तत्त्वार्थ / तत्त्वार्थराजवार्त्तिक / तत्त्वार्थराजवार्त्तिकव्याख्या १९९९
अकलङ्क्देव-विरचितं तत्त्वार्थवार्तिकम् (राजवार्तिकम्) हिन्द् ...
१श्रीमद्भट्टाकलङ्कदेवविरचितं तत्त्वार्थवार्तिकम् प्रणम्य सर्वविज्ञानमहास्पदमुरुश्रियम् । निर्धूतकल्मषं वीरं वक्ष्ये तत्त्वार्थवार्तिकम् ॥ १ ॥ श्रेयोमार्गप्रतिपित्सात्मद्रव्यप्रसिद्धेः । १ । उपयोगस्वभावस्यात्मनः श्रेयसा योक्ष्यमाणस्य प्रसिद्धौ सत्यां तन्मार्गप्रतिपित्सोत्पद्यते । कथम् ? ०५चिकित्साविशेषप्रतिपत्तिवत् । २ । यथा व्याधिनिवृत्तिजफलश्रेयसां योक्ष्यमाणस्य चिकि- त्स्यस्य प्रसिद्धौ चिकित्सामार्गविशेषप्रतिपित्सोत्पद्यते तथा आत्मद्रव्यप्रसिद्धौ श्रेयोमार्गप्रति- पित्सेति । तस्मात् साधीयसी मोक्षमार्गव्याख्या स्वायम्भवीति । किञ्च, सर्वार्थप्रधानत्वात् । ३ । संसारिणः पुरुषस्य सर्वेष्वर्थेषु मोक्षः प्रधानम्, प्रधाने च कृतो यत्नः फलवान् भवति तस्मात्तन्मार्गोपदेशः कार्यः तदर्थत्वात् । १०मोक्षोपदेशः पुरुषार्थप्रधानत्वादिति चेत्; न; जिज्ञासमानार्थिप्रश्नापेक्षिप्रतिवचनसद्भा- वात् । ४ । आह मोक्षोपदेश एव कार्यो न मार्गोपदेशः । कस्मात् ? पुरुषार्थप्रधानत्वात् । सर्वश्रेयो- भ्यः पुंसो मोक्ष एव परं श्रेयः आत्यन्तिकानुपमश्रेयस्त्वादिति; तन्न; जिज्ञासमानार्थिप्रश्नापेक्षि- प्रतिवचनसद्भावात् । योऽसौ मोक्षेणार्थी जिज्ञासमानः स मार्गमेव पृष्टवान् न मोक्षम्, अतस्त- न्मार्गोपदेश एव न्याय्यः । १५मोक्षमेव कस्मान्नाप्राक्षीदिति चेत् ? न; कार्यविशेषसम्प्रतिपत्तेः । ५ । स्यादेतत् — अयं प्रष्टा मोक्षमेव कस्मान्न पृष्टवान् कैमर्थक्यान्मार्गं पृष्टवानिति ? तन्न; कार्यविशेषसम्प्रतिपत्तेः । मोक्षकार्यं प्रति सर्वेषां सद्वादिनां सम्प्रतिपत्तेर्न कारणं प्रति । कारणं तु प्रति विप्रतिपत्तिः, पाटलिपुत्रमार्गविप्रतिपत्तिवत् । ६ । यथा केचित् पुरुषा नानादिग्भागापेक्षिषु मार्गेषु विप्रतिपद्यन्ते न पाटलिपुत्रे प्राप्तव्ये, तथा मोक्षकार्यं प्रतिपद्य २०तदर्थमादृताः सर्वे सद्वादिनस्तत्कारणेषु विप्रतिपद्यन्ते । तद्यथा, केचित्तावदाहुः — ज्ञानादेव मोक्ष इति । अपर आहुः — ज्ञानवैराग्याभ्यामिति । पदार्थावबोधो ज्ञानम्, विषयसुखान- भिष्वङ्गलक्षणं वैराग्यमिति । अपर आहुः — क्रियात एव मोक्ष इति *“नित्यकर्महेतुकं निर्वाणम्” [] इति वचनात् । किञ्च, २ पराभिप्रायनिवृत्त्यशक्यत्वात् । ७ । न च परस्य प्रष्टुः प्रश्नाभिप्रायोऽस्मदादिभिः शक्यो निवर्तयितुं ‘मा प्राक्षीर्मार्गं मोक्षं पृच्छ’ इति, भिन्नरुचित्वाल्लोकस्य । कल्पनाभेदात्तद्विप्रतिपत्तिरिति चेत्; न; कर्मविप्रमोक्षसामान्यात् । ८ । आह — न मोक्षं प्रति सम्प्रतिपत्तिरस्ति किन्तु विप्रतिपत्तिरेव । कस्मात् ? कल्पनाभेदात् । अन्येऽन्यथालक्षणं ०५मोक्षं परिकल्पयन्ति — ‘रूपवेदनासंज्ञासंस्कारविज्ञानपञ्चकस्कन्धनिरोधादभावो मोक्षः’ इति । ‘गुणपुरुषान्तरोपलब्धौ प्रतिस्वप्नलुप्तविवेकज्ञानवत् अनभिव्यक्तचैतन्यस्वरूपावस्था मोक्षः’ इत्यपरे । ‘बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारनवात्मगुणात्यन्तोच्छेदो मोक्षः’ इत्यन्ये । तस्मात् कल्पनाभेदात् मोक्षं प्रति विप्रतिपत्तिरिति; तन्न; कर्मविप्रमोक्षसामान्यात् । सर्वेषां हि प्रवादिनां यां तामवस्थां प्राप्य कृत्स्नकर्मविप्रमोक्ष एव मोक्षोऽभिप्रेत इति १०आस्माकीनसमयाविरोधात् मोक्षकार्यं प्रति सम्प्रतिपत्तिः । कार्यविशेषोपलम्भात् कारणान्वेषणप्रवृत्तिरिति चेत्; न; अनुमानतस्तत्सिद्धेर्घटीयन्त्र- भ्रान्तिनिवृत्तिवत् । ९ । आह — कार्यविशेषमुपलभ्य लौकिकाः कारणान्वेषणं प्रति आद्रियन्ते यथा ज्वरादिरोगदर्शनात्तत्कारणान्वेषणे भिषक् प्रवर्तते चिकित्साप्रसिद्ध्यर्थं तथा मोक्षदर्शना- त्तत्कारणान्वेषणं न्याय्यम् । न चासौ दृश्यते, तस्मान्मोक्षकारणान्वेषणाभाव इति; तन्न; १५अनुमानतस्तत्सिद्धेः । प्रत्यक्षतोऽनुपलभ्यमानस्यापि मोक्षकार्यस्यानुमानत उपलब्धौ मोक्षकार- णान्वेषणं युक्तं घटीयन्त्रभ्रान्तिनिवृत्तिवत् । यथा बलीवर्दपरिभ्रमणापादितारगर्तभ्रान्तिं घटीयन्त्रभ्रान्तिजनिकां बलीवर्दपरिभ्रमणाभावे चारगर्तभ्रान्त्यभावाद् घटीयन्त्रभ्रान्तिनिवृत्तिं च प्रत्यक्षत उपलभ्य सामान्यतोदृष्टादनुमानाद् बलीवर्दतुल्यकर्मोदयापादितां चतुर्गत्यर- गर्तभ्रान्तिं शारीरमानसविविधवेदनाघटीयन्त्रभ्रान्तिजनिकां प्रत्यक्षत उपलभ्य ज्ञानदर्शनचारि- २०त्राग्निनिर्दग्धस्य कर्मण उदयाभावे चतुर्गत्यरगर्तभ्रान्त्यभावात् संसारघटीयन्त्रभ्रान्तिनिवृत्त्या भवितव्यमित्यनुमीयते । यासौ संसारघटीयन्त्रभ्रान्तिनिवृत्तिः स एव मोक्ष इति । तस्मादनु- मानतो मोक्षकार्यसिद्धेरध्यवस्यामो मोक्षकारणान्वेषणं न्याय्यमिति । किञ्च, सर्वशिष्टसम्प्रतिपत्तेः । १० । सर्वे शिष्टाः प्रत्यक्षतोऽनुपलभ्यमानस्यापि