सर्वार्थसिद्धि १९५५
+
Identification
+
Original line breaks
−
References to notes
Devanandin's Sarvārthasiddhi
Creation of the digital textresource and its transformations
H. Trikha
Published within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv
under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International License
August 15, 2025
Printed edition: Pūjyapāda’s Sarvārthasiddhi. The commentary on Āchārya Griddhapiccha’s Tattvārthasūtra. Ed. and translated [into Hindi] by Phoolchandra Shastri. (Jñānapīṭha Mūrtidevī Jaina Granthamālā: Saṃskṛta Grantha 13). Kāśī 1955.
Digital text resource:
/home/deploy/dipal/public/dcv-site/root-resources/SAS/SAS
,
October 07, 2024
The file at hand, "
SAS-PS'55-p
", is a transformation of the file "
SAS
", an TEI P5 ODD-resource for 1) the digitized print edition and for 2) a digital edition of the Sarvārthasiddhi and the Tattvārtha.
Main steps in the preparation:
2019: Diplomatic capture of Phoolchandra Shastri's edition by Aurochana, Auroville, India
2020: xml-resource by Thomas Malten
2021: TEI-resource by Himal Trikha
2022: Integration DCV by Himal Trikha
Excluded in plain text:
ref
type
=
foot
,
type
=
note-block-container
,
note
type
=
inline-remark
,
note
type
=
inline-reading-suggestion
१
ओं
नमः श्रीपरमात्मने वीतरागाय
श्रीगृद्धपिच्छाचार्यविरचितस्य तत्त्वार्थसूत्रस्य
श्रीपूज्यपादाचार्यविरचिता तत्त्वार्थवृत्तिः
०५
सर्वार्थसिद्धिः
प्रथमोऽध्यायः
मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् ।
ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥
१
॥
कश्चिद्भव्यः प्रत्यासन्ननिष्ठः प्रज्ञावान् स्वहितमुपलिप्सुर्विविक्ते परमरम्ये भव्य
-
१०
सत्त्वविश्रामास्पदे क्वचिदाश्रमपदे मुनिपरिषण्मध्ये सन्निषण्णं मूर्त्तमिव मोक्षमार्गमवाग्वि
-
सर्गं वपुषा निरूपयन्तं युक्त्यागमकुशलं परहितप्रतिपादनैककार्यमार्यनिषेव्यं निर्ग्रन्था
-
चार्यवर्यमुपसद्य सविनयं परिपृच्छति स्म । भगवन्, किं
१
नु खलु आत्मने हितं स्यादिति ?
स आह मोक्ष इति । स एव पुनः प्रत्याह किं स्वरूपोऽसौ मोक्षः कश्चास्य प्राप्त्युपाय
इति ? आचार्य आह — निरवशेषनिराकृतकर्ममलकलङ्कस्याशरीरस्यात्मनोऽचिन्त्यस्वा
-
१
किं खलु आत्मने — आº, अº । किं खलु आत्मनो — दिº १, दिº २ ।
२
भाविकज्ञानादिगुणमव्याबाधसुखंमात्यन्तिकमवस्थान्तरं मोक्ष
१
इति ।
तस्यात्यन्तपरोक्षत्वाच्छद्मस्थाः प्रवादिनस्तीर्थकरम्मन्यास्तस्य स्वरूपमस्पृशन्ती
-
भिर्वाग्भिर्युक्त्याभासनिबन्धनाभिरन्यथैव परिकल्पयन्ति
चैत
२
न्यं पुरुषस्य स्व
३
रूपम्, तच्च
ज्ञेयाकारपरिच्छेदपराङ्मुख
४
m
’
इति । तत्सदप्यसदेव, निराकारत्वा
५
दिति ।
‘
बु
६
ध्द्यादिवैशे
-
०५
षिकगुणोच्छेदः पुरुषस्य मोक्ष
’
इति
७
। तदपि परिकल्पनमसदेव विशेषलक्षणशून्यस्यावस्तु
-
त्वात् ।
‘
प्रदीपनिर्वाणक
८
ल्पमात्मनिर्वाणम्
’
इति च । तस्य खरविषा
९
णकल्पता तैरेवाहत्य
निरूपिता । इत्येवमादि । तस्य स्वरूपमनवद्यमुत्तरत्र वक्ष्यामः ।
१
मोक्षः त — आº, अº, दिº १, दि २ ।
२
‘
चैतन्यं पुरुषस्य स्वरूपमिति
’
— योगभाº १ । ९
‘
तदा द्रष्टुः
स्वरूपेऽवस्थानम्
’
— योगसूº १ । ३
३
स्वरूपमिति त — आº, तº
४
मुखम् । तत् — आº, अº
५
— त्वात् खरविषाण
-
वत् । बुद्ध्या — मुº
६
‘
नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः ।
’
— प्रशº व्योº पृº ६३८ ।
७
इति च ।
१०
तदपि दिº १, अº ।
८
‘
यस्मिन् न जातिर्न जरा न मृत्युर्न व्याधयो नाप्रियसंप्रयोगः । नेच्छाविपन्न प्रियविप्र
-
योगः क्षेमं पदं नैष्ठिकमच्युतं तत् । दीपो यथा निर्वृतिमभ्युपेतो नैवावनिं गच्छति नान्तरिक्षम् । दिशं न
काञ्चिद्विदिशं न काञ्चित् स्नेहक्षयात् केवलमेति शान्तिम् ।
’
— सौन्दरº १६ । २७ — २९ ।
‘
प्रदीपस्येव निर्वाणं
विमोक्षस्तस्य चेतसः ।
’
— प्रº वार्तिकालº १ । ४५ ।
९
— षाणवत्कल्पना — आº, दिº १ दिº २. अº मुº ।
३
तत्प्राप्त्युपायं प्रत्यपि ते विसंवदन्ते —
‘
ज्ञानादेव चारित्रनिरपेक्षात्तत्प्राप्तिः, श्रद्धा
-
नमात्रादेव वा, ज्ञाननिरपेक्षाच्चारित्रमात्रादेव
’
इति च । व्याध्यभिभूतस्य तद्विनिवृत्त्यु
-
पायभूतभेषजविषयव्यस्तज्ञानादिसाधनत्वाभाववद् व्य
१
स्तं ज्ञानादिर्मोक्षप्राप्त्युपायो न
भवति ।
१
— वत् । एवं व्यस्तज्ञानादि — दिº १, दिº २ मुº ।
५
किं तर्हि ? तत् त्रितयं समुदितमित्याह —
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥
१
॥
सम्यगित्यव्युत्पन्नः शब्दो व्युत्पन्नो वा । अञ्चतेः क्वौ समञ्चतीति सम्यगिति ।
a
१
स्यार्थः प्रशंसा । स प्रत्येकं परिसमाप्यते । सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति ।
०५
एतेषां स्वरूपं लक्षणतो विधानतश्च पुरस्ताद्विस्तरेण निर्देक्ष्यामः । उद्देशमात्रं त्विदमुच्य
२
ते —
भावानां याथात्म्यप्रतिपत्तिविषयश्रद्धानसंग्रहार्थं दर्शनस्य सम्यग्विशेषणम् । येन येन
प्रकारेण जीवादयः पदार्था व्यवस्थितास्तेन तेनावगमः सम्यग्ज्ञानम् । विमोह
३
संशयविपर्यय
-
निवृत्त्यर्थं सम्यग्विशेषणम् । संसारकारणनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतः कर्मादान
४
निमित्त
-
क्रियोपरमः सम्यक्चारित्रम् । अज्ञानपूर्वकाचरणनिवृत्त्यर्थं सम्यग्विशेषणम् ।
१
— गिति । कोऽस्या — दिº १ ।
२
— च्यते । पदार्थानां याथा — नुº ।
३
ज्ञानम् । अनध्यवसाय सं — मुº ।
४
— दानमिति तत्क्रियो — दिº २ ।
६
प
१
श्यति दृश्य
२
तेऽनेन दृष्टिमात्रं वा दर्शनम् । जानाति ज्ञा
३
यतेऽनेन ज्ञातिमात्रं वा
ज्ञानम् । चरति चर्यतेऽनेन चरणमात्रं वा चारित्र
४
म् । नन्वेवं स एव कर्ता स एव करणमित्या
-
यातम् । तच्च विरुद्धम् । सत्यं, स्वपरिणामपरिणामिनोर्भेदविवक्षायां तथाऽभिधानात् ।
यथाऽग्निर्दहतीन्धनं दाहपरिणामेन । उक्तः कर्त्रादिसा
५
धनभावः पर्यायपर्यायिणोरेकत्वाने
-
०५
कत्वं प्रत्यनेकान्तोपपत्तौ स्वातन्त्र्यपारतन्त्र्यविवक्षोपपत्तेरेकस्मिन्नप्यर्थे न विरुध्यते ।
अग्नौ दहनादिक्रियायाः कर्त्रादिसाध
५
नभाववत् ।
ज्ञानग्रहणमादौ न्याय्यं, दर्शनस्य तत्पूर्वकत्वात् अल्पाच्तर
६
त्वाच्च । नैतद्युक्तं, युग
-
पदुत्पत्तेः । यदाऽस्य दर्शनमोहस्योपशमात्क्षयात्क्षयोपशमाद्वा आत्मा सम्यग्दर्शनपर्या
-
१
— षणम् । स्वयं पश्य — मुº । — षणम् । यस्मादिति पश्य — दिº १, दिº २ ।
२
— श्यतेऽनेनेति दृष्टि — मुº ।
३
ज्ञप्तिमात्रं मुº । ज्ञानमात्रं दिº २ ।
४
— रित्रम् । उक्तः कर्त्रा — आº, ताः नº
५
कर्त्रादिभिः सा — मुº ।
६
‘
अल्पाच्तरम् ।
’
— पाः २ । २ । ३४ ।
७
येणाविर्भवति तदैव तस्य मत्यज्ञानश्रुताज्ञाननिवृत्तिपूर्वकं मतिज्ञानं श्रुतज्ञानं चाविर्भवति
घनपटलविग
१
मे सवितुः प्रतापप्रकाशाभिव्यक्तिवत् । अल्पाच्तराद
२
भ्यर्हितं पूर्वं निपतति ।
कथमभ्यर्हितत्वं ? ज्ञानस्य सम्यग्व्यपदेशहेतुत्वात् । चारित्रात्पूर्वं ज्ञानं प्रयुक्तं,
तत्पूर्वकत्वाच्चारित्रस्य ।
०५
सर्वकर्मविप्रमोक्षो मोक्षः । तत्प्राप्त्युपायोमार्गः । मार्ग इति चैकवचननिर्देशः समस्तस्य
३
मार्गभावज्ञापनार्थः । तेन व्यस्तस्य मार्गत्वनिवृत्तिः कृता भवति । अतः सम्यग्दर्शनं
सम्यग्ज्ञानं सम्यक्चारित्रमित्येतत् त्रितयं समुदितं मोक्षस्य साक्षान्मार्गो वेदितव्यः ।
१
— टलविरामे स — आº, अº, दिº १, दिº २ ।
२
‘
अभ्यर्हितं च पूर्वं निपतीति ।
’
— पाº मº भाº २ । २ । २ । ३४ ।
३
समस्तमार्ग — आº, दिº १, दिº २ ।
८
तत्रादावुद्दिष्टस्य सम्यग्दर्शनस्य लक्षणनिर्देशार्थमिदमुच्यते —
तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥
२
॥
तत्त्वशब्दो भावसामान्यवाची । कथम् ? तदिति सर्वनामपदम् । सर्वनाम च
सामान्ये वर्तते । तस्य भावस्तत्त्व
१
म् । तस्य कस्य । योऽर्थो यथावस्थितस्तथा तस्य भवन
-
०५
मित्यर्थः । अर्यत
२
इत्यर्थो निश्चीयत इति यावत् । तत्त्वेनार्थस्तत्त्वार्थः । अथवा भावेन
१
‘
किं पुनस्तत्त्वम् ? तद्भावस्तत्त्वम् ।
’
पाº मº भाº पृº ५९ ।
२
अर्थ्यते आº, दिº २ ।
९
भाववतोऽभिधाम्, तदव्यतिरेकात् । तत्त्वमेवार्थस्तत्त्वार्थः । तत्त्वार्थस्य श्रद्धानं तत्त्वार्थ
-
श्रद्धानं सम्यग्दर्शनं प्रत्येतव्यम् । तत्त्वार्थश्च वक्ष्यमाणो जीवादिः ।
दृशेरालोकार्थत्वात् श्रद्धानार्थगतिर्नोपपद्यते ? धातूनामनेकार्थत्वाददोषः । प्रसिद्धार्थ
-
त्यागः कुत इति चेन्मोक्षमार्गप्रकरणात् । तत्त्वार्थश्रद्धानं ह्यात्मपरिणामो मोक्षसाधनं
०५
युज्यते, भव्यजीवविषयत्वात् । आलोकस्तु चक्षुरादिनिमितः सर्वसंसारिजीवसाधारण
-
त्वान्न मोक्षमार्गो युक्तः ।
अर्थश्रद्धानमिति चेत्सर्वार्थप्रसङ्गः । तत्त्वश्रद्धानमिति चेद्भावमात्रप्रसङ्गः ।
‘
सत्ताद्रव्यत्वगुणत्वकर्मत्वादि तत्त्वम्
’
इति कैश्चित्कल्प्यत इति । तत्त्वमेकत्त्वमिति वा
१०
सर्वैक्यग्रहणप्रसङ्गः ।
‘
पुरुष एवेदं सर्वम्
’
इत्यादि कैश्चित्कल्प्यत इति । एवं सति दृष्टेष्ट
-
विरोधः । तस्मादव्यभिचारार्थमुभयोरुपादानम् । तत् द्विविधं, सरागवीतरागविषयभेदात्
प्रशमसंवेगानुकम्पास्तिक्याद्यभिव्यक्तिलक्षणं प्रथमम् । आत्मविशुद्धिमात्रमितरत् ।
१२
अथैतत्सम्यग्दर्शनं जीवादिपदार्थविषयं
१
कथमुत्पद्यत इत्यत आह —
तन्निसर्गादधिगमाद्वा ॥
३
॥
निसर्गः स्वभाव इत्यर्थः । अधिगमोऽर्थावबोधः । तयोर्हेतुत्वेन निर्देशः । कस्याः ?
क्रियायाः । का च क्रिया । उत्पद्यत इत्यध्याह्रियते, सोपस्कारत्वात् सूत्राणाम् । तदेत
२
-
०५
त्सम्यग्दर्शनं निसर्गादधिगमाद्वोत्पद्यत इति ।
अत्राह — निसर्गजे सम्यग्दर्शनेऽर्थाधिगमः स्याद्वा न वा ? यद्यस्ति, तदपि अधिगम
-
जमेव नार्थान्तरम् । अथ नास्ति, कथमनवबुद्धतत्त्वस्यार्थश्रद्धानमिति ? नैष दोषः ।
उभयत्र सम्यग्दर्शने अन्तरङ्गो हेतुस्तुल्यो दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा ।
तस्मिन्सति यद्बाह्योपदेशादृते प्रादुर्भवति तन्नैसर्गिकम् । यत्परोपदेशपूर्वकं जीवाद्यधि
-
१
— षयं तत् कथं — आº, दिº १, दिº २ ।
२
तदेव सम्य — आº, दिº १, दिº २, अº ।
१३
गमनिमित्तं
१
तदुत्तरम् । इत्यनयोरयं भेदः ।
तद्ग्रहणं किमर्थम् ? अनन्तरनिर्देशार्थम् । अनन्तरं सम्यग्दर्शनं तदित्यनेन
निर्दिश्यते । इतरथा मोक्षमार्गोऽपि प्रकृतस्तस्याभिसम्बन्धः स्यात् । ननु च
‘
अनन्त
२
रस्य
विधिर्वा भवति प्रतिषेधो वा
’
इत्यनन्तरस्य सम्यग्दर्शनस्य ग्रहणं सिद्धमिति
३
चेन्न,
०५
‘
प्रत्यासत्तेः प्रधानं बलीयः
’
इति मोक्षमार्ग एव सम्बध्येत । तस्मात्तद्वचनं क्रियते ।
१
— मित्तं स्यात् तदु — मुº ।
२
‘
अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति ।
’
— पाº मº भाº पृº
३३५ । परिº शेº पृº ३८० ।
३
सिद्धं प्रत्या — दिº १, दिº २, आº, अº ।
१४
तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । अथ किं तत्त्वमित्यत इदमाह —
जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥
४
॥
तत्र चेतनालक्षणो जीवः । सा
१
च ज्ञानादिभेदादनेकधा भिद्यते । तद्विपर्ययलक्षणो
-
ऽजीवः । शुभाशुभकर्मागमद्वाररूप आस्रवः । आत्मकर्मणोरन्योऽन्यप्रदेशानुप्रवेशात्मको
०५
बन्धः । आस्रवनिरोधलक्षणः संवरः । एकदेशकर्मसंक्षयलक्षणा निर्जरा । कृत्स्नकर्म
-
वि
२
योगलक्षणो मोक्षः । एषां प्रपञ्च उत्तरत्र वक्ष्यते । सर्वस्य फलस्यात्माधीनत्वादादौ
जीवग्रहणम् । तदुपकारार्थत्वात्तदनन्तरमजीवाभिधानम् । तदुभयविषयत्वात्तदनन्तरमा
-
स्रवग्रहणम् । तत्पूर्वकत्वात्तदनन्तरं बन्धाभिधानम् । संवृतस्य बन्धाभावात्तत्प्रत्यनीक
-
१
— जीवः । स च — आº दिº २ ।
२
— विप्रयोग — मुº ।
१५
प्रतिपत्यर्थं
१
तदनन्तरं संवरवचनम् । संवरे सति निर्जरोपपत्तेस्तदन्तिके निर्जरावचनम् ।
अन्ते प्राप्यत्वान्मोक्षस्यान्ते वचनम् ।
इह पुण्यपापग्रहणं
२
कर्त्तव्यं,
‘
नव पदार्था
’
इत्य
३
न्यैरप्युक्तत्वात् । न कर्त्तव्य
४
म्,
आस्रवे बन्धे चान्तर्भावात् । यद्येवमास्रवादिग्रहणमनर्थकं, जीवाजीवयोरन्त
-
०५
र्भावात् । नानर्थकम् । इह मोक्षः प्रकृतः । सोऽवश्यं निर्देष्टव्यः । स च संसार
-
पूर्वकः । संसारस्य प्रधानहेतुरास्रवो बन्धश्च । मोक्षस्य प्रधानहेतुः संवरो निर्जरा च ।
अतः प्रधानहेतुहेतुमत्फलनिदर्शनार्थत्वात्पृथगुपदेशः कृतः । दृश्यते हि सामान्येऽन्तर्भूत
-
स्यापि विशेषस्य
५
पृथगुपादानं प्रयोजनार्थम् ।
‘
क्षत्रिया आयाताः सूरवर्माऽपि
’
इति ।
१
— त्त्यर्थं संवर — आº, दिº १, दिº २ अº ।
२
— हणं च कर्त — मुº ।
३
कुन्दकुन्दाद्यैः ।
४
— व्यं तयोरास्र — मुº
५
— पस्य यथोपयोगं पृथ — मुº ।
१६
तत्त्वशब्दो भाववाचीत्युक्तः । स कथं जीवादिभिर्द्रव्यवचनैः सामानाधिकरण्यं
प्रतिपद्यते ? अव्यतिरेकात्तद्भावाध्यारोपाच्च सामानाधिकरण्यं भवति । यथा
‘
उपयोग
एवात्मा
’
इति । यद्येवं तत्तल्लिङ्गसङ्ख्यानुवृत्तिः प्राप्नोति ?
१
‘
विशेषणविशेष्यसम्बन्धे
सत्यपि शब्दशक्तिव्यपेक्षया उपात्तलिङ्गसङ्ख्याव्यतिक्रमो न भवति ।
’
अयं क्रम आदि
-
०५
सूत्रेऽपि योज्यः ।
१
—
‘
आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय प्रवर्त्तते उत्पत्तिप्रभृत्या विनाशान्न तल्लिङ्गं जहाति ।
’
पाº
१ । २ । २५३ ।
‘
अन्येऽपि वै गुणवचना नावश्यं द्रव्यस्य लिङ्गसंख्ये अनुवर्तन्ते । — पाº मº भाº ५ । १ । १ । ५९ ।
’
१७
एवमेषामुद्दिष्टानां सम्यग्दर्शनादीनां जीवादीनां च संव्यवहारविशेषव्यभिचार
-
निवृत्त्यर्थमाह —
नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥
५
॥
अतद्गुणे वस्तुनि संव्यवहारार्थं पुरु
१
षकारान्नियुज्यमानं संज्ञाकर्म नाम । काष्ठ
-
०५
पुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना । गुणैर्गुणान्वा द्रुतं गतं गुणै
-
र्द्रोष्यते गुणान्द्रोष्यतीति वा द्रव्यम् । वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः । तद्यथा,
नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति चतुर्धा जीवशब्दार्थो न्यस्यते । जीवन
-
गुणमनपेक्ष्य यस्य कस्यचिन्नाम क्रियमाणं नामजीवः । अक्षनिक्षेपादिषु जीव इति वा
१
पुरुषाका — मुº ।
१८
मनुष्यजीव इति वा व्यवस्थाप्यमानः स्थापनाजीवः । द्रव्यजीवो द्विविधः आगम
-
द्रव्यजीवो नोआगमद्रव्यजीवश्चेति । तत्र जीवप्राभृतज्ञायी मनुष्यजीवप्राभृतज्ञायी वा
अनुपयुक्त आत्मा आगमद्रव्यजीवः । नोआगमद्रव्यजीवस्त्रेधा व्यवतिष्ठते ज्ञायक
-
शरीर
-
भावि
-
तद्व्यतिरिक्तभेदात् । तत्र ज्ञातुर्यच्छरीरं त्रिकालगोचरं तज् ज्ञायक
-
०५
शरीरम् । सामान्यापेक्षया नोआगमभाविजीवो नास्ति, जीवनसामान्यस्य सदाऽपि
विद्यमानत्वात् । विशेषापेक्षया त्वस्ति । गत्यन्तरे जीवो व्यवस्थितो मनुष्यभव
१
प्राप्तिं
प्रत्यभिमुखो मनुष्यभाविजीवः । तद्व्यतिरिक्तः कर्मनोकर्मविकल्पः । भावजीवो
द्विविधः आगमभावजीवो नोआगमभावजीवश्चेति । तत्र जीवप्राभृतविषयोपयोगा
-
विष्टो मनुष्यजीवप्राभृतविषयोपयोगयुक्तो वा आत्मा आगमभावजीवः । जीवनपर्यायेण
१०
मनुष्यजीवत्वपर्यायेण वा समाविष्ट आत्मा नोआगमभावजीवः । एवमितरेषामपि
पदार्थानां
२
नामादिनिक्षेपविधिर्नियोज्यः । स किमर्थः ? अप्रकृतनिराकरणाय प्रकृतनि
-
१
ष्यभाव — आº, दिº २ ।
२
— र्थानामजीवानां नामा — मुº ।
१९
रूपणाय च । निक्षेपविधिना
१
शब्दार्थः प्रस्तीर्यते । तच्छब्दग्रहणं किमर्थम् ? सर्वसड्ग्र
-
हार्थम् । असति हि तच्छब्दे सम्यग्दर्शनादीनां प्रधानानामेव न्यासेनाभिसम्बन्धः स्यात्,
तद्विषयभावेनोपगृहीतानां जीवादीनां अप्रधानानां न स्यात् । तच्छब्दग्रहणे पुनः क्रियमाणे
सति सामर्थ्यात्प्रधानानामप्रधानानां च ग्रहणं सिद्धं भवति ।
०५
एवं नामादिभिः प्रस्तीर्णानामधिकृतानां तत्त्वाधिगमः कुतः ? इत्यत इदमुच्यते —
१
— धिना नामशब्दा — मुº आº ।
२०
प्रमाणनयैरधिगमः ॥
६
॥
नामादिनिक्षेपविधिनोपक्षिप्तानां जीवादीनां
१
तत्त्वं प्रमाणाभ्यां नयैश्चाधिग
२
म्यते ॥
प्रमाणनया वक्ष्यमाणलक्षणविकल्पाः । तत्र प्रमाणं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं प्रमाणं
श्रुतव
३
र्ज्जम् । श्रुतं पुनः स्वार्थं भवति परार्थं च । ज्ञानात्मकं स्वार्थं वचनात्मकं परार्थम् ।
०५
तद्विकल्पा नयाः
४
। अत्राह — नयशब्दस्य अल्पाच्तरत्वात्पूर्वनिपातः प्राप्नोति ? नैष दोषः ।
अभ्यर्हितत्वात्प्रमाणस्य
५
पूर्वनिपातः । अभ्यर्हितत्वं च सर्वतो बलीयः । कुतोऽभ्यर्हितत्वम् ?
नयप्ररूपणप्रभवयोनित्वात् । एवं ह्युक्तं
’
प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारणं नय
’
इति । सकलविषयत्वाच्च प्रमाणस्य । तथा चोक्तं —
’
सकलादेशः प्रमाणाधीनो विकला
-
देशो नयधीन
इति
’
॥ नयो द्विविधो द्रव्यार्थिकः पर्यायार्थिकश्च । पर्यायार्थि
-
१०
कनयेन
६
भावतत्त्वमधिगन्तव्यम् । इतरेषां त्र
७
याणां द्रव्यार्थिकनयेन, सामान्यात्मकत्वात् ।
१
तत्त्वं प्रमाणेभ्यो नयै — मुº ।
२
श्चाभिग — आº, दिº १, दिº २ ।
३
— वर्ज्यम् । श्रु — मुº ।
४
‘
जावैया वयणवहा तावैया चेव होंति णयवाया ।
’
— सन्मतिº ३ । ४७ ।
५
— णस्य तत्पूर्व — मुº ।
६
— येन पर्यायत — मुº ।
७
— रेषां नामस्थापनाद्रव्याणां द्रव्या — मुº ।
२१
द्रव्यमर्थः प्रयोजनमस्येत्यसौ द्रव्यार्थिकः । पर्यायोऽर्थः प्रयोजनमस्येत्यसौ पर्यायार्थिकः ।
तत्सर्वं समुदितं प्रमाणेनाधिगन्तव्यम् ।
२२
एवं प्रमाणनयैरधिगतानां जीवादीनां पुनरप्यधिगमोपायान्तरप्रदर्शनार्यमाह —
निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥
७
॥
निर्देशः स्वरूपाभिधानम् । स्वामित्वमाधिपत्यम् । साधनमुत्पत्तिनिमित्तम् । अधि
-
करणमधिष्ठानम् । स्थितिः कालपरिच्छेदः । विधानं प्रकारः । तत्र सम्यग्दर्शनं किमिति
०५
प्रश्ने तत्त्वार्थश्रद्धानमिति निर्देशो नामादिर्वा
१
। कस्येत्युक्ते सामान्येन जीवस्य । विशेषेण
गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकाणां पर्याप्तकानामौपशमिकं क्षायोपशमिकं
१
— दिर्वा । सम्यग्दर्शनं क — मुº ।
२३
चास्ति । प्रथमायां पृथिव्यां पर्याप्तापर्याप्तकानां क्षायिकं क्षायोपशमिकं चास्ति । तिर्यग्गतौ
तिरश्चां पर्याप्तकानामौपशमिकमस्ति । क्षयिकं क्षायोपशमिकं च पर्याप्तापर्याप्त
-
कानामस्ति । तिरश्चीनां क्षायिकं नास्ति
१
। औपशमिकं क्षायोपशमिकं च पर्याप्तिकानामेव
नापर्याप्तिकानाम् । मनुष्यगतौ मनुष्याणां पर्याप्तापर्याप्तकानां क्षायिकं क्षायोपशमिकं
०५
तास्ति । औपशमिकं पर्याप्तकानामेव नापर्याप्तकानाम् । मानुषीणां त्रितयमप्यस्ति
पर्याप्तिकानामेव नापर्याप्तिकाना
२
म् । देवग
३
तौ देवानां पर्याप्तापर्याप्तकानां त्रितयम
-
प्यस्ति । औपशमिकमपर्याप्तकानां कथमिति चेच्चारित्रमोहोपशमेन सह मृतान्प्र
४
ति ।
भवनवासिव्यन्तरज्योतिष्काणां देवानां देवीनां च सौधर्मैशानकल्पवासिनीनां च क्षायिकं
१
नास्ति । कुत इत्युक्ते मनुष्यः कर्मभूमिज एव दर्शनमोहक्षपणाप्रारम्भको भवति । क्षपणाप्रारम्भकालात्पूर्वं
तिर्यक्षु बद्धायुष्कोऽपि उत्कृष्टभोगभूमितिर्यक्पुरुषेष्वेवोत्पद्यते न तिर्यक्स्त्रीषु द्रव्यवेदस्त्रीणां तासां क्षायिकासम्भवात् ।
१०
एवं तिरश्चामप्यपर्याप्तकानां क्षायोपशमिकं ज्ञेयं न पर्याप्तकानाम् । औप — मुº ।
२
— कानाम् । क्षायिकं
पुनर्भाववेदेनैब । देव — मुº ।
३
— गतौ सामन्येन देवा — मुº ।
४
प्रति । विशेषेण भवन — मुº ।
२४
नास्ति । तेषां पर्याप्तकानामौपशमिकं क्षायोपशमिकं चास्ति ।
इन्द्रियानुवादेन पञ्चेन्द्रियाणां संज्ञिनां त्रितयमप्यस्ति नेतरेषाम् । कायानुवादेन
त्रसकायिकानां त्रितयमप्यस्ति नेतरेषाम् । योगानुवादेन त्रयाणां योगानां त्रितयमप्यस्ति ।
अयोगिनां क्षायिकमेव । वेदानुवादेन त्रिवेदानां त्रितयमप्यस्ति । अपगतवेदानामौपशमिकं
०५
क्षायिकं चास्ति । कषायानुवादेन चतुष्कषायाणां त्रितयमप्यस्ति । अकषायाणामौपश
-
मिकं क्षायिकं चास्ति । ज्ञानानुवादेन आभिनिबोधिकश्रुतावधिमनःपर्ययज्ञानिनां
त्रितयमप्यस्ति । केवलज्ञानिनां क्षायिकमेव । संयमानुवादेन सामायिकच्छेदोपस्थापनः संय
-
तानां त्रितयमप्यस्ति । परिहारविशुद्धिसंयतानामौपशमिकं नास्ति, इतरत् द्वितयमप्यस्ति ।
सूक्ष्मसाम्पराययथाख्यातसंयतानामौपशमिकं क्षायिकं चास्ति । संयतासंयतानां असंयतानां
१
१०
च त्रितयमप्य
२
स्ति । दर्शनानुवादेन चक्षुदर्शनाचक्षुर्दर्शनावधिदर्शनिनां त्रितयमप्यस्ति ।
१
संयतासंयतानां च मुº ।
२
— तयमस्ति ताº ।
२५
केवलदर्शनिनां क्षायिकमेव । लेश्यानुवादेन षड्लेश्यानां त्रितयमप्यस्ति ।
अलेश्यानां क्षायिकमेव । भव्यानुवादेन भव्यानां त्रितयमप्यस्ति नाभव्यानाम् ।
सम्यक्त्वानुवादेन यत्र यत्सम्यग्दर्शनं तत्र तदेव ज्ञेयम् । संज्ञानुवादेन संज्ञिनां
त्रितयमप्यस्ति नासंज्ञिनाम् । तदुभयव्यपदेशरहितानां क्षायिकमेव । आहारानुवादेन
०५
आहारकाणां त्रितयमप्यस्ति । अनाहारकाणां छद्मस्थानां त्रितयमप्यस्ति केवलिनां
समुद्घातगतानां क्षायिकमेव ।
२६
साधनं द्विविधं अभ्यन्तरं बाह्यं च । अभ्यन्तरं दर्शनमोहस्योपशमः क्षयः
क्षयोपशमो वा । बाह्यं नारकाणां प्राक्चतुर्थ्याः सम्यग्दर्शनस्य साधनं केषाञ्चिज्जाति
-
स्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिद्वेदनाभिभवः । चतुर्थीमारभ्य आ सप्तम्या
२७
नारकाणां जातिस्मरणं वेदनाभिभवश्च । तिरश्चां केषाञ्चिज्जातिस्मरणं केषाञ्चिद्ध
-
र्मश्रवणं केषाञ्चिज्जिनबिम्बदर्शनम् । मनुष्याणामपि तथैव । देवानां केषाञ्चिज्जाति
-
स्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिज्जिनमहिमदर्शनं केषाञ्चिद्देवर्द्धिदर्शनम् । एवं
प्रागानतात् । आनतप्राणतारणाच्युतदेवानां देवर्द्धिदर्शनं मुक्त्वाऽन्यत्र्त्रितयमप्यस्ति ।
०५
नवग्रैवेयकवासिनां केषाञ्चिज्जातिस्मरणं केषाञ्चिद्धर्मश्रवणम् । अनुदिशानुत्तरविमान
-
वासिनामियं कल्पना न सम्भवति; प्रागेव गृहीतसम्यक्त्वानां तत्रोत्पत्तेः ।
अधिकरणं द्विविधं अभ्यन्तरं बाह्यं च । अभ्यन्तरं स्वस्वामिसम्बन्धार्ह एव
आत्मा; विवक्षातः कारकप्रवृत्तेः । बाह्यं लोकनाडी । सा कियती ? एकरज्जुविष्कम्भा
चतुर्दशरज्ज्वायामा ।
१०
स्थितिरौपशमिकस्य जघन्योत्कृष्टा चान्तर्मौहूतिंकी । क्षायिकस्य संसारिणो
२८
जघन्यान्तर्मौहूर्तिंकी । उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मूहूर्ताष्टवर्षहीनपूर्वकोटिद्वया
-
धिकानि । मुक्तस्य सादिरपर्यवसाना । क्षायोपशमिकस्य जघन्याऽन्तर्मौहूर्त्तिकी उत्कृष्टा
षट्षष्टिसागरोपमाणि ।
विधानं सामान्यादेकं सम्यग्दर्शनम् । द्वितयं निसर्गजाधिगमजभेदात्
१
। त्रितयं
०५
औपशमिकक्षायिकक्षायोपशमिकभेदात् । एवं सङ्ख्येया विकल्पाः शब्दतः । असङ्ख्येया
१
— गमजभेदात् । एवं मुº ।
२९
अनन्ताश्च भवन्ति श्रद्धातृश्रद्धातव्यभेदात् । एवमयं निर्देशादिविधिर्ज्ञानचारित्रयोर्जीवा
-
जीवादिषु चागमानुसारेण योजयितव्यः ।
किमेतैरेव जीवादीनामधिगमो भवति उत अन्योऽप्यधिगमोपायोऽस्तीति
परिपृष्टोऽस्तीत्याह —
०५
सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥
८
॥
सदित्यस्तित्वनिर्देशः
१
। स प्रशंसादिषु वर्तमानो नेह गृह्यते । सङ्ख्या भेदगणना ।
क्षेत्रं निवासो वर्तमानकालविषयः । तदेव स्पर्शनं त्रिकालगोचरम् । कालो द्विविधः
मुख्यो व्यावहारिकश्च । तयोरुत्तरत्र निर्णयो वक्ष्यते । अन्तरं विरहकालः । भावः
औपशमिकादिलक्षणः । अल्पबहुत्वमन्योऽन्यापेक्षया विशेषप्रतिपत्तिः । एतैश्च सम्यग्दर्श
-
१०
नादीनां जीवादीनां चाधिगमो वेदितव्यः । ननु च निर्देशादेव सद्ग्रहणं सिद्धम् । विधान
-
ग्रहणात्सङ्ख्यागतिः । अधिकरणग्रहणात्क्षेत्रस्पर्शनावबोधः । स्थितिग्रहणात्कालसङ्ग्रहः ।
१
— र्देशः । प्रशंसा — मुº ताº नº ।
३०
भावो नामादिषु सङ्गृहीत एव । पुनरेषां किमर्थं ग्रह
१
णमिति । सत्यं, सिद्धम् । विनेया
-
शयवशात्तत्त्वदेशनाविकल्पः । केचित्सङ्क्षेपरुचयः
२
केचित् विस्तररुचयः अपरे
नातिसङ्क्षेपेण नातिविस्तरेण प्रतिपाद्याः । सर्वसत्त्वानुग्रहार्थो हि सतां प्रयास इति
अधिगमाभ्युपायभेदोद्देशः कृतः । इतरथा हि
’
प्रमाणनयैर
२
धिगमः
’
इत्यनेनैव
०५
सिद्धत्वादितरेषां ग्रहणमनर्थकं स्यात् ।
तत्र जीवद्रव्यमधिकृत्य सदाद्यनुयोगद्वारनिरूपणं क्रियते । जीवाश्चतुर्दशसु
गुणस्थानेषु व्यवस्थिताः । मिथ्यादृष्टिः सासादनसम्यग्दृष्टिः सम्यङ्मिथ्यादृष्टिः संयत
-
सम्यग्दृष्टिः संयतासंयतः प्रमत्तसंयतः अप्रमत्तसंयतः अपूर्वकरणस्थाने उपशमकः क्षपकः
अनिवृत्तिबादरसाम्परायस्थाने उपशमकः क्षपकः सूक्ष्मसाम्परायस्थाने उपशमकः क्षपकः
१०
उपशान्तकषायवीतरागछद्मस्थः क्षीणकषायवीतरागछद्मस्थः सयोगकेवली अयोगकेवली
चेति । एतेषामेव जीवसमासानां निरूपणार्थं चतुर्दश मार्गणास्थानानि ज्ञेयानि । गती
-
न्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसज्ञाऽऽहारका इति ।
१
ग्रहणमुच्यते ? सत्यं ताº नº ।
२
संक्षेपरुचयः । अपरे नाति — मुº ।
३१
तत्र सत्प्ररूपणा द्विविधा सामान्येन विशेषेण च । सामान्येन अस्ति मिथ्यादृष्टिः
सासादनसम्यग्दृष्टिरित्येवमादि । विशेषेण गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु
आद्यानि चत्वारि गुणस्थानानि सन्ति । तिर्यग्गतौ तान्येव संयतासंयतस्थानाधिकानि
सन्ति । मनुष्यगतौ चतुर्दशापि सन्ति । देवगतौ नारकवत् । इन्द्रियानुवादेन एकेद्रियादिषु
०५
चतुरिन्द्रियपर्यन्तेषु एकमेव मिथ्यादृष्टिस्थानम् । पञ्चेन्द्रियेषु चतुर्दशापि सन्ति ।
कायानुवादेन पृथिवीकाया
१
दिवनस्पतिकायान्तेषु एकमेव मिथ्यादृष्टिस्थानम् । त्रसकायेषु
चतुर्दशापि सन्ति । योगानुवादेन त्रिषु योगेषु त्रयोदश गुणस्थानानि भवन्ति । ततः परं
अयोगकेवली । वेदानुवादेन त्रिषु वेदेषु मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानि सन्ति ।
अपगतवेदेषु अनिवृत्तिबादराद्ययोगकेवल्यन्तानि । कषायानुवादेन क्रोधमानमायासु
१०
मिथ्यादृष्ट्यादीनि अनिवृत्तिबादरस्थानान्तानि सन्ति । लोभकषाये तान्येव सूक्ष्मसाम्पराय
-
१
— कायादिषु वनस्प — मुº नº ।
३२
स्थानाधिकानि । अकषायः उपशान्तकषायः क्षीणकषायः सयोगकेवली अयोगकेवली
१
चेति । ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्टिः सासादनसम्यग्दृष्टि
-
श्चा
२
स्ति । आभिनिबोधिकश्रुतावधिज्ञानेषु असंयतसम्यग्दृष्ट्यादीनि क्षीणकषायान्तानि
सन्ति । मनःपर्ययज्ञाने प्रमत्तसंयतादयः क्षीणकषायान्ताः सन्ति । केवलज्ञाने सयोगोऽयो
-
०५
गश्च । संयमानुवादेन संयताः प्रमत्तादयोऽयोगकेवल्यन्ताः । सामायिकच्छेदोपस्थापनाशुद्धि
-
संयताः प्रमत्तादयोऽनिवृत्तिस्थानान्ताः । परिहारविशुद्धिसंयताः प्रमत्ताश्चाप्रमत्ताश्च ।
सूक्ष्मसाम्परायशुद्धिसंयता एकस्मिन्नेव सूक्ष्मसाम्परायस्थाने । यथाख्यातविहारशुद्धिसंयता
उपशान्तकषायादयोऽयोगकेवल्यन्ताः । संयतासंयता एकस्मिन्तेव संयतासंयतस्थाने । असंयता
आद्येषु चतुर्षु गुणस्थानेषु । दर्शनानुवादेन चक्षुर्दर्शनाचक्षुर्दर्शनयोर्मिथ्यादृष्ट्यादीनि
१०
क्षीणकषायान्तानि सन्ति । अवधिदर्शने असंयतसम्यग्दृष्ट्यादीनि क्षीणकषायान्तानि ।
केवलदर्शने सयौगकेवली अयोगकेवली च । लेश्यानुवादेन कृष्णनीलकपोतलेश्यासु मिथ्या
-
दृष्ट्यादीनि असंयतसम्यग्दृष्ट्यन्तानि सन्ति । तेजः पद्मलेश्ययोर्मिथ्यादृष्ट्यादीनि
१
— वली च । ज्ञाना — ताº नº ।
२
— दृष्टिश्चास्ति । सम्यग्मिथ्यादृष्टेः टिप्पनकारकाभिप्रायेण ज्ञातव्यम् ।
आभिनि — नº ।
३३
अप्रमत्तस्थानान्तानि । शुक्ललेश्यायां मिथ्यादृष्टयादीनि सयोगकेवल्यन्तानि । अलेश्या
अयोगकेवलिनः । भव्यानुवादेन भव्येषु चतुर्दशापि सन्ति । अभव्या आद्य एव स्थाने ।
सम्यक्त्वानुवादेन क्षायिकसम्यकत्वे असंयतसम्यग्दृष्ट्यादीनि अयोगकेवल्यन्तानि
सन्ति । क्षायोपशमिकसम्यक्त्वे असंयतसम्यग्दृष्ट्यादीनि अप्रमत्तान्तानि । औपशमिक
-
०५
सम्यक्त्वे असंयतसम्यग्दृष्ट्यादीनि उपशान्तकषायान्तानि । सासादनसम्यग्दृष्टिः सम्य
-
ङ्मिथ्यादृष्टिर्मिथ्यादृष्टिश्च स्वे स्वे स्थाने । संज्ञानुवादेन संज्ञिसु द्वादश गुणस्थानानि
क्षीणकषायान्तानि । असंज्ञिषु एकमेव मिथ्यादृष्टिस्थानम् । तदुभयव्यपदेशरहितः सयोग
-
केवली अयोगकेवली च । आहारानुवादेन आहारकेषु मिथ्यादृष्ट्यादीनि केवल्यन्तानि ।
अनाहारकेषु विग्रहगत्यापन्नेषु त्रीणि गुणस्थानानि मिथ्यादृष्टिः सासादनसम्यग्दृष्टिर
-
१०
संयतसम्यग्दृष्टिश्च । समुद्घातगतः सयोगकेवली अयोगकेवली च । सिद्धाः परमेष्ठिनः
अतीतगुणस्थानाः । उक्ता सत्प्ररूपाणा ।
३४
सङ्ख्याप्ररूपणोच्यते । सा द्विविधा
१
सामान्येन विशेषेण च । सामान्येन तावत् जीवा
मिथ्यादृष्टयोऽनन्तानन्ताः । सासादनसम्यग्दृष्टयः सम्यङ्मिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयः
संयतासंयताश्च पल्योपमासङ्ख्येयभागप्रमिताः । प्रमत्तसंयताः कोटीपृथक्त्वसङ्ख्याः ।
पृथक्त्वमित्यागमसंज्ञा तिसृऋणां कोटीनामुपरि नवानामधः । अप्रमत्तसंयताः संख्येयाः ।
०५
चत्वार उपशमकाः प्रवेशेन एको वा द्वौवात्रयो वा । उत्कर्षेण चतुःपञ्चाशत् । स्वकालेन
समुदिताः संख्येयाः । चत्वारः क्षपका अयोगकेवलिनश्च प्रवेशेन एको वा द्वौवात्रयो वा ।
उत्कर्षेणाष्टोत्तरशतसंख्याः । स्वकालेन समुदिताः संख्येयाः । सयोगकेवलिनः प्रवेशेन एको
वा द्वौ वा त्रयो वा । उत्कर्षेणाष्टोत्तरशतसंख्याः । स्वकालेन समुदिताः शतसहस्रपृथ
-
क्त्वसंख्याः ।
१०
विशेषेण गत्यनुवादेन नरकगतौ प्रथमायां पृथिव्यां नारका मिथ्यादृष्टयोऽसं
-
ख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । द्वितीयादिष्वा सप्तम्या मिथ्यादृष्टयः श्रेण्य
-
१
द्विविधा । सामान्येन तावत् — मुº
३५
संख्येयभागप्रमिताः । स चासंख्येयभागः असंख्येया योजनकोटीकोट्यः । सर्वासु पृथिवीषु
सासादनसंम्यग्दृष्टयः सम्यङ्मिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयश्च पल्योपमासंख्येयभागप्र
-
मिताः । तिर्यग्गतौ तिरश्चां
१
मध्ये मिथ्यादृष्टयोऽनन्तानन्ताः । सासादनसम्यग्दृष्ट्यादयः
संयतासंयतान्ताः पल्योपमासंख्येयभागप्रमिताः । मनुष्यगतौ मनुष्या मिथ्यादृष्टयः श्रेण्य
-
०५
संख्येयभागप्रमिताः । स चासंख्येयभागः असंख्येया योजनकोटीकोट्यः । सासादनसम्य
-
ग्दृष्ट्यादयः संयतासंयतान्ताः संख्येयाः । प्रमत्तादीनां सामान्योक्ता संख्या । देवगतौ देवा
मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादनसम्यग्दृष्टिसम्यङ्
-
मिथ्यादृष्ट्यसंयतसम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः । इन्द्रियानुवादेन एकेन्द्रिया
१
तिरश्चां मिथ्या — मुº
३६
मिथ्यादृष्टयोऽनन्तानन्ताः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया असंख्येयाः श्रेणयः प्रत
-
रासंख्येयभागप्रमिताः । पञ्चेन्द्रियेषु मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभाग
-
प्रमिताः । सासादनसम्यग्दृष्ट्यादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः । कायानुवादेन
पृथिवीकायिका अप्कायिकास्तेजःकायिका वायुकायिका असंख्येया लोकाः । वनस्पतिका
-
०५
यिकाः अनन्तानन्ताः । त्रसकायिकसंख्या पञ्चेन्द्रियवत् । योगानुवादेन मनोयोगिनो वा
-
ग्योगिनश्च मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । काययोगिनो
१
मिथ्यादृष्टयोऽनन्तानन्ताः । त्रया
२
णामपि योगिनां सासादनसम्यग्दृष्ट्यादयः
संयतासंयतान्ता पल्योपमासंख्येयभागप्रमिताः । प्रमत्तसंयतादयःसयोगकेवल्यन्ताः
संख्येयाः । अयोगकेवलिनः सामान्योक्तसङ्ख्याः । वेदानुवादेन स्त्रीवेदाः
१०
पुंवेदाश्च मिथ्यादृष्टयोऽसङ्ख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । नपुंसक
-
१
— योगिषु मिथ्या — मुº । — योगेषु मिथ्या — दिº २ ।
२
— नन्ताः । त्रियोगिनां सासा — मुº ।
३७
वेदा मिथ्यादृष्टयोऽनन्तानन्ताः । स्त्रीवेदा नपुंसकवेदाश्च सासादनसम्यदृष्ट्यादयः संय
-
तासंयतान्ताः सामान्योक्तसंख्याः । प्रमत्तसंयतादयोऽनिवृत्तिबादरान्ताः संख्येयाः । पुंवेदाः
सासादनसम्यग्दृष्ट्याद
१
योऽनिवृत्तिबादरान्ताः सामान्योक्तसंख्याः । अपगतवेदा अनिवृत्ति
-
बादरादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः । कषायानुवादेन क्रोधमानमायासु मिथ्यादृ
-
०५
ष्ट्यादयः संयतासंयतान्ताः सामान्योक्तसंख्याः । प्रमत्तसंयतादयोऽनिवृत्तिबादरान्ताः
संख्येयाः । लोभकषायाणामुक्त एव क्रमः । अयं तु विशेषः सूक्ष्मसाम्परायसंयताः सामा
-
न्योक्तसंख्याः । अकषाया उपशान्तकषायादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः । ज्ञाना
-
नुवादेन मत्यज्ञानिनः श्रुताज्ञानिनश्च मिथ्यादृष्टि
२
सासादनसम्यग्दृष्टयः सामान्योक्तसंख्याः ।
१
— दयो संयतासंयतान्ताः सामान्योक्तसंख्याः । प्रमत्तसंयतादयोऽनिवृत्ति — मुº, आº, दिº १ दिº २ ।
२
— दृष्टयःसासा — ताº
३८
विभङ्गज्ञानिनो मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादन
-
सम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः । मतिश्रुतज्ञानिनोऽसंयतसम्यग्दृष्ट्यादयः क्षीण
-
कषायान्ताः सामान्योक्तसंख्याः । अवधिज्ञानिनोऽसंयतसम्यग्दृष्टिसंयतासंयता
१
सामान्यो
-
क्तसंख्याः । प्रमत्तसंयतादयः क्षीणकपायान्ताः संख्येयाः । मनःपर्ययज्ञानिनः प्रमत्तसंय
-
०५
तादयः क्षीणकषायान्ताः संख्येयाः । केवलज्ञानिनः सयोगा अयोगाश्च सामान्योक्तसं
-
ख्याः । संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयताः प्रमत्तादयोऽनिवृत्तिबादरान्ताः
सामान्योक्तसंख्याः । परिहारविशुद्धिसंयताः प्रमत्ताश्चाप्रमत्ताश्च संख्येयाः । सूक्ष्मसा
-
म्परायशुद्धिसंयता यथाख्यातविहारशुद्धिसंयताः संयतासंयता असंयताश्च सामान्योक्त
-
संख्याः । दर्शनानुवादेन चक्षुर्दर्शनिनो मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभाग
-
१०
प्रमिताः । अचक्षुर्दर्शनिनो मिथ्यादृष्टयोऽनन्तानन्ताः । उभये च सासादनसम्यग्दृष्ट्यादयः
१
— यतान्ताः सामा — मुº, दिº १, दिº २, आº ।
३९
क्षीणकषायान्ताः सामान्योक्तसंख्याः । अवधिदर्शनिनोऽवधिज्ञानिवत् । केवलदर्शनिनः
केवलज्ञानिवत् । लेश्यानुवादेन कृष्णनीलकपोतलेश्या मिथ्यादृष्ट्यादयोऽसंयतसम्यग्दृष्ट्य
-
न्ताः सामान्योक्तसंख्याः । तेजःपद्मलेश्या मिथ्यादृष्ट्यादयः संयतासंयतान्ताः स्त्रीवे
-
दवत् । प्रमत्ताप्रमत्तसंयताः संख्येयाः । शुक्ललेश्या मिथ्यादृष्ट्यादयः संयतासंयतान्ताः
०५
पल्योपमासंख्येयभागप्रमिताः । प्रमत्ताप्रमत्तसंयताः संख्येयाः । अपूर्वकरणादयः सयोग
-
केवल्यन्ता अलेश्याश्च सामान्योक्तसंख्याः । भव्यानुवादेन भव्येषु मिथ्यादृष्ट्यादयोऽ
-
योगकेवल्यन्ताः सामान्योक्तसंख्याः । अभव्या अनन्ताः । सम्यक्त्वानुवादेन क्षायिकसम्य
-
ग्दृष्टिषु असंयतसम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः । संयतासंयतादय उपशान्तक
-
४०
षायान्ताः संख्येयाः । चत्वारः क्षपकाः सयोगकेवलिनोऽयोगकेवलिनश्च सामान्योक्त
-
संख्याः । क्षायोपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्ट्यादयोऽप्रमत्तान्ताः सामान्योक्त
-
संख्याः । औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टिसंयतासंयताः पल्योपमासंख्येयभाग
-
प्रमिताः । प्रमत्ताप्रमत्तसंयताः संख्येयाः । चत्वार औपशमिकाः सामान्योक्तसंख्याः ।
०५
सासादनसम्यग्दृष्टयः सम्यङ्मिथ्यादृष्टयो मिथ्यादृष्टयश्च सामान्योक्तसंख्याः । संज्ञानुवा
-
देन संज्ञिषु मिथ्यादृष्ट्यादयः क्षीणकषायान्ताश्चक्षुर्दर्शनिवत् । असंज्ञिनो मिथ्यादृष्टयो
-
ऽनन्तानन्ताः । तदुभयव्यपदेशरहिताः सामान्योक्तसंख्याः । आहारानुवादेन आहारकेषु
मिथ्यादृष्ट्यादयः सयोगकेवल्यन्ताः सामान्योक्तसंख्याः । अनाहारकेषु मिथ्यादृष्टिसासा
-
दनसम्यग्दृ ष्ट्यसंयतसम्यग्दृष्टयः सामान्योक्तसंख्याः । सयोगकेवलिनः संख्येयाः ।
१०
अयोगकेवलिनः सामान्योक्तसंख्याः । संख्या निर्णीता ।
४१
क्षेत्रमुच्यते । तत् द्विविधं सामान्येन विशेषेण च । सामान्येन तावत् मिथ्या
-
दृष्टीनां सर्वलोकः । सासादनसम्यग्दृष्ट्यादीनामयोगकेवल्यन्तानां लोकस्यासंख्येयभागः ।
सयोगकेवलिनां लोकस्यासंख्येयभा
१
गोऽसंख्येया भागाः सर्वलोको वा । विशेषेण गत्यनुवादेन
नरकगतौ सर्वासु पृथिवीषु नारकाणां चतुर्षु गुणस्थानेषु लोकस्यासंख्येयभागः । तिर्यग्गतौ
०५
तिरश्चां मिथ्यादृष्ट्यादिसंयतासंयतान्तानां सामान्योक्तं क्षेत्रम् । मनुष्यगतौ मनुष्याणां
मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां लोकस्यासंख्येयभागः । सयोगकेवलिनां सामान्योक्तं
क्षेत्रम् । देवगतौ देवानां सर्वेषां चतुर्षु गुणस्थानेषु लोकस्यासंख्येयभागः । इन्द्रियानुवादेन
एकेन्द्रियाणां क्षेत्रं सर्वलोकः । विकलेन्द्रियाणां लोकस्यासंख्येयभागः । पञ्चेन्द्रियाणां
मनुष्यवत् । कायानुवादेन पृथिवीकायादिवनस्पतिकायान्तानां सर्वलोकः । त्रसका
-
१०
यिकानां पञ्चेन्द्रियवत् । योगानुवादेन वाङ्मनसयोगिनां मिथ्यादृष्ट्यादिसयोगकेवल्य
-
१
— भागः । समुद्धातेऽसंख्येया वा भागाः सर्व — मुº नº ।
४२
न्तानां लोकस्यासंख्येयभागः । काययोगिनां मिथ्यादृष्ट्यादिसयोगकेवल्यन्तानामयोग
-
केवलिनां च सामान्योक्तं क्षेत्रम् । वेदानुवादेन
१
स्त्रीपुंवेदानां मिथ्यादृष्ट्याद्यनिवृतिबा
-
दरान्तानां लोकस्यासंख्येयभागः । नपुंसकवेदानां मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्ताना
-
मपगतवेदानां च सामान्योक्तं क्षेत्रम् । कषायानुवादेन क्रोधमानमायाकषायाणां
२
लोभ
-
०५
कषायाणां च मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां सूक्ष्मसाम्परायाणामकषायाणां च सामा
-
न्योक्तं क्षेत्रम् । ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां
सामान्योक्तं क्षेत्रम् । विभङ्गज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां लोकस्यासंख्ये
-
यभागः । आभिनिबोधिकश्रुतावधिज्ञानिनामसंयतसम्यग्दृष्ट्यादीनां
३
क्षीणकषायान्तानां
मनःपर्ययज्ञानिनां च प्रमत्तादीनां क्षीणकषायान्तानां केवलज्ञानिनां सयोगानामयोगानां
१०
च सामान्योक्तं क्षेत्रम् । संयमानुवादेन सामायिकच्छेदोपस्थापनाशुद्धिसंयतानां चतुर्णां
परिहारविशुद्धिसंयतानां प्रमत्ताप्रमत्तानां सूक्ष्मसाम्परायशुद्धिसंयतानां यथाख्यात
-
१
स्त्रीपुंसवेदा — ताº ।
२
— मायालोभ — आº, दिº २ । मायानां लोभ — दिº १ ।
३
— दीनां मनः प — आº
४३
विहारशुद्धिसंयतानां चतुर्णां संयतासंयतानामसंयतानां च चतुर्णां सामान्योक्तं क्षेत्रम् ।
दर्शनानुवादेन चक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां लोकस्यासंख्ययभागः ।
अचक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तं क्षेत्रम् । अवधिदर्शनि
-
नामवधिज्ञानिवत् । केवलदर्शनिनां केवलज्ञानिवत् । लेश्यानुवादेन कृष्णनीलकापोत
-
०५
लेश्यानां मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तानां सामान्योक्तं क्षेत्रम् । तेजःपद्मलेश्यानां
मिथ्यादृष्ट्याद्यप्रमत्तान्तानां लोकस्यासंख्येयभागः । शुक्ललेश्यानां मिथ्यादृष्ट्यादिक्षी
-
णकषायान्तानां लोकस्यासंख्येयभागः । सयोगकेवलिनामलेश्यानां च सामान्योक्तं
क्षेत्रम् । भव्यानुवादेन भव्यानां चतुर्दशानां सामान्योक्तं क्षेत्रम् । अभव्यानां सर्व
-
लोकः । सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां
१०
क्षायोपशमिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानामौपशमिकसम्यग्दृष्टीनामसंय
-
तसम्यग्दृष्ट्याद्युपशान्तकषायान्तानां सासादनसम्यग्दृष्टीनां सम्यङ्मिथ्यादृष्टीनां
४४
मिथ्यादृष्टीनां च सामान्योक्तं क्षेत्रम् । सञ्ज्ञानुवादेन सञ्ज्ञिनां चक्षुर्दर्शनिवत् । अस
-
ञ्ज्ञिनां सर्वलोकः । तदुभयव्यपदेशरहितानां सामान्योक्तं क्षेत्रम् । आहारानुवादेन
आहारकाणां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां
लोकस्यासंख्येयभागः । अनाहारकाणां मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसंयतसम्यग्दृष्ट्य
-
०५
योगकेवलिनां सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां लोकस्यासंख्येया
१
भागाः सर्वलोको
वा । क्षेत्रनिर्णयः कृतः ।
१
— स्यासंख्येयभागः मुº, दिº १, दिº २ ।
४६
स्पर्शनमुच्यते । तद् द्विविधं सामान्येन विशेषेण च । सामान्येन तावत् मिथ्या
-
दृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ द्वादश
वा चतुर्दशभागा देशोनाः । सम्यङ्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येय
-
भागः अष्टौ चतुर्दशभागा वा देशोनाः । संयतासंयतैर्लोकस्यासंख्येयभागः षट् चतुर्द
-
०५
शभागा वा देशोनाः । प्रमत्तसंयतादीनामयोगकेवल्यन्तानां क्षेत्रवत्स्पर्शनम् ।
विशेषेण गत्यनुवादेन नरकगतौ प्रथमायां पृथिव्यां नारकैश्चतुर्गुणस्थानैर्लोकस्यासं
-
ख्येयभागःस्पृष्टः । द्विदीयादिषु प्राक्सप्तम्या मिथ्यादृष्टिसासादनसम्यग्दृष्टिभिर्लोकस्यासं
-
ख्येयभागः एको द्वौ त्रयः चत्वारः पञ्च चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्ट्यसंय
-
४७
तसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः । सप्तम्यां पृथिव्यां मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः
षट् चतुर्दशभागा वा देशोनाः । शेषैस्त्रिभिर्लोकस्यासंख्येयभागः । तिर्यग्गतौ तिरश्चां
मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः सप्त
चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः । असंयतस
-
०५
म्यग्दृष्टि
१
संयतासंयतैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । मनुष्यगतौ
मनुष्यैर्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः सर्वलोको वा स्पृष्टः । सासादनसम्यग्दृष्टि
-
भिर्लोकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्ट्यादीना
-
१
— दृष्टिभिः संयता — मुº, ताº, नº ।
४८
मयोगकेवल्यन्तानां क्षेत्रवत्स्पर्शनम् । देवगतौ देवैर्मिथ्यादृष्टिसा
२
सादनसम्यग्दृष्टिभिर्लो
-
कस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्ट्यसंयत
-
सम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः ।
इन्द्रियानुवादेन एकेन्द्रियैः सर्वलोकः स्पृष्टः । विकलेन्द्रियैर्लोकस्यासंख्येयभागः
०५
सर्वलोको वा । पञ्चेन्द्रियेषु मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा
देशोनाः सर्वलोको वा । शेषाणां सामान्योक्तं स्पर्शनम् ।
२
— दृष्टिभिः सासा — ताº ।
४९
कायानुवादेन स्थावरकायिकैः सर्वलोकः स्पृष्टः । त्रसकायिनां पञ्चेन्द्रियवत्
स्पर्शनम् ।
योगानुवादेन वाङ्मनसयोगिनां मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतु
-
र्दशभागा वा देशोनाः सर्वलोको वा । सासादनसम्यग्दृष्ट्यादीनां क्षीणकषायान्तानां
०५
सामान्योक्तं स्पर्शनम् । सयोगकेवलिनां लोकस्यासंख्येयभागः । काययोगिनां मिथ्या
-
दृष्टयादीनां सयोगकेवल्यन्तानामयोगकेवलिनां च सामान्योक्तं स्पर्शनम् ।
वेदानुवादेन स्त्री
१
पुंवेदैर्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः स्पृष्टः
२
अष्टौ
चतुर्दशभागा वा देशोनाः सर्वलोको
३
वा । सासादनसम्यग्दृष्टिभिः लोकस्यासंख्येय
-
१
स्त्रीपुंसवे — ताº
२
अष्टौ नव चतु — मुº ।
३
— लोको वा । नपुंसकवेदेषु मुº
५०
भागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां
सामान्योक्तं स्पर्शनम् । नपुंसकवेदेषु मिथ्यादृष्टीनां सासादनसम्यग्दृष्टीनां च सामा
-
न्योक्तं स्पर्शनम् । सम्यङ्मिथ्या
१
दृष्टिभिर्लोकस्यासंख्येयभागः । असंयतसम्यग्दृष्टिसंयता
-
संयतैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्ताद्यनिवृत्तिबादरान्ता
-
०५
नामपगतवेदाणां च सामान्योक्तं स्पर्शनम् ।
१
सम्यङ्मिथ्यादृष्टिभिर्लोकस्यासंख्येभागः स्पृष्टः । सासादनसम्यग्दृष्टिभिः लोकस्यासंख्येयभागः
अष्टौ नव चतुर्दश भागा वा देशोनाः । सम्यग्मिथ्यादृष्टयाद्यनिवृत्तिबादरान्तानां सामान्योक्तं स्पर्शनम् । असंयत
-
सम्य — मुº
५१
कषायानुवादेन चतुष्कषायाणामकषायाणां च सामान्योक्तं स्पर्शनम् ।
ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां सामा
-
न्योक्तं स्पर्शनम् । विभङ्गज्ञानिनां मिथ्यादृष्टीनां लोकस्यासंख्येयभागः अष्टौ
चतुर्दशभागा वा देशोनाः सर्वलोको वा । सासादनसम्यग्दृष्टीनां सामान्योक्तं
०५
स्पर्शनम् । आभिनिबोधिकश्रुतावघिमनःपर्ययकेवलज्ञानिनां सामान्योक्तं स्पर्शनम् ।
संयमानुवादेन संयतानां सर्वेषां संयतासंयतानामसंयतानां च सामान्योक्तं स्पर्शनम् ।
दर्शनानुवादेन चक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां पञ्चेन्द्रिय
-
वत् । अचक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानामवधिकेवलदर्शनिनां च सामा
-
न्योक्तं स्पर्शनम् ।
१०
लेश्यानुवादेन कृष्णनीलकापोतलेश्यैर्मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः ।
५२
सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः पञ्च चत्वारो द्वौ चतुर्दशभागा वा
१
देशोनाः ।
सम्यङ्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः । तेजोलेश्यैर्मिथ्यादृष्टिसासा
-
दनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्य
-
ग्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः ।
०५
संयतासंयतैर्लोकस्यासंख्येयभागः अध्यर्धचतुर्दशभागा वा देशोनाः । प्रमत्ताप्रमत्तैर्लो
-
कस्यासंख्येयभागः । पद्मलेश्यैर्मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तैर्लोकस्यासंख्येयभागः
१
वा देशोनाः । द्वादज्ञभागाः कुतो न लभ्यन्ते इति चेत् तत्रावस्थितलेश्यापेक्षया पञ्चैव । अथवा येषां
मतेसासादन एकेन्द्रियेषु नोत्पद्यते तन्मतापेक्षया द्वादशभागा न दत्ताः । सम्यङ्मिथ्या — मुº, आº, दिº १
५३
अष्टौ चतुर्दशभागा वा देशोनाः । संयतासंयतैर्लोकस्यासंख्येयभागः पञ्च चतुर्दश
-
भागा वा देशोनाः । प्रमत्ताप्रमत्तैर्लोकस्यासंख्येयभागः । शुक्ललेश्यैर्मिंथ्यादृष्ट्यादिसं
-
यतासंयतान्तैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्तादिसयोग
-
केवल्यन्तानां अलेश्यानां च सामान्योक्तं स्पर्शनम् ।
०५
भव्यानुवादेन भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तं स्पर्शनम् ।
अभव्यैः सर्वलोकः स्पृष्टः ।
सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां
५४
सामान्योक्तम् । किंतु संयतासंयतानां लोकस्यासंख्येयभागः । क्षायोपशमिकसम्यग्दृष्टीनां
सामान्योक्तम् । औपशमिकसम्यक्त्वानामसंयतसम्यग्दृष्टीनां सामान्योक्तम् । शेषाणां
लोकस्यासंख्येयभागः । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिमिथ्यादृष्टीनां सामान्योक्तम् ।
सञ्ज्ञानुवादेन सञ्ज्ञिनां चक्षुर्दर्शनिवत् । असञ्ज्ञिभिः सर्वलोकः स्पृष्टः ।
०५
तदुभयव्यपदेशरहितानां सामान्योक्तम् ।
आहारानुवादेन आहारकाणां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तम् ।
सयोगकेवलिनां लोकस्यासंख्येयभागः । अनाहारकेषु मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः ।
सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एकादश चतुर्दशभागा वा देशोनाः ।
असंयतसम्यग्दृष्टिभिः लोकस्यासंख्येयभागः षट् चतुर्दश भागा वा देशोनाः । सयोग
-
१०
केवलिनां लोकस्यासंख्येयभागाः सर्वलोको वा । अयोगकेवलिनां लोकस्यासंख्येयभागः ।
स्पर्शनं व्याख्यातम् ।
५५
कालः प्रस्तूयते । स द्विविधः सामान्येन विशेषेण च । सामान्येन तावत्
मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवापेक्षया त्रयो भङ्गाः । अनादिरप
-
र्यवसानः अनादिः सपर्यवसानः सादिः सपर्यवसानश्चेति । तत्र सादिः सपर्यवसानो
जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेणार्धपुद्गलपरिवर्त्तो देशोनः । सासादनसम्यग्दृष्टेर्नानाजी
-
०५
वापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्ये
-
नैकः समयः । उत्कर्षेण षडावलिकाः । सम्यङ्मिथ्यादृष्टेर्नानाजीवापेक्षया जघन्ये
-
नान्तर्मुहूर्त्तः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्यः उत्कृष्टश्चान्त
-
र्मुहूर्त्तः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्त
-
र्मुहू
१
र्त्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । संयतासंयतस्य नानाजीवापे
-
१०
क्षया सर्वःकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण पूर्वकोटी देशोना ।
१
हूर्तः ।
‘
तिण्णि सहस्सा सत्त य सदाणि तेहत्तरिं चं उस्सासा । एसो हवै मुहुत्तो सव्वेसिं चेव
मणुयाणं ॥
’
उत्क — मुº ।
५६
प्रमत्ताप्रमत्तयोर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षे
-
णान्तर्मुहूर्त्तः । चतुर्णामुपशमकानां नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः
समयः । उत्कर्षेणान्तर्मुहूर्तः । चतुर्णां क्षपकाणामयोगकेवलिनां च नानाजीवापेक्षया
एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्चन्तार्मुहूर्तः । सयोगकेवलिनां नानाजीवापेक्षया
०५
सर्वकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणं पूर्वकोटी देशोना ।
विशेषेण गत्यनुवादेन नरकगतौ नारकेषु सप्तसु पृथिवीषु मिथ्यादृष्टेर्नानाजीवा
-
पेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्त्तर्मुहूर्तः । उत्कर्षेण यथासंख्यं एक
-
त्रि
-
सप्त
-
दश
-
सप्तदश
-
द्वाविंशति
-
त्रयस्त्रिंशत्सागरोपमाणि । सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टेश्च
सामान्योक्तः कालः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति
१०
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण उक्त एवोत्कृष्टो देशोनः ।
५७
तिर्यग्गतौ तिरश्चां मिथ्यादृष्टीनां नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति
जघन्येनान्तर्मुहूर्तः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । सासादनसम्यग्दृष्टि
-
सम्यग्मिथ्यादृष्टिसंयतासंयतानां सामान्योक्तः कालः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया
सर्वकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि ।
०५
मनुष्यगतौ मनुष्येषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्ये
-
नान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि । सासादनसम्य
-
ग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । एकजीवं प्रति जघ
-
न्येनैकः समयः । उत्कर्षेण षडावलिकाः । सम्यग्मिथ्यादृष्टेर्नानाजीवापेक्षया एकजीवा
-
पेक्ष या च जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः ।
१०
एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि सातिरेकाणि । शेषाणां
५८
सामान्योक्तः कालः ।
देवगतौ देवेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्त
-
र्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि । सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टेश्च सामा
-
न्योक्तः कालः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्त
-
०५
र्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि ।
इन्द्रियानुवादेन एकेन्द्रियाणां नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येन
क्षुद्रभवग्रहणम् । उत्कर्षेणानन्तः कालोऽसंख्येया पुद्गलपरिवर्ताः । विकलेन्द्रियाणां
नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण
संख्येयानि वर्षसहस्राणि । पञ्चेन्द्रियेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं
१०
प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् । शेषाणां
सामान्योक्तः कालः ।
५९
कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया सर्वकालः ।
एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणासंख्येया
१
लोकाः । वनस्पतिकायिका
-
नामेकेन्द्रियवत् । त्रसकायिकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके । शेषाणां
०५
पञ्चेन्द्रियवत् ।
योगानुवादेन वाङ्मनसयोगिषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रम
-
त्तसयोगकेवलिनां नानाजीवापेक्षया सर्वकालः । एकजीवापेक्षया जघन्येनैकः समयः । उत्क
-
र्षेणान्तर्मुहूर्तः । सासादनसम्यग्दृष्टेः सामान्योक्तः कालः । सम्यङ्मिथ्यादृष्टेर्नानाजीवापेक्षया
जघन्येनैकसमयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्येनैकः समयः ।
१
— ख्येयः कालः । वन
-
मुº ।
६०
उत्कर्षेणान्तर्मुहूर्तः । चतुर्णामुपशमकानां क्षपकाणां च नानाजीवापेक्षया एकजीवापेक्षया
च जघन्यैनैकसमयः । उत्कर्षेणान्तर्मुहूर्तः । काययोगिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्व
-
कालः । एकजीवं प्रति जघन्येनैकसमयः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरि
-
वर्ताः । शेषाणामनोयोगिवत् । अयोगानां सामान्यवत् ।
०५
वेदानुवादेन स्त्रीवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमशतपृथक्त्वम् । सासादनसम्यग्दृष्ट्याद्यनिवृत्ति
-
बादरान्तानां सामान्योक्तः कालः । किं तु असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः ।
एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि देशोनानि ।
पुंवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः ।
१०
उत्कर्षेण सागरोपमशतपृथक्त्वम् । सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामा
-
न्योक्तः कालः । नपुंसकवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति
६१
जघन्येनान्तर्मुहूर्तः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । सासादनसम्य
-
ग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्यवत् । किं त्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया
सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि
देशोनानि । अपगतवेदानां सामान्यवत् ।
०५
कषायानुवादेन चतुष्कषायाणां मिथ्यादृष्ट्याद्यप्रमत्तान्तानां मनोयोगिवत् ।
द्वयोरुपशमकयोर्द्वयोः क्षपकयोः केवललोभस्य च अकषायाणां च सामान्योक्तः कालः ।
ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिषु मिथ्यादृष्टिसासादनसम्यग्दृष्ट्योः सामा
-
न्यवत् । विभङ्गज्ञानिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । सासादनसम्य
-
१०
ग्दृष्टेः सामान्योक्तः कालः । आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलज्ञानिनां च
सामान्योक्तः ।
६२
संयमानुवादेन सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्या
-
तशुद्धिसंयतानां संयतासंयतानामसंयतानां च चतुर्णां सामान्योक्तः कालः ।
दर्शनानुवादेन चक्षुर्दर्शनिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं
प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे । सासादनसम्यग्दृष्ट्यादीनां
०५
क्षीणकषायान्तानां सामान्योक्तः कालः । अचक्षुर्दर्शनिषु मिथ्यादृष्ट्यादिक्षीणकषा
-
यान्तानां सामान्योक्तः कालः । अवधिकेवलदर्शनिनोरवधिकेवलज्ञानिवत् ।
लेश्यानुवादेन कृष्णनीलकपोतलेश्यासु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः ।
एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सप्तदशसप्तसागरोपमाणि साति
-
रेकाणि । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योः सामान्योक्तः कालः । असंयतसम्यग्दृ
-
१०
ष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिं
-
६३
शत्सप्तदशसप्तसागरोपमाणि देशोनानि । तेजःपद्मलेश्ययोर्मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्यो
-
र्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे साग
-
रोपमे अष्टादश च सागरोपमाणि सातिरेकाणि । सासादनसम्यग्दृष्टिसम्यङ्मिथ्या
-
दृष्ट्योः सामान्योक्तः कालः । संयतासंयतप्रमत्ताप्रमत्तानां नानाजीवापेक्षया सर्वःकालः ।
०५
एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । शुक्ललेश्यानां मिथ्यादृष्टेर्नाना
-
जीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरो
-
पमाणि सातिरेकाणि । सासादनसम्यग्दृष्ट्यादिसयोगकेवल्यन्तानामलेश्यानां च सामान्योक्तः
कालः । किं तु संयतासंयतस्य नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनैकः
समयः । उत्कर्षेणान्तर्मुहूर्तः ।
१०
भव्यानुवादेन भव्येषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया
द्वौ भङ्गौ । अनादिः सपर्यवसानः सादिः सपर्यवसानश्च । तत्र सादिः सपर्यवसानो
६४
जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । सासादनसम्यग्दृष्ट्याद्ययोग
-
केवल्यन्तानां सामान्योक्तः कालः । अभव्यानामनादिरपर्यवसानः ।
सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां
सामान्योक्तः कालः । क्षायोपशमिकसम्यग्दृष्टीनां चतुर्णां सामान्योक्तः कालः । औप
-
०५
शमिकसम्यक्त्वेषु असंयतसम्यग्दृष्टिसंयतासंयतयोर्नानाजीवापेक्षया जघन्येनान्तर्मुहूर्तः ।
उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः । प्रम
-
त्ताप्रमत्तयोश्चतुर्णामुपशमकानां च नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः ।
समयः । उत्कर्षेणान्तर्मुहूर्तः । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्टिमिथ्यादृष्टीनां सामा
-
न्योक्तः कालः ।
१०
