियोगिना च्युतं २०त्यक्तं स्याद् अस्तित्वं नास्तित्वरहितं भवेद् इतिसत्ताद्वैतम् आपद्येत । नास्तित्वाभावे च सत्ताद्वैतम् आत्महीनं प्रसज्येत, पररूपापोहना- १०१भावे स्वरूपोपादानानुपपत्तेः कुटस्याकुटापोहनाभावेस्वात्मोपा- दानासंभवात् । नास्तित्वस्य चास्तित्वच्युतौ शून्यवादानुषंगः । न चाभावो भावम् अन्तरेण संभवतीति शून्यम् अप्य् आत्महीनमेव स्यात्, शून्यस्य स्वरूपेणाऽप्य् अभावे पररूपापोहनासंभवात् पटस्य ०५स्वरूपोपादानाभावे शश्वदपटरूपापोहनासंभवात्, स्वपररूपोपा- दानापोहनव्यवस्थापाद्यत्वाद् वस्तुनो वस्तुत्वस्य । नन्व् एवंवस्तुनो ऽ- प्य् अवस्तु[? व]पोहनेन भवितव्यं वस्तुत्वोपादानवत् तथाचावस्तु किं- चिद् अभ्युपगन्तव्यम् इति चेत्, न वस्तुन एवपरद्रव्यक्षेत्रकाल- भावचतुष्टयापेक्षायाम् अवस्तुत्वसिद्धेःसकलस्वरूपशून्यस्यावस्तु- १०नो ऽप्य् असंभवात् । तथा चोक्तम् — वस्[? त्]व् एवावस्तुतां याति प्रक्रियाया विपर्ययाद् इति ततो न किंचिद् वस्तुप्रतिपक्षभूतावस्तुवर्जितम् आत्मानंलभते यतः सर्वम् अन्यच्युतम् आत्महीनं भवेत् । सुदूरम् अप्य् अनुसृत्यकस्यचिद् इष्टस्य १५तत्त्वस्यात्महीनत्वम् अनभ्युपगच्छतान्यहीनत्वंनानुमन्तव्यं । तद् अ- प्य् अननुमन्यमानेन नान्यतराप्रयोगो ऽनुमन्तव्यः, तंचाननुग- च्छता न पर्यायभावः प्रत्येयस् तम् अप्रतीयता नियमद्वयेऽपि व्यावृत्य- भावो नाभ्यनुज्ञातव्यः । तम् अप्य् अनभ्यनुजानतानानेवकारं पद- म् अंगीकर्त्तव्यम् इति सर्वं पदम् एवकारोपहितम् एववक्तव्यं तत्र चोक्तो २०दोषः । नन्व् एवकारप्रयोगाभावे ऽपि प्रतिपत्तुरर्थप्रकरणलिंगश- ब्दांतरसन्निधिसामर्थ्यात् सामान्यवाचिनाम् अपि विशेषे स्थितिर्भ- विष्यतीति तथैव व्यवहारस्य प्रवृत्तेः । १०२तदुक्तम् — अर्थः प्रकरणं लिंगं शब्दस्यान्यस्य सन्निधिः । सामान्यवाचिशब्दानां विशेषे स्थितिहेतवः ॥ इति ॥ तद् अप्य् अनालोचिताभिधानं । अर्थप्रकरणादिभिर् अपियद्य् एवका- ०५रार्थे विशेषे स्थितिः क्रियतेतदैवकारोपहितपदप्रयोगपक्षभा- विदूषणगणः परिहर्तुम् अशक्यः । अथ ततो ऽन्यत्र विशेषेस्थि- तिहेतवो ऽर्थप्रकरणादयस् तदाऽनेवकारपदप्रयोग एवसमर्थितः स्यात् । तत्र चोक्तो दोषः । स्यान् मतं — क्वचिद् एवकारोपहितं पदं क्वचिद् अनेवकारंयथा १०पूर्वावधारणे पूर्वं पदम् एवकारोपहितम् उत्तरमनेवकारं, उत्तरावधा- रणे पुनर् उत्तरं पदम् एवकारोपलक्षितं पूर्वम् अनेवकारमिति । तद् अप्य् अ- सत् पक्षद्वयाक्षिप्तदोषनुषंगात् । यदि पुनर् अस्तीति पदेना- भिधेयम् अस्तित्वम् अनेवकारेणापि नान्येनतत्प्रतिपक्षभूतेन नास्ति- त्वेन च्युतं भवति, तस्य तदभेदित्वात्, सत्त्वाद्वैतवादिनो ऽ- १५स्तित्वव्यतिरेकेण नास्तित्वासंभवादन्यत्रानाद्यविद्योपप्लवात् । तत् सर्वथा शून्यवादिनो नास्तित्वव्यतिरेकेणास्तित्वे च वर्त्तनेनात्महीनं प्रसंजनयितुं शक्यम् इति मतं तदापिदूषण- म् आहुः स्वामिनः — विरोधि चाभेद्यविशेषभावात् इति । २०नास्तित्वम् अस्तित्वात् सर्वथाप्य् अभेदि येनाभिधीयते तस्य तद्विरोधस्य भेदवद् भवेत् सत्ताद्वैतेऽभिधानाभिधेययोर् विरोधात् । कस्माद् ? अविशेषभावाद् अविशेषत्वात् सकलविशेषाणाम् अभावा- १०३द् इत्य् अर्थः । अनाद्यविद्यावशाद् विशेषसद्भावाददोष इति चेत्, न, विद्याविद्याविशेषयोर् अप्य् अयोगात्, अन्यथा द्वैतप्रसंगात् । अथवा नास्तित्वम् अस्तित्वाद् अभेदीति विरोधि च स्यान् न केवलमात्महीनम् इ- ति चशब्दार्थः । कस्मात् ? अविशेषभावाद्विशेषस्यभेदस्यास्तित्व- ०५नास्तित्वयोरभावात् । यो हि ब्रूयादिदमस्मादभेदीति तेनतयोः कथंचिद्भेदोऽभ्युपगतः स्यादन्यथा तद्वचनायोगात्, कथंचिदपि भेदिनोरभावे तत्प्रतिषेधविरोधात् । अथशब्दाद्विकल्पभेदाद्भे- दिनोः स्वरूपभेदः प्रतिषिध्यते तदापिशब्दयोर्विकल्पयोश्च भेदं स्वयमनिच्छन्नेव संज्ञिनो भेदं कथमपाकुर्वीत ? पराभ्युपगमादेव १०शब्दविकल्पभेदस्येष्टेर्न दोष इति चेत्, न, स्वपरभेदानभ्युप- गमे पराभ्युपगमासिद्धेः । विचारात् पूर्वं स्वपरभेदःप्रसिद्ध एवेति चेत्, न, तदाऽपि पूर्वापरकालभेदस्यासिद्धेः । तत्सर्वथाभेदा- यह्नवे स्यादेवाभेदीति वचो विरोधि विशेषाभावादिति स्थितं । नन्वे[? व]म् अस्तित्वविरोधान् नास्तित्वं वस्तुनि कथमभिधीयते १५स्याद्वादिभिर् एवकारोपहितेनास्तीतिपदेन तस्य व्यवच्छेदाद- नेवकारेण तस्य वक्तुम् अशक्यत्वाद् अनुक्तसमत्वात् । ततश्चावाच्य- तैवापतेत् प्रकारांतराभावाद् इत्य् आशंकायाम् इदम् उच्यते — तद्द्योतनः स्याद् गुणतो निपातः । विपाद्यसन्धिश् च तथांगभावा- २०द् अवाच्यता श्रायसलोपहेतुः ॥ ४४ ॥ १०४तस्य विरोधिनो धर्मस्य द्योतनः स्याद् इतिनि- पातः स्याद्वादिभिः संप्रयुज्यते । यद्य् एवं विध्यर्थिनःप्रतिषेधे-[? ओम्.] ऽपि प्रवृत्तिर् भवेत् द्वयोर् अपि प्रकाशनप्रतिपादनाद् इति नमन्तव्यं गुण इति वचनात् । विधौ प्रयुज्यमानं पदम् अस्तीतिप्रतिषेधं ०५गुणभावेन प्रकाशयति स्याद् इति निपातेन तथैव द्योतनात् । तथा विपाद्यस्य विपक्षभूतस्य धर्मस्य संधिश् च स्यादंगभावाद् अंगस्याव- यवस्य भावाद् अवयवत्वाद् इत्य् अर्थः । सर्वथाऽप्य् अवाच्यतातु न युक्ता तस्याः श्रायसलोपहेतुत्वान् नि[? :ḥ]श्रेयसतत्त्वस्याप्यवाच्यत्वात् तदुपा- यतत्त्ववत् । न चोपेयस्योपायस्य वचनाभावे तदुपदेशःसंभवति, १०न चोपदेशाभावे श्रायसोपायानुष्ठानं संभवति, नाप्युपाया- नुष्ठानानुपपत्तौ श्रायसमित्यवाच्यता श्रायसलोपहेतुः स्यात्ततः स्यात्कारलाञ्छनं पदम् एवकारोपहितम् अर्थवत्प्रतिपत्तव्यम् इति तात्पर्यार्थः । नन्व् एवं सर्वत्र स्याद् इति निपातस्य प्रयोगप्रसंगात्प्रति- १५पदं तदप्रयोगः शास्त्रे लोके च कुतः प्रतीयत इति शंकां प्रतिघ्नंति सूरयः — तथा प्रतिज्ञाशयतो प्रयोगः सामर्थ्यतो वा प्रतिषेधयुक्तिः । इति त्वदीया जिननाग ! दृष्टिः २०पराप्रधृष्या परधर्षिणी च ॥ ४५ ॥ तथा स्याज् जीव एवेति प्रकारेण या प्रतिज्ञा १०५तस्याम् आशयो ऽभिप्रायस् तथा प्रतिज्ञाशयःप्रतिपादयितुर् अभिप्रा- यस् तस्मात् प्रतिपदं स्याद् इति निपातस्याप्रयोगः शास्त्रे लोके च प्रतीयते एवकाराप्रयोगवत् । शास्त्रे तावत्सम्यग्दर्शनज्ञान- चारित्राणि मोक्षमार्ग इत्य् आदौ न क्वचित् स्यात्कार एवकारो वा ०५प्रयुज्यते, शास्त्रकारैर् अप्रयुक्तो ऽपि विज्ञायते तेषां तथाप्रति- ज्ञाशयसद्भावात् सामर्थ्यतो वा प्रतिषेधस्यसर्वथैकान्तव्यवच्छे- दस्य युक्तिः स्याद्वादिनाम् अन्यथा तदयोगात्, न हि स्यात्का- रप्रयोगम् अन्तरेणानेकान्तात्मकत्वसिद्धिरेवकारप्रयोगमन्तरेण स- म्यगेकान्तावधारणसिद्धिवत् । "सद् एव सर्वं को नेच्छेत्स्वरू- १०पादिचतुष्टयाद्" इत्य् आदौ स्यात्काराप्रयोग इति न मन्तव्यं, स्वरूपादिचतुष्टयाद् इति वचनात् स्यात्कारार्थप्रतिपत्तेः, "कथं[? :-] चित् ते सद् एवेष्टंऽ इत्यादौ कथंचिद् इति वचनात्तत्प्रयोगवत्, तथा लोके घटमानयेत्यादिषु तदप्रयोगः सिद्ध एव । इत्येवं जिननाग ! जिनकुंजर ! त्वदीया दृष्टिः परैःसर्वथैकान्तवा- १५दिभिर् अप्रधृष्या प्रमाणनयसिद्धार्थत्वात् । परेषांभावैकान्तवा- दिनां प्रधर्षिणी च त्वदीया दृष्टिर् इति संबंधः । तेषांसर्वथाऽ- विचार्यमाणानाम् अप्रयोगः — यथा चाभावैकान्तादिपक्षा न्यक्षेण प्रतिक्षिप्ता देवागमाप्तमीमांसायां तथेह प्रतिपत्तव्या इत्यलम् इह विस्तरेण । २०कथं पुनर्विपाद्यसंधिश् च पदस्याभिधेयः स्याद् इतिस्वयं सूरयः प्रकाशयन्ति — विधिर् निषेधो ऽनभिलाप्यता च१०६त्रिरेकशास्त्रिद्विश एक एव । त्रयो विकल्पास् तव सप्तधामी स्याच्छब्दनेयाः सकले ऽर्थभेदे ॥ ४६ ॥ स्याद् अस्त्य् एवेति विधिः स्यान् नास्त्य् एवेति निषेधः ०५स्याद् अनभिलाप्यम् एव सर्वम् अर्थजातम् इत्य् अनभिलाप्यता, ते ऽमी त्रयो विकल्पाः एकशस्त्रिर् इति वचनात्, पदस्येत्य् अर्थवशाद्विभक्तिपरि- णामः । एषां विपाद्येन विपक्षेण संधिः संयोजना स्याद् अस्ति नास्त्य् एव स्याद् अस्त्य् अवक्तव्यम् एव स्यान् नास्त्य् अवक्तव्यमेवेति त्रिर् द्विशो भवति । द्वाभ्यां द्विश इति द्विसंयोगजा विकल्पास् त्रिर् इतित्रिप्र- १०कारा भवन्ति । स्याद् अस्ति नास्त्य् अवक्तव्यम् एवेत्य् एक एवविकल्पो भवति । तद् एवं विपाद्यसंधिप्रकारेण त्रयो ऽमीमूलविकल्पाः सप्तधा भवंति । किं क्वचिद् एवार्थे किं वा सर्वत्रेतिशंकायाम् इ- दम् उच्यते — सकले ऽर्थभेदे निरवशेषेजीवादितत्त्वार्थपर्याये, न पुनः क्वचिद् एवार्थपर्यायभेदे, प्रतिपर्यायंसप्तभंगीति वचनात् । १५विकल्पाः सप्तधा भवंति तवेति वचनात्, न च परेषाम् अप्यमी । नन्व् अस्तित्वं प्रति विप्रतिपन्नमनसां तत्प्रत्यायनाययथा स्याद् अ- स्त्य् एवेति पदं प्रयोगम् अर्हति तथा स्यान् नास्त्य् एवेत्यादिपदान्य् अपि प्रयोगम् अर्हेयुः सप्तधावचनमार्गस्य व्यवस्थितेर् इतिपराकूतं नि- राचिकीर्षवः स्याच्छब्दनेया इति प्रतिपादयंति । यथाविधिवि- २०कल्पस्य प्रयोगस् तद्विवादविनिवृत्तये स्याद्वादिभिर्विधीयते तदा निषेधादिविकल्पाः शेषाः षड् अपि स्याच्छब्देन नेयाः स्युः । न १०७पुनः प्रयोगम् अंर्हति तदर्थे विवादाभावात्तद्विवादे तु क्रमशस् तत्प्र- योगे ऽपि न कश्चिद् दोषः प्रतिभाति प्रतिपाद्यस्यैकस्यापिसप्तधावि- प्रतिपत्तिसद्भावात् । तावत् कृत्वः संशयोपजननात् तावज्जिज्ञासो- पपत्तेस् तावद् एव च प्रश्नवचनप्रवृत्तेः "प्रश्नवशादेकवस्तुन्यविरोधेन ०५विधिप्रतिषेधकल्पना सप्तभंगीति" वार्त्तिककारवचनात् । नाना- प्रतिपाद्यजनानिवैकप्रतिपाद्यजनम् अपि प्रतिपादयितुमनसां सप्त- विकल्पवचनं न विरुध्यत एव । ननु च स्याद् इति निपातोऽने- कांतस्य द्योतको वाचको वा, गुणभावेन भवेत्प्रधानभावेन वा ? तत्र यदि गुणकल्पनया द्योतको ऽभिधीयते तदातद्वाचकपदा- १०न्तरेणाऽपि गुणकल्पनयैव वाच्यत्वप्रसंगः सर्वत्रपदाभिधेयस्यै- व निपातेन द्योतयितुं शक्यत्वात्, तदनुक्तस्यार्थस्य तेनद्योतने तस्य वाचकत्वप्रसक्तेस् तत्प्रयोगसामर्थ्यात्तदर्थप्रतिपत्तेः । स्यान् मतम् एतत् — अस्तीति पदेन निपातेन तावद् अस्तित्वंप्र- धानकल्पनयोच्यते स्याद् इति पदेन निपातेन नास्तित्वादयो १५धर्मा द्योत्यंत इतिप्रधानगुणकल्पनयाऽनेकान्तप्रतिपत्तिर् एव- कारप्रयोगाद् अन्यव्यवच्छेदसिद्धेर् इति । तद् अप्य् असम्यक्;अस्ती- ति पदेनानुक्तानां नास्तित्वादिधर्माणां स्याच् छब्देन द्योतने सर्वार्थद्योतनप्रसंगात् । सर्वार्थानाम् एवकारेणव्यवच्छेदान् न तद्- द्योतनप्रसंग इति वचनं न युक्तिमत् नास्तित्वादीनाम् अपितेन २०व्यवच्छेदाद् अनुद्योतनप्रसंगात् ततो न द्योतकः स्याच्छब्दो ऽने- कांतस्य युज्यते नाऽपि वाचकः स्याद् इति निपातप्रयोगाद् एव तत्प्रतिपत्तेर् अस्तीत्यादिपदप्रयोगानर्थक्यात् । १०८सर्वार्थप्रतिपादने तेनैव पर्याप्तत्ब्[? :व्]आत्पदान्तरस्य प्रयोगो वा पुनरुक्तत्वम् अनिवार्यम् इति केचित्, तान् प्रति सूरयःप्राहुः — स्याद् इत्य् अपि स्याद् गुणमुख्यकल्पै- कान्तो यथोपाधिविशेषवीक्ष्यः । ०५तत्त्वं त्व् अनेकांतम् अशेषरूपं द्विधा भवार्थव्यवहारवत्त्वात् ॥ ४७ ॥ अस्यायम् अर्थः स्याद् इत्य् अपि निपातो गुणमुख्य- कल्पैकान्तः स्यात्, गुणश् च मुख्यश् च गुणमुख्यौ स्वभावौ ताभ्यां कल्प्यन्त इति गुणमुख्यकल्पाः, गुणुमख्यकल्पा १०एकान्ता यस्य सो ऽयं गुणमुख्यकल्पैकान्तः स्याद् भवेन्नयादेशा- द् इत्य् अभिप्रायः । शुद्धद्रव्यार्थिकप्रधानभावादस्तित्वैकान्तो मुख्यः, शेषा नास्तित्वाद्यैकान्ता गुणाः, प्रधानभावेनानर्पणा- द् अनिराकरणाच् च नास्तित्वादिनिरपेक्षस्यास्तित्वस्यासंभवात् खरविषाणवत् । स्याच्छब्दस् तु तद्द्योतनःप्रधानगुणभावेनैव १५भवेत् तथैवास्तीति पदेनाभिधानात् पदान्तरेणयथाभिधानं निपातपदेन द्योतयितुं शक्यत्वात् । व्यवहारनयादेशात् तुना- स्तित्वैकान्ता मुख्याः स्युर् अस्तित्वैकांतस् तु गुणःप्राधान्येना- विवक्षितत्वात् तदप्रतिक्षेपाच् च तत्रास्तित्वनिराकरणे तुनास्ति- त्वादिधर्माणाम् अनुपपत्तेः कूर्मरोमादिवत् । नास्तित्वादिभिरपेक्ष- २०माणं तु वस्तुनो ऽस्तित्वं स्याच्छब्देन द्योत्यत इतिप्रधानगु- णभावेनैव स्याद् इति निपातः कल्पयत्य् एकांताच् छुद्धनयादेशा- १०९न् नान्यथा । कुत इति चेत्, यथोपाधि यथाविशेषणंविशेषस्य भेदस्य भावात् सद्भावात् "धर्मे धर्मे ऽन्य एवाऽर्थोधर्मिणो- ऽनंतधर्मिणः " इत्य् अन्यत्रापि वचनात् । नयादेशो हिवस्तुनो धर्मभेदाद् विशेषो न प्रमाणदेश इति । जीवादि तत्त्वम् अपितर्हि ०५प्रधानगुणभूतैकान्तमायातम् इति न शंकनीयं । "तत्त्वंत्व् अने- कान्तम् अशेषरूपं" इति वचनात् । तत्त्वं जीवादिप्रमाणार्पितं सकलादेशात् "सकलादेशः प्रमाणाधीनः" इति वचनात् तदनेकान्तम् एव स्याद् अनेकान्तो ऽप्य् अनेकांतो न पुनर् एकान्तस्त- स्य नयार्पणयोक्तत्वात् । कुतस् तदनेकांतम् इत्य् उच्यते — यतोऽशे- १०षरूपं[? :म्] अशेषं सकलं रूपं यस्य तदशेषरूपंविकलरूपस्य तत्त्वै- कदेशत्वात् । कथम् इदानीं स्याज् जीव एव स्याद् अजीव एवेत्यादिना प्रमाणवाक्येनाभिधीयत इति शंकायाम् इदम् उच्यते — "द्विधा भवार्थव्यवहारवत्त्वाद् इति" १५तत्त्वं द्वाभ्यां प्रकाराभ्यां व्यवस्थितं द्रव्यरूपंभवार्थ- वत्त्वात् पर्यायरूपं व्यवहारवत्त्वात् । भवार्थो हिसद्द्रव्यं विधि- र् व्यवहारो ऽसद्द्रव्यं गुणः पर्यायः प्रतिषेधः, तत्तत्त्वम् एव वस्तुन इति द्विप्रकारं तत्त्वं प्रकारान्तराभावात् । तत्र यदा यदासद्द्रव्यं जीवो धर्मास्तिकायो ऽधर्मास्तिकाय आकाशं कालः पुद्गलो २०मनुष्यादिर् इति वा विधिलक्षणभवार्थप्ररूपणायां सद् इतिशब्दः प्रयुज्यते तदाकालात्मरूपसंसर्गगुणिदेशार्थसंबंधोपकार- शब्दैर् अभेदेनाभेदात्मकस्य वस्तुनो ऽभिधानात्सकलादेशस्य ११०प्रमाणाधीनस्य प्रयोगादशेषरूपं तत्त्वमभिधीयते । सद् इति शब्दो हि सकलसद्विशेषात्मकं सदितरात्मकासद्विशेषात्मकं च तत्त्वं प्रतिपादयति कालादिभिर् अभेदात् । तथा द्रव्यमिति शब्दो निःशेषद्रव्यविशेषात्मकं द्रव्यतत्त्वंसकलपर्यायविशेषा- ०५त्मकम् अद्रव्यगुणाद्यात्मकं च प्रकाशयति । तथैव जीवैति शब्दो जीवतत्त्वं सकलजीवविशेषात्मकं जीवपर्यायरूपंजीवाजीववि- शेषात्मकं च कथयति । तथैव धर्म इत्य् अधर्म इत्याकाश इति काल इति च शब्दो धर्मम् अधर्मम् आकाशं कालं चसकलस्वविशे- षात्मकं निवेदयति । पुद्गल इति शब्दोऽखिलपुद्गलविशेषात्मकं १०पुद्गलद्रव्यम् एवेति प्रतिपत्तव्यं विधिरूपस्यभवार्थस्य प्राधान्यात् । यदा पुनर् असदितिशब्दः प्रयुज्यते तदाऽप्य् असत्तत्त्वंपररूपादि- चतुष्टयापेक्षं कालादिभिर् अभेदेनाभेदोपचारेणसकलासद्विशे- षात्मकं तत्त्वं ख्यापयति, व्यवहारस्य भेदप्राधान्यात् । तथैवा- द्रव्यम् अजीव इत्यादि प्रतिषेधशब्दः सकलासद्विशेषात्मकमद्रव्य- १५त्वम् अजीवादितत्त्वं च प्रत्याययति । स्याद् इति निपातेनतथा तस्योद्योतनाद् एवकारेणान्यथाभावनिराकरणात् । वस्तुत्वमिति शब्दस् तु स्यात्कारलांछनः सैवकारःसकलवस्तुविशेषसदसदा- दिरूपं तत्त्वं कालादिभिर् अभेदेनाभेदोपचारेणप्रख्यापयति तस्य भवार्थव्यवहारवत्त्वाद् विधिनिषेधप्राधान्येनयुगपदभिधानात्, २०यत्काले वस्तुनो वस्तुत्वं तत्काल एवसकलवस्तुविशेषास्तस्य तद्व्यापकत्वाद् इति कालेनाभेदस् तेभ्योद्रव्यार्थिकप्राधान्यात् । यथा च वस्तुनो वस्तुत्वम् आत्मरूपं तथा सर्वेवस्तुविशेषाः १११इत्य् आत्मरूपेणाभेदः । यथा च वस्तुत्वेन वस्तुनःसंसर्गस् तथा वस्तुविशेषैर् अपि, सविशेषस्यैव तस्य सम्यक् सृष्टौ व्यापा- रात् ततः संसर्गेणाप्य् अभेदः । यस् तु वस्तुत्वस्य गुणस्य वस्तुगुणिदेशः स एव वस्तुविशेषाणाम् इति गुणिदेशेनाऽपि ०५तदभेदः । य एव चार्थो वस्तुत्वस्याधिकरणलक्षणोवस्त्वात्मा स एव सकलवस्तुधर्माणाम् इत्य् अर्थतो ऽपि तदभेदः । यश् चवस्तुनि वस्तुत्वसंबंधः समवायो ऽविष्वग्भावलक्षणः स एवसकलधर्मा- णाम् इति संबंधेन तदभेदः । य एव चोपकारो वस्तुनोवस्तु- त्वेन क्रियते ऽर्थक्रियासाम् अर्थ्यलक्षणः स एवसकलधर्मैर् इत्य् उ- १०पकारेणैव तदभेदः । यथा च वस्तुशब्दो वस्तुत्वंप्रतिपादयति तथा सकलवस्तुधर्मान् अपि तैर् विना तस्यवस्तुत्वानुपपत्तेर् इति श- ब्देनाऽपि तदभेदः । पर्यायार्थिकप्राधान्येन तुपरमार्थतः का- लादिभिर् भेद एव धर्मधर्मिणोर् अभेदोपचारात् । वस्तुशब्देन सकल- धर्मविशिष्टस्य वस्तुनो ऽभिधानात् सकलादेशो न विरुध्यते । १५ततः स्याद् वस्त्व् एवेत्य् आदिशब्दः तत्त्वम् अशेषरूपंप्रतिपादयतीति ना- नात्वरूपस्यापि वस्तुनो वाचकसंभवः सकलादेशवाक्येनतस्य तथा वक्तुं शक्यत्वात् । ननु च द्रव्यमात्रं तत्त्वं तस्यद्रव्यपदेना- भिधानात् पदान्तराणामपि तत्रैव व्यापारात् तद्व्यतिरेकेण पदार्थासंभवाद् इत्य् एके । पर्यायमात्रम् एव तत्त्वंद्रव्यस्य सकलप- २०र्यायव्यापिनो विचार्यमाणस्यायोगात्, द्रव्यादिपदेनापि पर्या- यमात्रस्यैव कथनात् तत्र प्रवृत्तिप्राप्तिदर्शनाच् चेत्यन्ये । द्रव्यं प- र्यायश् च पृथग् एव तत्त्वं तयोस् तादात्म्यविरोधात्द्रव्यपदेन द्रव्य- ११२स्यैवाभिधानात् पर्यायपदेन पर्यायस्यैवनिवेदनाद् अन्यथासंकरव्य- तिकरप्रसंगाद् इत्य् अपरे । द्रव्यपर्यायद्वयात्मकंतत्त्वं, द्रव्यपदेन प- र्यायपदेन वा तस्यैवाभिधानात् सर्वत्रापर्यायात्मकस्यद्रव्यस्या- संभवात् सकलपर्यायशून्यस्य च द्रव्यस्याप्रतीतेर् इतीतरे । ०५तान् प्रति सूरयो वक्तुम् आरभन्ते — न द्रव्यपर्यायपृथग्व्यवस्था- द्वैयात्म्यम् एकार्पणया विरुद्धम् । धर्मश् च धर्मी च मिथस् त्रिधेमौ- न सर्वथा ते ऽभिमतौ विरुद्धौ ॥ ४८ ॥ १०न तावत् द्रव्यम् एवेति द्रव्यस्य व्यवस्थासकलपर्याय- रहितस्य प्रमाणागोचरत्वात्, न हि प्रत्यक्षं द्रव्यविषयंतस्य व- र्तमानविषयत्वात् द्रव्यस्यत्रिकालगोचरानंतविवर्तव्यापित्वात् । न च वर्तमानमात्रविषयत्वे प्रत्यक्षस्य सर्वात्मनात्रिकालवि- षयद्रव्यग्राहित्वं युक्तं योगिप्रत्यक्षत्वप्रसंगात् । तर्हियोगिप्र- १५त्यक्षम् एव द्रव्यविषयम् इति चेत् न, अस्मदादिप्रत्यक्षस्य निर्विषयत्वप्रसंगात् । ननु अस्मदादिप्रत्यक्षस्यापिविधातृत्वात् सर्वदा निषेद्धृत्वे विधिविषयत्वविरोधात्निषेध्यानामानंत्याद- नं तेनापि कालेन निषेधस्य कर्तुम् अशक्तेस्तत्रैवोपक्षीणशक्तिक- त्वात् कदाचित् कस्यचिद् विधौ प्रवृत्त्यनुपपत्तेर्विधिविषयत्वस्यैव २०युक्तिमत्त्वम् इति चेत्, नैतत्सारं, सद्द्रव्यमात्रेप्रत्यक्षस्य प्रवृत्तौ शश्वदसत्त्वे प्रवृत्त्यभावात् तदव्यवच्छेदप्रसंगात् । यदि पुनः ११३सन्मात्रे विधौ प्रवर्तमानं प्रत्यक्षंतद्विरुद्धम् असत्त्वं व्यवच्छिन- त्तीति कथ्यते तदाऽपि निषेद्धृ प्रत्यक्षं कथं न स्यात् ? यदि पु- नः प्रथमाक्षसन्निपातवेलायां निर्विकल्पं प्रत्यक्षंसन्मात्रम् एव साक्षात्कुरुते, पश्चाद् अनाद्यविद्यावासनासामर्थ्याद् असत्, निवृत्ति- ०५विकल्पोत्पत्तेः प्रतिषेधव्यवहारो ऽस्मदादेः प्रवर्त्तत इतिमतं, तदा परमार्थतो नासत्त्वनिवृत्तिर् इतिसदसदात्मकवस्तुविषयं प्रत्यक्षं प्रसज्येत । सन्मात्रस्य विधिरेवासत्त्वप्रतिषेध इति चेत्, (न) कथम् एवं विधात्रेव प्रत्यक्षं निषेद्धृत्वस्यापितत्रेष्टेः ? कथं च स्वयम् एव न निषेद्धृ प्रत्यक्षम् इति ब्रुवाणः प्रतिषेधंसर्वथा निरा- १०कुर्वीत न चेदस्वस्थः । अथाविद्याबलान् न निषेद्धृप्रत्यक्षम् इति निषेधव्यवहारः क्रियते परमार्थतस् तस्याप्य् अनभिधानात्किम् ए- वम् अवाच्यं प्रत्यक्षम् इष्यते ? तथेष्टौ सन्मात्रम् अप्यवाच्यं स्यात्, तत्त्वयुक्ततरं परप्रत्यायनायोगात् — सन्मात्रं हि तत्त्वंपरं प्रत्याययेन् न संविन्मात्रेण पराप्रत्यक्षेण प्रत्याययितुमीशः, १५परमार्थतः प्रत्याय्यप्रत्यायकभावाभावात् न क्वचित्किंचित् कथंचित् प्रत्याययति सर्वस्य स्वत एवसन्मात्रतत्त्वप्रतिपत्तेर् इति चेत्, न विप्रतिपत्त्यभावप्रसंगात् । यदि पुनः सन्मात्रेतत्त्वे स्वपरविभागाभावात् सर्वस्य भेदस्य तत्रैवानुप्रवेशान् नकश्चि- त् कुतश्चित् कथंचित् कदाचिद् विप्रतिपद्यत इति चेत्, न स्यादेतद् ए- २०वं यदि स्वपरविभागाभावः सिद्ध्येत्, स हि न तावत्प्रत्यक्षतः सिद्धस् तस्याभावविषयत्वप्रसंगात्, नाऽप्य् अनुमानात्पक्षहेतुदृष्टांत- भेदाभावे ऽनुमानानुपपत्तेः, कल्पितस्याप्य् अनुमानस्यविधिवि- ११४षयत्वनियमात्, तस्य प्रतिषेधविषयत्वेप्रत्यक्षस्यापि प्रतिषेधवि- षयत्वसिद्धेः कुतः सन्मात्रत्वसिद्धिः? । आगमात्स्वपरविभागाभा- वः साध्यत इति चेत्, न, स्वपरविभागाभावे क्वचिद् आगमा- नुपपत्तेः । आगमो ह्य् आप्तवचनम् अपौरुषेयं वा वचनंस्यात् ? न ०५तावद् आप्तस्य तत्प्रतिपाद्यस्य च विनेयस्याभावे वचनमाप्तस्य प्र- वर्त्तते । तत्सद्भावे च सिद्धः स्वपरविभाग इति कथमागमात् त- दभावः सिध्येत् ? यदि पुनर् अपौरुषेयं वचनम् आगमस्तदाऽपि स्वपरविभागः सिद्धस् तद्व्याख्यातुः श्रोतुश् च सिएद्धेःस्वपरविभा- गोपपत्तेः । स्यान् मतं, स्वपरविभागाभावो ऽपि न कुतश्चित्प्रमा- १०णात् साध्यते प्रत्यक्षतः सन्मात्रसिद्धेर् एवस्वपरविभागाभावस्य साधनात् केवलम् अविद्याविलासमात्रंप्रतिपाद्यप्रतिपादकभावः सं- वेद्यसंवेदकभाववद् इति । तद् अप्य् असम्यक्, संवेद्यसंवेदकभावप्र- तिपाद्यप्रतिपादकभावाभावे स्वपरप्रतिपत्तिविरोधात्सर्वथा शून्यवादावकाशप्रसंगात् । १५तद् उक्तम् — सर्वथा सदुपायानां वादमार्गः प्रवर्त्तते । अधिकारो ऽनुपायत्वान् न वादे शून्यवादिनः ॥ इति ॥ तद् एतद् अत्रापि संप्राप्तं । तथा हि — सर्वथा सदुपायानां वादमार्गः प्रवर्तते । २०अधिकारो ऽनुपायत्वान् न वादे सत्त्ववादिनः ॥ ननु च विचारात्पूर्वं तत्त्वाभ्युपगमः पश्चाद् वा ? यदिपूर्वं तदा निष्फलो विचारः स्यात्, तत्त्वाभ्युपगमफलत्वाद् विचारस्य, ११५तस्य विचारात् प्राग् एव सिद्धेः । पश्चाच् चेत्सर्वस्याविचाररमणीयेन लोकव्यवहारेण विचारस्य प्रवृत्तेर् न पर्यनुयोगो युक्तः, विचा- रकाले हि न कश्चिद् अपि शून्यवादी सत्ताद्वैतवादी वा, येन सर्वथाऽनुपायत्वाद् वादे ऽनधिकारः प्रसज्येत !अनेकान्तवादि- ०५नाम् अपि तद्विचारोत्तरकालम् एव सर्वम् अनेकान्तात्मकंतत्त्वम् इति प्रतिपत्तव्यं, कथम् अन्यथा परस्पराश्रयाख्यो दोषो नस्यात्, प्रसिद्धे ऽनेकान्तत्वे विचारप्रवृत्तिस् तस्यां च सत्यामनेकान्तप्र- सिद्धिर् इति गत्यंतराभावात् । किंचिद् अपि तत्त्वमनभ्युपगम्य परीक्षाप्रवृत्तौ तु न कश्चिद् दोषः परीक्षोत्तरकालं यद्विनिश्चितं १०तत् तत्त्वम् इति व्यवस्थानात् । तथा च सत्ताद्वैतवादिनोऽपि वि- चारसामर्थ्यात् सत्ताद्वैततत्त्वव्यवस्थितौ यथादर्शनंसंवेद्यसंवेद- कभावस्य प्रतिपाद्यप्रतिपादकभावस्य वास्वपरविभागभाव- नाधीनस्य प्रतिबंधकभावात् सर्वम् अनवद्यम् इति केचित् । तद् अप्य् अति- मुग्धबुद्धिविजृंभितं, किंचिन् निर्णीतम् अनाश्रित्यविचारस्थैवाप्र- १५वृत्तेस् तस्य संशयपूर्वकत्वात्, संशयस्य चनिर्णयनिबंधनत्वात् पू- र्वम् अनिर्णीतविशेषस्य पश्चात् क्वचित् संशयस्यानुपलब्धेःस्था- णुपुरुषसंशयवत् । य एव हिपूर्वनिश्चितस्थाणुपुरुषविशेषः प्र- तिपत्ता तस्यैवान्यत्रोर्ध्वतासामान्यं प्रत्यक्षतोनिश्चितवतस्[? ]त- द्विशेषयोः स्मरतः संशयोत्पत्तिदर्शनात् । न चैवंसत्ताद्वैततत्त्वं २०किं वा सर्वथा शून्यम् इति संशय उत्पद्यते पूर्वंतद्विषयनिर्ण- यानुपपत्तेः । क्वचित् तन्निर्णयोत्पत्तौ वा नसत्ताद्वैतवादिनः शून्य- वादिनो व स्वेष्टसिद्धिः । यदि पुनः सर्वम् अभ्युपगभ्यसत्ता- ११६द्वैतशून्यवादयोर् अपि क्वचित् कदाचित् तन्निर्णयात्पुनर् अन्यत्र तत्त्व- सामान्यम् उपलब्धवतस् तयोश् चानुस्मरतः संशयप्रवृत्तेर्विचारः, प्रव- र्त्तत एवेति मतं, तदापि येनात्मना सत्ताद्वैतं पूर्वंनिर्णीतं तेनैव सर्वशून्यत्वं रूपान्तरेणा वा ? न तावत् प्रथमः पक्षोव्याधातात्, ०५रूपान्तरेण तु तन्निर्णये स्याद्वादम् आश्रित्य विचारःप्रवर्त्तत इत्य् एतद् आयातं । तथा च नानेकांतवादिनां विचारात् पूर्वमनेकांत- त्वाप्रसिद्धिस् तदप्रसिद्धौ विचाराप्रवृत्तेः । न च विचारादेवानेकां- तत्वसिद्धिः, प्रत्यक्षतः परमागमाच् चसुनिश्चितासंभवद्बाधकप्र- माणाद् अनेकांतत्वसिद्धेर् अप्रतिबंधात्, न चैवंविचारानर्थक्यं तद्ब- १०लाद् एव तत्त्वसिद्धेर् अभ्युपगमात्, प्रत्यक्षाद् आगमाच् चप्रतिपन्नतत्त्वस्या- पि कुतश्चिद् दृष्टादृष्टानिमित्तवशात् कस्यचित् क्वचित् कथंचित्संश- योत्पत्तौ विचारस्यावकाशात्सर्वत्राऽहेतुवादहेतुवादाभ्यामाज्ञा- प्रधानयुक्तिप्रधानयोस् तत्त्वप्रतिपत्तिविधानात् । ततोऽनेकान्तवा- दिन एव वादे ऽधिकारः सदुपायत्वात् । क्वचित् कदाचित्कथं- १५चित् कुतश्चित् कस्यचिन् निश्चयसद्भावात् । किंचिन् निर्णीतम् आ- श्रित्य क्वचिद् अन्यत्रानिर्णीते विचारप्रवृत्तेः सर्वत्रविप्रतिपद्यमाना- नां निराश्रयविचारणानुपपत्तेः । तथा चोक्तं तत्त्वार्थालंकारे — किंचिन् निर्णीतम् आश्रित्य विचारो ऽन्यत्र वर्त्तते । २०सर्वविप्रतिपत्तौ तु क्वचिन् नास्ति विचारणा ॥ इति ॥ ततो न विचारसामर्थ्यात् सद्द्रव्यतत्त्वव्यवस्था नाऽपिपर्याय- तत्त्वव्यवस्था, द्रव्यविकलस्य पर्यायमात्रस्यसकलप्रमाणावि- ११७षयत्वात् द्रव्यैकान्तवत् । प्रत्यक्षतोवर्त्तमानपर्यायः प्रतिभा- सत एव सर्वस्येदानींतनतया प्रतिभासमानत्वात् । नष्टानुत्पन्न- योर् इदानींतनतया प्रतिभासाभावाद् इति चेत्, नेदानींतनताया एव द्रव्याभावे प्रतिभासविरोधात्, नष्टानुत्पन्नावस्थाद्वितयमनपे- ०५क्षमाणस्य वर्तमानताप्रतीतेर् अयोगात्, नित्यत्वसाधनाच्चेदानींतन- ताप्रतीतेः शश्वदविच्छेदादात्मनो ऽहंताप्रतीतिवत् — यथैवह्य् आत्मा सुख्य् अहं दुःख्य् अहम् इति सर्वदाऽप्य् अवच्छिन्नाहंप्रत्ययविषयभावम् अ- नुभवन् न कदाचिद् अहंतां संत्यजतीति नित्यः, तथाव्[? ब्]अहिर्वस्त्व् अपि सततम् इदानींतनतां न जहाति प्राग् अपि इदानीं पश्यामिपश्चा- १०द् अपीदानीं पश्यामीति न सकलो देशो वा कश्चिद् विद्यते यत्रे- दानींतनताप्रतीतिर् नास्तीति तदव्यवच्छेदः सिद्धः । ततः समस्तं वस्तु विवादापन्नं नित्यम् एवेदानीन्तनतयाप्रतीयमान- त्वात्, प्रतिक्षणविनाशित्वे तद्विरोधात् । स्यान्मतं, पूर्वेदानींतनतान्या पाश्चात्या चवर्त्तमानेदानींत- १५नता, न ततस् तयोः संतानाविच्छेदः, प्रतिक्षणंतद्विच्छेदाद् इ- ति । तद् असत्, तद्विच्छेदग्राहिणः कस्यचिद् असंभवात् । नहि ता- वत् सांप्रतिकम् इदनींतनतायाः संवेदनंपूर्वापरेदानींतनतासंवे- दनविच्छेदं ग्रहीतुम् अलं तदा स्वयम् अभावात् । नाप्यनुमानं त- द्विच्छेदाविनाभाविलिंगग्रहणासंभवात् । यो हि कदाचित् २०क्वचित् पूर्वापरेदानींतनविच्छेदम् उपलभते स एवतत्स्वभावस्य तत्कार्यस्य वा लिंगस्य तेनाविनाभावं साकल्येन तर्कयेत् न पुनर् अन्यो ऽतिप्रसंगात् । न च स्वयंपूर्वापरकालमव्याप्नुवन् ११८पूर्वापरेदानींतनतासंवदेनयोर् विच्छेदमुपलब्धुं समर्थः । सन्तान- स् तादृक् समर्थ इति चेत्, न, तस्यावस्तुत्वे सकलसामर्थ्या- नुपपत्तेः, वस्तुत्वे पुनर् आत्मन एव संतान इतिनामकरणा- न् नित्यात्मसिद्धेः । स्यान् मतिर् एषा ते, पूर्वापूर्वेदानींतनतासंवेद- ०५नाहितवासनाप्रबोधात् तद्विच्छेदनिश्चयोत्पत्तेर् ननित्यात्मसंसि- द्धिर् इति, साऽपि न सम्यक् । पूर्वापरेदानींतनतानिश्चयस्यैव तत्संवेदनाहितवासनाप्रबोधाद् उत्पत्तेर्यथानुभवनिश्चयोपजननसं- भवात् न पूर्वापूर्वविच्छेदो ऽनुभूतः । ननु प्रत्यक्षतःस्वरूपा- नुभव एव संवेदनस्य पूर्वापरसंवेदनविच्छेदानुभवैति चेन् न १०तदविच्छेदानुभवस्यापि स्वरूपानुभवरूपत्वसिद्धेरप्रतिबंधात् । पूर्वस्मात् परस्माच् च संवेदनाद् इदं संवेदनं विच्छिन्नमिति निश्च- योत्पत्तेः संवेदनस्वरूपानुभवस् तद्विच्छेदानुभव एवेतिचेत्, नाविच्छिन्नम् अहम् आमुहूर्त्तादेर् अन्वभवम् इत्यविच्छेदनिश्चयप्रादुर्भावा- त् तदविच्छेदानुभवस्यैव सिद्धेस् ततो निरंतरमिदानींतनतया १५v[? :ब्]अहिरन्तश् च वस्तुनः प्रतीयमानत्वं कथंचिन्नित्यत्वम् एव साध- यतीति नातः क्षणस्थितिपर्यायमात्रसिद्धिः नाप्य् अनुमानाल्लिं- गाभावात् । यत् सत् तत् सर्वं क्षणस्थितीति पर्यायमात्रंनित्यद्र- व्यमात्रे क्रमयौगपद्याभ्यामर्थक्रियाविरोधात्सर्वानुपपत्तेर् इत्य् अनु- मानं पर्यायमात्रवस्तुसाधनम् इति चेत्, न, विरुद्धसाधनाद् अस्य २०विरुद्धत्वात् । तथा हि — यत् सत् तत् सर्वंद्रव्यपर्यायरूपं जात्यंतरं पर्यायमात्रे सर्वथाऽर्थक्रियाविरोधात्द्रव्यमात्रवत् सत्त्वायोगाद् इति निरूपितप्रायं । ततः सूक्तं नपर्यायैकांत- ११९व्यवस्था प्रमाणाभावात् द्रव्यैकांतविद् इति । पृथग्भूतपरस्पर- निरपेक्षद्रव्यपर्यायव्यवस्थाऽप्य् अनेन प्रत्युक्ता तत्राऽपिप्रमाणा- भावाविशेषात् । न हि प्रत्यक्षतः सर्वथा पृथग्भूतयोर्द्रव्यप- र्याययोः प्रतीतिर् अस्ति तयोर् अविष्वग्भूतयोर् एव सर्वदासंवेदनात् । ०५समवायात् तथा प्रतीतिर् इति चेत्, सो ऽपि समवायस् ताभ्यां पदार्थान्तरभूतो न प्रत्यक्षतः सिद्धस् तदात्मकस्यैवकथंचित् तस्य प्रतीतेः । अथ समवायसमवायिनोः परस्परम् आत्मनोश् चताभ्या- म् अभेदप्रत्ययहेतुर् इत्य् अभिधीयते, न तर्हि प्रत्यक्षतोभेदप्रति- भासो नाऽप्य् अनुमानात् द्रव्यपर्याययोर् भेदैकान्तः सिद्धस्तथावि- १०धहेत्वभावात् । ननु द्रव्यपर्यायौ मिथो भिन्नौभिन्नप्रतिभास- त्वात् । यौ यौ भिन्नप्रतिभासौ तौ तौ भिन्नौ यथाघटपटौ तथा च द्रव्यपर्यायौ भिन्नप्रतिभासौ तस्माद् भिन्नाव् इत्यनुमानात् मिथो भिन्नद्रव्यपर्यायव्यवस्था भवत्य् एवेति चेत्, न, हेतोरसिद्धत्वा- त्, भिन्नप्रतिभासत्वं हि द्रव्यपर्याययोर् न प्रत्यक्षतःसर्वथाऽस्ती- १५ति समर्थितं प्राक् । अनुमानाद् भिन्नप्रतिभासत्वम् इति चेत्किम् अ- स्माद् एवानुमानाद् अनुमानान्तराद् वा । न तावदाद्यः पक्षःपरस्परा- श्रयानुषंगात् । सिद्धे ह्य् अतो ऽनुमानाद् भिन्नप्रतिभासित्वेसतीदम् अनु- मानं सिध्यति, सिद्धे वाऽस्मिन्न् अनुमाने भिन्नप्रतिभासत्वमिति गत्यन्तराभावात् । अनुमानान्तराद् भिन्नप्रतिभासत्वसिद्धौतद् एव २०वाच्यं द्रव्यपर्यायौ भिन्नप्रतिभासौविरुद्धधर्माधिकरणात्वात् यौ यौ विरुद्धधर्माधिकरणौ तौ तौ सर्वथाभिन्नप्रतिभासौ यथा जलानलौ तथा च द्रव्यपर्यायौ तस्माद् भिन्नप्रतिभासावित्य् अनुमा- १२०नस्य प्रत्यक्षविरुद्धपक्षत्वात्कालात्ययापदिष्टत्वाच् च हेतोर् नातः साध्यसिद्धिः । एतेनावयवावयविनोर् गुणगुणिनोः क्रियाक्रि- यावतोः सामान्यतद्वतोः विशेषतद्वतोश् च परस्परतःसर्वथा भेदे साध्ये प्रयुज्यमानस्य हेतोः कालात्ययापदिष्टत्वंप्रतिवर्णितं ०५पक्षस्य प्रत्यक्षबाधितत्वात् । कथंचित् तादात्म्यवर्त्तिनोरेवावि- ष्वग्भूतयोस् तयोः प्रत्यक्षबुद्धौ प्रतिभासनात् । कथंचिद्भेदे साध्ये सिद्धसाध्यतापत्तिस् तत्र प्रत्यक्षस्य भ्रांतत्वादबाधकत्वे व्[? :ब्]अहिरं- तश् च न किंचित् प्रत्यक्षतः सिध्येत् भ्रांताद् अपिप्रत्यक्षात् कस्यचित् सिद्धौ प्रत्यक्षतदाभासव्यवस्था किम् अर्थमास्थीयेत ? १०न च भ्रांतं प्रत्यक्षंधर्मिदृष्टान्तहेतुव्यवस्थापनायालं, यतो ऽ- नुमानम् अत्यंतभेदम् अवयवावयव्यादीनांव्यवस्थापयदभेदप्रतिभा- सिनः प्रत्यक्षस्य बाधकम् अनुमन्येमहि ततो ऽनुमानंकस्यचिद् बा- धकं साधकं वा स्वयम् अनुरुच्यमानेन प्रत्यक्षमभ्रान्तं धर्मिदृष्टां- तहेतुविषयम् उररीकर्त्तव्यं तच् चोररीकुर्वता नद्रव्यपर्यायौ पर- १५स्परम् अत्यंतभिन्नौ प्रतिज्ञातव्यौ प्रत्यक्षबुद्धौ सकृदपि तथा प्रतिभासाभावात् ततो न द्रव्यपर्यायपृथग्व्यवस्थायुक्तिमती द्रव्यव्यवस्थावत् पर्यायव्यवस्थावच् चेति प्रपंचतोऽन्यत्र परीक्षितं प्रतिपत्तव्यम् । अत्रापरः प्राह, द्वयात्मकम् एकं तत्त्वंव्यवतिष्ठते द्रव्यमात्रस्य २०पर्यायमात्रस्य च पृथग्भूतद्रव्यपर्यायमात्रवत्व्यवस्थानुपपत्तेर् इति । सो ऽप्य् एवं प्रष्टव्यः, किं सर्वथा द्वैयात्मकमेकस्यार्प्यते कथंचिद् वा ? प्रथमपक्षे द्वैयात्म्यम् एकार्पणया विरुद्धं नव्यवतिष्ठत एव, यो ह्य् आत्म[? :-]१२१द्रव्यप्रतीतहेतुर् यश् च पर्यायप्रतीतिनिमित्तं तौचेत् परस्परं भिन्नाव् आ- त्मानौ कथं तदात्मकम् एकं तत्त्वं सर्वथाव्यवतिष्ठते भिन्नाभ्यामात्म- भ्याम् अभिन्नस्यैकत्वविरोधात् । यदा त्व् एकस्माद् अभिन्नौतावात्मानौ स्यातां तदाप्य् एकम् एवावतिष्ठते सर्वथैकस्माद् अभिन्नयोस्तयोर् एकत्व- ०५सिद्धेर् इति न द्वैयात्म्यं विरुद्धत्वात् । को ह्य् अबालिशःप्रमाणम् अंगी- कुर्वन् द्वावात्मानौ सर्वथैकस्य वस्तुनो भिन्नो स्वयमर्पयेत्, ततो द्वैया- त्म्यं द्व्यात्मकत्वं तत्त्वं सर्वथैकार्पणया विरुद्धमेवेति मन्तव्यम् । कथम् इदानीम् अविरुद्धं तत्त्वं सिध्येद् इति चेत्, उच्यते — "धर्मी च धर्मश् च मिथस् त्रिधेमौ न सर्वथा तेऽभिमतौ विरुद्धौ" । १०ते तवः भगवतो ऽर्हतः स्याद्वादिन इमौ प्रत्यक्षतःप्रतिभासमानौ सर्वथा सर्वेणाऽपि प्रकारेणानुमानादिप्रतिभासविशेषेण वि- रुद्धौ नेति संबंधः । कौ ताव् इमौ धर्मी च धर्मश्चेति धर्मिधर्माव् इ- त्य् अर्थः । किं तौ सर्वथा मिथो भिन्नाव् एवाभिन्नाव् एवभिन्नाभि- न्नाव् एव त्रिधा वा कल्प्येते । न तावत् प्रथमः पक्षःप्रमाणविरोधात् । १५नाऽपि द्वितीयः सहानवस्थाविरोधात् । नाऽपि तृतीयो विकल्पः, भिन्नौ चाभिन्नौ चेत्य् उभयदोषानुषंगेण विरुद्धत्वाद् इतिकथम् अवि- रुद्धौ तौ यतस् ते ऽभिमताव् इति न मन्तव्यम्, त्रिधापितयोर् अभिमत- त्वात् । तथा हि — धर्मिधर्मौ स्याद् अभिन्नौद्रव्यार्थिकप्राधान्यात्, स्याद् भिन्नौ पर्यायार्थिकप्राधान्यात्, स्यान् मिथो भिन्नौचाभिन्नौ २०च क्रमार्पितद्वयाद् इति त्रिभिः प्रकारैःस्याद्वादन्यायवादिभि- र् व्यवस्थाप्यते । न पुनः सर्वथाऽर्पितौ त्रिधापिधर्मधर्मिणौ प्रत्य- १२२क्षादिप्रमाणविरुद्धौ ते ऽभिमतौ, ततो वाक्यंन धर्ममात्रं न ध- र्मिमात्रं वा प्रतिपादयतीति न सर्वथाप्य् अभिन्नौधर्मधर्मिणौ न सर्वथा भिन्नौ नाऽपि सर्वथा भिन्नाभिन्नौप्रतीतिविरोधात् । द्रव्यैकान्तस्य पर्यायैकान्तस्य चपरस्परनिरपेक्षपृथग्भूतद्र- ०५व्यपर्यायैकान्तवत् व्यवस्थानुपपत्तेः समर्थनात्, तत्रयुक्त्यनुशा- सनायोगात् । किं पुनर् युक्त्यनुशासनम् इत्य् आहुः — दृष्टागमाभ्याम् अविरुद्धम् अर्थ- प्ररूपणं युक्त्यनुशासनं ते । प्रतिक्षणं स्थित्युदयव्ययात्म- १०तत्त्वव्यवस्थं सद् इहार्थरूपम् ॥ ४९ ॥ दर्शनं दृष्टं प्रत्यक्षं, आप्तवचनम् आगमः । दृष्टं चागमश् च दृष्टागमौ ताभ्याम् अविरुद्धम् अबाधितविषयं यद् अर्थात्साधनरूपाद् अ- र्थस्य साध्यस्य प्ररूपणं तद् एव युक्त्यनुशासनंयुक्तिवचनं ते तव भगवतो ऽभिमताम् इति पदघटना । तत्रार्थस्यप्ररूपणं युक्त्यनुशा- १५सनम् इति वचने प्रत्यक्षम् अपि युक्त्यनुशासनं प्रसज्येततद्व्य- वच्छेदार्थम् अर्थात् प्ररूपणम् इति व्याख्यायते सामर्थ्यादर्थस्य त- द् इति प्रतीतेः । तथाऽपि शीतो ऽग्निर् द्रव्यत्वाज् जलवद् इति, प्रे- त्यासुखप्रदो धर्मः कर्मत्वाद् अधर्मवद् इति चप्रत्यक्षविरुद्धम् आगमवि- रुद्धं चार्थप्ररूपणं युक्त्यनुशासनं प्राप्तम् इति नशंकनीयम् । दृष्टा- २०गमाभ्याम् अविरुद्धम् इत्य् आभिधानात् । तथाचान्यथाऽनुपपन्नत्व- नियमनिश्चयलक्षणात् साधनात् साध्यार्थप्ररूपणंयुक्त्यनुशासन- १२३म् इति प्रकाशितं भवति दृष्टागमाभ्यामविरोधस्यान्यथानुपपत्ते- र् इति देवागमादौ निर्णीतप्रायम् । अत्रोदाहरणामुच्यते — प्रति- क्षणं स्थित्युदयव्ययात्मार्थरूपं सत्त्वाद् इति । न तावत्प्रत्यक्ष- विरुद्धः पक्षः, स्थित्युदयव्ययात्मनो ऽर्थरूपस्यव्[? :ब्]अहिर्घटादेर् इवांत- ०५रात्मनो ऽपि साक्षादनुभवात्, स्थितिमात्रस्यसर्वत्रासाक्षात्कर- णाद् उदयव्ययमात्रवत् । न चायं स्थित्युदयव्ययात्मनोऽर्थरूप- स्यानुभवः सुनिश्चितासंभवद् बाधकप्रमाणात् प्रतिक्षणमनुपपन्नः कालान्तरे स्थित्युदयव्ययदर्शनात् तत्प्रतीतिसिद्धेर् अन्यथासकृद् अपि तदयोगात् खरविषाणादिवद् इति न प्रत्यक्षविरोधः । नाऽप्याग- १०मविरोधो ऽस्य युक्त्यनुशासनस्य संभाव्यते । "उत्पादव्ययध्रौव्य- युक्तं सद् इति" परमागमस्य प्रसिद्घत्वात्सर्वथैकान्तागमस्या- प्रसिद्धेर् दृष्टेष्टविरुद्धार्थाभिधायित्वात्प्रतारकपुरुषवचनवद् इति नि- रवद्यः पक्षः प्रतिक्षणं स्थित्युदयव्ययात्मकस्यविवादाध्या- सितस्य साध्यधर्मस्य जीवादेर् अर्थरूपस्य चसाध्यधर्मिणः प्र- १५सिद्धस्याभिधानात् । तथा हेतुश् च सत्त्वाद् इति नासिद्धःसर्व- त्रार्थरूपे तदभावे सर्वाभावप्रसंगात् । नाऽपि संदिग्धःसर्वत्र सत्त्वस्य संदेहे संदेहस्याऽपि सत्त्वनिश्चयविरुद्धत्वात् । नाप्य् अ- ज्ञातासिद्धो हेतुः सर्वस्य वादिनः सत्त्वपरिज्ञानाभावेवादित्व- विरोधात् । नाप्य् अनैकान्तिकः कार्त्स्न्यतो देशतो वा विपक्षावृ- २०त्तित्वात् । द्रव्येण स्थितिमता जन्मव्ययरहितेन सतापर्यायमा- त्रेण चोत्पादव्ययवता स्थितिशून्येन हेतोर् अनेकान्त इति चेत्, न सत्त्वस्य वस्तुत्वस्वरूपस्य हेतुत्वात् सत्त्वधर्मस्यनयविषयस्य १२४हेतुत्वानभ्युपगमात् । न च द्रव्यमात्रं वस्तुपर्यायमात्रं वा तस्य वस्त्वेकदेशत्वात् द्रव्यपर्यायात्मनो जात्यंतरस्य वस्तुनःप्रमाण- सिद्धत्वात् । न च द्रव्यस्य पर्यायस्य वावस्तुत्वाभावादवस्तु- त्वप्रसंगस् तस्य वस्त्वेकदेशत्वेन वस्तुत्वावस्तुत्वाभ्यामव्यवस्था- ०५नात् समुद्रैकदेशस्य समुद्रत्वासमुद्रत्वाभ्यामव्यवस्थानवत् । न च वस्तुत्वस्य सत्त्वस्य हेतुत्वे तदेकदेशेनद्रव्यसत्त्वेन पर्या- यसत्त्वेन वा व्यभिचारोद्भावना युक्ता सर्वस्य हेतोर्व्यभिचारप्र- संगात् सकलजनप्रसिद्धस्य वह्न्यादिसिद्धौधूमादिसाधन- स्यापि तदेकदेशेन पांडुत्वादिना व्यभिचारम् उद्भावयन्कथ- १०म् अनेनापाक्रियेत ? धूमस्य हेतुत्वे तदेकदेशेनपांडुत्वादिना न व्यभिचारस् तन्मात्रस्याहेतुत्वाद् इति चेत् तर्हि सत्त्वस्यवस्तु- त्वरूपस्य हेतुत्वेन तदेकदेशेन द्रव्यसत्त्वेनपर्यायसत्त्वेन वा कथम् अनैकांतिकत्वम् उद्भावयेत् न चेद् अस्वस्थः । ननु चसत्त्वं वस्तुत्वविरुद्धं विपर्ययस्यैव साधनाद् इति न मन्तव्यम् । १५स्थितिमात्र इवोदयव्ययमात्रे ऽपि तदसंभवात् । तथाहि — सत्त्व- म् इदम् अर्थक्रियया व्याप्तं तदभावे तद्विरोधात्खपुष्पवत्, सा च क्रमयौगपद्याभ्यां व्याप्ता तदभावे तदभावात् तद्वत् । तेच क्रमयौगपद्ये प्रतिक्षणं स्थित्युदयव्ययात्मकत्वेनव्याप्ते तद्स्थि- त्येकान्ताद् उदयव्ययैकान्ताद् इव निवर्त्तमानं ततःक्रमयौगपद्ये २०निवर्त्तयेत्, ते च निवर्त्तमाने स्वव्याप्याम् अर्थक्रियांनिवर्त्तयतः, सा च निवर्त्तमाना स्वव्याप्यं सत्त्वं निवर्त्तयतीति, ततो निवर्त्तमानं सत्त्वं तीरादर्शिशकुनिन्यायेन प्रतिक्षणंस्थित्यु- १२५दयव्ययात्मन्येवार्थरूपे ब्[? :]यतिष्ठत इति कथंविपर्ययं साध- येद् यतो विरुद्धम् अभिधीयेत । सपक्षे सत्त्वाभावादसाधारणानै- कान्तिको हेतुर् इति चेत्, को ऽयम् असाधारणो नाम ? सपक्षवि- पक्षयोर् असन्न् असाधारण इति चेत् स किं तत्रनिश्चितासद्भावः ०५संदिग्धासद्भावो वा ? प्रथमपक्षे नानैकांतिकः स्यात्, सर्वथा विपक्षे निश्चितासत्त्वस्य सम्यग्धेतुत्वात्, सम्यघेतोर्विपक्षासत्त्व- नियमनिश्चयलक्षणत्वात् तदभावे सपक्षे सतो ऽपिगमकत्वायो- गात् । सपक्षसत्त्वनियमस्य हेतुलक्षणत्वाव्यवस्थितेस्तदभावे- ऽपि हेतोर् गमकत्वसिद्धेः । यदि पुनर्द्वितीयः पक्षःसपक्षविप- १०क्षयोः संदिग्धासद्भावो ऽनैकांतिक इति चेत् तदा न सत्त्वादिति हेतुर् असाधारणानैकांतिकः प्रमाणबलाद् विपक्षेतस्यासद्भावनि- श्चयात् संशयासंभवाद् अनैकांतिकत्वविरोधात् । संशयहेतुर् अ- नैकांतिक इति सामान्यतो ऽनैकान्तिकलक्षणप्रसिद्धेः । ततो ऽसिद्धविरुद्धानैकांतिकत्वविमुक्तत्वात् सूक्तम् इदंयुक्त्यनुशा- १५सनोदाहरणं प्रतिक्षणं स्थित्युदयव्ययात्मकमर्थरूपंसत्त्वाद् इ- ति । ननु च येन रूपेण स्थितिर् वस्तुनस् तेन स्थितिर् एवयेनोद- यस् तेनोदय एव येन व्ययस् तेन व्यय एवेति व्यवस्थायांनाने- कान्तात्मकवस्तुसिद्धिः स्थित्याद्येकान्तस्यैव प्रसिद्धेः, इतिन मन्तव्यं, तत्त्वव्यवस्थम् इति वचनात्, तत्रस्थित्युदयव्ययात्मार्थ- २०रूपं प्रतिक्षणम् अव्यवस्थं न विद्यते व्यवस्थाऽस्येतिव्याख्यानात् । येन हि रूपेण वस्तु तिष्ठति तेनोत्पद्यते नश्यति च, स्थितं स्थास्यति च उत्पन्नम् उत्पत्स्यते च नष्टं नंक्ष्यति च । येन १२६चोत्पद्यते तेन तिष्ठति नश्यति च उत्पन्नं स्थितंनष्टं च उत्प- त्स्यमानं स्थास्यन्नंक्ष्यंश् च । येन च नश्यतितेनोत्पद्यते तिष्ठति च तथा नष्टम् उत्पन्नं स्थितं च नंक्ष्यत्य् उत्पत्स्यतेस्थास्यति चेति न क्वचिद् व्यवस्था येनैकान्तप्रसंगः; कथंचिदव्यवस्थितस्यैव ०५तत्त्वस्यार्थक्रियाकारित्वप्रसिद्धेः । पटम् उदाहरणीकृत्यसर्वम् एत- द् वक्तव्यं, तथा हि — पटः प्रारंभक्षणापेक्षयोत्पद्यतेतिष्ठति विनश्यति चानारंभसमयापेक्षया द्वितीयक्षणापेक्षया तूत्पत्स्यतेस्थास्यति नंक्ष्यति च निर्वृत्तस्वरूपापेक्षयोत्पन्नः स्थितो नष्टश् चपूर्वावि- निर्वृत्तरूपेणेति, प्रातीतिकम् एतत् । १०ननु चैकम् एव वस्तु नानास्वभावम् एवम् आयातं तच् चविरुद्धं कुतो ऽवतिष्ठत इत्य् आहुः — नानात्मताम् अप्रजहत् तद् एक- म् एकात्मताम् अप्रजहच् च नाना । अंगांगिभावात् तव वस्तु तद् यत् १५क्रमेण वाग् वाच्यम् अनंतरूपम् ॥ ५० ॥ यद् एकं वस्तु सत्त्वैकत्वप्रत्यभिज्ञानात् सिद्धं तन् नानात्मताम् अपरित्यजद् एव वस्तुत्वं लभते, समीचीननानाप्र- त्ययविषयत्वात् यत् तु नानात्मतां जहाति न तद् वस्तु यथापर- परिकल्पितात्माद्यद्वैतं, वस्तु च विवादापन्नं जीवादितस्मान् ना- २०नात्मताम् अप्रजहद् एव प्रतिपत्तव्यं । तथा यदबाधितनानाप्रत्ययब- लान् नाना प्रसिद्धं तद् एकात्मताम् अजहद् एव तव वस्तुसम्मतं तस्या- १२७न्यथा वस्तुत्वविरोधात्पराभ्युपगतनिरन्वयनानाक्षणवत् । ततो जीवादिपदार्थजातं परस्पराजहद्वृत्त्येकानेकस्वभावंवस्तु- त्वान्यथानुपपत्तेर् इति युक्त्यनुशासनं । तत् कथं वाचावक्तुं शक्यत इति न शंकनीयं क्रमेण तस्य वाग्वाचित्वात् । न हि ०५युगपद् एकात्मतया नानात्मतया च वस्तूच्यते वाचा तादृश्या वाचो ऽसंभवात् । न चैवं क्रमेण प्रवर्त्तमानाया वाचोऽसत्यत्व- प्रसंगस् तस्याः स्वविषये नानात्वे चैकत्वे चांगांगिभावात्प्रवृ- त्तेः । स्याद् एकम् एवेति वाचा हि प्रधानभावेनैकत्वं वाच्यंगुण- भावेन नानात्वं स्यान् नानैव वस्त्व् इति वाचा प्रधान्येननानात्वं १०वाच्यं गुणभावेनैकत्वम् इति कथम् एवमेकत्वनानात्ववाचोर- सत्यता स्यात् ? सर्वथैकत्ववाचा नानात्वनिराकरणात् नाना- त्वनिराकरणे हि तथैकत्वस्यापि तदविनाभाविनोनिराकरण- प्रसंगाद् असत्यत्वपरिप्राप्तेर् अभीष्टत्वात्तथाऽनुपलभ्यमानत्वात् । नानात्ववाचा चैकत्वस्य निराकरणात् तन्निराकरणे तदविना- १५भाविनानात्वनिराकृतिप्रसंगात् सत्यत्वविरोधात् । ततःक्रमे- णानंतरूपं यद् वस्तु तत् तवांगांगिभावाद् एव वाग्वाच्यंबोद्धव्यम् । अंगं ह्य् अप्रधानमंगि प्रधानं तद्भावोगुणप्रधानभावस् तम् आ- श्रित्य नानात्वैकत्ववचने यथार्थाभिधायित्वम् एव वाच्यंव्यव- तिष्ठते । २०ननु च भवतु नामानंतधर्मविशिष्टं वस्तु ते तुधर्माः पर- स्परनिरपेक्षा एव, पृथग्भूतश् च तेभ्यो धर्मीति मतमपाचिकी- र्षवः प्राहुः — १२८मिथो ऽनपेक्षाः पुरुषार्थहेतु- र् नांशा न चांशी पृथग् अस्ति तेभ्यः । परस्परेक्षाः पुरुषार्थहेतु- र् दृष्टा नयास् तद्वद् असि क्रियायाम् ॥ ५१ ॥ ०५अंशा धर्मा वस्तुनो ऽवयवास्ते च परस्परनिरपे- क्षाः पुरुषार्थस्य हेतवो न संभवन्तितथाऽनुपलभ्यमानत्वात् । यद् यथाऽनुपलभ्यमानं तत् तथा न व्यवतिष्ठतेयथाऽग्निः शीतत- याऽनुपलभ्यमानस् तद्रूपतयाऽनुपलभ्यमानाश् चपुरुषार्थहेतुतया परस्परनिरपेक्षाः सत्त्वादयो धर्माः क्वचिद् अवयवा वातस्मान् न १०पुरुषार्थहेतुतया व्यवतिष्ठन्त इति युक्त्यनुशासनंदृष्टागमाभ्या- म् अविरुद्धत्वात्, तथांशाः परस्परापेक्षाःपुरुषार्थहेतुतया व्यव- तिष्ठंते तथैव दृष्टत्वात् । यद् यथा दृष्टं तत् तथैवव्यवतिष्ठते, यथा दहनो दहनतया दृष्टः, तत्स्वभावतया दृष्टाश् चपुरुषार्थहेतु- तयांऽशाः परस्परापेक्षाः तस्मात् तथैव व्यवतिष्ठंत इतिस्वभावो- १५पलब्धिः स्वभावविरुद्धोपलब्धिर् वास्वपरपक्षविधानप्रतिषेधयो- र् बोद्धव्या । तथा नांशेभ्यो ऽṃशी पृथग् अस्तितथाऽनुपलभ्यमान- त्वात्, यद् यथाऽनुपलभ्यमानं तत् तथा नास्त्य् एव यथातेजः शीत- तया, सर्वदाऽनुपलभ्यमानश् चांशेभ्यः पृथगंशी तस्मान्ना- स्तीति स्वभावानुपलब्धिः । न चात्र दृष्टिविरोधःपरस्परविभि- २०न्नानाम् अर्थानां सह्यविंध्यादीनाम् अंशांशिभावस्यादृष्टत्वात् । न चागमविरोधस् तत्प्रतिपादकागमाभावात्, परस्परविभिन्नांशां- १२९शिभावप्रतिपादकागमस्य युक्ति विरुद्धत्वादागमाभासत्वसिद्धेः । स्यान् मतम् अंशेभ्यो ऽṃशी पृथगेवपृथक्प्रत्ययविषयत्वात् । यो यतः पृथक्प्रत्ययविषयः स [[? ]ततः पृथगेवयथास्तम्भेभ्यः कु- ड्यं, पृथक्प्रत्ययविषयश् चांशेभ्यो ऽṃशी, तस्मात् पृथगेवेति । तद् अप्य् अ- ०५सम्यक्, सर्वथा पृथक्प्रत्ययविषयत्वस्य हेतोरसिद्धत्वात् कथंचि- द् अपृथक्प्रत्ययविषयत्वात् । समवायाद् अपृथकप्रत्यय इतिचेत्, न, सर्वथा भिन्नयोः समवायासंभवात् सह्यविंध्यवत् । संभव- न्न् अपि समवायः पदार्थान्तरभूतः कथम् इहांशेष्व् अंशीतिप्रत्यय- हेतुर् उपपद्यते ! सह्ये बिंध्य इतिप्रत्ययहेतुत्वप्रसंगात् । प्रत्या- १०सत्तिविशेषादिहांशेष्व् अंशीति प्रत्ययम् उपजनयति समवायोन पुनर् इह सह्ये विंध्य इति प्रत्ययम् उत्पादयतिप्रत्यासत्तिविशे- षाभावाद् इति चेत्, कः पुनः प्रत्यायसत्तिविशेषःसमवायसमवा- यिनोः संभाव्येत ? विशेषणविशेष्यभाव इति चेत्, तर्हि समवायिनोः समवायो विशेषणं किम् अर्थान्तरभूतमनर्थान्तभूतं १५वा ? यद्य् अर्थान्तरभूतं विशेषणं तदांशांशिनोर् इवसह्यविंध्ययो- र् अपि समवायो विशेषणं स्याद् अर्थान्तरभूतत्वाविशेषात् । यदि पुनर् अनर्थान्तरभूतं विशेषणं समवायः समवायिनोरग्नेर् औष्णयवद् उ- पवर्ण्यते तदा [? ] कथंचित्तादात्म्यम् एव समवाय इतिनांशेभ्यो- ऽṃशी सर्वथा पृथग् अवतिष्ठतेतत्समवायस्याविष्वग्भावलक्षणस्य २०कथंचित्तादात्म्यस्यैव प्रसिद्धेस् ततः परस्परापेक्षाएवांशांशिनः पुरुषार्थहेतुर् इति निश्चितप्रायं । तद्वद् एव नयानैगमादयः पर- स्परापेक्षा एवासिक्रियायां दृष्टा इति घटनीयं । तथा हि- १३०नैगमादयो नयाः परस्परापेक्षाः पुरुषार्थहेतवस्तथादृष्टत्वा- द् अंशांशिवत् । तद् अनेन स्थितिग्राहिणो द्रव्यार्थिकभेदानैगम- संग्रहव्यवहाराः, प्रतिक्षणम् उत्पादव्ययग्राहिणाश् चपर्यायार्थिक- भेदा ऋजुसूत्रशब्दसमभिरूढैवं भूताः परस्परापेक्षाएव वस्तु- ०५साध्यार्थक्रियालक्षणपुरुषार्थनिर्णयहेतवो नान्यथेतिदृष्टाग- माभ्याम् अविरुद्धम् अर्थप्ररूपणं यत् सत् तत् सर्वंप्रतिक्षणं स्थित्युदय- व्ययात्मकम् अन्यथा सत्त्वानुपपत्तेर् इति युक्त्यनुशासनमुदाहृतं प्रतिपत्तव्यम् । ननु च परस्परनिरपेक्षाः नयाः क्वचिद् अपि पुरुषार्थमसा- १०धयन्तो ऽपि सत्तामात्रेण व्यवस्थितिं प्रतिपद्यंत एवसांख्या- भिमतपुरुषवद् इति न मन्तव्यम् । तेषाम् असिक्रियायाम् अपिहेतु- त्वानुपपत्तेस् तद्वत्, यथैव हि परस्परनिरपेक्षा नयाःपुरुषार्थ- क्रियायां धर्मार्थकाममोक्षलक्षणायां हेतवो न संभवंतितथा- सिक्रियायाम् अपि सत्तालक्षणायां खरविषाणादिवत्, ततः १५परस्परापेक्षा एव प्रतिक्षणं स्थित्युत्पत्तिव्ययाः सत्त्वंवस्तुल- क्षणं प्रतिपद्यंत इत्य् अनेकांतसिद्धिः । स्याद् आकूतं, जीवादिव- स्तुनो ऽनेकांतात्मकत्वेन निश्चये स्वात्मनीव परात्मन्यपिरागः स्यात् कथंचित् स्वात्मपरात्मनोर् अभेदात् तथा परात्मनीवस्वात्मन्य् अपि द्वेषः स्यात् तयोः कथंचिद्भेदात्, रागद्वेषनिबंधनाश्चेर्ष्यासू- २०यामदमानादयो दोषाः संसारहेतवः सकलविक्षेपकारिणः स्वर्गापवर्गप्रतिबंधकारिणः प्रवर्त्तन्ते, ते चप्रवर्तमानाः समत्वं मनसो निवर्त्त्ययन्ति, तद्विनिवर्तनं समाधिंनिरुणद्धीति १३१समाधिहेतुकं निर्वाणं कस्यचिन् न स्यात् ततोमोक्षकारणं मनः- समत्वं समाधिलक्षणम् इच्छता नानेकांतात्मकत्वंजीवादिवस्तु- नो ऽभ्युपगन्तव्यम् इति । तद् अपि न समीचीनम् इत्य् आहुः — एकान्तधर्माभिनिवेशमूला ०५रागादयो ऽहंकृतिजा जनानाम् । एकान्तहानाच् च स यत् तद् एव स्वाभाविकत्वाच् च समं मनस्ते ॥ ५२ ॥ एकान्तो नियमो ऽवधारणं, धर्मो नित्यत्वादिस्व भावः, एकान्तेन निश्चितो धर्म एकान्तधर्म इतिमध्यमपद- १०लोपी समासः । ऽतृतीयान्तात् क्त उत्तरपदेऽ इत्य् उपसंख्यानात् "गुडेन संस्कृता धाना गुडधानाः" इत्यादिवत् । एकान्तधर्मेऽ- भिनिवेश एकान्तधर्माभिनिवेशः, नित्यम् एव सर्वथा नकथं[? :-] चिद् अनित्यम् इत्यादि मिथ्यात्वश्रद्धानं मिथ्यादर्शनम् इतियावत् । एकांतधर्माभिनिवेशो मूलं कारणं येषां तेएकान्तधर्माभिनिवे- १५शमूलाः, रागादयो रागद्वेषमायामाना अनंतानुबन्धिनोऽप्रत्या- ख्यानावरणाः प्रत्याख्यानावरणाः संज्वलनाश् च कषायाः, तथा हास्यादयो नव नोकषायाश् चादिग्रहणेन गृह्यन्ते । ननु च रागो लोभस् तदादयो दोषाः कथं मिथ्यादर्शनमूलाः स्युर् असंयतसम्यग्दृष्ट्यादिषु सूक्ष्मसांपरायां तेषुमिथ्यादर्शना- २०भावे ऽपि भावात् इति न मन्तव्यम्, तेषाम् अनन्तसंसारकार- णानां मिथ्यादर्शनाभावे संभवाभावात् मिथ्यादृशां मिथ्या- १३२दर्शनसद्भाव एव भावात्मिथ्यादर्शनमूलत्वसिद्धेः । परेषां पुनर् असंयतसम्यग्दृष्ट्यादिषु लोभादीनामसंयमप्रमादकषायपरि- णाममूलत्वे ऽपि मिथ्यादृशि मिथ्यादर्शनसद्भाव एव भावा- न् मिथ्यादर्शनमूलत्वसिद्धिः । यद्य् एवम् उदासीनावस्थायामपि ०५मिथ्यादर्शनानाम् एकांतवादिनां रागादयो जायेरन्न् इति नशंक- नीयम् अहंकृतिजा इति वचनात् । अहंकृतिर् अहंकारो ऽहमस्य स्वामीति जीवपरिणामः सामर्थ्याद् इदं मम भोग्यम् इत्य् आत्म- परिणामो ममकारः प्रतिपादितो भवति, अहंकृतेर् जाता अहं- कृतिजा ममकाराहंकारजा इत्य् अर्थः । तेन मिथ्यादर्शनप- १०रिणाम एव यदा ममकारो ऽहंकारसचिवो भवति तदैवरागा- दीनुपजनयति न पुनर् उदासीनदशायाम् इत्य् एकान्ताभिनिवे- शमहामोहराजजनिता एव रागादयः । तथा चोक्तम् — ममकाराहंकारौ सचिवाव् इव मोहनीयराजस्य । १५रागादिसकलपरिकरपरिपोषणतत्परौ सततम् ॥ इति ॥ ननु च भवंतु नाम रागादयो ऽहंकारजन्मानो जानानांमोहवतां, वीतमोहानां तु सत्य् अप्य् अहंकारे रागाद्यभावात् कथं तेतज्जाः स्युर् इति न चोद्यं, मिथ्यादर्शनादिसहकारिण एवाहंकारस्यरागा- दिजनने सामर्थ्यात् तद्विकलस्यासामर्थ्यात् । न चावश्यंकारणा- २०नि कार्यं जनयंति मुर्मुरांगांगारावस्थाग्निवत् । ननुचैकान्ताभिनि- वेशो मिथ्यादर्शनम् इति कुतो निश्चीयत इति चेत्, अनेकां- तात्मकस्यैव वस्तुनः प्रमाणतो निश्चयात्, सन्नयाच् चसम्यग् ए- १३३कान्तस्य प्रतिपक्षापेक्षस्य व्यवस्थापनाच्चैकान्ताभिनिवेशस्य मिथ्यादर्शनत्वप्रसिद्धेर् इति निर्णीतप्रायं । ततःसम्यग्दृष्टेर् ए- कांतहाने तद्विरोधिनो ऽनेकांतस्य निश्चयात्तस्यैवैकांतहानाच् च स एकांतधर्माभिनिवेशो यत् तद् एव स्यात् यत् किंचित् स्यान् न ०५स्याद् इत्य् अर्थः । सति ह्य् एकांतधर्मे कस्यचित्तदभिनिवेशः संभा- व्यते तस्य तद्विषयत्वात्, तदभावे तु यद् वास्तवं रूपमात्मनो यथार्थदर्शनं तद् एव स्याद् एकांताभिनिवेशाभावस्यसम्यग्दर्श- नभावरूपत्वात्, तस्यैव स्वाभाविकत्वं सिद्ध्येद् आत्मनःस्वाभा- विकत्वाच् च समं मनस्ते तव भगवतो ऽर्हतोयुक्त्यनुशासने १०सद्दृष्टेर् भवतीति वाक्यार्थः । दर्शनमोहोदयमूले हिचारित्रमो- होदये जायमाना रागादयो जनानाम् अस्वाभाविका एव ते- षाम् औदयिकत्वात्, दृङ्मोहहानाच् च चारित्रमोहोदयहाने रागादीनाम् अभवात् सम्यग्दर्शनज्ञानचारित्रपरिणामानां स्वा- भाविकत्वं । तत्सम्यग्दर्शनस्यौपशमिकत्वंक्षायोपशमिकत्वं १५क्षायिकत्वं वा स्वाभाविकत्वम् आत्मरूपत्वात् । सम्यग्ज्ञानस्यच क्षायोपशमिकत्वं क्षायिकत्वं वा । सच्चारित्रस्य तुसद्दर्शनवदौ- पशमिकत्वादित्रयं स्वाभाविकत्वं न पुनः पारिणामिकत्वं तस्य कर्मोपशमादिनिरपेक्षत्वात् । कथमसंयतसम्यग्दृष्टेः समं मनः स्यादप्तंयमस्य[? ] रागद्वेषात्मनः सद्भावाद् इति चेत्, क्वचि- २०द् एकांते रागाभावात् परत्र द्वेषाभावाच् चविवक्षिताविवक्षितयोर् ए- कान्तयोर् उदासीनत्वसिद्धेर् अविवक्षितस्याप्य् अनिराकरणात्, तन्मा- त्रस्य मनःसमस्य सद्भावाद् इति ब्रूमः । नन्व् एवमसंयतसम्यग्दृ- १३४ष्टेर् अपि संयतत्वप्रसंगो मनसः समत्वस्यैवसंयमरूपत्वाद् इति चेत्, क एवम् आह सर्वथा संयमस्याभावोऽसंयतसम्यग्दृष्टेर् इति तस्यानंतानुबंधिकषायात्मनो ऽसंयमस्याभावात्संयतत्वसिद्धेः । कथम् अस्यासंयतत्वम् इति चेत्, मोहद्वादशकात्मनोऽसंयमस्य स- ०५द्भावात् तत एवानंतानुबंध्यप्रत्याख्यानकषायात्मनोऽसंयमस्या- भावात् प्रत्याख्यानसंज्वलनकषायात्मनो ऽसंयमस्यसद्भावात् सं- यतासंयतसम्यग्दृष्टिः समभिधीयते । नन्व् एवंप्रमत्तसंयतादि सूक्ष्मसाम्परायान्तः संयतासंयतः प्रसज्येतसंज्वलनकषाया- त्मनो नोकषायात्मनश् चासंयमस्य सद्भावाद् इति चेत्, न, १०संज्वलनकषायादेर् असंयमत्वेनाविवक्षितत्वादुदकराजिसमानत्वेन मोहद्वादशकाभावरूपसंयमाविरोधित्वात्परमसंयमानुकूलत्वाच् चेति कषायप्राभृताद् अवबोद्धव्यम् । यथा चासंयतसम्यग्दृष्टेःस्वानुरूप- मनःसाभ्यापेक्षया समं मनः सिद्धं तथासंयतासंयतस्य च नवविधस्येति न किंचिद् असंभाव्यं ततोऽनेकान्तयुक्त्यनुशा- १५सनं न रागादिनिमित्तं तस्य मनः समत्वनिमित्तत्वात् । नन्व् अनेकान्तवादिनो ऽप्य् अनेकान्ते रागात् सर्वथैकान्ते च द्वेषात् कथम् इव समं मनः स्यात् यतो मोक्ष उपपद्यते ? सर्वदा मनःसमत्वे वा न बंध इति स्वमताद्वाह्यौ बंधमोक्षौस्यातां मनसः समत्वे चासमत्वे च तदनुपपत्तेर् इति वदन्तंप्रत्याहुः — २०प्रमुच्यते च प्रतिपक्षदूषी जिन ! त्वदीयैः पटुसिंहनादैः । १३५एकस्य नानात्मतयाज्ञवृत्ते- स् तौ बंधमोक्षौ स्वमतादवाह्यौ ॥ ५३ ॥ प्रतिपक्षं प्रतिद्वंद्विनं दृषयति निराकरोत्य् एवंशीलः प्रतिपक्षदूषी प्रतिद्वान्द्विनिराकारी नित्यत्वैकान्तवादीक्षणिका- ०५द्येकान्तवादी च । स प्रमुच्यते च प्रमुच्यतएवानेकांतवादिना न पुनस् तत्र द्वेषः क्रियते सामर्थ्यात् प्रतिपक्षस्वीकारीवाऽनेकांतवादी स्वीकृत एव न पुनस् तत्र रागः क्रियत इति चशब्दस्यैवकारार्थ- त्वाद् व्याख्यायते । कैः पुनर् हेतुभूतैर् इत्य् उच्यते — जिन !त्वदीयैः पटुसिंहनादैः । किं रूपतयेत्य् अभिधीयते — एकस्यनानात्मतयेति १०स्याद् एकम् एव वस्तु स्यान् नानात्मेत्य् आदायः शब्दाः सिंहनादाः । सिंहनादा इव सिंहनादा इति समाधिः शब्दान्तरैर्न्यक्कर्तुमश- क्यत्वात् । यथैव हि सिंहनादा कुंजरादिनादैर् नतिरस्कर्तुं श- क्यन्ते तथा जिननाथस्य नादाः सम्यगनेकान्तप्रतिपादकाः क्षणिकाद्येकान्तप्रतिपादकैः सुगतादिशब्दैर् न कथंचिन्निराक्रि- १५यन्ते इत्य् उक्तं भवति । पटवश् चैते निःसंशयत्वात्सिंहनादा- श् चाबाध्यत्वात् पटुसिंहनादास् तैर् एव हेतुभूतैःप्रतिपक्षदूषी प्रमु- च्यते व्यवच्छिद्यते युक्तिशास्त्राविरोधिभिःपरमागमवाक्यैर् ना- नात्मकैकवस्तुनिश्चयस्यैव सर्वथैकान्तप्रमोचनस्यसिद्धेस् तत्र द्वेषासंभवाद् अनेकान्तरागासंभववत् । न हि तत्त्वनिश्चयएव २०रागः क्षीणमोहस्यापि रागप्रसंगात्, नाप्य् अतत्त्वव्यवच्छेदएव द्वेषः शक्यः प्रतिपादयितुं यतो ऽनेकांतवादिनः समं मनोन भवेत्, तन् निमित्तश् च मोक्षः कथं न स्यात् ? न चसर्वथा सम- १३६त्वमेव मनसः सर्वत्र सर्वदोत्पद्यते यतोरागद्वेषाभावाद् बंधाभावः प्रसज्येत ? कथंचित् क्वचित् किंचित् कदाचित् गुणस्थानापे- क्षया पुण्यबंधस्योपपत्तेस् ततस् तौ बंधमोक्षौ स्वमतादनंतात्मकत- त्त्वविषयादवाह्यौ तत्रैव भावात् तयोर् ज्ञवृत्तेः । जानातीति ज्ञ ०५आत्मा । ज्ञे वृत्तिर् ज्ञवृत्तिस् तत इति प्रधाने नैकात्ममन्यपि तौ तस्याज्ञत्वाद् इति निवेदितं भवति । स्यान् मतं, नैकस्य नानात्मनो ऽर्थस्य प्रतिपादकाःशब्दाः षटुसिंहनादाः प्रसिद्धाः सौगतानाम् अन्यापोहसामान्यस्यवागा- स्पदत्वाद् वाचां वस्तुविषयत्वासंभवाद् इति । तद् असद् एवयस्मात् — १०आत्मान्तराभावसमानता न वागास्पदं स्वाश्रयभेदहीना । भावस्य सामान्यविशेषवत्त्वा- द् ऐक्ये तयोर् अन्यतरन्निरात्म ॥ ५४ ॥ गोः स्वभावादन्यः स्वभावः स्वभावान्तरम् आत्मान्त- १५रमगवात्मा ? तस्याभावो व्यावृत्तिः स एव समानता सामा- न्यं, सा वाचाम् आस्पदं न भवत्य् एव, कीदृशी सा नवागास्पदं, स्वाश्रयभेदहीना स्वस्था आत्मान्तराभावसमानताया आश्रयाः स्वाश्रयाः । स्वाश्रयास् ते च भेदाश् च, तैर् हीनाअन्यापोहसामा- न्यविशेषवाक्शून्येति यावत् । कुतः सा न तादृशी वागास्पद- २०म् इति साध्यते ? भावस्य वस्तुनः सामान्यविशेषवत्त्वात् । ननु च समान्यविशेषवत्त्वे ऽपि भावस्य सामान्यस्यैववागास्पदत्वं १३७युक्तं विशेषस्य तदात्मकत्वात् सामान्यविशेषयोरैक्यसिद्धिर् इति वचने दूषणम् उच्यते — ऐक्ये तयोः सामान्यविशेषयोरन्यतरत्सा- मान्यरूपं विशेषरूपं वा निरात्म स्यात् । तत्र विशेषरूपस्य निरात्मत्वे तदविनाभाविनः सामान्यरूपस्यापिनिरात्मत्वापत्तेः ०५सर्वं निरात्मकत्वं प्रसज्येत, सामान्यरूपस्य चनिरात्मत्वे विशेषरूपस्यापि तदविनाभाविनो निरात्मत्वानुषंगान् न तयोरै- क्यम् अभ्युपगन्तव्यम् । ननु च सर्वगतं सामान्यं विशेषैर् अश्लिष्टम् एववागास्पदं, न पुनरात्मान्तरापोहसामान्यं तस्यावस्तुत्वाद् इति वदंतंप्रति १०वदन्ति — अमेयम् अश्लिष्टम् अमेयम् एव भेदे ऽपि, तद्वृत्त्यपवृत्तिभावात् । वृत्तिश् च कृत्स्नांशविकल्पतो न, मानं च नानन्तसमाश्रयस्य ॥ ५५ ॥ १५नियतदेशकालाकारतया न मीयत इत्य् अमेयं, सर्व व्यापि नित्यं निराकारं सत्त्वादिसामान्यं तदश्लिष्टं विशेषैर- मेयम् एवाप्रमेयम् एव प्रमाणतः प्रमातुम् अशक्तेः । प्रत्यक्षतस् तत्प्रमिति- र् अप्रसिद्धा तत्र तदप्रतिभासनात् ब्रह्मवत् । नाप्यनुमानतस् तत् प्र- मीयते तदविनाभाविलिंगाभावात् । सत् सदित्याद्यनुवृत्तिप्रत्य- २०यो लिंगम् इति चेत् न, असद् असद् इत्याद्यनुवृत्तिप्रत्ययेनव्यभिचा- रात्, तस्यासत्त्वसामान्याभावे ऽपि भावात्पदार्थत्वसामान्याभा- १३८वे ऽपि षट्सु पदार्थेषु पदार्थः पदार्थ इत्यनुवृत्तिप्रत्ययस्य सिद्धेः । स्यादाकूतं, प्रागसदादिष्व् असद् असद् इत्य् अनुवृत्तिप्रत्ययेनन व्यभि- चारस् तस्य मिथ्यात्वात् न हि सभ्यगनुवृत्तिप्रत्ययस्यमिथ्यात्वानु- वृत्तिप्रत्ययेन व्यभिचारो युक्तो ऽतिप्रसंगाद् इति । तद् अप्यसम्यक्, ०५तस्य मिथ्यात्वासिद्धेः । प्रागसदादिषु मिथ्यैवासद् इत्यनुवृत्ति- प्रत्ययो बाधकसद्भावाद् इति चेत्, किं तद्बाधकं ? प्रागभावादयो न सामान्यवंतो द्रव्यगुणकर्मभ्यो ऽन्यत्वात्सामान्यविशेषसमवा- यवद् इत्य् अनुमानं तद्बाधकं । तदविषयस्य सामान्यस्यतेन निराकर- णाद् इति चेत्, न, अस्यानुमानस्य साध्याविनाभावनियमनिश्च- १०यासत्त्वात् । यस् तु सामान्यवान् न स द्रव्यगुणकर्मभ्यो ऽन्योयथाऽ- यम् अर्थ इति व्यतिरेकाश्रयासिद्धिः । स्यान् मतिर् एषाद्रव्यादिपदार्थ- त्वेन सामान्यवत्त्वं व्याप्तं विनिश्चित्य प्रागभावादिषुद्रव्य- गुणकर्मपदार्थत्वस्य व्यापकत्वस्याभावात् तद्व्याप्यस्यसामा- न्यत्वस्याभावः साध्यते ततो नाविनाभावनियमो ऽसिद्ध इति, १५साऽपि न साध्वी द्रव्यादिपदार्थत्वेन सामान्यवत् त्व् अस्यव्याप्त्य- सिद्धेस् तेषाम् अपि सामान्यशून्यत्वात् । तथा हि — सामान्यशून्यानि द्रव्यगुणकर्माणि तत्त्वात्मकत्वात् प्रागभावादिवत् । नेहसाध- नशून्यो दृष्टान्तः प्रागभावादेर् असद्वर्गस्यतत्त्वरूपत्वाभ्यनु- ज्ञानात् सदसद्वर्गस् तत्त्वम् इति वचनात् तस्यातत्त्वरूपत्वेसर्वत्रा- २०सत्प्रत्ययस्य मिथ्यात्वापत्तेरनाद्यनंतसर्वात्मतत्त्वानुषंगात् । तथा चोक्तम् — "कार्यद्रव्यम् अनादि स्यात् प्रागभावस्य निह्नवे । १३९प्रध्वंसस्य च धर्मस्य प्रच्यवे ऽनंततांव्रजेत् ॥ सर्वात्मकं तदेकं स्याद् अन्यापोहव्यतिक्रमे । अन्यत्र समवायेन व्यपदिश्येत सर्वथा ॥ " इति । द्रव्यगुणकर्माणि सामान्यवंति मुख्यसद्वर्गत्वात्, ये ०५तु न सामान्यवंतस् ते न मुख्यसद्वर्गां यथासामान्यविशेषस- मवाया इति केवलव्यतिरेकिणानुमानेन प्रतिपक्षेण सत्प्र- तिपक्षत्वात् सामान्यवत्त्वाभावसाधनस्य तत्त्वात्मकत्वा- द् इत्य् एतस्य हेतोर् न गमकत्वम् इति चेत्, नाऽस्यप्रतिपक्षानुमा- नस्य प्रत्यक्षबाधितविषयतया कालात्ययापादिष्टत्वात् । नहि १०प्रत्यक्षबुद्धौ द्रव्यादिषु सामान्यम् एकं पदार्थान्तरंप्रतिभासते समानानि द्रव्याणीमानि गुणा वा कर्माणि वेति प्रतिभास- नात् सदृशपरिणामस्यैव प्रतीतेस् तद् अयम् अनुवृत्तिप्रत्ययस्तद् एवेदम् इ- त्य् आकारो ऽसिद्ध एवेति । न सामान्ये लिंगं यतः सामान्यमनु- मानतो मेयं स्यात् । तत एव नागमतो मेयंयुक्त्यननुगृहीत- १५स्यागमस्याप्रमाणत्वाद् अन्यथाऽतिप्रसंगात् । न चोपमानतोमेयं सामान्यसदृशस्य कस्यचिद् वस्तुनो ऽसंभवाद् इति न सामान्यं तद्वतो भिन्नम् अनियतदेशकालाकारं प्रमेयम् अवतिष्ठते । तथा भे- दे [? :’]प्य् अभ्युपगम्यमाने सामान्यस्य स्वाश्रयेभ्यो न तत्प्रमेयं तद्वृ- त्त्यपवृत्तिभावात् । तेषु द्रव्यादिषु वृत्तिस् तद्वृत्तिस् तस्याअपवृ- २०त्तिर् व्यावृत्तिस् तस्या भावः सद्भावस् तस्मात्तद्वृत्त्यपवृत्तिभा- वान् न सामान्यं प्रमेयं भेदे ऽपीत्य् अर्थः । सामान्यस्यस्वाश्रयेषु वृत्तिर् न तावत् संयोगः कुंडे वदरवत् संभवतितस्याद्रव्यत्वात् १४०संयोगानाश्रयत्वात्, संयोगस्य द्रव्यनिष्ठत्वात् । नाऽपि सम- वायो वृत्तिस्तस्यायुतसिद्धिविषयत्वात्, न च सामान्यतद्वतोर- युतसिद्धिः संभवति । सा हि शास्त्रीया वा स्याल् लौकिकी वा ? न तावत् शास्त्रीया तयोः पृथगाश्रयाश्रयित्वेन युतसिद्धेर् एवसंभवात्, ०५पृथगाश्रयाश्रयित्वं युतसिद्धिर् इति वचनात् । यथैव हिकुंडे परमाणुर् इत्य् अत्र परमाणोः पृथग्भूतेषु कुंडावयवेषुस्वाश्रयेषु कुंड- स्याश्रयित्वं पृथगाश्रयित्वं तथा सामान्यात्पृथग्भूतेषुस्वाश्रयेषु द्रव्यादेर् आश्रयित्वं पृथगाश्रयित्वं युतसिद्धिलक्षणंविद्यत एव । यदि पुनः कुंडस्य स्वाश्रयेषु स्वावयवेषु वदरस्य चस्वावय- १०वेष्व् आश्रयेष्व् आश्रयित्वम् इति कुंडवदरयोःपृथगाश्रयाश्रयित्वं पृथ- गाश्रययोर् आश्रयणी पृथगाश्रयणी तयोर् भावःपृथगाश्रयाश्रयित्वं चतुराश्रयम् एवाभिधीयते तदा कथम् इह कुंडे परमाणुरिति परमा- णुकुंडयोर् युतसिद्धिः स्यात् तल्लक्षणाभावात् । अथ मतमेतत्, न परमाणोः कुंडे वृत्तिस् तस्य निरवयवत्वाद् आकाशादिवत् । तद- १५प्य् असारं, भवदभ्युपगतस्य सामान्यस्य निरवयविनोगुणादेश् च क्वचिद् वृत्त्यभावप्रसंगान् निरंशत्वाविशेषात्, परमाणुकुंडयोर् युतसि- द्ध्यभावे चायुतसिद्धिप्रसंगात् संयोगविरोधात्समवायप्रसंगो दु- र्निवार इति तयोः संयोगम् इच्छता पृथगाश्रयाश्रयित्वंयुतसि- द्धिलक्षणं त्र्याश्रयम् अपि प्रतिपत्तव्यं । नित्यानां चपृथग्गति- २०मत्त्वम् इति लक्षणांतरस्यासंभवाद् आत्माकाशादीनामयुतसिद्धि- प्रसंगात् तद्वत्सामान्यतद्वतोर् अपि तत्सिद्धम् इति नशास्त्रीयाऽयुत- सिद्धिः । नाऽपि लौकिकी देशकालाभेदलक्षणा दुग्धांभसोर- १४१प्य् अयुतसिद्धिप्रसंगात् ततो न सामान्यस्यद्रव्यादिषु वृत्तिः संभ- वति । ऽवृत्तिश् च कुत्स्नांशविकल्पतो नऽवृत्तिरभ्युपगम्यमानापि सामान्यस्य तद्वस्तुनेति संबंधः, चशब्दस्यापिशब्दार्थत्वात् । तथा हि — कुत्स्नविकल्पे वृत्तिः स्याद् अंशविकल्पे वा ? न तावत् ०५कुत्स्नविकल्पे कृत्स्नस्य सामान्यस्य देशकालाकारभिन्नासु व्यक्तिषु सकृद्वृत्तिः साधयितुं शक्यासामान्यबहुत्वप्रसंगात् तस्यैकस्यानंशस्य तदयोगात्, सामान्यंयुगपद्भिन्नदेशकालव्य- क्तिसंबंधि सर्वगतनित्यामूर्तत्वाद् आकाशवद् इत्य् अनुमानमपि न सम्यक् । साधनस्येष्टविघातकारित्वात् । यथैव ह्य् अयंहेतुः सा- १०मान्यस्य युगपद्भिन्नदेशकालव्यक्तिसंबंधित्वं साधयतितथा सांशत्वम् अपि व्योमवद् एव, निरंशेसकृत्सर्वगतत्वविरोधाद् एकपर- माणुवत् । ननु निरंशम् एवाकाशम् अकार्यद्रव्यत्वात्परमाणुवत्, यत् तु सांशं तत्कार्यद्रव्यं दृष्टं यथा पटादिकम् अकार्यद्रव्यंचाकाशं तस्मान् निरंशम् एव तद्वत् सामान्यम् इति नेष्टविघातकारीहेतुः सर्व- १५गतत्वादि स्वेष्टसाध्यसाधनत्वाद् इति चेत्, किमनेनाकार्यद्र- व्यत्वेनारंभकाभावान् निरंशत्वं साध्यते, स्वात्मभूतप्रदेशाभावा- द् वा ? प्रथमविकल्पे सिद्धसाध्यता स्यादाकाशस्यारंभकावय- वानभ्युपगमात् निरवयवत्वसिद्धेः । द्वितीयविकल्पे तुसाध्य- शून्यो दृष्टांतः परमाणोर् अपि स्वात्मभूतेनैकेन प्रदेशेनसांशत्व- २०व्यवस्थितेः । स्याद्वादिनां मते साधनशून्यश् च दृष्टांतःपरमाणो र् अकार्यद्रव्यत्वासिद्धेः । स्यान् मतं ते ऽकार्यद्रव्यं परमाणुर् आरंभकरहितत्वादाकाशव- १४२द् इति । तद् अप्य् अतथ्यं हेतोर् असिद्धत्वात् । आरंभकरहितत्वं