मोक्षकार्यस्यानु- मानादस्तित्वमभ्युपेत्य प्रतिनियतमोक्षकारणेषु प्रयतन्ते । किञ्च, २५आगमात्तत्प्रतिपत्तेः । ११ । प्रत्यक्षतोऽनुपलभ्यमानोऽपि मोक्षः आगमादस्तीति निश्चीयते । कथम् ? सूर्याचन्द्रमसोर्ग्रहणवत् । १२ । यथा सूर्याचन्द्रमसोर्ग्रहणममुष्यां वेलायाम् अमुना वर्णेन अमुना दिग्विभागेन सर्वग्रासि नवेत्येवमादि सांवत्सरैरप्रत्यक्षमपि आगमाज्ज्ञायते तथा मोक्षोऽपीति । किञ्च, ३०स्वसमयविरोधात् । १३ । ‘अप्रत्यक्षत्वात् मोक्षो नास्ति’ इति यस्य मतं तस्य स्व- समयविरोधो भवति । सर्वे हि समयवादिनो मोक्षादीनर्थानप्रत्यक्षानभिवाञ्छन्ति । बन्धकारणानिर्देशादयुक्तमिति चेत्; न; मिथ्यादर्शनादिवचनात् । १४ । स्यादेतत् — अन्यत्र ३ बन्धकारणनिर्देशः कृतः *“विपर्ययाद् बन्धः”[सांख्य काº ४४] इत्यादिः, इह तु न कृतः, ततो मोक्षकारणनिर्देशस्यायुक्तिरिति; तन्न; मिथ्यादर्शनादिवचनात् । वक्ष्यते एतत् — *“मिथ्या- दर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः । ”[तº सूº ८ । १] इति । बन्धपूर्वकत्वान्मोक्षस्य प्राक् तत्कारणनिर्देश इति चेत्; न, आश्वासनार्थत्वात् । १५ । ०५स्यादारेका — प्राङ्मोक्षकारणनिर्देशाद् बन्धकारणनिर्देशो न्याय्यः यतो बन्धपूर्वको मोक्ष इति; तन्न; आश्वासनार्थत्वात् । कथम् ? बन्धनबद्धवत् । १६ । यथा काराबन्धनबद्धः प्राणी बन्धकारणश्रवणाद् बिभेति मोक्ष- कारणश्रवणादाश्वसिति, तथा अनादिसंसारकारावरुद्ध आत्मा प्रथममेव बन्धकारण- श्रवणात् मा भैषीत् मोक्षकारणश्रवणाच्च कथमाश्वासं यायादिति प्रथमं बन्धकारणमनुक्त्वा १०मोक्षकारणोपदेशः कृतः । किञ्च, मिथ्यावादिप्रणीतमोक्षकारणनिराकरणार्थं वा । १७ । मिथ्यावादिप्रणीतैकद्विमोक्ष- कारणनिराकरणार्थोऽयमार्हतो मोक्षकारणनिर्देश आदौ कृतः, ‘त्रयमेतत् संगतं मोक्षमार्गो नैकशो द्विशो वा’ इति । अतो विपर्ययमात्रप्रभवां संसारप्रक्रियां परिकल्प्य ज्ञानविशेषात्तद्विनिवृत्तिरित्येवमा- १५द्यनेकमिथ्यावादिप्रणीतमतनिवृत्तये त्रैविध्यविजृम्भितमोक्षकारणप्रदर्शनार्थमाह — सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १ ॥ इति । अपरे ‘आरातीयपुरुषशक्त्यपेक्षत्वात्सिद्धान्तप्रक्रियाऽऽविष्करणार्थं मोक्षकारणनिर्देशसम्ब- न्धेन शास्त्रानुपूर्वीं रचयितुमन्विच्छन् इदमवोचत्’ इत्याचक्षते । नात्र शिष्याचार्य्यसम्बन्धो विवक्षितः । किन्तु संसारसागरनिमग्नानेकप्राणिगणाभ्युज्जिहीर्षां प्रत्यागूर्णः ‘अन्तरेण मोक्ष- २०मार्गोपदेशं हितोपदेशो दुःष्प्रापः’ इति निश्चित्य मोक्षमार्गं व्याचिख्यासुरिदमाह । प्रणिधानविशेषाहितद्वैविध्यजनितव्यापारं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । १ । प्रणिधा- नम् उपयोगः परिणामः इत्यनर्थान्तरम् । येनार्थोऽर्थान्तराद्विशेष्यते यो वाऽर्थान्तरग- तात्पर्यायाद् विशिष्यते स विशेषः, विशिष्टिर्वा विशेषः, प्रणिधानमेव विशेषः प्रणिधान- विशेषः, प्रणिधानस्य वा विशेषः प्रणिधानविशेषः । आहितम् आत्मसात्कृतं परिगृहीतम् इत्य- २५नर्थान्तरम् । विधयुवतगतप्रकाराः समानार्थाः । निसर्गाधिगमभेदाद् द्वौ विधावस्येति द्विविधम्, द्विविधस्य भावः कर्म वा द्वैविध्यम् । प्रणिधानविशेषेणाहितं प्रणिधानविशेषाहितम् । प्रणि- धानविशेषाहितं द्वैविध्यमस्य प्रणिधानविशेषाहितद्वैविध्यम् । जनितः प्रादुर्भावितः, व्यापृति- र्व्यापारः अर्थप्रापणसमर्थः क्रियाप्रयोगः । जनितो व्यापारोऽस्य जनितव्यापारम् । कश्चास्य व्यापारः ? इह अन्तर्दर्शनमोहोपशमक्षयक्षयोपशमपर्यायपरिणामाद् बाह्यपरिणामकारणापा- ३०दिताद् आत्मनो जीवादिपदार्थविचारविषयोऽधिगमो निसर्गश्च व्यापारः । प्रणिधानविशेषा- ४ हितद्वैविध्यमेव जनितव्यापारं प्रणिधानविशेषाहितद्वैविध्यजनितव्यापारं तत्त्वार्थश्रद्धानं सम्य- ग्दर्शनम् । अस्यार्थ उत्तरत्र वक्ष्यते । नयप्रमाणविकल्पपूर्वको जीवाद्यर्थयाथात्म्यावगमः सम्यग्ज्ञानम् । २ । नयौ च प्रमाणे च नयप्रमाणानि, तेषां विकल्पाः नयप्रमाणविकल्पाः । द्वौ नयौ द्रव्यार्थिकः पर्यायार्थिकश्च, द्वे प्रमाणे ०५प्रत्यक्षं परोक्षं च, तेषां विकल्पा नैगमादयो मत्यादयश्च वक्ष्यन्ते । पूर्वशब्दस्तत्कारणवाची । नयप्रमाणविकल्पपूर्वको नयप्रमाणविकल्पहेतुक इत्यर्थः । येन येन प्रकारेण जीवादयः पदार्था अवस्थिताः तेन तेनावगमः जीवाद्यर्थयाथात्म्यावगमः सम्यग्ज्ञानम् । मोहसंशयविपर्यय- निवृत्त्यर्थं सम्यग्विशेषणम् । संसारकारणविनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतो बाह्याभ्यन्तरक्रियाविशेषोपरमः सम्यक्- १०चारित्रम् । ३ । संसारः पञ्चविधः द्रव्यक्षेत्रकालभवभावपरिवर्तनभेदात् । तस्य कारणं कर्म अष्टविधम्, तस्य विशेषेणात्यन्तिकी निवृत्तिः संसारकारणविनिवृत्तिः, तां प्रत्यागूर्णस्योद्य- तस्य, ज्ञानवत इति प्रशंसायां मतुः, यथा रूपवानिति प्रशंसायुक्तस्य