सञ्ज्ञानुवादेन संज्ञिषु मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां पुंवेदवत् । शेषाणां
सामान्योक्तः ।
१
असंज्ञिनां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभव
-
ग्रहण
२
म् । उत्कर्षेणानन्तःकालोऽसंख्येयाः पुद्गलपरिवर्ताः । तदुभयव्यपदेशरहितानां
१
— ज्ञिनां मिथ्यादृष्टेनार्ना मुº ।
२
— ग्रहणम् । तिण्णिसया छत्तीसा छावट्वी सहस्साणि मरणाणि । अंतोमुहुत्तमेत्ते तावदिया चेव
होंति खुद्दभवा । ६६३३६ । उत्क — मुº ।
६५
सामान्योक्तः ।
आहारानुवादेन आहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं
प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणांगुलासंख्येयभागः असंख्येया
१
संख्येया उत्सर्पीण्यव
-
सर्पिण्यः । शेषाणां सामान्योक्तः कालः । अनाहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया
०५
सर्वः कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण त्रयः समयाः । सासादनसम्य
-
ग्दृष्ट्यसंयतसम्यग्दृष्ट्योर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणावलिकाया
असंख्येयभागः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण द्वौ समयौ । सयोगकेव
-
लिनो नानाजीवापेक्षया जघन्येन त्रयः समयाः । उत्कर्षेण संख्येयाः समयाः । एकजीवं
प्रति जघन्यश्चोत्कृष्टश्च त्रयः समयाः । अयोगकेवलिनां सामान्योक्तः कालः । कालो
१०
वर्णितः ।
अन्तरं निरूप्यते । विविक्षितस्य गुणस्य गुणान्तरसंक्रमे सति पुनस्तत्प्राप्तेः
प्राङ्मध्यमन्तरम् । तत् द्विविधं सामान्येन विशेषेण च । सामान्येन तावत् मिथ्या
-
१
— ख्येयाः संख्य — मुº ।
६६
दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे
षट्षष्ठी देशोने सागरोपमाणाम् । सासादनसम्यग्दृष्टेरन्तरं नानाजीवापेक्षया जघन्ये
-
नैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्येन पल्योपमासंख्ये
-
यभागः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । सम्यग्मिथ्यादृष्टेरन्तरं नानाजीवापेक्षया
०५
सासादनवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः ।
असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति
जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । चतुर्णामुपशमकानां नानाजी
-
६७
वापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः ।
उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । चतुर्णां क्षपकाणामयोगकेवलिनां च नानाजीवा
-
पेक्षया जघन्येनैकः समयः । उत्कर्षेण पण्मासाः । एकजीवं प्रति नास्त्यन्तरम् । सयोगके
-
वलिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ।
०५
विशेषेण गत्यनुवादेन नरकगतौ नारकाणां सप्तसु पृथिवीषु मिथ्यादृष्ट्यसंय
-
तसम्यग्दृष्ट्योर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः ।
उत्कर्षेण एक
-
त्रि
-
सप्त
-
दश
-
सप्तदश
-
द्वाविंशति
-
त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । सासा
-
दनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्यो
-
पमासंख्येयभागः । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण
१०
एक
-
त्रि
-
सप्त
-
दश
-
सप्तदश
-
द्वाविंशति
-
त्रयस्त्रिंशत्सागरोपमाणि देशोनानि ।
६८
तिर्यग्गतौ तिरश्चां मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति
जघन्येनार्न्तुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि देशोनानि । सासादनसम्यग्दृष्ट्यादीनां
चतुर्णां सामान्योक्तमन्तरम् ।
मनुष्यगतौ मनुष्याणां मिथ्यादृष्टेस्तिर्यग्वत् । सासादनसम्यग्दृष्टिसम्यग्मिथ्या
-
०५
दृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागो
-
ऽन्तर्मुहूर्तश्च । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि । असंयत
-
६९
सम्यग्दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्यैनान्तर्मुहूर्तः । उत्कर्षेण
त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि । संयतासंयतप्रमत्ताप्रमत्तानां नाना
-
जीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी
-
पृथक्त्वानि । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति
०५
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटीपृथक्त्वानि । शेषाणां सामान्यवत् ।
देवगतौ देवानां मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्योर्नानाजीवापेक्षया नास्त्यन्तरम् ।
एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण एकत्रिंशत्सागरोपमाणि देशोनानि ।
सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति
७०
जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेणैकत्रिंशत्सागरोपमाणि देशोनानि ।
इन्द्रियानुवादेन एकेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया
जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके ।
विकलेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येन क्षुद्रभवग्रहणम् ।
०५
उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । एवमिन्द्रियं प्रत्यन्नरमुक्तम् । गुणं
प्रत्युभयतोऽपि नास्त्यन्तरम् । पञ्चेन्द्रियेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टि
-
सम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमा
-
संख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् ।
असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति
७१
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् । चतुर्णोमुपश
-
मकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण साग
-
रोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् । शेषाणां सामान्योक्तम् ।
कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया नास्त्यन्तरम् ।
०५
एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः ।
वनस्पतिकायिकानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येन
क्षुद्रभवग्रहणम् । उत्कर्षेणासंख्येया लोकाः । एवं कायं प्रत्यन्तरमुक्तम् । गुणं प्रत्युभयतोऽपि
नास्त्यन्तरम् । त्रसकायिकेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्
-
योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च ।
१०
उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके
१
। असंयतसम्यग्दृष्ट्याद्यप्रम
-
१
— भ्यधिके । चतुर्णा — मुº
७२
त्तान्तानां नानाजीवापेक्षया नास्त्यन्तरं । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण
द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरम्यधिके । चतुर्णामुपशमकानां नानाजीवापेक्षया
सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वको
-
टीपृथक्त्वैरभ्यधिके । शेषाणां पञ्ञेन्द्रियवत् ।
०५
योगानुवादेन कायवाङ्मनसयोगिनां मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिसंयतासंयतप्रम
त्ताप्रमत्तसयोगकेवलिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । सासाद
-
नसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्य
-
न्तरम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ।
चतुर्णां क्षपकाणामयोगकेवलिनां च सामान्यवत् ।
१०
वेदानुवादेन स्त्रीवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं
प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि देशोनानि । सासादनसम्यग्दृ
-
ष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमा
-
७३
संख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण पल्योपमशतपृथक्त्वम् । असंयतसम्यग्दृष्ट्याद्यप्रमत्ता
-
न्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण
पल्योपमशतपृथक्त्वम् । द्वयोरुपशमकयोर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमशतपृथक्त्वम् । द्वयोः क्षपकयोर्नानाजीवापेक्षया
०५
जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् ।
पुंवेदेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नाना
-
जीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च ।
उत्कर्षेण सागरोपमशतपृथक्त्वम् । असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया
नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् ।
७४
द्वयोरुपशमकयोर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः ।
उत्कर्षेण सागरोपमशतपृथक्त्वम् । द्वयोः क्षपकयोर्नानाजीवापेक्षया जघन्येनैकः समयः ।
उत्कर्षेण संवत्सरः सातिरेकः । एकजीवं प्रति नास्त्यन्तरम् ।
नपुंसकवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्ये
-
०५
नान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । सासादनसम्यग्दृष्ट्याद्यनि
-
वृत्त्युपशमकान्तानां सामान्योक्तम् । द्वयोः क्षपकयोः स्त्रीवेदवत् । अपगतवेदेषु अनिवृत्ति
-
बादरोपशमकसूक्ष्मसाम्परायोपशमकयोर्नानाजीवापेक्षया सामान्योक्तम् । एकजीवं प्रति
जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं
प्रति नास्त्यन्तरम् । शेषाणां सामान्यवत् ।
१०
कषायानुवादेन क्रोधमानमायालोभकषायाणां मिथ्यादृष्ट्याद्यनिवृत्त्युपशमका
-
न्तानां मनोयोगिवत् । द्वयोः क्षपकयोर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण
संवत्सरः सातिरेकः । केवललोभस्य सूक्ष्मसाम्परायोपशमकस्य नानाजीवापेक्षया
७५
सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । क्षपकस्य तस्य सामान्यवत् । अकषायेषु
उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ।
शेषाणां त्रयाणां सामान्यवत् ।
ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानिषु मिथ्यादृष्टेर्नानाजीवापेक्षया
०५
एकजीवापेक्षया च नास्त्यन्तरम् । सासादनसम्यग्दृष्टेर्नानाजीवापेक्षया सामान्यवत् ।
एकजीवं प्रति नास्त्यन्तरम् । आभिनिबोधिकश्रुतावधिज्ञानिषु असंयतसम्यग्दृष्टेर्नाना
-
जीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी
देशोना । संयतासंयतस्य नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्त
-
र्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि सातिरेकाणि । प्रमत्ताप्रमत्तयोर्नानाजीवापेक्षया
१०
नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि
सातिरेकाणि । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति
७६
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि सातिरेकाणि । चतुर्णां क्षपकाणां
सामान्यवत् । किं तु अवधिज्ञानिषु नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण
वर्षपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् । मनःपर्ययज्ञानिषु प्रमत्ताप्रमत्तसंयतयोर्नाना
-
जीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । चतुर्णामुपशमकानां
०५
नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी
देशोना । चतुर्णां क्षपकाणामवधिज्ञानिवत् । द्वयोः केवलज्ञानिनोः सामान्यवत् ।
संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतेषु प्रमत्ताप्रमत्तयोर्नानाजीवा
-
पेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । द्वयोरुपशमकयोर्नाना
-
जीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना ।
७७
द्वयोः क्षपकयोः सामान्यवत् । परिहारशुद्धिसंयतेषु प्रमत्ताप्रमत्तयोर्नानाजीवापेक्षया नास्त्यन्त
-
रम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । सूक्ष्मसाम्परायशुद्धिसंय
१
तेषूपशमकस्य
नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । तस्यैव क्षपकस्य सामा
-
न्यवत् । यथाख्याते अकषायवत् । संयतासंयतस्य नानाजीवापेक्षया एकजीवापेक्षया च
०५
नास्त्यन्तरम् । असंयतेषु मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति
जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । शेषाणां त्रयाणां
सामान्यवत् ।
दर्शनानुवादेन चक्षुर्दर्शनिषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टि
-
सम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमा
-
१०
संख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमसहस्रे देशोने । असंयतसम्यग्दृष्ट्याद्य
-
१
— यमे उप — आº, दिº १, दिº २, ताº ।
७८
प्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः ।
उत्कर्षेण द्वेसागरोपमसहस्रे देशोने । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्योक्तम्
१
।
एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे देशोने । चतुर्णां
क्षपकाणां सामान्योक्तम् । अचक्षुर्दर्शनिषु मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्यो
०५
क्तमन्तरम् । अवधिदर्शनिनोऽवधिज्ञानिवत् । केवलदर्शनिनः केवलज्ञानिवत् ।
लेश्यानुवादेन कृष्णनीलकपोतलेश्येषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्योर्नानाजी
-
वापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सप्तद
-
शसप्तसागरोपमाणि देशोनानि । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया
१
सामान्यवत् । एक — मुº
७९
सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण
त्रयस्त्रिंशत्सप्तदशसप्तसागरोपमाणि देशोनानि ।
तेजःपद्मलेश्ययोर्मिथ्यादृष्ट्यसंयतसम्यग्दृट्योर्नानाजीवापेक्षया नास्त्यन्तरम् । एक
-
जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमाणि
०५
सातिरेकाणि । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् ।
एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमे
अष्टादश च सागरोपमाणि सातिरेकाणि । संयतासंयतप्रमत्ताप्रमत्तसंयतानां नाना
-
जीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ।
शुक्ललेश्येषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्टयोर्नानाजीवापेक्षया नास्त्यन्तरम् ।
१०
एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि देशोनानि । सासाद
-
नसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन
पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेणैकत्रिंशत्सागरोपमाणि देशोनानि । संयता
-
संयतप्रमत्तसंयतयोस्तेजोलेश्यावत् । अप्रमत्तसंयतस्य नानाजीवापेक्षया नास्त्यन्तरम् ।
८०
एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः
१
। त्रयाणामुपशमकानां नानाजीवापेक्षया सामा
-
न्यवत् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । उपशान्तकषायस्य नानाजीवापेक्षया
सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । चतुर्णां क्षपकाणां सयोगकेवलिनामलेश्यानां च
सामान्यवत् ।
०५
भव्यानुवादेन भव्येषु मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् । अभव्यानां
नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ।
सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिष्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् ।
एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । संयतासंयतप्रमत्ताप्रमत्तसंय
-
तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंश
-
१०
त्सागरोपमाणि सातिरेकाणि । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं
१
— हूर्तः । अयदो त्ति छ लेस्साओ सुहतिय लेस्सा हु देसविरदतिये । तत्तो दु सुक्कलेस्सा अजो
-
गिठाणं अलेस्सं तु ॥ त्रयाणा — मुº
८१
प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । शेषाणां
सामान्यवत् ।
क्षायोपशमिकसम्यग्दृष्टिष्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं
प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । संयतासंयतस्य नानाजीवापेक्षया
०५
नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि
देशोनानि । प्रमत्ताप्रमत्तसंयतयोर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येना
-
न्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि ।
औपशमिकसम्यग्दृष्टिष्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः ।
उत्कर्षेण सप्त रात्रिंदिना
१
नि । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । संयतासंयतस्य
१
— दिनानि । एक — मुº
८२
नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण चतुर्दश रात्रिंदिनानि । एकजीवं प्रति
जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । प्रमत्ताप्रमत्तसंयतयोर्नानाजीवापेक्षया जघन्येनैकः समयः ।
उत्कर्षेण पञ्चदश रात्रिंदिनानि । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । त्रयाणामुप
-
शमकानां नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति
०५
जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं
प्रति नास्त्यन्तरम् । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया जघन्येनैकः
समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति नास्त्यन्तरम् । मिथ्यादृष्टेर्नाना
-
जीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ।
सञ्ज्ञानुवादेन संज्ञिषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यङ्मिथ्या
-
१०
दृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्त
-
र्मुहूर्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् । असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवा
-
८३
पेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथ
-
क्त्वम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्त
-
र्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । चतुर्णां क्षपकाणां सामान्यवत् । असंज्ञिनां
नानाजीवापेक्षयैकजीवापेक्षया च नास्त्यन्तरम् । तदुभयव्यपदेशरहितानां सामान्यवत् ।
०५
आहारानुवादेन आहारकेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टि
-
सम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येय
-
भागोऽन्तर्मुहूर्तश्च । उत्कर्षेणांगुलासंख्येयभागोऽसंख्येयासंख्येया
१
उत्सर्पिण्यवसर्पिण्यः ।
असंयतसम्यग्दृष्ट्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति
जघन्येनान्तर्मुहूर्तः । उत्कर्षेणांगुलासंख्येयभा
१
गोऽसंख्येया संख्येया
१
उत्सर्पिण्यवसर्पिण्यः ।
१०
चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः ।
उत्कर्षेणांगुलासंख्येय
१
भागोऽसंख्येयासंख्येया उत्सर्पिण्यवसर्पिण्यः । चतुर्णां क्षपकाणां
सयोगकेवलिनां च सामान्यवत् ।
१
— भागा असंख्येया उत्स — मुº ।
८४
अनाहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् ।
सासादनसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः ।
एकजीवं प्रति नास्त्यन्तरम् । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्यैनैकः समयः ।
उत्कर्षेण मासपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् । सयोगकेवलिनः नानाजीवापेक्षया
०५
जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् । अयोग
-
केवलिनः नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण षण्मासाः । एकजीवं प्रति
नास्त्यन्तरम् । अन्तरमवगतम् ।
भावो विभाव्यते । स द्विविधः सामान्येन विशेषेण च । सामान्येन तावत्
मिथ्यादृष्टिरित्यौदयिको भावः । सासादनसम्यग्दृष्टिरिति पारिणामिको भावः । सम्य
-
१०
ङ्मिथ्यादृष्टिरिति क्षायोपशमिको भावः । असंयतसम्यग्दृष्टिरिति औपशमिको वा क्षायिको
८५
वा क्षायोपशमिको वा भावः
१
। असंयतः पुनरौयिकेन भावेन । संयतासंयतः प्रमत्तसंयतोऽ
-
प्रमत्तसंयत इति क्षायोपशमिको भावः । चतुर्णामुपशमकानामौपशमिको भावः । चतुर्षु
क्षपकेषु सयोगायोगकेवलिनोश्च क्षायिको भावः ।
विशेषेण गत्यनुवादेन नरकगतौ प्रथमायां पृथिव्यां नारकाणां मिथ्यादृष्ट्याद्य
-
०५
संयतसम्यग्दृष्ट्यन्तानां सामान्यवत् । द्वितीयादिष्वा सप्तम्या मिथ्यादृष्टिसासादनसम्य
-
ग्दृष्टिसम्यङ्मिथ्यादृष्टीनां सामान्यवत् । असंयतसम्यग्दृष्टेरौपशमिको वा क्षायोपशमिको
वा भावः । असंयतः पुनरौदयिकेन भावेन । तिर्गग्गतौ तिरश्चां मिथ्यादृष्ट्यादिसंयता
-
संयतान्तानां सामान्यवत् । मनुष्यगतौ मनुष्याणां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां
सामान्यवत् । देवगतौ देवानां मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तानां सामान्यवत् ।
१०
इन्द्रियानुवादेन एकेन्द्रियविकलेन्द्रियाणामौदयिको भावः । पञ्चेद्रियेषु मिथ्या
-
दृष्ट्ययोगकेवल्यन्तानां सामान्यवत् ।
कायानुवादेन स्थावरकायिकानामौदयिको भावः । त्रसकायिकानां सामान्यमेव ।
१
भावः । उक्तं च — मिच्छे खलु अदैओ विदिए पुण पारिंणामिओ भावो । मिस्से खओवसमिओ
अविरदसम्मम्मि तिण्णेव ॥
१
॥ असं — मुº ।
८६
योगानुवादेन कायवाङ्मनसयोगिनां मिथ्यादृष्ट्यादिसयोगकेवल्यन्तानां च
सामान्यमेव ।
वेदानुवादेन स्त्रीपुन्नपुंसकवेदानामवेदानां च सामान्यवत् ।
कषायानुवादेन क्रोधमानमायालोभकषायाणामकषायाणां च सामान्यवत् ।
०५
ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिनां मतिश्रुतावधिमनःपर्ययकेवल
-
ज्ञानिनां च सामान्यवत् ।
संयमानुवादेन सर्वेषां संयतानां संयतासंयतानामसंयतानां च सामान्यवत् ।
दर्शनानुवादेन चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनिनां सामान्यवत् ।
लेश्यानुवादेन षड्लेश्यानामलेश्यानां च सामान्यवत् ।
१०
भव्यानुवादेन भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् । अभव्यानां
पारिणामिको भावः ।
८७
सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेः क्षायिको भावः ।
क्षायिकं सम्यक्त्वम् । असंयतत्वमौदयिकेन भावेन । संयतासंयतप्रमत्ताप्रमत्तसंयतानां
क्षायोपशमिको भावः । क्षायिकं सम्यक्त्वं । चतुर्णामुपशमकानामौपशमिको भावः ।
क्षायिकं सम्यक्त्वम् । शेषाणां सामान्यवत् । क्षायोपमिकसम्यग्दृष्टिषु
०५
असंयतसम्यग्दृष्टेः क्षायोपशमिको भावः । क्षायोपशमिकं सम्यक्त्वम् । असंयतः
पुनरौदयिकेन भावेन । संयतासंयतप्रमत्ताप्रमत्तसंयतानां क्षायोपशमिको भावः ।
क्षायोपशमिकं सम्यक्त्वम् । औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेरौपशमिको भावः ।
औपशमिकं सम्यक्त्वम् । असंयतः पुनरौदयिकेन भावेन । संयतासंयतप्रमत्ताप्रमत्तसंयतानां
क्षायोपशमिको भावः । औपशमिकं सम्यक्त्वम् । चतुर्णामुपशमकानामौपशमिको भावः ।
१०
औपशमिकं सम्यक्त्वम् । सासादनसम्यग्दृष्टेः पारिणामिको भावः । सम्यङ्मिथ्यादृष्टेः
क्षायोपशमिको भावः । मिथ्यादृष्टेरौदयिको भावः ।
संज्ञानुवादेन संज्ञिनां सामान्यवत् । असंज्ञिनामौदयिको भावः । तदुभयव्यपदेश
-
रहितानां सामान्यवत् ।
८८
आहारानुवादेन आहारकाणामनाहारकाणां च सामन्यवत् । भावः परिसमाप्तः ।
अल्पबहुत्वमुपवर्ण्यते । तत् द्विविधं सामान्येन विशेषेण च । सामान्येन तावत्
सर्वतः स्तोकाः त्रय उपशमकाः स्वगुणस्थानकालेषु प्रवेशेन तुल्यसंख्याः । उपशान्तक
-
षायास्तावन्त एव । त्रयः क्षपकाः संख्येयगुणाः । क्षीणकषायवीतरागच्छद्मस्थास्तावन्त
०५
एव । सयोगकेवलिनोऽयोगकेवलिनश्च प्रवेशेन तुल्यसंख्याः । सयोगकेवलिनः स्वकालेन
समुदिताः संख्येयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संय
-
तासंयता
१
असंख्येयगुणाः । सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः । सम्यग्मिथ्यादृष्टयः
२
सं
-
ख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः ।
विशेषेण गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकेषु सर्वतः स्तोकाः सासा
-
१०
दनसम्यग्दृष्टयः । सम्यग्मिथ्यादृष्टयः संख्येयगुणाः । असंयतसग्यग्दृष्टयोऽसंख्येयगुणाः ।
मिथ्यादृष्टयोऽसंख्येयगुणाः । तिर्यग्गतौ तिरश्चां सर्वतः स्तोकाः संयतासंयताः । इतरेषां
१
— संयता संख्ये — मुº ।
२
-
दृष्टयः असंख्ये — मुº ।
८९
सामान्यवत् । मनुष्यगतौ मनुष्याणामुपशमकादिप्रत्तसंयतान्तानां सामान्यवत् । ततः
संख्येयगुणाः संयतासंयताः । सासादनसम्यग्दृष्टयः संख्येयगुणाः । सम्यग्मिथ्यादृष्टयः संख्ये
-
यगुणाः । असंयतसम्यग्दृष्टयः संख्येयगुणाः । मिथ्यादृष्टयोऽसंख्येयगुणाः । देवगतौ
देवानां नारकवत् ।
०५
इंद्रियानुवादेन एकेन्द्रियविकलेन्द्रियेषु गुणस्थानभेदो नास्तीत्यल्पबहुत्वाभावः
१
।
पञ्चेन्द्रियाणां सामान्यवत् । अयं तु विशेषः मिथ्यादृष्टयोऽसंख्येयगुणाः ।
कायानुवादेन स्थावरकायेषु गुणस्थानभेदाभावादल्पबहुत्वाभावः
२
। त्रसकायि
-
कानां पञ्चेन्द्रियवत् ।
योगानुवादेन वाङ्मनसयोगिनां पञ्चेन्द्रियवत् । काययोगिनां सामान्यवत् ।
१०
वेदानुवादेन स्त्रीपुंवेदानां पञ्चेन्द्रियवत् । नपुंसकवेदानामवेदानां च
सामान्यवत् ।
१
— भावः । इन्द्रियं प्रत्युच्यते । पञ्चेन्द्रियाद्येकेन्द्रियान्ता उत्तरोत्तरं बहवः । पञ्चे — मुº ।
२
— भावः । कायं प्रत्युच्यते । सर्वतस्तेजःकायिका अल्पाः । ततो बहवः पृथिवीकायिकाः ।
ततोऽप्यप्कायिकाः । ततो वातकायिकाः । सर्वतोऽनन्तगुणा वनस्पतयः । त्रस — मुº ।
९०
कषायानुवादेन क्रोधमानमायाकषायाणां पुंवेदवत् । अयं तु विशेषः मिथ्या
-
दृष्टयोऽनन्तगुणाः । लोभकषायाणां द्वयोरुपशमकयोस्तुल्या संख्या । क्षपकाः संख्येय
-
गुणाः । सूक्ष्मसाम्परायशुध्द्युपशमकसंयता विशेषाधिकाः । सूक्ष्मसाम्परायक्षपकाः संख्येय
-
गुणाः । शेषाणां सामान्यवत् ।
०५
ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः ।
मिथ्यादृष्टयोऽनन्तगुणाः
१
। विभंगज्ञानिषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः ।
मिथ्यादृष्टयोऽसंख्येयगुणः । मतिश्रुतावधिज्ञानिषु सर्वतः स्तोकाश्चत्वार उपशमकाश्चत्वारः
क्षपकाः संख्येयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संयता
-
संयताः असं
२
ख्येयगुणाः । असंयतसम्यग्दृष्टयः
३
असंख्येयगुणाः । मनःपर्ययज्ञानिषु सर्वतः
१०
स्तोकाश्चत्वार उपशमकाः । चत्वारः क्षपकाः संख्येयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः ।
प्रमत्तसंयताः संख्येयगुणाः । केवलज्ञानिषु अयोगकेवलिभ्यः सयोगकेवलिनः संख्येयगुणाः ।
संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतेषु द्वयोरुपशमकयोस्तुल्या संख्या ।
१
दृष्टयोऽसंख्येयगुणाः । मति — मुº ।
२
— यताः संख्ये — मुº ।
३
— ष्टयःसंख्ये — मुº ।
९१
ततः संख्येयगुणौ क्षपकौ । अप्रमत्ताः संख्येयगुणाः । प्रमत्ताः संख्येयगुणाः । परिहारशुद्धिसंय
-
तेषु अप्रमत्तेभ्यः प्रमत्ताः संख्येयगुणाः । सूक्ष्मसाम्परायशुद्धिसंयतेषु उपशमकेभ्यः क्षपकाः
संख्येयगुणाः । यथाख्यातविहारशुद्धिसंयतेषु उपशान्तकषायेभ्यः क्षीणकषायाः संख्येय
-
गुणाः । अयोगकेवलिनस्तावन्त एव । सयोगकेवलिनः संख्येयगुणाः । संयतासंयतानां
०५
नास्त्यल्पबहुत्वम् । असंयतेषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । सम्यङ्मिथ्यादृष्टयः
१
संख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः ।
दर्शनानुवादेन चक्षुर्दर्शनिनां मनोयोगिवत् । अचक्षुर्दर्शनिनां काययोगिवत् ।
अवधिदर्शनिनामवधिज्ञानिवत् । केवलदर्शनिनां केवलज्ञानिवत् ।
लेश्यानुवादेन कृष्णनीलकपोतलेश्यानां असंयतवत् । तेजःपद्मलेश्यानां सर्वंतः
१०
स्तोका अप्रमत्ताः । प्रमत्ताः संख्येयगुणाः । एवमितरेषां पञ्चेन्द्रियवत् । शुक्ललेश्यानां
सर्वतः स्तोका उपशमकाः । क्षपकाः संख्येयगुणाः । सयोगकेवलिनः संख्येयगुणाः ।
अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संयतासंयताः
२
असंख्येय
-
१
— दृष्टयोऽसंख्ये
-
मुº ।
२
संयताः संख्ये — मुº ।
९२
गुणाः । सासादनसम्यग्दृष्टयोऽ
१
संख्येयगुणाः । सम्यग्मिथ्यादृष्टयः संख्येयगुणाः । मिथ्या
-
दृष्टयोऽसंख्येगुणाः । असंयतसम्यग्दृष्टयः
२
संख्येयगुणाः ।
भव्यानुवादेन भव्यानां सामान्यवत् । अभव्यानां नास्त्यल्पबहुत्वम् ।
सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु सर्वतः स्तोकाश्चत्वार उपशमकाः ।
०५
इतरेषां प्रमत्तान्तानां सामान्यवत् । ततः संयतासंयताः संख्येयगुणाः । असंयतसम्यग्दृष्ट
-
योऽसंख्येयगुणाः । क्षायोपशमिकसम्यग्दृष्टिषु सर्वतः स्तोका अप्रमत्ताः । प्रमत्ताः संख्येय
-
गुणाः । संयतासंयताः
३
असंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । औपशमिक
-
सम्यग्दृष्टीनां सर्वतः स्तोकाश्चत्वार उपशमकाः । अप्रमत्ताः संख्येयगुणाः । प्रमत्ताः
संख्येयगुणाः । संयतासंयताः
४
असंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । शेषाणां
१०
नास्त्यल्पबहुत्वम्
५
।
सञ्ज्ञानुवादेन संज्ञिनां चक्षुर्दर्शनिवत् । असंज्ञिनां नास्त्यल्पबहुत्वम् । तदुभय
-
व्यपदेशरहितानां केवलज्ञानिवत् ।
१
— दृष्टयः संख्ये — मुº ।
२
— दृष्टयोऽसंख्ये — मुº ।
३
— यताः संख्येय — मुº ।
४
— यताः संख्ये — मुº ।
५
बहुत्वम् । विपक्षे एकैकगुणस्थान
-
ग्रहणात् । सञ्ज्ञा — मुº ।
९३
आहारानुवादेन आहारकाणां काययोगिवत् । अनाहारकाणां सर्वतः स्तोकाः
सयोगकेवलिनः । अयोगकेवलिनः संख्येयगुणाः । सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः ।
असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः ।
एवं मिथ्यादृष्ट्यादीनां गत्यादिषु मार्गणा कृता सामान्येन । तत्रसूक्ष्मभेद
०५
आगमाविरोधेनानुसर्तव्यः ।
एवं सम्यग्दर्शनस्यादावुद्दिष्टस्य लक्षणोत्पत्तिस्वामिविषयन्यासाधिगमोपाया
निर्दिष्टाः । तत्सम्बन्धेन च जीवादीनां सञ्ज्ञापरिमाणादि निर्दिष्टम् । तदनन्तरं सम्यग्
-
ज्ञानं विचारार्हमित्याह —
मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥
९
॥
१०
ज्ञानशब्दः प्रत्येकं परिसमाप्यते । मतिज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्ययज्ञानं
केवलज्ञानमिति । इन्द्रियैर्मनसा च यथास्वमर्थो
१
मन्यते अनया मनुते मननमात्रं वा मतिः ।
१
— स्वमर्थान्मन्यते मुº ।
९४
तदावरण
१
कर्मक्षयोपशमे सति निरूप्यमाणं श्रूयते अनेन
२
तत् शृणोति श्रवणमात्रं वा
श्रुतम् । अनयोः प्रत्यासन्ननिर्देशः कृतः कार्यकारणभावात् । तथा च वक्ष्यते
’
श्रुतं
मतिपूर्वम्
’
इति ।
३
अवाग्धानादवच्छिन्नविषयाद्वा अवधिः । परकीयमनोगतोऽर्थो मन
इत्युच्यते । साहचर्यात्तस्य पर्ययणं परिगमनं मनःपर्ययः । मतिज्ञानप्रसङ्ग इति चेत्; न;
०५
अपेक्षामात्रत्वात् । क्षयोपशमशक्तिमात्रविजृम्भितं हि तत्केवलं स्वपरमनोभिर्व्यपदिश्यते ।
यथा अभ्रे चन्द्रमसं पश्येति । बाह्येनाभ्यन्तरेण च तपसा यदर्थमर्थिनो मार्गं केवन्ते सेवन्ते
तत्केवलम् । असहायमिति वा ।
१
— वरणक्षयो
-
मुº ।
२
अनेनेति तत् मुº ।
३
‘
अवाग्धानादवधिः । अथवा अधो
-
गौरवधर्मत्वात्पुद्गलः अवाङ् नाम तं दधाति परिच्छिनत्तीति अवधिः । अवधिरेव ज्ञानं अवधिज्ञानम् । अथवा
अवधिर्मर्यादा अवधिना सह वर्तमानज्ञानमवधिज्ञानम् ।
’
— धवº प्रº अº पº ८६५ आरा ।
९५
तदन्ते प्राप्यते इति अन्ते क्रियते । तस्य प्रत्यासन्नत्वात्तत्समीपे मनःपर्ययग्रहणम् ।
कुतः प्रत्यासत्तिः । संयमैकाधिकरणत्वात् । तस्य अवधिर्विप्रकृष्टः । कुतः ? विप्रकृष्टांत
१
-
रत्वात् । प्रत्यक्षात्परोक्षं पूर्वमुक्तं सुगमत्वात् । श्रुतपरिचितानुभूता
२
हि मतिश्रुतपद्धतिः
सर्वेण प्राणिगणेन प्रायः प्राप्यते यतः । एवमेतत्पञ्चविधं ज्ञानम् । तद्भेदादयश्च पुरस्ताद्वक्ष्यन्ते
०५
’
प्रमाणनयैरधिगमः
’
इत्युक्तम् । प्रमाणं च केषाञ्चित् ज्ञानमभिमतम् । केषा
-
१
विप्रकृष्टतर — मुº
२
‘
सुदपरिचिदाणुभूदा … ।
’
— सº प्राº गाº ४ ।
९६
ञ्चित् सन्निकर्षः । केषाञ्चिदिन्द्रियमिति । अतोऽधिकृतानामेव मत्यादीनां
प्रमाणत्वख्यापनार्थमाह —
तत्प्रमाणे ॥
१०
॥
तद्वचनं किमर्थम् ? प्रमाणान्तरपरिकल्पनानिवृत्त्यर्थम् । सन्नि
१
कर्षः प्रमाणमिन्द्रि
२
यं
०५
प्रमाणमिति केचित्कल्पयन्ति तन्निवृत्त्यर्थं तदित्युच्यते । तदेव मत्यादि प्रमाणं
ना
३
न्यदिति ।
अथ सन्निकर्षे प्रमाणे सति इन्द्रिये वा को दोषः ? यदि सन्निकर्षः प्रमाणम्;
सूक्ष्मव्यवहितविप्रकृष्टानामर्थानामग्रहणप्रसङ्गः । न हि ते इन्द्रियैः सन्निकृष्यन्ते । अतः
सर्वज्ञत्वाभावः स्यात् । इन्द्रियमपि यदि प्रमाणं स एव दोषः; अल्पविषयत्वात्
१०
चक्षुरादीनां ज्ञेयस्य चापरिमाणत्वात् ।
सर्वेन्द्रियसन्निकर्षाभावश्च; चक्षुर्मनसोः प्राप्यकारित्वाभावात् । अप्राप्यकारित्वं
च उत्तरत्न वक्ष्यते ।
१
‘
उपलब्धिसाधनानि प्रमाणानि ।
’
— १ । १ । ३ न्याº भाº ।
२
‘
यदुपलब्धिनिमित्तं तत्प्रमाणम् ।
’
न्याº वाº पृº ५ ।
३
नातोऽन्यदिति आº, दिº १ ।
९७
यदि ज्ञानं प्रमाणं फलाभावः । अधिगमो हि फलमिष्टं न भावान्तरम् । स
चेत्प्रमाणं, न तस्यान्यत्फलं भवितुमर्हति । फलवता च प्रमाणेन भवितव्यम् । सन्निकर्षे
इन्द्रिये वा प्रमाणे सति अधिगमः फलमर्थान्तरभूतं युज्यते इति ? तदयुक्तम् । यदि
सन्निकर्षः प्रमाणं अर्थाधिगमः फलं, तस्य द्विष्ठत्वात्तत्फलेनाधिगमेनापि द्विष्ठेन
०५
भवितव्यमिति अर्थादीनामप्यधिगमः प्राप्नोति । आत्मनश्चेतनत्वात्तत्रैव समवाय इति
चेत् ? न; ज्ञस्वभावाभावे सर्वेषामचेतनत्वात् । ज्ञस्वभावाभ्युपगमे वा आत्मनः
स्वमतविरोधः स्यात् ।
ननु चोक्तं ज्ञाने प्रमाणे सति फलाभावः इति ? नैष दोषः; अर्थाधिगमे
प्रीतिदर्शनात् । ज्ञस्वभावस्यात्मनः कर्ममलीमसस्य करणालम्बनादर्थनिश्चये प्रीतिरु
-
१०
पजायते । सा फलमित्युच्यते । उपेक्षा
१
अज्ञाननाशो वा फलम् । रागद्वेषयोरप्रणिधा
-
१
‘
अज्ञाननिवृत्तिर्हानोपादानोपेक्षाश्च फलम् ।
’
— पº मुº ५ । ९ ।
‘
यदा सन्निकर्षस्तदा ज्ञानं प्रमितिः ।
यदा ज्ञानं तदा हानोपादानोपेक्षाबुद्धयः फलम् ।
’
— १ । १ । ३ न्याº भाº ।
९८
नमुपेक्षा । अन्धकारकल्पाज्ञा
१
ननाशो वा फलमित्युच्यते ।
प्रमिणोति प्रमीयतेऽनेन प्रमितिमात्रं वा प्रमाणम् । किमनेन प्रमीयते ?
जीवादिरथंḥ । यदि जीवादेरधिगमे प्रमाणं प्रमाणाधि
२
गमे च अन्यत्प्रमाणं परिकल्पयि
-
तव्यम् । तथा सत्यनवस्था ? नानवस्था प्रदीपवत् । यथा घटादीनां प्रकाशने प्रदीपो
०५
हेतुः
३
स्वस्वरूपप्रकाशनेऽपि स एव, न प्रकाशान्त
४
रं मृग्यं तथा प्रमाणमपीति अवश्यं
चैतदभ्युपगन्तव्यम् । प्रमेयवत्प्रमाणस्य प्रमाणान्तरपरिकल्पनायां स्वाधिगमाभावात्
स्मृत्यभावः । तदभावाद् व्यवहारलोपः स्यात् ।
वक्ष्यमाणभेदापेक्षया द्विवचननिर्देशः । वक्ष्यते हि
’
आद्ये परोक्षम्, प्रत्यक्षमन्यद्
’
इति स च द्विवचननिर्देशः प्रमाणान्तरसंख्यानिवृत्त्यर्थः ।
१
— ल्पाज्ञानाभावः अज्ञाननाशो मुº ।
२
— धिगमे अन्य — मुº ।
३
हेतुः तत्स्व — मुº ।
४
— न्तरमस्य मृग्यम् मुº ।
१००
१
उक्तस्य पञ्चविधस्य ज्ञानस्य प्रमाणद्वयान्तःपातित्वे प्रतिपादिते प्रत्यक्षानुमा
-
नादिप्रमाणद्वयकल्पनानिवृत्त्यर्थमाह —
१
— त्यर्थः । उपमानार्थापत्त्यादीनामत्रैवान्तर्भावादुक्त — मुº ।
१०१
आद्ये परोक्षम् ॥
११
॥
आदिशब्दः प्राथम्यवचनः । आदौ भवमाद्यम् । कथं द्वयोः प्रथमत्वं ? मुख्यो
-
पचारकल्पनया । मतिज्ञानं तावन्मुख्यकल्पनया प्रथमम् । श्रुतमपि तस्य प्रत्यासत्त्या
प्रथममित्युपचर्यते । द्विवचननिर्देशसामर्थ्याद्गौणस्यापि ग्रहणम् । आद्यं च आद्यं आद्ये मतिश्रुते
०५
इत्यर्थः । तदुभयमपि परोक्षं प्रमाणमित्यभिसम्बध्यते । कुतोऽस्य परोक्षत्वम्
१
? परायत्तत्वात्
’
मतिज्ञानं इन्द्रियानिन्द्रियनिमित्तम्
’
इति वक्ष्यते
’
श्रुतमनिन्द्रियस्य
’
इति च । अतः पराणी
-
न्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्या
-
त्मनो मतिश्रुतं उत्पद्यमानं परोक्षमित्याख्यायते । अत उपमानागमादीनामत्रैवान्तर्भावः ।
१
क्षत्वम् ? परापेक्षत्वात् । मति — आº, दिº १, दिº २ ।
१०२
अभिहितलक्षणात्परोक्षादितरस्य सर्वस्य प्रत्यक्षत्वप्रतिपादनार्थमाह —
प्रत्यक्षमन्यत् ॥
१२
॥
१०३
अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा । तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा
प्रति नियतं प्रत्यक्षम् । अवधिदर्शनं केवलदर्शनमपि अक्षमेव प्रति नियतमतस्तस्यापि ग्रहणं
प्राप्नोति ? नैष दोषः; ज्ञानमित्यनुवर्तते, तेन दर्शनस्य व्युदासः । एवमपि विभङ्गज्ञानम
१
क्षमेव
प्रति नियतमतोऽस्यापि ग्रहणं प्राप्नोति ? सम्यगित्यधिकारात्
२
तन्निवृत्तिः । सम्यगित्य
-
०५
नुवर्तते तेन ज्ञानं विशिष्यते ततो विभङ्गज्ञानस्य निवृत्तिः कृता । तद्धि मिथ्यादर्शनोद
-
याद्विपरीतार्थविषयमिति न सम्यक् ।
स्यान्मतमिन्द्रियव्या
३
पारजनितं ज्ञानं प्रत्यक्षं व्यतीतेन्द्रि
४
यविषयव्यापारं परोक्ष
-
मित्येतदविसंवादि लक्षणमभ्युपगन्तव्यमिति ? तदयुक्तम्, आप्तस्य प्रत्यक्षज्ञानाभावप्रसङ्गात्
५
।
१
— ज्ञानमपि प्रति — मुº ।
२
— रात् तत्तन्नि — मुº ।
३
‘
अक्षस्य अक्षस्य प्रतिविषयं वृत्तिः
प्रत्यक्षम् ।
’
— १, १, ३ न्याº भाº ।
४
‘
परोक्ष इत्युच्यते । किं परोक्षं नाम ? परमक्ष्णः परोक्षम् ।
’
— पाº
१०
मº भाº ३ । २ । २ । ११५ ।
५
— प्रसंगता । यदि आº, दिº १, दिº २ ।
१०४
यदि इन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षमिष्यते
१
एवं सति आप्तस्य प्रत्यक्षज्ञानं न स्यात् ।
न हि तस्येन्द्रियपूर्वोऽर्थाधिगमः । अथ तस्यापि करणपूर्वकमेव ज्ञानं कल्प्यते, तस्यासर्वज्ञत्वं
स्यात् । तस्य मानसं प्रत्यक्षमिति चेत्; मनः
२
प्रणिधानपूर्वकत्वात्ज्ञानस्य सर्वज्ञत्वाभाव एव ।
आगमतस्तत्सिद्धिरिति चेत् ? न; तस्य
३
प्रत्यक्षज्ञानपूर्वकत्वात् ।
०५
योगिप्रत्यक्षमन्यज्ज्ञानं दिव्यमप्यस्तीति चेत् ? न तस्य प्रत्यक्षत्वं; इन्द्रियनिमि
४
-
त्तत्वाभावात्; अक्ष
५
मक्षं प्रति यद्वर्तते तत्प्रत्यक्षमित्यभ्युपगमात् ।
किञ्च सर्वज्ञत्वाभावः प्रतिज्ञाहानिर्वा । अस्य योगिनो यज्ज्ञानं तत्प्रत्यर्थवशवर्ति
वा स्यात् अनेकार्थग्राहि वा ? यदि प्रत्यर्थवशवर्ति सर्वज्ञत्वमस्य नास्ति योगिनः,
ज्ञेयस्यानन्त्यात् । अथानेकार्थग्राहि या प्रतिज्ञा
१
एवं प्रसक्त्या आप्त — मुº ।
२
‘
युगपज्ज्ञानानुत्पत्तिः मनसो लिङ्गम् ।
’
— न्याº सूº १ । १ । १६ ।
३
तस्य आगमस्य प्रत्य — मुº ।
४
— निमित्ताभा — मुº
५
‘
अक्षमक्षं प्रति वर्तते तत्प्रत्यक्षम् ।
’
१०
— न्याय विन्दुº टीº पृº ११ ।
१०५
’
विजानाति न विज्ञानमेकमर्थद्वयं यथा ।
एकमर्थं विजानाति न विज्ञानद्वयं तथा ॥
’
सा हीयते ।
अथवा
’
क्ष
१
णिकाः सर्वसंकाराः
’
इति प्रतिज्ञा हीयते; अनेकक्षण
२
वृत्त्येकविज्ञा
-
०५
नाभ्युपगमात् । अनेकार्थग्रहणं हि क्रमेणेति । युगपदेवेति चेत् ? योऽस्य जन्मक्षणः
स आत्मलाभार्थ एव । लब्धात्मलाभं हि किञ्चित्स्वकार्यं प्रति व्याप्रियते । प्रदीपवदिति
चेत् ? तस्याप्यनेकक्षणविषयतायां सत्यामेव प्रकाश्यप्रकाशनाभ्युपगमात् । विकल्पाती
-
तत्वात्तस्य शून्यताप्रसङ्गश्च ।
१
‘
क्षणिकाः सर्वसंस्काराः स्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ।
’
— …
२
— क्षणवर्त्येक — मुº ।
१०६
अभिहितोभयप्रकारस्य प्रमाणस्य आदिप्रकारविशेषप्रतिपत्त्यर्थमाह —
मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥
१३
॥
ā
१
दौ उद्दिष्टं यज्ज्ञानं तस्य पर्यायशब्दा एते वेदितव्याः; मतिज्ञानावरणक्षयोप
-
शमान्तरङ्गनिमित्तजनितोपयोगविषयत्वादेतेषां श्रुतादिष्वप्रवृत्तेश्च । मननं मतिः स्मरणं
०५
स्मृतिः सञ्ज्ञानं सञ्ज्ञा चिन्तनं चिन्ता अभिनिबोधनमभिनिबोध इति । यथासम्भवं
विग्रहान्तरं विज्ञेयम् ।
१
आदौ यदुद्दिष्टं ज्ञानं मुº ।
१०७
सत्यपि प्रकृतिभेदे रूढिबललाभात् पर्यायशब्दत्वम् । यथा इन्द्रः
१
शक्रः पुरन्दर
इति इन्दनादिक्रियाभेदेऽपि शचीपतेरेकस्यैव संज्ञा
२
। समभिरूढनयापेक्षया तेषामर्थान्तर
-
कल्पनायां मत्यादिष्वपि स क्रमो विद्यत एव । किं तु मतिज्ञानावरणक्षयोपशमनिमित्तो
-
पयोगं ना
३
तिवर्तन्त इति अयमत्रार्थो विवक्षितः ।
‘
इति
’
शब्दः प्र
४
कारार्थः । एवंप्रकारा अस्य
०५
पर्यायशब्दा इति । अभिधेयार्थो वा । मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध इत्येतैर्यो
-
ऽर्थोऽभिधीयते स एक
५
एव इति ।
१
‘
बहवो हि शब्दाः एकार्था भवन्ति । तद्यथा — इन्द्रः शक्रः पुरुहूतः पुरन्दरः ।
’
— पाº मº भाº
१ । २ । २ । ४५ ।
२
संज्ञाः । सम
-
मुº ।
३
नातिवर्तत इति मुº ।
४
— कारार्थे । एवं — आº, दिº १,
दिº २ ।
‘
हेतावेवं प्रकारे च व्यवच्छेदे विपर्यये । प्रादुर्भावे समाप्तौ च इति शब्दः प्रकीर्ततः ।
’
— अनेº
नाº श्लोº ।
१०८
अथास्यात्मलाभे किं निमित्तमित्यत आह —
तदिन्द्रियानिन्द्रियनिमित्तम् ॥
१४
॥
इन्दतीति इन्द्र आत्मा । तस्य ज्ञस्वभावस्य तदावरणक्षयोपशमे सति स्वयमर्थान्
गृहीतुमसमर्थस्य यदर्थोपलब्धि
१
लिङ्गं तदिन्द्रस्य लिङ्गमिन्द्रि
२
यमित्युच्यते । अथवा लीनमर्थं
०५
गमयतीति लिङ्गम् । आत्मनः सूक्ष्मस्यास्तित्वाधिगमे लिङ्गमिन्द्रियम् । यथा इह
धूमोऽग्नेः । एवमिदं स्पर्शनादि करणं नासति कर्तर्यात्मनि भवितुमर्हतीति ज्ञातुरस्तित्वं
१
— लब्धिनिमित्तं लिङ्गं मुº ।
२
‘
भोगसाधनानीन्द्रियाणि ।
’
— न्याº भाº १ । १ । ९ ।
१०९
गम्यते । अथवा इन्द्र इति नामकर्मोच्यते । तेन सृष्टमिन्द्रियमिति
१
। तत्स्पर्शनादि
उत्तरत्र वक्ष्यते ।
अनिन्द्रियं मनः अन्तःकरणमित्यनर्थान्तरम् । कथं पुनरिन्द्रियप्रतिषेधेन इन्द्रलिङ्गे
एव मनसि अनिन्द्रियशब्दस्य वृत्तिः ? ईषदर्थस्य नञः प्रयोगात् । ईषदिन्द्रियमनिन्द्रय
-
०५
मिति । यथा अनुद
२
रा कन्या इति । कथमीषदर्थः ? । इमानीन्द्रियाणि
३
प्रतिनियतदेश
-
विषयाणि कालान्तरावरथायीनि च । न तथा मनः इन्द्रस्य लिङ्गमपि सत्प्रतिनियतदेश
-
विषयं कालान्तरावस्थायि च ।
तदन्तःकरणमिति चोच्यते । गुणदोषविचारस्मरणादिव्यापारे इन्द्रियानपेक्षत्वा
-
१
‘
भगवा हि सम्मासम्बुद्धो परमिस्सरियभावतो इन्दो, कुसलाकुसलं च कम्मं, कम्मेसु कस्सचि इस्सरि
-
याभावतो । तेनेत्थ कम्मसज्जनितानि ताव इन्द्रियानि कुसलाकुसलं कम्मं उल्लिङ्गेन्ति, तेन च सिट्ठानीति इन्दलिङ्गट्ठेन
१०
इन्दसिट्ठट्ठेन च इन्द्रियानि ।
’
…विº मº पृº ३४३ ।
२
‘
अनुदरा कन्येति ।
’
पाº मº भाº ६ । ३ । २ । ४२ ।
३
‘
इन्द्रस्य वै सतो मनस इन्द्रियेभ्यः पृथगुपदेशो धर्मभेदात् । भौतिकानीन्द्रियाणि नियतविषयाणि, सगुणानां
चैषामिन्द्रियभाव इति । मनस्त्वभौतिकं सर्वविषयं च … ।
’
— न्याº भाº १ । १ । ४ ।
‘
सर्वविषयमन्तःकरणं मनः ।
’
—
न्याº भाº १ । १ । ९ ।
११०
च्चक्षुरादिवद् बहिरनुपलब्धेश्च अन्तर्गतं
१
करणमन्तःकरणमित्युच्यते ।
तदिति किमर्थम् ? । मतिज्ञाननिर्देशार्थम् । ननु च तदनन्तरं
‘
अनन्तरस्य
विधिर्वा भवति प्रतिषेधो वा
’
इति तस्यैव ग्रहणं भवति ? इहार्थमुत्तरार्थं च तदित्युच्यते ।
यन्मत्यादिपर्यायशब्दवाच्यं ज्ञानं तदिन्द्रियानिन्द्रियनिमित्तं तदेवावग्रहेहावायधारणा इति ।
०५
इतरथा हि प्रथमं मत्यादिशब्दवाच्यं ज्ञानमित्युक्त्वा इन्द्रियानिन्द्रियनिमित्तं श्रुतम् ।
तदेवावग्रहेहावायधारणा इत्यनिष्टमभिसम्बध्येत ।
१
— र्गतं करणमित्यु — मुº ।
१११
एवं निर्ज्ञातोत्पत्तिनिमित्तमनिर्णीतभेदमिति तद्भेदप्रतिपत्त्यर्थमाह —
अवग्रहेहावायधारणाः ॥
१५
॥
विषयविषयिसन्निपातसमनन्तरमा
१
द्यं ग्रहणमवग्रहः । विषयविषयिसन्निपाते सति
दर्शनं भवति । तदनन्तरम
२
र्थग्रहणमवग्रहः । यथा — चक्षुषा शुक्लं रूपमिति ग्रहणम
-
०५
वग्रहः । अवग्रहगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा । यथा — शुक्लं रूपं किं बलाका
प
३
ताका वेति । विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । उत्पतननिप
४
तनपक्षविक्षेपादिभिर्ब
-
लाकैवेयं न पताकेति । अवेत
५
स्य कालान्तरेऽविस्मरणकारणं धारणा
६
। यथा — सैवेयं
१
— माद्यग्रह — मुº ।
२
— मर्थस्य ग्रह — मुº ।
३
पताकेति । मुº ।
४
उत्पतनपक्ष
आº, दिº १, दिº २ ।
५
अथैतस्य मुº ।
६
‘
तयणंतरं तयत्थाविच्चवणं जो य वासणाजोगो । कालं
-
तरे य जं पुणरणुसरणं धारणा सा उ ।
’
— वि. भा. गा. २९१ ।
११२
बलाका पूर्वाह्वे यामहमद्राक्षमिति ।
१
एषामवग्रहादीनामुपन्यासक्र
५
म उत्पत्तिक्रमकृतः ।
उक्तानामवग्रहादीनां प्रभेदप्रतिपत्यर्थमाह —
बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥
१६
॥
अवग्रहादयः क्रियाविशेषाः प्रकृताः । तदपेक्षोऽयं कर्मनिर्देशः । बह्वादीनां
०५
सेतराणामिति । बहुशब्दस्य संख्यावैपुल्यवाचिनो ग्रहणमविशेषात् । संख्यवाची
२
यथा,
एको द्वौ बहव इति । वैपुल्यवाची यथा,
३
बहुरोदनो बहुः सूप इति । विधशब्दः प्रकार
-
वाची । क्षिप्रग्रहणमचिरप्रतिपत्त्यर्थम् । अनिःसृतग्रहणं असकलपुद्गलोद्गमार्थम् ।
१
‘
ईहिज्जै नागहिर्यं नज्जै नाणीहियं न यावायं । धारिच्जै जैं वत्थुं तेण कमोऽवग्गहाईओ ॥
’
—
वि. भा. गा. २९६ ।
२
‘
अस्त्येव संख्यावाची । तद्यथा एको द्वौ बहव इति ।
’
— पा. म. भा. १ । ४ । २ । २१ ।
३
‘
बहुरोदनो बहुः सूप इति ।
’
— पा. म. भा. १ । ४ । २ । २१ ।
११३
अनुक्तमभिप्रायेण ग्रहणम् । ध्रुवं
१
निरन्तरं यथार्थग्रहणम् । सेतरग्रहणं प्रतिपक्षसंग्रहार्थम् ।
बहूनामवग्रहः अल्पस्यावग्रहः बहुविधस्यावग्रहः एकविधस्यावग्रहः क्षिप्रमवग्रहः
चिरेणावग्रहः अनिःसृतस्यावग्रहः निःसृतस्यावग्रहः अनुक्तस्यावग्रहः उक्तस्याव
-
ग्रहः ध्रुवस्यावग्रहः अध्रुवस्यावग्रहश्चेति अवग्रहो द्वादशविकल्पः । एवमीहादयोऽपि । त
०५
एते पञ्चभिरिन्द्रियद्वारैर्मनसा च प्रत्येकं प्रादुर्भाव्यन्ते । तत्र बह्ववग्रहादयः मतिज्ञाना
-
वरणक्षयोपशमप्रकर्षात् प्रभवन्ति नेतरे इति । तेषामभ्यर्हितत्वादादौ ग्रहणं क्रियते ।
बहुबहुविधयोः कः प्रतिविशेषः; यावता ब
२
हुष्वपि बहुत्वमस्ति बहुविधेष्वपि
बहुत्वमस्ति; एकप्रकारनानाप्रकारकृतो विशेषः । उक्तनिःसृतयोः कः प्रतिविशेषः;
यावता सकलनिःसरणान्निःसृतम् । उक्तमप्येवंविधमेव ? अयमस्ति विशेषः, अन्योपदेश
-
१
ध्रुवं यथा ताº, नº ।
२
‘
बहुषु बहुविधे ।
’
— मुº ।
११४
पूर्वकं ग्रहणमुक्तम् । स्वत एव ग्रहणं निःसृतम् ।
अपरेषां क्षिप्रनिःसृत इति पाठः । त एवं वर्णयन्ति श्रोत्रेन्द्रियेण शब्दमवगृ
-
ह्यमाणं मयूरस्य वा कुररस्य वेति कश्चित्प्रतिपद्यते । अपरःस्वरूपमेवा
१
श्रित्य इति ।
ध्रुवावग्रहस्य धारणायाश्च कः प्रतिविशेषः ? उच्यते, क्षयोपशमप्राप्तिकाले
०५
विशुद्धपरिणामसन्तत्या प्राप्तात्क्षयोपशमात्प्रथमसपये यथावग्रहस्तथैव द्वितीयादिष्वपि
समयेषु नोनो
२
नाभ्यधिक इति ध्रुवावग्रह इत्युच्यते । यदा पुनर्विशुद्धपरिणामस्य संक्लेश
-
परिणामस्य च मिश्रणात्क्षयोपशमो भवति तत उत्पद्यमानोऽवग्रहः कदाचिद् बहूनां कदा
-
चिदल्पस्य कदाचिद् बहुविधस्य कदाचिदेकविधस्य वेति न्यूनाधिकभावादऽध्रुवावग्रह
इत्युच्यते । धारणा पुनर्गृहीतार्थाविस्मरणकारणमिति महदनयोरन्तरम् ।
१
— मेवानिःसृत — आº, दिº १, दि. २, मुº
२
नोनाभ्य — ताº, नº, मुº
११५
यद्यवग्रहादयो बह्वादीनां कर्मणामाक्षेप्तारः, बह्वादीनि पुनर्विशेषणानि कस्ये
-
त्यत आह —
अर्थस्य ॥
१७
॥
चक्षुरादिविषयोऽर्थः । तस्य बह्वादिविशेषणविशिष्टस्य अवग्रहादयो भवन्तीत्य
-
०५
भिसम्बन्धः क्रियते । किमर्थमिदमुच्यते यावता बह्वादिरर्थ एव ? सत्यमेवं किन्तु प्रवादिप
-
रिकल्पनानिवृत्त्यर्थं
‘
अर्थस्य
’
इत्युच्यते । केचित्प्रवादिनो मन्यन्ते रूपादयो गुणा एव इन्द्रियैः
सन्निकृष्यन्ते तेनेतेषामेव ग्रहणमिति ? तदयुक्तम्; न हि ते रूपादयो गुणा अमूर्ता इन्द्रि
-
११६
यसन्निकर्षमापद्यन्ते । न
१
तर्हि इदानीमिदं भवति रूपं मया दृष्टं गन्धो वा घ्रात इति ।
भवति च । कथं ? इयर्ति पर्यायांस्तैर्वाऽर्यत इत्यर्थो द्रव्यं तस्मिन्निन्द्रियैः सन्निकृष्यमाणे
तदव्यतिरेकाद्रूपादिष्वपि संव्यवहारो युज्यते ।
किमिमे अवग्रहादयः सर्वस्येन्द्रियानिन्द्रियस्य भवन्ति उत कश्चिद्विषयविशेषोऽ
-
०५
स्तीत्यत आह —
व्यञ्जनस्यावग्रहः ॥
१८
॥
व्यञ्जनमव्यक्तं
२
शब्दादिजातं तस्यावग्रहो भव
३
ति नेहादयः । किमर्थमिदं ?
नियमार्थम्, अवग्रह एव नेहादय इति । स तर्हि एवकारः कर्तव्यः ? न कर्तव्यः ।
‘
सिद्धे
१
‘
न तर्हि इदानीमिदं भवति ।
’
— वा. भा. १, १, ४ ।
२
‘
तक्कालम्भि वि नाणं तत्थऽत्थि तणुं ति तो तमव्वत्तं ।
’
वि. भा. गा. १९६ ।
३
— ग्रहो
भवति । किम — दिº २, दिº २, आº, मुº, ।
११७
विधिरारभ्यमाणो नियमार्थः
१
इति अन्तरेणैवकारं नियमार्थो भविष्यति । ननु अवग्रह
-
ग्रहणमुभयत्र तुल्यं तत्त्र किं कृतोऽयं विशेषः ? अर्थावग्रहव्यञ्जनावग्रहयोर्व्यक्ताव्यक्तकृतो
विशेषः । कथम् ? अभिनवशरावार्द्रीकरणवत् । यथा जलकण
२
द्वित्रासिक्तः सरावोऽभिनवो
नार्द्रीभवति, स एव पुनःपुनः सिच्यमानः शनैस्तिम्यति एवं श्रोत्रादिष्विन्द्रियेषु शब्दा
-
०५
दिपरिणताः पुद्गला
३
द्वित्रादिषु समयेषु गृह्यमाणा न व्यक्तीभवन्ति, पुनःपुनरवग्रहे
सति व्यक्तीभवन्ति । अतो व्यक्तग्रहणात्प्राग्व्यञ्जनावग्रहः व्यक्तग्रहणमर्थावग्रहः ।
ततोऽव्य
५
क्तावग्रहणादीहादयो न भवन्ति ।
१
‘
सिद्धे विधिरारम्यमाणो ज्ञापकार्थो भवति ।
’
— पा. म. भा. १, १, ३ ।
२
द्वित्रिसि — मुº ।
३
द्वित्र्यादि मुº ।
११८
सर्वेन्द्रियाणामविशेषेण व्यञ्जनावग्रहप्रसङ्गे यत्रासम्भवस्तदर्थप्रतिषेधमाह —
न चक्षुरनिन्द्रियाभ्याम् ॥
१९
॥
चक्षुषा अनिन्द्रियेण च व्यञ्जनावग्रहो न भवति । कुतः ? अप्राप्य
१
कारित्वात् ।
यतोऽप्राप्तमर्थमविदिक्कं
२
युक्तं सन्निकर्षवि
३
षयेऽवस्थितं बाह्यप्रकाशाभिव्यक्तमुपलभते
०५
चक्षुः मनश्चाप्राप्तमित्यन
४
योर्व्यञ्जनावग्रहो
५
नास्ति ।
चक्षुषोऽप्राप्यकारित्वं कथम
६
ध्यवसीयते ? आगमतो युक्तितश्च । आग
-
मतस्ताव
७
त् —
’
पुट्ठं सुणेदि सद्दं अपुट्ठं चेव पस्सदे रूअं ।
गंधं रसं च फासं पुट्ठमपुट्ठं वियाणादि ॥
’
१
अप्राप्तिका — आº, दिº १, दिº २ ।
२
युक्तस — मुº, ताº, नाº, ।
३
— विशेषेऽव — मुº,
१०
ताº, नाº ।
४
प्राप्तमतो नानयोर्व्य — मुº, ताº, नाº ।
५
ग्रहोऽस्ति । मुº ।
६
कथमप्यवसी —
मुº ।
७
तावत् — पुट्ठं सुणोदि सद्दं अपुट्ठं पुण पस्सदे रूवं । फासं रसं च गंधं बद्धं पुट्ठं वियाणादि ॥
युक्ति — मुº । आº निº गाº ५ ।
११९
युक्तितश्च — अप्राप्यकारि चक्षुः; स्पृष्टानवग्रहात् । यदि प्राप्यकारि स्यात् त्वगि
-
न्द्रियवत् स्पृष्टम
१
ञ्जनं गृह्णीयात् न तु गृह्णात्यतो मनोवद
२
प्राप्यकारीत्यवसेयम् ।
ततश्चक्षुर्मनसी वर्जयित्वा शेषाणामिन्द्रियाणां व्यञ्जनावग्रहः । सर्वेषामिन्द्रिया
-
निन्द्रियाणामर्थावग्रह इति सिद्धं ।
१
’
जह पत्तं गेण्हेज उ तग्गयमंजण — ।
’
विº भाº गाº २१२ ।
२
‘
लोयणमपत्तविसयं
०५
मणोव्व ।
’
— विº भाº गाº २०९ ।
१२०
आह निर्दिष्टं मतिज्ञानं लक्षणतो विकल्पतश्च; तदनन्तरमुद्दिष्टं यत् श्रुतं
तस्येदानीं लक्षणं विकल्पश्च वक्तव्य इत्यत आह —
श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम् ॥
२०
॥
श्रुतशब्दोऽयं श्रवणमुपादय व्युत्पादितोऽपि रूढिवशात् कस्मिंश्चिज्ज्ञानविशेषे
०५
वर्तते । यथा कुशलवनकर्म प्रतीत्य
१
व्युत्पादितोऽपि कुशलशब्दो रूढिवशात्पर्यवदाते
२
वर्तते ।
कः पुनरसौ ज्ञानविशेष इति अत आह
‘
श्रुतं मतिपूर्वम्
’
इति । श्रुतस्य प्रमाणत्वं
पूरयतीति
३
पूर्वं निमित्तं कारणमित्यनर्थान्तरम् । मतिर्निर्दिष्टा । मतिः पूर्वमस्य मतिपूर्वं
मतिकारणमित्यर्थः । यदि मतिपूर्वं श्रुतं तदपि मत्यात्मकं प्राप्नोति
‘
कारणसदृशं हि लोके
कार्यं दृष्टम् इति । नैतदैकान्तिकम् । दण्डादिकारणोऽयं घटो न दण्डाद्यात्मकः । अपि
१
— प्रतीत्त्या व्यु
-
मुº ।
२
‘
अवदातं तु विमले मनौज्ञा
’
— अº नाº ४, ९६ ।
३
‘
पुव्वं पूरणगालणभावओ जं मै̄ ।
’
विº भाº गाº १०५ ।
१२१
च सति तस्मिंस्तदभावात् । सत्यपि मतिज्ञाने बाह्यश्रुतज्ञाननिमित्तसन्निधानेऽपि
प्रबलश्रुतावरणोदयस्य श्रुताभावः । श्रुतावरणक्षयोपशमप्रकर्षे तु सति श्रुतज्ञानमुत्पद्यत
इति मतिज्ञानं निमित्तमात्रं ज्ञेयम् ।
आह, श्रुतमनादिनिधनमिष्यते । तस्य मतिपूर्वकत्वे तदभावः; आदिमतोऽन्त
-
०५
वत्त्वात् । ततश्च पुरुष
१
कृतित्वादप्रामाण्यमिति ? नैष दोषः; द्रव्यादिसामान्यार्पणात्
श्रुतमनादिनिधनमिष्यते । न हि केनचित्पुरुषेण क्वचित्कदाचित्कथञ्चिदुत्प्रेक्षितमिति ।
तेषामेव विशेषापेक्षया आदिरन्तश्च सम्भवतीति
‘
मतिपूर्वम्
’
इत्युच्यते । यथाङ्कुरो बीज
-
पूर्वकः स च सन्तानापेक्षया अनादिनिधन इति । न चापौरुषेयत्वं प्रामाण्यकारणम्;
चौर्याद्युपदेशस्यास्मर्यमाणकर्तृ कस्य प्रामाण्यप्रसङ्गात् । अनित्यस्य च प्रत्यक्षादेः प्रामाण्ये
१०
को विरोधः ।
१
— षकृतत्वा
-
मुº ।
१२२
आह, प्रथमस
१
म्यक्त्वोत्पत्तौ युगपज्ज्ञानपरिणामान्मतिपूर्वकत्वं श्रुतस्य नोपपद्यत
इति ? तदयुक्तम्; सम्यक्त्वस्य तदपेक्षत्वात् । आत्मला
२
भस्तु क्रमवानिति मतिपूर्वकत्व
-
व्याघाताभावः ।
आह, मतिपूर्वं श्रुतमित्येतल्लक्षणमव्यापि श्रुतपूर्वमपि श्रुतमिष्यते । तद्यथा —
०५
शब्दपरिणतपुद्गलस्कन्धादाहितवर्णपदवा
३
क्यादिभावाच्चक्षुरादिविषयाच्च आद्यश्रुतविषय
-
भावमापन्नादव्यभिचारिणः कृत
४
संगीतिर्जनो घटाज्जलधारणादि कार्यं सम्बन्ध्य
५
न्तरं
प्रतिपद्यते, धूमादेर्वाग्न्यादिद्रव्यं, तदा श्रुतात् श्रुतप्रतिपत्तिरिति ? नैष दोषः; तस्यापि
मतिपूर्वकत्वमुपचारतः । श्रुतमपि क्वचिन्मतिरित्युपचर्यते मतिपूर्वकत्वादिति ।
१
‘
णाणाण्णाणाणि य समकालाइं जओ मैसुयाइं । तो न सुयं मैपुव्वं मैणाणे वा
सुयन्नाणं
’
— विº भाº गाº १०७ ।
२
‘
इहलद्धिमैसुयाइं समकालाइं न तूवओगो सिं । मैपुव्वं
१०
सुयमिह पुण सुओपओगो मैप्पभवो ।
’
— विº भाº गाº १०८ ।
३
— पदव्याख्यादि — आº, दिº १ ।
४
— संगति — मुº ।
५
— सम्बन्धान्तरं ताº, नाº ।
१२३
भेदशब्दः प्रत्येकं परिसमाप्यते
-
द्विभेदमनेकभेदं द्वादशभेदमिति । द्विभेदं
तावत् — अङ्गबाह्यमङ्गप्रविष्टमिति । अङ्गबाह्यमनेकविधं दशवैकालिकोत्तराध्य
-
यनादि । अङ्गप्रविष्टं द्वादशविधम् । तद्यथा, आचारः सूत्रकृतं स्थानं समवायः
व्याख्याप्रज्ञप्तिः ज्ञातृधर्मकथा उपासकाध्ययनं अन्तकृद्दशं अनुत्तरौपपादिकदशं
०५
प्रश्नव्याकरणं विपाकसूत्रं दृष्टिवाद इति । दृष्टिवादः पञ्चविधः — परिकर्म सूत्रं
प्रथमानुयोगः पूर्वगतं चूलिका चेति । तत्र पूर्वगतं चतुर्दशविधम् — उत्पादपूर्वं आग्रायणीयं
वीर्यानुप्रवादं अस्तिनास्तिप्रवादं ज्ञानप्रवादं सत्यप्रवादं आत्मप्रवादं कर्मप्रवादं प्रत्याख्या
-
ननामधेयं विद्यानुप्रवादं कल्याणनामधेयं प्राणावायं क्रियाविशालं लोकबिन्दुसारमिति ।
तदेतत् श्रुतं द्विभेदमनेकभेदं द्वादशभेदमिति ।
१०
किंकृतोऽयं विशेषः ? व
१
क्तृविशषकृतः । त्रयो वक्तारः — सर्वज्ञस्तीर्थकर इतरो
वा श्रुतकेवली आरातीयश्चेति । तत्र सर्वज्ञेन परमर्षिणा परमाचिन्त्यकेवलज्ञानविभूति
-
विशेषेण अर्थत आगम उद्दिष्टः । तस्य प्रत्यक्षदर्शित्वात्प्रक्षीणदोषत्वाच्च प्रामाण्यम् ।
तस्य साक्षाच्छिष्यैर्बुद्ध्यतिशयर्द्धियुक्तैर्गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ्गपूर्व
-
१
— शेषः ? विशेषवक्तृतो विशेषः कृतः । आº, दिº १, दिº २ ।
१२४
लक्षणम् । तत्प्रमाणम्; तत्प्रामाण्यात् । आरातीयैः पुनराचार्यैः कालदोषात्त्संक्षिप्तायु
-
र्मतिबलशिष्यानुग्रहार्थं दशवैकालिकाद्युपनिबद्धम् । तत्प्रमाणमर्थतस्तदेवेदमिति
क्षीरार्णवजलं घटगृहीतमिव ।
१२५
व्याख्यातं परोक्षम् । प्रत्यक्षमिदानीं वक्तव्यम् । तद् द्वेधा — देशप्रत्यक्षं स
१
र्वप्रत्यक्षं
च । देशप्रत्यक्षमवधिमनःपर्ययज्ञाने । सर्वप्रत्यक्षं केवलम् । यद्येवमिदमेव तावदवधिज्ञानं
त्रिःप्रकारस्य प्रत्यक्षस्याद्यं व्याक्रियतामित्यत्रोच्यते — द्विविधोऽवधिर्भवप्रत्ययः क्षयोपशम
-
निमित्तश्चेति । तत्र भवप्रत्यय उच्यते —
०५
भवप्रत्ययोऽवधिर्देवनारकाणाम् ॥
२१
॥
भव इत्युच्यते । को भवः ? आयुर्नामकर्मोदयनिमित्त आत्मनः पर्यायो भवः ।
प्रत्ययः कारणं निमित्तमित्यनर्थान्तरम् । भवः प्रत्ययोऽस्य भवप्रत्ययोऽवधिर्देवनारकाणां
वेदितव्यः । यद्येवं तत्र क्षयोपशमनिमित्तत्वं न प्राप्नोति ? नैष दोष; तदाश्रया
-
त्तत्सिद्धेः । भवं प्रतीत्य क्षयोपशमः संज्ञाय
२
त इति कृत्वा भवः प्रधानकारणमित्युपदिश्यते ।
१०
यथा पतत्रिणो गमनमाकाशे भवनिमित्तम्, न शिक्षागुणविशेषः तथा देवनारकाणां
१
— त्यक्षं सकलप्र — मुº ।
२
— शमः संजात इति आº, दिº १, दिº २ ।
१२६
व्रतनियमाद्यभावेऽपि जायत
‘
इति भवप्रत्ययः
’
१
इत्युच्यते । इतरथा हि भवः साधारण
इति कृत्वा सर्वेषामविशेषः स्यात् । इष्यते च तत्रावधेः प्रकर्षाप्रकर्षवृत्तिः ।
‘
देव
-
नारकाणाम्
’
इत्यविशेषाभिधानेऽपि सम्यग्दृष्टीनामेव ग्रहणम् । कुतः ? अवधिग्रहणात् ।
मिथ्यादृष्टीनां च विभङ्ग इत्युच्यते । प्रकर्षाप्रकर्षवृत्तिश्च आगमतो विज्ञेया ।
०५
यदि भवप्रत्ययोऽवधिर्देवनारकाणाम्, अथ क्षयोपशमहेतुकः केषामित्यत आह —
१
— त्यय इष्यते । इत — आº, दिº १, दिº २ ।
१२७
क्षयोपश
१
मनिमित्तः षड्विकल्पः शेषाणाम् ॥
२२
॥
अवधिज्ञानावरणस्य देशघातिस्पर्द्धकानामुदये सति सर्वघातिस्पर्द्धकानामुदयाभावः
क्षयः तेषामेवानुदयप्राप्तानां सदवस्था उपशमः । तौ निमित्तमस्येति क्षयोपशमनिमित्तः ।
स शेषाणां वेदितव्यः । के पुनः शेषाः ? मनुष्यास्तिर्यञ्चश्च । तेष्वपि यत्र सामर्थ्यमस्ति
०५
तत्रैव वेदितव्यः । न ह्यसंज्ञिनामपर्याप्तकानां च तत्सामर्थ्यमस्ति । संज्ञिनां पर्याप्त
-
कानां च न सर्वेषाम् । केषां तर्हि ? यथोवतसम्यग्दर्शनादिनिमित्तसन्निधाने सति
शान्तक्षीणकर्मणां तस्योपलब्धिर्भवति । सर्वस्य क्षयोपशमनिमित्तत्वे क्षयोपशमग्रहणं
नियमार्थं क्षयोपशम एव निमित्तं न भव इति । स एषोऽवधिः षड्विकल्पः । कुतः ?