हि यद्य् उत्पादककारणरहित्वं हेतुस् तदा परमाणोर्द्व्यणुकविनाशा- द् उत्पत्तिः कथं सिध्येत् ? द्व्यणुकविनाशो न परमाणोरुत्पादकः संभवति द्व्यणुकोत्पादात् पूर्वम् अपि सद्भावात् । कालादिवदिति ०५चेत्, न, तस्य द्व्यणुकोत्पादे विनाशाद् अविनाशे तु द्व्यणुका- दिकाले ऽपि प्रतीतिप्रसंगात् । तथा च घटप्रतीतिकाले ऽपिघ- टारंभकपरमाणूपलब्धिः कथं वार्येत ? स्यान् मतं — पटप्रतीतौ तदारंभकास् तंतवः प्रतीयन्तएव सा- क्षात् परंपरया तु तदारंभकाः परमाणवोऽस्मदाद्यप्रत्यक्षत्वान् न १०प्रतीयन्ते ऽस्मदादिभिर् अनध्यक्षतस् तेषाम् अनुमेयत्वात् । तथा हि द्व्यणुकावयवि द्रव्यं स्वपरिमाणाद् अणुपरिमाणकारणारब्धंका- र्यद्रव्यत्वात् पटादिवत् यद् द्व्यणुकपरिमाणकारणं तौपरमाणू स- मनुमीयेते । परमाणोः कारणस्यासंभवान् नतदारभंकत्वं संभाव्यते यतस् तस्य कार्यद्रव्यत्वं स्यात् ततो नाकाशादेर् अनंशत्वेसाध्ये १५परमाणुवद् इति दृष्टांतः साधनशून्य इति । तद् एतद् अपिस्वदर्श- नरुचिप्रकाशनमात्रं, परमाणोर् अप्य् अनुमानात्कार्यद्रव्यत्वसिद्धेः । तथा हि — परमाणवः स्वपरिमाणान्महापरिमाणावयविस्कंधवि- नाशकारणकास् तद्भावभावित्वात् कुंभविनाशपूर्वककपालवत्य- द् विनाशात् परमाणवः प्रादुर्भवंति तत् द्व्यणुकादि द्रव्यमित्य् अनुमा- २०नसिद्धं परमाणोः कार्यद्रव्यत्वं ततः साधनशून्यमेवोदाहरणं । न च परमाणूनां स्कन्धविभेदनभावभावित्वम् असिद्धंद्वयणुका- दिविनाशस्य भावे सद्भावाभ्युपगमात् । सर्वदास्वतंत्रपरमा- १४३णूनां स्कन्धभेदम् अन्तरेणाभावाद् असिद्धोव्यतिरेकस् ततस् तद्भाव एव भवनशीलत्वाभावाद् असिद्धं साधनम् इति चेत्, न, सदा स्वतंत्रपरमाणूनाम् असंभवात् । तथा हि — विवादापन्नाःपरमाणवः स्कंधभेदपूर्वकाः परमाणुत्वात्द्व्यणुकादिभेदपूर्वकपरमाणु- ०५वद् इति न ते सर्वदा स्वतंत्रास् ततस् तद्भावभावित्त्वंसाधनं सिद्ध- म् एव । एतेन कपालानां कुंभभेदकारणत्वं साधितंतद्भावभावि- त्वाविशेषात् । ननु च पटभेदपूर्वकाणां केषांचित् तन्तूनामुपलंभा- त् तद्भावे भावस्य प्रसिद्धाव् अपि परेषांपटपूर्वकालभाविनां पटभे- दाभावे ऽपि भावान् न तद्भाव एव भावः सिध्येद् इति चेत्न, १०तेषाम् अपि कार्पासप्रवेणीभेदपूर्वकत्वेनोपालंभात्स्कंधभेदपूर्वक- त्वसिद्धेः । स्यान् मतं, महापरिमाणप्रशिथिलावयवकार्पासपिं- डसंघातपूर्वकस्याल्पपरिमाणघनावयवकार्पासपिंडस्यस्कंधभे- दम् अन्तरेण भावात् कथं परमाणूनांस्कंधभेदपूर्वकत्वसिद्धि- र् इति । तद् अप्य् असत्, परमाणूनाम् एवस्कंधभेदपूर्वकत्वनियमसाध- १५नात्, परेषां स्कंधानां स्कंधान्तरसंघातपूर्वकत्वस्याऽपिप्रसि- द्धेः, यद् धि यद्भावभाव्येव प्रसिद्धं तत्कारणम् इतिस्याद्वादिनां मतं, ततो ये स्कंधभेदभावभाविन एव तेस्कंधभेदपूर्वका एव यथा परमाणवो ऽभेदादणुर्ऽ इति वचनात् । ये तुसंघातभाव- भाविन एव ते संघातपूर्वका एव यथा घनः कार्पासपिंडैति २०सर्वम् अनवद्यं परमाणोर् अपि कार्यद्रव्यत्वसिद्धेः । तदेवम् आकाश- म् अनंशम् अकार्यद्रव्यत्वात् परमाणुवद् इत्य् अनुमानं नसाध्यसिद्धि- निबंधनम् उदाहरणस्य साधनविकलत्वाद् धेतोश्चासिद्धत्वात् पर्या- १४४यार्थादेशाद् आकाशस्यापि कार्यद्रव्यत्वसिद्धेःस्याद्वादिनां सर्वथा नित्यस्य कस्यचिद् अर्थस्याभावात् । खस्यानंशत्वाप्रसिद्धौचानं- शं सामान्यं सर्वगतत्वाद् आकाशवद् इत्य् अत्र साध्यशून्यत्वादुदा- हरणस्य नातः सामान्यस्य निरंशत्वसिद्धिः । सर्वगतत्वादित्य् अस्य ०५हेतोर् असिद्धत्वाच् च न हि सामान्यं सर्वं सर्वगतंप्रमाणतः सिद्धं । सत्तामहासामान्यं सर्वं सर्वगतं सिद्धम् एवसर्वत्र सत्प्र- त्ययहेतुत्वाद् इति चेत् न, तस्यानंतव्यक्तिसमाश्रयस्यैकस्य ग्राहकप्रमाणाभावात् । तद् एवाहुः सूरयः — "मानं च नानंतसमाश्रयस्य" इति । १०न ह्य् अनंतसद्व्यक्तिग्रहणम् अन्तरेण तत्र सकृत् सन्निति प्रत्ययस्यो- त्पत्तिर् असर्वविदां संभवति यतः सर्वत्रसत्प्रत्ययहेतुत्वं सिद्ध्ये- त् । तदसिद्धौ च न तदनुमानं प्रमाणं सामान्यस्यानंत- समाश्रयस्यास्तीति न कृत्स्नविकल्पतो वृत्तिः सामान्यस्य सामान्यबहुत्वप्रसंगाद् इति स्थितं । एतेन व्यक्तिसर्वगतंसामा- १५न्यं कुत्स्नतः स्वाश्रयेषु प्रवर्त्तत इति वदन्न् अपिनिरस्तः तस्या- प्य् अनंतव्यक्तिसमाश्रयस्य मानाभावाविशेषात् । एतेन देशतः सामान्यस्य स्वाश्रयेषु वृत्तिर् इत्य् अपि विकल्पो दूषितः, देशतो ऽनंतेषु स्वाश्रयेषु युगपत्सामान्यस्य वृत्तिर् इत्य् अत्रप्रमाणाभा- वात्, ततो ऽस्मिन्न् अपि पक्षे "मानं च नानंतसमाश्रयस्य"इति २०संबंधनीयं । सप्रदेशत्वप्रसंगाच् च सामान्यस्य नचैवम् अभ्युपगन्तुं युक्तं स्वसिद्धान्तविरोधात् तस्य निरंशत्ववचनात् । ततोनैकं सामान्यम् अमेयरूपं कुतश्चित् प्रमाणात् सिद्धं यतस् तदमेयम् एव न स्यात् । १४५संप्रति सामान्यम् अनंतसमाश्रयम् अप्रमाणकमवस्थाप्य पक्षां- तरम् अनूद्य दूषयंति — नानासदेकात्मसमाश्रयं चे- द् अन्यत्वम् अद्विष्ठमनात्मनोः क्व । ०५विकल्पशून्यत्वम् अवस्तुनश् चे- त् तस्मिन्न् अमेये क्व खलु प्रमाणम् ॥ ५६ ॥ नाना च तानि संति च नानासंति विविधद्र- व्यगुणकर्माणि तेषां नानासताम् एकात्मा सदात्मा वा द्रव्या- त्मा वा गुणात्मा वा कर्मात्मा वा स एवाश्रयो यस्य सामा- १०न्यस्य तन्नानासदेकात्मसमाश्रयं । एको हि सदात्मा समा- श्रयः सत्तासामान्यस्य स चैकसद्व्यक्तिप्रतिभासकाले प्रमाणतः प्रतीयत एवतदन्यद्वितीयादिसद्व्यक्तिप्रतिपत्ति- काले ऽपि स एवाभिव्यक्तताम् इयर्तीति तन्मात्राश्रयस्य सामा- न्यस्य प्रमाणं ग्रहणनिमित्तम् अस्त्य् एवतस्यानंतस्वभावासमाश्रयस्यैव १५मानं नास्तिति व्यवस्थितेः । तथैको द्रव्यात्मा समाश्रयोद्रव्य- त्वसामान्यस्य, गुणात्मा गुणत्वसामान्यस्य, कर्मात्माकर्मत्वसा- मान्यस्येति, तस्यैकां द्रव्यव्यक्तिं द्वितीयां च प्रतीयन्द्रव्यस्व- भावम् एकम् एव प्रत्येति तत्समाश्रयं च द्रव्यत्वसामान्यमिति स- दात्मा समाश्रयः, न तस्यामानता, एवं गुणव्यक्तीःकर्मव्यक्तीर् वा २०द्विव्[? :त्र्]आः पश्यन् गुणस्वभावं कर्मस्वभावं चपश्यतीति गुणैका- त्मसमाश्रयं कर्मैकात्मसमाश्रयं वा गुणत्वसामान्यंकर्मत्वसा- १४६मान्यं वा प्रत्येतुं प्रमाणतः शक्नोतीति नतस्याप्रमाणता शक्या समापादयितुम् अनंतसमाश्रयस्यैव सामान्यस्यमानताऽघ- टनाद् इति यदि मन्यन्ते सामान्यवादिनस् तदैवंप्रष्टव्याः-[? :ओम्] किम् एतत् सामान्यं स्वव्यक्तिभ्यो ऽन्यद् अनन्यद् वा ? न तावदन्यत्व- ०५म् अस्य सदेकस्वभावाश्रयसामान्यस्य स्वव्यक्तिभ्यो भेदेतासाम् अ- सदात्मकत्वप्रसंगात् प्रागभावादिवत्, व्यक्तेर् असदात्मकत्वेच सत्सा- मान्यस्याप्य् असदात्मकत्वापत्तिर् असद्व्यक्तित्वाद् अभावामात्रवत् । तत- श् चानात्मनोर् व्यक्तिसामान्ययोर् अन्यत्वं क्व स्यान् नैव स्यादित्य् अर्थः । त- द् अद्विष्ठम् इह प्रसिद्धं द्वयोर् अभावे पुनरद्विष्ठमन्यत्वं क्वेति संबंधनीयं १०एवं द्रव्यव्यक्तेर् द्रव्यैकात्मसमाश्रयस्यद्रव्यत्वसामान्यस्य भेदे ऽ- प्य् अद्रव्यत्वप्रसंगो गुणादिवत् । तदद्रव्यत्वे चद्रव्यत्वसामान्य- स्यानात्मत्वापत्तिर् इत्य् अनात्मनोर्द्रव्यव्यक्तिद्रव्यत्वसामान्ययोर् अ- न्यत्वं क्व स्यात् ? तस्याद्विष्ठत्वेन च द्वयोर् अभावेक्वाद्विष्ठमन्यत्वम् इति घटनीयं । तथा गुणत्वसामान्यस्य कर्मत्वसामान्यस्यचैकगु- १५णात्मसमाश्रयस्यैककर्मात्मसमाश्रयस्य च गुणव्यक्तेःकर्मव्य- क्तेर् वा भेदे गुणव्यक्तेर् अगुणत्वप्रसंगः कर्मव्यक्तेश्चाकर्मत्वप्रसंग- स् तदनात्मकत्वे च गुणत्वसामान्यस्य कर्मत्वसामान्यस्यचाऽ- नात्मकत्वापत्तिर् इत्य् अनात्मनोर् गुणव्यक्तिगुणत्वसामान्ययोःकर्म- व्यक्तिकर्मत्वसामान्ययोश् चान्यत्वं क्व स्यात् ? द्वयोर् अभावेचा- २०द्विष्ठम् अन्यत्वं क्वेति प्रतिपत्तव्यं ततो नान्यत् सामान्यंस्वव्यक्तिभ्यो व्यवतिष्ठते । नाऽप्य् अनन्यत्, सामान्यस्य व्यक्तौ प्रवेशेव्यक्तिर् एव स्यान् न च सामान्याभावे सा संभवतीत्य् अनात्मा स्यात्तदनात्मत्वे १४७सामान्यस्याप्य् अनात्मत्वम् इत्य् अनात्मनोर्व्यक्तिसामान्ययोर् अनन्यत्वं क्व्[? ]एति योजनीयं । न च तद्द्विष्ठम् अनन्यत्वम् अस्तीतिक्वानन्यत्वं । एतेनोभयम् अपि निरस्तम् उभयदोषानुषंगात् । ननु चवस्तुभूतस्य सामान्यस्यानभ्युपगमाद् अवस्तुन एव सामान्यस्यान्यापोहलक्ष- ०५णस्येष्टत्वात् तस्य चान्यत्वानन्यत्वादिविकल्पशून्यत्वंखरविषा- णवद् इति चेत्, तर्हि तस्मिन्न् अवस्तुनि सामान्ये क्व खलुप्रमाणं संप्रवर्त्तेत नैव किंचित् प्रमाणं स्यात् तस्यामेयत्वादन्यापोहस्य सर्वप्रमाणातिक्रान्तत्वात् । तथाहि — न तावत् प्रत्यक्षमवस्तुनि प्रव- र्त्तते तस्य वस्तुविषयत्वात् । नाप्य् अनुमानं लिंगाभावात् । न हि १०तत्र स्वभावलिंगं निःस्वभावस्यावस्तुनःस्वभावविरोधात्, स्व- भावस्य कस्यचित् सद्भावे वस्तुत्वप्रसंगात् । नाऽपिकार्यलिंगं सक- लकार्यशून्यत्वाद् अवस्तुनः, कस्यचित् कार्यस्य भावेतस्यावस्तुत्व- विरोधात् । तत्रानुपलंभो लिंगम् इति चेत्, सो ऽपि क्वचिदग्नौ तदन्यस्यानग्नेर् अभावो ह्य् अन्यापोहः सामान्यं, तस्यचानग्नेः क- १५स्यचिद् एवोपलब्धिलक्षणप्राप्तस्य जलादेर् अनुपलंभः स्यात्सर्वस्य वा ? प्रथमविकल्पे न सर्वस्माद् अनग्नेर् अपोहः सिध्येत् । द्वितीय- विकल्पे देशकालस्वभावविप्रकृष्टस्यद्वीपान्तररावणपरमाष्वा- देर् अनग्नेर् अनुपलब्धिलक्षणप्राप्तस्यानुपलंभः कथमभावं क्वचिद् अग्नौ साधयेद् अभावव्यवहारं वा स्वाभ्युपगमविरोधाद् इति, नावस्तु २०सामान्यं केनचित् प्रमाणेन मेयं, तस्मिंश् चामेये क्व खलुप्रमाणं प्रवर्त्तते पराभ्युपगतवस्तुभूतसामान्यवद् इति न किंचित्सामान्यं परेषां व्यवतिष्ठते प्रमाणाभावात् । १४८ननु चानुवृत्तिप्रत्ययलिंग सामान्यं कथमप्रमाणम् इत्य् अपरे । अतद्व्यावृत्तिप्रत्ययसाध्यमन्यापोहसामान्यम् इत्य् अन्ये । स्वस्वसं वेदनमात्रं साध्यं सन्मात्रं शरीरं व्[? :ब्]रह्मेति केचित्संप्रतिपद्यन्ते, तान् प्रति प्राहुर् आचार्याः — ०५व्यावृत्तिहीनान्वयतो न सिद्ध्ये- द् विपर्यये ऽप्य् अद्वितये ऽपि साध्यम् । अतद्व्युदासाभिनिवेशवादः पराभ्युपेतार्थविरोधवादः ॥ ५७ ॥ येषां तावत् — द्विविधं सामान्यं परमपरं चेतितेषां १०च न परं सामान्यं सत्ताख्यं साध्यं सद् इत्य् अन्वयादसद्व्यावृत्ति- हीनाद् एव सिद्ध्येत् सदसतोः संकरेण सिद्धिप्रसंगात् । सदन्वय एवासद्व्यावृत्तिर् इत्य् अयुक्तम् अनुवृत्तिव्यावृत्त्योर्भावाभावस्वभावयो- र् भेदाभ्युपगमात् । सामर्थ्यात् सदन्वये ऽसद्व्यावृत्तिःसिद्ध्ये- द् इति चेत्, तर्हि न व्यावृत्तिहीनाद् अन्वयतः साध्यं सिध्येत् । १५एतेनापरं सामान्यं द्रव्यत्वादि द्रव्यम् इत्य् आद्यन्वयादद्रव्यादिव्या- वृत्तिहीनान् न सिध्येद् इति निवेदितं, सामर्थ्यसिद्धादद्रव्यादिव्या- वृत्तिसहिताद् एव द्रव्याद्यन्वयात् द्रव्यत्वादिसामान्यस्यसिद्धेः तत एव तस्य सामान्यविशेषाख्यत्वव्यवस्थापनात् । ये ऽपिके- षांचिद् विपर्यये तद्व्यावृत्तेर् एवान्वयहीनायाः सामान्यंप्रतीयन्त २०इति तस्मिन् विपर्यये ऽपि साध्यं न सिद्ध्येत्सर्वथान्वयरहिता- द् अतद्व्यावृत्तिप्रत्ययाद् अन्यापोहसिद्धाव् अपि तद्विधेरसिद्धेस् तत्र प्रवृ- १४९त्तिविरोधात् तदर्थक्रियालक्षणस्य साध्यस्यसिद्ध्यभावात् । दृ- श्यविकल्प्ययोर् एकत्वाध्यवसायात् प्रवृत्तौ साध्यंसिद्ध्यतीति चेत्, न, तदेकत्वाध्यवसायस्यासंभवात्, न हि दर्शनंतदेक- त्वम् अध्यवस्यति तस्य विकल्पाविषयत्वात्, नापितत्पृष्ठभाविविक- ०५ल्पस् तस्य दृश्याविषत्वान् न चोभयविषयं ज्ञानान्तरम् एकंसंभ- वति यतस् तदेकत्वाध्यवसायात् व्यावृत्तिमात्राद् अन्वयहीनाद- न्यापोहसामान्यं सिद्ध्येत् । स्वलक्षणेष्व् इति न साध्यसिद्धिः । तथान्वयव्यावृत्तिहीनाद् अद्वितयाद् एव सन्मात्रप्रतिभासात्सत्ताद्वैत- सिद्धिर् इत्य् अपि न सम्यक्, सर्वथाऽप्य् अद्वितयेसाध्यसाधनयोर् भे- १०दासिद्धौ कुतः साधनात् साध्यं सिद्ध्येद् असिद्धौचाद्वितयवि- रोधात् । यदि पुनर् अद्वितये ऽपि संविन्मात्रेऽसाधनव्यावृत्त्या सा- धनम् असाध्यव्यावृत्त्या च साध्यम् इत्यतद्व्युदासाभिनिवेशवादः स- माश्रीयते, तदाऽपि पराभ्युपेतार्थविरोधवादः सौगतस्यस्यात् । पराभ्युपगतो हि संविदद्वैतलक्षणो ऽर्थस् ताथागतैः सचात- १५द्व्युदासाभिनिवेशवादेनातद्व्यावृत्तिमात्राग्रहवचनरूपेण वि- रुध्यते कस्यचिद् असाधनस्यासाध्यस्य चार्थाभावेतदव्यावृत्त्या साध्यसाधनव्यवहारानुपपत्तेर् भावे च द्वैतसिद्धेरप्रतिक्षेपार्हत्वा- द् इति सौगतानां पूर्वाभ्युपेतार्थविरोधवादः प्रसज्येत । यदि तु साधनम् अनात्मकम् एव न वास्तवं सौगतैरभ्युपेयते २०नाऽपि साध्यं तस्य संवृत्या कल्पिताकारत्वात् ततो नपराभ्यु- पेतार्थविरोधवादः स्याद् इति निगद्यते । तदा दूषणम् आवे- दयन्ति — १५०अनात्मनानात्मगतेर् अयुक्तिः, ॥ ५८अ ॥ इति । अनात्मना निःस्वभावेन सांवृतेनासाधनव्यावृत्ति- मात्ररूपेण साधनेन साध्यस्यापि तथाविधस्यानात्मनो या गतिः प्रतिपत्तिस् तस्याः सर्वथाप्य् अयुक्तिर् अयोग एव । ०५अत्र परिहारम् आशंक्य निराकुर्वन्ति — वस्तुन्ययुक्तेर् यदि पक्षसिद्धिः । अवस्त्वयुक्तेः प्रतिपक्षसिद्धिः, ॥ ५८ब्च् ॥ इति । वस्तुनि संविदद्वैतरूपे साधनेनानात्मना सा- ध्यस्यानात्मनो गतेर् अयुक्तेः पक्षसिद्धेर् एवंसंविदद्वैतवादिनः १०साध्यसाधनभावशून्यस्य संवेदनमात्रस्य पक्षत्वात्सिद्धं नस्त- त्त्वम् इति यदि मन्यते परस् तदाप्य् अवस्तुनि विकल्पिताकारेसा- ध्यसाधनयोर् अयुक्तेः प्रतिपक्षस्य द्वैतस्य सिद्धिः स्यात् । न ह्य् अवस्तु साधनं साधयति साध्यम् अद्वैततत्त्वमतिप्रसंगात् । साधनाद् विना स्वत एव संविदद्वैतसाध्यसिद्धिर् इतिपरम- १५तम् अपाकुर्वन्ति — न च स्वयं साधनरिक्तसिद्धिः ॥ ५८ ॥ ॥ ५८द् ॥ साधनेन रिक्ता शून्या सिद्धिः स्वयं संविदद्वैतस्य न पुज्यते, पुरुषाद्वैतस्यापि स्वयं सिद्धिप्रसंगात् कस्यचित्तत्र विप्रतिपत्त्यभावप्रसंगाच् च । २०तद् एवम् — १५१निशायितस् तैः परशुः परघ्नः स्वमूर्ध्नि निर्भेदभयानभिज्ञैः । वैतण्डिकैर् यैः कुसृतिः प्रणीता मुने ! भवच्छासनदृक्प्रमूढैः ॥ ५९ ॥ ०५परपक्षदूषणप्रधानैर् वैतण्डिकैःसंवेदनाद्वैतवादिभिर् यैः कुसृतिः कुत्सिता गतिः प्रतीतिः प्रणीता । मुने ! भगवन् ! भवतः शासनस्य स्याद्वादस्य दृशि प्रमूढैस् तैःस्वमूर्ध्नि नि- र्भेदभयस्यानभिज्ञैर् निर्भेदभयम् अजानद्भिः परघ्नःपरशुर् निशायित इति वाक्यार्थघटना । यथैव हि कैश्चित् परशुःपरघाताय नि- १०शायितः स्वमूर्ध्नि भेदाय च प्रवर्त्तत इतितद्भयानभिज्ञास् ते, त- थैव वैतण्डिकैः परपक्षनिराकरणायमानैः प्रणीयमानोन्यायः स्वपक्षम् अपि निराकरोतीति ते ऽपि स्वपक्षघातभयानभिज्ञाएव । ते हि स्याद्वादन्यायनायकस्य गुरोः शासनदृक्प्रमूढाः किंजा- नंते दर्शनमोहोदयाक्रान्तान्तःकरणत्वाद् इति विस्तरतस्तत्त्वा- १५र्थालङ्कार प्रतिपत्तव्यं । ननु च यद् उक्तं "न च स्वयं साधनरिक्तसिद्धिः" इति । तत्र, संविदद्वैतस्यापि सिद्धिर् मा भूत् सर्वाभावस्यशून्यतालक्षणस्य विचारबलाद् आगतस्य परिहर्त्तुम् अशक्यत्वाद् इति केचिदाचक्षते तान् प्रत्याहुः — २०भवत्यभावो ऽपि च वस्तुधर्मो भावान्तरं भाववद् अर्हतस् ते । १५२प्रमीयते च व्यपदिश्यते च वस्तुव्यवस्थांगम् अमेयम् अन्यत् ॥ ६० ॥ न हि वहिरन्तश् च वस्तुनो ऽसंभवे तदभावःसर्व- शून्यतालक्षणः संभवति तस्य वस्तुधर्मत्वात्, स्वधर्मिणो ऽसंभवे ०५कस्यचिद् धर्मस्याप्रतीतेः । स ह्य् अभावः स्वरूपेण भवतिन वा ? भवति चेद् अभावे ऽपि वस्तुधर्मसिद्धेः कस्यचिद्धर्मस्याभावे धर्मा- न्तरम् एव स च कथं वस्तुधर्मो न सिद्ध्येत् । न भवतिचेद् अभाव एव न स्याद् अभावस्याभावे भावस्य विधानात् । अथधर्मिणो- ऽभावास् तदा भावान्तरं स्याद्भाववत् कुंभस्याभावो हिभूभागो १०भावान्तरम् एवार्हतो भगवतस् ते, न पुनस् तुच्छःसकलशक्तिवि- रहलक्षणो यौगस्येवेति प्रत्येतव्यं । कुत एतत् ? यस्मात्प्रमीयते चाभावो व्यपदिश्यते च वस्तुव्यवस्थांगं च निगद्यते । अभावो हि धर्मस्य धर्मिणो वा यदि कुतश्चित् प्रमाणान् न प्रमीयतेतदा कथं व्यवतिष्ठते ? प्रमीयते चेत्, तदा स च वस्तुधर्मोभावान्तरं १५वा धर्मधर्मिस्वभावभाववत् । तथा यद्य् अभावो नव्यपदिश्यते तदा कथं प्रतिपद्यते ? व्यपदिश्यते चेत्, वस्तुधर्मोवस्त्वंतरं वा स्याद् अन्यथा व्यपदेशानुपपत्तेः, तथा वस्तुनो घटादेर्व्यवस्थायाम् अं- गम् अभावो ऽनंगं वा । यद्य् अनंगं, किं तत्परिकल्पनया । घटे पटादेर् अ- भाव इति पटादिपरिहारेण (तु) घटव्यवस्थाकारणमभावः परि- २०कलप्यते ऽन्यथा वस्तुसंकरप्रसंगाद् इतिवस्तुव्यवस्थांगमभावो ऽ- भ्युपगन्तव्यः । ततो वस्तु धर्म एवाभावोवस्तुव्यवस्थांगत्वाद् भाव- १५३वत् । ननु च यथा प्रमाणं प्रमेयव्यवस्थांगमपि न प्रमेयधर्म- स् तथा वस्तुव्यवस्थांगम् अप्य् अभावो न वस्तुधर्मः स्यात्, यो यद् व्य- वस्थांगं स तद् धर्म इति नियमाभावात्, व्यभिचारदर्शनात्, न ह्य् अभावव्यस्थांगं घटदिर् भाग इति तस्याभावधर्मत्वंप्रतीये- ०५तेति कश्चित् । सो ऽप्य् अनालोचितवचनः, प्रमाणस्यापि प्रमेय- धर्मत्वाविरोधात् । प्रमाणं हि ज्ञानम् अविसंवादकम् इष्यतेतच् च प्रमेयस्यात्मनो धर्मः करणसाधनतापेक्षायां प्रतीयते, एवं प्र- मितिः प्रमाणम् इति भावसाधनापेक्षायां तुप्रमाणस्यात्मार्थस्य धर्मत्वम् अपीति सिद्धं प्रमेयधर्मत्वम् आत्मनः प्रमितिरर्थस्य प्रमिति- १०र् इति संप्रत्ययात् । तथा घटादेर् भावस्याभावधर्मत्वमपि न विरुद्ध्यते, मृदो घट इति यथा मृद्धर्मो घट इति तथासुवर्णाद्य- भावस्य मृदो धर्म इत्य् अपि प्रयुज्यत एवसुवर्णाद्यभावस्यासुव- र्णमृदादिस्वरूपत्वात् ततो न व्यभिचारः । किं च हेतोर्विपक्षे का- र्त्स्न्येनाभावो हेतुधर्म इति स्वयम् इच्छन् कथंहेतुलक्षणवस्तुव्य- १५वस्तांगस्याभावस्य हेतुरूपवस्तुधर्मत्वं नेच्छेत् । यत्तुन वस्तु व्यवस्थांगम् अभावतत्त्वं तद् अमेयम् एवंभावैकान्ततत्त्ववत् । तद् एवं परपरिकल्पितं सामान्यं वस्तुरूपम् अरूपं वायथा न वाक्यार्थस् तथा व्यक्तिमात्रं परस्परनिरपेक्षम् उभयंवा न वा- क्यार्थः समवतिष्ठते तस्यामेयत्वात्सकलप्रमाणगोचरातिक्रां- २०तत्त्वात् । किं तर्हि वाक्यम् अभिदधातीति सूरिभिर् अवस्थाप्यते । — विशेषसामान्यविषक्तभेद-१५४विधिव्यवच्छेदविधायि वाक्यम् । अभेदबुद्धेर् अविशिष्टता स्याद् व्यवृत्तिबुद्धेश् च विशिष्टता ते ॥ ६१ ॥ विसदृशपरिणामो विशेषः सदृशपरिणामः सा- ०५मान्यं । ताभ्यां विषक्ताश् च ते च ते भेदाश् चद्रव्यपर्यायव्यक्तिरू- पास् तेषां विधिव्यवच्छेदौ तद्विधायि वाक्यम् इति घटना । तत्र घटमानयेति वाक्यं नाघटानयनव्यवच्छेदमात्रविधायीतिघ- टानयनविधेर् अपि तेनाभिधानात्, अन्यथा तद्विधानायवाक्या- न्तरप्रयोगप्रसंगात्, तस्याप्य् अतद्व्यवच्छेदविधायित्वेतद्विधाना- १०यापरवाक्यप्रयोग इत्य् अनवस्थानुषंगात् न कदाचिद्घटानयन- विधिप्रतिपत्तिः स्याद् इति प्रधानभावेन व्यवच्छेदविधाय्यपि वाक्यं गुणभावेन विधिविधायि प्रतिपत्तव्यं । विधिमात्रविधा- य्य् एव वाक्यम् इत्य् अप्य् अयुक्तं तदन्यव्यच्छेदेन विनाविधिप्रति- पत्तेर् अयोगात्, तदितरव्यवच्छेदाय वाक्यान्तरप्रयोगापत्तेस्त- १५स्यापि तद्विधिमात्रविधायित्वे ऽतद्व्यवच्छेदायवाक्यान्तरप्रयो- गाद् अनवस्थितिप्रसंगात्, ततः प्रधानभावेनविधिप्रतिपादकं वाक्यं गुणभावेन व्यवच्छेदविधायि प्रतिपादनीयं । जातेर् एव विधिव्यवच्छेदोभयं प्रधानगुणभावेन वाक्यमभि- धत्ते, घटानयनसामान्यस्य विधानादघटानयनादिसामान्यस्य २०तत्प्रतिपक्षस्य व्यवच्छेदाद् इति मतान्तरम् अपि न युक्तिमत् । भेदविधिव्यवच्छेदविधायित्वाद् वाक्यस्य, भेदो हि व्यक्तिर्द्रं- १५५व्यगुणकर्मलक्षणा, तत्र द्रव्यगुणयोर् गुणभावेनक्रियायाः, प्राधा- न्येन विधिव्यवच्छेदविधायित्वप्रतीतेर् वाक्यस्य न जातेरेव वि- धिव्यवच्छेदविधायि वाक्यं व्यवतिष्ठते । एतेन करोत्यर्थस्य क्रि- यासामान्यस्यार्थभावनारूपस्य विधायकं वाक्यंशब्दभावनारू- ०५पस्य वा शब्दव्यापारलक्षणस्येति प्रतिक्षिप्तं, यज्यादिक्रिया- विशेषस्यापि वाक्येनाभिधानान् नियोगविशेषवद् अन्यथा तद्वि- शेषे प्रवृत्त्यभावप्रसंगात्, लक्षितलक्षणया तत्रप्रवृत्तौ शब्दप्रवृ- त्तिविरोधात्, शब्दप्रतिपन्नसामान्यलिंगादेव विशेषेप्रवर्त्तनात्, शब्दमूलत्वात् तत्प्रवृत्तेः शाब्दत्वे परंपरयाश्रोत्रेंद्रियपूर्वकत्वात् १०तत्प्रवृत्तेः अक्षजज्ञाननिमित्तत्वप्रसंगात् । एतेनैवसन्मात्रसामान्य- स्य विधायकं वाक्यम् इत्य् अपि व्युदस्तं सद्विशेषस्यापिवाक्येना- भिधीयमानस्य प्रतीतेर् धात्वर्थविशेषवत् । भेदस्यैवविधिव्यवच्छे- दविधायि वाक्यम् इति मतम् अपि न श्रेयः, सामान्यविषक्तभेद- विधिव्यवच्छेदविधायित्वाद् वाक्यस्यसदृशपरिणामलक्षणासा- १५मान्यविशिष्टस्यैव हि भेदस्य द्रव्यगुणक्रियाख्यस्यविधिव्य- वच्छेदविधायितायां वाक्यस्य संकेतव्यवहारकालान्वयःस्या- न् नान्यथाऽतिप्रसंगात् । सामान्यविषक्तभेदस्यैवविधिव्यवच्छे- दविधायि वाक्यम् इति दर्शनम् अपि स्वरुचिविरचितम् एव । विशे- षसामान्यविषक्तभेदविधिव्यवच्छेदविधायित्वाद् वाक्यस्यसा- २०दृश्यसामान्यविशिष्टस्येव विसदृशपरिणामलक्षणविशेषविशि- ष्टस्यापि भेदस्य विधिव्यवच्छेदविधानप्रतीतेरबाध्यमानायाः प्रेक्षावद्भिर् आश्रयणीयत्वात् । तत्र भेदस्यद्रव्यादिव्यक्तिरूपस्या- १५६विशिष्टता समानता सामान्यविषक्तता स्यादभेदबुद्धेः समा- नबुद्धेस् तेन समानो ऽयम् अनेन समानः स इत्यभेदबुद्धिः सदृशपरि- णामात्मकसामान्यम् अंतरेणानुपपद्यमाना तद् एव साधयतीतिकिं नश्चिन्तया । नन्व् एकसामान्ययोगात् समानबुद्धिर् अन्वायिनी नपुनः ०५समानपरिणामयोगाद् इति चेत्, न, सामान्यवान् इति प्रत्यय- प्रसंगात्, सामान्यतद्वतोर् भेदात् तयोर् अभेदोपचारात्समानप्रत्यय इति चेत्, न, तथाऽपि सामान्यम् इति प्रत्ययप्रसंगात् । यथैवहि यष्टियोगात् पुरुषो यष्टिर् इति प्रतीयते तदभेदोपचारात्तथा सामान्ययोगात् द्रव्यादिः सामान्यम् इति स्यान् न तु समान इति १०भावप्रत्ययलोपलक्षणाभावात् । स्यान् मतं, सामान्यस्य वाचकः समानताशब्दो ऽस्तीति तेन समानेन योगात् सामानो द्रव्यादिर् इति प्रत्ययः स्याद् इति तद् अप्य् असद् एव । सामान्यशब्दवाच्यस्य वस्तुनःसमानशब्दवा- च्यत्वाप्रतीतेः समानानां भावः सामान्यं जातिर् न पुनःसमान १५एव सामान्यम् इति स्वार्थिकष्ट्यण्[? ]प्रत्ययः क्रियते येनसमान- शव्दवाच्यं सामान्यं स्यात् । न च द्रव्यादिभ्यो भिन्नंसामान्य- म् अन्वयप्रत्ययात् सिद्ध्यति नाम, परापरसामान्येषुसामान्यान्तर- सिद्धिप्रसंगात्, तथा चानवस्था स्यात् सुदूरम् अपिगत्वाऽन्वयप्र- त्ययात् सामान्यान्तरस्यासिद्धौ प्रथमतो ऽपितदन्वयप्रत्ययात् सा- २०मान्यं मा भवतु (सिद्धेत्) सर्वथा विशेषाभावात् । द्रव्यादिष्व् अन्व- यबुद्धिर् अबाधिततयाऽनुपचरिता सामान्येष्व् अन्वयबुद्धिरुपचरिता- ऽनवस्था प्रसंगेन बाधितत्वाद् इति विशेषाभ्युपगमो ऽपि नयुक्तः १५७सर्वव्यक्तिषु सामान्यस्यैकस्यानेशस्यदेशकालादिभिन्नासु युग- पद्वृत्तिविरोधेन बाधितस्यान्वयबुद्धयाविषयीक्रियमाणस्यासं- भवाद् अस्याप्य् अन्वयप्रत्ययस्यानुपचरितत्वासिद्धेःसमर्थनात् । नन्व् ए- वं सदृशपरिणामरूपस्यापि सामान्यस्यान्वयबुद्धेः कुतःप्रसिद्धिः ०५समानपरिणामेष्व् अप्य् अन्वयबुद्धेःसमानपरिणामान्तरप्रसंगाद् अनव- स्थायाः बाधिकायाः संभवता, समानपरिणामस्यैकैकत्रभेदे बाधासंभवात् तस्यानेकस्थत्वाद् इति चेत्, न, समानपरिणा- मानाम् अपि समानपरिणामान्तरप्रतीतेस् तेषाम् अनन्तत्वादनवस्थान[? :आ]- वकाशात् । यथैव हि घटेषु घटाकारसमानपरिणामःप्रत्येक- १०म् अपरघटपरिणामापेक्षः प्रतीयते "समाना एते घटाः" इतितथा घटसमानपरिणामेष्व् अपि मृदाकारसमानपरिणामान्तरंप्रतिभा- सत एव ऽमृदाकारेण समाना एते घटसमानपरिणामाःऽ इति तेष्व् अपि मृदाकारसमानपरिणामान्तरेषुपार्थिवाकारसमानपरि- णामान्तराणि पार्थिवाकारेण समाना एते मृदाकारसमानप- १५रिणामा इति प्रतिभासनात् । पार्थिवाकारसमानपरिणामेष्व् अपि मूर्त्तत्वाकारसमानपरिणामान्तराणि, तेष्व् अपिद्रव्यत्वाकारस- मानपरिणामान्तराणि, तेष्व् अपि सत्त्वपरिणामान्तराणि, तेष्वपि वस्तुत्वपरिणामान्तराणि, तेष्व् अपि प्रमेयत्वपरिणामान्तराणि, तेष्व् अपि वाच्यत्वपरिणामान्तराणि, तेष्व् अपिज्ञेयत्वपरिणामान्त- २०राणि तेष्व् अपि पुनः सत्त्वादिपरिणामान्तराणि प्रतिचकासंति भेदनय प्राधान्यान् न तेषां वलयवदादिर् अंतो वा विद्यतेयतो ऽनवस्था बाधिका स्यात् । नाप्य् एकैकत्र भेदे समानपरिणामो विरुध्य- १५८ते तस्य संयोगवदनेकस्थत्वाभाबात् । ब्[? :व्]इशेषवदनेकापेक्ष- यैव तदभिव्यक्तेः कृशत्वाद्यपेक्षया स्थूलत्वादिवत् । नच स- मानपरिणामो ऽर्थानाम् अपारमार्थिक एवापेक्षिकत्वाद् इतिनिश्चेतुं शक्यं संविद्वैशद्येन व्यभिचारात् । न हिवृद्धाक्षसंवेदनापे- ०५क्षया कुमारसंवेदनानां विशदतरत्वम् आपेक्षिकं न भवतितदविशे- षप्रसंगात् । नाऽपि तदपारिमार्थिकं येन न व्यभिचारःस्यात् । यदा तु परिणामपरिणामिनोर् अभेदनयप्राधान्यात् कथंचित्तादात्म्यं प्रतिपाद्यते तदा द्रव्येषु द्रव्यत्वसमानपरिणामोद्रव्यस्वरूप- म् एव, तस्य च द्रव्यत्वपरिणामस्य सत्त्वादिसमानपरिणामा- १०न्तरं द्रव्यस्यैव प्रतीयते ततो ऽर्थान्तरभूतस्यद्रव्यत्वपरिणाम- स्यासंभवाद् इति कुतो ऽनवस्थाऽवकाशं लभते ? यदि वायेष्व् एव द्रव्येषु द्रव्यत्वसमानपरिणामस् तेष्व् एवसत्त्वादिपरिणामान्तराणि व्यवतिष्ठंते, केवलं तैर् इवैकार्थसमवायबलात्द्रव्यत्वसमानपरि- णामो व्यपदिश्यते संख्यादिगुणान्तरैर् इव रूपादिगुणा इतिसर्वं १५निरवद्यंभेदाभेदोभयनयप्रधानभावार्पितसमानपरिणामल- क्षणासामान्यविषक्तभेदविधिव्यवच्छेदविधायित्वनिश्चयाद्वाक्य- स्यान्यथा निर्विषयत्वप्रसंगात् । यथा चाभेदबुद्धेर्द्रव्यत्वादि- व्यक्तेर् अविशिष्टता स्यात् तथा व्यावृत्तिबुद्धेश् च विशिष्टताते भगवतः स्याद् वाददिवाकरस्येति संप्रतीयते, विसदृशपरिणामलक्षणोहि २०विशेषस् तद्विषक्तताविशिष्टता सा चेदम् अस्माद्व्यावृत्तम् इतिव्या- १५९वृत्तिबुद्धेर् अध्यवसीयते । ननु चायं विशेषोऽस्माद्विशेषान्तराद् व्यावृत्त इति व्यावृत्तिबुद्धेर् अपि विशेषेषुविशेषांतरसिद्धिप्रसं- गाद् अनवस्था स्यात् तत्र विशेषान्तराभावे ऽपिव्यावृत्तिबुद्धेः संभ- वे सर्वत्र ततो विशेषसिद्धिर् न भवेद् इति केचित् । ते ऽपिन ०५समीचीनबुद्धयः, समानपरिणामद्भेदाभेदनयप्राधान्यादनव- स्थानुपपत्तेः, भेदनयाद् आनंत्यसिद्धेर् विशेषाणामभेदनयाच् च द्रव्येष्व् एव विशेषान्तराणाम् अपि संभवात्, भेदाभेदनयात्तु तदे- कार्थसमवायिभिर् विशेषान्तरैर् विशेषस्यविवक्षितव्यपदेशसिद्धेः व्यावृत्तिबुद्धेर् विशिष्टतासाधनं साधीय एवान्वयबुद्धेःसमान- १०तासाधनवत् ततोविशेषसामान्यविषक्तभेदविधिव्यवच्छेदवि- वायि वाक्यम् इति सूरिभिर् अभिधीयते प्रातीतिकत्वात् । यथा च विशेषसामान्यविषक्तभेदविधिव्यवच्छेदात्मको विषयः प्रतीतिबलाद् वाक्यस्य व्यवस्थापितस् तथा वाक्यमपि परमागमलक्षणं तदात्मकम् एवेति प्रतिपादयन्ति — १५सर्वान्तवत् तद्गुणमुख्यकल्पं सर्वान्तशून्यं च मिथोनपेक्षम् । सर्वापदाम् अन्तकरं निरन्तं सर्वोदयं तीर्थम् इदं तवैव ॥ ६२ ॥ सर्वे च ते ऽन्ताश् चेति स्वपदार्थवृत्तेर्मत्वर्थीयः प्रत्ययो २०युज्यते ऽन्यपदार्थवृत्तेः परत्वे ऽपि सर्वशद्बादौतदपवादाज् जात्य- र्थादिवत्, सर्वे ऽन्ताः यस्य तत्सर्वान्तम् इति परत्वाद्बहुब्[? :व्]रीहौ सति १६०तेनैव मत्त्वर्थस्य प्रतिपादनात् मत्वर्थीयो नस्याद् वीरपुरुषको ग्राम इति यथा, सर्वशब्दादेस् तु पदाद् अन्यत्रबहुब्[? :व्]रीहिर् इत्य् अप- वादवचनात् सर्वशब्दादेः पदस्य कर्मधारय एव भवतियथा सर्व- वीजी कर्षकः सर्वकेशी नट इति तेन सर्वान्ताः संत्यस्मिन्निति ०५सर्वान्तवत्तीर्थम् इदं परमागमवाक्यम् इति संबंधनीयं । तरति संसारमहार्णवं येन निमित्तेन तत् तीर्थम् इति व्युत्पत्तेः । सर्वा- न्ताः पुनरशेषधर्माविशेषसामान्यात्मकद्रव्यपर्यायव्यक्तिवि- धिव्यवच्छेदाः प्रतिपत्तव्याः समासतस् तैर् एवानंतानामपि धर्मा- णां संग्रहात् । तत्र स्याद् अस्त्य् एव वाक्यंस्वरूपादिचतुष्टया- १०द् इति विधिधर्मवाक्यं, स्यान् नास्त्य् एव पररूपादिचतुष्टयादिति व्यवच्छेदधर्मवाक्यं स्वरूपं तु व्[? :ब्]अहिर्वाक्यस्यपरस्परापेक्षया पदसमूहो निराकांक्षः सहभुवाम् इव नानाप्रवक्तृकाणांक्रमभुवा- म् अपि समूहस्य व्यवहारसिद्धेः प्रत्यासत्तिविशेषसद्भावात् । अ- न्तर्वाक्यस्य तु पूर्वपूर्वपदज्ञानाहितसंस्कारस्यात्मनोऽन्त्यपदज्ञा- १५नात् समुदायार्थप्रतिभासस् तद्व्यतिरिक्तस्य स्फोटस्य प्रागेव प्र- तिक्षिप्तत्वात् तद् एतत् द्विविधम् अपि वाक्यं स्वरूपत एवास्तिन पुनः पररूपतः सर्वात्मकत्वप्रसंगात्, पररूपत एव च नास्तिन पुनः स्वरूपतः सर्वाभावप्रसंगात् । ततो वस्तुत्वसिद्धिःस्पपररूपो- पादानापोहनात्मकत्वाद् वस्तुनः तथा स्वद्रव्यं शब्दस्य तद्योग्य- २०पुद्गलद्रव्यं शब्दात्मनो वाक्यस्यशुद्गलपर्यायत्वव्यवस्थितेः । पर्यायो हि कार्यद्रव्यरूपो गुणरूपः क्रियारूपोवानाद्यपर्यन्तद्र- १६१व्यस्य स्याद्वादिभिर् अभिधीयते । तत्रपुद्गलद्रव्यस्यानादिनिध- नस्य पर्यायः शब्दो द्रव्यम् अनित्यम् इति तावन् निश्चीयते, द्रव्यं शब्दः क्रियागुणयोगित्वात् पृथिव्यादिवत्, क्रियावांश् च शब्दः प्रव- क्तृदेशाद् देशान्तरप्राप्तिदर्शनात्, सायकादिवत् तथासंख्यासंयोग- ०५विभागादिगुणाश्रयत्वेन प्रतीयमानत्वात् गुणवान् अपि शब्दः प्रसिद्धः पृथिव्यादिवद् एव । न हि शब्देषु संख्या नप्रतिभासते कस्यचिद् एकं वाक्यं द्वे वाक्ये त्रीणि वाक्यानीत्यादिसंख्या- प्रत्ययस्याबाध्यमानस्य प्रतीयमानत्वात्, तथा क्षकारादीनां संयुक्ताक्षराणां प्रतीतेः संयोगो [? :’]पि शब्दानां प्रतीयतएव, १०क्षकारादेर् जात्यन्तरस्योत्पत्तेरसंयोगात्मकत्वपरिकल्पनायां दंड- पुरुषसंयोगो ऽपि मा भूत् तथा दंडिनो जात्यंतरस्यद्रव्यस्य प्रादु- र्भावाद् इति सर्वं प्रतितिबाधितम् अनुषज्यते । ततःप्रतीतिम् अ- बाधिताम् इच्छद्भिः शब्दः क्रियागुणयोगी तथा प्रतीतेरभ्युपगं- तव्यः । एतेन न क्रियागुणयोगी शब्दो ऽवरगुणत्वात्तन्महत्त्वव- १५द् इत्य् अनुमानं प्रत्युक्तं पक्षस्य प्रत्यक्षानुमानबाधित्वात्कालात्य- यापदिष्टत्वाच् च हेतोः शब्दस्याकाशगुणत्वासिद्धेश् च । आकाशवि- शेषगुणः शब्दः सामान्यविशेषवत्त्वेसत्याकाशात्मककरणग्राह्य- त्वात् । यो पदात्मककरणग्राह्यः स तद्विशेषगुणो दृष्टोयथा पृथि- व्यात्मककरणग्राह्यो गंधः पृथिवीविशेषगुणः, आकाशात्मकश्रो- २०त्रग्राह्यश् च शब्दस् तस्माद् आकाशविशेषगुण इत्यनुमानादाकाशवि- शेषगुणत्वसिद्धिर् इत्य् अपि न सम्यक्, सत्प्रतिपक्षत्वादनुमानस्य । तथा हि — नाकाशविशेषगुणः शब्दः सामान्यविशेषवत्त्वे सति १६२वाह्योन्द्रियप्रत्यक्षत्वाद् गंधादिवद् इतिप्रतिपक्षानुमानस्य सत्यस्य सद्भावः, तथा न गुणः शब्दः संस्कारवत्त्वाद् वाणादिवदित्य् अनुमा- नस्य च प्रतिद्वंद्विनः संप्रत्ययात् । संस्कारवत्त्वमसिद्धं शब्दस्येति चेत्, न, वेगस्य संस्कारस्य शब्देषु भावात् वक्तृव्यापाराद् उ- ०५त्पन्नस्य शब्दस्य यावद् वेगं प्रसर्पणात् । शब्दस्यप्रसर्पणम् असिद्धं शब्दान्तरारंभकत्वाद् इति चेत्, स तर्हि वक्तृव्यापारादेकःशब्दः प्रादुर् भवत्य् अनेको वा ? यद्य् एकस् तर्हि कथं नानादिक्कान्नानाशब्दा- न् आरभेत सकृद् इति चिंतनीयं । सर्वदिक्कनानाताल्वादिंसंयोगज- नितवाय्वाकाशसंयोगानाम् असमवायिकारणानां भावात्, सम- १०वायिकारणस्य चाकाशस्य सर्वगतत्वात्, सर्वादिक्कनानाशब्दा- न् आरभते सकृद् एको ऽपि शब्द इति चेत्; नैवं, तेषांशब्दस्यारंभ- कत्वस्याप्य् अनुपपत्तेः । यथैव ह्य् आद्यः शब्दो नशब्दान्तरजस्ता- ल्वाद्याकाशसंयोगाद् एवासमवायिकारणाद् उत्पत्तेस् तथासर्वदिक्क- शब्दान्तराण्य् अपि न शब्दारब्धानि ताल्वादिव्यापारजनितवा- १५य्वाकाशसंयोगेभ्य एवासमवायिकारणेभ्यस् तेषामुत्पत्तिघटना- त्, तथोपगमे च संयोगाद् विभागाच् छब्दाच् चशब्दास्योत्पत्तिर् इति सिद्धांतव्याघातः । शब्दान्तराणां प्रथमः शब्दोऽसमवायिकारणं तत्सदृशत्वाद् अन्यथा तद्विसदृशशब्दान्तरोत्पत्तिप्रसंगोनियामका- भावाद् इति (केचि) चेत्, न, प्रथमशब्दस्यशब्दान्तरसदृशस्यान्य- २०शब्दाद् असमवायिकारणाद् उत्पत्तिप्रसंगात् तस्याप्यपरपूर्वशब्दाद् इति शब्दसंतानस्यानादित्वापत्तिः । यदि पुनः प्रथमः शब्दःप्रवक्तृ- व्यापाराद् एव प्रतिनियताद् एवोत्पन्नः स्वसदृशानिशब्दान्तराण्य् आ- १६३रभत इति मतं तदा तत एव प्रवक्तृव्यापारात्प्रतिनियतवाय्वाका- शसंयोगेभ्यस् तत्सदृशानि शब्दान्तराणि प्रादुर्भवन्तु किमाद्येन शब्देनासमवायिकारणेनेति न शब्दाच् छब्दस्योत्पत्तिर्घटते, नैकः शब्दः शब्दान्तराणाम् आरंभकः संभवति । अथाऽनेकः शब्दः ०५प्रथमत उत्पन्नः शब्दान्तराणि नानादिक्कान्यारभते इतिद्विती- यः पक्षः कक्षीक्रियते तत्राऽप्य् एकस्मात्ताल्वाद्याकाशसंयोगात् क- थम् अनेकः शब्दः प्रादुर्भवेद् अहेतुकत्वप्रसंगाद् एकस्मादेकस्यैवोत्पत्तेः शेषस्य हेत्वभावात् । न चानेकताल्वाद्याकाशसंयोगः सकृद् ए- कस्य वक्तुः संभवति प्रयत्नैकत्वात्, न च प्रयत्नमन्तरेण ताल्वा- १०दिक्रियापूर्वको ऽन्यतरकर्मजस् ताल्वाद्याकाशसंयोगःप्रसूयते यतो ऽनेकः शब्दः स्यात् । प्रादुर्भवन् वा कुतश्चिद् आद्यःशब्दो- ऽनेकः स्वदेश शब्दान्तराण्य् आरभते देशान्तरे वा ? न ताव- त् स्वदेशे देशान्तरेषु तच्छ्रवणविरोधात्भिन्नदेशस्थश्रोतृजन- श्रोत्रेषु समवायाभावात्, तत्रासमवेतस्याप्य् अनेकस्यशब्दान्तरस्य १५श्रवणो श्रोत्रस्याप्राप्यकारित्वापत्तेःशब्दान्तरारंभपरिकल्पना- वैपर्थ्याच् चाद्यस्यैव शब्दस्य नानादिक्कैर्यौग्यदेशस्थैः श्रोतृभिः श्रवणस्योत्पत्तेः, अनेकाद्यशब्दपरिकल्पनावैयर्थ्याच् चतस्यैकस्यै- व स्वदेशे प्रादुर्भूतस्य नानाश्रोतृभिर् उपलंभात् स्वदेशेसतो रूपस्य नानादृष्टिभिर् उपलंभवत् । स्यान् मतं, नायनरशमयः प्राप्य २०रूपम् एकदेशवर्त्त्य् अपि नानाद्रष्टृजनानां रूपोपलंभंजनयंति न पुनर् अप्राप्य येन रूपोपलंभो दृष्टान्तःशब्दोपलंभस्याप्राप्तेर् एव श्रोत्रैः साध्यत इति तद् अपि न श्रेयः । श्रोत्रविवत्तविशेषैः प्रा- १६४प्तस्यैव शब्दस्योपलंभप्रसंगात् । शक्यं हिवक्तुं नानादेशस्थ- जनकरणानि प्राप्य शब्दम् एकम् उपलंभयन्ति सकृन्नानादिग्देश- वर्तिभिः प्रतिपत्तृभिर् उपलभ्यमानत्वात् रूपवद् इति । गंधेन व्य- भिचार इति चेत् न, तस्यापि पक्षीकृतत्वात्, सो ऽपि कस्तूरि- ०५कादिद्रव्यवर्त्ती नानादिग्देशवर्तिभिर् जनैर् उपलभ्यमानःस्वस्व- घ्राणकरणैः कथंचित् संप्राप्त एवोपलंभहेतुर् घटतेगंधस्य देशान्त- रस्थजनघ्राणेषु गमनासंभवाद् गुणस्य निष्क्रियत्वाद्गंधपरमा- णूनां गमने ऽपि तत्समवेतगंधस्यानुपलभ्यमानत्वात्, अनेकद्रव्ये- ण समवायाद्रुपविशेषाच् च रूपोपलब्धिर् इत्य् अनुवर्त्तमाने, एतेन गंध- १०रसस्पर्शेषु ज्ञानं व्याख्यातम् इति वैशेषिकैर् अभिधानात् । गन्ध- द्रव्यावयविनाम् उपलब्धिलक्षणप्राप्तानां देशान्तरेषु गमनेतु मौल- कस्तूरिकादिद्रव्यव्ययप्रसंगस् तस्यैव सर्वदिक्कंखंडावयविरूपा- वयवानां तदारंभकानां गमनात् । यदि पुनने कस्तूरिकादि- द्रव्यस्य परमाणवो गंधसमवायिनो गच्छंति नाऽपिखंडावय- १५विनस् तदारंभकावयवास् ततो गन्धद्रव्यान्तराणाम् उत्पत्तेरिति मतं, तदाऽपि तदारंभकैः पार्थिवैः परमाणुभिर् भवितव्यंद्व्यणुकादि- भिर् वाऽनुपलंभैर् एवोपलब्धिलक्षणप्राप्तानांपार्थिवावयविनाम् उप- लब्धिप्रसंगात् । न चानुपलब्धिलक्षणप्राप्तैःपार्थिवद्रव्यैर् आरब्धेषु द्रव्यांतरेषु समवेतस्य गंधस्योपलब्धिर् युज्यतेपरमाणुसमवेतगं- २०धवद् इति न गन्धद्रव्यान्तराणि कस्तूरिकादिगन्धद्रव्यामारभन्ते यतः प्राप्तान्य् एव दूरस्थप्रतिपत्तृघ्राणतद्विषयतामनुभवेयुर् घ्राणेन्द्रि- यविवृतिभिस् तु गत्वा गन्धस्य ग्रहणे प्रोक्तदोषानवकाशैति १६५श्रोत्रघ्राणरसनस्पर्शनानि गत्वा स्वविषयज्ञानंजनयन्ति वा- ह्येन्द्रियत्वाच् चक्षुर्वदन्यथा तेषाम् अप्राप्यकारित्वप्रसंगात् । ततो न व्यभिचारः शब्दस्य नानादिक्कजनकरणैर्ग्रहणासाधनस्योक्तहे- तोर् इति नाद्याद् अनेकस्माद् अपि शब्दाच् छाब्दान्तरोत्पत्तिःसंभव- ०५तीति सर्वदिक्कपरापरशब्दप्रसर्पणं यावद् वेगमभ्युपगन्तव्यं । तथा च संस्काराख्यगुणयोगित्वं नासिद्धं यतः सूक्तम् इदं न स्यात्ऽन गुणः शब्दः संस्कारवत्त्वाद् वाणादिवद् इति । ऽपुद्गलद्रव्यपर्यायात्म- कत्वे तु गंधादिवद् इत्य् अभ्यनुज्ञायमाने न किंचिद् बाधकमस्ति । ननु च न स्पर्शवत् द्रव्यगुणः शब्दो ऽस्मदादिप्रत्यक्षत्वेसत्यकारणगु- १०णपूर्वकत्वात् सुखादिवद् इति बाधकसद्भावान् नपुद्गलद्रव्यपर्यायत्वं शब्दस्य व्यवतिष्ठते सुखादेर् अपि तथाभावप्रसंगाद् इतिकश्चित् । सो ऽ- पि स्वदर्शनपक्षपाती, परीक्ष्यमाणस्याकारणगुणपूर्वकत्वस्यासिद्ध- त्वात्, कारणगुणपूर्वकः शब्दः पुद्गलस्कन्धपर्यायत्वाच्छायात- पादिवत्, पुद्गलस्कंधपर्यायः शब्दोऽस्मदादिवाह्येन्द्रियप्रत्यक्षत्वा- १५त् तद्वत् । न घटत्वादिसामान्येन व्यभिचारस् तस्यापिसमानपरिणा- मलक्षणस्य पुद्गलद्रव्यपर्यायत्वसिद्धेः तदसिद्धमेवाकारणगुण- पूर्वकत्वं शब्दस्य न साध्यसिद्धिनिबंधनंकारणगुणपूर्वकत्वेन साधनात् । हेतुविशेषणं चास्मदादिप्रत्यक्षत्वे सतीतिव्यर्थम् एव । परमाणुरूपादिव्यभिचारनिवृत्त्यर्थं तद् इति चेत् न, परमाणु- २०रूपादीनाम् अपि कारणगुणपूर्वकत्वसिं[? :ओम्.]द्धेः, परमाणूनां स्कंधभे- दकार्यत्वात् तदगुणपूर्वकव्यवस्थितेः परमाणु रूपादीनामिति निर्णीतप्रायं । यद् अप्य् उक्तं न स्पर्शवद्द्रव्यगुणः शब्दोऽस्मदादि- १६६प्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्वात् सुखादिवदिति, तद् अप्य् अयुक्तं विरुद्धत्वात् साधनस्य । तथा हि — स्पर्शवद्द्रव्यगुणःशब्दो ऽस्मदा- दिप्रत्यक्षत्वे सत्ययावद्द्रव्यभावित्त्वाद् रूपादिविशेषवत्, नात्र साधनिविकलम् उदाहरणं रूपादिविशेषाणांयावत्पुद्गलद्रव्यम् अ- ०५भावात् पूर्वरूपादिविनाशाद् उत्तररूपादिविशेषप्रादुर्भावात् । नाऽपि साध्यविकलं रूपादिविशेषाणां स्पर्शवद्द्रव्यगुणत्वाव- स्थितेः । सुखादिभिर् व्याभिचारः साधनस्येति चेत्, नास्मदा- दिप्रत्यक्षत्वे सतीति विशेषणात् । न च सुखादयःशब्दवद्ऽस्म- दादीनां बहूनां प्रत्यक्षाः, स्वसंवेदनप्रत्यक्षेण तुकस्यचित् १०सुखादयः स्वस्यैव प्रत्यक्षा न पुनर् नानास्मदादीनाम् इतिन तै- र् व्यभिचारः । स्वस्याप्य् अस्मदादिग्रहणेन गृहीतत्वात्स्वप्रत्यक्ष- त्वम् अप्य् अस्मदादिप्रत्यक्षत्वं सुखादीनांप्रत्यक्षसामान्यापेक्षयास्म- दादिप्रत्यक्षत्ववचनाद् इति चेत्, तथाऽपि न सुखादिभिर्व्य- भिचारः, स्याद्वादिभिः सांसारिकसुखादीनां कथंचित्स्पर्शवद्- १५द्रव्यगुणत्वस्य प्रतिज्ञानात् । यथैव ह्य् आत्मपर्यायाःसुखादयश् चिद्रू- पसमन्वयास् तथा सद्वेद्यादिपौद्गलिककर्मद्रव्यपर्यायाश्च, स्वपरतं- त्रीकरणरूपसमन्वयाद् [? ]औदयिकभावानांकर्मद्रव्यस्वभावत्वसिद्धेः । मुक्तसुखज्ञानदर्शनादिभिस् तु गुणैरस्पर्शवद्द्रव्यात्मगुणैर् न व्य- भिचारस् तेषाम् अस्मदाद्यप्रत्यक्षत्वादस्मदादिविशिष्टयोगिप्रत्यक्ष- २०विषयत्वात् तेषाम् अयावदू[? ]द्रव्यभावित्वाभावाच् चानंतत्वेनयावद् आत्म- द्रव्यं भवनशीलत्वात् । ततो निरवद्यम् एवविरुद्धसाधनत्वम् एतस्य हेतोर् इति स्पर्शवद् द्रव्यपर्याय एव शब्दः प्रतीतिबलात्सिद्धिः । १६७शब्दयोग्यपुद्गलानां सर्वत्र भावाद् अन्यथाकचित्त[? ]ल्वादिकारण- सद्भावे ऽपि शब्दपरिणामानुत्पत्तिप्रसंगात् । न चशब्दपरिणा- मनिमित्तसन्निधौ क्वचित् कदाचिच् छब्दानुत्पत्तिः स्यात् स चश- ब्दपरिणामो नैक एव नानाश्रोतृभिः श्रवणविरोधात् । श्रोत्रस्या- ०५प्राप्यकारित्वान् न तद्विरोध इति चेत्; न, तस्याप्राप्यकारित्वे कर्णशष्कुल्यन्तः प्रविष्टमशकशब्दग्रहणयोगात् चक्षुषोऽप्रा- प्यकारिणः तारकाप्राप्तांजनादिग्रहणदर्शनात् तथा चेदमभिधी- यते — नाप्राप्यकारि श्रोत्रं प्राप्तशब्दग्रहणात् स्पर्शनादिवत्, यत् पु- नर् अप्राप्यकारि तन् न प्राप्तविषयग्राहि दृष्टं यथा चक्षुरिति नि- १०श्चितव्यतिरेकाद् अनुमानाद् अप्राप्यकारित्वप्रतिषेधः श्रोत्रस्यश्रेया- न् एव । ननु चाप्राप्यकारिणा मनसा प्राप्तस्य सुखादेर्ग्रहणाद् व्यभिचार इति चेन् न सुखादेर् आत्मनि समवेतस्य मनसाप्राप्त्य- भावात् । मनसा संयुक्ते पुंसि सुखादेः समवायात्संयुक्तस- मवायाप्राप्तिर् इति चेत् न, दूरस्थैर् अपि मनसःप्राप्तिप्रसंगात्, १५मनसा संयुक्तस्यात्मनस् तैः संयोगात् संयुक्तसंयोगस्यप्राप्ति- त्वात्, साक्षात् तैर् अप्राप्तिर् मनस इति चेत्, सुखादिभिर् अपिसाक्षा- त्प्राप्तिः किम् अस्ति ? परंपरया तैर् भनसः प्राप्तिस् तु नप्राप्यकारित्वं साधयति दूरार्थैर् इवेति सर्वत्राऽप्य् अप्राप्यकारित्वेमनसस् ततो न तेन व्यभिचार इति श्रेयान् एव श्रोत्रस्यप्राप्यकारित्वसाधनो २०हेतुः । ये त्व् आहुः शब्दो ऽप्राप्त एवेंद्रियेण गृह्यतेदूरादित्वेन गृह्यमाणत्वाद् रूपवद् इति । ते ऽपि न परीक्षकाः, गंधेनव्यभिचा- रात् साधनस्य । गन्धद्रव्यस्य गन्धाधिष्ठानस्यदूरादित्वात् १६८गंधस्य दूरादित्वेन गृह्यमाणत्वान् न तेनव्यभिचार इति चेत् न, शब्दस्यापि तदधिष्ठानभेर्यादिदूरादित्वेन दूरे शब्दोदूरतरे दूरतमे वेति ग्रहणाद् उपचारात्, दूरादित्वेन गृह्यमाणत्वस्यहेतोः परमार्थतो ऽसिद्धत्वापत्तेः । ततः प्राप्त एव शब्दोविवादा- ०५पन्नः परिगृह्यते शब्दत्वात्कर्णशष्कुल्यन्तःप्रविष्टमशकशब्द- वद् इति प्राप्यकारि श्रोत्रं सिद्धं । तथा चैकस्य शब्दस्ययुग- न्नानादेशस्थजनश्रोत्रैः प्राप्त्यसंभवान्नानाशब्दपरिणामाः सर्व- दिक्काः प्रजायन्ते स्वप्रतिबन्धककुड्याद्यसंभवेस्वावरोधकनलि- काद्यसंभवे च स्वप्रतिघातकघनतरकुड्यादिविरहे चसति गंध- १०परिणामवत्, समानाश् च सर्वे गवादिशब्दविवर्त्ताःसमानताल्वा- दिकारणप्रभवत्वात् समानकस्तरिकादिद्रव्यप्रभवगन्धविवर्त्तवत्, शब्दोपादानपुद्गलानां सर्वशब्दपरिणामसमर्थानां सर्वत्रसद्भा- वे ऽपि प्रतिनियतहेतुवशात् प्रतिविशिष्टशब्दपरिणामाश् चनिश्ची- यन्ते, गन्धोपादानपुद्गलानां सर्वेषां सर्वत्रसर्वगन्धपरिणाम- १५समर्थानां संभवे ऽपि प्रतिनियतहेतुगन्धवशात्प्रतिविशिष्टगन्ध- परिणामवत् । ननु च वायव एव शब्दोपादानं तेषां सर्वत्र सर्वदासद्भा- वाद् अन्यथा व्यंजनादिना तदभिव्यक्तेर् अयोगाद्वेगवद्वाय्वन्तरेणा- भिघाताच् चेति केचित् । ते ऽपि वायवीयं शब्दम् आचक्षाणाःश्रो- २०त्रग्राह्यं कथम् आचक्षीरन् तस्य स्पर्शनग्राह्यत्वप्रसंगात्स्पर्शवत् । तथा हि — वायवीयस्पर्शनेन्द्रियग्राह्यः शब्दोवाय्वसाधारणगु- णत्वात्, यो यदसाधारणगुणः स तदिन्द्रियग्राह्यः सिद्धोयथा १६९पृथिव्यप्तेजो ऽसाधारणगुणोगंधरसरूपविशेषगुणः पार्थिवाप्य- तैजसघ्राणरसननयनेन्द्रियग्राह्यः, वाय्वसाधारणगुणश्च शब्द- स् तस्माद् वायवीयस्पर्शनेन्द्रियग्राह्य इतिश्रोत्रपरिकल्पनावैयर्थ्य- म् आपद्यते । यदि पुनर् आकाशसहकारिकरणात्वाच्छब्दस्याकाश- ०५समवायेन श्रोत्रेण ग्रहणम् उररीक्रियते तदा स्पर्शस्याऽपिश्रोत्र- ग्राह्यत्वप्रसंग स्तस्याप्य् आकाशसहकारिवायूपादानत्वाच्छब्दवत् । गन्धादीनां च श्रोत्रवेद्यत्वं स्यादाकाशसहकारिपृथिव्याद्युपा- दनत्वात् । न ह्याकाशं कस्यचिद् उत्पत्तौ स्वोपादानात् सहकारिन भवेत्, सर्वोत्पत्तिमतां निमित्तकारणात् कालादिवत् । स्यान्मतं, १०नाऽयं नियमो ऽस्ति यो यदसाधारणगुणः स तदिन्द्रिय- ग्राह्य इति पार्थिवस्य पंचप्रकारस्य वर्णस्यषट्प्रकारस्य रसस्या- नुष्णाशीतस्य पाकजस्य स्पर्शस्य चपार्थिवघ्राणेंद्रियग्राह्यत्व- प्रसंगात् तथा शीतस्पर्शस्य शीतस्य च रूपस्याप्यरसनेन्द्रियवेद्य- त्वं, तैजसस्य चोष्णस्पर्शस्य तैजसचक्षुर् वेद्यत्वंकथं विनिवार्येत ? १५तन्नियमकल्पनायाम् इति यस्य यस्माद् इंद्रियाद् विज्ञानमुत्पद्यते तस्य तदिंद्रियग्राह्यत्वं ब्यवतिष्ठते तथा प्रतीतेरतिलंघयितुम् अशक्तेः केव- लमिंद्रियस्य प्रतिनियतद्रव्योपादानत्वं साध्यतेप्रतिनियतगुण- ग्राहयकत्वाद् इति । तद् एतद् असारं, प्रतिनियतद्रव्योपादनत्व- स्य घ्राणादीनां साधयितुम् अशक्यत्वात् । पार्थिवं घ्राणंरूपा- २०दिषु सन्निहितेषु पार्थिवगन्धस्यैवाभिव्यंजकत्वान्नागकर्णि- काविमर्दककरतलवद् इत्य् अनुमानस्य सूर्यरश्मिभिर् उदकसेकेन चानेकान्तात् । दृश्यते हि तैलाभ्यक्तस्य सूर्यमरीचि- १७०भिर् गन्धाभिव्यक्तिर् भूमेस् तूदकस् एकेनेति । तथारसनेंद्रियम् आप्य- म् एव रूपादिषु सन्निहितेषु रसस्यैवाभिव्यंजकत्वाल् लालावदि- त्य् अत्राऽपि हेतोर् लवणेन व्यभिचारात् तस्यानाप्यत्वेनरसाभिव्यं- जकत्वसिद्धेः । तथा चक्षुस् तैजसम् एव रूपादिषुसन्निहितेषु रूप- ०५स्यैवाभिव्यंजकत्वात् प्रदीपादिवद् इत्य् अत्राऽपि हेतोर्माणिक्योद्यो- तेन व्यभिचारात् । न च माणिक्यप्रभा तैजसीमूलोष्णद्रव्य- वती प्रभा तेजस्तद्विपरीता भूर् इति वचनात् । तथावायव्यं स्पर्शनं रूपादिषु सन्निहितेषु स्पर्शस्यैवाभिव्यंजकत्वात्तोयशीतस्पर्शव्यंज- कवाय्ववयविवद् इत्य् अत्राऽपि कर्पूरादिनासलिलशीतस्पर्शव्यंजकेन १०हेतोर् व्यभिचारात्, पृथिव्यप्तेजःस्पर्शाभिव्यंजकत्वाच् चस्पर्शनेन्द्रियस्य पृथिव्यादिकार्यत्वप्रसंगाच् च वायुस्पर्शाभिव्यंजकत्वाद्वायुकार्यत्ववत् एतेन चक्षुषस् तेजोरूपाभिव्यंजकत्वात् तेजःकार्यत्ववत्पृथिव्यप्स- मवायिरूपव्यंजकत्वात् पृथिव्यप्कार्यत्वप्रसंगःप्रतिपादितः । रस- नस्य चाप्य् अरसाभिव्यंजकत्वादपकार्यत्ववत्पृथ्वीरसाभिव्यंजक- १५त्वात् पृथिवीकार्यत्वप्रसंगश् च तथा नाभसं श्रोत्रंरूपादिषु सन्निहि- तेषु शब्दस्यैवाभिव्यंजकत्वात्, यत् पुनर् न नाभसं तत्रशब्दाभि- व्यंजकं यथा घ्राणादि, शब्दस्याभिव्यंजकं च श्रोत्रंत- स्मान् नाभसम् इत्य् अनुमानस्याप्य् अप्रयोजकत्वात्नभोगुणत्वासिद्धेः शब्दस्य समर्थनात् नभसि समवेतस्य ग्रहणसंभवात् । ततो २०नेन्द्रियाणि प्रतिनियतभूतप्रकृतीनि व्यवतिष्ठन्तेप्रमाणाभा- वात् प्रतिनियतेंद्रिययोग्यपुद्गलारब्धानि तु द्रव्येंद्रियाणिप्रति- नियतभावेन्द्रियोपकरणत्वान्यथाऽनुपपत्तेर् भावेन्द्रियाणामेव स्प- १७१र्शनादीनांस्पर्शादिज्ञानावरणवीर्यान्तरायक्षयोपशमविशेषलक्ष- णानां स्पर्शादिप्रकाशकत्वसिद्धेर् इति पौद्गलिकः शब्दःपौद्गलि- कद्रव्येन्द्रियाभिव्यंग्यत्वात् स्पर्शरसगन्धवर्णवत्, नपुनर्वायवीयो नभोगुणो वा सर्वगतमूर्त्तनित्यद्रव्य वा प्रमाणाभावात् । प्रपं- ०५चतः प्रतिपादितं चैतत् तत्त्वार्थालंकारे प्रतिपत्तव्यं । तेन शब्दस्य द्रव्यं पुद्गलाख्यं व्[? :ब्]बहिरंगस्य निश्चीयते, तथा च स्वद्र- व्यतः शब्दात्मकं वाक्यम् अस्ति न परद्रव्यतःसर्वात्मकत्वप्रसं- गात्, परद्रव्यतश् च नास्ति वाक्यं न पुनः स्वद्रव्यतस्तस्याद्र- व्यात्मकत्वप्रसंगाद् इति विधिप्रतिषेधात्मकं वाक्यंसिद्धम् । १०तथा स्वक्षेत्रकालाभ्याम् अस्ति वाक्यं न परक्षेत्रकालाभ्यांसर्व- क्षेत्रकालात्मकत्वप्रसंगात्, परक्षेत्रकालाभ्याम् एव नास्तिन पुनः स्वक्षेत्रकालाभ्यां, तस्याक्षेत्रकालत्वापत्तेः । तद् एवंसामान्यतो विधिनिषेधात्मकं, वाक्यं सर्वान्तवत् कथ्यते सर्वान्तानांविधिनि- षेधाभ्यां संग्रहात्, तदनात्मकस्य कस्यचिदन्तस्यासंभवात् । वि- १५शेषतस् तु भेदाभेदात्मकं द्रव्यपर्यायव्यक्त्यात्मकत्वात्, तत्र द्रव्यं शब्दः क्रियावत्त्वाद् वाणादिवद् इतिशब्दयोग्यपुद्गलद्रव्यार्थादेशाद् द्रव्यत्वसिद्धिः तथा पर्यायः शब्दःप्रादुर्भावप्रध्वंसवत्त्वाद् गंधादिव- द् इति श्रवणज्ञानग्राह्यशब्दपर्यायार्थादेशाद् इतिपर्यायत्वसिद्धिः । तथा विसदृशपरिणामविशेषात्मकंसदृशपरिणामसामान्यात्मकं २०च वाक्यं शब्दद्रव्याणां शब्दपर्यायाणां च नानात्वात्परस्परा- पेक्षया समानेतरपरिणामसिद्धेर् गन्धादिद्रव्यपर्यायवदिति सर्वा- १७२न्तवद्वाक्यं सिद्धं द्रव्यपर्यायसामान्यविशेषेषुसर्वान्तानाम् अन्तर्भा- वात् सर्वस्यान्तस्य तत्स्वभावानतिक्रमात् । नन्व् एवं द्रव्यपर्यायसामान्यविशेषात्मकस्यसर्वान्तवत्त्वे वाक्यस्य युगपत् तथा व्यवहारप्रसंग इति न शंकनीयं, तद्गु- ०५णमुख्यकल्पम् इति वचनात् । द्रव्यस्य हि गुणत्वकल्पनायां पर्यायस्य मुख्यत्वकल्पनात् पर्यायो वाक्यम् इति व्यवहारःप्रव- र्त्तते पर्यायस्य तु गुणकल्पनत्वे मुख्यकल्पं द्रव्यम् इतिवाक्ये द्रव्यत्वव्यवहारः प्रतीयते तथा सामान्यस्य गुणकल्पत्वेविशे- षस्य मुख्यकल्पत्वाद् विशेषो वाक्यम् इति व्यवह्रियते, विशेषस्य १०च गुणकल्पत्वे सामान्यस्य मुख्यकल्पनात् सामान्यं वाक्यमिति व्यवहारात्, सुनिर्णीतासंभ[? :व]द्बाधकप्रमाणात्सर्वान्तवद्वाक्यं नि- श्चीयते, संकरव्यतिकरव्यतिर् एकेण सर्वान्तानां तत्रव्यवस्था- नाद् विरोधादीनां तत्रानवकाशात् परस्परापेक्षत्वात् । नचैवं पर- स्परनिरपेक्षम् अपि सर्वान्तवद् वाक्यं कल्पयितुं शक्यं"सर्वान्तशून्यं १५च मिथो ऽनपेक्षम्" इति वचनात् । न हि विधिनिरपेक्षोनिषेधो [? :’]- स्ति कस्यचित् कथंचित् क्वचिद्विधीयमानस्यैवान्यत्राऽन्यदान्यथा निषेध्यमानत्वदर्शनात्, नाऽपि निषेधनिरपेक्षोवि[? ]धिरस्ति सर्वस्य सर्वात्मकत्वप्रसंगात् । तथा न द्रव्यपर्यायौ मिथोऽनपेक्षौ तत्त- द्भावान्यथानुपपत्तेः, नापि सामान्यविशेषौ मिथो ऽनपेक्षौविद्येते २०तद्भावविरोधाद् इति सर्वान्तशून्यं न मिथोनपेक्षं वाक्यंसिद्धं; तद्विषयत्वात् परस्परनिरपेक्षाणां सर्वेषाम् अन्तानामेकत्वादीनां नि- रूप्यमाणानां सर्वथाऽप्य् असंभवात् । १७३तेन यद् उक्तं धर्मकीर्तिना- भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वतः । यस्माद् अनेकम् एकं च रूपं तेषां न विद्यते ॥ इति । तत् स्याद्वादिनाम् अभिमतम् एव । ०५तद् एतत् तु समायातं यद् वदन्ति विपश्चितः । यथा यथार्थाश् चिंत्यन्ते विशीर्यन्ते तथा तथा ॥ इत्यादिवत् । परस्परनिरपेक्षाणां केनचिद् रूपेणार्थानां व्यवस्थापयितुम् अशक्यत्वात् । ततः सर्वापदाम् अन्तकरंतवैव परमागमलक्षणं तीर्थं सकलदुर्नयानाम् अंतकरत्वात्तत्कारणशा- १०रीरिकमानसिकविविधदुःखलक्षणानाम् आपदामन्तकरत्वोपपत्तः । मिथ्यादर्शननिमित्ता हि सर्वाः प्राणिनाम् आपद इति सर्वमि- थ्यादर्शनानाम् अन्तकरं तीर्थं सर्वापदाम् अन्तकरंसिद्धं । तत एव निरंतं केनचिन् मिथ्यादर्शनेन विच्छेत्तुम् अशक्तेरविच्छेदत्व- सिद्धेः । तथा सर्वोदयं तीर्थम् इदं तवैत्र सर्वेषामभ्युदयकार- १५णानां सम्यग्दर्शनज्ञानचारित्रभेदानां हेतुत्वादभ्युदयहेतुत्वोप- पत्तेः । सर्व उदयो ऽभ्युदयो ऽस्माद् इति सर्वोदयं तीर्थमिदं तवै- वेति वचनात् । परेषां तदसंभवः सिद्ध एव । ननु परो ऽप्य् एवं ब्रूयान् नैरात्म्यवादिन एव तीर्थंसर्वोदयं सर्वापदामन्तकरं न पुनः परेषाम् इति । तद् उक्तम् — २०साहंकारे मनसि न शमं याति जन्मप्रबंधो नाहंकारश् चलति हृदयाद् आत्मदृष्टौ च सत्याम् । अन्यः शास्ता जगति च यतो नास्ति नैरात्म्यवादा-१७४न् नान्यस् तस्माद् उपशमविधेस् त्वन्मताद् अस्ति मार्गः ॥ इति तथाऽन्यः परमात्मवादी ब्रूयात् परमब्रह्मण एवतीर्थं स- र्वोदयं न परेषां नैरात्म्यवाद्यादीनां तत्रसंशयहेतुत्वात् । तथा चोक्तम् — ०५यो लोकाञ्ज्वलयत्य् अनल्पम् अहिमा सो ऽप्य् एष तेजोनिधि- र् यस्मिन् सत्य् अवभाति नासति पुनर् देवो ऽṃशुमाली स्वयम् । तस्मिन् बोधमयप्रकाशविशदे मोहान्धकारापहे, ये ऽन्तर्यामिनि पूरुषे प्रतिहताः संशेरते ते हताः ॥ एवम् अन्योपिश्वरवादीश्वरादेर् एव तीर्थं सर्वोदयम् इतिस्या- १०द्वादितीर्थम् अनेकधा द्वेष्टि । सो ऽपि — कामं द्विषन्न् अप्य् उपपत्तिचक्षुः समीक्षतां ते समदृष्टिर् इष्टम् । त्वयि ध्रुवं खंडितमानशृंगो भवत्य् अभद्रो ऽपि समन्तभद्रः ॥ ६३ ॥ १५कामं यथेष्टं स्वदुरागमवासनावशीकृतान्तःक- रणः सर्वथैकान्तवादी द्विषन्न् अपितवानेकान्तामृतसमुद्रस्य तीर्थं दर्शनमोहोदयाकुलितबुद्धिस् ते तवेष्टम् अनेकान्तात्मकमन्तर्व्[? :ब्]अहिश् च जीवादितत्त्वं समीक्षतां परीक्षतां समदृष्टिःसन्मध्यस्थवृत्तिरूपप- त्तिचक्षुर् भूत्वा, मात्सर्यचक्षुषस् तत्त्वसमीक्षायामनधिकाराद् असमदृ- २०ष्टेश् च रागद्वेषकलुषितात्मन इत्य् उभयविशेषेणवचनमुपपत्तिचक्षुः स- मदृष्टिर् इति, स तथा समीक्षमाणस् तवेष्टं शासनं त्वय्येव भगवति १७५खंडितमानशृंगो भवति ध्रुवम् इति संबंधः । मानो हि सर्वथै- कान्ताभिमानः स एव शृंगं स्वाश्रयस्य विवेकशून्यतयापशुकर- णात्, खंडितं प्रतिध्वस्तं मानशृंगं यस्य सखंडितमानशृंगः, परित्यक्तसर्वथैकान्ताभिमान इत्य् अर्थः । तथा चाऽभद्रोऽपि ०५मिथ्यादृष्टिर् अपि समंतभद्रः समन्ततः सम्यग्दृष्टिर्भवतीति तात्पर्यं । अभद्रं हि संसारदुःखम् अनंतं तत्कारणत्वान्मिथ्याद- र्शनम् अभद्रं तद्योगान् मिथ्यादृष्टिर् अभद्र इति कथ्यतेस च समदृष्टि- र् भूत्वोपपत्तिचक्षुषा समीक्षमाणस् तवैवेष्टंश्रद्धत्त्[? :ओम्.]ए सर्वथैकान्त- वादीष्टस्योपपत्तिशून्यत्वात् तत्रोपपत्तीनां मिथ्यात्वात्तदभिमा- १०नविनाशात्, तथा तवेष्टं श्रद्दधानश् च सम्यग्दृष्टिः स्यात्समन्ताद् भ- द्रस्य कल्याणस्यानंतसुखकारणस्य सम्यग्दर्शनस्यप्रादुर्भावा- त् समन्तभद्रो भवत्य् एव । सति दर्शनमोहविगमेपरीक्षायास् तत्का- रणत्वात्, तत्त्वपरिक्षा हि कुतश्चित्परीक्ष्यज्ञानावरणवीर्यान्तरा- यक्षयोपशमविशेषात् कस्यचित् क्वदाचित् कथंचित्प्रवर्त्तेत, सा च १५प्रवर्तमाना तत्त्वनिश्चयम् अतत्त्वव्यवच्छेदेन घटयति, तद्धटना च दर्शनमोहोपशमक्षयक्षयोपशमसद्भावे तत्त्वश्रद्धानंसम्यग्दर्शनं प्रादुर्भावयति । तेनोपपत्तिचक्षुषा समीक्षां विदधानःसम्यग्दृष्टिः समंतभद्रः स्याद् इति प्रतिपद्येमहि बाधकाभावात् । न हिपरी- क्षायाम् उपपत्तिबलान् नैरात्म्यम् एवोपशमविधेर् मार्ग इतिव्यवतिष्ठते । २०स्यान् मतं, जन्मप्रबंधस्य कारणम् अहंकारस् तद्भावेभावात् तद- भावे चाभावात् तस्य चाहंकारस्य कारणमात्मदृष्टिः साच-[? :ओम्.] नैरात्म्यभावनया तद्विरुद्धया प्रशम्यते तदुपशमाच्चाहंकारश् चे- १७६तसि समूलतलम् उपशाम्यति तदुपशमाच् च देहिनांजन्मप्रबंध- स्योपशमो निश्चीयते तेन तत्कारणाभावात् तेनोपपत्तिवलादेवो- पशमविधेर् नैरात्म्यभावनैव मार्गः समवतिष्ठते । तदसद् एव, आ- त्मदर्शनस्यैव जन्मप्रबंधोपशमविधिमार्गत्वोपपत्तेस्तथा हि — ज- ०५न्मप्रबंधस्य हेतुर् अहंकारो मोहोदयनिमित्तोऽहंतामात्रनिमित्तो वा ? प्रथमपक्षे नात्मदृष्टिहेतुकः स्याद् अविद्यातृष्णाक्षयेऽपि चि- त्तमात्रनिबंधनत्वप्रसंगात् । सत्य् एवाविद्यातृष्णोदयेचित्तम् अहंका- रस्य हेतुर् इति चेत्, तर्हि सत्येव मोहोदये ऽहंकारहेतुरात्मदृष्टि- र् इति किम् अनुपपन्नं । द्वितीयपक्षे तु युक्तिविरोधःसंसारस्याहं- १०तामात्रनिमित्तत्वे मुक्तस्यापि संसारप्रसंगात्, ततोनाहंतामात्रं जन्मप्रबंधहेतुर् अविद्य तृष्णाशून्यात्वात्सुगतचित्ताहंतामात्रवद् इत्य् उ- पपत्त्याऽहंतामात्रहेतुत्वं संसारस्य बाध्यत एव । न चसुगतचि- त्तस्याहंतामात्रम् अपि नास्तीति युक्तं वक्तुं, स्वसंवेदनस्याहं सु- गत इति प्रतिभासमानस्याभावप्रसंगात् । न ह्य् अहम् इतिविक- १५ल्पो ऽहंतामात्रं सकलविकल्पशून्यस्य योगिनस्तदसंभवात्, ना- ऽप्य् अहम् अस्य स्वामीति ममेद[? :ṃ]भावो ऽहंतामात्रं तस्यमोहोदयनि- त्तस्य क्षीणमोहे योगिनि संभवाभावात् । ततो न साध्यशून्यो दृष्टान्तः साधनशून्यो वा सुगतचित्ते स्वयमविद्यातृष्णाशून्य- त्वस्य सौगतैर् अभीष्टत्वात् । नन्व् आत्मदृष्टेरविद्यातृष्णाशून्यत्वासं- २०भवाद् आत्मदृष्टेर् एवाविद्यात्वाद् अविद्याया एव च तृष्णाहेतुत्वादविद्या- तृष्णाशून्यत्वम् असिद्धम् एवेति चेत्, नात्मदृष्टेरविद्यात्वासिद्धेश् चित्त- क्षणदृष्टिवत् यथैव हि प्रतिक्षणं चित्तदर्शनं विद्यातदन्तरेण १७७बुद्धिसंचरणानुपपत्तेस् तथानाद्यनंतात्मदृष्टिरपि तदभावे ऽहंताप्र- त्यभिज्ञानस्यानुपपत्तेः । चित्तसंतानोऽहंताप्रत्यभिज्ञानहेतुर् इति चेत् न, तस्यावस्तुत्वात्, वस्तुत्वे वा स एवात्मा स्यान् नाम- मात्रभेदात् । ततः कथंचिन् नित्यस्य क्षणिकस्य चात्मनोदर्श- ०५रहंकारनिबंधनजन्मप्रन्यस्यमाहहेतुकाहंकारनिवृत्तिहेतुत्वसिद्धे- नस्याविद्यातृष्णाशूबंधस्योपशमोपपत्तेर् ननैरात्म्यभावनोपशम- विधेर् मार्गः सिध्येत् पुरुषाद्वैतभावनावत् । न हि पुरुषाद्वैते संसारमोक्षतत्कारणसंभवोद्वैतप्रसंगात् । नाऽपि केचिल् लोकाः सन्ति तेजोनिधिर् वा यस् तान् ज्वालयति १०भाति च परमात्मनि सत्य् एव नासतीति मोहान्धकारापहोबोध- मयप्रकाशविशदो ऽन्तर्यामी पुरुषः सिद्ध्येत्, तस्मिंश् च येसंशे- रते ते हताः स्युः । सर्वस्यास्य प्रपंचस्यानाद्यविद्यावलात्परिक- ल्पने च न परमार्थतः कश्चिद् उपशमविधेर् मार्गः स्यान्नैरात्म्यदर्श- नवत् । एतेनेश्वरादिर् एवोपशमविधेर् मार्ग इतिब्रुवन्निरस्तः, तस्या- १५प्य् उपपत्तिवाधितत्वात् सुगतादिवद् इत्य् आप्तपरीक्षायांविस्तरतस् त- त्त्वार्थालंकारे च निरूपितं ततः प्रतिपत्तव्यं । नन्व् एवं भगवति वर्द्धमाने रागाद् एव भवतांस्तोत्रं द्वेषाद् एव वान्येषु दोषोद्भावनं न पुनः परमार्थत इत्य् आशंकांनिराकुर्वन्तो वृत्तम् आहुः — २०न रागान् नः स्तोत्रं भवति भवपाशच्छिदि मुनौ न चान्येषु द्वेषाद् अपगुणकथाभ्यासखलता । १७८किमु न्यायान्यायप्रकृतगुणदोषज्ञमनसा हितान्वेषोपायस् तव गुणकथासंगगदितः ॥ ६४ ॥ न रागान् नो ऽस्माकं परीक्षाप्राधानानं भवति व- र्द्धमाने ऽस्तोत्रं प्रवृत्तं कीर्त्या महत्या भुविवर्धमानम् इत्य् आदिकं ०५भवतो मुनेर् भवपाशच्छेदित्वात् तदर्थितयास्तोत्रस्योपपत्तः, ऽ न चा- न्येष्व् अनेकान्तवादिषु द्वेषादेवापगुणकथाभ्यासेन खलतान- स्तत एव किमुत न्यायान्यायज्ञमनसांप्रकृतगुणदोषज्ञमनसां च च[? :ओम्. च] हिताहितान्वेषणोपायस् तव गुणकथासंगेनगदित इति ना- प्रेक्षापूर्वकारिता सूरेः, श्रद्धागुणज्ञतयोर् एवपरमात्मस्तोत्रे युक्त्य- १०नुशासने प्रयोजकत्वात् । साम्प्रतं स्तोत्रफलं सूरयःप्रार्थयन्ति । इति स्तुत्यः स्तुत्यैस् त्रिदशमुनिमुख्यैः प्रणिहितैः स्तुतः शक्त्या श्रेयःपदम् अधिगतस् त्वं जिन मया । महावीरो वीरो दुरितपरसेनाभिविजये विधेया मे भक्तिः पथि भवत एवाप्रतिनिधौ ॥ ६५ ॥ १५भवतो जिनस्य पथि मार्गे सम्यग्दर्शनज्ञानचारि- त्रलक्षणो ऽप्रतिनिधौ — प्रनिनिधिर् अहितेऽन्ययोगव्यवच्छेदेन नि- र्णीते भक्तिम् आराधनां विधेयास् त्वं जिन ? मे भगवन्निति स्तो- त्रफलप्रार्थना परमनिर्वाणफलस्य तन्मूलत्वात् । कुतःस्वपथि भक्तिं विधेयास् त्वम् इति चेत्, यतो दूरितपरसेनाभिविजयेवी- २०रस् त्वं यतश् च महावीरः श्रेयःपदम् अधिगतत्वात् यतश्च स्तुतः शक्त्या मयेति । कस्मात् त्वं स्तुत इति चेत्, स्तुत्यो यस्मात् १७९स्वयं स्तुत्यैर् अपि त्रिदशमुख्यैः सुरेन्द्रैर्मुनिमुख्यैश् च गणधरदेवा- दिभिः प्रणिहितैर् एकाग्रमनस्कैर् इति हेतुहेतुसद्भावेनपदघटना विधेया । न हि दुरितपरसेनाभिविजयो वीरत्वम् अन्तरेणसंभव- ति, अवीरेषु वीर्यातिशयशून्येषु तदघटनात्, यतो ऽयंवीरत्वे- ०५नानतवीर्यत्वलक्षणे साध्ये हेतुर् न स्यात् । न चायंकर्मरिपुसे- नाभिविजयो जिनस्यासिद्ध एव । "त्वं शुद्धिशक्त्योर् उदयस्य काष्ठां तुलाव्यतीतां जिन ? शान्तिरूपाम् । अवापिथ ब्रह्मपथस्य नेता महानितीयत् प्रति- b[? :व्]अक्तुम् ईशाः" ॥ १०इत्य् अनेन तस्य साधितत्वात् । तथा महावीरत्वे सकल- वीराधिपतित्वलक्षणे साध्ये श्रेयःपदाधिगतस्यापि हेतुत्वमुप- पन्नम् एव तदंतरेण तदनुपपत्तेः । न च भगवतःश्रेयःपदाधि- गतत्वम् असिद्धं ब्रह्मापथस्य नेतेन्यनेन तस्य साधनात् । तथाऽ- न्येषां स्तुत्यैस् त्रिदशमुख्यैर् मुनिमुख्यैश् च प्राणिहितैरनन्यमनोवृत्ति- १५भिः स्तुत्यत्वे साध्ये महीवीरत्वं हेतुर् उपपद्यतएवान्यस्य तैर् अ- स्तुत्यस्य महावीरत्वानुपपत्तेर् इति यः स्तुतिगोचरत्वंनिनीषुरा- चार्यो भगवंतं वीरम् आसीत् (? ) तेन स्तुतो भगवान् एवेतिभगवत एव पथि भक्तिं प्रार्थितवान्, तस्याप्रतिनिधित्वात्तदाराधनाप्राप्तौ कर्मरिपुसेनाभिविजयस्य तत्कार्यस्य संप्राप्तिसिद्धेश् चश्रेयःप- २०दाधिगमोपपत्तेर् जिनत्वस्योपमेयस्यावश्यंभावित्वात् । कथं पुन- र् असौ भगवतः पन्थाः सम्यग्दर्शनज्ञानचारित्रात्मकोऽप्रतिनि- धिः सिद्ध इति चेत् । तदपरस्य ज्ञानमात्रस्यवैराग्यमात्रस्य १८०वा तदुभयमात्रस्य वा परमात्मोपायस्यासंभवात्, सकलसंसा- रकारणं हि मिथ्यादर्शनज्ञानचारित्रलक्षणं तत् कथंज्ञानमा- त्रान् निवर्त्तते मिथ्याज्ञानस्यैव ततो निवृत्तेः, न चमिथ्याज्ञाननि- वृत्तौ रागादिदोषादिकं मिथ्याचारित्रं निवर्त्तते;समुत्पन्नतत्त्व- ०५ज्ञानस्यापि रागादिदोषसद्भावसिद्धेः । प्रक्षीणमोहात्तत्त्वज्ञाना- न्निवृत्तिर् इति चेत्, स एव मोहप्रक्षयः कुतः स्यात् । तत्त्वज्ञा- नातिशयाद् एवेति चेत्; कः पुनस् तत्त्वज्ञानातिशयः ? प्रक्षीणमोहत्व- म् इति चेत्, परस्पराश्रयः सति मोहप्रक्षयेतत्त्वज्ञानातिशयः सति वाऽतिशये मोहप्रक्षय इति । साक्षात्सकलपदार्थपरिच्छे- १०दित्वं तत्त्वज्ञानातिशय इति चेत्; तत् कुतः सिद्ध्येत् ? धर्मवि- शेषाद् इति चेत्; सो ऽपि कुतः स्यात्? समाधिविशेषाद् इति चेत्, स एव समाधिविशेषस् तत्त्वज्ञानाद् अन्यो वा ? तत्त्वज्ञानम् एव स्थिरीभूतं समाधिर् इति चेत्, तत् किम् आगमज्ञानंयोगिज्ञानं वा ? यद्य् आगमज्ञानं दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानांकार्यकारण- १५भावविषयं तदा न्यायदर्शनविदां तद् अस्तीति धर्मविशेषंजन- येत् । स च योगिज्ञानम् इति तद्भव एव मुक्तिप्रसंगः । अथ योगिज्ञानं समाधिविशेषस् तद् एवेतरेतराश्रयः स्यात् — सतियोगिज्ञाने स्थिरीभूते समाधिविशेषे धर्मविशेषः, तस्माच् च यथोक्तःसमा- धिविशेष इति नैकस्यापि प्रसिद्धिः । यदि पुनस्तत्त्वज्ञानाद् अन्य २०एव समाधिविशेषस्तदा स को ऽन्यो ऽन्यत्र सम्यक्चारित्रात् ? । सम्यक्चारित्रोपहिताद् एव तत्त्वज्ञानात्तत्त्वश्रद्धानाविनाभाविनः संसारकारणत्रयस्य परिक्षयः सिद्ध्येत्, न तत्त्वज्ञानादेव केवला- १८१दतो न तत्सकलसंसारहेतुप्रतिपक्षः, नाऽपिवैराग्यं तत्प्रतिपक्षः कस्यचिन् मूर्खस्य तपस्विनः सत्य् अपि वैराग्येमिथ्याज्ञानस्य स- द्भावात् । तत्त्वज्ञानम् एव वैराग्यं तस्मिन् सतिमिथ्याज्ञानस्य संसा- रकारणस्य निवृत्तेस् तद् एव संसारकारणप्रतिपक्षभूतमिति चेत्, ०५किं पुनस् तत्परं तत्त्वज्ञानं । रागादिदोषरहितंतत्त्वज्ञानम् इति चेत्, तर्हि सम्यक्चारित्रं तत्त्वज्ञानसहितंतत्त्वश्रद्धानाविना भावि संसारकारणप्रतिद्वन्द्वि सिद्धं, न पुनर्वैराग्यमात्रं, एतेन तदुभयमात्रस्य संसारकारणप्रतिद्वन्द्वित्वम् अपास्तंतत्त्वश्रद्धानशू- न्यस्य तदुभयस्यापि संसारहेतुत्वदर्शनात् । सतिश्रद्धाविशेषे १०तत्त्वज्ञानपूर्वकं वैराग्यं न पुनस् तत्त्वश्रद्वानशून्यंतस्य वैराग्या भासत्वाद् इति चेत्, तर्हि सम्यग्दर्शनज्ञानचारित्रत्रयम् एवसंसा- रकारणस्य मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्ररूपस्यत्रया- त्मकस्य त्रयात्मकेनैव प्रतिद्वन्द्विना निवर्त्तयितुंशक्यत्वात् । मिथ्याज्ञानस्यैवविपरीतत्वाभिनिवेशविपरीताचरणाकरणशक्ति- १५युक्तस्यैकस्य संसारकारणत्वव्यवस्थायां तु तत्त्वज्ञानमेव तत्त्व- श्रद्धानसम्यगाचरणशक्तियुक्तं तन्निवर्त्तकम् इति युक्तमुत्पश्या- मस् तत्त्वज्ञानस्य तत्त्वप्रकाशनशक्तिरूपत्वात्, तत्त्वश्रद्धानशक्तेः सम्यग्दर्शनत्वात् सम्यगाचरणाशक्तेः सम्यक्चारित्रत्वात्त्रयात्म- कत्वानतिक्रमात्, संसारकारणस्य मिथ्याज्ञानस्यविपरीततत्त्व- २०प्रकाशनविपरीताभिनिवेशविपरीताचरणशक्त्यात्मनस्तथात्मक- त्वानतिक्रमवत् । ततः सम्यग्दर्शनज्ञानचारित्रात्मक एव परमात्मत्वस्य १८२पंथाः समवतिष्ठते न ज्ञानमात्रादिर् इति स एवाप्रतिनिधिः सिद्धः । ततस् तत्रैव भक्तिं प्रार्थयमानः समन्तभद्रस्वामीन प्रेक्षा- पूर्वकारितां परित्यजतीति प्रतिपत्तव्यम् । ०५स्थेयाज् जातजयघ्वजाप्रतिनिधिः प्रोद्भूतभूरिप्रभुः, प्रध्वस्ताखिलदुर्नयद्विषदिभः सन्नीतिसामर्थ्यतः । सन्मार्गस्त्रिबिधः कुमार्गम् अथनोऽर्हन्वीरनाथः श्रिये शश्वत्संस्तुतिगोचरो ऽनघधियां श्रीसत्यवाक्याधिपः । १ । श्रीमद्वीरजिनेश्वरामलगुणस्तोत्रं परीक्षेक्षणैः १०साक्षात् स्वामिसमन्तभद्रगुरुभिस् तत्त्वं समीक्षयाखिलम् । प्रोक्तं युक्त्यनुशासनं विजयिभिः स्याद्वादमार्गानुगै- र् विद्यानंदबुधैर् अलंकृतम् इदं श्रीसत्यवाक्याधिपैः ॥ २ ॥ इति ऽश्रीमद्विद्यानंद्याचार्यकृतोऽ युक्त्यनुशासनालङ्कारःसमाप्तः । समाप्तो ‘यं ग्रंथः