सत्ता कथ्यते । नहि कस्य- चिद्रूपं नास्ति, प्रशस्तं तु नास्ति, तथा ज्ञानमस्यास्तीति ज्ञानवानिति प्रशंसायुक्तस्य सत्ता कथ्यते । न कस्यचिज्ज्ञानं नास्ति सर्व एवात्मा ज्ञानवान् चैतन्यात्, मिथ्यादर्शनोदये विपरीतार्थ- १५ग्राहित्वात् मिथ्यादृष्टिरज्ञः, तदभावे याथात्म्येनार्थविभावनात् सम्यग्दृष्टिः प्रशस्तज्ञानः, तस्य ज्ञानवतः । क्रिया क्रियान्तराद्विशिष्यते येन स विशेषः, विशिष्टिर्वा विशेषः । स द्विविधो बाह्य आभ्यन्तरश्चेति । बाह्यो वाचिकः कायिकश्च बाह्येन्द्रियप्रत्यक्षत्वात्, आभ्यन्तरो मानसः छद्मस्थाप्रत्यक्षत्वात्, तस्योपरमः सम्यक्चारित्रमित्युच्यते । स पुनः परमोत्कृष्टो भवति वीतरागेषु यथाख्यातचारित्रसंज्ञकः । आरातीयेषु संयतासंयतादिषु सूक्ष्मसाम्परायि- २०कान्तेषु प्रकर्षाप्रकर्षयोगी भवति । ज्ञानदर्शनयोः करणसाधनत्वं कर्मसाधनश्चारित्रशब्दः । ४ । ज्ञानं दर्शनमिति करण- साधनावेतौ शब्दौ, *“करणाधिकरणयोः”[जैनेº २ । ४ । ९९] इति युटो विधानात् । कर्मसाधन- श्चारित्रशब्दः *“भूवदिगृभ्यो णित्रश्चरेर्वृत्ते”[उणादिº ४ । १७७-७८] इति कर्मणि विधानात् । ज्ञानदर्शनशक्तिविशेषशुद्धिसन्निधाने जीवादीनर्थानात्मा जानाति पश्यति वा येन तज्ज्ञानं दर्शनं २५च । चारित्रमोहोपशमक्षयक्षयोपशमसद्भावे चर्यते तदिति चारित्रम् । कर्तृकरणयोरन्यत्वादन्यत्वमात्मज्ञानादीनां परश्वादिवदिति चेत्; न; तत्परिणामाद- ग्निवत् । ५ । स्यादारेका — ज्ञानदर्शनयोरात्मद्रव्यादन्यत्वम्, कस्मात् ? दृष्टत्वात् देवदत्तपर- शुवदिति; तन्न; कि कारणम् ? तत्परिणामादग्निवत् । यथा बाह्यद्रव्यादिपञ्चतयहेतुसन्निधाने सति आभ्यन्तरपरिणामवशात् तेजस्कायिकनामकर्मोदयाविर्भावितौष्ण्यपर्याय आत्मा ५ तत्परिणामादग्निव्यपदेशभाग् भवति, स एवम्भूतनयवक्तव्यतया उष्णपर्यायादनन्यः, तथा एवम्भू- तनयवक्तव्यवशाज् ज्ञानदर्शनपर्यायपरिणत आत्मैव ज्ञानं दर्शनं च तत्स्वाभाव्यात् । अतत्स्वाभाव्येऽनवधारणप्रसङ्गोऽग्निवत् । ६ । यथा अग्निरुष्णपर्यायेणान्यद्रव्यासाधारणेना- वधार्यते ‘अयमग्निः’ इति, स चेत्तत्स्वभावो न भवेत् प्रतिविशिष्टासाधारणपर्यायाभावादग्नेरनव- ०५धारणप्रसङ्गः । तथा आत्मनोऽपि ज्ञानादन्यत्वेऽनवधारणम्, यतोऽयमन्यद्रव्यासाधारणज्ञान- पर्यायः तत्स्वभावात्, ततोऽनन्यो द्रव्यार्थादेशात् । स चेन्न ज्ञानस्वभावः सत्येवमज्ञः स्यात्, ततश्चास्यानवधारणप्रसङ्गः ।