अनुगाम्यननुगामिवर्धमानहीयमानावस्थितानवस्थितभेदात् । कश्चिदवधिर्भास्कर
-
१०
प्रकाशवद् गच्छन्तमनुगच्छति । कश्चिन्नानुगच्छति तत्रैवानिपतति
२
उन्मु
२
खप्रश्नादेशिपुरुष
-
१
‘
सेसाण खओवसमियाओ ।
’
— विº भाº गाº ५७५ ।
२
— तति । उन्मुग्धप्र — ताº, नाº, मुº ।
१२८
वचनवत् । अपरोऽवधिः अरणिनिर्मथनोत्पन्नशुष्कपर्णोपचीयमानेन्धननिचयसमिद्ध
-
पावकवत्सम्यग्दर्शनादिगुणविशुद्धिपरिणामसन्निधानाद्यत्परिमाण उत्पन्नस्ततो वर्द्धते
आ असंख्येयलोकेभ्यः । अपरोऽवधिः
१
परिच्छिन्नोपादानसन्तत्यग्निशिखावत्सम्यग्दर्श
-
नादिगुणहानिसंक्लेशपरिणामवृद्धियोगाद्यत्परिमाण उत्पन्नस्ततो हीयते आ अङ्गुलस्या
-
०५
संख्येभागात् । इतरोऽवधिः सम्यग्दर्शनादिगुणावस्थानाद्यत्परिमाण उत्पन्नस्तत्परिमाण
एवावतिष्ठते; न हीयते नापि वर्धते लिङ्गवत् आ भवक्षयादा केवलज्ञानोत्पत्तेर्वा ।
अन्योऽवधिः सम्यग्दर्शनादिगुणवृद्धिहानियोगाद्यत्परिमाण उत्पन्नस्ततो वर्द्धते यावदनेन
वर्धितव्यं हीयते च यावदनेन हातव्यं वायुवेगप्रेरितजलोर्मिवत् । एवं षड्विकल्पोऽ
-
वधिर्भवति ।
१०
एवं व्याख्यातमवधिज्ञानं तदनन्तरमिदानीं मनःपर्ययज्ञानं वक्तव्यम् । तस्य
भेदपुरःसरं लक्षणं व्याचिख्यासुरिदमाह —
१
— वधिः । परिमितपरि — मुº ।
१२९
ऋजुविपुलमती मनःपर्ययः ॥
२३
॥
ऋज्वी निर्वर्तिता प्रगुणा च । कस्मान्निर्वर्तिता ? वाक्कायमनःकृतार्थस्य परमनो
-
गतस्य विज्ञानात् । ऋज्वी मतिर्यस्य सोऽयं ऋजुमतिः । अनिर्वर्तिता कुटिला च विपुला ।
कस्मादनिर्वर्तिता ? वाक्कायमनःकृतार्थस्य परकीयमनोगतस्य विज्ञानात् । विपुला मति
-
०५
र्यस्य सोऽयं विपुलमतिः । ऋजुमतिश्च विपुलमतिश्च ऋजुविपुलमती । एकस्य मति
-
शब्दस्य गतार्थत्वादप्रयोगः । अथवा ऋजुश्च विपुला च ऋजुविपुले । ऋजुविपुले मती
ययोस्तौ ऋजुविपुलमती इति । स एष मनःपर्ययो द्विविधः ऋजुमतिर्विपुलमतिरिति ।
आह, उक्तो भेदः, लक्षणमिदानीं वक्तव्यमित्यत्रोच्यते — वीर्यान्तरायमनःपर्ययज्ञाना
-
वरणक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भादात्मनः परकीयमनःसम्बन्धेन लब्धवृत्तिरुप
-
१०
योगो मनःपर्ययः । मतिज्ञानप्रसङ्ग इति चेत् उक्तोत्तरं पुरस्तात् । अपेक्षाकारणं मन
इति । परकीयमनसि व्यवस्थितोऽर्थः अनेन ज्ञायते इत्येतावदत्रापेक्ष्यते
१
। तत्र ऋजुमति
-
१
— पेक्षते आº दिº १, दिº २,
१३०
र्मनःपर्ययः कालतो जघन्येन जीवानामात्मनश्च द्वि
१
त्राणि भवग्रहणानि, उत्कर्षेण सप्ताष्टौ
गत्यागत्यादिभिः प्ररूपयति । क्षेत्रतो जघन्येन गव्यूतिपृथक्त्वं, उत्कर्षेण योजनपृथक्त्व
-
स्याभ्यन्तरं न बहिः । द्वितीयः कालतो जघन्येन सप्ताष्टौ भवग्रहणानि, उत्कर्षेणा
-
संख्येयानि गत्यागत्यादिभिः प्ररूपयति । क्षेत्रतो जघन्येन योजनपृथक्त्वं, उत्कर्षेण मानुषो
-
०५
त्तरशैलस्याभ्यन्तरं, न बहिः ।
उक्तयोरनयोः पुनरपि विशेषप्रतिपत्त्यर्थमाह —
विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥
२४
॥
तदावरणक्षयोपशमे सति आत्मनः प्रसादो विशुद्धिः । प्रतिपतनं प्रतिपातः ।
१
द्वित्रीणि मुº ।
१३१
न प्रतिपातः अप्रतिपातः । उपशान्तकषायस्य चारित्रमोहोद्रेकात्प्रच्युतसंयमशिखरस्य प्रति
-
पातो भवति । क्षीणकषायस्य प्रतिपातकारणाभावादप्रतिपातः । विशुद्धिश्च अप्रति
-
पातश्च विशुद्ध्यप्रतिपातौ ।
१
ताभ्यां विशुद्ध्यप्रतिपाताभ्याम् । तयोर्विशेषस्तद्विशेषः ।
तत्र विशुद्ध्या तावत् — ऋजुमतेर्विपुलमतिर्द्रव्यक्षेत्रकालभावैर्विशुद्धतरः । कथम् ?
०५
इह यः कार्मणद्रव्यानन्तभागोऽन्त्यः सर्वावधिना ज्ञातस्तस्य पुनरनन्तभागीकृतस्यान्त्यो
भाग ऋजुमतेर्विषयः । तस्य ऋजुमतिविषयस्यानन्तभागीकृतस्यान्त्यो भागो विपुलमते
-
र्विषयः । अनन्तस्यानन्तभेदत्वात् । द्रव्यक्षेत्रकालतो विशुद्धिरुक्ता । भावतो विशुद्धिः
सूक्ष्मतरद्रव्यविषयत्वादेव वेदितव्या प्रकृष्टक्षयोपशमविशुद्धियोगात् । अप्रतिपातेनापि
विपुलमतिर्विशिष्टः; स्वामिनां प्रवर्द्धमानचारित्रोदयत्वात् । ऋजुमतिः पुनः प्रतिपाती;
१०
स्वामिनां कषायोद्रेकाद्धीयमानचारित्रोदयत्वात् ।
१
ताभ्याम् । तयोः मुº ।
१३२
यद्यस्य मनःपर्ययस्य प्रत्यात्ममयं विशेषः, अथानयोरवधिमनःपर्यययोः कुतो विशेष
इत्यत आह —
विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥
२५
॥
विशुद्धिः प्रसादः । क्षेत्रं यत्रस्थान्भावान्प्रतिपद्यते । स्वामी प्रयोक्ता । विषयो
०५
ज्ञेयः । तत्रावधेर्मनःपर्ययो विशुद्धतरः । कुतः ? सूक्ष्मविषयत्वात् । क्षेत्रमुक्तम्
१
। विषयो
वक्ष्यते । स्वामित्वं प्रत्युच्यते । प्रकृष्टचारित्रगुणोपेतेषु वर्तते
२
प्रमत्तादिषु क्षीणकषाया
-
न्तेषु । तत्र चोत्पद्यमानः प्रवर्द्धमानचारित्रेषु न हीयमानचारित्रेषु । प्रवर्द्धमानचारित्रेषु
चोत्पद्यमानः सप्तविधान्यतमर्द्धिप्राप्तेषूपजायते नेतरेषु । ऋद्धिप्राप्तेषु केषुचिन्न सर्वेषु ।
i
३
त्यस्यायं स्वामिविशेषो विशिष्टसंयमग्रहणं वा वाक्ये प्रकृतम् । अवधिः पुनश्चातुर्गति
-
१
— मुक्तं विशेषो व — मुº ।
२
— तेऽप्रम — मुº, दिº १, दिº २ ।
३
इत्यस्य स्वामिविशेष
१०
विशिष्टसंयमग्रहणं वाक्ये कृतम् । अव — मुº ताº, नाº ।
१३३
केष्विति स्वामिभेदादप्यनयोर्विशेषः ।
इदानीं केवलज्ञानलक्षणाभिधानं प्राप्तकालम् । तदुल्लङ्ध्य ज्ञानानां विषयनि
-
बन्धः परीक्ष्यते । कुतः ? तस्य
‘
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्
’
इत्यत्र वक्ष्यमाणत्वात् । यद्येवमाद्ययोरेव तावन्मतिश्रुतयोर्विषयनिबन्ध उच्यतामित्यत
०५
आह —
मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥
२६
॥
निबन्धनं निबन्धः । कस्य ? विषयस्य । तद्विषयग्रहणं कर्तव्यम् । न कर्तव्यम् ।
प्रकृतं विषयग्रहणम् । क्व प्रकृतम् ?
‘
विशुद्धिक्षेत्रस्वामिविषयेभ्यः
’
१
इत्यत्र । अतस्तस्यार्थ
-
वशाद्विभक्तिपरिणामो भवतीति
‘
विषयस्य
’
इत्यभिसम्बध्यते ।
‘
द्रव्येषु
’
इति बहुवचन
-
१
— येम्य इत्यतस्त — दिº १, दिº २, आº, मुº ।
१३४
निर्देशः सर्वेषां जीवधर्माध
१
र्माकालाकाशपुद्गलानां संग्रहार्थः । तद्विशेषणार्थं
‘
असर्वपर्याय
’
ग्रहणम् । तानि द्रव्याणि मतिश्रुतयोर्विषयभावमापद्यमानानि कतिपयैरेव पर्यायैर्विषय
-
भावमास्कन्दन्ति न सर्वपर्यायैरनन्तैरपीति । अत्राह — धर्मास्तिकायादीन्यतीन्द्रियाणि
तेषु मतिज्ञानं न प्रवर्तते । अतः सर्वद्रव्येषु मतिज्ञानं वर्तत इत्ययुक्तम् ? नैष दोषः; अनि
-
०५
न्द्रियाख्यं करणमस्ति तदालम्बनो नोइन्द्रियावरणक्षयोपशमलब्धिपूर्वक उपयोगोऽवग्रहा
-
दिरूपः प्रागेवोपजायते । ततस्तत्पूर्वं श्रुतज्ञानं तद्विषयेषु स्वयोग्येषु व्याप्रियते ।
अथ मतिश्रुतयोरनन्तरनिर्देशार्हस्यावधेः को विषयनिबन्ध इत्यत आह —
रूपिष्ववधेः ॥
२७
॥
‘
विषयनिबन्धः
’
इत्यनुवर्तते ।
‘
रूपिषु
’
इत्यनेन पुद्गलाः पुद्गलद्रव्यसम्बन्धाश्च
१०
जीवाः परिगृह्यन्ते । रूपिष्वेवावधेर्विषयनिबन्धो ना
२
रूपिष्विति नियमः क्रियते । रूपिष्वपि
भवन्न सर्वपर्यायेषु, स्वयोग्येष्वेवेत्यवधारणार्थमसर्वपर्यायेष्वित्यभिसम्बध्यते ।
१
— धर्माकाश — मुº ।
२
नारूपेष्विति मुº ।
१३५
अथ तदनन्तरनिर्देशभाजो मनःपर्ययस्य को विषयनिबन्ध इत्यत आह —
तदनन्तभागे मनःपर्ययस्य ॥
२८
॥
यदेतद्रू
१
पि द्रव्यं सर्वावधिज्ञानविषयत्वेन समर्थितं तस्यानन्तभागीकृतस्यैकस्मि
-
न्भागे मनःपर्ययः प्रवर्तते ।
०५
अथान्ते यन्निर्दिष्टं केवलज्ञानं तस्य को विषयनिबन्ध इत्यत आह —
सर्वद्रव्यपर्यायेषु केवलस्य ॥
२९
॥
द्रव्याणि च पर्यायाश्च द्रव्यपर्याया इति इतरेतरयोगलक्षणो द्वन्द्वः । तद्विशेषणं
‘
सर्व
’
ग्रहणं प्रत्येकमभिसम्बध्यते, सर्वेषु द्रव्येषु सर्वेषु पर्यायेष्विति । जीवद्रव्याणि ताव
-
दनन्तानन्तानि, पुद्गलद्रव्याणि च ततोऽप्यनन्तानन्तानि अणुस्कन्धभेद
२
भिन्नानि, धर्मा
-
१०
धर्माकाशानि त्रीणि, कालश्चासंख्येयस्तेषां पर्यायाश्च त्रिकालभुवः प्रत्येकमनन्तानन्तास्तेषु ।
द्रव्यं पर्यायजातं वा न किञ्चित्केवलज्ञानस्य विषयभावमतिक्रान्तमस्ति । अपरिमित
-
माहात्म्यं हि तदिति ज्ञापनार्थं
‘
सर्वद्रव्यपर्यायेषु
’
इत्युच्यते ।
१
यद्रपि — दिº १, दिº २ ।
२
— भेदेन भि — मुº ।
१३६
आह विषयनिबन्धोऽवधृतो मत्यादीनाम् । इदं तु न निर्ज्ञातमेकस्मिन्नात्मनि स्वनि
-
मित्तसन्निधानोपजनितवृत्तीनि ज्ञानानि यौगपद्येन कति भवन्तीत्युच्यते —
एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः ॥
३०
॥
एकशब्दः संख्यावाची, आदिशब्दोऽवयववचनः । एक आदिर्येषां तानि इमान्येका
-
०५
दिनि । भाज्यानि विभक्तव्यानि । यौगपद्येनैकस्मिन्नात्मनि । आ कुतः ? आ चतुर्भ्यः ।
तद्यथा
-
एकं तावत्केवलज्ञानं, न तेन सहान्यानि क्षायोपशमिकानि युगपदवतिष्ठन्ते ।
द्वे मतिश्रुते । त्रीणि मतिश्रुतावधिज्ञानानि, मतिश्रुतमनःपर्ययज्ञानानि वा । चत्वारि
मतिश्रुतावधिमनःपर्ययज्ञानानि । न पञ्च सन्ति, केवलस्यासहायत्वात् ।
१३७
अथ यथोक्तानि मत्यादीनि ज्ञानव्यपदेशमेव लभन्ते उतान्यथापीत्यत आह —
मतिश्रुतावधयो विपर्ययश्च
१
॥
३१
॥
विपर्ययो मिथ्येत्यर्थः । कुतः ? सम्यगधिकारात् ।
‘
च
’
शब्दः समुच्चयार्थः । विपर्ययश्च
सम्यक्चेति । कुतः पुनरेषां विपर्ययः ? मिथ्यादर्शनेन सहैकार्थसमवायात् सरजस्क
-
१
विपर्ययो मिथ्याज्ञानमतद्रूपप्रतिष्टम् । पाº योº सूº १, ८ ।
१३८
कटुकालाबुगतदुग्धवत् । ननु च तत्राधारदोषाद् दुग्धस्य रसविपर्ययो भवति । न च
तथा मत्यज्ञानादीनां विषयग्रहणे विपर्ययः । तथा हि, सम्यग्दृष्टिर्यथा चक्षुरादिभी रूपादी
-
नुपलभते तथा मिथ्यादृष्टिरपि
१
मत्यज्ञानेन । यथा च सम्यग्दृष्टिः श्रुतेन रूपादीन्
जानाति निरूपयति च तथा मिथ्यादृष्टिरपि श्रुताज्ञानेन । यथा चावधिज्ञानेन सम्यग्दृष्टिः
०५
रूपिणोऽर्थानवगच्छति तथा मिथ्यादृष्टिर्विभङ्गज्ञानेनेति । अत्रोच्यते —
सद
२
सतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥
३२
॥
सद्विद्यमानमसदविद्यमानमित्यर्थः । तयोरविशेषेण यदृच्छया उपलब्धेर्विपर्ययो
भवति । कदाचिद्रूपादि सदप्यसदिति प्रतिपद्यते, असदपि सदिति, कदाचित्सत्सदेव,
असदप्यसदेवेति मिथ्यादर्शनोदयादध्यवस्यति । यथा पित्तोदयाकुलितबुद्धिर्मातरं भार्येति,
१०
भार्यामपि मातेति मन्यते । यदृच्छया
३
यदापि मातरं मातैवेति भार्यामपि भार्यैवेति च
१
— रपि । यथा दिº १, दिº २, आº ।
२
‘
सदसदविसेसणाओ भवहेउजदिच्छिओवलम्भाओ ।
नाणफलाभावाओ मिच्छद्दिट्ठस्स अण्णाणं ।
’
— विº भाº गाº ११५ ।
३
— च्छया मातरं मुº, ताº, नाº ।
१३९
तदापि न तत्सम्यग्ज्ञानम् । एवं मत्यादीनामपि रूपादिषु विपर्ययो वेदितव्यः । तथा हि,
कश्चिन्मिथ्यादर्शनपरिणाम आत्मन्यवस्थितो रूपाद्युपलब्धौ सत्यामपि कारणविपर्यासं
भेदाभेदविपर्यासं स्वरूपविपर्यासं च जनयति । कारणविपर्यासस्तावत् — रूपादीनामेकं
कारणममूर्त्तं नित्यमिति केचित्क
१
ल्पयन्ति ।
२
अपरे पृथिव्यादिजातिभिन्नाः परमाणवश्चतु
०५
स्त्रिद्व्येकगुणास्तुल्यजातीयानां कार्याणाभारम्भका इति ।
३
अन्ये वर्णयन्ति — पृथिव्या —
दीनि चत्वारि भूतानि, भौतिकधर्मा वर्णगन्धरसस्पर्शाः, एतेषां समुदायो रूपपरमाणुरष्टक
इत्यादि ।
४
इतरे
५
वर्णयन्ति — पृथिव्यप्तेजोवायवः काठिन्यादिद्रवत्वाद्युष्णत्वादीरण
६
-
त्वादिगुणा जातिभिन्नाः परमाणवः कार्यस्यारम्भकाः । भेदाभेदविपर्यासः का
७
रणात्कार्य
-
मर्थान्तरभूतमेवेति अ
८
नर्थान्तरभूतमेवेति च परिकल्पना । स्वरूपविपर्यासो रूपादयो
१०
निर्विकल्पाः
९
सन्ति न सन्त्येव
१०
वा । तदाकारपरिणतं विज्ञानमेव
११
। न च तदालम्बनं
वस्तु बाह्यमिति । एवमन्यानपि परिकल्पनाभेदान् दृष्टेष्टविरुद्धान्मिथ्यादर्शनोदयात्कल्प
-
१
सांख्याः ।
२
नैयायिकाः ।
३
बौद्धाः ।
४
लौकायतिकाः ।
५
— तरे कल्पयन्ति
पथि — आº, दिº १ ।
६
— णत्वादिगमनादिगुणा आº, दिº १, दिº २ ।
७
नैयायिकाः ।
८
सांख्याः ।
९
बौद्धाः ।
१०
नैयायिकाः ।
११
योगाचाराः ।
१४०
यन्ति तत्र च श्रद्धानमुत्पादयन्ति । ततस्तन्मत्यज्ञानं श्रुताज्ञानं वि
१
भंगज्ञानं च भवति ।
सम्यग्दर्शनं पुनस्तत्त्वार्थाधिगमे श्रद्धानमुत्पादयति । ततस्तन्मतिज्ञानं श्रुतज्ञानमवधि
-
ज्ञानं च भवति ।
आह प्रमाणं द्विप्रकारं वर्णितम् । प्रमाणैकदेशाश्च नयास्तदनन्तरोद्देशभाजो निर्दे
-
०५
ष्टव्या इत्यत आह —
नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूता नयाः ॥
३३
॥
एतेषां सामान्यविशेषलक्षणं वक्तव्यम् । सामान्यलक्षणं तावद्वस्तुन्यनेकान्तात्मन्य
-
विरोधेन हेत्वर्पणात्साध्यविशेषस्य याथात्म्यप्रापणप्रवणः
२
प्रयोगो नयः । स द्वेधा द्रव्या
-
र्थिकः पर्यायार्थिकश्चेति । द्रव्यं सामान्यमुत्सर्गः अनुवृत्तिरित्यर्थः । तद्विषयो द्रव्यार्थिकः ।
१
— ज्ञानमवध्यज्ञा — मुº ।
२
— वणप्रयो — मुº ।
१४१
पर्यायो विशेषोऽपवादो व्यावृत्तिरित्यर्थः । तद्विषयः पर्यायार्थिकः । तयोर्भेदा नैगमादयः ।
तेषां विशेषलक्षणमुच्यते — अनभिनिर्वृत्तार्थसंकल्पमात्रग्राहीं नैगमः । कञ्चित्पुरुषं
परिगृहीतपरशुं गच्छन्तमवलोक्य कश्चित्पृच्छति किमर्थं भवान्गच्छतीति । स आह
प्रस्थमानेतुमिति । नासौ तदा प्रस्थपर्यायः सन्निहितः । तदभिनिर्वृत्तये संकल्पमात्रे
०५
प्रस्थव्यवहारः । तथा एधोदकाद्याहरणे व्याप्रियमाणं कश्चित्पृच्छति किं करोति भवा
-
निति । स आह ओदनं पचामीति । न तदौदनपर्यायः सन्निहितः, तदर्थे व्यापारे स प्रयुज्यते ।
एवंप्रकारो लोकसंव्यवहारः अनभिनिर्वृत्तार्थसङ्कल्पमात्रविषयो नैगमस्य गोचरः ।
स्वजात्यविरोधेनैकध्यमुपानीय पर्यायानाक्रान्तभेदानविशेषेण समस्तग्रहणा
-
त्संग्रहः । सत्, द्रव्यं, घट इत्यादि । सदित्युक्ते सदिति वाग्विज्ञानानुप्रवृत्तिलिङ्गानुमित
-
१०
सत्ताधारभूतानामविशेषेण सर्वेषां संग्रहः । द्रव्यमित्युक्तेऽपि द्रवति गच्छति तांस्तान्पर्या
-
यानित्युपलक्षितानां जीवाजीवतद्भेदप्रभेदानां संग्रहः । तथा घट इत्युक्तेऽपि घट
-
१४२
ब्द्ध्यभिधानानुगमलिङ्गानुमितसकलार्थसंग्रहः । एवंप्रकारोऽन्योऽपि संग्रहनयस्य
१
विषयः ।
संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः । को विधिः ? यः
संग्रहगृहीतोऽर्थस्तदानुपूर्वेणैव व्यवहारः प्रवर्तत इत्ययं विधिः । तद्यथा — सर्वसंग्रहेण
२
यत्सत्त्वं गृहीतं तच्चानपेक्षितविशेषं नालं संव्यवहारायेति व्यवहारनय आश्रीयते ।
०५
यत्सत्तद् द्रव्यं गुणो वेति । द्रव्येणापि संग्रहाक्षिप्तेन जीवाजीवविशेषानपेक्षेण न शक्यः
संव्यवहार इति जीवद्रव्यमजीवद्रव्यमिति वा व्यवहार आश्रीयते । जीवाजीवावपि
३
च
संग्रहाक्षिप्तौ नालं संव्यवहारायेति प्रत्येकं देवनारकादिर्घटादिश्च व्यवहारेणाश्रीयते ।
एवमयं नयस्तावद्वर्तते यावत्पुनर्नास्ति विभागः ।
ऋजुं प्रगुणं सूत्रयति
४
तन्त्रयतीति ऋजुसूत्रः ।
५
पूर्वापरांस्त्रिकालविषयानतिशय्य
१०
वर्तमानकालविषयाना
६
दत्ते अतीतानागतयोर्विनष्टानुत्पन्नत्वेन व्यवहाराभावात् । तच्च
१
संग्रहनयः ॥
२
॥ संग्र
-
मुº ।
२
यत्संग्र — मुº, दिº १, दिº २, आº ।
३
— जीवावपि
संग्र — मुº ।
४
— यत इति ऋजु — मुº, ताº, ताº ॥
५
पूर्वान्परा — मुº ।
६
— षयमाद — आº ।
१४३
वर्तमानं समयमात्रम् । तद्विषयपर्यायमात्रग्राह्यमयमृजुसूत्रः । ननु संव्यवहारलोपप्रसङ्ग
इति चेद्
१
? न; अस्य नयस्य विषयमात्रप्रदर्शनं क्रियते । सर्वनयसमूहसाध्यो हि
लोकसंव्यवहारः ।
लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दनयः । तत्र लिङ्गव्यभिचारः —
०५
पुष्यस्तारका नक्षत्रमिति । संख्याव्यभिचारः — जलमापः, वर्षा ऋतुः, आम्रा वनम्
२
,
वरणा नगरमिति । साधनव्यभिचारः
३
— सेना
४
पर्वतमधिवसति । पुरुषव्यभिचारः — ए
५
हि
मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पितेति । कालव्यभिचारः — विश्वदृश्वाऽस्य
पुत्रो जनिता ।
६
भावि कृत्यमासीदिति । उपग्रहव्यभिचारः — सन्तिष्ठते प्रतिष्ठते विर
-
१
चेदस्य दिº १, दिº २ ।
२
वनमिति । साध — आ, दिº १, दिº २, ता, नाº ।
३
— चारः
(कारकव्यभिचारः) सेना मुº ।
४
सेना वनमध्यास्ते । पुरु — ताº ।
५
‘
एहि मन्ये रथेन यास्यसीति ।
’
— पाº
१०
मº भाº ८ । १ । १ । ४६ ।
६
‘
भाविकृत्यमासीत् । पुत्रो जनिष्यमाण आसीत्
’
। पाº मº भाº ३ । ४ । १ । २ ।
१४४
मत्युपरमतीति । एवम्प्रकारं व्यवहारम
१
न्याय्यं मन्यते; अन्यार्थस्यान्यार्थेन सम्बन्धा
-
भावात् । लोकसमयविरोध इति चेत् ? विरुध्यताम् ।
२
तत्त्वमिह मीमांस्यते, न
३
भैष
-
ज्यमातुरेच्छानुवर्ति ।
नानार्थसमभिरोहणात्समभिरूढः । यतो नानार्थान्समतीत्यैकमर्थमाभिमुख्येन रूढः
-
०५
समभिरूढः । गौरित्ययं शब्दो वागादि
४
ष्वर्थेषु वर्तमानः पशावभिरूढः । अथवा अ
५
र्थ
-
गत्यर्थः शब्दप्रयोगः । तत्रैकस्यार्थस्यैकेन गतार्थत्वात्पर्यायशब्दप्रयोगोऽनर्थकः । शब्द
-
भेदश्चेदस्ति अर्थभेदेनाप्यवश्यं भवितव्यमिति । नानार्थसमभिरोहणात्समभिरूढः । इन्द
-
नादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्येवं सर्वत्र । अथवा यो यत्राभिरूढः स तत्र
समेत्याभिमुख्येनारोहणात्समभिरूढः । यथा क्व भवानास्ते ? आत्मनीति । कुतः ?
१
— हारनयं न्याय्यं मुº, दिº १, दिº २, आº ।
२
तत्त्वं मीमा. आº, दिº १, दिº २ ।
३
न तु भैष — आº, ताº, दिº १ ।
४
— गादिषु वर्तं — ताº, नाº ।
५
‘
अर्थगत्यर्थःशब्दप्रयोगः ।
१०
अर्थं संप्रत्याययिष्यामीति शब्दः प्रयुज्यते । तत्रैकेनोक्तत्वात्तस्यार्थस्य द्वितीयस्य च तृतीयस्य च प्रयोगेण
न भवितव्यम्
‘
उक्तार्थामप्रयोगः
’
इति
’
पाº मº भाº २ । १ । १ । १ ।
१४५
वस्त्वन्तरे वृत्त्यभावात् ।
१
यद्यन्यस्यान्यत्र वृत्तिः स्यात्, ज्ञानादीनां रूपादीनां चाकाशे
वृत्तिः स्यात् ।
येनात्मना भूतस्तेनैवाध्यवसाययतीति एवम्भूतः । स्वाभिप्रेतक्रियापरिणतिक्षणे एव
स शब्दो युक्तो नान्यदेति । यदैवेन्दति तदैवेन्द्रो नाभिषेचको न पूजक इति । यदैव गच्छति
०५
तदैव गौर्न स्थितो न शयित इति । अथवा येनात्मना येन ज्ञानेन भूतः परिणतस्तेनैवाध्य
-
वसाययति । यथेन्द्राग्निज्ञानपरिणत आत्मैवेन्द्रोऽग्निश्चेति ।
उक्ता नैगमादयो नयाः । उत्तरोत्तरसूक्ष्मविषयत्वादेषां क्रमः पूर्वपूर्वहेतुकत्वाच्च ।
एवमेते नयाः पूर्वपूर्वविरुद्धमहाविषया उत्तरोत्तरानुकूलाल्पविषया द्रव्यस्यानन्तशवतेः प्रति
-
शक्ति विभिद्यमाना बहुविकल्पा जायन्ते । त एते गुणप्रधानतया परस्परतन्त्राः सम्य
-
१०
ग्दर्शनहेतवः पुरुषार्थक्रियासाधनसामर्थ्यात्तन्त्वादय इव यथोपायं विनिवेश्यमानाः पटादि
-
संज्ञाः स्वतन्त्राश्चासमर्थाः ।
२
तन्त्वादय इवेति विषम उपन्यासः । तन्त्वादयो निरपेक्षा
१
यद्यस्यान्यत्र आº ।
२
तन्त्वादिवदेव विष — आº, दिº १, दिº २, ताº नाº ।
१४६
अपि काञ्चिदर्थमात्रां जनयन्ति । भवति हि कश्चित्प्रत्येकं
१
तन्तुस्त्वक्त्राणे समर्थः ।
एकश्च बल्वजो बन्धने समर्थः । इमे पुनर्नया निरपेक्षाः सन्तो न काञ्चिदपि सम्यग्दर्शन
-
मात्रां प्रादुर्भावयन्तीति ? नैष दोषः, अभिहितानवबोधात् । अभिहितमर्थमनवबुध्य
परेणेदमुपालभ्यते । एतदुक्तं, निरपेक्षेषु तन्त्वादिषु पटादिकार्यं नास्तीति । यत्तु तेनो
-
०५
पदर्शितं न तत्पटादिकार्यम् । किं तर्हि । केवलं तन्त्वादिकार्यम्
२
। तन्त्वादिकार्यमपि तन्त्वाद्य
-
वयवेषु निरपेक्षेषु नास्त्येव इत्यस्मत्पक्षसिद्धिरेव । अथ तन्त्वादिषु पटादिकार्यं शक्त्यपेक्षया
अस्तीत्युच्यते ? नयेष्वपि निरपेक्षेषु बुद्ध्यभिधानरूपेषु कारणवशात्सम्यग्दर्शनहेतुत्ववि
-
परिणतिसद्भावात् शक्त्याऽऽत्मनाऽस्तित्वम् इति साम्यम् एवोपन्यासस्य
३
।
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसंज्ञायां प्रथमोऽध्यायः ।
१
‘
एकस्तन्तुस्त्वक्त्राणेऽसमर्थस्तत्समुदायश्च कम्बलः समर्थः । × × एकश्च बल्वजो बन्धनेऽसम
-
१०
र्थस्तत्समुदायश्च रज्जुः समर्था भवति । विषम उपन्यासः । भवति हि तत्र या च यावती चार्थमात्रा ।
भवति हि कश्चित्प्रत्येकस्तन्तुस्त्वक्त्राणे समर्थः । × × एकश्च बल्वजो बन्धने समर्थः ।
’
पाº मº भाº
१ । २ । २ । ४५ ।
२
— कार्यम् । तर्हि तन्त्वा — ताº, नाº ।
३
— न्यायस्य । ज्ञानदर्शनयोस्तत्त्वं नयानां चैव
लक्षणम् । ज्ञानस्य च प्रमाणत्वमध्यायेऽस्मिन्निरूपितम् ॥ इति
’
प्रतिष्वेवं पाठः ।
१४९
अथ द्वितीयोऽध्यायः
आह, सम्यग्दर्शनस्य विषयभावेनोपदिष्टेषु जीवादिष्वादावुपन्यस्तस्य जीवस्य
किं स्वतत्त्वमित्युच्यते —
औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥
१
॥
०५
आत्मनि कर्मणः स्वशवतेः कारणवशादनुद्भूतिरुपशमः । यथा कतकादि
-
द्रव्यसम्बन्धादम्भसि पङ्कस्य उपशमः । क्षय आत्यन्तिकी निवृत्तिः । यथा तस्मिन्नेवा
-
म्भसि शुचिभाजनान्तरसंक्रान्ते पङ्कस्यात्यन्ताभावः । उभयात्मको मिश्रः । यथा तस्मि
-
न्नेवाम्भसि कतकादिद्रव्यसम्बन्धात्पङ्कस्य क्षीणाक्षीणवृत्तिः । द्रव्यादिनिमित्तवशात्कर्मणां
फलप्राप्तिरुदयः । द्रव्यात्मलाभमात्रहेतुकः परिणामः । उपशमः प्रयोजनमस्येत्यौपश
-
१०
मिकः । एवं क्षायिकः क्षायोपशमिकः औदयिकः पारिणामिकश्च । त एते पञ्च भावा
असाधारणा जीवस्य स्वतत्त्वमित्युच्यन्ते ।
१५०
सम्यग्दर्शनस्य प्रकृतत्वात्तस्य त्रिषु विकल्पेषु औपशमिकमादौ लभ्यत इति
तस्यादौ ग्रहणं क्रियते । तदनन्तरं क्षायिकग्रहणम्; तस्य प्रतियोगित्वात् संसार्यपेक्षया
द्रव्यतस्ततोऽसंख्येयगुणत्वाच्च । तत उत्तरं मिश्रग्रहणम्; तदुभयात्मकत्वात्ततोऽसंख्येय
-
गुणत्वाच्च । तेषां सर्वेषामनन्तगुणत्वाद् औदयिकपारिणामिकग्रहणमन्ते क्रियते । अत्र
०५
द्वन्द्वनिर्देशः कर्तव्यः — औपशमिकक्षायिकमिश्रौदयिकपारिणामिका इति । तथा सति द्विः
‘
च
’
शब्दो न कर्तव्यो भवति ? नैवं शङ्क्यम्; अन्यगुणापेक्षया मिश्र इति प्रतीयेत ।
वाक्ये पुनः सति
‘
च
’
शब्देन प्रकृतोभयानुकर्षः कृतो भवति । तर्हि क्षायोपशमिकग्रहणमेव
कर्तव्यमिति चेत् ? न; गौरवात् । मिश्रग्रहणं मध्ये क्रियते उभयापेक्षार्थम् । भव्यस्य
औपशमिकक्षायिकौ भावौ । मिश्रः पुनरभव्यस्यापि भवति औदयिकपारिणामिकाभ्यां
१०
सह भव्यस्यापीति । भावापेक्षया तल्लिङ्गसंख्याप्रसङ्गः स्वतत्त्वस्येति चेत् ? न; उपा
-
त्तलिङ्गसंख्यत्वात्
१
। तद्भावस्तत्त्वम् । स्वं तत्त्वं स्वतत्त्वमिति ।
१
— संख्यात्वात् मुº ।
१५१
अत्राह तस्यैकस्यात्मनो ये भावा औपशमिकादयस्ते किं भेदवन्त उताभेदा इति ?
अत्रोच्यते, भेदवन्तः । यद्येवं, भेदा उच्यन्तामित्यत आह —
द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥
२
॥
द्व्यादीनां संख्याशब्दानां कृतद्वन्द्वानां भेदशब्देन सह स्वपदार्थेऽन्यपदार्थे वा वृत्ति
-
०५
र्वेदितव्या । द्वौ च नव च अष्टादश च एकविंशतिश्च त्रयश्च द्विनवाष्टादशैकविंशतित्रयः
१
।
ते च ते भेदाश्च, त एव भेदा येषामिति वा वृत्तिर्द्विनवाष्टादशैकविंशतित्रिभेदा इति ।
यदा स्वपदार्थे वृत्तिस्तदा औपशमिकादीनां
२
भावानां द्विनवाष्टादशैकविंशतिंत्रयो भेदा
इत्यभिसम्बन्धः क्रियते; अर्थवशाद्विभक्तिपरिणाम इति । यदाऽन्यपदार्थे वृत्तिस्तदा
१
— त्रयः । त एव भेदाः मुº ।
२
— दीनां द्वि — मुº ।
१५२
निर्दिष्टविभक्त्यन्ता एवाभिसम्बन्ध्यन्ते, औपशमिकादयो भावा द्विनवाष्टादशैकविंशति
-
त्रिभेदा इति ।
‘
यथाक्रम
’
वचनं यथासंख्यप्रतिपत्त्यर्थम् । औपशमिको द्विभेदः । क्षायिको
नवभेदः । मिश्रोऽष्टादशभेदः । औदयिक एकविंशतिभेदः । पारिणामिकस्त्रिभेद इति ।
यद्येवमौपशमिकस्य कौ द्वौ भेदावित्यत आह —
०५
सम्यक्त्वचारित्रे ॥
३
॥
व्याख्यातलक्षणे सम्यक्त्वचारित्रे । औपशमिकत्वं कथमिति चेदुच्यते । चारित्र
-
मोहो द्विविधः कषायवेदनीयो नोकषायवेदनीयश्चेति । तत्र कषायवेदनीयस्य भेदा अन
-
न्तानुबन्धिनः क्रोधमानमायालोभाश्चत्वारः । दर्शनमोहस्य त्रयो भेदाः सम्यक्त्वं मिथ्यात्वं
सम्यग्मिथ्यात्वमिति । आसां सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वम् ।
१०
अनादिमिथ्यादृष्टेर्भव्यस्य कर्मोदयापादितकालुष्ये सति कुतस्तदुपशमः ? काल
-
लब्ध्यादिनिमित्तत्वात् । तत्र काललब्धिस्तावत् — कर्माविष्ट आत्मा भव्यः कालेऽर्द्धपुद्गल
-
परिवर्त्तनाख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति नाधिके इति । इयमेका
१५३
काललब्धिः । अपरा कर्मस्थितिका काललब्धिः । उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थिति
-
केषु च प्रथमसम्यक्त्वलाभो न भवति । क्व तर्हि भवति ? अन्तःकोटीकोटीसागरोपम
-
स्थितिकेषु कर्मसु बन्धमापद्यमानेषु विशुद्धपरिणामवशात्सत्कर्मसु च ततः संख्येयसागरोप
-
मसहस्रोनायामन्तःकोटीकोटीसागरोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति ।
०५
अपरा काललब्धिर्भवापेक्षया । भव्यः पञ्चेन्द्रियः संज्ञी पर्याप्तकः सर्वविशुद्धः प्रथमसम्य
-
क्त्वमुत्पादयति ।
‘
आदि
’
शब्देन जातिस्मरणादिः परिगृह्यते ।
कृत्स्नस्य मोहनीयस्योपशमादौपशमिकं चारित्रम् । तत्र सम्यक्त्वस्यादौ वचनं;
तत्पूर्वकत्वाच्चारित्रस्य ।
१५४
यः क्षायिको भावो नवविध उद्दिष्टस्तस्य भेदस्वरूपप्रतिपादनार्थमाह —
ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥
४
॥
‘
च
’
शब्दः सम्यक्त्वचारित्रानुकर्षणार्थः । ज्ञानावरणस्यात्यन्तक्षयात्केवल
-
ज्ञानं क्षायिकं तथा केवलदर्शनम् । दानान्तरायस्यात्यन्तक्षयादनन्तप्राणिगणानुग्रहकरं
०५
क्षायिकमभयदानम् । लाभान्तरायस्याशेषस्य निरासात् परित्यक्तकवलाहारक्रियाणां
केवलिनां यतः शरीरबलाधानहेतवोऽन्यमनुजासाधारणाः परमशुभाः सूक्ष्माः अनन्ताः प्रति
-
समयं पुद्गलाः सम्बन्धमुपयान्ति स क्षायिको लाभः । कृत्स्नस्य भोगान्तरायस्य
१
तिरो
-
भावादाविर्भूतोऽतिशयवाननन्तो भोगः क्षायिकः । यतः कुसुमवृष्ट्यादयो विशेषाः प्रादु
-
र्भवन्ति । निरवशेषस्योपभोगान्तरायस्य प्रलयात्प्रादुर्भूतोऽनन्त उपभोगः क्षायिकः । यतः
१०
सिंहासनचामरच्छत्रत्रयादयो विभूतयः । वीर्यान्तरायस्य कर्मणोऽत्यन्तक्षयादाविर्भूतम
-
नन्तवीर्यं क्षायिकम् । पूर्वोक्तानां सप्तानां प्रकृतीनामत्यन्तक्षयात्क्षायिकं सम्यक्त्वम् ।
१
— यस्यात्यन्ताभा — मुº ।
१५५
चारित्रमपि तथा । यदि क्षायिकदानादिभावकृतमभयदानादि, सिद्धेष्वपि तत्प्रसङ्गः ?
नैष दोषः; शरीरनामतीर्थकरनामकर्मोदयाद्यपेक्षत्वात् । तेषां तदभावे तदप्रसङ्गः । कथं
तर्हि तेषां सिद्धेषु वृत्तिः ? परमान
१
न्दाव्याबाधरूपेणैव तेषां तत्र वृत्तिः । केवल
-
ज्ञानरूपेणानन्तवीर्यवृत्तिवत् ।
१
— मानन्तवीर्याव्याबाधसुखरूपे — मुº । — मानन्ताव्याबाधसुखरूपे — आº, दिº १, दिº २ ।
१५६
य उक्तः क्षायोपशमिको भावोऽष्टादशविकल्पस्तद्भेदनिरूपणार्थमाह —
ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥
५
॥
१५७
चत्वारश्च त्रयश्च त्रयश्च पञ्च च चतुस्त्रित्रिपञ्च
१
। ते भेदा यासां ताश्चतु
-
स्त्रित्रिपञ्चभेदाः । यथाक्रममित्यनुवर्तते । तेनाभिसम्बन्धाच्चतुरादिभिर्ज्ञानादीन्यभिसम्ब
-
ध्यन्ते । चत्वारि ज्ञानानि, त्रीण्यज्ञानानि, त्रीणि दर्शनानि, पञ्च लब्धय इति । सर्व
-
घातिस्पर्द्धकानामुदयक्षयात्तेषामेव सदुपशमाद्देशघातिस्पर्द्धकानामुदये क्षायोपशमिको भावो
०५
भवति । तत्र ज्ञानादीनां वृत्तिः स्वावरणान्तरायक्षयोपशमाद् व्याख्यातव्या ।
‘
सम्यक्त्व
’
-
ग्रहणेन वेदकसम्यक्त्वं गृह्यते । अनन्तानुबन्धिकषायचतुष्टयस्य मिथ्यात्वसम्यङ्मिथ्या
-
त्वयोश्चोदयक्षयात्सदुपशमाच्च सम्यक्त्वस्य देशघातिस्पर्द्धकस्योदये तत्त्वार्थश्रद्धानं क्षायोप
-
शमिकं सम्यक्त्वम् । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानद्वादशकषायोदयक्षयात्सदुपश
-
माच्च सञ्ज्वलनकषायचतुष्टयान्यतमदेशघातिस्पर्द्धकोदये नोकषायनवकस्य यथासम्भ
-
१०
वोदये च निवृत्तिपरिणाम आत्मनः क्षायोपशमिकं चारित्रम् । अनन्तानुबन्ध्यप्रत्याख्यान
-
कषायाष्टकोदयक्षयात्सदुपशमाच्च प्रत्याख्यानकषायोदये सञ्ज्वलनकषायस्य देशघाति
-
स्पर्द्धकोदये नोकषायनवकस्य यथासम्भवोदये च विरताविरतपरिणामः क्षायोपशमिकः
संयमासंयम इत्याख्यायते ।
१
— पञ्च भेदा यासां मुº ।
१५८
य एकविंशतिविकल्प औदयिको भाव उद्दिष्टस्तस्य भेदसञ्ज्ञास
१
ङ्कीर्तनार्थमिद
-
मुच्यते —
१
— संज्ञाकीर्त — आº, दिº १, दिº २ ।
१५९
गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥
६
॥
यथाक्रममित्यनुवर्तते, तेनाभिसम्बन्धाद् गतिश्चतुर्भेदा, नरकगतिस्तिर्यग्गतिर्मनुष्य
-
गतिर्देवगतिरिति । तत्र नरकगतिनामकर्मोदयान्नारको भावो भवतीति नरकगतिरौद
-
यिकी । एवमितरत्रापि । कषायश्चतुर्भेदः, क्रोधो मानो माया लोभ इति । तत्र क्रोधनि
-
०५
र्वर्तनस्य कर्मण उदयात्क्रोध औदयिकः । एवमितरत्रापि । लिङ्गं त्रिभेदं, स्त्रीवेदः पुंवेदो
नपुंसकवेद इति । स्त्रीवेदकर्मण उदयात्स्त्रीवेद औदयिकः । एवमितरत्रापि । मिथ्या
-
दर्शनमेकभेदम् । मिथ्यादर्शनकर्मण उदयात्तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनमौदयि
-
कम् । ज्ञानावरणकर्मण उदयात्पदार्थानवबोधो भवति तदज्ञानमौदयिकम् । चारित्र
-
मोहस्य सर्वघातिस्पर्द्धकस्योदयादसंयत औदयिकः । कर्मोदयसामान्यापेक्षोऽसिद्ध औद
-
१०
यिकः । लेश्या द्विविधा, द्रव्यलेश्या भावलेश्या चेति । जीवभावाधिकाराद् द्रव्यलेश्या
नाधिकृता । भावलेश्या कषायोदयरञ्जिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते ।
सा षड्विधा
-
कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति ।
१६०
ननु च उपशान्तकषाये क्षीणकषाये सयोगकेवलिनि च शुक्ललेश्याऽस्तीत्यागमः ।
तत्र कषायानुरञ्जनाभावादौदयिकत्वं नोपपद्यते ? नैष दोषः; पूर्वभावप्रज्ञापननया
१
-
पेक्षया याऽसौ योगप्रवृत्तिः कषायानुरञ्जिता सैवेत्युपचारादौदयिकीत्युच्यते । तदभावा
दयोगकेवल्यलेश्य इति निश्चीयते ।
०५
यः पारिणामिको भावस्त्रिभेद उक्तस्तद्भेदस्वरूपप्रतिपादनार्थमाह —
जीवभव्याभव्यत्वानि च ॥
७
॥
१
— पनापेक्ष — आº, दिº १, दिº २ ।
१६१
जीवत्वं भव्यत्वमभव्यत्वमिति त्रयो भावाः पारिणामिका अन्यद्रव्यासाधारणा
आत्मनो वेदितव्याः । कुतः पुनरेषां पारिणामिकत्वम् ? कर्मोदयोपशमक्षयक्षयोपशमान
-
पेक्षित्वात् । जीवत्वं चैतन्यमित्यर्थः । सम्यग्दर्शनादिभावेन भविष्यतीति भव्यः । तद्वि
-
परीतोऽभव्यः । त एते त्रयो भावा जीवस्य पारिणामिकाः ।
०५
ननु चास्तित्वनित्यत्वप्रदेश
१
वत्त्वादयोऽपि भावाः पारिणामिकाः सन्ति, तेषामिह
ग्रहणं कर्तव्यम् ? न कर्तव्यम्; कृतमेव । कथम् ?
‘
च
’
२
शब्देन समुच्चितत्वात् । यद्येवं त्रय इति
संख्या विरुध्यते ? न विरुध्यते, असाधारणा जीवस्य भावाः पारिणामिकास्त्रय एव ।
अस्तित्वादयः पुनर्जीवाजीवविषयत्वात्साधारणा इति
‘
च
’
शब्देन पृथग्गृह्यन्ते । आह, औप
-
शमिकादिभावानुपपत्तिरमूर्तत्वादात्मनः । कर्मबन्धापेक्षा हि ते
३
भावाः । न चामूर्तेः
१०
कर्मणां बन्धो युज्यत इति ? तन्न; अनेकान्तात् । नायमेकान्तः अमूर्तिरेवात्मेति । कर्म
-
१
— प्रदेशत्वा — आº, दिº १, दिº २, मुº ।
२
कथं चेच्चशब्देन मुº । कयं चेतनशब्देन आº ।
३
ते । न चामूर्तेः कर्मणा आº, दिº १, दिº २, ताº, नाº ।
१६२
बन्धपर्यायापेक्षया तदावेशात्स्यान्मूर्तः । शुद्धस्वरूपापेक्षया स्यादमूर्तः । यद्येवं कर्मबन्धा
-
वेशादस्यैकत्वे सत्यविवेकः प्राप्नोति ? नैष दोषः; बन्धं प्रत्ये
४
कत्वे सत्यपि लक्षणभेदादस्य
नानात्वमवसीयते । उक्तं च —
’
बंधं पडि एयत्तं लक्खणदो हवै तस्स णाणत्तं ।
०५
तम्हा अमुत्तिभावोऽणेयंतो होइ जीवस्स ॥
’
इति ।
१
प्रत्येकत्वे (ऽविवेके) सत्य — मुº ।
१६३
यद्येवं तदेव लक्षणमुच्यतां येन नानात्वमवसीयते इत्यत आह —
उपयोगो लक्षणम् ॥
८
॥
उभयनिमित्तवशादुत्पद्यमानश्चैतन्यानुविधायी परिणाम उपयोगः । तेन बन्धं
प्रत्येकत्वे सत्यप्यात्मा लक्ष्यते सुवर्णरजतयोर्बन्धं प्रत्येकत्वे सत्यपि वर्णादिभेदवत् ।
०५
तद्भेदप्रदर्शनार्थमाह —
स द्विविधोऽष्टचतुर्भेदः ॥
९
॥
स उपयोगो द्विविधः — ज्ञानोपयोगो दर्शनोपयोगश्चेति । ज्ञानोपयोगोऽष्टभेदः —
मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं
चेति । दर्शनोपयोगश्चतुर्विधः — चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं चेति । तयोः
१०
कथं भेदः ? साकारानाकारभेदात् । साकारं ज्ञानमनाकारं दर्शनमिति । तच्छद्मस्थेषु
क्रमेण वर्तते । निरावरणेषु युगपत् । पूर्वकालभाविनोऽपि दर्शनाज्ज्ञानस्य प्रागुपन्या
-
सः; अभ्यर्हितत्वात् । सम्यग्ज्ञानप्रकरणात्पूर्वं पञ्चविधो ज्ञानोपयोगो व्याख्यातः । इह
१६४
पुनरुपयोगग्रहणाद्विपर्ययोऽपि गृह्यते इत्यष्टविध
१
इति उच्यते ।
यथोक्तेनानेनाभिहितपरिणामेन सर्वात्मसाधारणेनोपयोगेन ये उपलक्षिता
उपयोगिनस्ते द्विविधाः —
संसारिणो मुक्ताश्च ॥
१०
॥
०५
संसरणं संसारः परिवर्तनमित्यर्थः । स एषामस्ति ते संसारिणः । तत्परिवर्तनं
१
— विध उच्यते दिº २, मुº ।
१६५
पञ्चविधं द्रव्यपरिवर्तनं क्षेत्रपरिवर्तनं कालपरिवर्तनं भवपरिवर्तनं चेति ।
तत्र द्रव्यपरिवर्तनं द्विविधम् — नोकर्मद्रव्यपरिवर्तनं कर्मद्रव्यपरिवर्तनं चेति । तत्र नोकर्म
-
द्रव्यपरिवर्तनं नाम त्रयाणां शरीराणां षण्णां पर्याप्तीनां च योग्या ये पुद्गला एकेन जीवेन
एकस्मिन्समये गृहीताः स्निग्धरूक्षवर्णगन्धादिभिस्तीव्रमन्दमध्यमभावेन च यथावस्थिता
०५
द्वितीयादिषु समयेषु निर्जीर्णा अगृहीताननन्तवारानतीत्य मिश्रकांश्चानन्तवारानतीत्य
मध्ये गृहीतांश्चानन्तवारानतीत्य त एव तेनैव प्रकारेण तस्यैव जीवस्य नोकर्मभावमा
-
पद्यन्ते यावत्तावत्समुदितं नोकर्मद्रव्यपरिवर्तनम् । कर्मद्रव्यपरिवर्तनमुच्यते — एकस्मिन्स
-
मये एकेन जीवेनाष्टविधकर्मभावेन ये गृहीताः पुद्गलाः समयाधिकामावलिकामतीत्य
द्वितीयादिषु समयेषु निर्जीणाः, पूर्वोक्तेनैव क्रमेण त एव तेनैव प्रकारेण तस्य जीवस्य
१०
कर्मभावमापद्यन्ते यावत्तावत्कर्मद्रव्यपरिवर्तनम् । उक्तं च —
’
सव्वे वि पुग्गला खलु कमसो भुत्तुज्झिया य जीवेण ।
१
असैं अणंतखुत्तो पुग्गलपरियट्टसंसारे
२
॥
’
क्षेत्रपरिवर्तनमुच्यते — सूक्ष्मनिगोदजीवोऽपर्याप्तकः सर्वजघन्यप्रदेशशरीरो
लोकस्याष्टमध्यप्रदेशान्स्वशरीर
१
मध्ये कृत्वोत्पन्नः क्षुद्रभवग्रहणं जीवित्वा मृतः । स एव
१
अच्छै अणं — दिº १, दिº २, आº, मुº । २ बाº अणुº, गाº २५ ।
२
— रीरमध्यप्रदेशान् कृत्वा मुº ।
१६६
पुनस्तेनैवावगाहेन द्विरुत्पन्नस्तथा त्रिस्तथा चतुरित्येवं यावद्
१
घनाङ्गुलस्यासंख्येयभाग
-
प्रमिताकाशप्रदेशास्तावत्कृत्वस्तत्रैव जनित्वा पुनरेकैकप्रदेशाधिकभावेन सर्वो लोक
आत्मनो जन्मक्षेत्रभावमुपनीतो भवति यावत्तावत्क्षेत्रपरिवर्त्तनम् । उक्तं च —
२
’
सव्वम्हि लोयखेत्ते कमसो तं णत्थि जं ण उप्पणं ।
०५
ओगाहणाए
३
बहुसो परिभमिदो खेत्तसंसारे ॥
’
कालपरिवर्तनमुच्यते — उत्सर्पिण्याः प्रथमसमये जातः कश्चिज्जीवः स्वायुषः
परिसमाप्तौ मृतः । स एव पु
४
नर्द्वितीयाया उत्सर्पिण्या द्वितीयसमये जातः स्वायुषः क्षया
-
न्मृतः । स एव पुनस्तृतीयाया उत्सर्पिण्यास्तृतीयसमये जातः । एवमनेन क्रमेणोत्सर्पिणी
परिसमाप्ता । तथावसर्पिणी च । एवं जन्मनैरन्तर्यमुक्तम् । मरणस्यापि
५
नैरन्तर्यं तथैव
१०
ग्राह्यम् । एतावत्कालपरिवर्तनम् । उक्तं च —
६
’
उस्सप्पिणिअवसप्पिणिसमयावलियासु णिरवसेसासु ।
जादो मुदो य बहुसो भमणेण दु कालसंसारे ॥
’
१
यावदंगुलस्या — दिº १, दिº २, आº ।
२
बाº अणुº, गाº २६ ।
३
— हणेण बहुसो मुº, नाº ।
४
एव तृती — आº, दिº १, दिº २ ।
५
मरणमपितथैव ग्रा — ताº । मरणस्यापि तथैव ग्रा — नाº ।
६
बाº अणुº गाº २७ ।
१६७
भवपरिवर्तनमुच्यते — नरकगतौ सर्वजघन्यमायुर्दशवर्षसहस्राणि । तेनायुषा
तत्रोत्पन्नः पुनः परिभ्रम्य तेनैवायुषा जातः । एवं दशवर्षसहस्राणां यावन्तः समयास्ताव
-
त्कृत्वस्तत्रैव जातो मृतः । पुनरेकैकसमयाधिकभावेन त्रयस्त्रिंशत्सागरोपमाणि परिसमा
-
पितानि । ततः प्रच्युत्य तिर्यग्गतावन्तर्मुहूर्तायुः समुत्पन्नः । पूर्वोवतेनैव क्रमेण त्रीणि
०५
पल्योपमानि तेन परिसमापितानि । एवं मनुष्यगतौ च
१
। देवगतौ च नारकवत् । अयं
तु विशेषः — एकत्रिंशत्सागरोपमाणि परिसमापितानि यावत्तावद् भवपरिवर्तनम् ।
उक्तं च —
’
णिर
२
यादिजहण्णादिसु जाव दु उवरिल्लया दु गेवज्जा ।
मिच्छत्तसंसिदेण दु बहुसो वि भवट्ठिदी भमिदा ॥
’
१०
भावपरिवर्तनमुच्यते — पञ्चेन्द्रियः सञ्ज्ञी पर्याप्तको मिथ्यादृष्टिः कश्चिज्जीवः
स सर्वजघन्यां स्वयोग्यां ज्ञानावरणप्रकृतेः स्थितिमन्तःकोटीकोटीसंज्ञिकामापद्यते ।
तस्य कषायाध्यवसायस्थानान्यसंख्येयलोकप्रमितानि षट्स्थानपतितानि तत्स्थितियोग्यानि
भवन्ति । तत्र सर्वजघन्यकषायाध्यवसायस्थाननिमित्तान्यनु
३
भागाध्यवसायस्थानान्य
-
संख्येयलोकप्रमितानि भवन्ति । एवं सर्वजघन्यां स्थितिं सर्वजघन्यं च कषायाध्यवसा
-
१
च तिर्यञ्चवत् । देव — मुº, ताº ।
२
बा. अ. गा. २८ ।
३
— नुभवाध्य — दिº ।
१६८
यस्थानं सर्वजघन्यमेवानुभागबन्धस्थानमास्कन्दतस्तद्योग्यं सर्वजघन्यं योगस्थानं भवति ।
तेषामेव स्थितिकषायानुभा
१
गस्थानानां द्वितीयमसंख्येयभागवृद्धियुक्तं योगस्थानं भवति ।
एवं च तृतीयादिषु
२
चतुःस्थानपतितानि श्रेण्यसंख्येयभागप्रमितानि योगस्थानानि भवन्ति ।
तथा तामेव स्थितिं तदेव कषायाध्यवसायस्थानं च प्रतिपद्यमानस्य द्वितीयमनुभवाध्यव
-
०५
सायस्थानं भवति । तस्य च योगस्थानानि पूर्ववद्वेदितव्यानि । एवं तृतीयादिष्वपि अनु
-
भवाध्यवसायस्थानेषु आ असंख्येयलोकपरिसमाप्तेः । एवं तामेव स्थितिमापद्यमानस्य
द्वितीयं कषायाध्यवसायस्थानं भवति । तस्याप्यनुभवाध्यवसायस्थानानि योगस्थानानि
च पूर्ववद्वेदितव्यानि । एवं तृतीयादिष्वपि कषायाध्यवसायस्थानेषु आ असंख्येयलोक
-
परिसमाप्तेर्वृद्धिक्रमो वेदितव्यः । उक्ताया जघन्यायाः स्थितेः समयाधिकायाः कषायादि
-
१०
स्थानानि पूर्ववत्
३
। एवं समयाधिकक्रमेण आ उत्कृष्टस्थितेस्त्रिंशत्सागरोपमकोटी
-
कोटीपरिमितायाः कषायादिस्थानानि
४
वेदितव्यानि । अनन्तभागवृद्धिः असंख्येय
-
१
नुभवस्था — मुº ।
२
— दिषु योगस्थानेषु चतुः — मुº, ताº ।
३
पूर्ववदेकसम — मुº ।
४
— स्थानोनि
(पूर्ववत्) वेदि — मुº ।
१६९
भागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिः
इमानि षट् वृद्धिः स्थानानि । हानिरपि तथैव । अनन्तभागवृद्ध्यनन्तणवृद्धिरहितानि
चत्वारि स्थानानि । एवं सर्वेषां कर्मणां मूलप्रकृतीनामुत्तरप्रकृतीनां च परिवर्तनक्रमो
वदितव्यः । तदेतत्सर्वं समुदितं भावपरिवर्तनम् । उक्तं च —
०५
१
’
सव्वा पयडिट्ठदीओ अणुभागपदेसबंधठाणाणि ।
मिच्छत्तसंसिदेण य भमिदा पुण भावसंसारे ॥
’
उक्तात्पञ्चविधात्संसारान्निवृत्ता ये ते मुक्ताः । संसारिणां प्रागुपादानं तत्पूर्वक
-
त्वान्मुक्तव्यपदेशस्य ।
१
बाº अणुº गाº २९ ।
१७०
य एते संसारिणस्ते द्विविधाः —
समनस्कामनस्काः ॥
११
॥
मनो द्विविधम् — द्रव्यमनो भावमनश्चेति । तत्र पुद्गलविपाकिकर्मोदयापेक्षं
द्रव्यमनः । वीर्यान्तरायनोइन्द्रियावरणक्षयोपशमापेक्षा
१
आत्मनो विशुद्धिर्भावमनः । तेन
०५
मनसा सह वर्तन्त इति समनस्काः । न विद्यते मनो येषां त इमे अमनस्काः । एवं मनसो
भावाभावाभ्यां संसारिणो द्विविधा विभज्यन्ते । समनस्काश्चामनस्काश्च समनस्कामन
-
मनस्का इति । अभ्यर्हितत्वात्समनस्कशब्दस्य पूर्वनिपातः । कथमभ्यर्हितत्वम् ? गुण
-
दोषविचारकत्वात् ।
पुनरपि संसारिणां भेदप्रतिपत्त्यर्थमाह —
१०
संसारिणस्त्रसस्थावराः ॥
१२
॥
‘
संसारि
’
ग्रहणमनर्थकम्; प्रकृतत्वात् । क्व प्रकृतम् ?
‘
संसारिणो मुक्ताश्च
’
इति ।
नानर्थकम् । पूर्वापेक्षार्थम् । ये उक्ताः समनस्का अमनस्कास्ते संसारिण इति । यदि हि
१
— पेक्षया आत्मनो मुº, ताº ।
१७१
पूर्वस्य विशेषणं न स्यात् समनस्कामनस्कग्रहणं संसारिणो मुक्ताश्चेत्यनेन यथासंख्यम
-
भिसंबध्येत । एवं च कृत्वा
‘
संसारि
’
ग्रहणमादौ क्रियमाणमुपपन्नं भवति ? तत्पूर्वापेक्षं
सदुत्तरार्थमपि भवति
१
। ते संसारिणो द्विविधाः — त्रसाः स्थावरा इति । त्रसनामकर्मो
-
दयवशीकृतास्त्रसाः
२
। स्थावरनामकर्मोदयवशवर्तिनः स्थावराः । त्रस्यन्तीति त्रसाः, स्थान
-
०५
शीलाः स्थावरा इति चेत् ? न; आगमविरोधात् । आगमे हि कायानुवादेन त्रसा द्वीन्द्रिया
-
दारभ्य आ अयोगकेवलिन इति । तस्मान्न चलनाचलनापेक्षं त्रसस्थावरत्वम् । कर्मोदया
-
पेक्षमेव । त्रसग्रहणमादौ क्रियते; अल्पाच्तरत्वादभ्यर्हितत्वाच्च । सर्वोपयोगसम्भवाद
-
भ्यर्हितत्वम् ।
एकेन्द्रियाणामतिबहुवक्तव्याभावादुल्लङ्घ्यानुपूर्वीं स्थावरभेदप्रतिपत्त्यर्थमाह —
१०
पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥
१३
॥
१
भवति । संसा — मुº ।
२
त्रसनाम आº, दिº १, दिº २, ताº ।
१७२
स्थावरनामकर्मभेदाः पृथिवीकायादयः सन्ति । तदुदयनिमित्ता
१
जीवेषु पृथि
-
व्यादयः सञ्ज्ञा वेदितव्याः । प्रथनादिप्रकृतिनिष्पन्ना अपि रूढिवशात्प्रथनाद्यनपेक्षा वर्तन्ते ।
एषां पृथिव्यादीनामार्षे चातुर्विध्यमुक्तं प्रत्येकम् । तत्कथमिति चेद् ? उच्यते — पृथिवी पृथि
-
वीकायः पृथिवीकायिकः पृथिवीजीव इत्यादि । तत्र अचेतना वैश्रसिकपरिणामनिर्वृत्ता
०५
काठिन्यगुणात्मिका पृथिवी । अचेतनत्वादसत्यपि पृथिवीकायनामकर्मोदये प्रथनक्रियोपल
-
क्षितैवेयम् । अथवा पृथिवीति सामान्यम्; उत्तरत्रयेऽपि सद्भावात् । कायः शरीरम् ।
पृथिवीकायिकजीवपरित्यक्तः पृथिवीकायो मृतमनुष्यादिकायवत् । पृथिवीकायोऽस्या
-
स्तीति पृथिवीकायिकः । तत्कायसम्बन्धवशीकृत आत्मा । समवाप्तपृथिवीकायनामक
-
र्मोदयः कार्मणकाययोगस्थो यो न तावत्पृथिवीं कायत्वेन गृह्णाति स पृथिवीजीवः
२
।
१०
एवमबादिष्वपि योज्यम् । एते पञ्चविधाः प्राणिनः स्थावराः । कति पुनरेषां प्राणाः ?
चत्वारः स्पर्शनेन्द्रियप्राणः कायबलप्राणः उच्छ्वासनिश्वासप्राणः आयुःप्राणश्चेति ।
१
— निमित्ता अमी इति जीवेषु मुº नाº ।
२
जीवः । उक्तं च — पुढवी पुढवीकायो पुढवीकाइय
पुढविजीवो य । साहारणोपमुक्को सरीरगहिदो भवंतरिदो ॥ एव — मुº ।
१७३
अथ त्रसाः के ते इत्यत्रोच्यते —
द्वीन्द्रियादयस्त्रसाः ॥
१४
॥
द्वे इन्द्रिये यस्य सोऽयं द्वीन्द्रियः । द्वीन्द्रिय आदिर्येषां ते द्वीन्द्रियादयः ।
‘
आदि
’
शब्दो व्यवस्थावाची । क्व व्यवस्थिताः ? आगमे । कथम् ? द्वीन्द्रियस्त्रीन्द्रियश्चतुरि
-
०५
न्द्रियः पञ्चेन्द्रियश्चेति ।
१
तद्गुणसंविज्ञानवृत्तिग्रहणाद् द्वीन्द्रियस्याप्यन्तर्भावः । कति
पुनरेषां प्राणाः ? द्वीन्द्रियस्य तावत् षट् प्राणाः, पूर्वोक्ता एव रसनवाक्प्राणाधिकाः ।
त्रीन्द्रियस्य सप्त त एव ध्राणप्राणाधिकाः । चतुरिन्द्रियस्याष्टौ त एव चक्षुःप्राणाधिकाः ।
पञ्चेन्द्रियस्य तिरश्चोऽसंज्ञिनो नव त एव श्रोत्रप्राणाधिकाः । संज्ञिनो दश त एव मनोबल
२
-
प्राणाधिकाः ।
१
‘
बहुव्रीहौ तद्गुणसंविज्ञानमपि — परिº — शेº पº ४१४ ।
’
२
बलाधिकाः, आº, दिº १, दिº २ ।
१७४
‘
आदि
’
शब्देन निर्दिष्टानामनिर्ज्ञातसंख्यानामियत्तावधारणं कर्त्तव्यमित्यत आह —
पञ्चेन्द्रियाणि ॥
१५
॥
‘
इन्द्रिय
’
शब्दो व्याख्यातार्थः ।
‘
पञ्च
’
ग्रहणमवधारणार्थम्, पञ्चै वनाधिक
-
संख्यानीति । कर्मेन्द्रियाणां
१
वागादीनामिह ग्रहणं कर्तव्यम् ? न कर्तव्यम्;
०५
उपयोगप्रकरणात् । उपयोगसाधनानामिह ग्रहणं
२
न क्रियासाधनानाम्; अनवस्थानाच्च ।
क्रियासाधनानामङ्गोपाङ्गनामकर्मनिर्वर्तितानां सर्वेषामपि क्रियासाधनत्वमस्तीति न
पञ्चैव कर्मेन्द्रियाणि ।
तेषामन्तर्भेदप्रदर्शनार्थमाह —
द्विविधा
३
नि ॥
१६
॥
१०
‘
विध
’
शब्दः प्रकारवाची । द्वौ विधौ येषां तानि द्विविधानि, द्विप्रकाराणीत्यर्थः ।
१
‘
वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः ।
’
— सांº कौº, श्लोº २६ ।
२
ग्रहणं कृतं
न क्रिया — मुº, ताº, नाº ।
३
‘
कतिविहाणं भंते इंदिया पण्णता ? गोयमा, दुविहा पण्णत्ता । तं
जहा — दव्विंदिया य भाविंदिया या
’
— पण्णवणा पद १५ ।
१७५
कौ पुनस्तौ द्वौ प्रकारौ ? द्रव्येन्द्रियं भावेन्द्रियमिति ।
तत्र द्रव्येन्द्रियस्वरूपप्रतिपत्त्यर्थमाह —
निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥
१७
॥
निर्वर्त्यते
१
इति निर्वृत्तिः । केन निर्वर्त्यते ? कर्मणा । सा द्विविधा; बाह्याभ्य
-
०५
न्तरभेदात् । उत्सेधाङ्गुलासंख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षु
-
रादीन्द्रियसंस्थानेनावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेश
-
भाक्षु यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा बाह्या
निर्वृत्तिः । येन निर्वृत्तेरुपकारः क्रियते तदुपकरणम् । पूर्ववत्तदपि द्विविधम् । तत्रा
-
भ्यन्तरं कृष्णशुक्लमण्डलं बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्व
२
पीन्द्रियेषु ज्ञेयम् ।
१
निर्वर्त्यत इति मुº ।
२
शेषेष्विन्द्रि — मुº ।
१७६
भावेन्द्रियमुच्यते —
लब्ध्युपयोगौ भावेन्द्रियम् ॥
१८
॥
लम्भनं लब्धिः । का पुनरसौ ? ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधा
-
नादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते तन्निमित्त आत्मनः परिणाम उपयोगः । तदु
-
०५
भये भावेन्द्रियम् । इन्द्रियफलमुपयोगः, तस्य कथमिन्द्रियत्वम् ? कारणधर्मस्य कार्ये
दर्शनात् । यथा घटाकारपरिणतं विज्ञानं घट इति । स्वार्थस्य तत्र मुख्यत्वाच्च । इन्द्रस्य
लिङ्गमिन्द्रियमिति यः स्वार्थः स उपयोगे
१
मुख्यः, उपयोगलक्षणो जीव इति वचनात् ।
अत उपयोगस्येन्द्रियत्वं न्याय्यम् ।
१
— योगो मृख्यः दिº १, दिº २, मुº ।
१७७
उक्तानामिन्द्रियाणां संज्ञानुपूर्वीप्रतिपादनार्थमाह —
स्पर्शन
१
रसनघ्राणचक्षुःश्रोत्राणि ॥
१९
॥
लोके इन्द्रियाणां पारतन्त्र्यविवक्षा दृश्यते । अनेनाक्ष्णा सुष्ठु पश्यामि, अनेन
कर्णेन सुष्ठु शृणोमीति । ततः पारतन्त्र्यात्स्पर्शनादीनां करणत्वम् । वीर्यान्तरायमति
-
०५
ज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भादात्मना
२
स्पृश्यतेऽनेनेति स्पर्शनम् ।
१
‘
बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि ।
’
सांº — कौº, श्लोº ६ ।
‘
घ्राणरसनचक्षुस्त्व
-
क्श्रोत्राणीन्द्रियाणि भूतेभ्यः ।
’
— न्याº सूº १, १, १२ ।
२
‘
जिघ्रत्यनेन घ्राणं गन्धं गृह्णातीति । रसयत्यनेनेनि
रसनं रसं गृह्णातीति । चष्टेऽनेनेति चक्षू रूपं पश्यती ति × × शृणोत्यनेनेति श्रोत्रं शब्दं गृह्णातीति ।
’
— वाº भाº १, १, १२ ।
१७८
रस्यतेऽनेनेति रसनम् । घ्रायतेऽनेनेति घ्राणम् । चक्षेरनेकार्थत्वाद्दर्शनार्थविवक्षायां चष्टे
अर्थान्पश्यत्यनेनेति चक्षुः । श्रूयतेऽनेनेति श्रोत्रम् । स्वातन्त्र्यविवक्षा च दृश्यते । इदं
१
मे अक्षि सुष्ठु पश्यति । अयं मे कर्णः सुष्ठु शृणोति । ततः स्पर्शनादीनां कर्तरि निष्पत्तिः ।
स्पृशतीति स्पर्शनम् । रसतीति रसनम् । जिघ्रतीति घ्राणम् । चष्टे इति चक्षुः । शृणो
-
०५
तीति श्रोत्रम् । एषां निर्देशक्रमः एकैकवृद्धिक्रमप्रज्ञापनार्थः ।
तेषामिन्द्रियाणां विषयप्रदर्शनार्थमाह —
२
स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥
२०
॥
द्रव्यपर्याययोः प्राधान्यविवक्षायां कर्मभावसाधनत्वं स्पर्शादिशब्दानां वेदितव्यम् ।
द्रव्यप्राधान्यविवक्षायां कर्मनिर्देशः । स्पृश्यत इति स्पर्शः । रस्यत इति रसः । गन्ध्यत
१०
इति गन्धः । वर्ण्यत इति वर्णः । शब्द्यत इति शब्दः । पर्यायप्राधान्यविवक्षायां भाव
-
१
इमानीन्द्रियाणि कदाचित्स्वातन्त्र्येण विवक्षितानि भवन्ति । तद्यथा — इदं मे अक्षि सुष्ठु पश्यति,
अयं मे कर्णः सुष्ठु शृणोतीति । कदार्चित्पारतन्त्र्येण विवक्षितानि भवन्ति — अनेनाक्ष्णा सुष्ठु पश्यामि ।
अनेन कर्णेन सुष्ठु शृणोमि इति । — पाº मº भाº १ । २ । २ । ५९ ।
२
‘
गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगु
-
णास्तदर्थाः ।
’
— वाº भाº १, १, ४१ ।
१७९
निर्देशः । स्पर्शानं स्पर्शः । रसनं रसः । गन्धनं गन्धः । वर्णनं वणः । शब्दनं शब्द
१
इति ।
एषां क्रम इन्द्रियक्रमेणैव व्याख्यातः ।
अत्राह, यत्तावन्मनोऽनवस्थानादिन्द्रियं न भवतीति प्रत्याख्यातं तत्किमुपयोग
-
स्योपकारि उत नेति ? तदप्युपकार्येव । तेन विनेन्द्रियाणां विषयेषु स्वप्रयोजनवृत्त्य
-
०५
भावात् । किमस्यैषां सहकारित्वमात्रमेव प्रयोजनमुतान्यदपीत्यत आह —
श्रुतमनिन्द्रियस्य ॥
२१
॥
श्रुतज्ञानविषयोऽर्थः श्रुतम् । स विषयोऽनिन्द्रियस्य; परिप्राप्तश्रुतज्ञानावरण
-
क्षयोपशमस्यात्मनः श्रु
२
तार्थेऽनिन्द्रियालम्बनज्ञानप्रवृत्तेः । अथवा श्रुतज्ञानं श्रुतम्, तदनि
-
न्द्रियस्यार्थः प्रयोजनमिति यावत् । स्वातन्त्र्यसाध्यमिदं प्रयोजनमनिन्द्रियस्य ।
१
— शब्दः । एषां मुº ताº । शब्दः । तेषां मुº ।
२
श्रुतस्यार्थे मुº, ताº, नाº ।
१८०
उक्तानामिन्द्रियाणां प्रतिनियतविषयाणां स्वामित्वनिर्देशे कर्तव्ये यत्प्रथमं
गृहीतं स्पर्शनं तस्य तावत्स्वामित्वावधारणार्थमाह —
वनस्पत्यन्तानामेकम् ॥
२२
॥
एकं प्रथममित्यर्थः । किं तत् ? स्पर्शनम् । तत्केषाम् ? पृथिव्यादीनां वनस्प
-
०५
त्यन्तानां वेदितव्यम् । तस्योत्पत्तिकारणमुच्यते — वीर्यान्तरायस्पर्शनेन्द्रियावरणक्षयो
-
पशमे सति शेषेन्द्रियसर्वघातिस्पर्धकोदये च शरीरनामलाभावष्टम्भे एकेन्द्रियजाति
-
नामोदयवशवर्तितायां च सत्यां स्पर्शनमेकमिन्द्रियमाविर्भवति ।
इतरेषामिन्द्रियाणां स्वामित्वप्रदर्शनार्थमाह —
कृमिपिपीलकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥
२३
॥
१०
‘
एकैकम्
’
इति वीप्सायां द्वित्वम् । एकैकेन वृद्धानि एकैकवृद्धानि । कृमिमादिं
१
कृत्वा, स्पर्शनाधिकारात् स्पर्शनमादिं कृत्वा एकैकवृद्धानीत्यभिसम्बन्धः क्रियते ।
‘
आदि
’
शब्दः प्रत्येकं परिसमाप्यते । कृम्यादीनां स्पर्शनं रसनाधिकम्, पिपीलिकादीनां स्पर्शनरसने
१
— किस्यादिं आº । कृम्यादिं दिº १, दिº २ ।
१८१
ध्राणाधिके, भ्रमरादीनां स्पर्शनरसनघ्राणानि चक्षुरधिकानि, मनुष्यादीनां तान्येव श्रोत्रा
-
धिकानीति यथासंख्येनाभिसम्बन्धो व्याख्यातः । तेषां निष्पत्तिः स्पर्शनोत्पत्त्या व्याख्याता
उत्तरोत्तरसर्वघातिस्पर्धकोदयेन ।
एवमेतेषु संसारिषु द्विभेदेषु इन्द्रियभेदात्पञ्चविधेषु ये पञ्चेन्द्रियास्तद्भेदस्या
-
०५
नुक्तस्य प्रतिपादनार्थमाह —
संज्ञिनः समनस्काः ॥
२४
॥
मनो व्याख्यातम् । सह तेन ये वर्तन्ते ते समनस्काः । संज्ञिन
१
इत्युच्यन्ते ।
पारिशेष्यादितरे संसारिणः प्राणिनोऽसंज्ञिन इति सिद्धम् । ननु च संज्ञिन इत्यनेनैव गतार्थ
-
त्वात्समनस्का इति विशेषणमनर्थकम्
२
। यतो मनोव्यापारो हिताहितप्राप्तिपरिहारपरीक्षा ।
१०
संज्ञापि सैवेति ? नैतद्युक्तम्, संज्ञाशब्दार्थव्यभिचारात् । संज्ञा नामेत्युच्यते ।
तद्वन्तः सञ्ज्ञिन इति सर्वेषामतिप्रसङ्गः । संज्ञा ज्ञानमिति चेत्; सर्वेषां प्राणिनां
१
— ज्ञिनः उच्य
-
दिº १, दिº २, आº ।
२
— नर्थकम् । मनो
-
ताº, नाº ।
१८२
ज्ञानात्मकत्वादतिप्रसङ्गः । आहारादिविषयाभिलाषः संज्ञेति चेत् ? तुल्यम् । तस्मात्स
-
मनस्का इत्युच्यते । एवं च कृत्वा गर्भाण्डजमूर्च्छितसुषुप्त्याद्यवस्थासु हिताहितपरीक्षा
-
भावेऽपि मनःसन्निधानात्सञ्ज्ञित्वमुपपन्नं भवति ।
यदि हिताहितादिविषयपरिस्पन्दः प्राणिनां मनःप्रणिधानपूर्वकः । अथाभि
-
०५
नवशरीरग्रहणं प्रत्यागूर्णस्य विशीर्णपूर्वमूर्तेर्निर्मनस्कस्य यत्कर्म तत्कुत इत्युच्यते —
विग्रहगतौ कर्मयोगः ॥
२५
॥
विग्रहो देहः । विग्रहार्था गतिर्विग्रहगतिः । अथवा विरुद्धो ग्रहो विग्रहो व्याघातः
१
।
कर्मादानेऽपि नोकर्मपुद्गलादाननिरोध इत्यर्थः । विग्रहेण गतिर्विग्रहगतिः । सर्व
-
१
— व्याघात. । नोकर्म
-
ताº, नाº ।
१८३
शरीरप्ररोहणबीजभूतं कार्मणं शरीरं कर्मेत्युच्यते । योगो वाङ्मनसकायवर्गणानिमित्त
आत्मप्रदेशपरिस्पन्दः । कर्मणा कृतो योगः कर्मयोगो विग्रहगतौ भवतीत्यर्थः । तेन
कर्मादानं देशान्तरसंक्रमश्च भवति ।
आह जीवपुद्गलानां गतिमास्कन्दतां देशान्तरसंक्रमः किमाकाशप्रदेशक्रमवृत्त्या
०५
भवति, उताविशेषेणेत्यत आह —
अनुश्रेणि गतिः ॥
२६
॥
लोकमध्यादारभ्य ऊर्ध्वमधस्तिर्यक् च आकाशप्रदेशानां क्रमसन्निविष्टानां पङ्क्तिः
श्रेणिः इत्युच्यते ।
‘
अनु
’
शब्दस्यानुपूर्व्येण वृत्तिः । श्रेणेरा
१
नुपूर्व्येणानुश्रेणीति जीवानां
पुद्गलानां च गतिर्भवतीत्यर्थः । अनधिकृतानां पुद्गलानां कथं ग्रहणमिति चेत् ? गति
-
१०
ग्रहणात् । यदि जीवानामेव गतिरिष्टा स्याद् गतिग्रहणमनर्थकम्; अधिकारात्तत्सिद्धेः ।
उत्तरत्र जीवग्रहणाच्च पुद्गलसंप्रत्ययः । ननु चन्द्रादीनां ज्योतिष्काणां
२
मेरुप्रदक्षिणा
-
काले विद्याधरादीनां च विश्रेणिगतिरपि दृश्यते, तत्र किमुच्यते
‘
अनुश्रेणि गतिः
’
इति ?
१
— रानुपूर्वेणा
-
आº ।
२
ज्योतिषां आº, दिº १, दिº २ ।
१८४
कालदेशनियमोऽत्र वेदितव्यः । तत्र कालनियमस्तावज्जीवानां मरणकाले भवान्तरसंक्रम
मुक्तानां चोर्ध्वगमनकाले अनुश्रेण्येव गतिः । देशनियमोऽपि ऊर्ध्वलोकादधोगतिः, अधो
-
लोकादूर्ध्वगतिः, तिर्यग्लोकादधोगतिरूर्ध्वा वा तत्रानुश्रेण्येव । पुद्गलानां च या लोकान्त
-
प्रापिणी सा नियमादनुश्रेण्येव । इतरा गतिर्भजनीया ।
०५
पुनरपि गतिविशेषप्रतिपत्त्यर्थमाह —
अविग्रहाः जीवस्य ॥
२७
॥
विग्रहो व्याघातः कौटिल्यमित्यर्थः । स यस्यां न विद्यतेऽसावविग्रहा गतिः ।
कस्य ? जीवस्य । कीदृशस्य ? मुक्तस्य । कथं गम्यते मुक्तस्येति ? उत्तरसूत्रे संसारि
-
ग्रहणादिह मुक्तस्येति विज्ञायते । ननु च
‘
अनुश्रेणि गतिः, इत्यनेनैव श्रेण्यन्तरसंक्रमाभावो
१०
व्याख्यातः । नार्थोऽनेन ? पूर्वसूत्रे विश्रेणिगतिरपि क्वचिदस्तीति ज्ञापनार्थमिदं
१८५
वचनम् । ननु तत्रैव देशकालनियम उक्तः ? न; अतस्तत्सिद्धेः ।
यद्यसङ्गस्यात्मनोऽप्रतिबन्धेन गतिरालोकान्तादवधृ
१
तकाला प्रतिज्ञायते, सदेहस्य
पुनर्गतिः किं प्रतिबन्धिनी उत मुक्तात्मवदित्यत आह —
विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ॥
२८
॥
०५
कालावधारणार्थं
‘
प्राक्चतुर्भ्यः
’
इत्युच्यते ।
‘
प्राग्
’
इति वचनं मर्यादार्थम्, चतुर्था
-
त्समयात्प्राग्विग्रहवती गतिर्भवति न चतुर्थे इति । कुत इति चेत् ? सर्वोत्कृष्टविग्रहनिमित्त
-
निष्कुटक्षेत्रे उत्पित्सुः प्राणी निष्कुटक्षेत्रानुपूर्व्यनुश्रेण्यभावादिषुगत्यभावे निष्कुटक्षेत्रप्रापण
-
निमित्तां त्रिविग्रहां गतिमारभते नोर्ध्वाम्; तथाविधोपपादक्षेत्राभावात् ।
‘
च
’
शब्दः
समुच्चयार्थः । विग्रहवती चाविग्रहा
२
चेति ।
१
— न्तादवगतकाला मुº ।
२
चाविग्रहवती चेति मुº ।
१८६
विग्रहवत्या गतेः कालोऽवधृतः । अविग्रहायाः कियान् काल इत्युच्यते —
एकसमयाऽविग्रहा ॥
२९
॥
एकः समयो य
१
स्याः सा एकसमया । न विद्यते विग्रहो
२
यस्याः सा अविग्रहा ।
गतिमतां हि जीवपुद्गलानामव्याघातेनैकसमयिकी गतिरालोकान्तादपीति ।
०५
अनादिकर्मबन्धसन्ततौ मिथ्यादर्शनादिप्रत्ययवशात्कर्माण्याददानो विग्रहगता
-
वप्याहारकः प्रसक्तस्ततो नियमार्थमिदमुच्यते —
एकं द्वौ त्रीन्वाऽनाहारकः ॥
३०
॥
अधिकारात्समयाभिसम्बन्धः ।
‘
वा
’
शब्दो विकल्पार्थः । विकल्पश्च यथेच्छाति
-
सर्गः । एकं वा द्वौ वा त्रीन्वा स
५
मयाननाहारको भवतीत्यर्थः । त्रयाणां शरीराणां षण्णां
१०
पर्याप्तीनां योग्यपुद्गलग्रहणमाहारः । तदभावादनाहारकः । कर्मादानं हि निरन्तरं
कार्मणशरीरसद्भावे । उपपादक्षेत्रं प्रति ऋज्व्यां गतौ आहारकः । इतरेषु त्रिषु समयेषु
अनाहारकः ॥
१
समयोऽस्याः एक
-
आº, दिº १ । समयोऽस्याः सा एक — दिº २, ताº, नाº ।
२
— ग्रहोऽस्याः
अवि — आº, दिº १, ताº, नाº ।
३
‘
कालाध्वनोरत्यन्तसंयोगे ।
’
-
पाº २, ३, ५ ।
१८७
एवं गच्छतोऽभिनवमूर्त्यन्तरनिर्वृत्ति
१
प्रकारप्रतिपादनार्थमाह —
सम्मूर्च्छनगर्भोपपादा जन्म ॥
३१
॥
त्रिषु लोकेषूर्ध्वमधस्तिर्यक् च देहस्य समन्ततो मूर्च्छनं सम्मूर्च्छनमवयवप्रकल्प
-
नम् । स्त्रिया उदरे शु
२
क्रशोणितयोर्गरणं मिश्रणं गर्भः । मात्रु
३
पभुक्ताहारगरणाद्वा गर्भः ।
०५
उपेत्य
४
पद्यतेऽस्मिन्निति उपपादः । देवनारकोत्पत्तिस्थानविशेषसञ्ज्ञा । एते त्रयः
संसारिणां जीवानां जन्मप्रकाराः शुभाशुभपरिणामनिमित्तकर्मभेदविपाककृताः ।
अथाधिकृतस्य संसारविषयोपभोगोपलब्ध्य
५
धिष्ठानप्रवणस्य जन्मनो योनिवि
-
कल्पा
६
वक्तव्या इत्यत आह —
सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥
३२
॥
१०
आत्मनश्चैतन्यविशेषपरिणामश्चित्तम् । सह चित्तेन वर्तत इति संचित्तः ।
शीत इति स्पर्शविशेषः, शुक्लादिवदुभयवचनत्वात्तद्युक्तं द्रव्यमप्याह ।
७
सम्यग्वृतः संवृतः ।
१
— निर्वृत्तिजन्मप्रका — मुº ।
२
शुक्लशोणित — ताº, नाº, दिº १, मुº ।
३
मात्रोपभुक्त — मुº ।
मात्रोपयुक्त दिº १, दिº २
४
उपेत्योत्पद्य
-
मुº ।
५
-
लब्ध्याधिष्ठा — आº, दिº १, दिº २ ।
६
-
कंल्पो वक्तव्यः
आº, ताº, नाº । ताº, नाº ।
७
सम्यग्वृतः संवृत इति आº दिº १, दिº २ ।
१८८
संवृत इति दुरुपलक्ष्यप्रदेश उच्यते । सह इतरैर्वर्तन्त इति सेतराः । सप्रतिपक्षा इत्यर्थः । के
पुनरितरे ? अचित्तोष्णविवृताः । उभयात्मको मिश्रः । सचित्ताचित्तः शीतोष्णः संवृत
-
विवृत इति ।
‘
च
’
शब्दः समुच्चयार्थः मिश्राश्च योनयो भवन्तीति । इतरथा हि पूर्वोक्तानामेव
विशेषणं स्यात् ।
‘
एकशः
’
इति वीप्सार्थः । तस्य ग्रहणं क्रममिश्रप्रतिपत्त्यर्थम् । यथैवं
०५
विज्ञायेत — सचित्तश्च अचित्तश्च, शीतश्च उष्णश्च, संवृतश्च विवृतश्चेति । भैवं विज्ञायि —
सचित्तश्च शीतश्चेत्यादि ।
‘
तद्ग्रहणं जन्मप्रकारप्रतिनिर्देशार्थम् । तेषां सम्मूर्च्छनादीनां
जन्मनां योनय इति । एते नव योनयो वेदितव्याः । योनिजन्मनोरविशेष इति चेत् ? न;
आधाराधेयभेदात्तद्भेदः । त एते सचित्तादयो योनय आधाराः । आधेया जन्मप्रकाराः ।
यतः सचित्तादियोन्यधिष्ठाने आत्मा सम्मूर्च्छनादिना जन्मना शरीराहारेन्द्रियादियोग्या
-
१०
न्पुद्गलानुपादत्ते । देवनारका अचित्तयोनयः । तेषां हि योनिरुपपाददेशपुद्गलप्रचयोऽ
-
चित्तः । गर्भजा मिश्रयोनयः । तेषां हि मातुरुदरे शुक्रशोणितमचित्तम्, तदात्मना चित्तवता
मिश्रणान्मिश्र
१
योनिः । सम्मूर्च्छनजास्त्रिविकल्पयोनयः । केचित्सचित्तयोनयः ।
१
— मिश्रं मिश्रयोनिः आº, दिº १, दिº २ ।
१८९
अन्ये अचित्तयोनयः । अपरे मिश्रयोनयः । सचित्तयोनयः साधारणशरीराः । कुतः ?
परस्पराश्रयत्वात् । इतरे अचित्तयोनयो मिश्रयोनयश्च । शीतोष्णयोनयो देवनारकाः ।
तेषां हि उपपादस्थानानि कानिचिच्छीतानि कानिचिदुष्णानीति । उष्णयोनयस्तैजस्का
-
यिकाः । इतरे त्रिविकल्पयोनयः । केचिच्छीतयोनयः । केचिदुष्णयोनयः । अपरे मिश्र
-
०५
योनय इति । देवनारकैकेन्द्रियाः संवृतयोनयः । विकलेन्द्रिया विवृतयोनयः । गर्भजाः
मिश्रयोनयः । तद्भेदाश्चतुरशीतिशतसहस्रसंख्या आगमतो वेदितव्याः । उ
व
k
तं च
२
—
‘
णिच्चिदरधादु सत्त य तरु दस वियलिंदिएसु छच्चेव ।
सुरणिरयतिरिय चौरो चोद्दस मणुए सदसहस्सा
१
॥
’
एवमेतस्मिन्नवयोनिभेदसङ्कटे त्रिविधजन्मनि सर्वप्राणभृतामनियमेन प्रसक्ते तद
-
१०
वधारणार्थमाह —
जरायुजाण्डजपोतानां गर्भः ॥
३३
॥
यज्जालवत्प्राणिपरिवरणं विततमांसशोणितं तज्जरायुः । यन्नखत्वक्सदृशमु
-
१
मूलाचाº गाº । गोº जीº गाº ।
१९०
पात्तकाठिन्यं शुक्रशोणितपरिवरणं परिमण्डलं तदण्डम् । किञ्चित्परिवरणमन्तरेण
परिपूर्णावयवो योनिनिर्गतमात्र एव परिस्पन्दादिसामर्थ्योपेतः पोतः । जरायौ
जाता जरायुजाः । अण्डे जाता अण्डजाः । जरायुजाश्च अण्डजाश्च पोताश्च जरायु
-
जाण्डजपोता गर्भयोनयः ।
०५
यद्यमीषां जरायुजाण्डजपोतानां गर्भोऽवध्रियते, अथोपपादः केषां भवतीत्यत
आह —
देवनारकाणामुपपादः ॥
३४
॥
देवानां नारकाणां चोपपादो जन्म वेदितव्यम् ।
अथान्येषां किं जन्मेत्यत आह —
१०
शेषाणां सम्मूर्च्छनम् ॥
३५
॥
गर्भजेभ्य औपपादिकेभ्यश्चान्ये शेषाः । सम्मूर्छनं जन्मेति । एते त्रयोऽपि योगा
नियमार्थाः । उभयतो नियमश्च द्रष्टव्यः । जरायुजाण्डजपोतानामेव गर्भः । गर्भ एव
च जरायुजाण्डजपोतानाम् । देवनारकाणामेवोपपादः । उपपाद एव च देवनारकाणाम् ।
शेषाणामेव सम्मूर्च्छनम् । संमूर्च्छनमेव शेषाणामिति ।
१९१
तेषां पुनः संसारिणां त्रिविधजन्मनामाहितबहुविकल्पनवयोनिभेदानां शुभाशुभ
-
नामकर्मविपाकनिर्वर्तितानि बन्धफलानुभवनाधिष्ठानानि शरीराणि कानीत्यत आह —
औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥
३६
॥
विशिष्टनामकर्मोदयापादितवृत्तीनि शीर्यन्त इति शरीराणि
१
। औदारिकादि
-
०५
प्रकृतिविशेषोदयप्राप्तवृत्तीनि औदारिकादीनि । उदार स्थूलम् । उदारे
२
भवं उदारं
प्रयोजनमस्येति वा औदारिकम् । अष्टगुणैश्वर्ययोगादेकानेकाणुमहच्छरीरविविधकरणं
विक्रिया, सा प्रयोजनमस्येति वैक्रियिकम् । सूक्ष्मपदार्थनिर्ज्ञानार्थमसंयमपरिजिहीर्षया वा
प्रमत्तसंयतेनाह्रियते निर्वर्त्यते तदित्याहारकम् । यत्तेजोनिमित्तं तेजसि वा भवं तत्तैज
-
सम् । कर्मणां कार्यं कार्मणम् । सर्वेषां कर्मनिमित्तत्त्वेऽपि रूढिवशाद्विशिष्टविषये वृत्ति
-
१०
रवसेया ।
यथौदारिकस्येन्द्रियैरुपलब्धिस्तथेतरेषां कस्मान्न भवतीत्यत आह —
परम्परं सूक्ष्मम् ॥
३७
॥
‘
पर
’
शब्दस्यानेकार्थवृत्तित्वेऽपि विवक्षातो व्यवस्थार्थगतिः । पृथग्भूतानां शरी
-
१
—
‘
चेष्टेन्द्रियार्थाश्रयः शरीरम् ।
’
न्याº सूº १, १, ११ ।
२
उदारे भवमौदारिकम् । उदारं मुº ।
१९२
राणां सूक्ष्मगुणेन वीप्पानिर्देशः क्रियते परम्परमिति । औदारिकं स्थूलम्, ततः सूक्ष्मं वैक्रि
-
यिकम्, ततः सूक्ष्मं आहारकम्, ततः सूक्ष्मं तैजसम्, तैजसात्कार्मणं सूक्ष्ममिति ।
यदि परम्परं सूक्ष्मम्, प्रदेशतो
१
ऽपि न्यूनं परम्परं हीनमिति विपरीतप्रतिपत्तिनिवृत्त्य
-
र्थमाह —
०५
प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात् ॥
३८
॥
प्रदिश्यन्त इति प्रदेशाः परमाणवः । संख्यामतीतोऽसंख्येयः । असंख्येयो गुणो
-
ऽस्य तदिदमसंख्येयगुणम् । कुतः ? प्रदेशतः । नावगाहतः । परम्परमित्यनुवृत्तेरा कार्म
-
णात्प्रसङ्गे तन्निवृत्त्यर्थमाह प्राक्तैजसादिति । औदारिकादसंख्येयगुणप्रदेशं वैक्रियिकम् ।
वैक्रियिकादसंख्येयगुणप्रदेशमाहारकमिति । को गुणकारः ? पल्योपमासंख्येयभागः ।
१०
यद्येवं, परम्परं महापरिमाणं प्राप्नोति
२
? नैवम्; बन्धविशेषात्परिमाणभेदा
-
भावस्तूलनिचयायःपिण्डवत् ।
१
— प्रदेशतः । परस्पर — ताº, नाº ।
२
प्राप्नोति । बन्ध — ताº ।
१९३
अथोत्तरयोः किं समप्रदेशत्वमुतास्ति कश्चिद्विशेष इत्यत आह —
अनन्तगुणे परे ॥
३९
॥
प्रदेशत इत्यनुवर्तते, तेनैवमभिसम्बन्धः क्रियते — आहारकात्तैजसं प्रदेशतोऽनन्त
-
गुणम, तैजसात्कार्मणं प्रदेशतोऽनन्तगुणमिति । को गुणकारः ? अभव्यानामनन्तगुणः सिद्धा
-
०५
नामनन्तभागः
१
।
तत्रेतत्स्याच्छल्यकवन्मूर्तिमद्द्रव्योपचितत्वात्संसारिणो जीवस्याभिप्रेतगतिनिरोध
-
प्रसङ्ग इति ? तन्न; किं कारणम् ? यस्मादुभे अप्येते —
अप्रतीघाते ॥
४०
॥
मूर्तिमतो मूर्त्यन्तरेण व्याघातः प्रतीघातः । स नास्त्यनयोरित्यप्रतीघाते; सूक्ष्म
-
१०
२
परिणामात् । अयःपिण्डे तेजोऽनुप्रवेशवत्तैजसकार्मणयोर्नास्ति वज्रपटलादिषु व्याघातः ।
ननु च वैक्रियिकाहारकयोरपि नास्ति प्रतीघातः ? सर्वत्राप्रतीघातोऽत्र विवक्षितः । यथा
१
-
मनन्तो भागः ताº, नाº ।
२
— परिमाणात् मुº ।
१९४
तेजसकार्मणयोरा लोकान्तात् सर्वत्र नास्ति प्रतीघातः, न तथा वैक्रियिकाहारकयोः ।
आह किमेतावानेव विशेष उत कश्चिदन्योऽप्यस्तीत्याह —
अनादिसम्बन्धे च ॥
४१
॥
‘
च
’
शब्दो विकल्पार्थः । अनादिसम्बन्धे सादिसम्बन्धे चेति । कार्यकारणभाव
-
०५
सन्तत्या अनादिसम्बन्धे, विशेषापेक्षया सादिसम्बन्धे
१
च बीजवृक्षवत् । यथौदारिक
-
वैक्रियिकाहारकाणि जीवस्य कादाचित्कानि, न तथा तैजसकार्मणे । नित्यसम्बन्धिनी
हि ते आ संसारक्षयात् ।
त एते तैजसकार्मणे किं कस्यचिदेव भवत उताविशेषेणेत्यत आह —
सर्वस्य ॥
४२
॥
१०
‘
सर्व
’
शब्दो निरवशेषवाची । निरवशेषस्य संसारिणो जीवस्य ते द्वे अपि शरीरे
भवत इत्यर्थः ।
अविशेषाभिधानात्तैरौदारिकादिभिः सर्वस्य संसारिणो यौगपद्येन सम्बन्धप्रसङ्गे
सम्भविशरीरप्रदर्शनार्थमिदमुच्यते —
१
— सम्बन्धेऽपि च मुº ।
१९५
तदादीनि भाज्यानि युगपदे
१
कस्या चतुर्भ्यः ॥
४३
॥
‘
तत्
’
शब्दः प्रकृततैजसकार्मणप्रतिनिर्देशार्थः । ते तैजसकार्मणे आदिर्येषां तानि
तदादीनि । भाज्यानि विकल्प्यानि । आ कुतः ? आ चतुर्भ्यः । युगपदेकस्यात्मनः ।
कस्यचिद् द्वे तैजसकार्मणे । अपरस्य त्रीणि औदारिकतैजसकार्मणानि वैक्रियिकतैजस
-
०५
कार्मणानि वा । अन्यस्य चत्वारि औदारिकाहारकतैजसकार्मणानीति विभागः क्रियते ।
पुनरपि तेषां विशेषप्रतिपत्त्यर्थमाह —
निरुपभोगमन्त्यम् ॥
४४
॥
अन्ते भवमन्त्यम् । किं तत् ? कार्मणम् । इन्द्रियप्रणालिकया शब्दादीनामुप
-
१
— देकस्मिन्ना च — मुº ।
१९६
लब्धिरुपभोगः । तदभावान्निरुपभोगम् । विग्रहगतौ सत्यामपि इन्द्रियलब्धौ द्रव्ये
-
न्द्रियनिर्वृत्त्यभावाच्छब्दाद्युपभोगाभाव इति । ननु तैजसमपि निरुपभोगम् । तत्र किमु
-
च्यते निरुपभोगमन्त्यमिति ? तैजसं शरीरं योगनिमित्तमपि न भवति, ततोऽस्योपभोग
-
विचारेऽनधिकारः ।
१
०५
एवं तत्रोक्तलक्षणेषु जन्मसु अमूनि शरीराणि प्रादुर्भावमापद्यमानानि किम
-
विशेषेण भवन्ति, उत कश्चिदस्ति प्रतिविशेष इत्यत आह —
गर्भसम्मूर्च्छनजमाद्यम् ॥
४५
॥
१
— नधिकारः । तत्रोक्त — ताº, नाº ।
१९७
सूत्रक्रमापेक्षया आदौ भवमाद्यम् । औदारिकमित्यर्थः । यद् गभजं यच्च सम्मू
-
र्च्छनजं तत्सर्वमौदारिकं द्रष्टव्यम् ।
तदनन्तरं यन्निर्दिष्टं तत्कस्मिन् जन्मनीत्यत आह —
औपपादिकं वैक्रियिकम् ॥
४६
॥
०५
उपपादे भवमौपपादिकम् । तत्सर्वं वैक्रियिकं वेदितव्यम् ।
यद्यौपपादिकं वैक्रियिकम्, अनौपपादिकस्य वैक्रियिकत्वाभाव इत्यत आह —
लब्धिप्रत्ययं च ॥
४७
॥
‘
च
’
शब्देन वैक्रियिकमभिसम्बध्यते । तपोविशेषादृद्धिप्राप्तिर्लब्धिः । लब्धिः
प्रत्ययः कारणमस्य लब्धिप्रत्ययम् । वैक्रियिकं लब्धिप्रत्ययं च भवतीत्यभिसम्बध्यते ।
१०
किमेतदेव लब्ध्यपेक्षमुतान्यदप्यस्तीत्यत आह —
तैजसमपि ॥
४८
॥
‘
अपि
’
शब्देन लब्धिप्रत्ययमभिसम्बध्यते । तैजसमपि लब्धिप्रत्ययं भवतीति ।
१९८
वक्रियिकानन्तरं यदुपदिष्टं तस्य स्वरूपनिर्धारणार्थं स्वामिनिर्देशार्थं चाह —
शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥
४९
॥
शुभकारणत्वाच्छुभव्यपदेशः । शुभकर्मण आहारककाययोगस्य कारणत्वाच्छु
-
भमित्युच्यते अन्नस्य प्राणव्यपदेशवत् । विशुद्धकार्यत्वाद्विशुद्धव्यपदेशः । विशुद्धस्य पुण्य
१
-
०५
कर्मणः अशबलस्य निरवद्यस्य कार्यत्वाद्विशुद्धमित्युच्यते तन्तूनां कार्पासव्यपदेशवत् ।
उभयतो व्याघाताभावादव्याघाति । न ह्याहारकशरीरेणान्यस्य व्याघातः । नाप्यन्ये
-
नाहारकस्येति । तस्य प्रयोजनसमुच्चयार्थः
‘
च
’
शब्दः क्रियते । तद्यथा — कदाचि
-
ल्लब्धिविशेषसद्भावज्ञापनार्थं कदाचित्सूक्ष्मपदार्थनिर्द्धारणार्थं संयमपरिपालनार्थं च ।
आहारकमिति प्रागुक्तस्य प्रत्याम्नायः । यदाऽऽहारकशरीरं निर्वर्तयितुमारभते तदा
१०
प्रमत्तो भवतीति
‘
प्रमत्तसंयतस्य
’
इत्युच्यते । इष्टतोऽवधारणार्थं
‘
एव
’
कारोपादानम् । यथैवं
विज्ञायेत प्रमत्तसंयतस्यैवाहारकं नान्यस्येति । मैवं विज्ञायि प्रमत्तसंयतस्याहारकमेवेति ।
१
— पुण्यस्य कर्मणः मुº ।
१९९
मा भूदौदारिकादिनिवृत्तिरिति ।
एवं विभक्तानि शरीराणि बिभ्रतां संसारिणां प्रतिगति किं त्रिलिङ्गसन्निधानं
उत लिङ्गनियमः कश्चिदस्तीत्यत आह —
नारकसम्मूर्च्छिनो नपुंसकानि ॥
५०
॥
०५
नरकाणि वक्ष्यन्ते । नरकेषु भवा नारकाः । सम्मूर्छनं सम्मूर्च्छः स येषामस्ति
१
ते
सम्मूर्च्छिनः । नारकाश्च सम्मूर्छिनश्च नारकसम्मूर्छिनः । चारित्रमोहविकल्पनोकषाय
-
भेदस्य नपुंṃसकवेदस्याशुभनाम्नश्चोदयान्न स्त्रियो न पुमांस इति नपुंṃसकानि भवन्ति ।
नारकसम्मूर्च्छिनो नपुंṃसकान्येवेति नियमः । तत्र हि स्त्रीपुंṃसविषयमनोज्ञशब्दगन्धरूप
-
रसस्पर्शसम्बन्धनिमित्ता स्वल्पापि सुखमात्रा नास्ति ।
१०
यद्येवमवध्रियते, अर्थादापन्नमेतदुक्तेभ्योऽन्ये संसारिणस्त्रिलिङ्गा इति यत्रा
-
त्यन्तं
२
नपुंṃसकलिङ्गस्याभावस्तत्प्रतिपादनार्थमाह —
न देवाः ॥
५१
॥
स्त्रैणं पौंस्नं च यन्निरतिशय
३
सुखं शुभगतिनामोदयापेक्षं तद्देवा अनुभवन्तीति न
तेषु नपुंṃसकानि
४
सन्ति ।
१
— मस्तीति सम्मू
-
मुº ।
२
-
त्यन्तनपुं
-
आº, दिº १ । — त्यन्तिकनपुं — दिº २ ।
३
-
शयं सुखं
१५
गति — मुº ।
४
नपुंसकलिङ्गानि सन्ति मुº ।
२००
अथेतरे कियल्लिङ्गा इत्यत आह —
शेषास्त्रिवेदाः ॥
५२
॥
त्रयो वेदा येषां ते त्रिवेदाः । के पुनस्ते वेदाः ? स्त्रीत्वं पुंस्त्वं नपुंसकत्वमिति ।
कथं तेषां सिद्धिः ? वेद्यत इति वेदः । लिङ्गमित्यर्थः । तद् द्विविधं द्रव्यलिङ्गं भाव
-
०५
लिङ्गं चेति । द्रव्यलिङ्गं योनिमेहनादि नामकर्मोदयनिर्वर्तितम् । नोकषायोदयापादितवृत्ति
भावलिङ्गम् । स्त्रीवेदोदयात् स्यायस्त्यस्यां गर्भ इति स्त्री । पुंवेदोदयात् सूते जनयत्य
-
पत्यमिति पुमान्
१
। नपुंṃसकवेदोदयात्तदुभयशक्तिविकलं नपुंṃसकम् । रूढिशब्दाश्चैते । रूढि
-
षु च क्रिया व्युत्पत्त्यर्थैव । यथा गच्छतीति गौरिति । इतरथा हि गर्भधारणादिक्रिया
-
प्राधान्ये बालवृद्धानां तिर्यङ्मनुष्याणां देवानां कार्मणकाययोगस्थानां च तदभावात्स्त्री
-
१०
त्वादिव्यपदेशो न स्यात् । त एते त्रयो वेदाः शेषाणां गर्भजानां भवन्ति ।
१
पुमान् । तदुभय
-
आº, दिº १, दिº २ ।
२०१
य इमे जन्मयोनिशरिरलिङ्गसम्बन्धाहितविशेषाः प्राणिनो निर्दिश्यन्ते देवा
-
दयो विचित्रधर्माधर्मवशीकृताश्चतसृषु गतिषु शरीराणि धारयन्तस्ते किं यथाकालमुप
-
भुक्तायुषो मूर्त्यन्तराण्यास्कन्दन्ति उतायथाकालमपीत्यत आह —
औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवर्त्यायुषः ॥
५३
॥
०५
औपपादिका व्याख्याता देवनारका इति । चरमशब्दोऽन्त्यवाची । उत्तम
उत्कृष्टः । चरम उत्तमो देहो येषां ते चरमोत्तमदेहाः । प
१
रीतसंसारास्तज्जन्मनिर्वा
-
णार्हा इ
२
त्यर्थः । असंख्येयमतीतसंख्यानमुपमाप्रमाणेन पल्यादिना गम्यमायुर्येषां त इमे
असंख्येयवर्षायुषस्तिर्यङ्मनुष्या उत्तरकुर्वादिषु प्रसूताः । औपपादिकाश्च चरमोत्तम
-
देहाश्च असंख्येयवर्षायुषश्च औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषः । बह्यस्योपघात
-
१०
निमित्तस्य विषशस्त्रादेः सति सन्निधाने ह्रस्वं भवतीत्यपवर्त्यम् । अपवर्त्यमायुर्येषां त
इमे अपवर्त्यायुषः । न अपवर्त्यायुषः अनपवर्त्यायुषः । नह्येषामौपपादिकादीनां बाह्य
-
१
-
देहाः । विपरीत — मुº ।
२
इत्यर्थः । अतीतसंख्यान — ताº नाº ।
२०२
निमित्तवशादायुरपवर्त्यते इत्ययं नियमः । इतरेषामनियमः । चरमस्य देहस्योत्कृष्टत्व
-
प्रदर्शनार्थमुत्तमग्रहणं नार्थान्तरविशेषोऽस्ति । चरमदेहा इति वा पाठः
१
।
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां द्वितीयोऽध्यायः ।
१
पाठः ॥
२
॥ जीवस्वभावलक्षणसाधनविषयस्वरूपभेदाश्च । गतिजन्मयोनिदेहलिङ्गानपवर्तितायु ? ? क
-
भेदाश्चाध्यायेऽस्मिन्निरूपिता भवन्तीति स बन्धः ॥ इति तत्त्वा — मुº । पाठः ॥
२
॥ जीवस्वभावलक्षणसाधनविषय
-
०५
स्वरूपभेदाश्च । गतिजन्मयोनिदेहलिङ्गानपवर्त्यायुर्भिदास्तत्र ॥ इति तत्त्वा — नाº ।
२०३
अथ तृतीयोऽध्यायः
‘
भवप्रत्ययोऽवधिर्देवनारकाणाम्
’
इत्येवमादिषु नारकाः श्रुतास्ततः पृच्छति के
ते नारका इति । तत्प्रतिपादनार्थं तदधिकरणनिर्देशः क्रियते —
रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो
०५
घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः ॥
१
॥
रत्नं च शर्करा च वालुका च पङ्कश्च धूमश्च तमश्च महातमश्च रत्नशर्करावालु
-
कापङ्कधूमतमोमहातमांसि ।
‘
प्रभा
’
शब्दः प्रत्येकं परिसमाप्यते । साहचर्यात्ताच्छब्द्यम् ।
चित्रादिरत्नप्रभासहचरिता भूमिः रत्नप्रभा, शर्कराप्रभासहचरिता भूमिः शर्कराप्रभा,
वालुकाप्रभासहचरिता भूमिर्वालुकाप्रभा, पङ्कप्रभासहचरिता भूमिः पङ्कप्रभा, धूमप्रभा
-
१०
सहचरिता भूमिर्धूमप्रभा, तमःप्रभासहचरिता भूमिस्तमःप्रभा, महातमःप्रभासहचरिता
भूमिर्महातमःप्रभा इति । एताः संज्ञा अनेनोपायेन व्युत्पाद्यन्ते ।
‘
भूमि
’
ग्रहणमधिकरण
-
विशेषप्रतिपत्त्यर्थम् । यथा स्वर्गपटलानि भूमिमनाश्रित्य व्यवस्थितानि न तथा नारका
-
२०४
वासाः । किं तर्हि ? भूमिमाश्रिता इति
१
। आसां भूमीनामालम्बननिर्ज्ञानार्थं घनाम्बु
-
वातादिग्रहणं क्रियते । घनाम्बु च वातश्च आकाशं च घनाम्बुवाताकाशानि । तानि
प्रतिष्ठा आश्रयो यासां ता घनाम्बुवाताकाशप्रतिष्ठाः
२
। सर्वा एता भूमयो घनोदधिवलय
-
प्रतिष्ठाः । घनोदधिवलयं घनवातवलयप्रतिष्ठम् । घनवातवलयं तनुवातवलयप्रति
-
०५
ष्ठम् । तनुवातवलयमाकाशप्रतिष्ठम् । आकाशमात्मप्रतिष्ठं, तस्यैवाधाराधेयत्वात् ।
त्रीण्यप्येतानि वलयानि प्रत्येकं विंशतियोजनसहस्रबाहुल्यानि ।
‘
सप्त
’
ग्रहणं संख्यान्तरनि
-
वृत्त्यर्थम् । सप्त भूमयो नाष्टौ न नव चेति ।
‘
अधोऽधः
’
वचनं तिर्यक्प्रचयनिवृत्त्यर्थम् ।
१
— इति । तासां भूमी
-
मुº, ताº, नाº ।
२
प्रतिष्ठाः । घनं च घनो मन्दो महान् आयतः इत्यर्थः ।
अम्बु च जलं उदकमित्यर्थः । वात
-
शब्दोऽन्त्यदीपकः । तत एवं सम्बन्धनीयः । घनो घनवातः । अम्बु अम्बुवातः ।
वातस्तनुवातः । इति महदापेक्षया तनुरिति सामर्थ्यगम्यः । अन्यः पाठः । सिद्धान्तपाठस्तु घनाम्बु च वातं चेति
१०
वातशब्दः सोपस्क्रियते । वातस्तनवात इति वा । सर्वा एता मुº, ताº, नाº ।
२०५
किं ता भूमयो नारकाणां सर्वत्रावासा आहोस्वित्क्वचित्क्वचिदिति तन्नि
-
र्धारणार्थमाह —
तासु त्रिंशत्पञ्चविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि
पंच चैव यथाक्रमम् ॥
२
॥
०५
तासु रत्नप्रभादिषु भूमिषु नरकाण्यनेन संख्यायन्ते यथाक्रमम् । रत्नप्रभायां
त्रिंशन्नरकशतसहस्राणि, शर्कराप्रभायां पञ्चविंशतिर्नरकशतसहस्राणि, वालुकाप्रभायां
पञ्चदश नरकशतसहस्राणि, पङ्कप्रभायां दश नरकशतसहस्राणि, धूमप्रभायां त्रीणि
नरकशतसहस्राणि, तमःप्रभायां पञ्चोनमेकं नरकशतसहस्रं, महातमःप्रभायां पञ्च
नरकाणि । रत्नप्रभायां नरकप्रस्तारस्त्रयोदश । ततोऽध आ सप्तम्या द्वौ
१
द्वौ नरकप्र
-
१
— सप्तम्या द्वं द्वं नरक — आº, दिº १, दिº २ ।
२०६
स्तारौ
१
हीनौ । इतरो विशेषो लोकानुयोगतो
२
वेदितव्यः ।
अथ तासु भूमिषु नारकाणां कः प्रतिविशेष इत्यत आह —
नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥
३
॥
लेश्यादयो व्याख्यातार्थाः । अशुभतरा इति प्रकर्षनिर्देशः तिर्यग्गतिविषयाशुभ
-
०५
लेश्याद्यपेक्षया, अधोऽधः स्वगत्यपेक्षया च वेदितव्यः ।
‘
नित्य
’
शब्द
३
आभीक्ष्ण्यवचनः ।
नित्यमशुभतरा लेश्यादयो येषां ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रिया नारकाः ।
१
— प्रस्ताराः हीनाः । इतरो आº, दिº १, दिº २ ।
२
लोकनियोगतो दिº १, दिº २ ।
३
‘
अयं
खलु नित्यशब्दो नावश्यं कूटस्थेष्वविचालिषु भावेषु वर्तते । किं तर्हि ? आभीक्ष्ण्येऽपि वर्तते । तद्यथा
-
नित्यप्रहसितो
नित्यप्रजल्पित इति ।
’
— पाº मº भाº, पृº ५७ ।
२०७
प्रथमाद्वितीययोः कापोती लेश्या, तृतीयायामुपरिष्टात्कापोती अधो नीला, चतुर्थ्यां नीला,
पञ्चम्यामुपरि नीला अधः कृष्णा, षष्ठ्यां कृष्णा, सप्तम्यां परमकृष्णा । स्वायुः
१
-
प्रमाणावधृता द्रव्यलेश्या उक्ताः । भावलेश्यास्तु अन्तर्मुहूर्तपरिवर्तिन्यः । परिणामाः
स्पर्शरसगन्धवर्णशब्दाः क्षेत्रविशेषनिमित्तवशादतिदुःखहेतवोऽशुभतराः । देहाश्च तेषाम
-
०५
शुभनाम
३
कर्मोदयादत्यन्ताशुभतरा विकृताकृतयो हुण्डसंस्थाना
४
दुर्दर्शनाः । तेषामुत्सेधः
प्रथमायां सप्त धनूंषि त्रयो हस्ताः षडङ्गुलयः । अधोऽधो — द्विगुणद्विगुण
५
उत्सेधः ।
अभ्यन्तरासद्वेद्योदये सति अनादिपारिणामिकशीतोष्णबाह्यनिमित्तजनिता
६
अतितीव्रा
वेदना भवन्ति नारकाणाम् । प्रथमाद्वितीयातृतीयाचतुर्थीषु उष्णवेदनान्येव नरकाणि ।
पञ्चम्यामुपरि उष्णवेदने द्वे नरकशतसहस्रे । अधः शीतवेदन
७
मेकं शतसहस्रम् । षष्ठीस
-
१०
प्तम्योः शीतवेदनान्येव । शुभं
८
विकरिष्याम इति अशुभतरमेव विकुर्वन्ति, सुखहेतूनुत्पाद
-
याम इति दुःखहेतूनेवोपादयन्ति । त एते भावा अधोऽधोऽशुभतरा वेदितव्याः ।
१
स्वायुषाः प्रमा — मुº, ताº, नाº ।
२
— माणेऽववृता आº, दिº १, दिº २ ।
३
— नामोदया
— आº, दिº १, दिº २ ।
४
संस्थाना । तेषांº आº, दिº १, दिº २ ।
५
द्विगुणो द्विगुण आº, दिº १
दिº २ ।
६
-
जनिताः सुतीव्रा मुº, दिº १, दिº २, आº, ताº ।
७
-
वेदनानामेकं आº, दिº १, दिº २ ।
८
शुभं करि
-
प्रुº, आº, दिº १, दिº २ ।
२०८
किमेतेषां नारकाणां शीतोष्णजनितमेव दुःखमुतान्यथापि भवतीत्यत आह —
परस्परोदीरितदुःखाः ॥
४
॥
कथं परस्परोदीरितदुःखत्वम् ? नारकाः
१
भवप्रत्ययेनावधिना मिथ्यादर्शनोदयाद्वि
-
भङ्गव्यपदेशभाजा च दूरादेव दुःखहेतूनवगम्योत्पन्नदुःखा प्रत्यासत्तौ परस्परालोकनाच्च
०५
प्रज्वलितकोपाग्नयः पूर्वभवानुस्मरणाच्चातितीव्रानुबद्धवैराश्च श्वशृगालादिवत्स्वाभिघाते
प्रवर्तमानाः स्वविक्रियाकृतासिवासीपरशुभिण्डिमालशक्तितोमरकुन्तायोघनादिभिरायुधैः
स्वकरचरणदशनैश्च छेदनभेदनतक्षणदंशनादिभिः परस्परस्यातितीव्रं दुःखमुत्पादयन्ति ।
किमेतावानेव दुःखोत्पत्तिकारणप्रकार उतान्योऽपि कश्चिदस्तीत्यत आह —
१
नारकाणाम् ? भव — मुº, ताº, नाº ।
२०९
संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥
५
॥
देवगतिनामकर्मविकल्पस्यासुरत्वसंवर्तनस्य कर्मण उदयादस्यन्ति परानित्यसुराः ।
पूर्वजन्मनि
१
भावितेनातितीब्रेण संक्लेशपरिणामेन यदुपार्जितं पापकर्म तस्योदयात्सततं
क्लिष्टाः
२
संक्लिष्टाः, संक्लिष्टा असुराः संक्लिष्टासुराः । संक्लिष्टा इति विशेषणान्न सर्वे
०५
असुरा नारकाणां दुःखमुत्पादयन्ति । किं तर्हि ? अम्बावरीषादय एव केचनेति । अवधिप्र
-
दर्शनार्थं
‘
प्राक्चतुर्थ्याः
’
इति विशेषणम् । उपरि तिसृषु पृथ्वीषु संक्लिष्टासुरा बाधाहेतवो
नातः परमिति प्रदर्शनार्थम् ।
‘
च
’
शब्दः पूर्वोक्तदुःखहेतुसमुच्चयार्थः । सुतप्तायोरसपा
-
यननिष्टप्तायस्तम्भालिङ्गनकूटशाल्मल्यारोहणावतरणायोघनाभिघातवासीक्षुरतक्षणक्षा
-
रतप्ततैलावसेचनायःकुम्भीपाकाम्बरीषभर्जनवैतरणीमज्जनयन्त्रनिष्पीडनादिभिर्नारकाणां
१०
दुःखमुत्पादयन्ति । एवं छेदनभेदनादिभिः शकलीकृतमूर्तीनामपि तेषां न मरणमकाले
भवति । कुतः ? अनपवर्त्यायुष्कत्वा
३
त् ।
१
— जन्मनि सम्भावि — मुº ।
२
क्लिष्टाः संक्लिष्टाः असुराः मुº ।
३
-
युषत्वात् आº, दिº १, दिº २ ।
२१०
यद्येवं, तदेव तावदुच्यतां नारकाणामायुःपरिमाणमित्यत आह —
तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिं शत्सागरोपमा सत्त्वानां
परा स्थितिः ॥
६
॥
यथाक्रममित्यनुवर्तते । तेषु नरकेषु भूमिंक्रमेण यथासंख्यमेकादयः स्थितयोऽ
०५
भिसम्बध्यन्ते । रत्नप्रभायामुत्कृष्टा स्थितिरेकसागरोपमा । शर्कराप्रभायां त्रिसागरो
-
पमा । वालुकाप्रभायां सप्तसागरोपमा । पङ्कप्रभायां दशसागरोपमा । धूमप्रभायां
सप्तदशसागरोपमा । तमःप्रभायां द्वाविंशतिसागरोपमा । महातमःप्रभायां त्रयस्त्रिं
-
शत्सागरोपमा इति । परा उत्कृष्टेत्यर्थः ।
‘
सत्त्वानाम्
’
इति वचनं भूमिनिवृत्त्यर्थम् ।
भूमिषु सत्त्वानामियं स्थितिः, न भूमीनामिति ।
१०
उक्तः सप्तभूमिविस्तीर्णोऽधोलोकः । इदानीं तिर्यग्लोको वक्तव्यः । कथं पुन
-
स्तिर्यग्लोकः ? यतोऽसंख्येयाः स्वयम्भूरमणपर्यन्तास्तिर्यक्प्रचयविशेषेणावस्थिता द्वीप
-
समुद्रास्ततस्तिर्यग्लोक इति । के
१
पुनस्तिर्यग्व्यवस्थिता इत्यत आह —
१
के पुनस्ते तिर्य
-
आº, दिº १ ।
२११
जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥
७
॥
जम्बूद्वीपादयो द्वीपाः । लवणोदादयः समुद्राः । यानि लोके शुभानि नामानि
तन्नामानस्ते । तद्यथा — जम्बूद्वीपो द्वीपः । लवणोदः समुद्रः । धातकीखण्डो द्वीपः ।
कालोदः समुद्रः । पुष्करवरो द्वीपः । पुष्करवरः समुद्रः । वारुणीवरो द्वीपः । वारुणीवरः
०५
समुद्रः । क्षीरवरो द्वीपः । क्षीरवरः समुद्रः । घृतवरो द्वीपः । घृतवरः समुद्रः । इक्षुवरो
द्वीपः । इक्षुवरः समुद्रः । नन्दीश्वरवरो द्वीपः । नन्दीश्वरवरः समुद्रः । अरुणवरो द्वीपः ।
अरुणवरः समुद्रः । इत्येवमसंख्येया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्याः ।
अमीषां विष्कम्भसन्निवेशसंस्थानविशेषप्रतिपत्त्यर्थमाह —
द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥
८
॥
१०
द्विर्द्विरिति
१
वीप्साभ्यावृत्तिवचनं विष्कम्भद्विगुणत्वव्याप्त्यर्थम् । आद्यस्य द्वीपस्य
यो विष्कम्भः तद्द्विगुणविष्कम्भो लवणजलधिः । तद्द्विगुणविष्कम्भो द्वितीयो द्वीपः ।
तद्द्विगुणविष्कम्भो द्वितीयो जलधिरिति । द्विर्द्विर्विष्कम्भो येषां ते द्विर्द्विर्विष्कम्भाः ।
पूर्वपूर्वपरिक्षेपिवचनं ग्रामनगरादिवद्विनिवेशो मा विज्ञायीति । वलयाकृतिवचनं चतुरस्रा
-
१
— वीप्सायां वृत्तिवचनं आº, दिº १, दिº २, मुº ।
२१२
दिसंस्थानान्तरनिवृत्त्यर्थम् ।
अत्राह, जम्बूद्वीपस्य प्रदेशसंस्थानविष्कम्भा वक्तव्यास्तन्मूलत्वादितरविष्कम्भा
-
दिविज्ञानस्येत्युच्यते —
तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥
९
॥
०५
तेषां मध्ये तन्मध्ये । केषाम् ? पूर्वोक्तानां
१
द्वीपसमुद्राणाम् । नाभिरिव नाभिः
२
।
मेरुर्नाभिर्यस्य स मेरुनाभिः । वृत्त आदित्यमण्डलोपमानः । शतानां सहस्रं शतसहस्रम् ।
योजनानां शतसहस्रं योजनशतसहस्रम् । योजनशतसहस्रं विष्कम्भो यस्य सोऽयं योजन
-
शतसहस्रविष्कम्भः । कोऽसौ ? जम्बूद्वीपः । कथं जम्बूद्वीपः ? जम्बूबृक्षोपलक्षितत्वात् ।
उत्तरकुरूणां मध्ये जम्बूवृक्षोऽनादिनिधनः पृथिवीपरिणामो
३
ऽकृत्रिमः सपरिवारस्त
-
१०
दुपलक्षितोऽयं द्वीपः ।
१
पूर्वोक्तद्वींप — आº, दिº १, दिº २, मुº ।
२
नाभिर्मध्यम् । मेरु — आº, दिº १, दिº २, मुº ।
३
परिमाणोऽकृ — मुº ।
२१३
तत्र जम्बूद्वीपे षड्भिः कुलपर्वतैर्विभक्तानि सप्त क्षेत्राणि कानि तानीत्यत
आह —
भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्रा
१
णि ॥
१०
॥
भरतादयः सञ्ज्ञा अनादिकालप्रवृत्ता अनिमित्ताः । तत्र भरतवर्षः
०५
क्व सन्निविष्टः ? दक्षिणदिग्भागे हिमवतोऽद्रेस्त्रयाणां
२
समुद्राणां मध्ये
आरोपितचापाकारो भरतवर्षः । विजयार्द्धेन गङ्गासिन्धुभ्यां च विभक्तः
३
स षट्
-
खण्डः । क्षुद्रहिमवन्तमुत्तरेण दक्षिणेन महाहिमवन्तं पूर्वापरसमुद्रयोर्मध्ये हैमवतवर्षः ।
१
क्षेत्राणि ॥
१०
॥ भिन्न
-
भिन्नानि भरता — । आº ।
२
-
याणां च समु
-
मुº ।
३
विभक्तः षट्
-
मुº ।
२१४
निषधस्य दक्षिणतो महाहिमवत उत्तरतः पूर्वापरसमुद्रयोरन्तराले हरिवर्षः । निषधस्यो
-
त्तरान्नीलतो दक्षिणतः पूर्वापरसमुद्रयोरन्तरे विदेहस्य संनिवेशो द्रष्टव्यः । नीलत
१
उत्त
२
-
रात् रुक्मिणो दक्षिणात् पूर्वापरसमुद्रयोर्मध्ये रम्यकवर्षः । रुक्मिण उत्तराच्छिखरिणो
दक्षिणात्पूर्वापरसमुद्रयोर्मध्ये सन्निवेशी
३
हैरण्यवतवर्षः । शिखरिण उत्तरतस्त्रयाणां
०५
समुद्राणां मध्ये ऐरावतवर्षः । विजयार्द्धेन रक्तारक्तोदाभ्यां च विभक्तः
४
स षट्खण्डः ।
षट् कुलपर्वता इत्युक्तं के पुनस्ते कथं वा व्यवस्थिता इत्यत आह —
तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील
-
रुक्मिशिखरिणो वर्षधरपर्वताः ॥
११
॥
तानि क्षेत्राणि विभजन्त इत्येवंशीलास्तद्विभाजिनः । पूर्वापरायता इति पूर्वा
-
१०
परकोटिभ्यां लवणजलधिस्पर्शिन इत्यर्थः । हिमवदादयोऽनादिकालप्रवृत्ता अनिमित्त
-
सञ्ज्ञा वर्षविभागहेतुत्वाद्वर्षधरपर्वता इत्युच्यन्ते । तत्र क्व हिमवान् ? भरतस्य हैमव
-
तस्य च सीमनि
५
व्यवस्थितः । क्षुद्रहिमवान् योजनशतोच्छ्रायः । हैमवतस्य हरि
६
-
१
नीलवत उत्त
-
आº, दिº १, दिº २ ।
२
उत्तरः रुक्मिणो दक्षिणः मुº ।
३
सन्निवेशो हैर
-
मुº ।
४
— विभक्तः षट्
-
मुº ।
५
सीमन्यव
-
आº, दिº १, दिº २ ।
६
हरिवंशस्य च विभा — आº, दिº १, दिº २ ।
२१५
वर्षस्य च विभागकरो महाहिमवान् द्वियोजनशतोच्छ्रायः
१
। विदेहस्य दक्षिणतो हरि
-
वर्षस्योत्तरतो निषधो नाम पर्वतश्चतुर्योजनशतोच्छ्रायः । उत्तरे त्रयोऽपि पर्वताः स्ववर्षवि
-
भाजिनो व्याख्याताः । उच्छ्रायश्च तेषां चत्वारि द्वे एकं च योजनशतं वेदितव्यम्
२
।
सर्वेषां पर्वतानामुच्छ्रायस्य चतुर्भागोऽवगाहः ।
०५
तेषां वर्णविशेषप्रतिपत्त्यर्थमाह —
हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥
१२
॥
त एते हिमवदादयः पर्वता हेमादिमया वेदितव्या यथाक्रमम् । हेममयो हिमवान्
चीनपट्टवर्णः । अर्जुनमयो महाहिमवान् शुक्लवर्णः । तपनीयमयो निषधस्तरुणादित्य
-
वर्णः । वैदूर्यमयो नीलो मयूरग्रीवाभः । रजतमयो रुक्मी शुक्लः । हेममयः शिखरी
१०
चीनपट्तवर्णः ।
पुनरपि त
३
द्विशेषणार्थमाह —
मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्ताराः ॥
१३
॥
नानावर्णप्रभादिगुणोपेतैर्मणिभिर्विचित्राणि पार्श्वाणि येषां ते मणिविचित्रपार्श्वाः ।
१
— च्छ्रायः । महाविदेहस्य आº, दिº १, दिº २ ।
२
-
तव्यम् । पर्वता
-
मुº
३
तद्विशेषप्रतिपत्त्यर्थमाह मुº ।
२१६
अनिष्ट
१
संस्थानस्य निवृत्त्यर्थमुपर्यादिवचनं क्रियते ।
‘
च
’
शब्दो मध्यसमुच्चयार्थः । य
एषां मूले विस्तारः स उपरि मध्ये च तुल्यः ।
तेषां मध्ये लब्धास्पदा ह्रदा उच्यन्ते —
पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ह्रदास्तेषामुपरि ॥
१४
॥
०५
पद्मो महापद्मस्तिगिञ्छः केसरी महापुण्डरीकः पुण्डरीक इति तेषां हिमवदादीना
-
मुपरि यथाक्रममेते ह्रदा वेदितव्याः ।
तत्राद्यस्य संस्थानविशेषप्रतिपत्त्यर्थमाह —
प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो ह्रदः ॥
१५
॥
प्राक्प्रत्यक् योजनसहस्रायाम उदगवाक् पञ्चयोजनशतविस्तारो वज्रमयतलो
१०
विविधमणिकनकविचित्रिततटः पद्मनामा ह्रदः ।
तस्यावगाहप्रक्लृप्त्यर्थमिदमुच्यते —
दशयोजनावगाहः ॥
१६
॥
अवगाहोऽधःप्रवेशो निम्नता । दशयोजनान्यवगाहोऽस्य दशयोजनावगाहः ।
१
— ष्टस्य संस्था — मुº ।
२१७
त
१
न्मध्ये किम् —
तन्मध्ये योजनं पुष्करम् ॥
१७
॥
योजनप्रमाणं योजनम्, क्रोशायामपत्रत्वात्क्रोशद्वयविष्कम्भकर्णिकत्वाच्च योजना
-
यामविष्कम्भम् । जलतलात्क्रोशद्वयोच्छ्रांयनालं तावद्बहुलपत्रप्रचयं पुष्करमवगन्तव्यम् ।
०५
इतरेषां ह्रदानां पुष्कराणां चायामादिनिर्ज्ञानार्थमाह —
तद्द्विगुणद्विगुणा ह्रदाः पुष्कराणि च ॥
१८
॥
स च तच्चते, तयोर्द्विगुणा
२
द्विगुणास्तद्द्विगुणद्विगुणा इति द्वित्वं व्याप्ति
३
ज्ञापनार्थम् ।
केन द्विगुणाः ? आयामादिना । पद्मह्रदस्य द्विगुणायामविष्कम्भावगाहो महापद्मो
४
ह्रदः । तस्य द्विगुणायामविष्कम्भावगाहस्तिगिञ्छो
५
ह्रदः । पुष्कराणि च । किम् ?
१०
द्विगुणानि द्विगुणानीत्यभिसम्बध्यते ।
तन्निवासिनीनां देवीनां सञ्ज्ञाजीवितपरिवारप्रतिपादनार्थमाह —
१
— गाहः । तन्मध्ये योजनं आº, दिº १, दिº २ ।
२
— तयोर्द्विगुणा तद्विगुणास्त — मुº ।
३
— ज्ञानार्थम्
मुº ।
४
— पद्मह्रदः मुº ।
५
— गिञ्छह्रदः मुº ।
२१८
तन्निवासिन्यो देव्यः श्रीथीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः
ससामानिकपरिषत्काः ॥
१९
॥
तेषु पुष्करेषु कर्णिकामध्यदेशनिवेशिनः शरद्विमलपूर्णचन्द्रद्युतिहराः क्रोशायामाः
क्रोशार्द्धविष्कम्भा देशोनक्रोशोत्सेधाः प्रासादाः । तेषु निवसन्तीत्येवंशीलास्तन्निवासिन्यः,
०५
देव्यः श्री ह्रीधृतिकीर्तिबुद्धिलक्ष्मीसंज्ञिकास्तेषु पद्मादिषु यथाक्रमं वेदितव्याः ।
‘
पल्योपम
-
स्थितयः
’
इत्यनेनायुषः प्रमाणमुक्तम् । समाने स्थाने भवाः सामानिकाः । सामानिकाश्च
परिषदश्च सामानिकपरिषदः । सह सामानिकपरिषद्भिर्वर्तन्त इति ससामानिकपरि
-
षत्काः । तस्य पद्मस्य परिवारपद्मेषु प्रासादानामुपरि सामानिका परिषदश्च वसन्ति ।
यकाभिः सरिदिभस्तानि क्षेत्राणि प्रविभक्तानि ता उच्यन्ते —
१०
गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्ता
-
सुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥
२०
॥
सरितो न वाप्यः । ताः किमन्तरा उत समीपाः ? इत्यत आह तन्मध्यगाः ।
तेषां क्षेत्राणां मध्यं तन्मध्यम्
१
। तन्मध्यं तन्मध्येन वा गच्छन्तीति तन्मध्यगाः ।
१
मध्यं तन्मध्यं तन्मध्येन मुº । मध्यं तन्मध्येन आº, दिº १, दिº २ ।
२१९
एकत्र सर्वासां प्रसङ्गनिवृत्त्यर्थं दिग्विशेषप्रतिपत्त्यर्थंचाह —
द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥
२१
॥
द्वयोर्द्वयोः सरितोरेकैकं क्षेत्रं विषय इति वाक्यशेषाभिसम्बन्धादेकत्र सर्वासां
प्रसङ्गनिवृत्तिः कृता ।
‘
पूर्वाः पूर्वगाः
’
इति वचनं दिग्विशेषप्रतिपत्त्यर्थम् । तत्र पूर्वा याः
०५
सरितस्ताः पूर्वगाः । पूर्व
१
जलधिं गच्छन्तीति पूर्वगाः । किमपेक्षं पूर्वत्वम् ? सूत्रनिर्देशापे
-
क्षम् । यद्येवं गङ्गासिध्वादयः सप्त पूर्वगा इति प्राप्तम् ? नैष दोषः; द्वयोर्द्वयोरित्यभि
-
सम्बन्धात् । द्वयोर्द्वयोः पूर्वाः पूर्वगा इति वेदितव्याः ।
इतरासां दिग्विभागप्रतिपत्त्यर्थमाह —
शेषास्त्वपरगाः ॥
२२
॥
१०
द्वयोर्द्वयोर्या अवशिष्टास्ता अपरगाः प्रत्येतव्याः । अपरसमुद्रं गच्छन्तीत्यपरगाः ।
तत्र पद्मह्रदप्रभवा पूर्वतोरणद्वारनिर्गता गङ्गा । अपरतोरणद्वारनिर्गता सिन्धुः । उदीच्य
-
तोरणद्वारनिर्गता रोहितास्या । महापद्मह्रदप्रभवा अ
२
वाच्यतोरणद्वारनिर्गता रोहित् ।
१
— पूर्वं जलधिं मुº ।
२
अपाच्यतोरण — आº, दिº १, दिº २, ताº, नाº ।
२२०
उदीच्यतोरणद्वारनिर्गता हरिकान्ता । तिगिञ्छह्रदप्रभवा दक्षिणतोरणद्वारनिर्गता हरित् ।
उदीच्यतोरणद्वारनिर्गता सीतोदा । केसरिह्रदप्रभवा अवाच्यतोरणद्वारनिर्गता सीता ।
उदीच्यतोरणद्वारनिर्गता नरकान्ता । महापुण्डरीकह्रदप्रभवा दक्षिणद्वारनिर्गता नारी ।
उदीच्यतोरणद्वारनिर्गता रूप्यकूला । पुण्डरीकह्रदप्रभवा अवाच्यतोरणद्वारनिर्गता सुव
-
०५
र्णकूला । पूर्वतोरणद्वारनिर्गत रक्ता । प्र
१
तीच्यतोरणद्वारनिर्गता रक्तोदा ।
तासां परिवारप्रतिपादनार्थमाह —
चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः ॥
२३
॥
किमर्थं
‘
गङ्गासिन्ध्वादि
’
ग्रहणं क्रियते ? नदीग्रहणार्थम् । प्रकृतास्ता अभि
-
सम्बध्यन्ते ? नैवं शङ्क्यम्;
a
२
नन्तरस्य विधिर्वा भवति प्रतिषेधो वा
इति अपरगाणामेव
१०
ग्रहणं स्यात् । गङ्गादिग्रहणमेवास्तीति चेत् ? पूर्वगाणामेव ग्रहणं स्यात् । अत उभयीनां
ग्रहणार्थं
‘
गङ्गासिन्ध्वादि
’
ग्रहणं क्रियते ।
‘
नदी
’
ग्रहणं द्विगुणा द्विगुणा इत्यभिसम्बन्धार्थम् ।
१
अपरतोरण
-
मुº ।
२
पाº मº भाº, पृº ३३५ ।
२२१
गङ्गा चतुर्दशनदिसहस्रपरिवृता । सिन्धुरपि । एवमुत्तरा अपि नद्यः प्रतिक्षेत्रं तद्द्विगुणद्वि
१
-
गुणा भवन्ति; आ विदेहान्तात् । तत उत्तरा अर्द्धार्द्धहीनाः ।
उक्तानां क्षेत्राणां विष्कम्भप्रतिपत्त्यर्थमाह —
भरतः षड्विंशपञ्चयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य ॥
२४
॥
०५
षडधिका विंशतिः षड्विंशतिः । षड्विंशतिरधिका
२
येषु तानि षड्विंशानि ।
षड्विंशानि पञ्चयोजनशतानि विस्तारो यस्य षड्विंशपञ्चयोजनशतविस्तारो भरतः ।
किमेतावानेव ? न; इत्याह षट् चैकोनविंशतिभागायोजनस्य विस्तारोऽस्येत्यभिसम्बध्यते ।
इतरेषां विष्कम्भविशेषप्रतिपत्त्यर्थमाह —
तद्द्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥
२५
॥
१०
त
३
तो भरताद् द्विगुणो द्विगुणो विस्तारो येषां त इमे तद्द्विगुणद्विगुणविस्ताराः ।
के ते ? वर्षधरवर्षाः । किं सर्वे ? न; इत्याह विदेहान्ता इति ।
१
— क्षेत्रं द्विगुणा द्विगुणा मुº ।
२
-
रधिकानि येषु मुº ।
३
ततो द्विगुणो ताº, नाº ।
२२२
अथोत्तरेषां कथमित्यत आह —
उत्तरा दक्षिणतुल्याः ॥
२६
॥
उत्तरा ऐरावतादयो नीलान्ता भरतादिभिर्दक्षिणैस्तुल्या द्रष्टव्याः । अतीतस्य
सर्वस्यायं विशेषो वेदितव्यः । तेन ह्रदपुष्करादीनां तुल्यता योज्या ।
०५
अत्राह, उक्तेषु भरतादिषु क्षेत्रेषु मनुष्याणां किं तुल्योऽनुभवा
१
दिः, आहोस्वि
-
दस्ति कश्चित्प्रतिविशेष इत्यत्रोच्यते —
भरतैरावतयोर्वृद्धिह्रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥
२७
॥
वृद्धिश्च ह्रासश्च वृद्धिह्रासौ । काभ्याम् ? षट्स
२
मयाभ्यामुत्सर्पिण्यवसर्पिणी
-
भ्याम् । कयोः ? भरतैरावतयोः । न तयोः क्षेत्रयोर्वृद्धिह्रासौ स्तः; असम्भवात् ।
१०
तत्स्थानां मनुष्याणां वृद्धिह्रासौ भवतः । अथवाधिकरणनिर्देशः । भरते ऐरावते च
मनुष्याणां वृद्धिह्रासाविति । किंकृतौ वृद्धिह्रासौ ? अनुभवायुःप्रमाणादिकृतौ । अनुभव
१
— तुल्योऽनुभवः आहो
-
ताº, नाº ।
२
— याभ्याम् । कयोः मुº ।
२२३
उपभोगः, आयुर्जीवितपरिमाणम्
१
, प्रमाणं शरीरोत्सेध इत्येवमादिभिर्वृद्धिह्रासौ मनुष्याणां
भवतः
३
। किंहेतुकौ पुनस्तौ ? कालहेतुकौ । स च कालो द्विविधः
-
उत्सर्पिणी अवसर्पिणी
चेति । तद्भेदाः प्रत्येकं षट् । अन्वर्थसञ्ज्ञे चैते । अनुभवादिभिरुत्सर्पणशीला उत्सर्पिणी ।
तैरेवावसर्पणशीला अवसर्पिणी । तत्रावसर्पिणी षड्विधा — सुषमसुषमा सुषमा सुषम
-
०५
दुष्षमा दुष्षमसुषमा दुष्षमा अतिदुष्षमा चेति । उत्सर्पिण्यपि अतिदुष्षमाद्या सुषमसुष
-
मान्ता षड्विधैव भवति । अवसर्पिण्याः परिमाणं दशसागरोपमकोटीकोट्यः । उत्सर्पिण्या
अपि तावत्य एव । सोभयी कल्प इत्याख्यायते । तत्र सुषमसुषमा चतस्रः सागरोपमको
-
टीकोट्यः । तदादौ मनुष्या उत्तरकुरुमनुष्यतुल्याः । ततः क्रमेण हानौ सत्यां सुषमा भवति
तिस्रः सागरोपमकोटीकोट्यः । तदादौ मनुष्या हरिवर्षमनुष्यसमाः । ततः क्रमेण हानौ
१०
सत्यां सुषमदुष्षमा भवति द्वे सागरोपमकोटीकोट्यौ । तदादौ मनुष्या हैमवतकमनुष्य
-
१
-
परिमाणम्, शरी — मुº ।
२
भवतः तयोः । किंहेतु — ताº, नाº ।
२२४
समाः । ततह् क्रमेण हानौ सत्यां दुष्षमसुषमा भवति एकसागरोमकोटीकोटी द्विचत्वा
-
रिंशद्वर्षसहस्रोना । तदादौ मनुष्या विदेहजनतुल्या भवन्ति । ततः क्रमेण हानौ सत्यां
दुष्षमा भवति एकविंशतिवर्षसहस्राणि । ततः क्रमेण हानौ सत्यामतिदुष्षमा भवति
एकविंशतिवर्षसहस्राणि । एवमुत्सर्पिण्यपि विपरीतक्रमा वेदितव्या ।
०५
अथेतरासु भूमिषु काऽवस्थेत्यत आह —
ताभ्यामपरा भूमयोऽवस्थिताः ॥
२८
॥
ताभ्यां भरतैरावताभ्यामपरा भूमयोऽवस्थिता भवन्ति । न हि तत्रोत्सर्पिण्यव
-
सर्पिण्यौ स्तः ।
किं तासु भूमिषु मनुष्यास्तुल्यायुष आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्यत आह —
१०
एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥
२९
॥
हैमवते भवा हैमवतका इत्येवं
‘
वुञि
’
सति मनुष्यसम्प्रत्ययो भवति । एव
-
मुत्तरयोरपि । हैमवतकादयस्त्रयः । एकादयस्त्रयः । तत्र यथासंख्यमभिसम्बन्धः क्रियते ।
एकपल्योपमस्थितयो हैमवतकाः । द्विपल्योपमस्थितयो हारिवर्षकाः । त्रिपल्योपमस्थितयो
दैवकुरवका इति । तत्र पञ्चसु हैमवतेषु सुषमदुष्षमा सदाऽवस्थिता । तत्र मनुष्या
२२५
एकपल्योपमायुषो द्विधनुःसहस्रोछ्रिताश्चतुर्थभक्ताहारा नीलोत्पलवर्णाः । पञ्चसु हरि
-
वर्षेषु सुषमा सदाऽवस्थिता । तत्र मनुष्या द्विपल्योपमायुषश्चतुश्चापसहस्रोत्सेधाः षष्ठ
-
भक्ताहाराः शङ्खवर्णाः । पञ्चसु देवकुरुषु सुषमसुषमा सदाऽवस्थिता । तत्र मनुष्या
-
स्त्रिपल्योपमायुषः षड्धनुःसहस्रोच्छ्राया अष्टमभक्ताहाराः कनकवर्णाः ।
०५
अथोत्तरेषु काऽवस्थेत्यत आह —
तथोत्तराः ॥
३०
॥
यथा दक्षिणा व्याख्यातास्तथैवोत्तरा वेदितव्याः । हैरण्यवतका हैमवतकैस्तुल्याः ।
राम्यका हारिवर्षकैस्तुल्याः । देवकुरवकैरौत्तरकुरवकाः समाख्याताः ।
अथ विदेहेष्ववस्थितेषु का स्थितिरित्यत्रोच्यते —
१०
विदेहेषु संख्येयकालाः ॥
३१
॥
सर्वेषु
१
विदेहेषु संख्येयकाला मनुष्याः । तत्र कालः
२
सुषमदुष्षमान्तोपमः सदाऽ
-
वस्थितः । मनुष्याश्च पञ्चधनुःशतोत्सेधाः । नित्याहाराः । उत्कर्षेणैकपूर्वकोटीस्थिति
-
१
— सर्वेषु पञ्चसु महाविदे — मुº ।
२
कालः दुःषमसुषमादिः सदा ताº, नाº ।
२२६
काः । जघन्येनान्तर्मुहूर्तायुषः । तस्याश्च
१
सम्बन्धे गाथां पठन्ति —
’
पुव्वस्स दु परिमाणं सदरिं खलु कोडिसदसहस्साइं ।
छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं
२
॥
’
उक्तो भरतस्य विष्कम्भः । पुनः प्रकारान्तरेण तत्प्रतिपत्त्यर्थमाह —
०५
भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥
३२
॥
जम्बूद्वीपविष्कम्भस्य योजनशतसहस्रस्य नवतिशतभागीकृतस्यैको भागो भरतस्य
विष्कम्भः । स पूर्वोक्त एव । उक्तं जम्बूद्वीपं परिवृत्य वेदिका स्थिता, ततः परो लवणोदः
समुद्रो द्वियोजनशतसहस्रवलयविष्कम्भः । ततः परो धातकीखण्डो द्वीपश्चतुर्योजन
-
शतसहस्रवलयविष्कम्भः ।
१०
तत्र वर्षादीनां संख्यादि
३
विधिप्रतिपत्त्यर्थमाह —
द्विधार्तकीखण्डे ॥
३३
॥
भरतादीनां द्रव्याणामिहाभ्यावृत्तिर्विवक्षिता । तत्र कथं सुच् ? अध्याह्रिय
-
माणक्रियाभ्यावृत्तिद्योतनार्थः सुच् । यथा द्विस्तावानयं प्रासादो मीयत इति । एवं
१
तस्यास्ति सम्बन्धे आº, दिº १, दिº २ ।
२
-
डीणं ॥ ७०५६०००००००००० उक्तो मुº, ताº,
नाº ।
३
संख्याविधि — मुº ।
२२७
१
द्विर्धातकीखण्डे भरतादयो मीयन्ते इति । तद्यथा — द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणो
-
त्तरायताभ्यां लवणोदकालोदवेदिकास्पृष्टकोटिभ्यां विभवतो धातकीखण्डः पूर्वापर इति ।
तत्र पूर्वस्य
२
अपरस्य च मध्ये द्वौ मन्दरौ । तयोरुभयतो भरतादीनि क्षेत्राणि हिमवदादयश्च
वर्षधेरपर्वताः । एवं द्वौ भरतौ द्वौ हिमवन्तौ इत्येवमादि संख्यानं द्विगुणं वेदितव्यम् ।
०५
जम्बूद्वीपहिमवदादीनां वर्षधराणां यो विष्कम्भस्तद्द्विगुणो धातकीखण्डे हिमवदादीनां वर्ष
-
धराणाम् । वर्षधराश्चक्रारवदवस्थिताः । अरविवरसंस्थानानि क्षेत्राणि । जम्बूद्वीपे यत्र
जम्बूवृक्षः स्थितः, तत्र धातकीखण्डे धातकीवृक्षः सपरिवारः । तद्योगाद्धातकीखण्ड इति
द्वीपस्य नाम प्रतीतम् । तत्परिक्षेपी कालोदः समुद्रः टङ्कच्छिन्नतीर्थः अष्टयोजनशतसहस्र
-
वलयविष्कम्भः । कालोदपरिक्षेपी पुष्करद्वीपः षोडशयोजनशतसहस्रवलयविष्कम्भः ।
१०
तत्र द्वीपाम्भोनिधिविष्कम्भद्विगुणपरिक्लृप्तिवद्धातकीखण्डवर्षादिद्विगुणवृद्धि
-
प्रसङ्गे विशेषावधारणार्थमाह —
पुष्करार्द्धे च ॥
३४
॥
१
— तकीषंडे ताº, नाº, दिº १, दिº २, आº ।
२
— र्वस्य चापरस्य मध्ये मुº ।
२२८
किम् ? द्विरित्यनुवर्तते । किमपेक्षा द्विरावृत्तिः ? जम्बूद्वीपभरतहिमवदाद्यपेक्षयैव
१
।
कुतः ? व्याख्यानतः । यथा धातकीखण्डे हिमवदादीनां विष्कम्भस्तथा पुष्करार्धे हिमव
-
दादीनां विष्कम्भो द्विगुण इति व्याख्यायते । नामानि तान्येव, इष्वाकारौ मन्दरौ च
पूर्ववत् । यत्र
२
जम्बूवृक्षस्तत्र पुष्करं सपरिवारम् । तत एव तस्य
३
द्वीपस्य नाम रूढं
०५
पुष्करद्वीप इति । अथ कथं पुष्करार्द्धसञ्ज्ञा ? मानुषोत्तरशैलेन विभक्तार्धत्वात्पुष्करार्ध
-
सञ्ज्ञा ।
अत्राह किमर्थं जम्बूद्वीपहिमवदादिसंख्या द्विरावृत्ता पुष्करार्धे कथ्यते, न पुनः
कृत्स्न एव पुष्करद्वीपे ? इत्यत्रोच्यते —
प्राङ्मानुषोत्तरान्मनुष्याः ॥
३५
॥
१०
पुष्करद्वीपबहुमध्यदेशभागी वलयवृत्तो मानुषोत्तरो नाम शैलः । तस्मात्प्रागेव
१
-
पेक्षयैव । जम्बूद्वीपात्पुष्करार्धे द्वौ भरतौ द्वौ हिमवन्तौ इत्यादि । कुतः मुº, दिº १, दिº २, आº ।
२
यत्र जम्बूद्वीपे जम्बू — मुº, दिº दिº २, आº ।
३
तस्य द्वीपस्यानुरूढं पुष्करद्वीप इति नाम । अथ मुº ।
२२९
मनुष्या न बहिरिति । ततो न बहिः पूर्वोक्तक्षेत्रविभागोऽस्ति । नास्मादुत्तरं कदाचिदपि
विद्याधरा ऋद्धिप्राप्ता अपि मनुष्या गच्छन्ति अन्यत्रोपपादसमुद्धाताभ्याम् । ततोऽ
स्यान्वर्थसञ्ज्ञा । एवं जम्बूद्वीपादिष्वर्धतृतीयेषु
१
द्वीपेषु द्वयोश्च समुदयोर्मनुष्या वेदि
-
तव्याः । ते द्विविधाः —
०५
आर्या म्लेच्छाश्च ॥
३६
॥
गुणैर्गुणवद्भिर्वा अर्यन्त इत्यार्याः । ते द्विविधा ऋद्धिप्राप्तार्या अनृद्धिप्राप्तार्या
-
१
— तीयेषु द्वयोश्च मुº ।
२३०
श्चेति । अनृद्धिप्राप्तार्याः पञ्चविधाः
-
क्षेत्रार्या जात्यार्याः कर्मार्याश्चारित्रार्या दर्शनार्या
-
श्चेति । ऋद्धिप्राप्तार्याः सप्तविधाः; बुद्धिविक्रियातपोबलौषधरसाक्षीणभेदात् ।
म्लेच्छा द्विविधाः
-
अन्तर्द्वीपजाः कर्मभूमिजाश्चेति । तत्रान्तर्द्वीपा लवणोदधे
-
रभ्यन्तरे
१
पार्श्वेऽष्टासु दिक्ष्वष्टौ । तदन्तरेषु चाष्टौ । हिमवच्छिखरिणोरुभयोश्च विजया
-
०५
र्द्धयोरन्तेष्वष्टौ । तत्र दिक्षु द्वीपा वेदिकायास्तिर्यक् पञ्चयोजनशतानि प्रविश्य भवन्ति ।
विदिक्ष्वन्तरेषु च द्वीपाः पञ्चाशत्पञ्चयोजनशतेषु गतेषु भवन्ति । शैलान्तेषु द्वीपाः षट्
योजनशतेषु गतेषु भवन्ति । दिक्षु द्वीपाः शतयोजनविस्ताराः । विदिक्ष्वन्तरेषु च
द्वीपास्तदर्धविष्कम्भाः । शैलान्तेषु पञ्चविंशतियोजनविस्ताराः ।
तत्र पूर्वस्यां दिश्येकोरुकाः । अपरस्यां दिशि लाङ्गूलिनः । उत्तरस्यां
२
दिश्य
-
१०
भाषकाः । दक्षिणस्यां
३
दिशि विषाणिनः । शशकर्णशष्कुलीकर्णप्राव
४
रणकर्णलम्बकर्णाः
विदिक्षु । अश्वसिंहश्वमहिषवराहव्याघ्रका
५
ककपिमुखा अन्तरेषु । मेघ
६
मुखविद्युन्मुखाः
१
लवणोदे अष्टासु दिक्ष्वष्टौ आº, दिº १, दिº २ । लवणोदधेरभ्यन्तरेऽष्टासु दिक्ष्वष्टौ मुº ।
२
उत्तरस्यामभाषकाः आº, दिº १, दिº २ ।
३
— णस्यां विष — आº, दिº १, दिº २ ।
४
— वरणलम्ब मुº ।
५
काकघूककपि
-
मुº ।
६
-
मेघविद्यु
-
मुº ।
२३१
शिखरिण उभयोरन्तयोः । मत्स्यमुखकालमुखा हिमवत उभयोरन्तयोः । हस्तिमुखा
-
दर्शमुखाः उत्तरविजयार्धस्योभयोरन्तयोः । गोमुखमेषमुखा दक्षिणवि
१
जयार्धस्योभयो
-
रन्तयोः । एकोरुका मृदाहारा गुहावासिनः । शेषाः पुष्पफलाहारा वृक्षवासिनः । सर्वे
ते पल्योपमायुषः ।
०५
ते चतुर्विंशति
२
रपि द्वीपा जलतलादेकयोजनोत्सेधाः
३
। लवणोदधेर्बाह्यपार्श्वेऽ
-
प्येवं चतुर्विंशतिर्द्वीपा विज्ञातव्याः । तथा कालोदेऽपि वेदितव्याः । त एतेऽन्तर्द्वीपजा
म्लेच्छाः । कर्मभूमिजांश्च शकयवनशवरपुलिन्दादयः ।
काः पुनः कर्मभूमय इत्यत आह —
१
दक्षिणदिग्विज
-
मुº ।
२
— शतिद्वितीयपक्षेऽपि उभयोस्तत्प्रेष्टचत्वारिंशद्द्वीपाः जलतला — दिº २ ।
३
— त्सेधाः । तथा कालोदेऽपि आº, दिº १ ।
२३२
भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥
३७
॥
भरता
१
ऐरावता विदेहाश्च पञ्च पञ्च, एताः कर्मभूमय इति व्यपदिश्यन्ते ।
तत्र
‘
विदेह
’
ग्रहणाद्देवकुरूत्तरकुरुग्रहणे प्रसवते तत्प्रतिषेधार्थमाह —
‘
अन्यत्र देवकुरूत्तरकु
-
कुरुभ्यः
’
इति ।
‘
अन्यत्र
’
शब्दो वर्जनार्थः । देवकुरव उत्तरकुरवो हैमवतो हरिवर्षो
२
रम्यको
०५
हैरण्यवतोऽन्तर्द्वीपाश्च भोगभूमय इति व्यपदिश्यन्ते । अथ कथं कर्मभूमित्वम् ? शुभाशुभ
-
लक्षणस्य कर्मणोऽधिष्ठानत्वात् । ननु सर्वं
३
लोकत्रितयं कर्मणोऽधिष्ठानमेव ? तत एवं
४
प्रकर्षगतिर्विज्ञास्यते, प्रकर्षेण यत्कर्मणोऽधिष्ठानमिति । तत्राशुभकर्मणस्तावत्सप्तमनरक
-
प्रापणस्य भरतादिष्वेवार्जनम्, शुभस्य
५
च सर्वार्थसिद्ध्यादि
६
स्थानविशेषप्रापणस्य
७
कर्मण
उपार्जनं तत्रैव, कृष्यादिलक्षणस्य षड्विधस्य कर्मणः पात्रदानादिसहितस्य तत्रैवारम्भा
-
१०
त्कर्मभूमिव्यपदेशो वेदितव्यः । इतरास्तु दशविधकल्पवृक्षकल्पितभोगानुभवनविषयत्वाद्
-
भोगभूमय इति व्यपदिश्यन्ते ।
१
भरतैरावतविदेहाश्च मुº, ताº, नाº ।
२
हरिवंशः रम्य — आº, दिº १, दिº २ ।
३
सर्वो लोकत्रितय
-
कर्म — आº, दिº १, दिº २ ।
४
एव प्रक
-
मुº ।
५
शुभस्य सर्वा
-
मुº ।
६
— द्ध्यादिषु स्थान
-
आº,
दिº १, दिº २ ।
७
— पणस्य पुण्यकर्म
-
मुº ।
२३३
उक्तासु भूमिषु
१
मनुष्याणां स्थितिपरिच्छेदार्थमाह —
नूस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥
३८
॥
त्रीणि पल्योपमानि यस्याः सा त्रिपल्योपमा । अन्तर्गतो मुहूर्तो यस्याः सा अन्त
-
र्मुहूर्ता । यथासंख्येनाभिसम्बन्धः । मनुष्याणां परा उत्कृष्टा स्थितिस्त्रिपल्योपमा ।
०५
अपरा जघन्या अन्तर्मुहूर्ता । मध्ये अनेकविकल्पा । तत्र पल्यं त्रिविधम् — व्यवहारपल्य
-
मुद्धारपल्यमद्धापल्यमिति । अन्वर्थसंज्ञा एताः । आद्यं व्यवहारपल्यमित्युच्यत; उत्तर
-
पल्य
२
द्वयव्यवहारबीजत्वात् । नानेन किञ्चित्परिच्छेद्यमस्तीति । द्वितीयमुद्धारपल्यम् ।
तत उद्धृतैर्लोमकच्छेदैर्द्वीपसमुद्राः संख्यायन्त इति । तृतीयमद्धापल्यम् । अद्धा काल
-
स्थितिरित्यर्थः । तत्राद्यस्य प्रमाणं कथ्यते
३
, तत्परिच्छेदनार्थत्वात् । तद्यथा — प्रमाणाङ्गुल
-
१०
परिमितयोजनविष्कम्भायामावगाहानि त्रीणि पल्यानि कुशूला इत्यर्थः । एकादि
सप्तान्ताहोरात्रजाताविवालाग्राणि तावच्छिन्नानि यावद्वितीयं कर्तरिच्छेदं ना
४
वाप्नुवन्ति,
तादृशैर्लोमच्छेदैः परिपूर्णं घ
५
नीकृतं व्यवहारपल्यमित्युच्यते । ततो वर्षशते वर्षशते गते
१
-
मिषु स्थिति
-
मुº ।
२
-
द्वयस्य व्यव — मुº ।
३
कथ्यते । तद्यथा मुº ।
४
नाप्नु
-
मुº
५
घनीभूतं मुº
६
ततो वर्षशते एकेक
-
मुº ।
२३४
एकैकलोमापकर्षणविधिना यावता कालेन तद्रिक्तं भवेत्तावान्कालो व्यवहारपल्योप
-
माख्यः । तैरेव लोमच्छेदैः प्रत्येकमसंख्येयवर्षकोटीसमयमात्रच्छिन्नैस्तत्पूर्णमुद्धारपल्यम् ।
ततः समये समये एकैकस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन तद्रिक्तं भवति तावान्काल
उद्धारपल्योपमाख्यः । एषामुद्धारपल्याणां दशकोटीकोट्य एकमुद्धारसागरोपमम् । अर्धतृ
-
०५
तीयोद्धारसागरोपमानां यावन्तो रोमच्छेदास्तावन्तो द्वीपसमुद्राः । पुनरुद्धारपल्यरोमच्छे
-
दैर्वर्षशतसमयमात्रच्छिन्नैः पूर्णमद्धापल्यम् । ततः समये समये एकैकस्मिन् रोमच्छेदेऽप
-
कृष्यमाणे यावता कालेन तद्रिक्तं भवति तावान्कालोऽद्धापल्योपमाख्यः । एषामद्धा
-
पल्यानां दशकोटीकोट्य एकमद्धासागरोपमम् । दशाद्धासागरोपमकोटीकोट्य एकाव
-
सर्पिणी । तावत्येवोत्सर्पिणी । अनेनाद्धापल्येन नारकतैर्यग्योनानां देवमनुष्याणां च कर्म
-
१०
स्थितिर्भवस्थितिरायुःस्थितिः कायस्थितिश्च परिच्छेत्तव्या । उक्ता च संग्रहगाथा —
’
वव
१
हारुद्धारद्धा पल्ला तिण्णेव होंति बोद्धब्बा ।
संखा दीव
-
समुद्दा कम्मटिठदि वण्णिदा तदिए ॥
’
यथैवैते
२
उत्कृष्टजघन्ये स्थिती नृणां तथैव —
तिर्यग्योनिजानां च ॥
३९
॥
१
ववहारुद्धारद्धा तियपल्ला पढयंम्मि संखाओ । विदिए दीवसमुद्दा तदिए मिज्जेदि कम्मठिदी — तिº
१५
पº गाº ९४ ।
२
-
वेते द्वे उत्कृ
-
आº, दिº १, दिº २ ।
२३५
तिरश्चां योनिस्तिर्यग्योनिः । तिर्यग्गतिनामकर्मोदयापादितं जन्मेत्यर्थः । तिर्य
-
ग्योनौ जातास्तिर्यग्योनिजाः । तेषां तिर्यग्योनिजानामुत्कृष्टा भवस्थितिस्त्रिपल्योपमा ।
जघन्या अन्तर्मुहूर्ता । मध्येऽनेकविकल्पाः ।
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां तृतीयोऽध्यायः ॥
३
॥
२३६
अथ चतुर्थोऽध्यायः
‘
भवप्रत्ययोऽवधिर्देवनारकाणाम्
’
इत्येवमादिष्वसकृद्देवशब्द उक्तस्तत्र न ज्ञायते
के देवाः कतिविधा इति
१
तन्निर्णयार्थमाह —
देवाश्चतुर्णिकायाः ॥
१
॥
०५
देवगतिनामकर्मोदये सत्यभ्यन्तरे हेतौ बाह्यविभूतिवि
२
शेषैः द्वीपाद्रिसमुद्रादि
-
प्रदेशेषु यथेष्टं दीव्यन्ति क्रीड
४
न्तीति देवाः । इहैकवचननिर्देशो युक्तः
‘
देवश्चतुर्णिकायः
’
इति
५
। स जा
६
त्यभिधानाद्बहूनां प्रतिपादको भवति ? बहुत्वनिर्देशस्तदन्तर्गतभेदप्रतिपत्त्यर्थः ।
इन्द्रसामानिकादयो बहबो भेदाः सन्ति स्थित्यादिकृताश्च तत्सूचनार्थः । देवगतिनामक
-
र्मोदयस्य स्व
७
कर्मविशेषापादितभेदस्य सामर्थ्यान्निचीयन्त इति निकायाः संघाता इत्यर्थः ।
१
इति वा तन्नि — मुº ।
२
— विशेषाद् द्वीपा — मुº ।
३
-
मुद्रादिषु प्रदे
-
मुº ।
४
-
डन्ति ते देवाः मुº ।
५
इति । जात्य — मुº ।
६
‘
जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् ।
’
— पाº १, २, २, ५८
७
स्वधर्मविशे मुº, ताº, नाº ।
२३७
चत्वारो निकाया येषां ते चतुर्णिकायाः । के पुनस्ते ? भवनवासिनो व्यन्तरा ज्योतिष्का
वैमानिकाश्चेति ।
तेषां लेश्यावधारणार्थमुच्यते —
आदितस्त्रिषु पीतान्तलेश्याः ॥
२
॥
०५
‘
आदित
’
इत्युच्य
१
ते, अन्ते मध्ये अन्यथा वा ग्रहणं मा विज्ञायीति । आदौ आदितः ।
द्वयोरेकस्य च निवृत्त्यर्थं
‘
त्रि
’
ग्रहणं क्रियते । अथ चतुर्ण्णां निवृत्त्यर्थं कस्मान्न भवति ?
‘
आदित
’
इति वचनात् । षड् लेश्या उक्ताः । तत्र चतसृणां लेश्यानां ग्रहणार्थं
‘
पीतान्त
’
ग्रहणं क्रियते । पीतं तेज इत्यर्थः । पीता अन्ते यासां ताः पीतान्ताः
२
। पीतान्ता लेश्या
येषां ते पीतान्तलेश्याः । एतदुक्तं भवति — आदितस्त्रिषु निकायेषु भवनवासिव्यन्तर
-
१०
ज्योति
३
ष्कनामसु देवानां कृष्णा नीला कापोता पीतेति चतस्रो लेश्या भवन्ति ।
१
-
च्यते अन्यथा वा ग्रह
-
दिº २ । — च्यते अन्ते मध्ये वा ग्रह — मुº, ताº, नाº । — च्यते अन्ते अन्यथा वा ग्रह
-
आº ।
२
ताः पीतान्ता लेश्या मुº, दिº २ ।
३
ज्योतिष्काणं देवा — आº, दिº १, दिº २ ।
२३८
तेषां निकायानामन्तर्विकल्पप्रतिपादनार्थमाह —
दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥
३
॥
चतुर्ण्णां देवनिकायानां दशादिभिः संख्याशब्दैर्यथासंख्यमभिसम्बन्धो वेदितव्यः ।
दशविकल्पा भवनवासिनः । अष्टविकल्पा व्यन्तराः । पञ्चविकल्पा ज्योतिष्काः । द्वादश
-
०५
विकल्पा वैमानिका इति । सर्ववैमानिकानां द्वादशविकल्पान्तःपातित्वे प्रसक्ते ग्रैवेयकादि
-
निवृत्त्यर्थं विशेषणमुपादीयते
‘
कल्पोपपन्नपर्यन्ता
’
इति । अथ कथं कल्पसञ्ज्ञा ? इन्द्रादयः
प्रकारा दश एतेषु कल्प्यन्त इति कल्पाः । भवनवासिषु तत्कल्पनासम्भवेऽपि रूढिवशा
-
द्वैमानिकेष्वेव वर्तते कल्पशब्दः । कल्पेषूपपन्नाः कल्पोपपन्नाः । कल्पोपपन्नाः पर्यन्ता येषां
ते कल्पोपपन्नपर्यन्ताः ।
१०
पुनरपि तद्विशेषप्रतिपत्त्यर्थमाह —
इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णका
-
भियोग्यकिल्विषिकाश्चैकशः ॥
४
॥
२३९
अन्यदेवासाधारणाणिमादिगुणयोगादिन्दन्तीति इन्द्राः । आज्ञैश्वर्यवर्जितं
य
१
त्स्थानायुर्वीर्यपरिवारभोगोपभोगादि तत्समानं, तस्मिन्समाने भवाः सामानिका मह
-
त्तराः पितृगुरूपाध्यायतुल्याः । मन्त्रिपुरोहितस्थानीयास्त्रायस्त्रिंशाः । त्रयस्त्रिंशदेव
त्रायस्त्रिंशाः । वयस्यपीठमर्दसदृशाः परिषदि भवाः पारिषदाः । आत्मरक्षाः शिरोरक्षोप
-
०५
मानाः । अर्थचरारक्षकसमाना लोकपालाः । लोकं पालयन्तीति लोकपालाः । पदात्या
-
दीनि सप्त अनीकानि दण्डस्थानीयानि । प्रकीर्णकाः पौरजानपदकल्पाः । आभियोग्या
दाससमाना वाहनादिकर्मणि प्रवृत्ताः
२
। अन्तेवासिस्थानीयाः
३
किल्विषिकाः । किल्बिषं
पापं येषा
४
मस्तीति किल्विषिकाः ।
एकैकस्य निकायस्य एकश एते इन्द्रादयो दश विकल्पाश्चतुर्षु निकायेषूत्सर्गेण
१०
प्रसक्तास्ततोऽपवादार्थमाह —
त्रायस्त्रिंशलोकपालव
५
र्ज्या व्यन्तरज्योतिष्काः ॥
५
॥
व्यन्तरेषु ज्योतिष्केषु च त्रायस्त्रिंशांल्लोकपालांश्च वर्जयित्वा इतरेऽष्टौ विकल्पा
द्रष्टव्याः ।
१
यत्समानायु
-
मुº ।
२
-
वृत्ताः । अन्यवासि — आº, दिº १, दिº २ ।
३
— स्थानीयाः । किल्विषं
मुº ।
४
येषामस्ति ते किल्वि
-
मुº ।
५
-
वर्जा व्य
-
ताº, नाº, ।
२४०
अथ तेषु निकायेषु किमेकैक इन्द्र उतान्यः प्रतिनियमः कश्चिदस्तीत्यत आह —
पूर्वयोर्द्वीन्द्राः ॥
६
॥
पूर्वयोर्निकाययोर्भवनवासिव्यन्तरनिकाययोः । कथं द्वितीयस्य पूर्वत्वम् ? सामी
-
प्यात्पूर्वत्वमुपचर्योक्तम् ।
‘
द्वीन्द्राः
’
इति अन्तर्नीतवीप्सार्थः । द्वौ द्वौ इन्द्रौ येषां ते द्वीन्द्रा इति ।
०५
यथा सप्तपर्णोऽष्टापद इति । तद्यथा — भवनवासिषु तावदसुरकुमाराणां द्वाविन्द्रौ चमरो
वैरोचनश्च । नागकुमाराणां धरणो भूतानन्दंश्च । विद्युत्कुमाराणां हरिसिंहो हरि
-
कान्तश्च । सुपर्णकुमाराणां वेणुदेवो वेणुधारी च । अग्निकुमाराणामग्निशिखोऽग्निमाण
-
वश्च । वातकुमाराणां वैलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च ।
उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णो वसिष्ठश्च । दिक्कुमाराणा
-
१०
ममितगतिरमितवाहनश्चेति । व्यन्तरेष्वपि किन्नराणां द्वाविन्द्रौ किन्नरः किम्पुरुषश्च ।
किम्पुरुषाणां सत्पुरुषो महापुरुषश्च
१
। महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां
गीतरतिर्गीतयशाश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च ।
भूतानां प्रतिरूपोऽप्रतिरूपश्च । पिशाचानां कालो महाकालश्च ।
१
— रुषश्चेति महो — मुº ।
२४१
अथैषां देवानां सुखं कीदृशमित्युक्ते सुखावबोधनार्थमाह —
कायप्रवीचारा आ ऐशानात् ॥
७
॥
प्रवीचारो मैथुनोपसेवनम् । कायेन प्रवीचारो येषां ते कायप्रवीचाराः । आ
१
ङ्
अभिविध्यर्थः । असंहितया निर्देशः असन्देहार्थः । एते भवनवास्यादय ऐशानान्ताः संक्ल्लि
-
०५
ष्टकर्मत्वान्मनुष्यवत्स्त्रीविषयसुखमनुभवन्तीत्यर्थः ।
अवधिग्रहणादितरेषां सुखविभागेऽनिर्ज्ञाते तत्प्रतिपादनार्थमाह —
शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥
८
॥
उक्तावशिष्टग्रहणार्थं
‘
शेष
’
ग्रहणम् । के पुनरुक्तावशिष्टाः ? कल्पवासिनः ।
स्पर्शश्च रूपं च शब्दश्च मनश्च स्पर्शरूपशब्दमनांसि, तेषु प्रवीचारो येषां ते स्पर्शरूप
-
१०
शब्दमनःप्रवीचाराः । कथमभिसम्बन्धः ? आर्षाविरोधेन । कुतः पुनः
‘
प्रवीचार
’
ग्रहणम् ?
१
‘
आङ् मर्यादाभिविध्योः ।
’
-
पाº २, १, १३ ।
२४२
इष्टसम्प्रत्ययार्थमिति । कः पुनरिष्टोऽभिसम्बन्धः ? आर्षाविरोधी — सानत्कुमारमाहेन्द्र
-
योर्देवा देवाङ्गना
१
ङ्गस्पर्शमात्रादेव परां प्रीतिमुपलभन्ते, तथा देव्योऽपि । ब्रह्मब्रह्मोत्तर
-
लान्तवकापिष्ठेषु देवा दिव्याङ्गनानां शृङ्गाराकारविलासचतुरमनोज्ञवेषरूपावलोकन
-
मात्रादेव परमसुखमाप्नुवन्ति । शुक्रमहाशुक्रशतारसहस्रारेषु देवा देववनितानां मधुर
-
०५
सङ्गीतमृदुहसितललितकथितभूषणरवश्रवणमात्रादेव परां प्रीतिमास्कन्दन्ति ।
आनतप्राणतारणाच्युतकल्पेषु देवा स्वाङ्गनामनःसङ्कल्पमात्रादेव परं सुखमाप्नुवन्ति ।
अथोत्तरेषां किंप्रकारं सुखमित्युक्ते तन्निश्चयार्थमाह —
परेऽप्रविचाराः ॥
९
॥
‘
पर
’
ग्रहणमितराशेषसंग्रहार्थम् ।
‘
अप्रवीचार
’
ग्रहणं परमसुखप्रतिपत्त्यर्थम् ।
१०
प्रवीचारो हि वेदनाप्रतिकारः । तदभावे तेषां परमसुखमनवरतं भवति ।
उक्ता ये आदिनिकायदेवा दशविकल्पा इति तेषां सामान्यविशेषसञ्ज्ञाविज्ञाप
-
नार्थमिदमुच्यते —
१
— ङ्गनास्पर्श — मुº ।
२४३
भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥
१०
॥
भवनेषु वसन्तीत्येवंशीला भवनवासिनः । आदिनिकायस्येयं सामान्यसञ्ज्ञा ।
असुरादयो विशेषसञ्ज्ञा विशिष्टनामकर्मोदयापादितवृत्तयः । सर्वेषां देवानामवस्थितवयः
-
स्वभावत्वेऽपि वेषभूषायुधयानवाहनक्रीडनादिं कुमारवदेषामाभासत इति भवनवासिषु
०५
कुमारव्यपदेशो रूढः । स प्रत्येकं परिसमाप्यते असुरकुमारा इत्येवमादि । क्व तेषां भवना
-
नीति चेत् ? उच्यते — रत्नप्रभायाः पङ्कब
१
हुलभागेऽसुरकुमाराणां भवनानि । खरपृथिवी
-
भागे उपर्यधश्च एकैकयोजनसहस्रं वर्जयित्वा शेषनवानां कुमाराणामावासाः ।
द्वितीयनिकायस्य सामान्यविशेषसञ्ज्ञावधारणार्थमाह —
व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥
११
॥
१०
विविधदेशान्तराणि येषां निवासास्ते
‘
व्यन्तरा
’
इत्यन्वर्था सामान्यसञ्ज्ञेयमष्टा
-
नामपि विकल्पानाम् । तेषां व्यन्तराणामष्टौ विकल्पाः किन्नरादयो वेदितव्या नामकर्मो
-
दयविशेषापादिताः । क्व पुनस्तेषामावासा इति चेत् ? उच्यते — अस्माज्जम्बूद्वीपाद
-
१
पङ्कबहल — आº, दिº १, दिº २ ।
२४४
संख्येयान्द्वीपसमुद्रानतीत्य उपरिष्टे
१
खरपृथिवीभागे सप्तानां व्यन्तराणामावासाः ।
राक्षसानां पङ्कबहुलभागे ।
तृतीयस्य निकायस्य सामान्यविशेषसंज्ञासङ्कीर्तनार्थमाह —
ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहंनक्षत्रप्रकीर्णकतारकाश्च ॥
१२
॥
०५
ज्योतिस्स्वभावत्वादेषां पञ्चानामपि
‘
ज्योतिष्का
’
इति सामान्यसंज्ञा अन्वर्था ।
सूर्यादयस्तद्विशेषसंज्ञा नामकर्मोदयप्रत्ययाः ।
‘
सूर्याचन्द्रमसौ
’
इति पृथग्ग्रहणं प्राधान्य
-
ख्यापनार्थम् । किंकृतं पुनः प्राधान्यम् ? प्रभावादिकृतम् । क्व पुनस्तेषामावासाः ? इत्यत्रो
-
च्यते, अस्मात्समाद् भूमिभागादूर्ध्वं सप्तयोजनशतानि नवत्युत्तराणि
२
उत्पत्त्य सर्वज्यो
-
तिषामधोभागविन्यस्तास्तारकाश्चरन्ति । ततो दशयोजनान्युत्पत्य सूर्याश्चरन्ति । ततोऽ
-
१०
शीतियोजनान्युत्पत्य चन्द्रमसो भ्रमन्ति । तत
३
श्चत्वारि योजनान्युत्पत्य नक्षत्राणि ।
ततश्च
४
त्वारि योजनान्युत्पत्य बुधाः । ततस्त्रीणि योजनान्युत्पत्य शुक्राः । तत
५
स्त्रीणि
योजनान्युत्पत्य बृहस्पतयः । ततस्त्री
६
णि योजनान्युत्पत्याङ्गारकाः । ततस्त्रीणि योजनान्यु
-
त्पत्य शनैश्चराश्चरन्ति । स एष ज्योतिर्गणगोचरो नभोऽवकाशो दशाधिकयोजनशत
-
१
-
तीत्य परिष्टे आº, ताº, नाº, दिº १, दिº २ ।
२
— त्तराणि ७९० उत्प
-
मुº ।
३
ततस्त्रीणि
योज — ताº, नाº, । तत्त्वाº ।
४
ततस्त्रीणि योज — ताº, नाº, तत्त्वाº ।
५
ततश्चत्वारि योज — ताº, नाº,
१५
तत्त्वाº,
६
ततश्चत्वारि योज — ताº, नाº, तत्त्वाº ।
२४५
बहलस्तिर्यगसंख्यातद्वीपसमुद्रप्रमाणो घनोदधिपर्यन्तः । उक्तं च —
’
णौदुत्तरसत्तसया दससीदी
१
चदुगं तियचौक्कं ।
तारारविससिरिक्खा बुहभग्गवगुरुअंगिरारसणी
२
॥
’
ज्योतिष्काणां गतिविशेषप्रतिपत्त्यर्थमाह —
०५
मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥
१३
॥
मेरोः प्रदक्षिणा मेरुप्रदक्षिणाः ।
‘
मेरुप्रदक्षिणाः
’
इति वचनं गतिविशेषप्रति
-
पत्त्यर्थं विपरीता गतिर्मा विज्ञायीति ।
‘
नित्यगतयः
’
इति विशेषणमनुपरतक्रियाप्रति
-
पादनार्थम् ।
‘
नृलोक
’
ग्रहणं विषयार्थम् । अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोर्ज्योतिष्का
नित्यगतयो नान्यत्रेति । ज्योतिष्कविमानानां गतिहेत्वभावात्तद्वृत्त्यभाव इति चेत् ?
१०
न; असिद्धत्वात् गतिरताभियोग्यदेवप्रेरितगतिपरिणामात्कर्मविपाकस्य वैचित्र्यात् । तेषां
हि गतिमुखेनैव कर्म विपच्यत इति । एकादशभिर्योजनशतैरेकविंशैर्मेरुमप्राप्य ज्योतिष्काः
प्रदक्षिणाश्चरन्ति ।
१
सीदिं चदुतियं दुगच+उक्कं । तारा — ताº, नाº, तत्त्वाº
२
‘
ण+उदुत्तरसतसए दस सीदी चदुदुगे
तियच+उक्के । तारिणससिरिक्खबुहा सुक्कगुरुंगारमंदगदी ।
’
— तिº, साº, गाº ३३२ ।
२४६
गतिमज्ज्योतिस्सम्बन्धेन व्यवहारकालप्रतिपत्त्यर्थमाह —
तत्कृतः कालविभागः ॥
१४
॥
‘
तद्
’
ग्रहणं गतिमज्ज्योतिःप्रतिनिर्देशार्थम् । न केवलया गत्या नापि केवलैर्ज्यो
-
तिर्भिः कालः परिच्छिद्यते; अनुपलब्धेरपरिवर्तनाच्च । कालो द्विविधो व्यावहारिको
०५
मुख्यश्च । व्यावहारिकः कालविभागस्तत्कृतः समयावलिकादिः क्रियाविशेषपरिच्छिन्नोऽ
-
न्यस्यापरिच्छिन्नस्य परिच्छेदहेतुः । मुख्योऽन्यो वक्ष्यमाणलक्षणः ।
२४७
इतरत्र ज्योतिषामवस्थानप्रतिपादनार्थमाह —
बहिरवस्थिताः ॥
१५
॥
‘
बहिः
’
इत्युच्यते । कुतो बहिः ? नृलोकात् । कथमवगम्यते ? अर्थवशाद्विभक्ति
-
परिणामो भवति । ननु च नृलोके
‘
नित्यगति
’
वचनादन्यत्रावस्थानं ज्योतिष्काणां सिद्धम् ।
०५
अतो बहिरवस्थिता इति वचनमनर्थकमिति ? तन्न; किं कारणम् ?
१
नृलोकादन्यत्र
हि ज्योतिषामस्तित्वमवस्थानं चासिद्धम् । अतस्तदुभयसिद्ध्यर्थं बहिरवस्थिता इत्यु
-
च्यते । विपरीतगतिनिवृत्त्यर्थं कादाचित्कगतिनिवृत्त्यर्थं च सूत्रमारब्धम् ।
तुरीयस्य निकायस्य सामान्यसञ्ज्ञासङ्कीर्तनार्थमाह —
१
— न्यत्र बहिर्ज्यो — मुº ।
२४८
वैमानिकाः ॥
१६
॥
‘
वैमानिक
’
ग्रहणमधिकारार्थम् । इत उत्तरं ये वक्ष्यन्ते तेषां वैमानिकसम्प्रत्ययो
यथा स्यादिति अधिकारः क्रियते । विशेषेणात्मस्थान् सुकृतिनो मानयन्तीति विमानानि ।
विमानेषु भवा वैमानिकाः । तानि विमानानि
१
त्रिविधानि — इन्द्रकश्रेणीपुष्पप्रकीर्णकभेदेन ।
०५
तत्र इन्द्रकविमानानि इन्द्रवन्मध्ये
२
ऽवस्थितानि । तषां चतसृषु दिक्षु आकाशप्रदेशश्रेणि
-
वदवस्थानात् श्रेणिविमानानि । विदिक्षु प्रकीर्णपुष्पवदवस्थानात्पुष्पप्रकीर्णकानि ।
तेषां वैमानिकानां भेदावबोधनार्थमाह —
कल्पोपपन्नाः कल्पातीताश्च ॥
१७
॥
कल्पेषूपपन्नाः कल्पोपपन्नाः कल्पानतीताः कल्पातीताश्चेति द्विविधा वैमानिकाः ।
१०
तेषामवस्थानविशेषनिर्ज्ञानार्थमाह —
उपर्युपरि ॥
१८
॥
किमर्थमिदमुच्यते ? तिर्यगवस्थितिप्रतिषेधार्थमुच्यते । न ज्योतिष्कवत्तिर्यगव
-
स्थिताः । न व्यन्तरवदसमावस्थितयः ।
‘
उपर्युपरि
’
इत्युच्यन्ते ? के ते ? कल्पाः ।
१
— नानि विविधा — मुº ।
२
मध्ये व्यव — मुº ।
२४९
यद्येवं, कियत्सु कल्पविमानेषु ते देवा भवन्तीत्यत आह —
सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठ
-
शुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर् नवसु
ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥
१९
॥
०५
कथमेषां सौधर्मादिशब्दानां कल्पाभिधानम् ? चातुरर्थिकेनाणा स्वभावतो वा कल्प
-
स्याभिधानं भवति । अथ कथमिन्द्राभिधानम् ? स्वभावतः साहचर्याद्वा । तत्कथमिति
चेत् ? उच्यते — सुधर्मा नाम सभा, साऽस्मिन्नस्तीति सौधर्मः कल्पः ।
’
तदस्मिन्नस्तीति
१
’
अण् । तत्कल्पसाहचर्यादिन्द्रोऽपि सौधर्मः । ईशानो नाम इन्द्रः स्वभावतः । ईशानस्य
निवासः कल्प ऐशानः ।
’
तस्य निवासः
२
’
इत्यण् । तत्साहचर्यादिन्द्रोऽप्पैशानः । सनत्कुमारो
१०
नाम इन्द्रः स्वभावतः ।
’
तस्य निवासः
’
इत्यण् । सानत्कुमारः कल्पः । तत्साहचर्यादि
-
१
‘
तदस्मिन्नस्तीति देशे तन्नाम्नि
’
— पाº ४, २, ६७ ।
‘
तदस्मिन्नन्नं प्राये खौ
’
— जैनेन्द्र ४, १, २५ ।
२
‘
तस्य निवासः
’
-
पाº ४, २, ६९, ।
‘
तस्य निवासादूरभवौ
’
— जैनेन्द्रº ३, २, ८६ ।
२५०
न्द्रोऽपि सानत्कुमारः । महेन्द्रो नामेन्द्रः स्वभावतः । तस्य निवासः कल्पो माहेन्द्रः । तत्साह
-
चर्यादिन्द्रोऽपि माहेन्द्रः । एवमुत्तरत्रापि योज्यम् । आगमापेक्षया व्यवस्था भवतीति
‘
उपर्युपरि
’
इत्यनेन द्वयोर्द्वयोरभिसम्बन्धो वेदितव्यः । प्रथमौ सौधर्मैशानकल्पौ, तयोरुपरि
सानत्कुमारमाहेन्द्रौ, तयोरुपरि ब्रह्मलोकब्रह्मोत्तरौ, तयोरुपरि लान्तवकापिष्ठौ, तयोरुपरि
०५
शुक्रमहाशुक्रौ, तयोरुपरि शतारसहस्रारौ, तयोरुपरि आनतप्राणतौ, तयोरुपरि आरणा
-
च्युतौ । अध उपरि च प्रत्येकमिन्द्रसम्बन्धो वेदितव्यः । मध्ये तु प्रतिद्वय
१
म् । सौधर्मैशान
-
सानत्कुमारमाहेन्द्राणां चतुर्णां चत्वार इन्द्राः । ब्रह्मलोकब्रह्मोत्तरयोरेको ब्रह्मा
२
नाम ।
लान्तवकापिष्ठयोरेको लान्तवाख्यः । शुक्रमहाशुक्रयोरेकः शुक्रसञ्ज्ञः । शतारसहस्रारयो
-
रेकः शतारनामा । आनतप्राणतारणाच्युतानां चतुर्ण्णां चत्वारः । एवं कल्पवासिनां द्वादश
१०
इन्द्रा भवन्ति ।
जम्बूद्वीपे महामन्दरो योजनसहस्रावगाहो
३
नवनवतियोजनसहस्रोच्छ्रायः । तस्या
-
धस्तादधोलोकः । बाहल्येन
४
तत्प्रमाण
५
स्तिर्यक्प्रसृतस्तिर्यग्लोकः । तस्योपरिष्टादूर्ध्व
-
१
-
द्वयमेकम् मुº ।
२
ब्रह्मेन्द्रो नाम मुº ।
३
-
गाहो भवति नव मुº, ताº, नाº ।
४
बाहुल्येन मुº, ताº, नाº, दिº २ ।
५
तत्प्रमाण
-
(मेरुप्रमाण)स्तिर्य मुº ।
२५१
लोकः । मेरुचूलिका चत्वारिंशद्योजनोच्छ्राया । तस्या उपरि केशान्तरमात्रे व्यवस्थित
-
मृजुविमानमिन्द्रकं सौधर्मस्य । सर्वमन्यल्लोकानुयोगाद्वेदितव्यम् ।
‘
नवसु ग्रैवेयकेषु
’
इति नवशब्दस्य पृथग्वचनं
१
किमर्थम् ? अन्यान्यपि नवविमानानि
२
अनुदिशसञ्ज्ञकानि
सन्तीति ज्ञापनार्थम् । तेनानुदिशानां ग्रहणं वेदितव्यम् ।
०५
एषामधिकृतानां
३
वैमानिकानां परस्परतो विशेषप्रतिपत्त्यर्थमाह —
स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥
२०
॥
स्वोपात्तस्यायुष उदयात्तस्मिन्भवे शरीरेण सहावस्था
४
नं स्थितिः । शापानुग्रह
-
शक्तिः प्रभावः । सुखमिन्द्रियार्थानुभवः । शरीरवसनाभरणादिदीप्तिः द्युतिः । लेश्या
उक्ता । लेश्याया विशुद्धिर्लेश्याविशुद्धिः । इन्द्रियाणामवधेश्च विषय इन्द्रियावधिविषयः ।
१०
ते
५
भ्यस्तैर्वाऽधिका इति
६
तसिः । उपर्युपरि प्रतिकल्पं प्रतिप्रस्तारं च वैमानिकाः स्थित्यादि
-
१
— वचनं अन्या — ताº, नाº ।
२
— मानानि सन्तीति आº, ताº, नाº ।
३
— तानां परस्प — आº ।
४
सह स्थानं आº, दिº १, दिº २ ।
५
‘
अपादाने चाऽहीयरुहोः
’
— पाº ५, ४, ४५ । —
‘
अपादानेऽहीयरुहोः
’
— जैनेन्द्र ४, २, ६२ ।
‘
आद्यादिभ्य उपसंख्यानम्
’
— पाº ५, ४, ४४ वार्तिº ।
‘
आद्यादिभ्यस्तसिः
’
— जैनेन्द्रº ४, २, ६० ।
६
इति तस्मिन्नुप — मुº ।
२५२
भिरधिका इत्यर्थः ।
यथा स्थित्यादिभिरुपर्युपर्यधिका एवं गत्यादिभिरपीत्यतिप्रसङ्गे तन्निवृत्त्यर्थ
-
माह —
गतिशरीरपरिग्रहाभिमानतो हीनाः ॥
२१
॥
०५
देशाद्देशान्तरप्राप्तिहेतुर्गतिः शरीरं वैक्रियिकमुक्तम् । लोभकषायोदयाद्विष
-
येषु सङ्गः परिग्रहः । मानकषायादुत्पन्नोऽहङ्कारोऽभिमानः । एतैर्गत्यादिभिरुपर्युपरि हीनाः ।
देशान्तरविषयक्रीडारतिप्रकर्षाभावादुपर्युपरि गतिहीनाः । शरीरं सौधर्मैशानयोर्देवानां
सप्तारत्निप्रमाणम् । सानत्कुमारमाहेन्द्रयोः षडरत्निप्रमाणम् । ब्रह्मलोकब्रह्मोत्तरलान्तव
-
कापिष्ठेषु पञ्चारत्निप्रमाणम् । शुक्रमहाशुक्रशतारसहस्रारेषु चतुररत्निप्रमाणम् । आनत
-
१०
प्राणतयोरर्द्धचतुर्थारत्निप्रमाणम् । आरणाच्युतयोस्त्र्यरत्निप्रमाणम् । अधोग्रैवेयकेषु अर्द्ध
-
तृतीयारत्निप्रमाणम् । मध्यग्रैवेयकेष्वरत्निद्वयप्रमाणम् । उपरिमग्रैवेयकेषु अनुदिशवि
-
मानकेषु च अध्यर्द्धारत्नि
१
प्रमाणम् । अनुत्तरेष्वरत्निप्रमाणम् । परिग्रहश्च विमानपरि
-
च्छदादिरुपर्युपरि हीनः । अभिमानश्चोपर्युपरि तनुकषायत्वाद्धीनः ।
१
— रत्निमात्रम् । अनु — आº, दिº १, दिº २, ताº ।
२५३
पुरस्तात्त्रिषु निकायेषु देवानां लेश्याविधिरुक्तः । इदानीं वैमानिकेषु लेश्याविधि
-
प्रतिपत्त्यर्थमाह —
पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥
२२
॥
पीता च पद्मा च शुक्ला च
१
ताः पीतपद्मशुक्लाः । पीतपद्मशुक्ला लेश्या
०५
येषां ते पीतपद्मशुक्ललेश्याः । कथं ह्रस्वत्वम् ? औत्तरपदिक
२
म् । यथा
३
—
’
द्रुता
४
यां तपरकरणे मध्यमविलम्बितयोरुपसंख्यान
५
m
’
इति । अथवा पीतश्च
पद्मश्च शुक्लश्च पीतपद्मशुक्ला वर्णवन्तोऽर्थाः । तेषामिव लेश्या येषां ते पीतपद्म
-
शुक्ललेश्याः । तत्र कस्य का लेश्या इति ? अत्रोच्यते — सौधर्मैशानयोः पीतलेश्याः ।
सानत्कुमारमाहेन्द्रयोः पीतपद्मलेश्याः । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु पद्मलेश्याः ।
१
च पीत — आº, दिº २,
२
— तरपादिकम् आº, दिº १, दिº २ ।
३
यथाहुः द्रु
-
मुº, नाº, ताº ।
४
‘
द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानं कालभेदात् । द्रुतायां तपरकरणे मध्यमविलम्बितयो
-
१०
रूपसंख्यानं कर्तव्यम् । तथा मध्यमायां द्रुतविलम्बितयोः । तथा विलम्बितायां द्रुतमध्यमयोः । किं पुनः कारणं
न सिद्ध्यति ? कालभेदात् । ये हि द्रुतायां वृत्तौ वर्णास्त्रिभागाधिकास्ते मध्यमायाम् । ये च मध्यमायां
वर्णास्त्रिभागाघिकास्ते विलम्बितायाम् ।
’
— पाº मº भाº १, १, ९ ।
५
-
ख्यानमिति । द्रुतमध्यविलम्बिता
इति । अथवा आº, दिº १ । — ख्यानमिति । द्रुतमध्यमविलम्बिता इति । अथवा दिº २ ।
२५४
शुक्रमहाशुक्रशतारसहस्रारेषु पद्मशुक्ललेश्याः । आनतादिषु शुक्ललेश्याः । तत्राप्यनुदिशानु
-
त्तरेषु परमशुक्ललेश्याः । सूत्रेऽनभिहितं कथं मिश्रग्रहणम् ? साहचर्याल्लोकवत् । तद्यथा —
छत्रिणो गच्छन्ति इति अच्छत्रिषु छत्रिव्यवहारः । एवमिहापि मिश्रयोरन्यतरग्रहणं
भवति । अयमर्थः सूत्रतः कथं गम्यते इति चेत् ? उच्यते — एवमभिसम्बन्धः क्रियते,
०५
द्वयोः कल्पयुगलयोः पीतलेश्या; सानत्कुमारमाहेन्द्रयोः पद्मलेश्याया अविवक्षातः । ब्रह्म
-
लोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्या; शुक्रमहाशुक्रयोः शुक्ललेश्याया अविवक्षातः ।
शेषेषु शतारादिषु शुक्ललेश्या; पद्मलेश्याया अविवक्षातः । इति नास्ति दोषः ।
आह कल्पोपपन्ना इत्युक्तं तत्रेदं न ज्ञायते के कल्पा इत्यत्रोच्यते —
प्राग्ग्रैवेयकेभ्यः कल्पाः ॥
२३
॥
१०
इदं न ज्ञायते इत आरभ्य कल्पा भवन्तीति सौधर्मादिग्रहणमनुवर्तते । तेनाय
-
मर्थो लभ्यते — सौधर्मादयः प्राग्ग्रैवेयकेभ्यः कल्पा इति । पारिशेष्यादितरे कल्पातीता इति ।
लौकान्तिका देवा वैमानिकाः सन्तः क्व गृह्यन्ते ? कल्पोपपन्नेषु । कथमिति
चेदुच्यते —
२५५
ब्रह्मलोकालया लौकान्तिकाः ॥
२४
॥
एत्य तस्मिन् लीयन्त इति आलय आवासः । ब्रह्मलोक आलयो येषां ते ब्रह्म
-
लोकालया लौकान्तिका देवा वेदितव्याः । यद्येवं सर्वेषां ब्रह्मलोकालयानां देवानां लौकान्ति
-
कत्वं प्रसक्तम् ? अन्वर्थसञ्ज्ञाग्रहणाददोषः । ब्रह्मलोको लोकः तस्यान्तो लोकान्तः तस्मि
-
०५
न्भवा लौकान्तिका इति न सर्वेषां ग्रहणम् । तेषां हि विमानानि ब्रह्मलोकस्यान्तेषु स्थि
-
तानि । अथवा जन्मजरामरणाकीर्णो लोकः संसारः, तस्यान्तो लोकान्तः । लोकान्ते भवा
लौकान्तिकाः । ते सर्वे परीतसंसाराः ततश्च्युता एकं गर्भावासं प्राप्य परिनिर्वास्यन्तीति ।
तेषां सामान्येनोपदिष्टानां भेदप्रदर्शनार्थमाह —
सारस्वतादित्यवह्न्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥
२५
॥
१०
क्व इमे सारस्वतादयः ? अष्टास्वपि पूर्वोत्तरादिषु दिक्षु यथाक्रममेते सारस्वता
-
दयो देवगणा वेदितव्याः । तद्यथा — पूर्वोत्तरकोणे सारस्वतविमानम्, पूर्वस्यां दिशि आदित्य
-
विमानम्, पूर्वदक्षिणस्यां दिशि वह्निविमानम्, दक्षिणस्यां दिशि अरुणविमानम्, दक्षिणापर
-
२५६
कोणे गर्दतोयविमानम्, अपरस्यां दिशि तुषितविमानम्, उत्तरापरस्यां दिशि अव्याबाध
-
विमानम्, उत्तरस्यां दिशि अरिष्टविमानम् ।
‘
च
’
शब्दसमुच्चितास्तेषामन्तरेषु द्वौ देव
-
गणौ । तद्यथा — सारस्वतादित्यान्तरे अग्न्याभसूर्याभाः । आदित्यस्य च वह्नेश्चान्तरे
चन्द्राभसत्याभाः । वह्न्यरुणान्तराले श्रेयस्करक्षेमङ्कराः । अरुणगर्दतोयान्तराले वृषभेष्ट
-
०५
कामचाराः । गर्दतोयतुषितमध्ये निर्माणरजोदिगन्तरक्षिताः । तुषिताव्याबाधमध्ये आत्म
-
रक्षितसर्वरक्षिताः । अव्याबाधारिष्टान्तराले मरुद्वसवः । अरिष्टसारस्वतान्तराले अश्व
-
विश्वाः । सर्वे एते स्वतन्त्राः; हीनाधिकत्वाभावात्, विषयरतिविरहाद्देवर्षयः, इतरेषां
देवानामर्चनीयाः, चतुर्दशपूर्वधराः, तीर्थकरनिष्क्रमणप्रतिबोधनपरा वेदितव्याः ।
आह, उक्ता लौकान्तिकास्ततश्च्युता एकं गर्भवासमवाप्य निर्वास्यन्तीत्युक्ताः ।
१०
किमेवमन्येष्वपि निर्वाणप्राप्तिकालविभागो विद्यते ? इत्यत आह —
विजयादिषु द्विचरमाः ॥
२६
॥
‘
आदि
’
शब्दः प्रकारार्थे वर्तते, तेन विजयवैजयन्तजयन्तापराजितानुदिशविमा
-
नानामिष्टानां ग्रहणं सिद्धं भवति । कः पुनरत्र प्रकारः ? अहमिन्द्रत्वे सति सम्यग्दृष्ट्यु
-
२५७
पपादः । सर्वार्थसिद्धिप्रसङ्ग इति चेत् ? न; तेषां परमोत्कृष्टत्वात्, अन्वर्थसञ्ज्ञात एक
-
चरमत्वसिद्धेः । चरमत्वं देहस्य मनुष्यभवापेक्षया । द्वौ चरमौ देहौ येषां ते द्विचरमाः ।
विजयादिभ्यश्च्युता अप्रतिपतितसम्यक्त्वा मनुष्येषूत्पद्य संयममाराध्य पुनर्विजयादिषू
-
त्पद्य ततश्च्युताः पुनर्मनुष्यभवमवाप्य सिद्ध्यन्तीति द्विचरमदेहत्वम् ।
०५
आह, जीवस्यौदयिकेषु भावेषु तिर्यग्योनिगतिरौदयिकीत्युक्तं, पुनश्च स्थितौ
‘
तिर्यग्योनिजानां च
’
इति । तत्र न ज्ञायते के तिर्यग्योनयः ? इत्यत्रोच्यते —
औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥
२७
॥
औपपादिका उक्ता देवनारकाः । मनुष्याश्च निर्दिष्टाः
‘
प्राङ्मानुषोत्तरान्म
-
नुष्याः
’
इति । एभ्योऽन्ये संसारिणो जीवाः शेषास्ते
१
तिर्यग्योनयो वेदितव्याः । तेषां तिरश्चां
१
शेषास्तिर्य — मुº, दिº २ ।
२५८
देवादीनामिव क्षेत्रविभागः पुनर्निर्देष्टव्यः ? सर्वलोकव्यापित्वात्तेषां क्षेत्रविभागो नोवतः ।
आह, स्थितिरुक्ता नारकाणां मनुष्याणां तिरश्चां च । देवानां नोक्ता । तस्यां
वक्तव्यायामादावुद्दिष्टानां भवनवासिनां स्थितिप्रतिपादनार्थमाह —
स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिता ॥
२८
॥
०५
असुरादीनां सागरोपमादिभिर्यथाक्रममत्राभिसम्बन्धो वेदितव्यः । इयं स्थिति
-
रुत्कृष्टा । जघन्याऽप्युत्तरत्र वक्ष्यते । तद्यथा असुराणां सागरोपमा स्थितिः । नागानां
त्रिपल्योपमानि
१
स्थितिः । सुपर्णानामर्द्धतृतीयानि । द्वीपानां द्वे । शेषाणां षण्णामध्यर्द्ध
-
पल्योपमम् ।
आद्यदेवनिकायस्थित्यभिधानादनन्तरं व्यन्तरज्योतिष्कस्थितिवचने क्रमप्राप्ते
१०
सति तदुल्लङ्घ्य वैमानिकानां स्थितिरुच्यते । कुतः ? तयोरुत्तरत्र लघुनोपायेन स्थिति
-
वचनात् । तेषु चादावुद्दिष्टयोः कल्पयोः स्थितिविधानार्थमाह —
सौधर्मैशानयोः सागरोपमे अधिके ॥
२९
॥
१
— पमा स्थितिः मुº ।
२५९
‘
सागरोपमे
’
इति द्विवचननिर्देशाद् द्वित्वगतिः ।
‘
अधिके
’
इत्ययमधिकारः । आ
कुतः ? आ सहस्रारात् । इदं तु कुतो ज्ञायते ? उत्तरत्र
‘
तु
’
शब्दग्रहणात् । तेन सौधर्मैशान
-
योर्देवानां द्वे सागरोपमे सातिरेके प्रत्येतव्ये ।
उत्तरयोः स्थितिविशेषप्रतिपत्त्यर्थमाह —
०५
सानत्कुमारमाहेन्द्रयोः सप्त ॥
३०
॥
अनयोः कल्पयोर्देवानां सप्तसागरोपमाणि साधिकानि उत्कृष्टा स्थितिः ।
ब्रह्मलोकादिष्वच्युतावसानेषु स्थितिविशेषप्रतिपत्त्यर्थमाह —
त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥
३१
॥
‘
सप्त
’
ग्रहणं प्रकृतम् । तस्येह त्र्यादिभिर्निर्दिष्टैरभिसम्बन्धो वेदितव्यः । सप्त
१०
त्रिभिरधिकानि, सप्त सप्तभिरधिकानीत्यादिः । द्वयोर्द्वयोरभिसम्बन्धो वेदितव्यः ।
‘
तु
’
शब्दो विशेषणार्थः । किं विशिनष्टि ?
‘
अधिक
’
शब्दोऽनुवर्तमानश्चतुर्भिर
१
भिसम्बध्यते
१
-
तुर्भिरिह सम्ब — आº, दिº १, दिº २ ।
२६०
नोत्तराभ्यामित्ययमर्थो विशिष्यते । तेनायमर्थो भवति — ब्रह्मलोकब्रह्मोत्तरयोर्दशसाग
-
रोपमाणि साधिकानि । लान्तवकापिष्ठयोश्चतुर्दशसागरोपमाणि साधिकानि । शुक्रमहा
-
शुक्रयोः षोडशसागरोपमाणि साधिकानि । शतारसहस्रारयोरष्टादशसागरोपमाणि साधि
-
कानि । आनतप्राणतयोर्विंशतिसागरोपमाणि । आरणाच्युतयोर्द्वार्विंशतिसागरोपमाणि ।
०५
तत ऊर्ध्वं स्थितिविशेषप्रतिपत्त्यर्थमाह —
आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥
३२
॥
‘
अधिक
’
ग्रहणमनुवर्तते । तेनेहाभिसम्बन्धो वेदितव्यः । एकैकेनाधिकानीति ।
‘
नव
’
ग्रहणं किमर्थम् ? प्रत्येकमेकैकमधिकमिति ज्ञापनार्थम् । इतरथा हि ग्रैवेयकेष्वेक
-
मेवाधिकं स्यात् । विजयादिष्विति
‘
आदि
’
शब्दस्य प्रकारार्थत्वादनुदिशानामपि ग्रहणम् ।
१०
सर्वार्थसिद्धेस्तु पृथग्ग्रहणं जघन्याभावप्रतिपादनार्थम् । तेनायमर्थः, अधोग्रैवेयकेषु प्रथमे
त्रयोविंशतिः, द्वितीये चतुर्विंशतिः, तृतीये पञ्चविंशतिः । मध्यमग्रैवेयेकेषु प्रथमे षड्विं
-
२६१
शतिः द्वितीये सप्तविंशतिः तृतीयेऽष्टाविंशतिः । उपरिमग्रैवेयकेषु प्रथमे एकोनत्रिंशद्
द्वितीये त्रिंशत् तृतीये एकत्रिंशत् । अनुदिशविमानेषु द्वात्रिंशत् । विजयादिषु त्रयस्त्रिं
-
शत्सागरोपमाण्युत्कृष्टा स्थितिः । सवर्थिसिद्धौ
१
त्रयस्त्रिंशदेवेति ।
निर्दिष्टोत्कृष्टस्थितिकेषु देवेषु जघन्यस्थितिप्रतिपादनार्थमाह —
०५
अपरा पल्योपममधिकम् ॥
३३
॥
पल्योपमं व्याख्यातम् । अपरा जघन्या
२
स्थितिः । पल्योपमं साधिकम् । केषाम् ?
सौधर्मैशानीयानाम् । कथं गम्यते ?
‘
परतः तरतः
’
इत्युत्तरत्र वक्ष्यमाणत्वात् ।
तत ऊर्ध्वं जघन्यस्थितिप्रतिपादनार्थमाह —
परतः परतः पूर्वापूर्वाऽनन्तरा ॥
३४
॥
१०
परस्मिन्देशे परतः । वीप्सायां द्वित्वम् ।
‘
पूर्व
’
शब्दस्यापि ।
‘
अधिक
’
ग्रहणमनु
-
१
-
सिद्धेस्त्रय
-
मुº ।
२
जघन्यस्थितिः मुº ।
२६२
वर्तते । तेनैवमभिसम्बन्धः क्रियते — सौधर्मैशानयोर्द्वे सागरोपमे साधिके उक्ते, ते साधिके
सानत्कुमारमाहेन्द्रयोर्जघन्या स्थितिः । सानत्कुमारमाहेन्द्रयोः परा स्थितिः सप्तसागरोप
-
माणि साधिकानि, ता
१
नि साधिकानि ब्रह्मब्रह्मोत्तरयोर्जघन्या स्थितिरित्यादि ।
नारकाणामुत्कृष्टा स्थितिरुक्ता । जघन्यां सूत्रेऽनुपात्तामप्रकृतामपि लघुनोपा
-
०५
येन प्रतिपादयितुमिच्छन्नाह —
नारकाणां च द्वितीयादिषु ॥
३५
॥
‘
च
’
शब्दः किमर्थः ? प्रकृतसमुच्चयार्थः । किं च प्रकृतम् ?
‘
परतः परतः पूर्वापूर्वाऽ
-
नन्तरा
’
अपरा स्थितिरिति । तेनायमर्थो लभ्यते — रत्नप्रभायां नारकाणां परा स्थितिरेकं
सागरोपमम् । सा शर्कराप्रभायां जघन्या । शर्कराप्रभायामुत्कृष्टा स्थितिस्त्रीणि सागरोप
-
१०
माणि । सा वालुकाप्रभायां जघन्येत्यादि ।
एवं द्वितीयादिषु जघन्या स्थितिरुक्ता । प्रथमायां का जघन्येति तत्प्रदर्शनार्थमाह —
दशवर्षसहस्राणि प्रथमायाम् ॥
३६
॥
१
तानि ब्रह्म — मुº, ताº ।
२६३
अपरा स्थितिरित्यनुवर्तते
१
। रत्नप्रभायां दशवर्षसहस्राणि अपरा स्थितिर्वेदितव्या ।
अथ भवनवासिनां का जघन्या स्थितिरित्यत आह —
भवनेषु च ॥
३७
॥
‘
च
’
शब्दः किमर्थः ? प्रकृतसमुच्चयार्थः । तेन भवनवासिनामपरा स्थितिर्दश
-
०५
वर्षसहस्राणीत्यभिसम्बध्यते ।
व्यन्तराणां तर्हि का जघन्या स्थितिरित्यत आह —
व्यन्तराणां च ॥
३८
॥
‘
च
’
शब्दः प्रकृतसमुच्चयार्थः । तेनव्यन्तराणामपरा स्थितिर्दशवर्षसहस्राणीत्यव
-
गम्यते ।
१०
अथैषां परा स्थितिः का इत्यत्रोच्यते —
परा पल्योपममधिकम् ॥
३९
॥
परा उत्कृष्टा स्थितिर्व्यन्तराणां पल्योपममधिकम् ।
इदानीं ज्योतिष्काणां परा स्थितिर्वक्तव्येत्यत आह —
ज्योतिष्काणां च ॥
४०
॥
१
— र्तते । अय भवन — आº, दिº १, दिº २ ।
२६४
‘
च
’
शब्दः प्रकृतसमुच्चयार्थः । तेनैवमभिसम्बन्धः । ज्योतिष्काणां परा स्थितिः
पल्योपममधिकमिति ।
अथापरा कियतीत्यत आह —
तदष्टभागोऽपरा ॥
४१
॥
०५
तस्य पल्योपमस्याष्टभागो ज्योतिष्काणामपरा स्थितिरित्यर्थः ।
अथ लौकान्तिकानां विशेषोक्तानां स्थितिविशेषो नोक्तः । स किया
-
नित्यत्रोच्यते —
लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥
४२
॥
अविशिष्टाः सर्वे ते शुक्ललेश्याः पञ्चहस्तोत्सेधशरीराः ।
१०
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसंज्ञिकायां चतुर्थोऽध्यायः ॥
१
— शरीराः । चतुर्णिकायदेवानां स्थानं भेदः सुखादिकम् । परापरा स्थितिलेश्या तुर्याध्याये निरूपितम् ।
इति तत्त्वा — मुº, दिº १, मिº २, आº ।
२६५
अथ पञ्चमोऽध्यायः
इदानीं सम्यग्दर्शनस्य विषयभावेनोपक्षिप्तेषु जीवादिषु जीवपदार्थों व्याख्यातः ।
अथाजीवपदार्थो विचारप्राप्तस्तस्य संज्ञाभेदसंकीर्तनार्थमिदमुच्यते —
अजीवकाया धर्माधर्माकाशपुद्गलाः ॥
१
॥
०५
‘
काय
’
शब्दः शरीरे व्युत्पादितः इहोपचारादध्यारोप्यते । कुत उपचारः ? यथा शरीरं
पुद्गलद्रव्यप्रचयात्मकं तथा धर्मादिष्वपि प्रदेशप्रचयापेक्षया काया इव काया इति ।
अजीवाश्च ते कायाश्च अजीवकायाः
’
विशेषणं विशेष्येणेति
१
’
वृत्तिः । ननु च नीलोत्पलादिषु
व्यभिचारे सति विशेषणविशेष्ययोगः ? इहापि व्यभिचारयोगोऽस्ति । अजीवशब्दोऽकाये
कालेऽपि वर्तते, कायोऽपि जीवे । किमर्थः कायशब्दः ? प्रदेशबहुत्वज्ञापनार्थः । धर्मादीनां
१
जैनेन्द्रº १ । ३ । ४८ ।
२६६
प्रदेशा बहव इति । ननु च
‘
असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम्
’
इत्यनेनैव प्रदेशबहुत्वं
ज्ञापितम् ? सत्य
१
मिदम् । परं किन्त्वस्मिन्विधौ सति तदवधारणं विज्ञायते, असंख्येया
प्रदेशा न संख्येया नाप्यनन्ता इति । काल
२
स्य प्रदेशप्रचयाभावज्ञापनार्थं च इह
‘
काय
’
—
ग्रहणम् । कालोः वक्ष्यते । तस्य प्रदेशप्रतिषेधार्थमिह
‘
काय
’
ग्रहणम् । यथाऽणोः प्रदेशमा
-
०५
त्रत्वाद् द्वितीयादयोऽस्य
३
प्रदेशा न सन्तीत्यप्रदेशोऽणुः तथा कालपरमाणुरप्येकप्रदेशत्वाद
-
प्रदेश इति । तेषां धर्मादीनाम्
‘
अजीव
’
इति सामान्यसञ्ज्ञा जीवलक्षणाभावमुखेन
प्रवृत्ता ।
‘
धर्माधर्माकाश
४
पुद्गलाः
’
इति विशेषसञ्ज्ञाः सामयिक्यः ।
अत्राह,
‘
सर्वद्रव्यपर्यायेषु केवलस्य
’
इत्येवमादिषु द्रव्याण्युक्तानि, कानि तानीत्युच्यते —
द्रव्याणि ॥
२
॥
१०
यथास्वं पर्यायैर्द्रूयन्ते द्रवन्ति वा तानि इति द्रव्याणि । द्रव्यत्वयोगाद् द्रव्यमिति
१
सत्यं अस्मिन् ता, ना. ।
२
कालप्रदेश — आ., दि. १, दि. २ ।
३
योऽस्य न मु. ।
४
धर्मोऽधर्म
आकाशं पुद्गलाः इति आ., दि. १, दि. २ ।
२६७
चेत् ? न; उभयासिद्धेः । यथा दण्डदण्डिनोर्योगो भवति पृथक्सिद्धयोः, न च तथा
द्रव्यद्रव्यत्वे पृथक्सिद्धे स्तः । यद्यपृथक्सिद्धयोरपि योगः स्यादाकाशकुसुमस्य प्रकृत
१
पु
-
रुषस्य द्वितीयशिरसश्च योगः स्यादिति । अथ पृथक्सिद्धिरभ्युपगम्यते, द्रव्यत्वकल्पना
निरर्थिका । गुणसमुदायो
२
द्रव्यमिति चेत् ? तत्रापि गुणानां समुदायस्य च भेदाभावे
०५
त
३
द्व्यपदेशो नोपपद्यते । भेदाभ्युपगमे च पूर्वोक्त एव दोषः । ननु गुणान्द्रव
४
न्ति गुणैर्वा द्रूयन्त
५
इति विग्रहेऽपि स एव दोष इति चेत् ? न; कथञ्चिद्भेदाभेदोपपत्तेस्तद्व्यपदेशसिद्धिः ।
व्यतिरेकेणानुपलब्धेरभेदः संज्ञालक्षणप्रयोजनादिभेदाद् भेद इति । प्रकृता धर्मादयो बहव
-
स्तत्सामानाधिकरण्याद् बहुत्वनिर्देशः । स्यादेतत्संख्यानुवृत्तिवत्पुल्लिङ्गानुवृत्तिरपि
प्राप्नोति ? नैष दोषः; आविष्टलिङ्गाः शब्दा न कदाचिल्लिङ्गं व्यभिचरन्ति
६
। अतो
१०
धर्मादयो द्रव्याणि भवन्तीति ।
१
प्रकृतपुरुषद्वितीय — आ., दि. १, दि. २, ता. । प्रकृतिपुरुषस्य द्वितीय — मु.
२
गुणसंद्रावो द्रव्य — आ.,
दि. १, दि. २, ता., ना. ।
३
तद्द्रव्यव्यप — मु.,
४
द्रवति आ., दि. १, दि. २ ।
५
द्रूयते आ., दि. १,
दि. २ ।
६
चरन्ति, अनन्तरत्वात् ता., ना. ।
२६८
अनन्तरत्वाच्चतुर्णामेव द्रव्यव्यपदेशप्रसङ्गेऽध्यारोपणार्थमिदमुच्यते —
जीवाश्च ॥
३
॥
‘
जीव
’
शब्दो — व्याख्यातार्थः । बहुत्वनिर्देशो व्याख्यातभेदप्रतिपत्त्यर्थः ।
‘
च
१
’
शब्दः
द्रव्यसञ्ज्ञानुकर्षणार्थः जीवाश्च द्रव्याणीति । एवमेतानि वक्ष्यमाणेन कालेन सह षड्
०५
द्रव्याणि भवन्ति । ननु द्रव्यस्य लक्षणं वक्ष्यते
‘
गुणपर्ययवद् द्रव्यम्
’
इति । तल्लक्षणयोगा
-
द्धर्मादीनां द्रव्य
२
व्यपदेशो भवति, नार्थः परिगणनेन ? परिगणनमवधारणार्थम् ।
तेनान्यवादिपरिकल्पितानां पृथिव्या
३
दीनां निवृत्तिः कृता भवति । कथम् ? पृथिव्यप्ते
-
जोवायुमनांसि पुद्गलद्रव्येऽन्तर्भवन्ति; रूपरसगन्धस्पर्शवत्त्वा
४
त् । वायुमनसो रूपादियोगा
-
भाव इति चेत् ? न; वायुस्तावद्रूपादिमान्; स्पर्शवत्त्वाद्धटादिवत् । चक्षुरादिकरण
-
१
च शब्दः संज्ञा — मु. ।
२
द्रव्यत्वव्यप — मु. ।
३
‘
पृथिव्यापस्तेजोवायुराकाशं कालो दिगात्मा
१०
मन इति द्रव्याणि ।
’
— वै. सू. १ । १, ५ ।
४
— त्त्वाच्चक्षुरिन्द्रियवत् । वायु — मु., ता., ना. ।
२६९
ग्राह्यत्वाभावाद्रूपाद्यभाव इति
१
चेत् ? न; परमाण्वादिष्वतिप्रसङ्गः स्यात् । आपो गन्ध
-
वत्यः; स्पर्शवत्त्वात्पृथिवीवत् । तेजोऽपि रसगन्धवद्; रूपवत्त्वात् तद्वदेव । मनोऽपि
द्विविधं द्रव्यमनो भावमनश्चेति । तत्र भावमनो ज्ञानम्; तस्य जीवगुणत्वादात्मन्यन्तर्भावः ।
द्रव्यमनश्च रूपादियोगात्पुद्गलद्रव्यविकारः । रूपादिवन्मनः; ज्ञानोपयोगकरणत्वाच्चक्षु
-
०५
रिन्द्रियवत् । ननु अमूर्तेऽपि शब्दे ज्ञानोपयोगक
२
रणत्वदर्शनाद् व्यभिचारी हेतुरिति
चेत् ? न; तस्य पौद्गलिकत्वान्मूर्तिमत्त्वोपपत्तेः । ननु यथा परमाणूनां रूपादिमत्कार्य
३
-
दर्शनाद्रृपादिमत्त्वं न तथा वायुमनसो रूपादिमत्कार्यं दृश्यते
४
इति चेत् ? न्; तेषामपि
तदु
५
पपत्तेः । सर्वेषां परमाणूनां सर्वरूपादिमत्कार्यत्वप्राप्तियोग्यत्वाभ्युपगमात् । न च
केचित्पार्थिवादिजातिविशेषयुक्ताः परमाणवः सन्ति; जातिसंकरेणारम्भदर्शनात् ।
१०
दिशोऽप्याकाशेऽन्तर्भावः; आदित्योदयाद्यपेक्षया आकाशप्रदेशपङ्क्तिषु इत इदमिति
व्यवहारोपपत्तेः ।
१
इति चेत्पर — मु., आ., दि. १, दि. २ ।
२
— योगकारणत्व — मु. ।
३
— कार्यत्वदर्श — मु. ।
४
दृश्यते न तेषा — आ., दि. १, दि. २ ।
५
तदुत्पत्तेः मुº ।
२७०
उक्तानां द्रव्याणां विशेषप्रतिपत्त्यर्थमाह —
नित्यावस्थितान्यरूपाणि ॥
४
॥
नित्यं ध्रुवमित्यर्थः ।
‘
ने
१
र्ध्रुवे त्यः
२
’
इति निष्पादितत्वात् । धर्मादीनि द्रव्याणि
गतिहेतुत्वादिविशेषलक्षणद्रव्यार्थादेशादस्तित्वादिसामान्यलक्षणद्रव्यार्थादेशाच्च कदाचि
-
०५
दपि न व्ययन्तीति नित्यानि । वक्ष्यते हि
‘
तद्भावाव्ययं नित्यम्
’
इति । इयत्ताऽव्यभि
-
१
नि ध्रुवे नित्य इति आ., दि. १, दि. २ । नेर्ध्रुवेऽर्थे त्यः ता. ।
२
‘
त्यब्नेर्ध्रुव इति वक्तव्यम्
’
— पा. ४, २,
१०४
‘
वार्तिकम् । नेर्ध्रुवे
’
— जैनेन्द्र. ३, २, ८२ वार्तिकम् ।
२७१
चारादवस्थितानि । धर्मादीनि षडपि द्रव्याणि कदाचिदपि षडिति इयत्त्वं नातिवर्तन्ते ।
ततोऽवस्थितानीत्युच्यन्ते । न विद्यते रूपमेषामित्यरूपाणि, रूपप्रतिषेधे
१
तत्सहचारिणां
रसादीनामपि प्रतिषेधः । तेन अरूपाण्यमूर्तानीत्यर्थः ।
यथा सर्वेषां द्रव्याणां
‘
नित्यावस्थितानि
’
इत्येतत्साधारणं लक्षणं
२
प्राप्तं तथा पुद्गला
-
०५
नामपि अरूपित्वं प्राप्तम् । अतस्तदपवादार्थमाह —
रूपिणः पुद्गलाः ॥
५
॥
रूपं मूर्तिरित्यर्थः । का मूर्तिः ? रूपादिसंस्थानपरिणामो मूर्तिः । रूपमेषामस्तीति
रूपिणः । मूर्तिमन्त इत्यर्थः । अथवा रूपमिति गुणविशेषवचनश
३
ब्दः । तदेषामस्तीति
रूपिणः । रसाद्यग्रहणमिति चेत् ? न; तदविनाभावात्तदन्तर्भावः ।
‘
पुद्गलाः
’
इति बहुवचनं
१०
भेदप्रतिपादनार्थम् । भिन्ना हि पुद्गलाः; स्कन्धपरमाणुभेदात् । तद्विकल्प उपरिष्टाद्वक्ष्यते ।
यदि प्रधानवदरूपत्वमेकत्वं चेष्टं स्यात्, विश्वरूपकार्यदर्शनविरोधः स्यात् ।
आह, किं पुद्गलवद्धर्मादीन्यपि द्रव्याणि प्रत्येकं भिन्नानीत्यत्रोच्यते —
१
— षेधेन तत्सह — मु. ।
२
लक्षणं तथा अरूपित्वं पुद्गलानामपि प्राप्तम् मु. ।
३
शब्दः । तेषा — आ.,
दि. १, दि. २ ।
२७२
ā
१
आकाशादेकद्रव्याणि ॥
६
॥
‘
आङ्
’
अयमभिविध्यर्थः । सौत्रीमानुपूर्वी
२
मासृत्यैतदुक्तम् । तैन धर्माऽधर्माकाशानि
गृह्यन्ते ।
‘
एक
’
शब्दः संख्यावचनः । तेन द्रव्यं विशिष्यते, एकं द्रव्यं एकद्रव्यमिति । यद्येवं
बहुवचनमयुक्तम्, धर्माद्यपेक्षया बहुत्वसिद्धिर्भवति । न
३
नु एकस्यानेकार्थप्रत्यायनशक्तियो
-
०५
गादेकैकमित्यस्तु; लघुत्वाद् ।
‘
द्रव्य
’
ग्रहणमनर्थकम् ?
[सत्यम्
४
;]
तथापि द्रव्यापेक्षया एक
-
त्वख्यापनार्थं द्रव्यग्रहणम् । क्षेत्रभावा
५
द्यपेक्षया असंख्येयत्वानन्तत्वविकल्पस्येष्टत्वान्न
जीवपुद्गलवदेषां बहुत्वमित्येतदनेन ख्याप्यते ।
अधिकृतानामेव एकद्रव्याणां विशेषप्रतिपत्त्यर्थमिदमुच्यते —
निष्क्रियाणि च ॥
७
॥
१०
उभयनिमित्तवशादुत्पद्यमानः पर्यायो द्रव्यस्य देशान्तरप्राप्तिहेतुः क्रिया । तस्या
१
—
‘
ईषदर्थे क्रियायोगे मर्यादाभिविधौ च यः । एतमातं ङितं विद्याद् वाक्यस्मरयोरङित् ।
’
२
— पूर्वी
-
मनुसृत्यै — मु. ।
३
— वति । एक — आ. दि. १, दि. २ ।
४
— र्थकं । तत्क्रियते द्रव्या — ता. ना. । — र्थकं ।
तज्ज्ञायते द्रव्या — आ. दि. १, दि. २ ।
५
— भावापेक्षया आ., ता., ना., दि. १, दि. २ ।
२७३
निष्क्रान्तानि निष्क्रियाणि । अत्र चोद्यते — धर्मादीनि द्रव्याणि यदि निष्क्रियाणि
ततस्तेषामुत्पादो न भवेत् । क्रियापूर्वको हि घटादीनामुत्पादो दृष्टः । उत्पादाभावाच्च
व्ययाभाव इति । अतः सर्वद्रव्याणामुत्पादादित्र
१
तयकल्पनाव्याघात इति ? तन्न; किं
कारणम् ? अन्यथोपपत्तेः । क्रियानिमित्तोत्पादाभावेऽप्येषां धर्मादीनामन्यथोत्पादः
०५
कल्प्यते । तद्यथा — द्विविध उत्पादः स्वनिमित्तः परप्रत्ययश्च । स्वनिमित्तस्तावदनन्ता
-
नामगुरुलघुगुणानामागमप्रामा
२
ण्यादभ्युपगम्यमानानां षट्स्थानपतितया वृद्ध्या हान्या च
प्रवर्तमानानां स्वभावादेतेषामुत्पादो व्ययश्च । परप्रयत्योऽपि अश्वादिगतिस्थित्यवगाहन
-
हेतुत्वात्क्षणे क्षणे तेषां भेदात्तद्धेतुत्वमपि भिन्नमिति परप्रत्ययापेक्ष उत्पादो विनाशश्च
व्यवह्रियते । ननु यदि निष्क्रियाणि धर्मादीनि, जीवपुद्गलानां गत्यादिहेतुत्वं नोपपद्यते ।
१०
जलादीनि हि क्रियावन्ति मत्स्यादीनां गत्यादिनिमित्तानि दृष्टानीति ? नैष दोषः;
बलाधाननिमित्तत्वाच्चक्षुर्वत् । यथा रूपोपलब्धौ चक्षुर्निमित्त
३
मिति न व्याक्षिप्तमनस्क
-
स्यापि भवति । अधिकृतानां धर्माधर्माकाशानां निष्क्रियत्वेऽभ्युपगते जीवपुद्गलानां सक्रि
-
१
— दादित्रयकल्प — मु. ।
२
— गमप्रमाणादभ्यु — आ., दि. १, दि. २ ।
३
— र्निमित्तमपि न मु., ता., ना. ।
२७४
यत्वमर्थादापन्नम् । कालस्यापि सक्रियत्वमिति चेत् ? न; अनधिकारात् । अत एवा
-
सावेतैः सह नाधिक्रियते ।
अजीवकाया इत्यत्र कायग्रहणेन प्रदेशास्तित्वमात्रं निर्ज्ञातं न त्वियत्तावधारिता प्रदे
-
शानामतस्तन्निर्धारणार्थमिदमुच्यते —
०५
असंख्येयाः प्रदेशा धर्माधमै कजीवानाम् ॥
८
॥
संख्यामतीता असंख्येयाः । असंख्येयस्त्रिविधः — जघन्य उत्कृष्टोऽजघन्योत्कृष्टश्चेति ।
तत्रेहाजघन्योत्कृष्टासंख्येयः परिगृह्यते । प्रदिश्यन्त इति प्रदेशाः । वक्ष्यमाणलक्षणः
परमाणुः स यावति क्षेत्रे व्यवतिष्ठते स प्रदेश इति व्यवह्रियते । धर्माधर्मैकजीवास्तुल्या
-
संख्येयप्रदेशाः । तत्र धर्माधर्मौ निष्क्रियौ लोकाकाशं व्याप्य स्थितौ । जीवस्तावत्प्रदेशोऽपि
१०
सन् संहरणविसर्पणस्वभावत्वात्कर्मनिर्वर्तितं शरीरमणु महद्वाऽधितिष्ठंस्तावदवगाह्य
वर्ते । यदा तु लोकपूरणं भवति तदा मन्दरस्याधश्चित्रवज्रपटलमध्ये जीवस्याष्टौ मध्य
-
प्रदेशा व्यवतिष्ठन्ते । इतरे प्रदेशा ऊर्ध्वमधस्तिर्यक् च कृत्स्नं लोकाकाशं व्यश्नुवते ।
२७५
अथाकाशस्य कति प्रदेशा इत्यत आह —
आकाशस्यानन्ताः
१
॥
९
॥
अविद्यमानोऽन्तो येषां ते अनन्ताः । के ? प्रदेशाः । कस्य ? आकाशस्य । पूर्वव
-
दस्यापि प्रदेशकल्पनाऽवसेया ।
०५
उक्तममूर्तानां प्रदेशपरिमाणम् । इदानीं मूर्तानां पुद्गलानां प्रदेशपरिमाणं
निर्ज्ञातव्यमित्यत आह —
संख्येयाऽसंख्येयाश्च पुद्गलानाम् ॥
१०
॥
‘
च
’
श
२
ब्दादनन्ताश्चेत्यनुकृष्यते । कस्यचित्पुद्गलद्रव्यस्य द्व्यणुकादेः संख्येयाः प्रदेशाः
कस्यचिदसंख्येया अनन्ताश्च । अनन्तानन्तोपसंख्यानमिति चेत् ? न; अनन्तसामान्यात् ।
१०
अनन्तप्रमाणं त्रिविधमुक्तं परीतानन्तं युक्तानन्तमनन्तानन्तं चेति । तत्सर्वमनन्तसामा
-
न्येन गृह्यते । स्यादेतदसंख्यातप्रदेशो लोकः अनन्तप्रदेशस्यानन्तानन्तप्रदेशस्य च
१
— नन्ताः ॥
९
॥ लोकेऽलोके चाकाशं वर्तते । अवि — मु. ।
२
चशब्देनानन्ता — मु., ता., ना. ।
२७६
स्कन्धस्याधिकरणमिति विरोधस्ततो नानन्त्यमिति ? नैष दोषः; सूक्ष्मपरिणामावगाहन
-
शक्तियोगात् । परमाण्वादयो हिसूक्ष्मभावेन परिणता एकैकस्मिन्नप्याकाशप्रदेशेऽनन्तानन्ता
अवतिष्ठन्ते, अवगाहनशक्तिश्चैषामव्याहताऽस्ति । तस्मादेकस्मिन्नपि प्रदेशे अनन्ता
-
नन्तानामवस्थानं न विरुध्यते ।
०५
‘
पुद्गलानाम्
’
इत्यविशेषवचनात्परमाणोरपि प्रदेशवत्त्वप्रसङ्गे तत्प्रतिषेधार्थमाह —
नाणोः ॥
११
॥
अणोः
‘
प्रदेशा न सन्ति
’
इति वाक्यशेषः । कुतो न सन्तीति चेत् ? प्रदेशमात्रत्वात् ।
यथा आकाशप्रदेशस्यैकस्य प्रदेशभेदाभावादप्रदेशत्वमेवमणोरपि प्रदेशमात्रत्वात्प्रदेशभे
-
दाभावः । किं च ततोऽल्पपरिमाणाभावात् । न ह्यणोरल्पीयानन्योऽस्ति, यतोऽस्य
१०
प्रदेशा भिद्येरन् ।
एषामवधृतप्रदेशानां धर्मादीनामाधारप्रतिपत्त्यर्थमिदमुच्यते —
लोकाकाशेऽवगाहः ॥
१२
॥
२७७
उक्तानां धर्मादीनां द्रव्याणां लोकाकाशेऽवगाहो न बहिरित्यर्थः । यदि धर्मादीनां
लोकाकाशमाधारः, आकाशस्य क आधार इति ? आकाशस्य नास्त्यन्य आधारः ।
स्वप्रतिष्ठमाकाशम् । यद्याकाशं स्वप्रतिष्ठम्; धर्मादीन्यपि स्वप्रतिष्ठान्येव । अथ धर्मा
-
दीनामन्य आधारः कल्प्यते, आकाशस्याप्यन्य आधारः कल्प्यः । तथा सत्यनवस्थाप्रसङ्ग
०५
इति चेत् ? नैष दोषः; नाकाशादन्यदधिकपरिमाणं द्रव्यमस्ति यत्राकाशं स्थितमि
-
त्युच्येत । सर्वतोऽनन्तं हितत्
१
। धर्मादीनां पुनरधिकरणमाकाशमित्युच्यते व्यवहारनय
-
वशात् । एवम्भूतनयापेक्षया तु सर्वाणि द्रव्याणि स्वप्रतिष्ठान्येव । तथा चोक्तम्,
’
क्व
भवानास्ते ? आत्मनि
’
इति । धर्मादीनि लोकाकाशान्न बहिः सन्तीत्येतावदत्राधाराधेयक
-
ल्पनासाध्यं फलम् । ननु च लोके पूर्वोत्तरकालभाविनामाधाराधेयभावो दृष्टो यथा
१०
कुण्डे बदरादीनाम् । न तथाऽऽकाशं पूर्वं धर्मादीन्युत्तरकालभावीनि; अतो व्यवहार
-
नयापेक्षयाऽपि आधाराधेयकल्पनानुपपत्तिरिति ? नैष दोषः; युगपद्भाविनामपि
आधाराधेयभावो दृश्यते । घटे रूपादयः शरीरे हस्तादय इति ।
१
तत् । ततो धर्मा — ता., ना. मु. ।
२७८
लोक इत्युच्यते । को लोकः ? धर्माधर्मादीनि द्रव्याणि यत्र लोक्यन्ते स लोक इति ।
a
१
धिकरणसाधनो घञ् । आकाशं द्विधा विभक्तं लोकाकाशमलोकाकाशं चेति । लोक
उक्तः । स यत्र तल्लोकाकाशम् । ततो बहिः सर्वतोऽनन्तमलोकाकाशम् । लोकालोक
-
विभागश्च धर्माधर्मास्तिका
२
यसद्भावासद्भावाद्विज्ञेयः । असति हि तस्मिन्धर्मास्तिकाये
०५
जीवपुद्गलानां गतिनियमहेत्वभावाद्विभागो न स्यात् । असति चाधर्मास्तिकाये स्थितेरा
-
श्रयनिमित्ताभावात् स्थि
३
तेरभावो लोकालोकविभागाभावो वा स्यात् । तस्मादुभयसद्
-
भावा
४
सद्भावाल्लोकालोकविभागसिद्धिः ।
तत्रावध्रियमाणानामवस्थानभेदसम्भवाद्विशेषप्रतिपत्त्यर्थमाह —
धर्माधर्मयोः कृत्स्ने ॥
१३
॥
१०
कृत्स्नवचनमशेषव्याप्तिप्रदर्शनार्थम् । अगारेऽस्थितो घट इति यथा तथा धर्माधर्म
-
योर्लोकाकाशेऽवगाहो न भवति । किं तर्हि ? कृत्स्ने तिलेषु तैलवदिति । अन्योन्यप्रदेशप्र
-
वेशव्याघाताभावः अवगाहनशक्तियोगाद्वेदितव्यः ।
१
‘
हलः
’
जैनेन्द्र. २ । ३ । ११८ ।
‘
हलश्च
’
पाषिनि. ३ । ३ । १२१ ।
२
— कायसद्भावाद्वि — मु. ।
३
— रभावः ।
तस्या अभावे लोका — मु., ता., ना. ।
४
— भयसद्भावाल्लोका — मु. ।
२७९
अतो विपरीतानां मूर्तिमता
१
मप्रदेशसंख्येयासंख्येयानन्तप्रदेशानां पुद्गलानामवगाहवि
-
शेषप्रतिपत्त्यर्थमाह —
एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥
१४
॥
e
२
कः प्रदेश एकप्रदेशः । एकप्रदेश आदिर्येषां त इमे एकप्रदेशादयः । तेषु पुद्ग
-
०५
लानामवगाहो भाज्यो विकल्प्यः ।
’
अवयवेन विग्रहः समुदायः समासाथः
३
’
इति एक
-
प्रदेशोऽपि गृह्यते । तद्यथा — एकस्मिन्नाकाशप्रदेशे परमाणोरवगाहः । द्वयोरेकत्रोभयत्र
च बद्धयोरबद्धयोश्च । त्रयाणा
४
मप्येकत्र द्वयोस्त्रिषु च बद्धानामबद्धानां च । एवं संख्ये
-
यासंख्येयानन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेषु लोकाकाशेऽवस्थानं प्रत्येत
-
व्यम् । ननु युक्तं तावदमूर्त्तयोर्धर्माधर्मयोरेकत्राविरोधेनावरोध इति । मूर्तिमतां
१०
पुद्गलानां कथम् ? इत्यत्रोच्यते — अवगाहनस्वभावत्वात्सूक्ष्मपरिणामाच्च मूर्तिमतामप्यव
-
गाहो न विरुध्यते एकापवरके अनेकदीपप्रकाशावस्थानवत् । आगमप्रामाण्याच्च तथाऽध्य
-
वसेयम् । तदुक्तम् —
१
— मतामेकप्रदे — मु. ।
२
एक एव प्रदेशः मु. ।
३
पा. म. भा. २, २, २, २४,
४
— याणा
-
मेकत्र मु., ता. ।
२८०
’
ओगाढगाढणिचिओ पुग्गलकाएहि सव्वदो लोगो ।
सुहुमेहिं बादरेहिं अणंताणंतेहिं विवहेहिं
१
॥
’
अथ जीवानां कथमवगाहनमित्यत्रोच्यते —
असंख्येयभागादिषु जीवानाम् ॥
१५
॥
०५
‘
लोकाकाशे
’
इत्यनुवर्तते । तस्यासंख्येयभागीकृतस्यैको भागोऽसंख्येयभाग इत्युच्यते ।
स आदिर्येषां तेष्संख्येयभागादयः । तेषु जीवानामवगाहो वेदितव्यः । तद्यथा — एक
-
स्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते । एवं द्वित्रिचतुरादिष्वपि असंख्येयभागेषु आ
सर्वलोकादवगाहः प्रत्येतव्यः । नानाजीवानां तु सर्वलोक एव । यद्येकस्मिन्नसंख्येयभागे
एको जीवोऽवतिष्ठते, कथं द्रव्यप्रमाणेनानन्तानन्तो जीवराशिः सशरीरोऽवतिष्ठते
१०
लोकाकाशे ? सूक्ष्मबादरभेदादवस्थानं प्रत्येतव्यम् । बादरास्तावत्सप्रतिघातशरीराः ।
सूक्ष्मास्तु सश
२
रीरा अपि सूक्ष्मभावादेवैकनिगोदजीवावगा ह्येऽपि प्रदेशे साधारणश
-
रीरा अनन्तानन्ता वसन्ति । न ते परस्परेण बादरैश्च व्याहन्यन्त इति नास्त्यवगाहविरोधः ।
अत्राह लोकाकाशतुल्यप्रदेश एकजीव इत्युक्तम्, तस्य कथं लोकस्यासंख्येयभागादिषु
वृत्तिः ? ननु सर्वलोकव्याप्त्यैव भवितव्यमित्यत्रोच्यते —
१
पंचत्थिº गाº ६४ ।
२
सशरीरत्वेऽपि आ., दि. १, दि. २ ।
३
— वगाहेऽपि मु. ।
२८१
प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥
१६
॥
अमूर्तस्वभावस्यात्मनोऽनादिबन्धं प्रत्येकत्वात् कथञ्चिन्मूर्ततां बिभ्रतः कार्मणशरी
-
रवशान्महदणु च शरीरमधितिष्ठतस्तद्वशात्प्रदेशसंहरणविसर्पणस्वभावस्य तावत्प्रमाण
-
तायां सत्यामसंख्येयभागादिषु वृत्तिरुपपद्यते, प्रदीपवत् । यथा निरावरणव्योमप्रदेशेऽनव
१
०५
धृतप्रकाशपरिमाणस्य प्रदीपस्य शरावमणिकापवरकाद्यावरणवशात्तत्परिमाणतेति ।
अत्राह धर्मादीनामन्योन्यप्रदेशानुप्रवेशात्संकरे
२
सति, एकत्वं प्राप्नोतीति ? तन्न; पर
-
स्परमत्यन्तसंश्लेषे सत्यपि स्वभावं न जहति । उक्तं च —
’
अण्णोण्णं
४
पविसंता दिंता ओगासमण्णमण्णस्स ।
मेलंता वि य णिच्चं सगसब्भावं ण जहंति ।
’
१०
यद्येवं धर्मादीनां स्वभावभेद उच्यतामित्यत आह —
गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥
१७
॥
देशान्तरप्राप्तिहेतुर्गतिः । तद्विपरीता स्थितिः । उपगृह्यत इत्युपग्रहः । गतिश्च
१
— देशेऽवधृ — ता. ना. ।
२
पंचत्थि. गा. ७ ।
२८२
स्थितिश्च गतिस्थिती । गतिस्थिती एव उपग्रहौ गतिस्थित्युपग्रहौ । धर्माधर्मयोरिति
कर्तृनिर्देशः । उपक्रियत इत्युपकारः । कः पुनरसौ ? गत्युपग्रहः स्थित्युपग्रहश्च । यद्येवं
द्वित्वनिर्देशः प्राप्नोति ? नैष दोषः; सामान्येन व्युत्पादितः
१
शब्द उपात्तसंख्यः शब्दान्त
-
रसम्बन्धे सत्यपि न पूर्वोपात्तां संख्यां जहाति । यथा —
’
साधोः कार्यं तपःश्रुते
’
इति ।
०५
एतदुक्तं भवति — गतिपरिणामिनां जीवपुद्गलानां गत्युपग्रहे कर्तव्ये धर्मास्तिकायः
साधारणाश्रयो जलवन्मत्स्यगमने । तथा स्थितिपरिणामिनां जीवपुद्गलानां स्थित्युप
-
ग्रहे कर्तव्ये अधर्मास्तिकायः साधारणाश्रयः पृथिवीधातुरिवाश्वादिस्थिताविति ।
ननु च
‘
उपग्रह
’
वचनमनर्थकम्
‘
उपकारः
’
इत्येवं
२
सिद्धत्वात् ।
‘
गतिस्थिती धर्मा
-
धर्मयोरुपकारः
’
इति ? नैष दोषः; याथासंख्यनिवृत्त्यर्थम्
‘
उपग्रह
’
वचनम् । धर्माधर्मयोर्ग
-
१०
तिस्थित्योश्च यथासंख्यं भवति, एवं जीवपुद्गलानां यथासंख्यं प्राप्नोति धर्मस्योपकारो
जीवानां गतिः अधर्मस्योपकारः पुद्गलानां स्थितिरिति । तन्निवृत्त्यर्थमुपग्रहवचनं क्रियते ।
१
— दितः उपात्त — ता., ना., मु. ।
२
इत्येव सिद्ध — ता. ।
२८३
आह धर्माधर्मयोर्य उपकारः स आकाशस्य युक्तः; सर्वगतत्वादिति चेत् ? तदयुक्तम्;
तस्यान्योपकारसद्भावात् । सर्वेषां धर्मादीनां द्रव्याणामवगाहनं तत्प्रयोजनम् । एक
-
स्यानेकप्रयोजनकल्पनायां लोकालोकविभागाभावः । भूमिजलादीन्येव तत्प्रयोजनसम
-
र्थानि नार्थो धर्माधर्माभ्यामिति चेत् ? न; साधारणाश्रय इति विशिष्योक्तत्वात् । अनेकका
-
०५
रणसाध्यत्वाच्चैकस्य कार्यस्य ।
तुल्यबलत्वात्तयोर्गतिस्थितिप्रतिबन्ध इति चेत् ? न; अप्रेरकत्वात् । अनुपलब्धेर्न
तौ स्तः खरविषाणवदिति चेत् ? न; सर्व
१
प्रवाद्यविप्रतिपत्तेः । सर्वे हि
२
प्रवादिनः प्रत्यक्षा
-
प्रत्यक्षानर्थानभिवाञ्छन्ति । अस्मान्प्रति हेतोरसिद्धेश्च । सर्वज्ञेन निरतिशयप्रत्यक्षज्ञान
-
चक्षुषा धर्मादयः सर्वे उपलभ्यन्ते । तदुपदेशाच्च श्रुतज्ञानिभिरपि ।
१०
अत्राह, यद्यतीन्द्रिययोर्धर्माधर्मयोरुपकारसम्बन्धेनास्तित्वमवध्रियते, तदनन्तरमु
-
द्दिष्टस्य नभसोऽतीन्द्रियस्याधिगमे क उपकार इत्युच्यते —
१
— प्रतिवाद्य — ता., ना. ।
२
प्रतिवादिनः ता., ना. ।
२८४
आकाशस्यावगाहः ॥
१८
॥
‘
उप
१
कारः
’
इत्यनुवर्तते । जीवपुद्गलादीनामवगाहिनामवकाशदानमवगाह
आकाशस्योपकारो वेदितव्यः । आह, जीवपुद्गलानां क्रियावतामवगाहिनामवकाशदानं
युक्तम् । धर्मास्तिकायादयः पुनर्निष्क्रिया नित्यसम्बन्धास्तेषां कथमवगाह इति चेत् ?
०५
न; उपचारतस्तत्सिद्धेः । यथा गमनाभावेऽपि
‘
सर्वगतमाकाशम्
’
इत्युच्यते; सर्वत्र
सद्भावात्, एवं धर्माधर्मावपि अवगाहक्रियाभावेऽपि सर्वत्र व्याप्तिदर्शनादवगाहिनावित्यु
-
पचर्येते । आह यद्यवकाशदानमस्य स्वभावो वज्रादिभिर्लोष्टादीनां भित्त्यादिभिर्गवादीनां
च व्याघातो न प्राप्नोति । दृश्यते च व्याघातः । तस्मादस्यावकाशदानं हीयते इति ?
नैष दोषः; वज्रलोष्टादीनां स्थूलानां परस्परव्याघात इति नास्यावकाशदानसामर्थ्यं
१०
हीयते; तत्रावगाहिनामेव व्याघातात् । वज्रादयः पुनः स्थूलत्वात्परस्परं प्रत्यवका
-
शदानं न कुर्वन्तीति नासावाकाशदोषः । ये खलु पुद्गलाः सूक्ष्मास्ते
२
परस्परं
१
उपकार इति वर्तते आ., ता., ना. ।
२
— स्तेऽपि परस्प — आ., दि. १, दि. २ ।
२८५
प्रत्यवकाशदानं कुर्वन्ति । यद्येवं नेदमाकाशस्यासाधरणं लक्षणम्; इ
१
तरेषामपि
तत्सद्भावादिति ? तन्न; सर्वपदार्थानां साधारणावगाहनहेतुत्वमस्यासाधारणं
लक्षणमिति नास्ति दोषः । अलोकाकाशे तद्भावादभाव इति चेत्; न; स्वभावापरित्यागात् ।
उक्त आकाशस्योपकारः । अथ तदनन्तरोद्दिष्टानां पुद्गलानां क उपकार इत्यत्रोच्यते —
०५
शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥
१९
॥
इदमयुक्तं वर्तते । किमत्रायुक्तम् ? पुद्गलानां क उपकार इति परिप्रश्ने पुद्गलानां
लक्षणमुच्यते
२
; शरीरादीनि पुद्गलमयानीति ? नैतदयुक्तम्; पुद्गलानां लक्षणमुत्तरत्र
३
वक्ष्यते । इदं तु जीवान् प्रति पुद्गलानामुपकारप्रतिपादनार्थमेवेति उपकारप्रकरणे
उच्यते ।
१०
शरीराण्युक्तानि । औदारिकादीनि सौक्ष्म्यादप्रत्यक्षाणि । तदुदयापादित
४
वृत्तीन्यु
-
पचयशरीराणि कानिचित्प्रत्यक्षाणि कानिचिदप्रत्यक्षाणि । एतेषां कारणभूतानि कर्मा
-
१
क्षणमिति परे — आ., दि. १, दि. २ ।
२
— च्यते भवता शरी — मु. ।
३
— रत्र स्पर्शरसगन्धवर्ण
-
वन्तः पुद्गलाः इत्यत्र वक्ष्यते मु. ।
४
— पादित(तदुदयोपपादित)वृत्ती — मु. ।
२८६
ण्यपि शरीरग्रहणेन गृह्यन्ते । एतानि पौद्गलिकानीति कृत्वा जीवानामुपकारे पुद्
-
गलाः प्रवर्तन्ते । स्यान्मतं कार्मणमपौद्गलिकम्; अनाकारत्वाद्
१
। आकारवतां हि औ
-
दारिकादीनां पौद्गलिकत्वं युक्तमिति ? तन्न; तदपि पौद्गलिकमेव; तद्विपाकस्य
मूर्तिमत्सम्बन्धनिमित्तत्वात् । दृश्यते हि ब्रीह्यादीनामुदकादिद्रव्यसम्बन्धप्रापितपरि
-
०५
पाकानां पौद्गलिकत्वम् । तथा कार्मणमपि गुडकण्टकादिमूर्तिमद्द्रव्योपनिपाते सति
विपच्यमानत्वात्पौद्गलिकमित्यवसेयम् ।
वाग् द्विविधा द्रव्यवाग् भाववागिति । तत्र भाववाक् तावद्वीर्यान्तरायमतिश्रुतज्ञा
-
नावरणक्षयोपशमाङ्गोपाङ्गनामलाभनिमित्तत्वात् पौद्गलिकी । तदभावे तद्वृत्त्यभावात् ।
तत्सामर्थ्योपेतेन क्रियावताऽऽत्मना प्रेर्यमाणाः पुद्गला वाक्त्वेन विपरिणमन्त इति द्रव्य
-
१०
वागपि पौद्गलिकी; श्रोत्रेन्द्रियविषयत्वात् । इतरेन्द्रियविषया कस्मान्न भवति ?
तद्ग्रहणायोग्यत्वात् । ध्राणग्राह्ये गन्धद्रव्ये रसाद्यनुपलब्धिवत् । अमूर्ता वागिति चेत् ?
न; मूर्तिमद्ग्रहणावरोधव्याघाताभिभवादिदर्शनान्मूर्तिमत्त्वसिद्धेः ।
१
— कारत्वादाकाशवत् । आकार — मु. ।
२८७
मनो द्विविधं द्रव्यमनो भावमनश्चेति । भावमनस्तावल्लब्ध्युपयोगलक्षणं पुद्ग
-
लावलम्बनत्वात् पौद्गलिकम् । द्रव्यमनश्च, ज्ञानावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गना
-
मलाभप्रत्यया गुणदोषविचारस्मरणादिप्रणिधानाभिमुखस्यात्मनोऽनुग्राहकाः पुद्गला
मनस्त्वेन परिणता इति पौद्गलिकम् । कश्चिदाह मनो द्रव्यान्तरं रूपादिपरिणामरहित
-
०५
मणुमात्रं तस्य पौद्गलिकत्वमयुक्तमिति ? तदयुक्तम् । कथम् ? उच्यते — तदिन्द्रियेणात्मना
च सम्बद्धं वा स्यादसम्बद्धं वा ? यद्यसम्बद्धम्, तन्नात्मन उपकारकं भवितुमर्हति इन्द्रियस्य
च साचिव्यं न करोति । अथ सम्बद्धम्, एकस्मिन् प्रदेशे संबद्धं सत्तदणु इतरेषु प्रदेशेषु
उपकारं न कुर्यात् । अदृष्टवशादस्य अलातचक्रवत्परिभ्रमणमिति चेत् ? न; तत्सा
-
मर्थ्याभावात् । अमूर्तस्यात्मनो निष्क्रियस्यादृष्टो गुणः, स निष्क्रियः सन्नन्यत्र
१०
क्रियारम्भे न समर्थः । दृष्टो हि वायुद्रव्यविशेषः क्रियावान्स्पर्शवान्प्राप्तवनस्पतौ
परिस्पन्दहेतुस्तद्विपरीतलक्षणश्चायमिति क्रियाहेतुत्वाभावः ।
१
प्रप्तः वन — आ., दि. १, दि. २, ता., ना. ।
२८८
वीर्यान्तरायज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामोदयापेक्षि
१
णाऽऽत्मना उदस्यमानः
कोष्ठ्यो वायुरुच्छ्वासलक्षणः प्राण इत्युच्यते । तेनैवात्मना बाह्यो वायुरभ्यन्तरीक्रि
-
यमाणो निःश्वासलक्षणोऽपान इत्याख्याते । एवं तावप्यात्मानुग्राहिणौ;
जीवितहेतुत्वात् ।
०५
तेषां मनःप्राणापानानां मूर्तिमत्त्वमबसेयम् । कुतः
२
? मूर्तिमद्भिः प्रतिघातादिदर्श
-
नात् । प्रतिभयहेतुभिरशनिपातादिभिर्मनसः प्रतिघातो दृश्यते । सुरादिभिश्चाभिभवः ।
ह
३
स्ततलपटादिभिरास्यसंवरणात्प्राणापानयोः प्रतिघात उपलभ्यते । श्लेष्मणा चाभिभवः ।
न चामूर्तस्य मूर्तिमद्भिरभिघातादयः स्युः । अत एवात्मास्तित्वसिद्धिः । यथा यन्त्रप्रतिमा
-
चेष्टितं प्रयोक्तुरस्तित्वं गमयति तथा प्राणापानादिकर्मापि क्रियावन्तमात्मानं साधयति ।
१०
किमेतावानेव पुद्गलकृत उपकार आहोस्विदन्योऽप्यस्तीत्यत आह —
सुखदुःखजीवितमरणोपग्रहाश्च ॥
२०
॥
सदसद्वेद्यो
४
दयेऽन्तरङ्गहेतौ सति बाह्यद्रव्यादिपरिपाकनिमित्तवशादुत्पद्यमानः प्रीति
-
परितापरूपः परिणामः सुखदुःखमित्याख्यायते । भवधारणकारणायुराख्यकर्मोदयाद् भव
-
१
— पेक्षेणा — आ., दि. १, दि. २ ।
२
कुतः ? प्रतिघा — ता. ।
३
हस्ततलपुटादि — ता., ना., मु. ।
४
— वेद्येऽन्त — मु. ।
२८९
स्थितिमादधानस्य जीवस्य पूर्वोक्तप्राणापानक्रियाविशेषाव्युच्छेदो जीवितमित्युच्यते ।
तदुच्छेदो मरणम् । एतानि सुखादीनि जीवस्य पुद्गलकृत उपकारः
१
; मूर्तिमद्धेतुसन्निधाने
सति तदुत्पत्तेः । उपकाराधिकारात्
‘
उपग्रह
’
वचनमनर्थकम् ? नानर्थकम् । स्वोपग्रह
-
प्रदर्शनार्थमिदम् । पुद्गलानां पुद्गलकृत उपकार इति । तद्यथा — कांस्यादीनां भस्मादि
-
०५
भिर्जलादीनां कतकादिभिरयःप्रभृतीनामुदकादिभिरुपकारः क्रियते ।
‘
च
’
शब्दः किमर्थः ?
समुच्चयार्थः । अन्योऽपि पुद्गलकृत उपकारोऽस्तीति समुच्चीयते । यथा शरीराणि एवं
चक्षुरादीनीन्द्रियाण्यपीति ।
एवमाद्यमजीवकृतमुपकारं प्रदर्श्य जीवकृतोपकारप्रदर्शनार्थमाह —
परस्परोपग्रहो जीवानाम् ॥
२१
॥
१०
‘
परस्पर
’
शब्दः कर्मव्यतिहारे वर्तते । कर्मव्यतिहारश्च क्रियाव्यतिहारः । परस्पर
-
स्योपग्रहः परस्परोपग्रहः । जीवानामुपकारः । कः पुनरसौ ? स्वामी भृत्यः, आचार्यः
१
— कारः । कुतः ? मूर्ति — मु., आ. ।
२९०
शिष्यः, इत्येवमादिभावेन वृत्तिः परस्परोपग्रहः । स्वामी तावद्वित्तत्यागादिना भृत्यानामुप
-
कारे वर्तते । भृत्याश्च हितप्रतिपादनेनाहितप्रतिषेधेन च । आचार्य उभयलोकफलप्रदो
-
पदेशदर्शनेन तदुपदेशविहितक्रियानुष्ठापनेन च शिष्याणामनुग्रहे वर्तते । शिष्या अपि
तदानुकूल्यवृत्त्या आचार्याणाम्
१
। उपकाराधिकारे पुनः
‘
उपग्रह
’
वचनं किमर्थम् ? पूर्वोक्त
-
०५
सुखादिचतुष्टयप्रदर्शनार्थं पुनः
‘
उपग्रह
’
वचनं क्रियते
२
। सुखादीन्यपि जीवानां जीवकृत
उपकार इति ।
१
— याणां कृतोप — आ. ।
२
क्रियते । आह यद्यवश्यं ता., ना. ।
२९१
आह, यद्यवश्यं सतोपकारिणा भवितव्यम्; संश्च कालोऽभिमतस्तस्य क उपकार
इत्यत्रोच्यते —
वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥
२२
॥
वृतेर्णिजन्तात्कर्मणि भावे वा युटि स्त्रीलिङ्गे वर्तनेति भवति । वर्त्यते
१
वर्तनमात्रं
०५
वा वर्तना इति । धर्मादीनां द्रव्याणां स्वपर्यायनिर्वृत्तिं प्रति स्वात्मनैव वर्तमानानां बाह्यो
-
पग्रहाद्विना तद्वृत्त्यभावात्तत्प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्योपकारः ।
को णिजर्थः ? वर्तते द्रव्यपर्यायस्तस्य वर्तयिता कालः । यद्येवं कालस्य क्रियावत्त्वं प्राप्नोति ।
यथा शिष्योऽधीते, उपाध्यायोऽध्यांपयतीति ? नैष दोषः; निमित्तमात्रेऽपि हेतुकर्तृव्यप
-
१
— र्त्यते वर्तते वर्तन — मु. ।
२९२
देशो दृष्टः । यथा
’
१
कारीषोऽग्निरध्यापयति
२
।
’
एवं कालस्य हेतुकर्तृता । स कथं काल
इत्यवसीयते ? समयादीनां क्रियाविशेषाणां समयादिभिर्निर्वर्त्यमानानां च पाकादीनां
समयः पाक इत्येवमादि
३
स्वसंज्ञारूढिसद्भावेऽपि समयः कालः ओदनपाकः
४
काल इति
अध्यारोप्यमाणः कालव्यपदेश तद्व्यपदेशनिमित्तस्य कालस्यास्तित्वं गमयति । कुतः ?
०५
गौणस्य मुख्यापेक्षत्वात् ।
द्रव्यस्य पर्यायो धर्मान्तरनिवृत्तिधर्मान्तरोपजननरूपः अपरिस्पन्दात्मकः परिणामः ।
जीवस्य क्रोधादिः, पुद्गलस्य वर्णादिः । धर्माधर्माकाशानामगुरुलघुगुणवृद्धिहानिकृतः ।
क्रिया परिस्पन्दात्मिका
५
। सा द्विविधा; प्रायोगिकवैस्रसिकभेदात् । तत्र प्रायोगिकी
शकटादीनाम्, वैस्रसिकी मेघादीनाम् ।
१०
परत्वापरत्वे क्षेत्रकृते कालकृते च स्तः । तत्र कालोप
६
कारप्रकरणात्कालकृते गृह्येते ।
त एते वर्तनादय उपकाराः कालस्यास्तित्वं गमयन्ति । ननु
‘
वर्तना
’
ग्रहणमेवास्तु,
१
कारीषाऽग्नि — आ. ।
२
‘
हेतुर्निर्देशश्च निमित्तमात्रे भिक्षादिषु दर्शनात् । हेतुर्निर्देशश्च निमित्तमात्रे
दृष्टव्यः । यावद् ब्रूयान्निमित्तं कारणमिति तावद्धेतुरिति । किं प्रयोजनम् ? भिक्षादिषु दर्शनात् । भिक्षादिष्वपि
णिज्दृश्यते भिक्षा वासयन्ति कारीषोऽग्निरध्यापयति इति ।
’
— पा. म. भा. ३, १, २, २६ ।
३
दिष्वसंज्ञा — मु. ।
४
पाककालः मु. ।
५
— त्मिका । परत्वापरत्वे ता. ।
६
कालोपकरण — मु. ।
२९३
तद्भेदाः परिणामादयस्तेषां पृथग्ग्रहणमनर्थकम् ? नानर्थकम्; कालद्वयसूचनार्थत्वात्प्र
-
पञ्चस्य । कालो हि द्विविधः परमार्थकालो व्यवहारकालश्च । परमार्थकालो वर्तना
-
लक्षणः । परिणामादिलक्षणो व्यवहारकालः । अन्येन परिच्छिन्नः अन्यस्य परिच्छेदहेतुः
क्रियाविशेषः काल इति व्यवह्रियते । स त्रिधा व्यवतिष्ठते भूतो वर्तमानो भविष्यन्निति ।
०५
तत्र परमार्थकाले कालव्यपदेशो मुख्यः । भूतादिव्यपदेशो गौणः । व्यवहारकाले भूतादि
-
व्यपदेशो मुख्यः । कालव्यपदेशो गौणः; क्रियावद्द्रव्यापेक्षत्वात्कालकृतत्वाच्च ।
अत्राह, धर्माधर्माकाशपुद्गलजीवकालानामुपकारा उक्ताः । लक्षणं चोक्तम्
‘
उप
-
योगो लक्षणम्
’
इत्येवमादि । पुद्गलानां तु सामान्यलक्षणमुक्तम्
१
‘
अजीवकायाः
’
इति ।
विशेषलक्षणं नोक्तम् । तक्तिमित्यत्रोच्यते —
१०
स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥
२३
॥
स्पृश्यते स्पर्शनमात्रं वा स्पर्शः । सोऽष्टविधः; मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्ष
-
भेदात् । रस्यते रसनमात्रं वा रसः । स पञ्चविधः; तिक्ताम्लकटुकमधुरकषायभेदात् ।
१
— मुक्तं विशेष — आ., दि. १, दि. २ ।
२९४
गन्ध्यते गन्धनमात्रं वा गन्धः । स द्वेधा; सुरभिरसुरभि
१
रिति । वर्ण्यते वर्णनमात्रं वा वर्णः ।
स पञ्चविधः; कृष्णनीलपीतशुक्ललोहितभेदात् । त एते मूलभेदाः प्रत्येकं संख्येया
-
संख्येयानन्तभेदाश्च भवन्ति । स्पर्शश्च रसश्च गन्धश्च वर्णश्च गन्धश्च वर्णश्च स्पर्शरसगन्धवर्णास्त
एतेषां सन्तीति स्पर्शरसगन्धवर्णवन्त इति । नित्ययोगे मतु
२
निर्देशः । यथा क्षीरिणो न्यग्रोधा
०५
इति । ननु च रूपिणः पुद्गला इत्यत्र पुद्गलानां रूपवत्त्वमुक्तं तदविनाभाविनश्च रसाद
-
यस्तत्रैव परिगृहीता इति व्याख्यातं तस्मात्तेनैव पुद्गलानां रूपादिमत्त्वसिद्धेः सूत्रमिदमनर्थ
-
कमिति ? नैष दोषः;
‘
नित्यावस्थितान्यरूपाणि
’
इत्यत्र धर्मादीनां नित्यत्वादिनिरूपणेन
पुद्गलानामरूपित्वप्रसङ्गे तदपाकरणार्थं तदुक्तम् । इदं तु तेषां स्वरूपविशेषप्रतिपत्त्य
-
र्थमुच्यते ।
१०
अवशिष्टपुद्गलविकारप्रतिपत्त्यर्थमिदमुच्यते —
शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥
२४
॥
शब्दो द्विविधो भाषालक्षणो विपरीतश्चेति । भाषांलक्षणो द्विविधः साक्षरोऽनक्षर
-
१
सुरभिदुरभि — आ., दि. १, दि. २ ।
२
वन्निर्देशः मु. । मन्निर्देशः ना. ।
२९५
श्चेति । अक्षरीकृतः शास्त्राभिव्यञ्जकः संस्कृतविपरीतभेदादार्यम्लेच्छव्यवहारहेतुः ।
अनक्षरात्मको द्वीन्द्रियादीनामतिशयज्ञानस्वरूपप्रतिपादनहेतुः । स एष सर्वः प्रायोगिकः ।
अभाषात्मको द्विविधः प्रायोगिको वैस्रसिकश्चेति । वैस्रसिको वलाहकादिप्रभवः । प्रायो
-
गिकश्चतुर्धा, ततविततघनसौषिरभेदात् । तत्र चर्मतनननिमित्तः पुष्करभेरीदर्दुरादिप्रभव
०५
स्ततः । तन्त्रीकृतवीणासुघोषादिसमुद्भवो विततः । तालघण्टालालनाद्यभिघातजो घनः ।
वंशशङ्खादिनिमित्तः सौषिरः ।
बन्धो द्विविधो वैस्रसिकः प्रायोगिकश्च । पुरुषप्रयोगानपेक्षो वैस्रसिकः । तद्यथा —
स्निग्धरूक्षत्वगुणनिमित्तो विद्युदुल्काजलधाराग्नीन्द्रधनुरादिविषयः । पुरुषप्रयोगनिमित्तः
प्रायोगिकः अजीवविषयो जीवाजीवविषयश्चेति द्विधा भिन्नः । तत्राजीवविषयो जतुकाष्ठा
-
१०
दिलक्षणः । जीवाजीवविषयः कर्मनोकर्मबन्धः ।
सौक्ष्म्यं द्विविधं, अन्त्यमापेक्षिकं च । तत्रान्त्यं परमाणूनाम् । आपेक्षिकं विल्वामल
-
कबदरादीनाम् ।
स्थौल्यमपि द्विविधमन्त्यमापेक्षिकं चेति । तत्रान्त्यं जगद्व्यापिनि महास्कन्धे ।
आपेक्षिकं बदरामलकविल्वतालादिषु ।
२९६
संस्थानमाकृतिः । तद् द्विविधमित्थंलक्षणमनित्थंलक्षणं चेति । वृत्तत्र्यस्रचतुरस्रायत
-
परिमण्डलादीनामित्थंलक्षणम् । अतोऽन्यन्मेघादीनां संस्थानमनेकविधमित्थमिदमिति
निरूपणाभावादनित्थंलक्षणम् ।
भेदाः षोढा; उत्करचूर्णखण्डचूर्णिकाप्रतराणुचटनविकल्पात् । तत्रोत्करः काष्ठा
-
०५
दीनां करपत्रादिभिरुत्करणम् । चूर्णो यवगोधूमादीनां सक्तुकणिकादिः । खण्डो घटादीनां
कपालशर्करादिः । चूर्णिका माषमुद्गादीनाम् । प्रतरोऽभ्रपटलादीनाम् । अणुचटनं
सन्तप्तायःपिण्डादिषु अयोघनादिभिरभिहन्यमानेषु स्फुलिङ्गनिर्गमः ।
तमो दृष्टिप्रतिबन्धकारणं प्रकाशविरोधि । छाया प्रकाशावरणनिमित्ता । सा द्वेधा,
वर्णादिविकारपरिणता प्रतिबिम्बमात्रात्मिका चेति । आतप आदित्यादिनिमित्त उष्ण
-
१०
प्रकाशलक्षणः । उद्योतश्चन्द्रमणिखद्योतादिप्रभवः प्रकाशः ।
त एते शब्दादयः पुद्गलद्रव्यविकाराः । त एषां सन्तीति शब्दबन्धसौक्ष्म्यस्थौल्यसंस्था
-
नभेदतमश्छायाऽऽतपोद्योतवन्तः पुद्गला इत्यभिसम्बध्यते ।
‘
च
’
शब्देन नोदनाभिघाता
-
दयः पुद्गलपरिणामा आगमे प्रसिद्धाः समुच्चीयन्ते ।
२९७
उक्तानां पुद्गलानां भेदप्रदर्शनार्थमाह —
अणवः स्कन्धाश्च ॥
२५
॥
प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्येनाण्यन्ते शब्द्यन्त इत्यणवः । सौक्ष्म्यादा
-
त्मादय आत्ममध्या आत्मान्ताश्च ॥ उक्तं च —
०५
’
अत्तादि अत्तमज्झं अत्तंतं णेव इंदिये गेज्झं ।
जं दव्वं अविभागी तं परमाणुं विआणाहि ॥
’
स्थूलभावेन ग्रहणनिक्षेपणादिव्यापारस्कन्धनात्स्कन्धा इति सञ्ज्ञायन्ते । रूढौ क्रिया
क्वचित्सती उपलक्षणत्वेनाश्रयते इति ग्रहणादिव्यापारायोग्येष्वपि द्व्यणुकादिषु स्कन्धा
-
ख्या प्रवर्तते । अनन्तभेदा अपि पुद्गला अणुजात्या स्कन्धजात्या च द्वैविध्यमापद्यमानाः
१०
सर्वे गृह्यन्त इति तज्जात्याधारानन्तभेदसंसूचनार्थं बहुवचनं क्रियते । अणवः स्कन्धा
इति भेदाभिधानं पूर्वोक्तसूत्रद्वयभेदसम्बन्धनार्थम् । स्पर्शरसगन्धवर्णवन्तोऽणवः । स्कन्धाः
पुनः शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च स्पर्शादिमन्तश्चेति ।
आह, किमेषां पुद्गलानामणुस्कन्धलक्षणः परिणामोऽनादिरुत आदिमानित्युच्यते ।
२९८
स खलूत्पत्तिमत्त्वादादिमान्प्रतिज्ञायते । यद्येवं तस्मादभिधीयतां कस्मान्निमित्तादुत्पद्यन्त
इति । तत्र स्कन्धानां तावदुत्पत्तिहेतुप्रतिपादनार्थमुच्यते —
भेदसंघातेभ्य उत्पद्यन्ते ॥
२६
॥
संघातानां द्वितयनिमित्तवशाद्विदारणं भेदः । पृथग्भूतानामेकत्वापत्तिः संघातः ।
०५
ननु च द्वित्वाद् द्विवचनेन भवितव्यम् ? बहुवचननिर्देशस्त्रित
१
यसंग्रहार्थः । भेदात्संघाताद् भेद
-
संघाताभ्यां च उत्पद्यन्त इति । तद्यथा — द्वयोः परमाण्वोः संघाताद् द्विप्रदेशः स्कन्ध
उत्पद्यते । द्विप्रदेशस्याणोश्च त्रयाणां वा अणूनां संघातात्त्रिप्रदेशः । द्वयोर्द्विप्रदेशयोस्त्रिप्रदे
-
शस्याणोश्च चतुर्णां वा अणूनां संघाताच्चतुःप्रदेशः । एवं संख्येयासंख्येयान
२
न्तानामनन्ता
-
नन्तानां च संघातात्तावत्प्रदेशः । एषामेव भेदात्ता
३
वद् द्विप्रदेशपर्यन्ताः स्कन्धा उत्पद्यन्ते ।
१०
एवं भेदसंघाताभ्यामेकसमयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते । अन्यतो भेदेनान्यस्य
संघातेनेति । एवं स्कन्धानामुत्पत्तिहेतुरुक्तः ।
अणोरुत्पत्तिहेतुप्रदर्शनार्थमाह —
१
तृतीय — मु.
२
— ख्येयानन्तानां च संघा — ता., ना. ।
३
भेदाद्द्विप्रदे — ता., आ., दि. १, दि. २ ।
२९९
भेदादणुः ॥
२७
॥
’
सिद्धे
१
विधिरारभ्यमाणो नियमार्थो भवति ।
’
अणोरुत्पत्तिर्भेदादेव, न संघाता
-
न्नापि भेदसंघाताभ्यामिति ।
आह, संघातादेव स्कन्धानामात्मलाभे सिद्धे भेदसंघातग्रहणमनर्थकमिति तद्ग्रहणप्र
-
०५
योजनप्रतिपादनार्थमिदमुच्यते —
भेदसंघाताभ्यां चाक्षुषः ॥
२८
॥
अनन्तानन्तपरमाणुसमुदयनिष्पाद्योऽपि कश्चिच्चाक्षुषः कश्चिदचाक्षुषः । तत्र योऽ
चाक्षुषः स कथं चाक्षुषो भवतीति चेदुच्यते — भेदसंघाताभ्यां चाक्षुषः । न भेदादिति ।
कात्रोपपत्तिरिति चेत् ? ब्रूमः; सूक्ष्मपरिणामस्य स्कन्धस्य भेदे सौक्ष्म्यापरित्यागादचाक्षु
-
१०
षत्वमेव । सौक्ष्म्यपरिणतः पुनरपरः सत्यपि तद्भेदेऽन्यसंघातान्तरसंयोगात्सौक्ष्म्य
-
परिणामोपरमे स्थौल्योत्पत्तौ चाक्षुषो भवति ।
आह, धर्मादीनां द्रव्याणां विशेषलक्षणान्युक्तानि, सामान्यलक्षणं नोक्तम्, तद्वक्त
-
व्यम् । उच्यते —
१
‘
सिद्धे सत्यारम्भो नियमार्थः
’
न्यायसंग्रहः ।
३००
सद् द्रव्यलक्षणम् ॥
२९
॥
यत्सत्तद् द्रव्यमित्यर्थः ।
यद्येवं तदेव तावद्वक्तव्यं किं सत् ? इत्यत आह —
उत्पादव्ययध्रौव्ययुक्तं सत् ॥
३०
॥
०५
चेतनस्याचेतनस्य वा द्रव्यस्य स्वां जातिमजहत
१
उभयनिमित्तवशाद् भावान्तरावा
-
प्तिरुत्पादनमुत्पादः मृत्पिण्डस्य घटपर्यायवत् । तथा पूर्वभावविगमनं व्ययः । यथा
घटोत्पत्तौ पिण्डाकृतेः । अनादिपारिणामिकस्वभावेन व्ययोदयाभावाद् ध्रुवति स्थिरी
-
भवतीति ध्रुवः । ध्रुवस्य भावः कर्म वा ध्रौव्यम् । यथा मृत्पिण्डघटाद्यवस्थासु मृदाद्य
-
न्वयः । तैरुत्पादव्ययध्रौव्यैर्यु क्तं
२
उत्पादव्ययध्रौव्ययुक्तं सदिति ।
१०
आह, भेदे सति युक्तशब्दो दृष्टः । यथा दण्डेन युक्तो देवदत्त इति । तथा सति
तेषां त्रयाणां तैर्युक्तस्य द्रव्यस्य चाभावः प्राप्नोति ? नैष दोषः; अभेदेऽपि कथञ्चिद् भेद
-
नयापेक्षया युक्तशब्दो दृष्टः । यथा सारयुक्तः स्तम्भ इति । तथा सति तेषामविनाभावा
-
१
— जहत निमित्त — आ., दि. १, दि. २ ।
२
— ध्रौव्यैर्युक्तं सदिति मु. ।
३०१
त्सद्व्यपदेशो युक्तः । समाधिवचनो वा युक्तशब्दः । युक्तः समाहितस्तदात्मक इत्यर्थः ।
उत्पादव्ययध्रौव्ययुक्तं सत् उत्पादव्ययध्रौव्यात्मकमिति यावत् । एतदुक्तं भवति —
उत्पादादीनि
१
द्रव्यस्य लक्षणानि । द्रव्यं लक्ष्यम्
२
। तत्र पर्यायार्थिकनयापेक्षया परस्परतो
द्रव्याच्चार्थान्तरभावः । द्रव्यार्थिकनयापेक्षया व्यतिरेकेणानुपलब्धेरनर्थान्तरभावः ।
०५
इति लक्ष्यलक्षणभावसिद्धिः ।
१
— दादीनि त्रीणि द्रव्य — मु. ।
२
लक्ष्यम् । तत्पर्या — मु., आ., दि. १ ।
३०२
आह
‘
नित्यावस्थितान्यरूपाणि
’
इत्युक्तं तत्र न ज्ञायते किं नित्यमित्यत आह —
तद्भावाव्ययं नित्यम् ॥
३१
॥
‘
तद्भावः
’
इत्युच्यते । कस्तद्भावः ? प्रत्यभिज्ञानहेतुता । तदेवेदमिति स्मरणं
प्रत्यभिज्ञानम् । तदकस्मान्न भवतीति योऽस्य हेतुः स तद्भावः
१
। भवनं भावः । तस्य
०५
भावस्तद्भावः । येनात्मना प्राग्दृष्टं वस्तु तेनैवात्मना पुनरपि भावात्तदेवेदमिति प्रत्यभि
-
ज्ञायते । यद्यत्यन्त
२
निरोधोऽभिनवप्रादुर्भावमात्रमेव वा स्यात्ततः स्मरणानुपपत्तिः ।
तदधीनो लोकसंव्यवहारो विरुध्यते । ततस्तद्भावेनाव्ययं
३
तद्भावाव्ययं नित्यमिति
निश्चीयते । तत् तु कथञ्चिद्वेदितव्यम् । सर्वथा नित्यत्वे अन्यथाभावाभावात्संसारतद्वि
-
निवृत्तिकारणप्रक्रियाविरोधः स्यात् ।
१०
ननु इदमेव विरुद्धं तदेव नित्यं तदेवानित्यमिति । यदि नित्यं व्ययोदयाभावादनित्य
-
ताव्याघातः । अथानित्यमेव स्थित्यभावान्नित्यताव्याघात इति ? नैतद्विरुद्धम् । कुतः ?
१
तद्भावः । तस्य मु. ।
२
— त्यन्तविरोधो मु. ।
३
— नाव्ययं नित्य — मु. ।
३०३
अर्पितानर्पितसिद्धेः ॥
३२
॥
अनेकान्तात्मकस्य वस्तुनः प्रयोजनवशाद्यस्य कस्यचिद्धर्मस्य विवक्षया
१
प्रापितं प्राधा
-
न्यमर्पितमुपनीतमिति यावत् । तद्विपरीतमनर्पितम् । प्रयोजनाभावात् सतोऽप्यविवक्षा
भवतीत्युपसर्जनीभूतमनर्पितमित्युच्यते । अर्पितं चानर्पितं चार्पितानर्पिते । ताभ्यां सिद्धे
-
०५
रर्पितानर्पितसिद्धेर्नास्ति विरोधः । तद्यथा — एकस्य देवदत्तस्य पिता पुत्रो भ्राता
२
भागि
-
नेय इत्येवमादयः सम्बन्धा जनकत्वजन्यत्वादिनिमित्ता न विरुध्यन्ते; अर्पणाभेदात् ।
पुत्रापेक्षया पिता, पित्रपेक्षया पुत्र इत्येवमादिः । तथा द्रव्यमपि सामान्यार्पणया नित्यम्,
विशेषार्पणयाऽनित्यमिति नास्ति विरोधः । तौ च सामान्यविशेषौ कथञ्चिद् भेदाभेदाभ्यां
व्यवहारहेतू भवतः ।
१०
अत्राह, सतोऽनेकनयव्यवहारतन्त्रत्वात् उपपन्ना भेदसंघातेभ्यः सतां स्कन्धा
३
त्मनो
-
त्पत्तिः । इदं तु सन्दिग्धम्, किं संघातः संयोगादेव द्व्यणुकादिलक्षणो भवति, उत कश्चिद्वि
-
शेषोऽवध्रियत इति ? उच्यते,
‘
सति संयोगे बन्धादेकत्वपरिणामात्मकात्संघातो निष्पद्यते ।
’
१
विवक्षाया — आ., दि. १, दि. २ ।
२
भ्राता माता भाग — मु. ।
३
स्कन्धानामेवोत्प — दि. १,
दि, २ आ. ।
३०४
यद्येवमिदमुच्यतां, कतो
१
नु खलु पुद्गलजात्यपरित्यागे
२
संयोगे च सति भवति केषांचिद्व
-
न्धोऽन्येषां च नेति ? उच्यते, यस्मात्तेषां पुद्गलात्माविशेषेऽप्यनन्तपर्यायाणां परस्परवि
-
लक्षणपरिणामादाहितसामर्थ्याद्भवन्प्रतीतः —
स्निग्धरूक्षत्वाद् बन्धः ॥
३३
॥
०५
बाह्याभ्यन्तरकारणवशात् स्नेहपर्यायाविर्भावात् स्निह्यते
३
स्मेति स्निग्धः । तथा
रूक्षणाद्रूक्षः । स्निग्धश्च रूक्षश्च स्निग्धरूक्षौ । तयोर्भावः स्निग्धरूक्षत्वम् । स्निग्धत्वं
चिक्कणगुणलक्षणः पर्यायः । तद्विपरीतपरिणामो रूक्षत्वम् ।
‘
स्निग्धरूक्षत्वात्
’
इति हेतु
-
निर्देशः । तत्कृतो बन्धो द्व्यणुकादिपरिणामः । द्वयोः स्निग्धरूक्षयोरण्वोः परस्परश्लेष
-
लक्षणे बन्धे सति द्व्यणुकस्कन्धो भवति । एवं संख्येयासंख्येयानन्तप्रदेशः स्कन्धो योज्यः ।
१०
तत्र स्नेहगुण एकद्वित्रिचतुःसंख्येयासंख्येयानन्तविकल्पः । तथा रूक्षगुणोऽपि । तद्गुणाः पर
-
माणवः सन्ति । यथा तोयाजागोमहिष्युष्ट्रीक्षीरघृतेषु स्नेहगुणः प्रकर्षाप्रकर्षेण प्रवर्तते ।
पांशुकणिकाशर्करादिषु च रूक्षगुणो दृष्टः । तथा परमाणुष्वपि स्निग्धरूक्षगुणयोर्वृत्तिः
प्रकर्षाप्रकर्षेणानुमीयते ।
१
— कुतोऽत्र खलु दि. १, दि. २ ।
२
— त्यागे सति मु. ।
३
— ह्यतेऽस्मिन्निति मु. ।
३०५
स्निग्धरूक्षत्वगुणनिमित्ते बन्धे अविशेषेण प्रसक्ते अनिष्टगुणनिवृत्यर्थमाह —
न जघन्यगुणानाम् ॥
३४
॥
जघन्यो निकृष्टः । गुणो भागः । जघन्यो गुणो येषां ते जघन्यगुणाः । तेषां जघन्य
गुणानां नास्ति बन्धः । तद्यथा — एकगुणस्निग्धस्यैकगुणस्निग्धेन द्व्यादिसंख्येयासंख्येया
-
०५
नन्तगुणस्निग्धेन वा नास्ति बन्धः । तस्यैवैकगुणस्निग्धस्य एकगुणरूक्षेण द्व्यादिसंख्येया
-
संख्येयानन्तगुणरूक्षेण वा नास्ति बन्धः । तथा एकगुणरूक्षस्यापि योज्यमिति ।
एतौ जघन्यगुणस्निग्धरूक्षौ वर्जयित्वा अन्येषां स्निग्धानां रूक्षाणां च परस्परेण
बन्धो भवतीत्यविशेषेण प्रसङ्गे तत्रापि प्रतिषेधविषयख्यापनार्थमाह —
गुणसाम्ये सदृशानाम् ॥
३५
॥
१०
‘
सदृश
’
ग्रहणं तुल्यजातीयसंप्रत्ययार्थम् ।
‘
गुणसाम्य
’
ग्रहणं तुल्यभागसंप्रत्ययार्थम् ।
एतदुक्तं भवति — द्विगुणस्निग्धानां द्विगुणरूक्षैः त्रिगुणस्निग्धानां त्रिगुणरूक्षैः द्विगुणस्नि
-
ग्धानां द्विगुणस्निग्धैः द्विगुणरूक्षाणां द्विगुणरूक्षैश्चैत्येवमादिषु नास्ति बन्ध इति । यद्येवं
‘
सदृश
’
ग्रहणं किमर्थम् ? गुणवैषम्ये सदृशानामपि बन्धप्रतिपत्त्यर्थं
‘
सदृश
’
ग्रहणं क्रियते ।
३०६
अतो विषमगुणानां तुल्यजातीयानामतुल्यजातीयानां चानियमेन बन्धप्रसक्तौ
इष्टार्थसंप्रत्ययार्थमिदमुच्यते —
द्व्यधिकादिगुणानां तु ॥
३६
॥
द्वाभ्यां गुणाभ्यामधिकोद्व्यधिकः । कः पुनरसौ ? चतुर्गुणः ।
‘
आदि
’
शब्दः प्रकारार्थः ।
०५
कः पुनरसौ प्रकारः ? द्व्यधिकता । तेन पञ्चगुणादीनां संप्रत्ययो न भवति । तेन द्व्यधि
-
कादिगुणानां तुल्यजातीयानामतुल्यजातीयानां च बन्ध उक्तो भवति नेतरेषाम् । तद्यथा —
द्विगुणस्निग्धस्य परमाणोरेकगुणस्निग्धेन द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा नास्ति बन्धः ।
चतुर्गुणस्निग्धेन पुनरस्ति बन्धः । तस्यैव पुनर्द्विगुणस्निग्धस्य पञ्चगुणस्निग्धेन षट्सप्ता
-
ष्टसंख्येयासंख्येयानन्तगुणस्निग्धेन वा बन्धो नास्ति । एवं त्रिगुणस्निग्धस्य पञ्चगुण
१०
स्निग्धेन बन्धोऽस्ति । शेषैः पूर्वोत्तरैर्न भवति । चतुर्गुणस्निग्धस्य षड्गुणस्निग्धेनास्ति
१
— सक्तौ विशिष्टा मु. ।
३०७
बन्धः । शेषैः पूर्वोत्तरैर्नास्ति । एवं शेषेष्वपि योज्यः । तथा द्विगुणरूक्षस्य एकद्वित्रिगुण
-
रूक्षैर्नास्ति बन्धः । चतुर्गुणरूक्षेण त्वस्ति बन्धः । तस्यैव द्विगुणरूक्षस्य पञ्चगुणरूक्षादि
-
भिरुत्तरैर्नास्ति बन्धः । एवं त्रिगुणरूक्षादीनामपि द्विगुणाधिकैर्बन्धो योज्यः । एवं
भिन्नजातीयेष्वपि योज्यः । उक्तं च —
०५
’
णिद्धस्स णिद्धेण दुराधिएण लुक्खस्स लुक्खेण दुराधिएण ।
णिद्धस्स लुक्खेण हवेइ बंधो जहण्णवज्जो विसमे समे वा ॥
’
‘
तु
’
शब्दो विशेषणार्थः । प्रतिषेधं व्यावर्तयति बन्धं च विशेषयति ।
किमर्थमधिकगुणविषयो बन्धो व्याख्यातो न समगुणविषय इत्यत आह —
बन्धेऽधिकौ पारिणामिकौ च ॥
३७
॥
१०
अधिकाराद्
‘
गुण
’
शब्दः सम्बध्यते । अधिकगुणावधिकाविति । भावान्तरापादनं
पारिणामिकत्वं क्लिन्नगुडवत् । यथा क्लिन्नो गुडोऽधिकमधुररसः परीतानां रेण्वादीनां
स्वगुणा
१
पादनात् पारिणामिकः । तथाऽन्योऽप्यधिकगुणः अल्पीयसः पारिणामिक इति
१
— गुणोत्पाद — मु., दि. २, ता. ।
३०८
कृत्वा द्विगुणादिस्निग्धरूक्षस्य चतुर्गुणादिस्निग्धरूक्षः पारिणामिको भवति । ततः पूर्वा
-
वस्थाप्रच्यवनपूर्वकं तार्तीयिंकमवस्थान्तरं प्रादुर्भवतीत्येकत्वमुपपद्यते । इतरथा हि
शुक्लकृष्णतन्तुवत् संयोगे सत्यप्यपारिणामिकत्वात्सर्वं विविक्तरूपेणैवावतिष्ठेत ।
उक्तेन विधिना बन्धे पुनः सति ज्ञानावरणादीनां कर्मणां त्रिंशत्सागरोपमकोटीकोट्यादि
-
०५
स्थितिरुपपन्ना भवति ।
३०९
‘
उत्पादव्ययध्रौव्ययुक्तं सत्
’
इति द्रव्यलक्षणमुक्तं पुनरपरेण प्रकारेण द्रव्यलक्षण
-
प्रतिपादनार्थमाह —
गुणपर्ययवद् द्रव्यम् ॥
३८
॥
गुणाश्च पर्ययाश्च गुणपर्ययाः । तेऽस्य सन्तीति गुणपर्ययवद् द्रव्यम् । अत्र मतोरु
-
०५
त्पत्तावुक्त एव समाधिः । कथंचित् भेदोपपत्तेरिति । के गुणाः के पर्यायाः ? अन्वयिनो
गुणा व्यतिरेकिणः पर्यायाः । उभयैरुपेतं द्रव्यमिति । उक्तं च —
’
गुण इदि दव्वविहाणं दव्वविकारो हि पज्जवो भणिदो ।
तेहि अणूणं दव्वं अजुदपसिद्धं हवे णिच्चं ॥
’
इति ॥
एतदुक्तं भवति, द्रव्यं द्रव्यान्तराद् येन विशिष्यते स गुणः । तेन हि तद् द्रव्यं विधीयते ।
३१०
असति तस्मिन् द्रव्यसंकरप्रसङ्गः
१
स्यात् । तद्यथा — जीवः पुद्गलादिभ्यो ज्ञानादिभिर्गुणै
-
र्विशिष्यते, पुद्गलादयश्च रूपादिभिः । ततश्चाविशेषे संकरः स्यात् । ततः सामान्या
-
पेक्षया अन्वयिनो ज्ञानादयो जीवस्य गुणाः पुद्गलादीनां च रूपादयः । तेषां विकारा विशे
-
षात्मना भिद्यमानाः पर्यायाः । घटज्ञानं पटज्ञानं क्रोधो मानो गन्धो वर्णस्तीव्रो मन्द इत्येव
-
०५
मादयः । तेभ्योऽन्यत्वं कथंचिदापद्यमानः समुदायो द्रव्यव्यपदेशभाक् । यदि हि सर्वथा
समुदायोऽनर्थान्तरभूत एव स्यात् सर्वाभावः स्यात् । तद्यथा — परस्परविलक्षणानां समु
-
दाये सति एकानर्थान्तरभावात् समुदायस्य सर्वाभावः परस्परतोऽर्थान्तरभूतत्वात् । यदिदं
रूपं तस्मादर्थान्तरभूता रसादयः । ततः समुदयोऽनर्थान्तरभूतः । यश्च रसादिभ्योऽ
-
र्थान्तरभूताद्रूपादनर्थान्तरभूतः समुदायः स कथं रसादिभ्योऽर्थान्तरभूतो न भवेत् । ततश्च
१०
रूपमात्रं समुदायः प्रसक्तः । न चैकं रूपं समुदायो भवितुमर्हति । ततः समुदायाभावः ।
समुदायाभावाच्च तदनर्थान्तरभूतानां समुदायिनामप्यभाव इति सर्वाभावः । एवं रसादि
-
१
— प्रसंगात् । तद्य — ता., ना. ।
३११
ष्वपि योज्यम् । तस्मात्समुदायमिच्छता कथंचिदर्थान्तरभाव एषितव्यः ।
उक्तानां द्रव्याणां लक्षणनिर्देशात्तद्विषय एव द्रव्याध्यवसाये प्रसक्ते अनुक्तद्रव्यसं
-
सूचनार्थमिदमाह —
कालश्च ॥
३९
॥
०५
किम् ?
‘
द्रव्यम्
’
इति वाक्यशेषः । कुतः ? तल्लक्षणोपेतत्वात् । द्विविधं लक्षणमुक्तम् —
‘
उत्पादव्ययध्रौव्ययुक्तं सत्
’
‘
गुणपर्ययवद् द्रव्यम्
’
इति च । तदुभयं लक्षणं कालस्य
३१२
विद्यते । तद्यथा — ध्रौव्यं तावत्कालस्य स्वप्रत्ययं स्वभावव्यवस्थानात् । व्ययोदयौ
परप्रत्ययौ, अगुरुलघुगुणवृद्धिहान्यपेक्षया स्वप्रत्ययौ च । तथा गुणा अपि कालस्य साधारणा
-
साधारणरूपाः सन्ति । तत्रासाधारणो वर्तनाहेतुत्वम्, साधारणाश्चाचेतनत्वामूर्तत्वसूक्ष्म
-
त्वागुरुलघुत्वादयः । पर्यायाश्च व्ययोत्पादलक्षणा योज्याः । तस्माद् द्विप्रकारलक्षणोपेत
-
०५
त्वादाकाशादिवत्कालस्य द्रव्यत्वं सिद्धम् ।
तस्यास्तित्वलिङ्गं धर्मादिवद् व्याख्यातम्
‘
वर्तनालक्षणः कालः
’
इति
१
। ननु किमर्थ
-
मयं कालः पृथगुच्यते ? यत्रैव धर्मादय उक्तास्तत्रैवायमपि वक्तव्यः
‘
अजीवकाया धर्मा
-
धर्माकाशकालपुद्गलाः
’
इति ? नैवं शङ्क्यम्; तत्रोद्देशे सति कायत्वमस्य स्यात् । नेष्यते
च मुख्योपचारप्रदेशप्रचयकल्पनाभावात् । धर्मादीनां तावन्मुख्यप्रदेशप्रचय उक्तः, असंख्ये
-
१०
याः प्रदेशाः
’
इत्येवमादिना । अणोरप्येकप्रदेशस्य पूर्वोत्तरभाव
२
प्रज्ञापननयापेक्षयोपचार
-
कल्पनया प्रदेशप्रचय उक्तः । कालस्य पुनर्द्वेधाऽपि प्रदेशप्रचयकल्पना नास्तीत्यकायत्वम् ।
अपि च तत्र पाठे
‘
निष्क्रियाणि च
’
इत्यत्र धर्मादीनामाकाशान्तानां निष्क्रियत्वे प्रति
-
१
इति । किमर्थ — मु. ।
२
— त्तरप्रज्ञा — मु. ।
३१३
पादिते इतरेषां
१
जीवपुद्गलानां सक्रियत्वप्राप्तिवत्कालस्यापि सक्रियत्वं स्यात् । अथाका
-
शात्प्राक्काल उद्दिश्येत
२
? तन्न;
‘
आ आकाशादेकद्रव्याणि
’
इत्येकद्रव्यत्वमस्य स्यात् ।
तस्मात्पृथगिह कालोद्देशः क्रियते । अनेकद्रव्यत्वे सति किमस्य प्रमाणम् ? लोकाकाशस्य
यावन्तः प्रदेशास्तावन्तः कालाणवो निष्क्रिया एकैकाकाशप्रदेशे एकैकवृत्त्या लोकं व्याप्य
०५
व्यवस्थिताः । उक्तं च —
’
लोगागासपदेसे एक्केक्के जे ट्ठिया हु एक्कक्का ।
रयणाणं रासीविव ते कालाणू मुणेयव्वा ॥
’
रूपादिगुणविरहादमूर्ताः ।
१
— पुद्गलादीनां मु. ।
२
— श्यते । आ आका
-
आ., दि., १, दि., ता. ।
३१५
वर्तनालक्षणस्य मुख्यस्य कालस्य प्रमाणमुक्तम् । परिणामादिगम्यस्य व्यवहार
-
कालस्य किं प्रमाणमित्यत इदमुच्यते —
सोऽनन्तसमयः ॥
४०
॥
साम्प्रतिकस्यैकसमयिकत्वेऽपि अतीता अनागताश्च समया अनन्ता इति कृत्वा
०५
‘
अनन्तसमयः
’
इत्युच्यते । अथवा मुख्यस्यैव कालस्य प्रमाणावधारणार्थमिदमुच्यते ।
अनन्तपर्यायवर्तनाहेतुत्वादेकोऽपि कालाणुरनन्त इत्युपचर्यते । समयः पुनः परमनिरुद्धः
१
कालांशस्तत्प्रचयविशेष आवलिकादिरवगन्तव्यः ।
आह गुणपर्ययवद् द्रव्यमित्युक्तं तत्र के गुणा इत्यत्रोच्यते —
द्रव्याश्रया निर्गुणा गुणाः ॥
४१
॥
१०
द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः । निष्क्रान्ता गुणेभ्यो निर्गुणाः । एवमुभयलक्षणो
-
१
— निकृष्टः कालां — दि. १ ।
३१६
पेता गुणा इति ।
‘
निर्गुणाः
’
इति विशेषणं द्व्यणुकादिनिवृत्त्यर्थम् । तान्यपि हि कारण
-
भूतपरमाणुद्रव्याश्रयाणि गुणवन्ति तु तस्मात्
‘
निर्गुणाः
’
इति विशेषणात्तानि निवर्त्ति
-
तानि भवन्ति । ननु पर्याया अपि घटसंस्थानादयो द्रव्याश्रया निर्गुणाश्च, तेषामपि गुणत्वं
प्राप्नोति ?
‘
द्रव्याश्रयाः
’
इति वचनात्
‘
नित्यं द्रव्यमाश्रित्य वर्तन्ते
१
ये
’
ते गुणा इति विशेषा
२
-
०५
त्पर्याया निवर्तिता भवन्ति । ते हि कादाचित्का इति ।
१
— र्तन्तेगुणा मु. ।
२
विशेषणत्वात्पर्यायश्च निव — मु. ।
३१७
असकृत्
‘
परिणाम
’
शब्द उक्तः । तस्य कोऽर्थ इति प्रश्ने उत्तरमाह —
तद्भावः परिणामः ॥
४२
॥
अथवा गुणा द्रव्यादर्थान्तरभूता इति केषाञ्चिद्दर्शनं तत्किं भवतोऽभिमतम् ? न;
इत्याह — यद्यपि कथञ्चिद् व्यपदेशादिभेदहे
१
त्वपेक्षया द्रव्यादन्ये, तथापि तदव्यतिरेकात्तत्प
-
०५
रिणामाच्च नान्ये । यद्येवं स उच्यतां कः परिणाम इति ? तन्निश्चयार्थमिदमुच्यते — धर्मा
-
दीनि द्रव्याणि येनात्मना भवन्ति स तद्भावस्तत्त्वं परिणाम इति आख्यायते । स द्विवि
-
धोऽनादिरादिमांश्च । तत्रानादिर्धर्मादीनां गत्युपग्रहादिः सामान्यापेक्षया । स एवादि
-
मांश्च भवति विशेषापेक्षया इति ।
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसंज्ञिकायां पञ्चमोऽध्यायः ।
१
हेतुत्वापेक्ष — मु. ।
३१८
अथ षष्ठोऽध्यायः
आह
१
, अजीवपदार्थो व्याख्यातः । इदानीं तदनन्तरोद्देशभागास्रवपदार्थो व्याख्येय
इति ततस्तत्प्रसिद्ध्यर्थमिदमुच्यते —
कायवाङ्मनःकर्म योगः ॥
१
॥
०५
कायादयः शब्दा व्याख्यातार्थाः । कर्म क्रिया इत्यनर्थान्तरम् । कायवाङ् मनसां कर्म
कायवाङ्मनःकर्म योग इत्याख्यायते । आत्मप्रदेशपरिस्पन्दो योगः । स निमित्तभेदा
-
त्त्रिधा भिद्यते । काययोगो वाग्योगो मनोयोग इति । तद्यथा — वीर्यान्तरायक्षयोपशम
-
सद्भावे सति औदारिकादिसप्तविधकायवर्गणान्यतमालम्बनापेक्ष आत्मप्रदेशपरिस्पन्दः
काययोगः । शरीरनामकर्मोदयापादितवाग्वर्गणालम्बने सति वीर्यान्तरायमत्यक्षराद्याव
-
१०
रणक्षयोपशमापादिताभ्यन्तरवाग्लब्धिसान्निध्ये वाक्परिणामाभिमुखस्यात्मनः प्रदेशपरि
-
स्पन्दो वाग्योगः । अभ्यन्तरवीर्यान्तरायनोइन्द्रियावरणक्षयोपशमात्मकमनोलब्धिसन्निधाने
बाह्यनिमित्तमनोवर्गणालम्बने च सति मनःपरिणामाभिमुखस्यात्मप्रदेशपरिस्पन्दो मनो
-
१
अथाजीवप — मु. । आह जीवाजीवप — ता., ना. । इत्यजीवप — दि. २ ।
३१९
योगः । क्षयेऽपि त्रिविधवर्गणापेक्षः सयोगकेवलिन आत्म
१
प्रदेशपरिस्पन्दो योगो वेदितव्यः ।
आह, अ
२
भ्युपेमः आहितत्रैविध्यक्रियो योग इति । प्रकृत इदानीं निर्द्दिश्यतां
किंलक्षण आस्रव इत्युच्यते । योऽयं योगशब्दाभिधेयः संसारिणः पुरुषस्य —
स आस्रवः ॥
२
॥
०५
यथा सरस्सलिलावाहिद्वारं तदाऽऽस्रवकारणत्वात् आस्रव इत्याख्यायते तथा योग
-
प्रणालिकया आत्मनः कर्म आस्रवतीति योग आस्रव इति व्यपदेशमर्हति ।
आह कर्म द्विविधं पुण्यं पापं चेति । तस्य किमविशेषेण योग आस्रव
३
हेतुराहोस्विदस्ति
कश्चित्प्रतिविशेष इत्यत्रोच्यते —
शुभः पुण्यस्याशुभः पापस्य ॥
३
॥
१०
कः शुभो योगः को वा अशुभः ? प्राणातिपातादत्तादानमैथुनादिरशुभः काययोगः ।
अनृतभाषणपरुषासभ्यवचनादिरशुभो वाग्योगः । वधचिन्तनेर्ष्यासूयादिरशुभो मनोयोगः ।
ततो विपरीतः शुभः । कथं योगस्य शुभाशुभत्वम् ? शुभपरिणामनिर्वृत्तो योगः शुभः ।
१
आत्मनः प्रदे — आ., दि. १, दि. २ ।
२
अभ्युपगत आहि — मु. ।
३
आस्रवणहेतु — मु., ता., ना. ।
३२०
अशुभपरिणामनिर्वृत्तश्चाशुभः । न पुनः शुभाशुभकर्मकारणत्वेन । यद्येवमुच्यते शुभ
-
योग एव न स्यात् शुभयोगस्यापि ज्ञानावरणादिबन्धहेतुत्वाभ्युपगमात् । पुनात्यात्मानं
पूयतेऽनेनेति वा पुण्यम् । तत्सद्वेद्यादि । पाति रक्षति आत्मानं शुभादिति पापम्
१
। तद
-
सद्वेद्यादि ।
०५
आह किमयमास्रवः सर्वसंसारिणां
२
समानफलारम्भहेतुराहोस्वित्कश्चिदस्ति प्रति
-
विशेष इत्यत्रोच्यते —
सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥
४
॥
स्वामिभेदादास्रवभेदः । स्वामिनौ द्वौ सकषायोऽकषायश्चेति । कषायः क्रोधादिः ।
कषाय इव कषायः । कः उपमार्थः ? यथा कषायो नैयग्रोधादिः श्लेषहेतुस्तथा क्रोधादिर
-
१०
प्यात्मनः कर्मश्लेषहेतुत्वात् कषाय इव कषाय इत्युच्यते । सह कषायेण वर्तत इति सकषायः
न विद्यते कषायो यस्येत्यकषायः । सकषायश्चाकषायश्च सकषायाकषायौ तयोः सकषाया
-
१
पापम् । असद्वे — मु. ।
२
संसारिसमा — आ., ता., ना. । संसारसमा — दि. २ ।
३२१
कषाययोः । सम्परायः संसारः । तत्प्रयोजनं कर्म साम्परायिकम् । इरणमीर्या योगो गति
-
रित्यर्थः । तद्द्वारकं कर्म ईर्यापथम् । साम्परायिकं च ईर्यापथं च साम्परायिकेर्यापथे ।
तयोः साम्परायिकेर्यापथयोः । यथासंख्यमभिसम्बन्धः । सकषायस्यात्मनो मिथ्यादृष्ट्यादेंḥ
१
साम्परायिकस्य कर्मण आस्रवो भवति । अकषायस्य उपशान्तकषायादेरीर्यापथस्य कर्मण
०५
आस्रवो भवति ।
आदावुद्दिष्टस्यास्रवस्य भेदप्रतिपादनार्थमाह —
इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥
५
॥
अत्र इन्द्रियादीनां पञ्चादिभिर्यथासंख्यमभिसंबन्धो वेदितव्यः । इन्द्रियाणि पञ्च ।
चत्वारः कषायाः । पञ्चाव्रतानि । पञ्चविंशतिः क्रिया इति । तत्र पञ्चेन्द्रियाणि स्पर्श
-
१०
नादीन्युक्तानि । चत्वारः कषायाः क्रोधादयः । पञ्चाव्रतानि प्राणव्यपरोपणादीनि
वक्ष्यन्ते । पञ्चविंशतिः
२
क्रिया उच्यन्ते — चैत्यगुरुप्रवचनपूजादिलक्षणा सम्यक्त्ववर्धनी क्रिया
सम्यक्त्वक्रिया । अन्यदेवतास्तवनादिरूपा मिथ्यात्वहेतुकी
३
प्रवृत्तिर्मिथ्यात्वक्रिया । गमना
-
गमनादिप्रवर्तनं कायादिभिः प्रयोगक्रिया । संयतस्य सतः अविरतिं प्रत्याभिमुख्यं समादान
-
१
दृष्टेः साम्य — मु. ।
२
— शतिक्रिया मु. ।
३
हेतुका कर्मप्रवृ — दि. १, दि. २, आ. ।
३२२
क्रिया । ईर्यापथनिमित्तेर्यापथक्रिया । ता एताः पञ्च क्रियाः । क्रोधावेशात्प्रादोषिकी
क्रिया । प्रदुष्टस्य सतोऽभ्युद्यमः कायिकी क्रिया । हिंसोपकरणादानादाधिकरणिकी
१
क्रिया ।
दुःखोत्पत्तितन्त्रत्वात्पारितापिकी क्रिया । आयुरिन्द्रिय
२
बलोच्छ्वासनिःश्वासप्राणानां वियो
-
गकरणात्प्राणातिपातिकी क्रिया । ता एताः पञ्च क्रियाः । रागार्द्रीकृतत्वात्प्रमादिनो
०५
रमणीयरूपालोकनाभिप्रायो दर्शनक्रिया । प्रमादवशात्स्पृष्टव्यसञ्चेतनानुबन्धः स्पर्शन
-
क्रिया । अपूर्वाधिकरणोत्पादनात्प्रात्ययिकी क्रिया । स्त्रीपुरुषपशुसम्पातिदेशेऽन्तर्मलोत्सर्ग
-
करणं समन्तानुपातक्रिया । अप्रमृष्टादृष्टभूमौ कायादिनिक्षेपोऽनाभोगक्रिया । ता एताः पञ्च
क्रियाः । यां परेण निर्वर्त्यां क्रियां स्वयं करोति सा स्वहस्तक्रिया । पापादानादिप्रवृत्तिवि
-
शेषाभ्यनुज्ञानं निसर्गक्रिया । पराचरितसावद्यादिप्रकाशनं विदारणक्रिया । यथोक्तामा
-
१०
ज्ञामावश्यकादिषु
३
चारित्रमोहोदयात्कर्तुमशक्नुवतोऽन्यथा प्ररूपणादाज्ञाव्यापादिकी क्रिया ।
शाठ्यालस्याभ्यां प्रवचनोपदिष्टविधिकर्तव्यतानादरोऽनाकाङ्क्षक्रिया । ता एताः पञ्च
क्रियाः । छेदनभेदनवि
४
शसनादिक्रियापरत्वमन्येन वा
५
ऽऽरम्भे क्रियमाणे प्रहर्षः प्रारम्भ
-
१
क्रिया । सत्त्वदुःखो — ता., ना., मु. ।
२
बलप्राणानां — मु. ।
३
— श्यकादिचारि — मु. ।
४
विसर्जनादि — आ., दि. १, दि. २ ।
५
वा क्रिय — प्रु. ।
३२३
क्रिया । परिग्रहाविनाशार्था पारिग्राहिकी क्रिया । ज्ञानदर्शनादिषु निकृतिर्वञ्चन माया
-
क्रिया । अन्यं मि
१
थ्यादर्शनक्रियाकरणकारणाविष्टं प्रशंसादिभिर्दृढयति यथा साधु
करोषीति सा मिथ्यादर्शनक्रिया । संयमघातिकर्मोदयवशादनिवृत्तिरप्रत्याख्यानक्रिया ।
ता एताः पञ्च क्रियाः । समुदिताः पञ्चविंशतिक्रियाः । एतानीन्द्रियादीनि कार्यकारण
-
०५
भेदाद्भेदमापद्यमानानि साम्परायिकस्य कर्मण आस्रवद्वाराणि भवन्ति ।
अत्राह, योगत्रयस्य सर्वात्मकार्यत्वात्सर्वेषां संसारिणां साधारणः
२
ततो बन्धफलानु
-
भवनं प्रत्यविशेष इत्यत्रोच्यते — नैतदेवम् । यस्मात् सत्यपि प्रत्यात्मसम्भवे तेषां जीवप
-
रिणामेभ्योऽनन्तविकल्पेभ्यो विशेषोऽभ्यनुज्ञायते । कथमिति चेदुच्यते —
तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥
६
॥
१०
बाह्याभ्यन्तरहेतूदीरणवशादुद्रिक्तः परिणामस्तीव्रः । तद्विपरीतो मन्दः । अयं
प्रा
३
णी मया हन्तव्य इति ज्ञात्वा प्रवृत्तिर्ज्ञातमित्युच्यते । मदात्प्रमादाद्वाऽनवबुध्य प्रवृत्तिर
-
ज्ञातम् । अधिक्रियन्तेऽस्मिन्नर्था इत्यधिकरणं द्रव्यमित्यर्थः । द्रव्यस्य स्वशक्तिविशेषो
१
— दर्शनकरण — ता., ना., मु. ।
२
— रणस्य ततो मु. ।
३
प्राणी हन्त — मु., ता., ना. ।
३२४
वीर्यम् । भावशब्दः प्रत्येकं परिसमाप्यते — तीव्रभावो मन्दभाव इत्यादिः । एतेभ्यस्त
-
स्यास्रवस्य विशेषो भवति । कारणभेदाद्धि कार्यभेद इति ।
अत्राह, अधिकरण
१
मुक्तम्, तत्स्वरूपमनिर्ज्ञातमतस्तदुच्यतामिति । तत्र भेदप्रति
-
पादनद्वारेणाधिकरणस्वरूपनिर्ज्ञानार्थमाह —
०५
अधिकरणं जीवाजीवाः ॥
७
॥
उक्तलक्षणा जीवाजीवाः । यद्युक्तलक्षणाः पुनर्वचनं किमर्थम् ? अधिकरणविशेषज्ञा
-
पनार्थं पुनर्वचनम् । जीवाजीवा अधिकरणमित्ययं विशेषो ज्ञापयितव्य
२
इति । कः पुन
-
रसौ ? हिंसाद्युपकरणभाव इति । स्यादेतन्मूलपदार्थयोर्द्वित्वाज्जीवाजीवावि
३
ति द्विवचनं
न्यायप्राप्तमिति ? तन्न, पर्यायाणामधिकरणत्वात् । येन केनचित्पर्यायेण विशिष्टं द्रव्यम
-
१०
धिकरणम्, न सामान्यमिति बहुवचनं कृतम् । जीवाजीवा अधिकरणं कस्य ? आस्रव
-
स्येति । अर्थवशादभिसम्बन्धो भवति ।
१
— करणमित्युक्तम् मु. ता.
२
— तव्य इत्यर्थः । कः मु. ।
३
— जीवा इति मु., दि. २ ।
३२५
तत्र जीवाधिकरणभेदप्रतिपत्त्यर्थमाह —
आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस् त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥
८
॥
प्राणव्यपरोपणादिषु प्रमादवतः प्रयत्नावेशः संरम्भः । साधनसमभ्यासीकरणं समा
-
रम्भः । प्रक्रम आरम्भः ।
‘
योग
’
शब्दो व्याख्यातार्थः । कृतवचनं स्वातन्त्र्यप्रतिपत्त्यर्थम् ।
०५
कारिताभिधानं परप्रयोगापेक्षम् । अनुमतशब्दः प्रयोजकस्य मानसपरिणामप्रदर्शनार्थः ।
अभिहितलक्षणाः कषायाः क्रोधादयः । विशिष्यतेऽर्थोऽर्थान्तरादिति विशेषः । स
प्रत्येकमभिसम्बध्यते — संरम्भविशेषः समारम्भविशेष इत्यादि । आद्यं जीवाधिकरण
-
मेतैर्विशेषैः
‘
भिद्यते
’
इति वाक्यशेषः । एते चत्वारः सुजन्तास्त्र्यादिशब्दा यथाक्रममभि
-
सम्बध्यन्ते — संरम्भसमारम्भारम्भास्त्रयः, योगास्त्रयः, कृतकारितानुमतास्त्रयः, कषाया
-
१०
श्चत्वार इति । एतेषां गणनाभ्यावृत्तिः सुचा द्योत्यते । एकश इति वीप्सानिर्देशः ।
एकैकं त्र्या
१
दीन् भेदान् नयेदित्यर्थः । तद्यथा — क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः
मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारितकायसं
-
रम्भः मायाकारितकायसंरम्भः लोभकारितकायसंरम्भः क्रोधानुमतकायसंरम्भः मानानु
-
१
त्र्यादिभेदान् आ., दि. १, दि. २ ।
३२६
मतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भश्चेति द्वादशधा कायसं
-
रम्भः । एवं वाग्योगे मनोयोगे च द्वादशधा संरम्भः । त एते
१
संपिण्डिताः षट्त्रिंशत्, तथा
समारम्भा अपि षट्त्रिंशत्, आरम्भा अपि षट्त्रिंशत् । एते संपिण्डिता जीवाधिकरणास्रव
-
भेदा अष्टोत्तरशतसंख्याः सम्भवन्ति ।
‘
च
’
शब्दोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्यख्यानसञ्ज्व
-
०५
लनकषायभेदकृतान्तर्भेदसमुच्चयार्थः ।
परस्याजीवा
२
धिकरणस्य भेदप्रतिपत्त्यर्थमाह —
निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥
९
॥
निर्वर्त्यत इति निर्वर्तना निष्पादना । निक्षिप्यत इति निक्षेपः स्थापना । संयुज्यते
इति संयोगो मिश्रीकृतम् । निसृज्यत इति निसर्गः प्रवर्तनम् । एते द्व्यादिभिर्यथाक्रम
-
१०
मभिसम्बध्यन्ते — निर्वर्तना द्विभेदा निक्षेपश्चतुर्भेदः संयोगो द्विभेदः निसर्गस्त्रि
-
भेद इति । त एते भेदा अजीवाधिकरणस्य वेदितव्याः । परवचनमनर्थकम्, पूर्वसूत्रे
आद्यमिति वचनादिदमवशिष्टार्थं भवतीति ? नानर्थकम् । अन्यार्थः परशब्दः । संरम्भा
-
दिभ्योऽन्यानि निर्वर्त्तनादीनि । इतरथा हि निर्वर्तनादीनामात्मपरिणामसद्भावाज्जीवा
-
१
एते पिण्डि — मु. ।
२
— जीवस्याधि — मु. ।
३२७
धिकरणविकल्पा एवेति विज्ञायेत । निर्वर्तनाधिकरणं द्विविधं मूलगुणनिर्वर्तनाधिकरण
-
मुत्तरगुणनिर्वर्तनाधिकरणञ्चेति । तत्र मू
१
लगुणनिर्वर्तनं पञ्चविधम्, शरीरवाङ्मनः
-
प्राणापानाश्च । उत्तरगु
२
णनिर्वर्तनं काष्ठपुस्तचित्रकर्मादि । निक्षेपश्चतुर्विधः अप्रत्यवे
-
क्षितनिक्षेपाधिकरणं दुःप्रमृष्टनिक्षेपाधिकरणं सहसानिक्षेपाधिकरणमनाभोगनिक्षेपाधि
-
०५
करणं चेति । संयोगो द्विविधः — भक्तपानसंयोगाधिकरणमुपकरणसंयोगाधिकरणं चेति ।
निसर्गस्त्रिविधः — कायनिसर्गाधिकरणं वाग्निसर्गाधिकरणं मनोनिसर्गाधिकरणञ्चेति ।
उक्तः सामान्येन कर्मास्रवभेदः । इदानीं कर्मविशेषास्रवभेदो वक्तव्यः । तस्मिन्
वक्तव्ये आद्ययोर्ज्ञानदर्शनावरणयोरास्रवभेदप्रतिपत्त्यर्थमाह —
तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥
१०
॥
१०
तत्त्वज्ञानस्य मोक्षसाधनस्य कीर्तने कृते कस्यचिदनभिव्याहरतः अन्तःपैशुन्यपरि
-
णामः प्रदोषः । कुतश्चित्कारणान्नास्ति न वेद्मीत्यादि ज्ञानस्य व्यपलपनं निह्नवः ।
कुतश्चित्कारणाद् भावितमपि विज्ञानं दानार्हमपि यतो न दीयते तन्मात्सर्यम् । ज्ञानव्य
-
वच्छेदकरणमन्तरायः । कायेन वाचा च परप्रकाश्यज्ञानस्य वर्जनमासादनम् । प्रशस्त
-
१
मूलं पञ्च — आ., दि. १, दि. २ ।
२
उत्तरं काष्ठ — आ., दि. १, दि. २ ।
३२८
ज्ञानदूषणमुपघातः । आसादनमेवेति चेत् ? सतो ज्ञानस्य विनयप्रदानादिगुणकीर्तनान
-
नुष्ठानमासादनम् । उपघातस्तु ज्ञानमज्ञानमेवेति ज्ञाननाशाभिप्रायः । इन्यनयोग्यं भेदः ।
‘
तत्
’
शब्देन ज्ञानदर्शनयोः प्रतिनिर्देशः क्रियते । कथं पुनरप्रकृतयोग्निदिष्टयोस्तच्छब्देन
परामर्शः कर्तुं शक्यः ? प्रश्नापेक्षया । ज्ञानदर्शनावरणयोः क आस्रव इति प्रश्ने कृते तद
-
०५
पेक्षया तच्छब्दो ज्ञानदर्शने प्रतिनिर्दिशति । एतेन ज्ञानदर्शनवत्सु तत्साधनेषु च प्रदोषादयो
योज्याः; तन्निमित्तत्वात् । त एते ज्ञानदर्शनावरणयोरास्रवहेतवः । एककारणमाध्यस्य
कार्यस्यानेकस्य दर्शनात् तुल्येऽपि प्रदोषादौ ज्ञानदर्शनावरणास्रवसिद्धिः । अथवा विषय
-
भेदादास्रवभेदः । ज्ञानविषयाः प्रदोषादयो ज्ञानावरणस्य । दर्शनविषयाः प्रदोषादयो
दर्शनावरणस्येति ।
१०
यथाऽनयोः कर्मप्रकृत्योरास्रवभेदास्तथा —
दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥
११
॥
पीडालक्षणः परिणामो दुःखम् । अनुग्राहकसम्बन्धविच्छेदे वैक्लव्यविशेषः शोकः ।
३२९
परिवादादिनिमित्तादाविलान्तःकरणस्य तीव्रानुशयस्तापः । परितापजाताश्रुपातप्रचुर
-
विप्रलापादिभिर्व्यक्तक्रन्दनमाक्रन्दनम् । आयुरिन्द्रियबलप्राणवियोगकरणं वधः । संक्ले
-
शपरिणामावलम्ब
१
नं गुणस्मरणानुकीर्तनपूर्वकं स्वपरानुग्रहाभिलाषविषयमनुकम्पाप्रचुरं
रोदनं परिदेवनम् । ननु च शोकादीनां दुःखविशेषत्वाद् दुःखग्रहणमेवास्तु ? सत्यमेवम्;
०५
तथापि कतिपयविशेषप्रतिपादनेन दुःखजात्य
२
नुविधानं क्रियते । यथा गौरित्युक्ते अनिर्ज्ञाते
विशेषे तत्प्रतिपादनार्थं खण्डमुण्डकृष्णशुक्लाद्युपादानं क्रियते तथा दुःखविषयास्रवासंख्येय
-
लोकभेदसम्भवाद् दुःखमित्युक्ते विशेषानिर्ज्ञानात्कतिपयविशेषनिर्देशेन तद्विशेषप्रतिपत्तिः
क्रियते । तान्येतानि दुःखादीनि क्रोधा
३
द्यावेशादात्मस्थानि भवन्ति परस्थान्युभयस्थानि च ।
एतानि सर्वाण्यसद्वेद्यास्रवकारणानि वेदितव्यानि । अत्र चोद्यते — यदि दुःखादीन्यात्म
-
१०
परोभयस्थान्यसद्वेद्यास्रवनिमित्तानि, किमर्थमार्हतैः केशलुञ्चनानशनातपस्थानादीनि दुःख
-
निमित्तान्यास्थीयन्ते परेषु च प्रतिपाद्यन्ते इति ? नैष दोषः — अन्तरङ्गक्रोधाद्यावेशपूर्व
-
काणि दुःखादीन्यसद्वेद्यास्रवनिमित्तानीति विशेष्योक्तत्वात् । यथा कस्यचिद् भिषजः
१
— लम्बनं स्वपरा
-
आ., दि. १, दि. २ ।
२
— जात्यन्तरविधा — मु. ।
३
क्रोधावेशा — मु. ।
३३०
परमकरुणाशयस्य निःशल्यस्य संयतस्योपरि गण्डं पाटयतो दुःखहेतुत्वे सत्यपि न पापबन्धो
बाह्यनिमित्तमात्रादेव भवति । एवं संसारविषयमहादुःखादुद्विग्नस्य भिक्षोस्तन्निवृत्त्यु
-
पायं प्रति समाहितमनस्कस्य शास्त्रविहिते कर्मणि प्रवर्तमानस्य संक्लेशपरिणामाभावाद्
दुःखनिमित्तत्वे सत्यपि न पापबन्धः । उक्तञ्च —
०५
’
न दुःखं न सुखं यद्वद्धेतुर्दृष्टश्चिकित्सिते ।
चिकित्सायां तु युक्तस्य स्याद् दुःखमथवा सुखम् ॥
न दुःखं न सुखं तद्वद्धेतुर्मोक्षस्य साधने ।
मोक्षोपाये तु युक्तस्य स्याद् दुःखमथवा सुखम् ॥
’
उक्ता असद्वेद्यास्रवहेतवः । सद्वेद्यस्य पुनः के इत्यत्रोच्यते —
१०
भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ॥
१२
॥
तासु तासु गतिषु कर्मोदयवशाद्भवन्तीति भूतानि प्राणिन इत्यर्थः । व्रतान्यहिंसा
-
दीनि वक्ष्यन्ते, तद्वन्तो व्रतिनः । ते द्विविधाः । अगारम्प्रति निवृत्तौत्सुक्याः संयताः
गृहिणश्च संयतासंयताः । अनुग्रहार्द्रीकृतचेतसः परपीडामात्मस्थामिव कुर्वतोऽनुकम्पन
-
मनुकम्पा । भूतेषु व्रतिषु चानुकम्पा भूतव्रत्यनुकम्पा । परानुग्रहबुद्ध्या स्वस्यातिसर्जनं
३३१
दानम् । संसारकारणविनिवृत्तिं प्रत्यागुर्णोऽक्षीणाशयः सराग इत्युच्यते । प्राणीन्द्रियेष्व
-
शुभप्रवृत्तेर्विरतिः संयमः । सरागस्य संयमः सरागो वा संयमः सरागसंयमः ।
‘
आदि
’
-
शब्देन संयमासंयमाकामनिर्जराबालतपोऽनुरोधः । योगः समाधिः सम्यक्प्रणिधानमित्यर्थः ।
भूतव्रत्यनुकम्पादानसरागसंयमादीनां योगो भूतव्रत्यनुकम्पादानसरागसंयमादियोगः ।
०५
क्रोधादिनिवृत्तिः क्षान्तिः । लोभप्रकाराणामुपरमः शौचम् ।
‘
इति
’
शब्दः प्रकारार्थः ।
के पुनस्ते प्रकाराः ? अर्हत्पूजाकरण
१
तत्परताबालवृद्धतपस्विवैयावृत्त्यादयः ।
‘
भूत
’
ग्रहणात्
सिद्धे
‘
व्रति
’
ग्रहणं तद्विषयानुकम्पाप्राधान्यख्यापनार्थम् । त एते सद्वेद्यस्यास्रवा ज्ञेयाः ।
अथ तदनन्तरोद्देशभाजो मोहस्यास्रवहेतौ वक्तव्ये तद्भेदस्य दर्शनमोहस्यास्रवहेतु
-
प्रतिपादनार्थमिदमुच्यते —
१०
केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥
१३
॥
निरावरणज्ञानाः केवलिनः । तदुपदिष्टं बुद्ध्यतिशयर्द्धियुक्तगणधरानुस्मृतं ग्रन्थ
-
रचनं श्रुतं भवति । रत्नत्रयोपेतः श्रमणगणः संघः । अहिंसालक्षणस्तदागमदेशितो धर्मः ।
देवाश्चतुर्णिकाया उक्ताः । गुणवत्सु महत्सु असद्भूतदोषोद्भावनमवर्णवादः । एतेष्व
-
१
— करणपरता — मु. ।
३३२
वर्णवादो दर्शनमोहस्यास्रवहेतुः । कवलाभ्यवहारजीविनः केवलिन इत्येवमादि वचनं
केवलिनामवर्णवादः । मांसभक्षणा
१
द्यनवद्याभिधानं श्रुतावर्णवादः । शूद्रत्वाशुचित्वाद्या
-
विर्भावनं संघावर्णवादः । जिनोपदिष्टो धर्मो निर्गुणस्तदुपसेविनो ये ते चासुरा भविष्य
-
न्तीत्येवमा
२
द्यभिधानं धर्मावर्णवादः । सुरामांसोपसेवाद्याघोषणं देवावर्णवादः ।
०५
द्वितीयस्य मोहस्यास्रवभेदप्रतिपादनार्थमाह —
कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥
१४
॥
कषाया उक्ताः । उदयो विपाकः । कषायाणामुदयात्तीव्रपरिणामश्चारित्रमोहस्या
-
स्रवो वेदितव्यः । तत्र स्वपरकषायोत्पादनं तपस्विजनवृत्तदूषणं संक्लिष्टलिङ्गव्रतधार
-
णादिः कषायवेदनीयस्यास्रवः । सद्धर्मोपहसनदीनातिहासक
३
न्दर्पोपहासबहुविप्रलापोप
-
१०
हासशीलतादिर्हास्यवेदनीयस्य । विचित्रक्रीडनपरताव्रतशीलारुच्यादिः रतिवेदनीयस्य ।
परारतिप्रादुर्भावनरतिविनाशनपापशीलसंसर्गादिः अरतिवेदनीयस्य । स्वशोकोत्पा
४
दनपर
-
१
— णाद्यभिधानं मु., ना. ।
२
— त्येवमभि — मु. ।
३
— नातिहासबहु — मु. ।
४
— त्पादनं परशोकाविष्करणं
शोक — ता. ।
३३३
शोकप्लुताभिनन्दनादिः शोकवेदनीयस्य । स्वभयपरिणामपरभयोत्पादनादिर्भयवे
-
दनीस्य । कुशलक्रियाचारजुगुप्सापरिवादशीलत्वादिर्जुगुप्सावेदनीयस्य । अलीकाभिधा
-
यितातिसन्धानपरत्व
१
पररन्ध्रप्रेक्षित्वप्रवृद्धरागादिः स्त्रीवेदनीयस्य । स्तोकक्रोधानु
-
त्सुकत्वस्वदारसन्तोषादिः पुंṃवेदनीयस्य । प्रचुरकषायगुह्येन्द्रियव्यपरोपणपराङ्गनाव
२
स्क
-
०५
न्दादिर्नपुंसकवेदनीयस्य ।
निर्दिष्टो मोहनीयस्यास्रवभेदः । इदानीं तदनन्तरनिर्दिष्टस्यायुषः
३
आस्रवहेतौ वक्तव्ये
आद्यस्य नियतकालपरिपाकस्यायुषः कारणप्रदर्शनार्थमिदमुच्यते —
बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥
१५
॥
आरम्भः प्राणिपीडाहेतुर्व्यापारः । ममेदंबुद्धिलक्षणः परिग्रहः । आरम्भाश्च परि
-
१०
ग्रहाश्च आरम्भपरिग्रहाः । बहव आरम्भपरिग्रहा यस्य स बह्वारम्भपरिग्रहः । तस्य
भावो बह वारम्भपरिग्रहत्वम् । हिंसादिक्रूरकर्माजस्रप्रवर्तनपरस्वहरणविषयातिगृद्धि
-
कृष्णलेश्याभिजातरौद्रध्यानमरणकालतादिलक्षणो नारकस्यायुष आस्रवो भवति ।
आह, उक्तो नारकस्यायुष आस्रवः । तैर्यग्योनस्येदानीं वक्तव्य इत्यत्रोच्यते —
१
— रत्वं पररन्ध्रापे — मु. । — रत्वं रन्ध्रापे — आ.,
२
— ना स्कन्दा — मु. ।
३
निर्दिष्टस्यायुषः कारण — मु. ।
३३४
माया तैर्यग्योनस्य ॥
१६
॥
चारित्रमोहकर्मविशेषस्योदयादाविर्भूत आत्मनः कुटिलभावोमाया निकृतिः तैर्यग्यो
-
नस्यायुष आस्रवो वेदितव्यः । तत्प्रपञ्चो मिथ्यात्वोपेतधर्मदेशना निःशीलतातिसन्धान
-
प्रियता नीलकपोतलेश्यार्तध्यानमरणकालतादिः ।
०५
आह, व्याख्यातस्तैर्यग्योनस्यायुष आस्रवः । इदानीं मानुषस्यायुषः को हेतुरित्य
-
त्रोच्यते —
अल्पारम्भपरिग्रहत्वं मानुषस्य ॥
१७
॥
नारकायुरास्रवो व्याख्यातः । तद्विपरीतो मानुषस्यायुष इति संक्षेपः । तद्व्यासः —
विनीतस्वभावः प्रकृतिभद्रता प्रगुणव्यवहारता तनुकषायत्वं मरणकालासंक्लेशतादिः ।
१०
किमेतावानेव मानुषस्यायुष आस्रव इत्यत्रोच्यते —
स्वभावमार्दवं च ॥
१८
॥
भृदोर्भावो मार्दवम् । स्वभावेन मार्दवं स्वभावमार्दवम् । उपदेशानपेक्षमित्यर्थः ।
एतदपि मानुषस्यायुष आस्रवः ।
३३५
पृथग्योगकरणं किमर्थम् ? उत्तरार्थम्, देवायुष आस्रवो
१
ऽयमपि यथा स्यात् ।
किमेतदेव द्वितयं
२
मानुषस्यास्रवः ? न; इत्युच्यते —
निश्शीलव्रतत्वं च सर्वेषाम् ॥
१९
॥
‘
च
’
शब्दोऽधिकृतसमुच्चयार्थः । अल्पारम्भपरिग्रहत्वञ्च निःशीलव्रतत्वञ्च ।
०५
शीलानि च व्रतानि च शीलव्रतानि
३
तानि वक्ष्यन्ते । निष्क्रान्तः शीलव्रतेभ्यो निःशीलव्रतः ।
तस्य भावो निःशीलव्रतत्वम् ।
‘
सर्वेषां
’
ग्रहणं सकलायुरास्रवप्रतिपत्त्यर्थम् । किं देवायुषोऽ
-
पि भवति ? सत्यम्, भवति भोगभूमिजापेक्षया ।
अथ चतुर्थस्यायुषः क आस्रव इत्यत्रोच्यते —
सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥
२०
॥
१०
सरागसंयमः संयमासंयमश्च व्याख्यातौ । अकामनिर्जरा अकामश्चारकनिरोध
-
बन्धनबद्धेषु क्षुत्तृष्णानिरोधब्रह्मचर्यभूशय्यामलधारणपरितापादिः । अकामेन निर्जरा
१
आस्रवोऽपि मु. ।
२
द्वितीयं मु. ।
३
— व्रतानि वक्ष्य — मु. ।
३३६
अकामनिर्जरा । बालतपो मिथ्यादर्शनोपेत
१
मनुपायकायक्लेशप्रचुरं निकृतिबहुलव्रतधार
-
णम् । तान्येतानि दैवस्यायुष आस्रवहेतवो वेदितव्याः ।
किमेतावानेव दैवस्यायुष आस्रवः ? नेत्याह —
सम्यक्त्वं च ॥
२१
॥
०५
किम् ? दैवस्यायुष आस्रव इत्यनुवर्तते । अविशेषाभिधानेऽपि सौधर्मादिविशेषगतिः ।
कुतः ? पृथक्करणात् । यद्येवम्, पूर्वसूत्रे उक्त आस्रवविधिरविशेषेण प्रसक्तः तेन सरागसंय
-
मसंयमासंयमावपि भवनवास्याद्यायुष आस्रवौ प्राप्नुतः ? नैष दोषः; सम्यक्त्वाभावे सति
तद्व्यपदेशाभावात्तदुभयमप्यत्रान्तर्भवति ।
आयुषोऽनन्तरमुद्दिष्टस्य नाम्न आस्रवविधौ वक्तव्ये, तत्राऽशुभनाम्न आस्रवप्रति
-
१०
पत्त्यर्थमाह —
योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥
२२
॥
१
— पेतमनुकम्पाकाय — ता., ना. ।
३३७
योगस्त्रिप्रकारो व्याख्यातः । तस्य वक्रता कौटिल्यम् । विसंवादनमन्यथाप्रवर्तनम् ।
ननु च नार्थभेदः । योगवक्रतैवान्यथाप्रवर्तनम् ? सत्यमेवमेतत् — स्वगता योगवक्रतेत्यु
-
च्यते । परगतं विसंवादनम् । सम्यगभ्युदयनिःश्रेयसार्थासु क्रियासु प्रवर्तमानमन्यं तद्वि
-
परीतकायवाङ्मनोभिर्विसंवादयति मैवं कार्षीरेवं कुर्विति । एतदुभयमशुभनामकर्मा
-
०५
स्रवकारणं वेदितव्यम् ।
‘
च
’
शब्देन मिथ्यादर्शनपैशुन्यास्थिरचित्तताकूटमानतुलाकरणपर
-
निन्दाऽऽत्मप्रशंसादिः समुच्चीयते ।
अथ शुभनामकर्मणः क आस्रव इत्यत्रोच्यते —
तद्विपरीतं शुभस्य ॥
२३
॥
कायवाङ्मनसामृजुत्वमविसंवादनं च तद्विपरीतम् ।
‘
च
’
शब्देन समुच्चितस्य च
१०
विपरीतं ग्राह्यम् । धर्मिकदर्शनसंभ्रमसद्भावोपनयनसंसरणभीरुताप्रमादवर्जनादिः ।
तदेतच्छुभनामकर्मास्रवकारणं वेदितव्यम् ।
आह किमेतावानेव शुभनाम्न आस्रवविधिरुत कश्चिदस्ति प्रतिविशेष इत्यत्रोच्यते —
यदिदं तीर्थकरनामकर्मानन्तानुपमप्रभावमचिन्त्यविभूतिविशेषकारणं त्रैलोक्यविजयकरं
३३८
तस्यास्रवविधिविशेषोऽस्तीति । यद्येवमुच्यतां के तस्यास्रवाः ? इत्यत इदमारभ्यते —
दर्शनविशुद्धिर्विनयसम्पन्नता शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ
शविततस्त्यागतपसी साधुसमाधिर्वैयावृत्त्यकरणम् अर्हदाचार्य
-
बहुश्रुतप्रवचनभक्तिर् आवश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥
२४
॥
०५
जिनेन भगवताऽर्हत्परमेष्ठिनोपदिष्टे निर्ग्रन्थलक्षणे मोक्षवर्त्मनि रुचिर्दर्शनविशुद्धिः
प्रागुक्तलक्षणा । तस्या अष्टावङ्गानि निश्शङ्कितत्वं निःकाङ्क्षिता विचिकित्साविरहता
अमूढदृष्टिता उपबृंहणं स्थितीकरणं वात्सल्यं प्रभावनं चेति । सम्यग्ज्ञानादिषु मोक्ष
१
-
मार्गेषु तत्साधनेषु च गुर्वादिषु स्वयोग्यवृत्त्या सत्कार आदरो विनयस्तेन सम्पन्नता विनय
-
सम्पन्नता । अहिंसादिषु व्रतेषु तत्प्रतिपालनार्थेषु च क्रोधवर्जनादिषु शीलेषु निरवद्या
१०
वृत्तिः शीलव्रतेष्वनतीचारः । जीवादिपदार्थस्वतत्त्वविषये सम्यग्ज्ञाने नित्यं युक्तता अभीक्ष्ण
-
ज्ञानोंपयोगः । संसारदुःखान्नित्यभीरुता संवेगः । त्यागो दानम् । तत्त्रिविधम् — आहारदानम
-
भयदानं ज्ञानदानं चेति । तच्छक्तितो यथाविधि प्रयुज्यमानं त्याग इत्युच्यते । अनिगूहित
-
१
मोक्षसाधनेषु तत् — मु. ।
३३९
वीर्यस्य मार्गाविरोधि कायक्लेशस्तपः । यथा भाण्डागारे दहने समुत्थिते तत्प्रशमनमनु
-
ष्ठीयते बहूपकारत्वात्तथाऽनेकव्रतशीलसमृद्धस्य मुनेस्तपसः कुतश्चित्प्रत्यूहे समुपस्थिते
तत्सन्धारणं समाधिः । गुणवद्दुःखोपनिपाते निरवद्येन विधिना तदपहरणं वैयावृत्त्यम् ।
अर्हदाचार्येषु
१
बहुश्रुतेषु प्रवचने च भावविशुद्धियुक्तोऽनुरागो भक्तिः । षण्णामावश्यक
-
०५
क्रियाणां यथाकालं प्रवर्तनमावश्यकापरिहाणिः । ज्ञानत
२
पोदानजिनपूजाविधिना धर्म
-
प्रकाशनं मार्गप्रभावना । वत्से धेनुवत्सधर्मणि स्नेहः प्रवचनवत्सलत्वम् । तान्येतानि
षोडशकारणानि सम्यग्भाव्यमानानि व्यस्तानि समस्तानि च तीर्थकरनामकर्मास्रव
-
कारणानि प्रत्येतव्यानि ।
इदानीं नामास्रवाभिधानानन्तरं गोत्रास्रवे वक्तव्ये सति नीचैर्गोत्रस्यास्रवविधानार्थ
-
१०
मिदमाह —
परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ॥
२५
॥
त
३
थ्यस्य वाऽतथ्यस्य वा दोषस्योद्भावनं प्रति इच्छा निन्दा । गुणोद्भावनाभिप्रायः
प्रशंसा । यथासंख्य
४
मभिसम्बन्धः — परनिन्दा आत्मप्रशंसेति । प्रतिबन्धकहेतुसन्निधाने
१
— चार्यबहु — मु. ।
२
— तपोजिन — मु. ।
३
तथ्यस्य वा दो — मु ।
४
— संख्यमिति सम्ब — आ., दि.
१, दि, २ ।
३४०
सति अनुद्भूतवृत्तिता अनाविर्भाव उच्छादनम् । प्रतिबन्धकाभावे
१
प्रकाशवृत्तिता
उद्भावनम् । अत्रापि च यथाक्रममभिसम्बन्धः — सद्गुणोच्छादनमसद्गुणोद्भावन
-
मिति । तान्येतानि नीचैर्गोत्रस्यास्रवकारणानि वेदितव्यानि ।
अथोच्चैर्गोत्रस्य क आस्रवविधिरत्रोच्यते —
०५
तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य ॥
२६
॥
‘
तत्
’
इत्यनेन प्रत्यासत्तेर्नीचैर्गोत्रस्या
२
स्रवः प्रतिनिर्दिश्यते । अन्येन
३
प्रकारेण वृत्तिर्विप
-
र्ययः । तस्य विपर्ययस्तद्विपर्ययः । कः पुनरसौ विपर्ययः ? आत्मनिन्दा, परप्रशंसा, सद्गुणो
-
द्भावनमसद्गुणोच्छादनं च । गुणोत्कृष्टेषु विनयेनावनतिर्नीचैर्वृत्तिः । विज्ञानादिभि
-
रुत्कृष्टस्यापि सतस्तत्कृतमदविरहोऽनहङ्कारताऽनुत्सेकः । तान्येतान्युत्तरस्योच्चैर्गोत्र
-
१०
स्यास्रवकारणानि भवन्ति ।
अथ गोत्रानन्तरमुद्दिष्टस्यान्तरायस्य क आस्रव इत्युच्यते —
विध्नकरणमन्तरायस्य ॥
२७
॥
१
— भावेन प्रकाश — मु. ।
२
— गोत्रास्रवः आ., दि. १, दि. २ ।
३
अनेन मु. ।
३४१
दानादीन्युक्तानि
‘
दानलाभभोगोपभोगवीर्याणि च
’
इत्यत्र । तेषां विहननं विघ्नः ।
विघ्नस्य करणं विघ्नकरणमन्तरायस्यास्रवविधिर्वेदितव्यः । अत्र चोद्यते — तत्प्रदोषनि
-
ह्नवादयो ज्ञानदर्शनावरणादीनां प्रतिनियता आस्रवहेतवो वर्णिताः, किं ते प्रतिनियत
-
ज्ञानावरणाद्यास्रवहेतव एव उताविशेषेणेति । यदि प्रतिनियतज्ञानावरणाद्यास्रवहेतव
०५
एव, आगमविरोधः प्रसज्यते । आगमे हि सप्त कर्माणि आयुर्वर्ज्यानि प्रतिक्षणं युगपदास्र
-
वन्तीत्युक्तम् । तद्विरोधः स्यात् । अथाविशेषेण आस्रवहेतवो
१
विशेषनिर्देशो न युक्त इति ?
अत्रोच्यते — यद्यपि तत्प्रदोषादिभिर्ज्ञानावरणादीनां सर्वासां कर्मप्रकृतीनां प्रदेशबन्धनियमो
नास्ति, तथाप्यनुभागनियमहेतुत्वेन तत्प्रदोषनि ह्नवादयो विभज्यन्ते ।
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां षष्ठोऽध्यायः ।
१
— हेतुविशेष — आ., ता., ना., दि. १, दि. २ ।
३४२
अथ सप्तमोऽध्यायः
आस्रवपदार्थो व्याख्यातः । तत्प्रारम्भकाले एवोक्तं
‘
शुभः पुण्यस्य
’
इति तत्सामान्ये
-
नोक्तम् । तद्विशेषप्रतिपत्त्यर्थं कः पुनः शुभ इत्युक्ते इदमुच्यते —
हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रत
१
म् ॥
१
॥
०५
‘
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा
’
इत्येवमादिभिः सूत्रैर्हिंसादयो निर्देक्ष्यन्ते । तेभ्यो
विरमणं विरतिर्व्रतमित्युच्यते । व्र
२
तमभिसन्धिकृतो नियमः, इदं कर्तव्यमिदं न कर्तव्यमिति
वा । ननु च हिंसादयः परिणामविशेषा अध्रुवाः, कथं तेषाम
३
पादानत्वमुच्यते ? बुद्ध्यपाये
ध्रुवत्वविवक्षोपपत्तेः । यथा ध
४
र्माद्विरमतीत्यत्र य एष मनुष्यः सम्भिन्नबुद्धिः स पश्यति —
दुष्करो धर्मः, फलं चास्य श्रद्धामात्रगम्यमिति स
५
बुद्ध्या सम्प्राप्य निवर्तते । एवमिहापि य
६
१
‘
अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः ।
’
— पा. यो. सू. २, ३० ।
२
‘
अभिसन्धिकृता विरतिर्विषया
-
१०
द्योग्याद्व्रतं भवति ।
’
— रत्नº ३, ४० ।
३
‘
ध्रुवमपायेऽपादानम् ।
’
— पा. १, ४, २४ ।
४
‘
धर्माद्विरमति X X य
एष मनुष्यः संभिन्नबुद्धिर्भवति स पश्यति ।
’
— पा. म. भा. १, ४, ३, २४ ।
५
स्वबुद्ध्या मु. ।
‘
स बुद्ध्या निवर्तते ।
’
—
पा. म. भा. १, ४, ३, २४ ।
६
‘
य एष मनुष्यः प्रेक्षापूर्वकारी भवति स पश्यति ।
’
— पा. म. भा. १, ४, ३, २४ ।
३४३
एष मनुष्यः प्रेक्षापूर्वकारी स पश्यति — य एते हिंसादयः परिणामास्ते पापहेतवः । पाप
-
कर्मणि प्रवर्तमानान् जनानिहैव राजानो दण्डयन्ति परत्र च दुःखमाप्नुवन्तीति स
१
बुद्ध्या
सम्प्राप्य निवर्तते । ततो बुद्ध्या ध्रुवत्वविवक्षोपपत्तेरपादानत्वं युक्तम् ।
‘
विरति
’
शब्दः
प्रत्येकं परिसमाप्यते हिंसाया विरतिः अनृताद्विरतिरित्येवमादि । तत्र अहिंसाव्रतमादौ
०५
क्रियते प्रधानत्वात् । सत्यादीनि हि तत्परिपालनार्थानि सस्यस्य वृतिपरिक्षेपवत् । सर्व
-
सावद्यनिवृत्तिलक्षणसामायिकापेक्षया एकं व्रतं, तदेव छेदोपस्थापनापेक्षया पञ्चविध
-
मिहोच्यते । ननु च अस्य व्रतस्यास्रवहेतुत्वमनुपपन्नं संवरहेतुष्वन्तर्भावात् । संवरहेतवो
वक्ष्यन्ते गुप्तिसमित्यादयः । तत्र दशविधे धर्मे संयमे वा व्रतानामन्तर्भाव इति ? नैषदोषः;
तत्र संवरो निवृत्तिलक्षणो वक्ष्यते । प्रवृत्तिश्चात्र दृश्यते
२
; हिंसानृतादत्तादानादिपरित्यागे
१०
अहिंसासत्यवचनदत्तादानादिक्रियाप्रतीतेः गुप्त्यादिसंवरपरिकर्मत्वाच्च । व्रतेषु हि कृत
-
परिकर्मा साधुः सुखेन संवरं करोतीति ततः पृथक्त्वेनोपदेशः क्रियते । ननु च षष्ठमणु
-
१
— वन्तीति स्वबुद्ध्या मु., ता. ना. ।
२
दृश्यते हिंसानृतादत्तादानादिक्रिया — मु. ।
३४४
व्रतमस्ति रात्रिभोजनविरमणं तदिहोपसंख्यातव्यम् ? न; भावनास्वन्तर्भावात् । अहिंसा
-
व्रतभावना हि वक्ष्यन्ते
१
। तत्र आलोकितपानभोजनभावना कायति ।
तस्य पञ्चतयस्य व्रतस्य भेदप्रतिपत्त्यर्थमाह —
देशसर्वतोऽणुमह
२
ती ॥
२
॥
०५
देश एकदेशः । सर्वः सकलः । देशश्च सर्वश्च देशसर्वौ ताभ्यां देशसर्वतः ।
‘
विरतिः
’
इत्यनुवर्तते । अणु च महच्चाणुमहती । व्रताभिसम्बन्धान्नपुंṃसकलिङ्गनिर्देशः । यथासंख्य
-
मभिसम्बध्यते । देशतो विरतिरणुव्रतं सर्वतो विरतिर्महाव्रतमिति द्विधा भिद्यते प्रत्येकं
व्रतम् । एतानि व्रतानि भावितानि वरौषधव
३
द्यत्नवते दुःखनिवृत्तिनिमित्तानि भवन्ति ।
किमर्थं कथं वा भावनं तेषामित्यत्रोच्यते —
१०
तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ॥
३
॥
तेषां व्रतानां स्थिरीकरणायैकैकस्य व्रतस्य पञ्च पञ्च भावना वेदितव्याः ।
१
— क्ष्यन्ते । आलो — आ., दि. १, दि., २ ।
२
‘
एते जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् ।
’
— पा. यो. सू. २, ३१ ।
३
वरौषधवत् दुःख — आ. ।
३४५
यद्येवमाद्यस्याहिंसाव्रतस्य भावनाः का इत्यत्रोच्यते —
वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥
४
॥
वाग्गुप्तिः मनोगुप्तिः ईर्यासमितिः आदाननिक्षेपणसमितिः आलोकितपानभोजन
-
मित्येताः पञ्चाहिंसाव्रतस्य भावनाः ।
०५
अथ द्वितीयस्य व्रतस्य का इत्यत्रोच्यते —
क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचीभाषणं च पञ्च ॥
५
॥
क्रोधप्रत्याख्यानं लोभप्रत्याख्यानं भीरुत्वप्रत्याख्यानं हास्यप्रत्याख्यानम् अनुवीची
-
भाषणं चेत्येताः पञ्च भावनाः सत्यव्रतस्य ज्ञेयाः । अनुवीचीभाषणं निरवद्यानुभाषण
-
मित्यर्थः ।
१०
इदानीं तृतीयस्य व्रतस्य का भावना इत्यत्राह —
शून्यागारविमोचितावासपरोपरोधाकरणभैक्षशुद्धिसधर्माविसंवादाः पञ्च ॥
६
॥
शून्यागारेषु गिरिगुहातरुकोटरादिष्वावासः । परकीयेषु च विमोचितेष्वावासः ।
परेषामुपरोधाऽकरणम् । आचारशास्त्रमार्गेण भैक्षशुद्धिः । ममेदं तवेदमिति सधर्मभिर
-
३४६
विसंवादः । इत्येताः पञ्चादत्तादानविरमणव्रतस्य भावनाः ।
अथेदानीं ब्रह्मचर्यव्रतस्य भावना वक्तव्या इत्यत्राह —
स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरण
-
वृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥
७
॥
०५
त्यागशब्दः प्रत्येकं परिसमाप्यते । स्त्रीरागकथाश्रवणत्यागः तन्मनोहराङ्गनिरी
-
क्षणत्यागः पूर्वरतानुस्मरणत्यागः वृष्येष्टरसत्यागः स्वशरीरसंस्कारत्यागश्चेति चतुर्थ
-
व्रतस्य भावनाः पञ्च विज्ञेयाः ।
अथ पञ्चमव्रतस्य भावनाः का इत्यत्रोच्यते —
मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च ॥
८
॥
१०
पञ्चानामिन्द्रियाणां स्पर्शनादीनामिष्टानिष्टेषु विषयेषू
१
पनिपतितेषु स्पर्शादिषु राग
-
वर्जनानि पञ्च आकिञ्चन्यस्य व्रतस्य भावनाः प्रत्येतव्याः ।
किञ्चान्यद्यथाऽमीषां व्रतानां द्रढिमार्थं भावनाः प्रतीयन्ते तद्विपश्चिद्भिरिति
भावनोपदेशः, तथा तदर्थं तद्विरोधिष्वपीत्याह —
१
— येषूपरिपतितेषु आ., दि. १, दि. २ ।
३४७
हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥
९
॥
अभ्युदयनिःश्रेयसार्थानां क्रियाणां विनाशकः
१
प्रयोगोऽपायः । अवद्यं गर्ह्यम् । अपाय
-
श्चावद्यं चापायावद्ये तयोर्दर्शनमपायावद्यदर्शनं भावयितव्यम् । क्व ? इहामुत्र च । केषु ?
हिंसादिषु । कथमिति चेदुच्यते — हिंसायां तावत्, हिंस्रो हि नित्योद्वेजनीयः सततानु
-
०५
बद्धवैरश्च इह च वधबन्धपरिक्लेशादीन् प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च
भवतीति हिंसाया व्युपरमः श्रेयान् । तथा अनृतवादी अश्रद्धेयो भवति इहैव च जिह्वाच्छे
-
दादीन् प्रतिलभते मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यो बहूनि व्यसनान्यवाप्नोति
प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति अनृतवचनादुपरमः श्रेयान् । तथा स्तेनः परद्रव्या
-
हरणासक्तः सर्वस्योद्वेजनीयो भवति । इहैव चाभिघातवधबन्धहस्तपादकर्णनासोत्तरौष्ठ
-
१०
च्छेदनभेदनसर्वस्वहरणादीन् प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयाद्
व्युपरतिः श्रेयसी । तथा अब्रह्मचारी मदविभ्रमोद्भ्रान्तचित्तो वनगज इव वासिता
-
१
— शकप्रयो — मु. ।
३४८
वञ्चितो विवशो वधबन्धनपरिक्लेशाननुभवति मोहाभिभूतत्वाच्च कार्याकार्यानभिज्ञो
न किञ्चित्कुशलमाचरति पराङ्गनालिङ्गनसङ्गकृतरतिश्चेहैव वैरानुबन्धिनो लिङ्ग
-
च्छेदनवधबन्धसर्वस्वहरणादीनपायान् प्राप्नोति प्रेत्य चाशुभां गतिमश्नुते गर्हितश्च
भवति अतो विरतिरात्महिता । तथा परिग्रहवान् शकुनिरिव गृहीतमांसखण्डोऽन्येषां
०५
तदर्थिनां पतत्त्रिणामिहैव तस्करादीनामभिभवनीयो भवति तदर्जनरक्षणप्रक्षयकृतांश्च
दोषान् बहूनवाप्नोति न चास्य तृप्तिर्भवति इन्धनैरिवाग्नेः लोभामिभूतत्वाच्च कार्याकार्या
-
नपेक्षो भवति प्रेत्य चाशुभां गतिमास्कन्दते लुब्धोऽयमिति गर्हितश्च भवतीति तद्वि
-
रमणं श्रेयः । एवं हिंसादिष्वपायावद्यदर्शनं भावनीयम् ।
हिंसादिषु भावनान्तरप्रतिपादनार्थमाह —
१०
दुःखमेव वा ॥
१०
॥
हिंसादयो दुःखमेवेति भावयितव्याः । कथं हिंसादयो दुःखम् ? दुःखकारणत्वात् ।
यथा
’
अन्नं वै प्राणाः
’
इति । कारणस्य कारणत्वाद्वा । यथा
’
धनं प्राणाः
’
इति । धनकारण
-
३४९
मन्नपानमन्नपानकारणाः प्राणा इति । तथा हिंसादयोऽसद्वेद्यकर्मकारणम् । असद्वेद्यकर्म
च दुःखकारणमिति दुःखकारणे दुःखकारणकारणे वा दुःखोपचारः । तदेते
१
दुःखमेवेति
भावनं परात्मसाक्षिकमवगन्तव्यम् । ननु
२
च तत्सर्वं न दुःखमेव; विषयरतिसुखसद्भावात् ?
न तत्सुखम्; वेदनाप्रतीकारत्वात्कच्छूकण्डूयनवत् ।
०५
पुनरपि भावना
३
न्तरमाह —
४
मैत्रीप्रमोदकारुण्यमाध्यस्थानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥
११
॥
परेषां दुःखानुत्पत्त्यभिलाषो मैत्री । वदनप्रसादादिभिरभिव्यज्यमानान्तर्भवितरागः
प्रमोदः । दीनानुग्रहभावः कारुण्यम् । रागद्वेषपूर्वकपक्षपाताभावो माध्यस्थम् । दुष्कर्म
-
विपाकवशान्नानायोनिषु सीदन्तीति सत्त्वा जीवाः । सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिकाः ।
१०
असद्वेद्योदयापादितक्लेशाः क्लिश्यमानाः । तत्त्वार्थश्रवणग्रहणाभ्यामसंपादितगुणा अवि
-
नेयाः । एतेषु सत्त्वादिषु यथासंख्यं मैत्र्यादीनि भावयितव्यानि । सर्वसत्त्वेषु मैत्री,
१
तदेते दुःखमेवेति भावनं परमात्मसा — आ. । तदेतत् दुःखमेवेति भावनं परात्मसा — मु. । तदेते दुःखमेवेति
भावनं परत्रात्मसा — ता. ।
२
ननु च सर्वं दुःखमेव ता. ।
३
भावनार्थमाह आ., दि. १, दि. २ ।
४
‘
मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनतश्चित्तप्रसादनम् ।
’
— पा. यो. सू. १, ३३ ।
३५०
गुणाधिकेषु प्रमोदः, क्लिश्यमानेषु कारुण्यम्, अविनेयेषु माध्यस्थमिति । एवं भावयतः
पूर्णान्यहिंसादीनि व्रतानि भवन्ति ।
पुनरपि भावनान्तरमाह —
जगत्का
१
यस्वभावौ वा संवेगवैराग्यार्थम् ॥
१२
॥
०५
जगत्स्वभावस्तावदनादिरनिधनो वेत्रासनझल्लरीमृदङ्गनिभः । अत्र जीवा अनादि
-
संसारेऽनन्तकालं नानायोनिषु दुःखं भोजं भोजं पर्यटन्ति । न चात्र किञ्चिन्नियतमस्ति ।
जलबुद्बुदोपमं जीवितम्, विद्युन्मेघादिविकारचपला भोगसम्पद इति । एवमादिजगत्स्व
-
भावचिन्तनात्संसारात्संवेगो भवति । कायस्वभावश्च अनित्यता दुःखहेतुत्वं निःसारता
अशुचित्वमिति । एवमादिकायस्वभावचिन्तनाद्विषयरागनिवृत्तेर्वैराग्यमुपजायते । इति
१०
जगत्कायस्वभावौ भावयितव्यौ ।
अत्राह; उक्तं भवता
२
हिंसादिनिवृत्तिर्व्रतमिति, तत्र न जानीमः के हिंसादयः
क्रियाविशेषा इत्यत्रोच्यते । युगपद्वक्तुमशक्यत्वात्तल्लक्षणनिर्देशस्य क्रमप्रसङ्गे याऽसा
-
वादौ चोदिता सैव तावदुच्यते —
१
‘
शौचात्स्वाङ्गजुगुप्सा परैरसंसर्गः ।
’
— पा. यो. सू. २, ४० ।
२
भगवता मु., ता., ना. ।
३५१
प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥
१३
॥
प्रमादः सकषायत्वं तद्वानात्मपरिणामः प्रमत्तः । प्रमत्तस्य योगः प्रमत्तयोगः ।
तस्मात्प्रमत्तयोगात् इन्द्रियादयो दशप्राणास्तेषां यथासंभवं व्यपरोपणं वियोगकरणं
हिंसेत्यभिधीयते । सा प्राणिनो दुःखहेतुत्वादधर्महेतुः ।
‘
प्रमत्तयोगात्
’
इति विशेषणं
०५
केवलं प्राणव्यपरोपणं नाधर्मायेति ज्ञापनार्थम् । उक्तं च —
’
वियोज
१
यति चासुभिर्न च वधेन संयुज्यते ॥
’
इति ॥
उक्तं च —
’
उच्चा
२
लिदम्हि पादे इरियासमिदस्स णिग्गमट्ठाणे ।
आवादे
[धे]
ज्ज कुलिंगो मरेज्ज तज्जोगमासेज्ज ॥
१०
ण हि त
३
स्स तण्णिमित्तो बंधो सुहुमो वि देसिदो समए ।
मुच्छापरिग्गहो त्ति य अज्झप्पपमाणदो भणिदो ॥
’
ननु च प्राणव्यपरोपणाभावेऽपि प्रमत्तयोगमात्रादेव हिंसेष्यते । उक्तं च —
’
मरदु
४
व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा ।
पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स ॥
’
१
सिद्ध. द्वा. ३, १६ ।
२
प्रवचन. क्षे. ३, १६ ।
३
प्रवचन. क्षे. ३, १७ ।
४
वचन. ३, १७ ।
३५२
नैष दोषः । अत्रा
१
पि प्राणव्यपरोपणमस्ति भावलक्षणम् । तथा चोक्तम् —
’
स्वयमेवात्मनाऽऽत्मानं हिनस्त्यात्मा प्रमादवान् ।
पूर्वं प्राण्यन्तराणान्तु पश्चात्स्याद्वा न वा वधः ॥
’
आह अभिहितलक्षणा हिंसा । तदनन्तरोद्दिष्टमनृतं किंलक्षणमित्यत्रोच्यते —
०५
असदभिधानमनृतम् ॥
१४
॥
सच्छब्दः प्रशंसावाची । न सदसदप्रशस्तमिति यावत् । असतोऽर्थस्याभिधानमसद
-
भिधानमनृतम् । ऋतं सत्यं, न ऋतमनृतम् । किं पुनरप्रशस्तम् ? प्राणिपीडाकरं यत्तद
-
प्रशस्तं विद्यमानार्थविषयं वा अविद्यमानार्थविषयं वा । उक्तं च प्रागेवाहिंसा
२
व्रतपरि
-
पालनार्थमितरद्व्रतम् इति । तस्माद्धिंसाकरं
३
वचोऽनृतमिति निश्चेयम् ।
१०
अथानृतानन्तरमुद्दिष्टं यत्स्तेयं तस्य किं लक्षणमित्यत आह —
अदत्तादानं स्तेयम् ॥
१५
॥
आदानं ग्रहणमदत्तस्यादानमदत्तादानं स्तेयमित्युच्यते । यद्येवं कर्मनोकर्मग्रहणमपि
१
तत्रापि आ., दि. १, दि. २ ।
२
— हिंसाप्रतिपाल — मु. ।
३
कर्मवचो मु. ।
३५३
स्तेयं प्राप्नोति; अन्येनादत्तत्वात् ? नैष दोष; दानादाने यत्र सम्भवतस्तत्रैव स्तेय
-
व्यवहारः । कुतः ?
‘
अदत्त
’
ग्रहणसामर्थ्यात् । एवमपि भिक्षोर्ग्रामनगरादिषु भ्रमणकाले
रथ्याद्वारादिप्रवेशाददत्तादानं प्राप्नोति ? नैष दोषः; सामान्येन मुक्तत्वात् । तथाहि —
अयं भिक्षुः पिहितद्वारादिषु न प्रविशति अमुक्तत्वात् । अथवा
‘
प्रमत्तयोगात्
’
इत्यनुवर्तते ।
०५
प्रमत्तयोगाददत्तादानं यत् तत्स्तेयमित्युच्यते । न च रथ्यादि प्रविशतः प्रमत्तयोगोऽस्ति ।
तेनैतदुक्तं भवति, यत्र संक्लेशपरिणामेन प्रवृत्तिस्तत्र स्तेयं भवति बाह्यवस्तुनो
१
ग्रहणे
चाग्रहणे च ।
अथ चतुर्थमब्रह्म किंलक्षणमित्यत्रोच्यते —
मैथुनमब्रह्म ॥
१६
॥
१०
स्त्रीपुंṃसयोश्चारित्रमोहोदये सति रागपरिणामाविष्टयोः परस्परस्पर्शनं प्रति इच्छा
मिथुनम् । मिथुनस्य कर्म मैथुनमित्युच्यते । न सर्वं कर्म । कुतः ? लोके शास्त्रे च तथा
१
— वस्तुनो ग्रहणे च आ. ।
३५४
प्रसिद्धेः । लोके तावदागोपालादिप्रसिद्धं स्त्रीपुंṃस
१
योः रागपरिणामनिमित्तं चेष्टितं मैथुन
-
मिति । शास्त्रेऽपि
’
अश्ववृ
२
षभयोर्मैथुनेच्छायाम्
’
इत्येवमादिषु तदेव गृह्यते । अपि च
‘
प्रमत्तयोगात्
’
इत्यनुवर्तते तेन स्त्रीपुंṃसमिथुनविषयं रतिसुखार्थं चेष्टितं मैथुनमिति गृह्यते,
न सर्वम् । अहिंसादयो
३
गुणा यस्मिन् परिपाल्यमाने बृंहन्ति वृद्धिमुपयान्ति तद् ब्रह्म ।
०५
न ब्रह्म अब्रह्म
४
इति । किं तत् ? मैथुनम् । तत्र हिंसादयो दोषाः पुष्यन्ति । यस्मान्मैथुन
-
सेवनप्रवणः स्थास्नूंṃश्चरिष्णूनू प्राणिनो हिनस्ति मृषावादमाचष्टे अदत्तमादत्ते अचेतन
-
मितरं
५
च परिग्रहं गृह् णाति ।
अथ पञ्चमस्य परिग्रहस्य किं लक्षणमित्यत आह —
मूर्छा परिग्रहः ॥
१७
॥
१०
मूर्छेत्युच्य
६
ते । का मूर्छा ? बाह्यानां गोमहिषमणिमु
७
क्ताफलादीनां चेतनाचेतना
८
ना
-
माभ्यन्तराणां च रागादीनामुपधीनां संरक्षणार्जनसंस्कारादिलक्षणाव्यावृत्तिर्मूर्छा । ननु
१
— पुंṃसराग — मु. ।
२
पाº सूº ७ । १ । ५१ इत्यत्र वार्तिकम् ।
३
— दयो धर्मा य — मु. ।
४
अब्रह्म ।
किं मु. ।
५
सचेतनमितरच्च मु. ।
६
— च्यते । केयं मूर्च्छा मु., आ., दि. १, दि. २ ।
७
— मुक्तादी — मु.,
ता. ।
८
— तनानां च रागा — मु. ।
३५५
च लोके वातादिप्रकोपविशेषस्य मूर्छेति प्रसिद्धिरस्ति तद्ग्रहणं कस्मान्न भवति ? सत्यमेव
-
मेतत् । मूर्छिरयं मोहसामान्ये वर्तते ।
’
सामान्यचोदनाश्च विशेषेष्ववतिष्ठन्ते
’
इत्युक्ते
विशेषे व्यवस्थितः परिगृह्य
१
ते; परिग्रहप्रकरणात् । एवमपि बाह्यस्य परिग्रहत्वं न
प्राप्नोति; आध्यात्मिकस्य संग्रहात् ? सत्यमेवमेतत्; प्रधानत्वादभ्यन्तर एव संगृहीतः
२
।
०५
असत्यपि बाह्ये ममेदमिति सङ्कल्पवान् सपरिग्रह
३
एव भवति । अथ बाह्यः परिग्रहो न
भवत्येव, भवति च मूर्छाकारणत्वात् यदि ममेदमिति संकल्पः परिग्रहः; सञ्ज्ञानाद्यपि
परिग्रहः प्राप्नोति तदपि हि ममेदमिति सङ्कल्प्यते रागादिपरिणामवत् ? नैष दोषः;
‘
प्रमत्तयोगात्
’
इत्यनुवर्तते
४
। ततो ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावान्न मूर्छाऽस्तीति
निष्परिग्रहत्वं सिद्धम् । किञ्च तेषां ज्ञानादीनामहेयत्वादात्मस्वभावत्वादपरि
-
१०
ग्रहत्वम् । रागादयः पुनः कर्मोदयतन्त्रा इति अनात्मस्वभावत्वाद्धेयाः । ततस्तेषु सङ्कल्पः
परिग्रह इति युज्यते । तन्मूलाः सर्वे दोषाः । ममेदमिति हि सति संकल्पे संरक्षणादयः
१
— गृह्यते । एवमपि ता., ना. ।
२
संगृह्यते । असत्यपि मु. ।
३
— ग्रहो भवति मु. ।
४
— र्तते ।
ज्ञान — आ., दि. १, दि. २ ।
३५६
संजायन्ते । तत्र च हिंसाऽवश्यम्भाविनी । तदर्थमनृतं जल्पति । चौर्यं वा
१
आचरति ।
मैथुने च कर्मणि प्रयतते । तत्प्रभवा नरकादिषु दुःखप्रकाराः ।
एवमुक्तेन
२
प्रकारेण हिंसादिदोषदर्शिनोऽहिंसादिगुणाहितचेतसः परमप्रयत्नस्याहिंसा
-
दीनि व्रतानि यस्य सन्ति सः —
०५
निश्शल्यो व्रती ॥
१८
॥
शृणाति हिनस्तीति शल्यम् । शरीरानुप्रवेशि काण्डादिप्रहरणं
३
शल्यमिव शल्यं
यथा तत् प्राणिनो बाधाकरं तथा
४
शारीरमानसबाधाहेतुत्वात्कर्मोदयविकारः शल्यमित्यु
-
पचर्यते । तत् त्रिविधम् — मायाशल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति । माया निकृति
-
र्वञ्चना । निदानं विषयभोगाकाङ्क्षा । मिथ्यादर्शनमतत्त्वश्रद्धानम् । एतस्मात्त्रि
-
१०
विधाच्छल्यान्निष्क्रान्तो निश्शल्यो व्रती इत्युच्यते । अत्र चोद्यते — शल्याभावान्निःशल्यो
व्रताभिसम्बन्धाद् व्रती, न निश्शल्यत्वाद्व्रती भवितुमर्हति । न हि देवदत्तो दण्डसम्बन्धा
-
च्छत्री भवतीति ? अत्रोच्यते — उभयविशेषणविशिष्ट
५
स्येष्टत्वात् । न हिंसाद्युपरति
-
१
चौर्यं चाचरति ता. ।
२
एवमुक्तक्रमेण हिंसा — ता. ।
३
— प्रहरणं । तच्छल्य — मु. ।
४
तथा
शरीर — मु. ।
५
— विशिष्टत्वात् मु. ।
३५७
मा
१
त्रव्रताभिसम्बन्धाद् व्रती भवत्यन्तरेण शल्याभावम् । सति शल्यापगमे व्रतसम्बन्धाद्
व्रती विवक्षितो यथा बहुक्षीरघृतो गोमानिति व्यपदिश्यते । बहुक्षीरघृताभावात्सतीष्वपि
गोषु न गोमांस्तथा सशल्यत्वात्सत्स्वपि व्रतेषु न व्रती । यस्तु निःशल्यः स व्रती ।
तस्य भेदप्रतिपत्त्यर्थमाह —
०५
अगार्यनगारश्च ॥
१९
॥
प्रतिश्रयार्थिभिः अङ्ग्यते इति अगारं वेश्म, तद्वानगारी । न विद्यते अगारमस्येत्यन
-
गारः । द्विविधो व्रती अगारी अनगारश्च । ननु चात्र विपर्ययोऽपि प्राप्नोति शून्या
-
गारदेवकुलाद्यावासस्य मुनेरगारित्वम् अनिवृत्तविषयतृष्णस्य कुतश्चित्कारणाद् गृहं
विमुच्य वने वसतोऽनगारत्वञ्च प्रानोतीति
२
? नैष दोषः; भावागारस्य विवक्षितत्वात् ।
१०
चारित्रमोहोदये सत्यगारसम्बन्धं प्रत्यनिवृत्तः
३
परिणामो भावागारमित्युच्यते । स
यस्यास्त्यसावगारी वने वसन्नपि । गृहे वसन्नपि तदभावादनगार इति च भवति । ननु
चागारिणो व्रतित्वं न प्राप्नोति; असकलव्रतत्वात् ? नैष दोषः; नैगमादिनयापेक्षया
१
— मात्रसम्ब — मु. ।
२
— प्नोति नैष आ., दि. १, दि. २ ।
३
— वृत्तिपरि — आ., दि., १, दि. २ ।
३५८
अगारिणोऽपि व्रतित्वमुपपद्यते नगरावासवत् । यथा गृहे अपवरके वा वसन्नपि नगरावास
इत्युच्येत तथा असकलव्रतोऽपि नैगमसंग्रहव्यवहारनयापेक्षया व्रतीति व्यपदिश्यते ।
अत्राह किं हिंसादीनामन्यतमस्माद्यः प्रतिनिवृत्तः स खल्वगारी व्रती ? नैवम् ।
किं तर्हि ? पञ्चतय्या अपि विरतेर्वैकल्येन विवक्षित इत्युच्यते —
०५
अणुव्रतोऽगारी ॥
२०
॥
‘
अणु
’
शब्दोऽल्पवचनः । अणूनि व्रतान्यस्य अणुव्रतोऽगारीत्युच्यते । कथमस्य व्रताना
-
मणुत्वम् ? सर्वसावद्यनिवृत्त्यसम्भवात् । कुतस्तर्ह्यसौ निवृत्तः । त्रसप्राणिव्यपरोपणान्नि
-
वृत्तः अगारीत्याद्यमणुव्रतम् । स्नेहमोहादिवशाद् गृहविनाशे ग्रामविनाशे वा कारणमित्य
-
भिमतादसत्यवचनान्निवृत्तो गृहीति द्वितीयमणुव्रतम् । अन्यपीडाक
१
रं पार्थिवभयादिवशाद
-
१०
वश्यं परित्यक्तमपि यददत्तं ततः प्रतिनिवृत्तादरः श्रावक इति तृतीयमणुव्रतम् । उपात्ताया
अनुपात्तायाश्च पराङ्गनायाः सङ्गान्निवृत्तरतिर्गृहीति चतुर्थमणुव्रतम् । धनधान्यक्षेत्रा
-
१
— करपार्थिव — मु. ।
३५९
दीनामिच्छावशात् कृतपरिच्छेदो गृहीति पञ्चममणुव्रतम् ।
आह अपरित्यक्तागारस्य किमेतावानेव विशेष आहोस्विदस्ति कश्चिदन्योऽपीत्यत
आह —
दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसं
-
०५
विभागव्रतसम्पन्नश्च ॥
२१
॥
‘
विरति
’
शब्दः प्रत्येकं परिसमाप्यते । दिग्विरतिः देशविरतिः अनर्थदण्डविरति
-
रिति एतानि त्रीणि गुणव्रतानि;
‘
व्रत
’
शब्दस्य प्रत्येकमभिसम्बन्धात् । तथा सामायिक
-
व्रतं प्रोषधोपवासव्रतं उपभोगपरिभोगपरिमाणव्रतं अतिथिसंविभागव्रतं
१
एतानि
चत्वारि शिक्षाव्रतानि । एतैर्व्रतैः सम्पन्नो गृही विरताविरत इत्युच्यते । तद्यथा — दिक्प्रा
-
१०
च्यादिः तत्र प्रसिद्धैरभिज्ञानैरवधिं कृत्वा नियमनं दिग्विरतिव्रतम् । ततो बहिस्त्रसस्थावर
-
व्यपरोपणनिवृत्तेर्महाव्रतत्व
२
मवसेयम् । तत्र लाभे सत्यपि परिणामस्य निवृत्तेर्लोभनिरासश्च
कृतो भवति । ग्रामादीनामवधृतपरिमाणः
३
प्रदेशो देशः । ततो बहिर्निंवृत्तिर्देशविरति
-
व्रतम् । पूर्ववद्बहिर्महाव्रतत्वं व्यवस्थाप्यम् । असत्युपकारे पापादानहेतुरनर्थदण्डः
४
। ततो
१
व्रतम् । इत्येतै — मु. ।
२
सीमन्तानां परतः स्थूलेतरपञ्चपापसंत्यागात् । देशावकाशिकेन च महाव्रतानि
प्रसाध्यन्ते ॥
’
— रत्न. ३, ५ ।
३
— माणप्रदेशो मु. ।
४
‘
पापोपदेशहिंसादानापध्यानदुःश्रुतीः पञ्च । प्राहुः
१५
प्रमादचर्यामनर्थदण्डानदण्डधराः ॥
’
— रत्न. ३, ५ ।
३६०
विरतिरनर्थदण्डविरतिः । अनर्थदण्डः पञ्चविधः — अपध्यानं पापोपदेशः प्रमादाचरितं
हिंसाप्रदानं अशुभश्रुतिरिति । तत्र परेषां जयपराजयवधबन्धनाङ्ग
१
च्छेदपरस्वहर
-
णादि कथं स्यादिति मनसा
२
चिन्तनमपध्यानम्
३
। तिर्यक्क्लेशवाणिज्यप्राणिवधकारम्भा
-
दिषु पापसंयुक्तं वचनं पापो
४
पदेशः । प्रयोजनमन्तरेण वृक्षादिच्छेदनभूमिकुट्टनसलिल
-
०५
सेचनाद्यवद्यकर्म प्रमादाच
५
रितम् । विषकण्टकशस्त्राग्निरज्जुकशादण्डादिहिंसोपकरणप्रदानं
हिंसाप्रदानम् । हिंसारागादिप्रवर्धनदुष्टकथाश्रवणशिक्षणव्यापृतिरशुभश्रुतिः ।
समेकीभा
६
वे वर्तते । तद्यथा सङ्गतं घृतं सङ्गतं तैलमित्युच्यते एकीभूतमिति गम्यते ।
एकत्वेन अयनं गमनं समयः, समय एव सामायिकं, समयः प्रयोजनमस्येति वा विगृह्य
सामायिकम् । इयति देशे एतावति काले इत्यवधारिते सामायिके स्थितस्य महाव्रतत्वं
१०
पूर्ववद्वेदितव्यम् । कुतः ? अणुस्थूलकृतहिंसादिनिवृत्तेः । संयमप्रसङ्ग इति चेत् ? न;
१
— च्छेदस्वहर — आ. । च्छेदसर्वस्वहर — दि. १, द. २ ।
२
‘
वधबन्धच्छेदादेर्द्वेषाद्रागाच्च परकलत्रादेः ।
आध्यानमपध्यानं शासति जिनशासने विशदाः ॥
’
— रत्न. ३, ३२ ।
३
— ध्यानम् । प्राणिवधक — आ., दि. १, दि.
२ ।
४
‘
तिर्यक्क्लेशवणिज्याहिंसारम्भप्रलम्भनादीनाम् । कथाप्रसङ्गप्रसवः स्मर्तव्यः पाप उपदेशः ॥
’
—
रत्न. ३, ३० ।
५
‘
क्षितिसलिलदहनपवनारम्भं विफलं वनस्पतिच्छेदम् । सरणं सारणमपि च प्रमादचर्यां प्रभा
-
षन्ते ॥
’
— रत्न. ३, ३४ ।
६
’
तद्यदा तावदेकार्थीभावः सामर्थ्यन्तदैवं विग्रहः करिष्यते — सङ्गतार्थः समर्थःसृष्टार्थः
१५
समर्थ इति । तद्यथा सङ्गतं घृतं सङ्गतं तैलमित्युच्यते एकीभूतमिति गम्यते ।
’
— पा. म. भा. २, १, १, १ ।
३६१
तद्धातिकर्मोदयसद्भावात् । महाव्रतत्वाभाव इति चेत् ? तन्न; उपचाराद् राजकुले सर्व
-
गतचैत्राभिधानवत् ।
प्रोषधशब्दः पर्वपर्यायवाची । शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पञ्चापीन्द्रि
-
याण्युपेत्य तस्मिन् वसन्तीत्युपवासः । च
१
तुर्विधाहारपरित्याग इत्यर्थः । प्रोषधे उपवासः
०५
प्रोषधोपवासः । स्व
२
शरीरसंस्कारकारणस्नानगन्धमाल्याभरणादिविरहितः शुचाववकाशे
साधुनिवासे चैत्यालये स्वप्रोषधोपवासगृहे वा धर्मकथाश्रवणश्रावणचिन्तनविहितान्तः —
करणः सन्नुपवसेन्निरारम्भः श्रावकः ।
उपभोगोऽशनपानगन्धमाल्यादिः । परिभोग आच्छादनप्रावरणालङ्कारशयनासनगृह
-
यानवाहनादिः । तयोः परिमाणमुपभोगपरिभोगपरिमाणम् । म
३
धु मांसं मद्यञ्च सदा
१०
परिहर्तव्यं त्रसघातान्निवृत्तचेतसा ।
४
केतक्यर्जुनपुष्पादीनि शृङ्गवेरमूलकादीनि बहुजन्तु
-
१
‘
चतुराहारविसर्जनमुपवासः ।
’
— रत्न. ४, १९ ।
२
‘
पञ्चानां पापानामलंक्रियारम्भगन्धपुष्पाणाम् । स्नानाञ्ज
-
ननस्यानामुपवासे परिहृतिं कुर्यात् ॥ धर्मामृतं सतृष्णः श्रवणाभ्यां पिबतु पाययेद्वान्यान् । ज्ञानध्यानपरो वा भवतूप
-
वसन्नतन्द्रालुः ॥
’
— रत्न. ४
-
१७, १८ ।
३
‘
त्रसहतिपरिहरणार्थं क्षौद्रं पिशितं प्रमादपरिहृतये । मद्यं च वर्जनीयं
जिनचरणौ शरणमुपयातैः ॥
’
— रत्न. ३, ३८ ।
४
‘
अल्पफलबहुविधातान्मूलकमार्द्राणि शृंगवेराणि । नवनीतनि
-
म्बकुसुमं कैतकमित्येवमवहेयम् ॥
’
— रत्न. ३, ३९ ।
३६२
योनिस्थानान्यनन्तकायव्यपदेशार्हाणि परिहर्तव्यानि बहुघाताल्पफलत्वात् । यानवाह
१
ना
-
भरणादिष्वेतावदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्तनं कर्तव्यं कालनियमेन यावज्जीवं
वा यथाशक्ति ।
संयममविनाशयन्नततीत्यतिथिः । अथवा नास्य तिथिरस्तीत्यतिथिः अनियतकाला
-
०५
गमन इत्यर्थः । अतिथये संविभागोऽतिथिसंविभागः । स चतुर्विधः; भिक्षोपकरणौषध
-
प्रतिश्रयभेदात् । मोक्षार्थमभ्युद्यतायातिथये संयमपरायणाय शुद्धाय शुद्धचेतसा निरवद्या
भिक्षा देया । धर्मोपकरणानि च सम्यग्दर्शनाद्युपबृंहणानि दातव्यानि । औषधमपि
योग्यमुपयोजनीयम् । प्रतिश्रयश्च परमधर्मश्रद्धया प्रतिपादयितव्य इति ।
‘
च
’
शब्दो
वक्ष्यमाणगृहस्थधर्मसमुच्चयार्थः ।
१०
कः पुनरसौ ? —
मारणान्तिकीं सल्लेखनां जोषिता ॥
२२
॥
स्वपरिणामोपात्तस्यायुष इन्द्रियाणां बलानां च कारणवशात्संक्षयो मरणम् ।
‘
अन्त
’
ग्रहणं तद्भवमरणप्रतिपत्त्यर्थम् । मरणमन्तो मरणान्तः । स प्रयोजनमस्येति मारणा
-
१
‘
यदनिष्टं तद्व्रतयेद्यच्चानुपसेव्यमेतदपि जह्यात् ।
’
— रत्न. ३, ४० ।
३६३
न्तिकी । सम्यक्कायकषायलेखना सल्लेखना । कायस्य बाह्यस्याभ्यन्तराणां च कषा
-
याणां तत्कारणहाप
१
नक्रमेण सम्यग्लेखना सल्लेखना । तां मारणान्तिकीं सल्लेखनां जोषिता
सेविता गृहीत्यभिसम्बध्यते । ननु च विस्पष्टार्थं सेवितेत्येवं वक्तव्यम् ? न; अर्थ
-
विशेषोपपत्तेः । न केवलमिह सेवनं परिगृह्यते । किं तर्हि ? प्रीत्यर्थोऽपि । यस्मादसत्यां
०५
प्रीतौ बलान्न सल्लेखना कार्यते । सत्यां हि प्रीतौ स्वयमेव करोति । स्यान्मतमात्मवधः
प्राप्नोति; स्वाभिसन्धिपूर्वकायुरादिनिवृत्तेः ? नैष दोषः; अप्रमत्तत्वात् ।
‘
प्रमत्तयोगा
-
त्प्राणव्यपरोपणं हिंसा
’
इत्युक्तम् । न चास्य प्रमादयोगोऽस्ति । कुतः ? रागाद्यभावात् ।
रागद्वेषमोहाविष्टस्य हि विषशस्त्राद्युपकरणप्रयोगवशादात्मानं घ्नतः स्वघातो भवति ।
न सल्लेखनां प्रतिपन्नस्य रागादयः सन्ति ततो नात्मवधदोषः । उक्तं च —
१०
’
रागादीणमणुप्पा अहिंसगत्तं ति
२
देसिदं समये ।
तेसिं चे उप्पत्ती हिंसेति जिणेहि णिद्दिट्ठा ॥
’
१
— हापनया क्रमे — आ., दि. १, ता. ।
२
त्ति भासिदं स — मु. ।
३६४
किञ्च मरणस्यानिष्टत्वाद्यथा वणिजो विविधपण्यदानादानसञ्चयपरस्य स्वगृहवि
-
नाशोऽनिष्टः । तद्विनाशकारणे च कुतश्चिदुपस्थिते यथाश
१
क्ति परिहरति । दुष्परिहारे
च पण्यविनाशो यथा न भवति तथा यतते । एवं गृहस्थोऽपि व्रतशीलपण्यसंचये प्रवर्तमानः
तदाश्रयस्य न पातमभिवाञ्छति । तदुपप्लवकारणे चोपस्थिते स्वगुणाविरोधेन परि
-
०५
हरति । दुष्परिहारे च यथा स्वगुणविनाशो न भवति तथा प्रयतत इति कथमात्मवधो
भवेत् ।
अत्राह,
‘
निःशल्यो व्रती
’
इत्युक्तं तत्र च तृतीयं शल्यं मिथ्यादर्शनम् । ततः सम्यग्दृष्टिना
व्रतिना
२
निःशल्येन भवितव्यमित्युक्तम् । तत्सम्यग्दर्शनं किं सापवादं निरपवादमिति ?
उच्यते — कस्यचिन्मोहनीयावस्थाविशेषात्कदाचिदिमे भवन्त्यपवादाः —
१०
शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ॥
२३
॥
निःशङ्कितत्वादयो व्याख्याताः
‘
दर्शनविशुद्धिः
’
इत्यत्र । तत्प्रतिपक्षभूताः शङ्कादयो
वेदितव्याः । अथ प्रशंसासंस्तवयोः को विशेषः ? मनसा मिथ्यादृष्टेर्ज्ञानचारित्रगुणो
-
१
— शक्ति च परि — मु. ।
२
व्रतिना भवि — आ., दि., १, दि. २ ।
३६५
द्भावनं प्रशंसा, भूताभूतगुणोद्भाववचनं संस्तव इत्ययमनयोर्भेदः । ननु च सम्यग्दर्शनम
-
ष्टाङ्गमुक्तं तस्यातिचारैरप्यष्टभिर्भवितव्यम् ? नैष दोषः; व्रतशीलेषु पञ्च पञ्चाति
-
चारा इत्युत्तरत्र विवक्षुणाऽऽचार्येण प्रशंसासंस्तवयोरितरानतिचारानन्तर्भाव्य पञ्चैवाति
-
चारा उक्ताः ।
०५
आह, सम्यग्दृष्टेरतिचारा उक्ताः । किमेवं व्रतशीलेष्वपि भवन्तीति ? ओमित्यु
-
क्त्वा तदतिचारसंख्यानिर्देशार्थमाह —
व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥
२४
॥
व्रतानि च शीलानि च व्रतशीलानि तेषु व्रतशीलेषु । शीलग्रहणमनर्थकम्; व्रतग्रहणेनैव
सिद्धेः ? नानर्थकम्; विशेषज्ञापनार्थं व्रतपरिरक्षणार्थं शीलमिति दिग्विरत्यादीनीह
१०
‘
शील
’
ग्रहणेन गृह्यन्ते ।
अगार्यधिकारादगारिणो व्रतशीलेषु पञ्च पञ्चातिचारा वक्ष्यमाणा यथाक्रमं वेदित
-
व्याः । तद्यथा — आद्यस्य तावदहिंसाव्रतस्य —
३६६
बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ॥
२५
॥
अभिमतदेशगतिनिरोधहेतुर्बन्धः । दण्डकशावेत्रादिभिरभिघातः प्राणिनां वधः,
न प्राणव्यपरोपणम्; ततः प्रागेवास्य विनिवृत्तत्वात् । कर्णनासिकादीनामवयवानामप
-
नयनं छेदः । न्याय्यभारादतिरिक्तवाहनमतिभारारोपणम् । गवादीनां क्षुत्पिपासाबाधा
-
०५
करणमन्नपाननिरोधः । एते पञ्चाहिंसाणुव्रतस्यातिचाराः ।
मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥
२६
॥
अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवर्तनमतिसन्धापनं वा मिथ्यो
-
पदेशः । यत्स्त्रीपुंसाभ्यामेकान्तेऽनुष्ठितस्य क्रियाविशेषस्य प्रकाशनं तद्रहोभ्याख्यानं
वेदितव्यम् । अन्येनानुक्त
१
मननुष्ठितं यत्किंचित्परप्रयोगवशादेवं तेनोक्तमनुष्ठितमिति
१०
वञ्चनानिमित्तं लेखनं कूटलेखक्रिया । हिरण्यादेर्द्रव्यस्य निक्षेप्तुर्विस्मृतसंख्यस्याल्पसंख्येय
-
माददानस्यैवमित्यनुज्ञावचनं न्यासापहारः । अर्थप्रकरणाङ्गविकारभ्रूवि
२
क्षेपादिभिः परा
-
कूतमुपलभ्य तदाविष्करणमसूयादिनिमित्तं यत्तत्साकारमन्त्रभेद इति कथ्यते । त एते
सत्याणुव्रतस्य पञ्चातिचारा बोद्धव्याः ।
१
— नुक्तं यत्किं मु. ।
२
— भ्रूनिक्षेपणादि — मु. ।
३६७
स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूप
-
कव्यवहाराः ॥
२७
॥
मुष्णन्तं स्वयमेव वा प्रयुङ्क्तेऽन्येन वा प्रयोजयति प्रयुक्तमनुमन्यते वा यतः स स्तेन
-
प्रयोगः । अप्रयुक्तेनाननुमतेन च चौरेणानीतस्य ग्रहणं तदाहृतादानम् । उचितन्या
-
०५
यादन्येन प्रकारेण दानग्रहणमतिक्रमः । विरुद्धं राज्यं विरुद्धराज्यं विरुद्धराज्येऽतिक्रमः
विरुद्धराज्यातिक्रमः । तत्र ह्यल्पमूल्यलभ्यानि महार्घ्याणि द्रव्याणीति प्रयत्नः । प्रस्थादि
मानम्, तुलाद्युन्मानम् । एतेन न्यूनेनान्यस्मै देयमधिकेनात्मनो ग्राह्यमित्येवमादिकूटप्रयोगो
हीनाधिकमानोन्मानम् । कृत्रिमैर्हिरण्यादिभिर्वञ्चनापूर्वको व्यवहारः प्रतिरूपकव्यवहारः ।
त एते पञ्चादत्तादानाणुव्रतस्यातिचाराः ।
१०
परविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकाम
-
तीव्राभिनिवेशाः ॥
२८
॥
कन्यादानं विवाहः । परस्य विवाहः परविवाहः । परविवाहस्य करणं परविवाह
-
करणम् । परपुरुषानेति गच्छतीत्येवंशीला
१
इत्वरी । कुत्सिता इत्वरी कुत्सायां क
१
शीला इत्वरी कुत्सा — मु., ता. ।
३६८
इत्वरिका । या एकपुरुषभर्तृका सा परिगृहीता । या गणिकात्वेन पुंश्चलीत्वेन वा पर
-
पुरुषगमनशीला अस्वामिका सा अपरिगृहीता । परिगृहीता चापरिगृहीता च परिगृहीता
-
परिगृहीते । इत्वरिके च ते परिगृहीतापरिगृहीते च इत्वरिकापरिगृहीताऽपरिगृहीते,
तयोर्गमने इत्वरिकापरिगृहीतापरिगृहीतागमने । अङ्गं प्रजननं योनिश्च ततोऽन्यत्र क्रीडा
०५
अनङ्गक्रीडा । कामस्य प्रवृद्धः परिणामः कामतीव्राभिनिवेशः । त एते पञ्च स्वदारसन्तोष
-
व्रतस्यातिचाराः ।
क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥
२९
॥
क्षेत्रं सस्याधिकरणम् । वास्तु अगारम् । हिरण्यं रूप्यादिव्यवहारतन्त्रम् । सुवर्णं
प्रतीतम् । धनं गवादि । धान्यं व्रीह्यादि । दासीदासं भृत्यस्त्रीपुंसवर्गः । कुप्यं क्षौमका
-
१०
र्पासकौशेयचन्दनादि । क्षेत्रं च वास्तु च क्षेत्रवास्तु, हिरण्यं च सुवर्णं च हिरण्यसुवर्णम्,
धनं च धान्यं च धनधान्यम्, दासी च दासश्च दासीदासम् । क्षेत्रवास्तु च हिरण्यसुवर्णं च
धनधान्यं च दासीदासं च कुप्यं च क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यानि ।
एतावानेव परिग्रहो मम नान्य इति प
१
रिच्छिन्नाणुप्रमाणात्क्षेत्रवास्त्वादिविषयादतिरेका
अतिलोभवशात्प्रमाणातिक्रमा इति प्रत्याख्यायन्ते । त एते परिग्रहपरिमाणव्रतस्याति
-
१५
चाराः ।
१
— च्छिन्नात्प्रमा — मु. ।
३६९
उक्ता व्रतानामतिचाराः शीलानामतिचारा वक्ष्यन्ते । तद्यथा —
ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥
३०
॥
परिमितस्य दिगवधेरतिलङ्घनमतिक्रमः । स समासतस्त्रिविधः — ऊर्ध्वातिक्रमः
अधोऽति
१
क्रमस्तिर्यगतिक्रमश्चेति । तत्र पर्वताद्यारोहणादूर्ध्वातिक्रमः । कूपावतरणादेर
-
०५
धोऽतिक्रमः । बिलप्रवेशादेस्तिर्यगतिक्रमः । परिगृहीताया दिशो लोभावेशादाधिक्याभि
-
सन्धिः क्षेत्रवृद्धिः । स एषोऽतिक्रमः प्रमादान्मोहाद् व्या
२
सङ्गाद्वा भवतीत्यवसेयः । अननु
-
स्मरणं स्मृत्यन्तराधानम् । त एते दिग्विरमणस्यातिचाराः ।
आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥
३१
॥
आत्मना सङ्कल्पिते देशे स्थितस्य प्रयोजनवशाद्यत्किञ्चिदानयेत्या
३
ज्ञापनमानयनम् ।
१०
एव कुर्विति नियोगः प्रेष्यप्रयोगः । व्यापारकरान्पुरुषान्प्रत्यभ्युत्कासिकादिकरणं शब्दानु
-
पातः । स्वविग्रहदर्शनं रूपानुपातः । लोष्टादिनिपातः पुद्गलक्षेपः । त एते देशविरमणस्य
पञ्चातिचाराः ।
कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥
३२
॥
रागोद्रेकात्प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । तदेवोभयं परत्र दुष्टकायकर्म
-
१
अधोऽतिक्रमः बिलप्र — मु. ।
२
मोहाद्यासङ्गा — मु. ।
३
— नयेदित्या — आ., दि. १, दि. २ ।
३७०
प्रयुक्तं कौत्कुच्यम् । धार्ष्ट्यप्रायं
१
यत्किञ्चनानर्थकं बहुप्रला
२
पित्वं मौखर्यम् । असमीक्ष्य
प्रयोजनमाधिक्येन करणमसमीक्ष्याधिकरणम् । यावताऽर्थेनोपभोगपरिभोगौ सोऽर्थस्ततो
ऽन्यस्याधिक्यमानर्थक्यम् । त एते पञ्चानर्थदण्डविरतेरतिचाराः ।
योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ॥
३३
॥
०५
योगो व्याख्यातस्त्रिविधः । तस्य दुष्टं
३
प्रणिधानं योगदुष्प्रणिधानम् — कायदुष्प्रणि
-
धानं वाग्दुष्प्रणिधानं मनोदुष्प्रणिधानमिति । अनादरोऽनुत्साहः । अनैकाग्र्यं स्मृत्यनुप
-
स्थानम् । त एते पञ्च सामायिकस्यातिक्रमाः ।
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥
३४
॥
जन्तवः सन्ति न सन्ति वेति प्रत्यवेक्षणं चक्षुर्व्यापारः । मृदुनोपकरणेन यत्क्रियते प्रयो
-
१०
जनं तत्प्रमार्जितम् । तदुभयं प्रतिषेधविशिष्टमुत्सर्गादि
४
भिस्त्रिभिरभिसम्बध्यते — अप्रत्य
-
वेक्षिताप्रमार्जितोत्सर्ग इत्येवमादि । तत्र अप्रत्यवेक्षिताप्रमार्जितायां
५
भूमौ मूत्रपुरीषोत्सर्गः
अप्रत्यवेक्षिताप्रमार्जितोत्सर्गः । अप्रत्यवेक्षिताप्रमार्जितस्यार्हदाचार्यपूजोपकरणस्य गन्ध
-
१
— प्रायं बहु — आ., दि. १, दि. २ ।
२
— प्रलपितं मौ — मु. ।
३
दुःप्रणि — मु. ।
४
— दभिरभि — मु. ।
५
— मार्जितभूमौ आ., दि. १, दि. २ ।
३७१
माल्यधूपादेरात्मपरिधानाद्यर्थस्य च वस्त्रादेरादानमप्रत्यवेक्षिताप्रमार्जितादानम् । अप्रत्यवे
-
क्षिताप्रमार्जितस्य प्रावरणादेः संस्तरस्योपक्रमणं अप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रम
-
णम् । क्षुदभ्यर्दितत्वादावश्यकेष्वनादरोऽनुत्साहः । स्मृत्यनुपस्थानं व्याख्यातम् । त
एते पञ्च प्रोषधोपवासस्यातिचाराः ।
०५
सचित्तसम्बन्धसम्मिश्राभिषवदुष्पक्वाहाराः ॥
३५
॥
सह चित्तेन वर्तते इति सचित्तं चेतनावद् द्रव्यम् । तदुपश्लिष्टः सम्बन्धः । तद्व्यति
-
कीर्णः सम्मिश्रः । कथं पुनरस्य सचित्तादिषु प्रवृत्तिः
१
? प्रमादसम्मोहाभ्याम् । द्रवो वृष्यो
वाभिषवः । असम्यक्पक्वो दुष्पक्वः । एतैराहारो विशेष्यते — सचित्ताहारः सम्बन्धा
-
हारः सम्मिश्राहारोऽभिषवाहारो दुष्पक्वाहार इति । त एते पञ्च भोगोपभोगपरिसंख्यान
-
१०
स्यातिचाराः ।
सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥
३६
॥
सचित्ते पद्मपत्रादौ निक्षेपः सचित्तनिक्षेपः । अपिधानमावरणम् । सचित्तेनैव सम्बध्यते
१
— त्तिः स्यात् ? प्रमा — मु. ।
३७२
सचित्तापिधानमिति । अन्यदातृदेयार्पणं परव्यपदेशः । प्रयच्छतोऽप्यादराभावोऽन्यदातृ
-
गुणासहनं वा मात्सर्यम् । अकाले भोजनं कालातिक्रमः । त एते पञ्चातिथिसंविभाग
-
शीलातिचाराः ।
जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि ॥
३७
॥
०५
आशंसनमाशंसा आकाङ्क्षणमित्यर्थः । जीवितं च मरणं च जीवितमरणम्, जीवित
-
मरणस्याशंसे जीवितमरणाशंसे । पूर्वसुहृत्सहपांसुक्रीडनाद्यनुस्मरणं मित्रानुरागः । अनु
-
भूतप्रीतिविशेषस्मृतिसमन्वाहारः सुखानुबन्धः । भोगाकाङ्क्षया नियतं दीयते चित्तं
तस्मिंस्तेनेति व निदानम् । त एते पञ्च सल्लेखनाया अतिचाराः ।
अत्राह, उक्तं भवता
१
तीर्थकरत्वकारणकर्मास्रवनिर्देशे
‘
शक्तितस्त्यागतपसी
’
इति,
१०
पुनश्चोक्तं शीलविधान
‘
अतिथिसंविभाग
’
इति । तस्य दानस्य लक्षणमनिर्ज्ञातं तदुच्यता
-
मित्यत आह —
अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥
३८
॥
स्वपरोपकारोऽनुग्रहः । स्वोपकारः पुण्यसंचयः, परोपकारः सम्यग्ज्ञानादिवृद्धिः ।
१
भगवता मु., ता. ।
३७३
‘
स्व
’
शब्दो धनपर्यायवचनः । अनुग्रहार्थं स्वस्यातिसर्गस्त्यागो दानं वेदितव्यम् ।
अत्राह — उक्तं दानं तत्किमविशिष्टफलमाहोस्विदस्ति कश्चित्प्रतिविशेष इत्यत
आह —
विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥
३९
॥
०५
प्रतिग्रहादिक्रमो विधिः । विशेषो गुणकृतः । तस्य प्रत्येकमभिसम्बन्धः क्रियते —
विधिविशेषो द्रव्यविशषो दातृविशेषः पात्रविशेष इति । तत्र विधिविशेषः प्रतिग्रहादिष्वा
-
दरानादरकृतो भेदः । तपःस्वाध्यायपरिवृद्धिहेतुत्वादिर्द्रव्यविशेषः । अनसूयाविषादादि
-
र्दातृविशेषः । मोक्षकारणगुणसंयोगः पात्रविशेषः । ततश्च पुण्यफलविशेषः क्षित्यादि
१
-
विशेषाद् बीजफलविशेषवत् ।
१०
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां सप्तमोऽध्यायः समाप्तः ।
१
क्षेत्रादि — मु. ।
३७४
अथाष्टमोऽध्यायः
व्याख्यात आस्रवपदार्थः । तदनन्तरोद्देशभाग्बन्धपदार्थ इदानीं व्याख्येयः । तस्मि
-
न्व्याख्येये सति पूर्वं बन्धहेतूपन्यासः क्रियते; तत्पूर्वकत्वाद् बन्धस्येति —
मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥
१
॥
०५
मिथ्यादर्शनादय उक्ताः । क्व ? मिथ्यादर्शनं तावदुक्तम्,
‘
तत्त्वार्थश्रद्धानं
१
सम्यग्दर्शनम्
’
इत्यत्र तत्प्रतिपक्षभूतम्, आस्रवविधाने च क्रियासु व्याख्यातं मिथ्यादर्शनक्रियेति । विर
-
तिरुक्ता । तत्प्रतिपक्षभूता अविरतिर्ग्राह्या । आज्ञाव्यापादनक्रिया अनाकाङ्क्षाक्रियेत्यनयोः
प्रमादस्यान्तर्भावः । स च प्रमादः कुशलेष्वनादरः । कषायाः क्रोधादयः अनन्तानुबन्ध्य
-
प्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाः प्रोक्ताः । क्व ?
‘
इन्द्रियकषाया
-
’
इत्यत्रैव ।
१०
योगाः कायादिविकल्पाः प्रोक्ताः । क्व ?
‘
कायवाङ्मनःकर्म योगः
’
इत्यत्र ।
१
श्रद्धानं इत्यत्र आ., दि. १, दि. २ ।
३७५
मिथ्यादर्शनं द्विविधम्; नैसर्गिकं परोपदेशपूर्वकं च । तत्र परोपदेशमन्तरेण मिथ्यात्व
-
कर्मोदयवशाद् यदाविर्भवति तत्त्वार्थाश्रद्धानलक्षणं तन्नैसर्गिकम् । परोपदेशनिमित्तं चतु
-
र्विधम्; क्रियाक्रियावाद्यज्ञानिक
१
वैनयिकविकल्पात् । अथवा पञ्चविधं मिथ्यादर्शनम् —
एकान्तमिथ्यादर्शनं विपरीतमिथ्यादर्शनं संशयमिथ्यादर्शनं वैनयिकमिथ्यादर्शनं अज्ञा
-
०५
निकमिथ्यादर्शनं चेति । तत्र इदमेव इत्थमेवेति धर्मिधर्मयोरभिनिवेश एकान्तः ।
’
पुरुष
एवेदं सवम्
३
’
इति वा नित्य एव वा अनित्य एवेति । सग्रन्थो निर्ग्रन्थः, केवली कवलाहारी,
स्त्री सिध्यतीत्येवमादिः विपर्ययः । सम्यग्दशनज्ञानचारित्राणि किं मोक्षमार्गः स्याद्वा न
वेत्यन्यतरपक्षापरिग्रहः संशयः । सर्वदेवतानां सर्वसमयानां च समदर्शनं वैनयिकम् ।
हिताहितपरीक्षाविरहोऽज्ञानिकत्वम् । उक्तञ्च —
१०
’
असिदिस
४
दं किरियाणं अक्किरिया
५
णं तह य होइ चुलसीदी ।
सत्त
६
ट्ठमण्णाणीणं वेणैयाणं तु बत्तीसं ॥
’
अविरतिर्द्वादशविधा; षट्कायषट्करणविषयभेदात् । षोडश कषाया नव नोकषाया
७
-
१
— ज्ञानिवै — मु. ।
२
अज्ञानमिथ्या — मु. ।
३
इति वा नित्यमेवेति मु., दि. १, दि.
२, आ. ।
४
गो. कर्म., गा. ८७६ ।
५
— याणं च होइ मु. ।
६
सत्तच्छण्णा — मु. ।
७
— षायाः
ईषद्भे — दि. दि. २, आ. ।
३७६
स्तेषामीषद्भेदो न भेद इति पञ्चविंशतिः कषायाः । चत्वारो मनोयोगाश्चत्वारो वाग्योगाः
पञ्च काययोगा इति त्रयोदशविकल्पो योगः । आहारककाययोगाहारकमिश्रकाययोगयोः
प्रमत्तसंयते सम्भवात्पञ्चदशापि
१
भवन्ति । प्रमादोऽनेकविधः
२
; शुद्ध्यष्टकोत्तमक्षमादि
-
विषयभेदात्
३
। त एते पञ्च बन्धहेतवः समस्ता व्यस्ताश्च भवन्ति । तद्यथा —
०५
मिथ्यादृष्टेः पञ्चापि समुदिता बन्धहेतवो भवन्ति । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृ
-
ष्ट्यसंयतसम्यग्दृष्टीनामविरत्यादयश्चत्वारः । संयतासंयतस्याविरतिर्विरतिमिश्रा प्रमाद
-
कषाययोगाश्च । प्रमत्तसंयतस्य प्रमादकषाययोगाः । अप्रमत्तादीनां चतुर्णां योगकषायौ ।
उपशान्तकषायक्षीणकषायसयोगकेवलिनामेक एव योगः । अयोगकेवलिनो न बन्धहेतुः ।
उक्ता बन्धहेतवः । इदानीं बन्धो वक्तव्य इत्यत आह —
१०
सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते स बन्धः ॥
२
॥
सह कषायेण वर्तत इति सकषायः । सकषायस्य भावः सकषायत्वम् । तस्मात्सकषाय
-
त्वादिति । पुनर्हेतुनिर्देशः
४
जठराग्न्याशयानुरूपाहारग्रहणवत्तीव्रमन्दमध्यमकषायाशयानुरू
-
१
— दश भवन्ति आ., दि. १, दि. २ ।
२
— नेकविधःपञ्चसमितित्रिगुप्तिशुद्ध्य — मु., आ.,
दि. १, दि. २ ।
३
— भेदात् । शुद्ध्यष्टकस्यार्थः भावकायविनयेर्यापथभिक्षाप्रतिष्ठापनशयनासनवाक्य
-
शुद्धयोऽष्टौ दशलक्षणो धर्मश्च । त एते मु., आ., दि. १, दि. २ ।
४
— निर्देशः किमर्थम् ? जठ — मु., दि. १ ।
३७७
पस्थित्यनुभवविशेषप्रतिपत्त्यर्थम्
१
। अमूर्तिरहस्य आत्मा कथं कर्मादत्त इति चोदितः सन्
‘
जीवः
’
इत्याह । जीवनाज्जीवः प्राणधारणादायुःसम्बन्धान्नायुर्विरहादिति ।
‘
कर्मयोग्यान्
’
इति लघुनिर्देशात्सिद्धे
‘
कर्मणो योग्यान्
’
इति पृथग्विभक्त्युच्चारणं वाक्यान्तरज्ञापनाथम् ।
किं पुनस्तद्वाक्यान्तरम् ? कर्मणो जीवः सकषायो भवतीत्येकं वाक्यम् । एतदुक्तं भवति —
०५
‘
कर्मणः
’
इति हेतुनिर्देशः कर्मणो हेतोर्जीवः सकषायो भवति नाकर्मकस्य कषायलेपोऽस्ति ।
ततो जीवकर्मणोरनादिसम्बन्ध इत्युक्तं भवति । तेनामूर्तो जीवो मूर्तेन कर्मणा कथं बध्यते
इति चोद्यमपाकृतं भवति । इतरथा हि बन्धस्यादिमत्त्वे आत्यन्तिकीं शुद्धिं दधतः सिद्ध
-
स्येव बन्धाभावः प्रसज्येत । द्वितीयं वाक्यं
‘
कर्मणो योग्यान् पुद्गलानादत्ते
’
इति । अर्थवशाद्
-
विभक्तिपरिणाम इति
२
पूर्वहेतुसम्बन्धं त्यक्त्वा षष्ठीसम्बन्धमुपैति
‘
कर्मणो योग्यान्
’
इति ।
१०
‘
पुद्गल
’
वचनं कर्मणस्तादात्म्यख्यापनार्थम्
३
। तेनात्मगुणोऽदृष्टो निराकृतो भवति; तस्य
संसारहेतुत्वानुपपत्तेः ।
‘
आदत्ते
’
इति हेतुहेतुमद्भावख्यापनार्थम् । अतो मिथ्यादर्शनाद्या
-
१
— त्यर्थः । अहस्त आत्मा ता., ना. ।
२
पूर्वं हेतु — मु. ।
३
— नार्थम् । अत आत्म — आ. ।
३७८
वेशादार्द्रीकृतस्यात्मनः सर्वतो योगविशेषात्तेषां सूक्ष्मैकक्षेत्रावगाहिनामनन्तानन्तप्रदेशानां
पुद्गलानां कर्मभावयोग्यानामविभागेनोपश्लेषो बन्ध इत्याख्यायते । यथा भाजनविशेषे
१
प्रक्षिप्तानां विविधरसबीजपुष्पफलानां मदिराभावेन परिणामस्तथा पुद्गलानामप्यात्मनि
स्थितानां योगकषायवशात्कर्मभावेन परिणामो वेदितव्यः ।
‘
सः
’
वचनमन्यनिवृत्त्यर्थम् ।
०५
स एष बन्धो नान्योऽस्तीति । तेन गुणगुणिबन्धो निवर्तितो भवति । कर्मादिसाधनो
‘
बन्ध
’
-
शब्दो व्याख्येयः ।
आह किमयं बन्ध एकरूप एव, आहोस्वित्प्रकारा अप्यस्य सन्तीत्यत इदमुच्यते —
प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ॥
३
॥
प्रकृतिः स्वभावः । निम्बस्य का प्रकृतिः ? तिक्तता । गुडस्य का प्रकृतिः ? मधुरता ।
१०
तथा ज्ञानावरणस्य का प्रकृतिः ? अर्थानवगमः । दर्शनावरणस्य का प्रकृतिः ? अर्थानालो
-
१
— शेषे क्षिप्ता — मु. ।
३७९
कनम् । वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनम् । दर्शनमोहस्य तत्त्वार्थाश्रद्धानम् ।
चारित्रमोहस्यासंयमः । आयुषो भवधारणम् । नाम्नो नारकादिनामकरणम् । गोत्रस्यो
-
च्चैर्नींचैःस्थानसंशब्दनम् । अन्तरायस्य दानादिविघ्नकरणम् । तदेवंलक्षणं कार्यं प्रक्रियते
प्रभवत्यस्या इति प्रकृतिः । तत्स्वभावादप्रच्युतिः स्थितिः । यथा — अजागोमहिष्यादिक्षी
-
०५
राणां माधुर्यस्वभावादप्रच्युतिः स्थितिः । तथा ज्ञानावरणादीनामर्थावगमादिस्वभावाद
-
प्रच्युतिः स्थितिः । तद्रसविशेषोऽनुभवः । यथा — अजागोमहिष्यादिक्षीराणां तीव्रमन्दादि
-
भावेन रसविशेषः । तथा कर्मदुपुद्गलानां स्वगतसामर्थ्यविशेषोऽनुभवः । इयत्तावधारणं
प्रदेशः । कर्मभावपरिणतपुद्गलस्कन्धानां परमाणुपरिच्छेदेनावधारणं प्रदेशः ।
‘
विधि
’
-
शब्द प्रकारवचनः । त एते प्रकृत्यादयश्चत्वारस्तस्य बन्धस्य प्रकाराः । तत्र योगनिमित्तौ
१०
प्रकृतिप्रदेशौ । कषायनिमित्तौ स्थित्यनुभवौ । तत्प्रकर्षाप्रकर्षभेदात्तद्बन्धविचित्रभावः ।
तथा चोक्तम् —
’
जोगा
१
पयडि
-
पएसा ठिदिअणुभागा कसायदो कुणदि ।
अपरिणदुच्छिण्णेसु य बंधट्ठिदिकारणं णत्थि ॥
’
१
मूला. २४४ । पंचसंº ४, ५०७ । गो. क., गा. २५७ ।
३८०
तत्राद्यस्य प्रकृतिबन्धस्य भेदप्रदर्शनार्थमाह —
आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ॥
४
॥
आद्यः प्रकृतिबन्धो ज्ञानावरणाद्यष्टविकल्पो वेदितव्यः । आवृणोत्याव्रियतेऽनेनेति
वा आवरणम् । तत्प्रत्येकमभिसम्बध्यते — ज्ञानावरणं दर्शनावरणमिति । वेदयति वेद्यत
०५
इति वा वेदनीयम् । मोहयति
१
मोह्यतेऽनेनेति वा मोहनीयम् । एत्यनेन नारकादिभव
-
१
मुह्यते इति मुº ।
३८१
मित्यायुः । नमयत्यात्मानं नम्यतेऽनेनेति वा नाम । उच्चैर्नीचैश्च गूयते शब्द्यत इति वा
गोत्रम् । दातृदेयादीनामन्तरं मध्यमेतीत्यन्तरायः । एकेनात्मपरिणामेनादीयमानाः पुद्गला
ज्ञानावरणाद्यनेकभेदं प्रतिपद्यन्ते सकृदु
१
पभुक्तान्नपरिणामरसरुधिरादिवत् ।
आह, उक्तो मूलप्रकृतिबन्धोऽष्टविधः । इदानीमुत्तरप्रकृतिबन्धो वक्तव्य इत्यत
०५
आह —
पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चभेदा यथाक्रमम् ॥
५
॥
द्वितीयग्रहणमिह कर्तव्यं द्वितीय उत्तरप्रकृतिबन्ध एवंविकल्प इति ? न कर्तव्यम्;
पारिशेष्यात्सिद्धेः । आद्यो
२
मूलप्रकृतिबन्धोऽष्टविकल्प उक्तः । ततः पारिशेष्यादयमुत्तर
-
प्रकृतिविकल्पविधिर्भवति ।
‘
भेद
’
शब्दः पञ्चादिभिर्यथाक्रममभिसम्बध्यते — पञ्चभेदं
१०
ज्ञानावरणीयं नवभेदं दर्शनावरणीयं द्विभेदं वेदनीयं अष्टाविंशतिभेदं मोहनीयं चतु
-
र्भेदमायुः द्विचत्वारिंशद्भेदं नाम द्विभेदं गोत्रं पञ्चभेदोऽन्तराय इति ।
यदि ज्ञानावरणं पञ्चभेदं तत्प्रतिपत्तिरुच्यतामित्यत आह —
मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥
६
॥
१
— दुपयुक्ता — आ., दि. १, दि. २, ता., ना. ।
२
मूलः प्रकृ — मु. ।
३८२
मत्यादीनि ज्ञानानि व्याख्यातानि । तेषामावृतेरावरणभेदो भवतीति पञ्चोत्तर
-
प्रकृतयो वेदितव्याः । अत्र चोद्यते — अभव्यस्य मनःपर्ययज्ञानशक्तिः केवलज्ञानशक्तिश्च
स्याद्वा न वा ? यदि स्यात् तस्याभव्यत्वाभावः । अथ नास्ति तत्रावरणद्वयकल्पना व्यर्थेति ?
उच्यते — आदेशवचनान्न दोषः । द्रव्यार्थादेशान्मनःपर्ययकेवलज्ञानशक्तिसम्भवः । पर्याया
-
०५
र्थादेशात्तच्छक्त्यभावः । यद्येवं भव्याभव्यविकल्पो नोपपद्यते; उभयत्र तच्छक्तिसद्भा
-
वात् ? न शक्तिभावाभावापेक्षया भव्याभव्यविकल्प इत्युच्यते । कुतस्तर्हि ? व्यक्ति
-
सद्भावासद्भावापेक्षया । सम्यग्दर्शनादिभि
१
र्व्यक्तिर्यस्य भविष्यति स भव्यः । यस्य तु न
भविष्यति सोऽभव्य इति । कनकेतरपाषाणवत् ।
१
— नादिर्व्यक्ति — आ., दि. १, दि. २ । ता. ।
३८३
आह, उक्तो ज्ञानावरणोत्तरप्रकृतिविकल्पः । इदानीं दर्शनावरणस्य वक्तव्य इत्यत
आह —
चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥
७
॥
चक्षुरचक्षुरवधिकेवलानामिति दर्शनावरणापेक्षया भेदनिर्देशः — चक्षुर्दर्शनावरणम
-
०५
चक्षुर्दर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरणमिति । मदखेदक्लमविनोदनार्थः स्वापो
निद्रा । तस्या उपर्युपरि वृत्तिर्निद्रानिद्रा । या क्रियाऽऽत्मानं प्रचलयति सा प्रचला शोकश्रम
-
मदादिप्रभवा आसीनस्यापि नेत्रगात्रविक्रियासूचिका । सैव पुनःपुनरावर्तमाना
१
प्रचला
-
प्रचला । स्वप्ने
२
यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः । स्त्यायतेरनेकार्थत्वात्स्वप्नार्थ
इह गृह्यते, गृद्धेरपि दीप्तिः । स्त्याने स्वप्ने गृद्ध्यति दीप्यते यदुदयादात्मा रौद्रं बहुकर्म करोति
१०
सा स्त्यानगृद्धिः । इह निद्रादिभिर्दर्शनावरणं सामानाधिकरण्येनाभिसम्बध्यते — निद्रा
१
वर्त्यमाना आ., दि. १, दि. २ ।
२
स्वप्नेऽपि यया पृº मु., आ., दि. १, दि. २ ।
३८४
दर्शनावरणं निद्रानिद्रादर्शनावरणमित्यादि ।
तृतीयस्याः प्रकृतेरुत्तरप्रकृतिप्रतिपादनार्थमाह —
सदसद्वेद्ये ॥
८
॥
यदुदयाद्देवादिगतिषु शारीरमानससुखप्राप्तिस्तत्सद्वेद्यम् । प्रशस्तं वेद्यं सद्वेद्यमिति ।
०५
यत्फलं दुःखमनेकविधं तदसद्वेद्यम् । अप्रशस्तं वेद्यमसद्वेद्यमिति ।
चतुर्थ्याः प्रकृतेरुत्तरप्रकृतिविकल्पनिदर्शनार्थमाह —
दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्व
-
मिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्न
-
पुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविक
-
१०
ल्पाश्चैकशः क्रोधमानमायालोभाः ॥
९
॥
३८५
दर्शनादयश्चत्वारः त्र्यादयोऽपि
१
। तत्र यथासंख्येन सम्बन्धो भवति — दर्शनमोहनीयं
त्रिभेदम्, चारित्रमोहनीयं द्विभेदम्, अकषायवेदनीयं नवविधम्, कषायवेदनीयं षोडशविध
-
मिति ।
तत्र दर्शनमोहनीयं त्रिभेदम् — सम्यक्त्वं मिथ्यात्वं तदुभयमिति । तद् बन्धं प्रत्येकं भूत्वा
०५
सत्कर्मापेक्षया त्रिधा व्यवतिष्ठते । तत्र यस्योदयात्सर्वज्ञप्रणीतमार्गपराङ्मुखस्तत्त्वार्थश्रद्धा
-
ननिरुत्सुको हिताहितविचारासमर्थो मिथ्यादृष्टिर्भवति तन्मिथ्यात्वम् । तदेव सम्यक्त्वं
शुभपरिणामनिरुद्धस्वरसं यदौदासीन्येनावस्थितमात्मनः श्रद्धानं न निरुणद्धि, तद्वेदयमानः
पुरुषः सम्यग्दृष्टिरित्यभिधीयते । तदेव मिथ्यात्वं प्रक्षालनविशेषात्क्षीणाक्षीणमदशक्ति
-
कोद्रववत्सामिशुद्धस्वरसं तदुभयमित्याख्यायते सम्यङ्मिथ्यात्वमिति यावत् । यस्योदया
-
१०
दात्मनोऽर्धशुद्धमदकोद्रवौद
१
नोपयोगापादितमिश्रपरिणामवदुभयात्मको भवति परिणामः ।
चारित्रमोहनीयं द्विधा; अकषायकषायभेदात् । ईषदर्थे नञः प्रयोगादीषत्क
-
षायोऽकषाय इति । अकषायवेदनीयं नवविधम् । कुतः ? हास्यादिभेदात् । यस्योदया
-
द्धास्याविर्भावस्तद्धास्यम् । यदुदया
३
द्देशादिष्वौत्सुक्यं सा रतिः । अरतिस्तद्विपरीता ।
१
— त्र्यादयोऽपि चत्वारः । तत्र मु., ता., ना. ।
२
— कोद्रवोपयो — मु. ।
३
— दयाद्विषयादि — मु., ता., ना., ।
३८६
यद्विपाकाच्छोचनं स शोकः । यदुदयादुद्वेगस्तद्भयम् । यदुदयादात्मदोषसंवरणं
१
परदोषा
-
विष्करणं सा जुगुप्सा । यदुदयात्स्त्रैणा
२
न्भावान्प्रतिपद्यते स स्त्रीवेदः । यस्योदयात्पौस्ना
-
न्भावानास्कन्दति स पुंवेदः । यदुदयान्नापुंसकान्भावानुपव्रजति स नपुंसकवेदः ।
कषायवेदनीयं षोडशविधम् । कुतः ? अनन्तानुबन्ध्यादिविकल्पात् । तद्यथा —
०५
कषायाः क्रोधमानमायालोभाः । तेषां चतस्रोऽवस्थाः — अनन्तानुबन्धिनोऽप्रत्याख्याना
-
वरणाः प्रत्याख्यानावरणाः संज्वलनाश्चेति । अनन्तसंसारकारणत्वान्मिथ्यादर्शनमनन्तम् ।
तदनुबन्धिनोऽनन्तानुबन्धिनः क्रोधमानमायालोभाः । यदुदयाद्देशविरतिं संयमासंयमा
-
ख्यामल्पामपि कर्तुं न शक्नोति ते देशप्रत्याख्यानमावृण्वन्तोऽप्रत्याख्यानावरणाः क्रोध
-
मानमायालोभाः । यदुदयाद्विरतिं कृत्स्नां संयमाख्यां न शक्नोति कर्तुं ते कृत्स्नं प्रत्याख्यान
-
१०
मावृण्वन्तः प्रत्याख्यानावरणाः क्रोधमानमायालोभाः । समेकीभावे वर्तते । संयमेन सहा
-
वस्थानादेकीभूय
३
ज्वलन्ति संयमो वा ज्वलत्येषु सत्स्वपीति संज्वलनाः क्रोधमानमाया
-
लोभाः । त एते समुदिताः सन्तः षोडश कषाया भवन्ति ।
१
— अन्यदोषस्याधारणं दि. १, दि. २ । अन्यदोषाविष्करणं सो. ।
२
— दयात्स्त्रीणां भावा — आ., दि. १,
दि. २ ।
३
— देकीभूता ज्व — आ., दि. १, दि. २, मु. ।
३८८
मोहनीयानन्तरोद्देशभाज आयुष उत्तरप्रकृतिनिर्ज्ञापनार्थमाह —
नारकतैर्यग्योनमानुषदैवानि ॥
१०
॥
नारकादिषु भवसम्बन्धेनायुषो व्यपदेशः क्रियते । नरकेषु भवं नारकमायुः, तिर्यग्यो
-
निषु भवं तैर्यग्योनम्, मानुषेषु भवं मानुषम्, देवेषु भवं दैवमिति । नरकेषु तीव्रशीतोष्णवेदनेषु
०५
यन्निमित्तं दीर्घजीवनं तन्नारकम् । एवं शेषेष्वपि ।
आयुश्चतुर्विधं व्याख्यातम् । तदनन्तरमुद्दिष्टं यन्नामकर्म तदुत्तरप्रकृतिनिर्णयार्थमाह —
गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्ध
-
वर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येक
-
शरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तिसेतराणि तीर्थकरत्वं च ॥
११
॥
३८९
यदुदयादात्मा भवान्तरं गच्छति सा गतिः । सा चतुर्विधा — नरकगतिस्तिर्यग्गतिर्म
-
नुष्यगतिर्देव
१
गतिश्चेति । यन्निमित्त आत्मनो नारको भावस्तन्नरकगतिनाम । एवं शेषेष्वपि
योज्यम्
२
। तासु नरकादिगतिष्वव्यभिचारिणा सादृश्येनैकीकृतोऽर्थात्मा जातिः । तन्निमित्तं
जातिनाम । तत्पञ्चविधम् — एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम
०५
चतुरिन्द्रियजातिनाम पञ्चेन्द्रियजातिनाम चेति । यदुदयात्मा एकेन्द्रिय इति शब्द्यते
तदेकेन्द्रियजातिनाम । एवं शेषेष्वपि योज्यम् । यदुदयादात्मनः शरीरनिर्वृत्तिस्तच्छरीर
-
नाम । तत्पञ्चविधम् — औदारिकशरीरनाम वैक्रियिकशरीरनाम आहारकशरीरनाम
तैजसशरीरनाम कार्मणशरीरनाम चेति । तेषां विशेषो व्याख्यातः । यदुदयादङ्गोपाङ्ग
-
विवेकस्तदङ्गोपाङ्गनाम । तत् त्रिविधम् — औदारिकशरीराङ्गोपाङ्गनाम वैक्रियिक
-
१०
शरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम चेति । यन्निमित्तात्परिनिष्पत्तिस्त
-
न्निर्माणम् । तद् द्विविधं — स्थाननिर्माणं प्रमाणनिर्माणं चेति । तज्ज्जातिनामोदयापेक्षं
चक्षुरादीनां स्थानं प्रमाणं च निर्वर्तयति । निर्मीयतेऽनेनेति निर्माणम् । शरीरनामकर्मोदय
-
१
— गतिर्देवगतिर्मनुष्यगतिश्चेति मु. ।
२
योज्यन्ते । तासु आ. ।
३९०
वशादुपात्तानां पुद्गलानामन्योन्यप्रदेशसंश्लेषणं यतो भवति तद्बन्धननाम । यदुदयादौ
-
दारिकादिशरीराणां विवरविरहितान्योऽन्यप्रदेशानुप्रवेशेन एकत्वापादनं भवति तत्संघात
-
नाम । यदुदयादौदारिकादिशरीराकृतिनिर्वृत्तिर्भवति तत्संस्थाननाम । तत् षोढा विभज्यते —
समचतुरस्रसंस्थाननाम न्यग्रोधपरिमण्डलसंस्थाननाम स्वातिसंस्थाननाम कुब्जसंस्थाननाम
०५
वामनसंस्थाननाम हुण्डसंस्थाननाम चेति । यस्योदयादस्थिबन्धनविशेषो भवति तत्संहनन
-
नाम । तत् षड्विधम् — वज्रर्षभनाराचसंहनननाम वज्रनाराचसंहनननाम नाराचसंहनन
-
नाम अर्धनाराचसंहनननाम कीलिका
१
संहनननाम असम्प्राप्तासृ
२
पाटिकासंहनननाम चेति ।
यस्योदयात्स्पर्शप्रादुर्भावस्तत्स्पर्शनाम । तदष्टविधम् — कर्कशनाम मृदुनाम गुरुनाम लघु
-
नाम स्निग्धनाम रूक्षनाम शीतनाम उष्णनाम चेति । यन्निमित्तो रसविकल्पस्तद्रसनाम ।
१०
तत्पञ्चविधम् — तिक्तनाम कटुकनाम कषायनाम आम्लनाम मधुरनाम चेति । यदुदयप्रभवो
गन्धस्तद्गन्धनाम । तद्विविधम् — सुरभिगन्धनाम असुर
३
भिगन्धनाम चेति । यद्धेतुको वर्ण
-
विभागस्तद्वर्णनाम । तत्पञ्चविधम् — कृष्णवर्णनाम नीलवर्णनाम रक्तवर्णनाम हारि
४
द्रवर्ण
-
नाम शुक्लवर्णनाम चेति । पूर्वशरीराकाराविनाशो यस्योदयाद् भवति तदानुपूर्व्यनाम ।
१
कीलितसं — मु. । कीलसं — दि. २ ।
२
— प्राप्तासृक्पा — आ., दि. १, दि. २ ।
३
— नाम दुरभिगन्ध —
आ., दि., दि. २ ।
४
हरिद्वर्ण — मु. ।
३९१
तच्चतुर्विधम् — नरकगतिप्रायोग्यानुपूर्व्यनाम तिर्यग्गतिप्रायोग्यानुपूर्व्यनाम मनुष्यगति
-
प्रायोग्यानुपूर्व्यनाम देवगतिप्रायोग्यानुपूर्व्यनाम चेति । यस्योदयादयःपिण्डवद् गुरुत्वान्नाधः
पतति न चार्कतूलवल्लघुत्वादूर्ध्वं गच्छति तदगुरुलघुनाम । यस्योदयात्स्वयंकृतोद्बन्धन
-
मरुप्रपतनादिनिमित्त उपघातो भवति तदुपघातनाम । यन्निमित्तः परशस्त्रादेर्व्याघात
-
०५
स्तत्परघातनाम । यदुदयान्निर्वृत्तमातपनं तदातपनाम । तदादित्ये वर्तते । यन्निमित्त
-
मुद्योतनं तदुद्योतनाम । तच्चन्द्रखद्योतादिषु वर्तते । यद्धेतुरुच्छ्वासस्तदुच्छ्वासनाम ।
विहाय आकाशम् । तत्र गतिनिर्वर्तकं तद्विहायोगतिनाम । तद्द्विविधम्; प्रशस्ताप्रशस्तभे
-
दात् । शरीरनामकर्मोदयान्निर्वर्त्यमानं शरीरमेकात्मोपभोगकारणं यतो भवति तत्प्रत्येक
-
शरीरनाम । बहूनामात्मनामुपभोगहेतुत्वेन साधारणं शरीरं यतो भवति तत्साधारणशरीर
-
१०
नाम । यदुदयाद् द्वीन्द्रियादिषु जन्म तत्त्रसनाम । यन्निमित्त एकेन्द्रियेषु प्रादुर्भावस्तत्स्थावर
-
नाम । यदुदयादन्यप्रीतिप्रभवस्तत्सुभगनाम । यदुदयाद्रूपादिगुणोपेतोऽप्यप्रीतिकरस्तद्
दुर्भगनाम । यन्निमित्तं मनोज्ञस्वरनिर्वर्तनं तत्सुस्वरनाम । तद्विपरीतं दुःस्वरनाम ।
१
मरुत्प्र — मु. ।
३९२
यदुदयाद्रमणीयत्वं तच्छुभनाम । तद्विपरीतमशुभनाम । सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम ।
अन्यबाधाकरशरीरकारणं बादरनाम । यदुदयादाहारादिपर्याप्तिनिर्वृत्तिः तत्पर्याप्तिनाम ।
तत् षड्विधम् — आहारपर्याप्तिनाम शरीरपर्याप्तिनाम इन्द्रियपर्याप्तिनाम प्राणापान
-
पर्याप्तिनाम भाषापर्याप्तिनाम मनःपर्याप्तिनाम चेति । षड्विधपर्याप्त्यभावहेतुरपर्याप्ति
-
०५
नाम । स्थिरभावस्य निर्वर्तकं स्थिरनाम । तद्विपरीतमस्थिरनाम । प्रभोपेतशरीरकारण
-
मादेयनाम । निष्प्रभशरीरकारणमनादेयनाम । पुण्यगुणख्यापनकारणं यशःकीर्तिनाम ।
तत्प्रत्यनीकफलमयशःकीर्तिनाम । आर्हन्त्यकारणं तीर्थकरत्वनाम ।
३९३
उक्तो नामकर्मण उत्तरप्रकृतिभेदः । तदनन्तरोद्देशभाजो गोत्रस्य प्रकृतिभेदो
व्याख्यायते —
उच्चैर्नीचैश्च ॥
१२
॥
३९४
गोत्रं द्विविधम् — उच्चैर्गोत्रं नीचैर्गोत्रमिति । यस्योदयाल्लोकपूजितेषु कुलेषु जन्म
१
तदुच्चैर्गोत्रम् । यदुदयाद्गर्हितेषु कुलेषु जन्म
२
तन्नीचैर्गोत्रम् ।
अष्टम्याः कर्मप्रकृतेरुत्तरप्रकृतिनिर्देशार्थमाह —
दानलाभभोगोपभोगवीर्याणाम् ॥
१३
॥
०५
अन्तरायापेक्षया भेदनिर्देशः क्रियते — दानस्यान्तरायो लाभस्यान्तराय इत्यादि ।
दानादिपरिणामव्याघातहेतुत्वात्तद्व्यपदेशः । यदुदयाद्दातुकामोऽपि न प्रयच्छति, लब्धु
-
कामोऽपि न लभते, भोक्तुमिच्छन्नपि न भुङ्क्ते — उपभोक्तुमभिवाञ्छन्नपि नोपभुङ्क्ते
उत्सहितुकामोऽपि नोत्सहते त एते पञ्चान्तरायस्य भेदाः ।
१
जन्मकारणं तदु — आ., दि. १, दि. २ ।
२
जन्मकारणं तन्नी — आ., दि. १, दि. २ ।
३९५
व्याख्याताः प्रकृतिबन्धविकल्पाः । इदानीं स्थितिबन्धविकल्पो वक्तव्यः । सा स्थिति
-
र्द्विविंधा — उत्कृष्टा जघन्या च । तत्र यासां कर्मप्रकृतीनामुत्कृष्टा स्थितिः समाना तन्निर्दे
-
शार्थमुच्यते —
आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥
१४
॥
०५
मध्येऽन्ते वा तिसृणां ग्रहणं माभूदिति
‘
आदितः
’
इ
१
त्युच्यते ।
‘
अन्तरायस्य
’
इति वचनं
व्यवहितग्रहणार्थम् । सागरोपममुक्तपरिमाणम् । कोटीनां कोट्यः कोटीकोट्यः ।
परा उत्कृष्टेत्यर्थः । एतदुक्तं भवति — ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा
स्थितिस्त्रिंशत्सागरोपमकोटीकोट्य इति । सा कस्य भवति ? मिथ्यादृष्टेः सञ्ज्ञिनः
पञ्चेन्द्रियस्य पर्याप्तकस्य । अन्येषामागमात्सम्प्रत्ययः कर्तव्यः ।
१
आदित उच्य — आ., दि. १, दि. २ ।
३९६
मोहनीयस्योत्कृष्टस्थितिप्रतिपत्त्यर्थमाह —
सप्ततिर्मोहनीयस्य ॥
१५
॥
‘
सागरोपमकोटीकोट्यः परा स्थितिः
’
इत्यनुवर्तते । इत्यमपि परा स्थितिर्मिथ्या
-
दृष्टेः संज्ञिनः पञ्चेन्द्रियस्य पर्याप्तकस्यावसेया । इतरेषां
१
यथागममवगमः कर्तव्यः ।
०५
नामगोत्रयोरुत्कृष्टस्थितिप्रतिपत्त्यर्थमाह —
विंशतिर्नामगोत्रयोः ॥
१६
॥
‘
सागरोपमकोटीकोट्यः परा स्थितिः
’
इत्यनुवर्तते । इयमप्युत्कृष्टा स्थितिर्मिथ्या
-
दृष्टेः संज्ञिपञ्चेन्द्रियपर्याप्तकस्य । इतरेषां यथागममवबोद्धव्या ।
अथायुषः कोत्कृष्टा स्थितिरित्युच्यते —
१०
त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥
१७
॥
पुनः
‘
सागरोपम
’
ग्रहणं कोटीकोटीनिवृत्त्यर्थम् ।
‘
परा स्थितिः
’
इत्यनुवर्तते । इयमपि
पूर्वोक्तस्यैव । शेषाणामागमतोऽवसेया ।
१
— सेया । अन्येषां यथागममवगमः कर्तव्यः आ., दि. । — सेया । इतरेषां यथागममवगन्तव्यम् ?
३९७
उक्तोत्कृष्टा स्थितिः । इदानीं जघन्या स्थितिर्वक्तव्या । तत्र समानजघन्यस्थितीः
पञ्च प्रकृतीरवस्थाप्य तिसृणां जघन्यस्थितिप्रतिपत्त्यर्थं सूत्रद्वयमुपन्यस्यते लघ्वर्थम् —
अपरा द्वादश मुहूर्ता वेदनीयस्य ॥
१८
॥
अपरा जघन्या इत्यर्थः । वेदनीयस्य द्वादश मुहूर्ताः ।
०५
नामगोत्रयोरष्टौ ॥
१९
॥
‘
मुहूर्ता
’
इत्यनुवर्तते ।
‘
अपरा स्थितिः
’
इति च ।
अवस्थापितप्रकृतिजघन्यस्थितिप्रतिपादनार्थमाह —
शेषाणामन्तर्मुहूर्ता ॥
२०
॥
शेषाणां पञ्चानां प्रकृतीनामन्तर्मुहूर्ताऽपरा स्थितिः । ज्ञानदर्शनावरणान्तरायाणां
१०
जघन्या स्थितिः सूक्ष्मसाम्पराये, मोहनीयस्य अनिवृत्तिबादरसाम्पराये । आयुषः संख्येय
-
वर्षायुष्षु
१
तिर्यक्षु मनुष्येषु च ।
१
— युष्कति — मु. ।
३९८
आह, उभयी स्थितिरभिहिता । ज्ञानावरणादीनाम् अथानुभवः किंलक्षण इत्यत आह —
विपाकोऽनुभवः ॥
२१
॥
विशिष्टो नानाविधो वा पाको विपाकः । पूर्वोक्तकषायतीव्रमन्दादिभावास्रवविशेषा
-
द्विशिष्टः पाको विपाकः । अथवा द्रव्यक्षेत्रकालभवभावलक्षणनिमित्तभेदजनितवैश्वरूप्यो
०५
नानाविधः पाको विपाकः । असावनुभव इत्याख्यायते । शुभपरिणामानां प्रकर्षभावाच्छुभ
-
प्रकृतीनां प्रकृष्टोऽनुभवः अशुभप्रकृतीनां निकृष्टः । अशुभपरिणामानां प्रकर्षभावादशुभ
-
प्रकृतीनां प्रकृष्टोऽनुभवः शुभप्रकृतीनां निकृष्टः । स एवं प्रत्ययवशादुपात्तोऽनुभवो द्विधा
प्रवर्तते स्वमुखेन परमुखेन च । सर्वासां मूलप्रकृतीनां स्वमुखेनैवानुभवः । उत्तरप्रकृतीनां
तुल्यजातीयानां परमुखेनापि भवति आयुर्दर्शनचारित्रमोहवर्जानाम् । न हि नरकायुर्मुखेन
१०
तिर्यगायुर्मनुष्यायुर्वा विपच्यते । नापि दर्शनमोहश्चारित्रमोहमुखेन, चारित्रमोहो वा
दर्शनमोहमुखेन ।
आह, अभ्युपेमः प्रागुपचितनानाप्रकारकर्मविपाकोऽनुभवः । इदं तु न विजानीमः
किमयं प्रसंख्यातोऽप्रसंख्यातः ? इत्यत्रोच्यते प्रसंख्यातोऽनुभूयत इति ब्रूमहे । कुतः ? यतः —
३९९
स यथानाम ॥
२२
॥
ज्ञानावरणस्य फलं ज्ञानाभावो दर्शनावरणस्यापि
१
फलं दर्शनशक्त्युपरोध इत्येवमाद्य
-
न्वर्थसञ्ज्ञानिर्देशात्सर्वासां कर्मप्रकृतीनां सविकल्पानामनुभवसम्प्रत्ययो जायते ।
आह, यदि विपाकोऽनुभवः प्रतिज्ञायते, तत्कर्मानुभूतं सत्
२
किमाभरणवदवतिष्ठते
०५
आहोस्विन्निष्पीतसारं प्रच्यवते ? इत्यत्रोच्यते —
ततश्च निर्जरा ॥
२३
॥
पीडानुग्रहावात्मने प्रदायाभ्यवहृतौदनादिविकारवत्पूर्वस्थितिक्षयादवस्थानाभावात्क
-
र्मणो निवृत्तिर्निर्जरा । सा द्विप्रकारा — विपाकजा इतरा च । तत्र चतुर्गतावनेकजाति
-
विशेषावघूर्णिते
३
संसारमहार्णवे चिरं परिभ्रमतः शुभाशुभस्य कर्मणः क्रमेण परिपाककाल
-
१०
प्राप्तस्यानुभवोदयावलिस्रोतोऽनुप्रविष्टस्यारब्धफलस्य या निवृत्तिः सा विपाकजा
निर्जरा । यत्कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्णं बलादुदीर्यो
-
दयावलिं प्रवेश्य वेद्यते आम्रपनसादिपाकवत् सा अविपाकजा निर्जरा ।
‘
च
’
शब्दो निमित्ता
-
न्तरसमुच्चयार्थः ।
‘
तपसा निर्जरा
’
इति वक्ष्यते ततश्च भवति अन्यतश्चेति सूत्रार्थो योजितः ।
१
णस्य फलं मु. ।
२
भूतं किमा — मु. ।
३
— गूर्णिते आ., दि. १, दि. २ ।
४००
किमर्थमिह निर्जरानिर्देशः क्रियते, संवरात्परा निर्देष्टव्या उद्देशवत् ? लघ्वर्थमिह वचनम् ।
तत्र हि पाठे
‘
विपाकोऽनुभवः
’
इति पुनरनुवादः कर्तव्यः स्यात् ।
४०२
आह अभिहितोऽनुभवबन्धः । इदानीं प्रदेशबन्धो वक्तव्यः । तस्मिंश्च वक्तव्ये सति
इमे निर्देष्टव्याः — किंहेतवः कदा कुतः किंस्वभावाः कस्मिन् किंपरिमाणाश्चेति ? तदर्थ
-
मिदं क्रमेण परिगृहीतप्रश्नापेक्षभेदं सूत्रं प्रणीयते —
नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः
०५
सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥
२४
॥
नाम्नः प्रत्यया नामप्रत्ययाः
‘
नाम
’
इति सर्वाः कर्मप्रकृतयोऽभिधीयन्ते;
‘
स यथानाम
’
इति वचनात् । अनेन हेतुभाव उक्तः । सर्वेषु भवेषु सर्वतः
‘
दृश्यन्ते अन्यतोऽपि
’
इति तसि
कृते सर्वतः । अनेन कालोपादानं इति कृतम् । एकैकस्य हि जीवस्यातिक्रान्ता
१
अनन्ता भवा
आगामिनः संख्येया असंख्येया
२
अनन्तानन्ता वा भवन्तीति । योगविशेषान्निमित्तात्कर्म
-
१०
भावेन पुद्गला आदीयन्त इति निमित्तविशेषनिर्देशः कृतो भवति ।
‘
सूक्ष्म
’
आदिग्रहणं
कर्मग्रहणयोग्यपुद्गलस्वभावानुवर्तनार्थम्, ग्रहणयोग्याः पुद्गलाः सूक्ष्मा न स्थूला इति ।
‘
एकक्षेत्रावगाह
’
वचनं क्षेत्रान्तरनिवृत्त्यर्थम् ।
‘
स्थिता
’
इति वचनं क्रियान्तरनिवृत्त्यर्थम्,
१
— क्रान्त अनन्तानन्ता भवाः ता., ना. ।
२
— असंख्येया अनन्ता वा ता., ना. ।
४०३
स्थिता न गच्छन्त इति ।
‘
सर्वात्मप्रदेशेषु
’
इति वचनमाधारनिर्देशार्थं नैकप्रदेशादिषु कर्म
-
प्रदेशा वर्तन्ते । क्व तर्हि ? ऊर्ध्वमधस्तिर्यक् च सर्वेष्वात्मप्रदेशेषु व्याप्य स्थिता इति ।
‘
अनन्तानन्तप्रदेश
’
वचनं परिमाणान्तरव्यपोहार्थम्, न संख्येया न चासंख्येया नाप्यनन्ता
इति । ते खलु पुद्गलस्कन्धा अभव्यानन्तगुणाः सिद्धानन्तभागप्रमितप्रदेशा घनाङ्गुलस्या
-
०५
संख्येयभागक्षेत्रावगाहिन एकद्वित्रिचतुःसंख्येयासंख्येयसमयस्थितिकाः पञ्चवर्णपञ्चरस
-
द्विगन्धचतुःस्पर्शस्वभावा अष्टविधकर्मप्रकृतियोग्या योगवशादा
१
त्मनाऽऽत्मसात्क्रियन्ते ।
इति प्रदेशबन्धः समासतो वेदितव्यः ।
आह, बन्धपदार्थानन्तरं पुण्यपापोपसंख्यानं चोदितं तद्बन्धेऽन्तर्भूतमिति प्रत्याख्यातम् ।
तत्रेदं वक्तव्यं कोऽत्र पुण्यबन्धः कः पापबन्ध इति । तत्र पुण्य
२
प्रकृतिपरिगणनार्थमिदमार
-
१०
भ्यते —
१
वशादात्मसा — आ. ।
२
— पुण्यबन्धप्रकृ — मु. ।
४०४
सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥
२५
॥
शुभं प्रशस्तमिति यावत् । तदुत्तरैः प्रत्येकमभिसम्बध्यते शुभमायुः शुभं नाम शुभं
गोत्रमिति । शुभायुस्त्रितयं तिर्यगायुर्मनुष्यायुर्देवायुरिति । शुभनाम सप्तत्रिंशद्विकल्पम् ।
तद्यथा — मनुष्यगतिर्देवगतिः पञ्चेन्द्रियजातिः पञ्च शरीराणि त्रीण्यङ्गोपाङ्गानि सम
-
०५
चतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तवर्णरसगन्धस्पर्शा मनुष्यदेवगत्यानुपूर्व्यद्वय
-
मगुरुलघुपरघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतयस्त्रसबादरपर्याप्तिप्रत्येकशरीरस्थिर
शुभसुभगसुस्वरादेययशःकीर्तयो निर्माणं तीर्थकरनाम चेति । शुभमेकमुच्चैर्गोत्रं, सद्वेद्य
-
मिति । एता द्वाचत्वारिंशत्प्रकृतयः
‘
पुण्य
’
सञ्ज्ञाः ।
अतोऽन्यत्पापम् ॥
२६
॥
१०
अस्मात्पुण्यसंज्ञिकर्मप्रकृतिसमहादन्यत्कर्म
‘
पापम्
’
इत्युच्यते । तद् द्व्यशीतिविधम् ।
तद्यथा — ज्ञानावरणस्य प्रकृतयः पञ्च दर्शनावरणस्य नव मोहनीयस्य षड्विंशतिः
पञ्चान्तरायस्य नरकगतितिर्यग्गती चतस्रो जातयः पञ्च संस्थानानि पञ्च संहननान्य
-
४०५
प्रशस्तवर्णरसगन्धस्पर्शा नरकगतितिर्यग्गत्यानुपूर्व्यद्वयमुपपघाताप्रशस्तविहायोगतिस्थावर
-
सूक्ष्मापर्याप्तिसाधारणशरीरास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तयश्चेति नामप्रकृत
-
यश्चतुस्त्रिंशत् । असद्वेद्यं नरकायुर्नीचैर्गोत्रमिति । एवं व्याख्यातो सप्रपञ्चः बन्धपदार्थः ।
अवधिमनःपर्ययकेवलज्ञानप्रत्यक्षप्रमाणगम्यस्तदुपदिष्टागमानुमेयः ।
०५
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायामष्टमोऽध्यायः समाप्तः ॥
८
॥
४०६
अथ नवमोऽध्यायः
बन्धपदार्थो निर्दिष्टः । इदानीं तदनन्तरोद्देशभाजः संवरस्य निर्देशः प्राप्तकाल इत्यत
इदमाह —
आस्रवनिरोधः संवरः ॥
१
॥
०५
अभिनवकर्मादानहेतुरास्रवो व्याख्यातः । तस्य निरोधः संवर इत्युच्यते । स द्विविधो
भावसंवरो द्रव्यसंवरश्चेति । तत्र संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः । तन्निरोधे
१
तत्पूर्वकर्मपुद्गलादानविच्छेदो द्रव्यसंवरः ।
इदं विचार्यते — कस्मिन् गुणस्थाने कस्य संवर इति
२
। अत्र उच्यते
-
मिथ्यादर्शनकर्मो
-
दयवशीकृत आत्मा मिथ्यादृष्टिः । तत्र मिथ्यादर्शनप्राधान्येन यत्कर्म आस्रवति तन्निरोधा
-
१०
च्छेषे सासादनसम्यग्दृष्ट्यादौ तत्संवरो भवति । किं पुनस्तत् ? मिथ्यात्वनपुं सकवेदनर
-
कायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डसंस्थानासम्प्राप्तासृपाटिकासंहनननरकगतिप्रा
-
योग्यानुपूर्व्यातपस्थावरसूक्ष्मापर्याप्तकसाधारणशरीरसंज्ञकषोडशप्रकृतिलक्षणम् ।
१
— तन्निरोधेन तत्पू — ता., ना. ।
२
— इति । उच्य — मु. ।
४०७
असंयमस्त्रिविधः; अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानोदयविकल्पात् । तत्प्रत्ययस्य
कर्मणस्तदभावे संवरोऽवसेयः । तद्यथा — निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्ध्यनन्तानुबन्धि
-
क्रोधमानमायालोभस्त्रीवेदतिर्यगायुस्तिर्यग्गतिचतुःसंस्थानचतुःसंहननतिर्यग्गतिप्रायोग्यानु
-
पूर्व्योद्योताप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनीचैर्गोत्रसंज्ञिकानां पञ्चविंशतिप्रकृतीना
-
०५
मनन्तानुबन्धिकषायोदयकृतासंयमप्रधानास्रवाणामेकेन्द्रियादयः सासादनसम्यग्दृष्ट्यन्ता
बन्धकाः । तदभावे तासामुत्तरत्र संवरः । अप्रत्याख्यानावरणक्रोधमानमायालोभमनुष्यायुर्मनुष्य
-
गत्यौदारिकशरीरतदङ्गोपाङ्गवज्रर्षभनाराचसंहननमनुष्यगतिप्रायोग्यानुपूर्व्यनाम्नां दशानां
प्रकृतीनामप्रत्याख्यानकषायोदयकृतासंयमहेतुकानामेकेन्द्रियादयोऽसंयतसम्यग्दृष्ट्यन्ताबन्ध
-
काः । तदभावादूर्ध्वं तासांसंवरः । सम्यङ् मिथ्यात्वगुणेनायुर्न बध्यते । प्रत्याख्यानावरणक्रोध
-
१०
मानमायालोभानां चतसृणां प्रकृतीनां प्रत्याख्यानकषायोदयकारणासंयमास्रवाणामे
-
केन्द्रियप्रभृतयः संयतासंयतावसाना बन्धकाः । तदभावादुपरिष्टात्तासां संवरः । प्रमादोप
-
नीतस्य तदभावे निरोधः । प्रमादेनोपनीतस्य कर्मणः प्रमत्तसंयतादूर्ध्वं तदभावान्निरोधः
४०८
प्रत्येतव्यः । किं पुनस्तत् ? असद्वेद्यारतिशोकास्थिराशुभायशःकीर्तिविकल्पम् । देवायु
-
र्बन्धारम्भस्य प्रमाद एव हेतुरप्रमादोऽपि तत्प्रत्यासन्नः । तदूर्ध्वं तस्य संवरः । कषाय एवा
-
स्रवो यस्य कर्मणो न प्रमादादिः तस्य तन्निरोधे निरासोऽवसेयः । स च कषायः प्रमादादिवि
-
रहितस्तीव्रमध्यमजघन्यभावेन त्रिषु गुणस्थानेषु व्यवस्थितः । तत्रापूर्वकरणस्यादौ संख्येय
-
०५
भागे द्वे कर्मप्रकृती निद्राप्रचले बध्येते । तत ऊर्ध्वं संख्येयभागे त्रिंशत् प्रकृतयो
देवगतिपञ्चेन्द्रियजातिवैक्रियिकाहारकतैजसकार्मणशरीरसमचतुरस्रसंस्थानवैक्रियिकाहा
-
रकशरीराङ्गोपाङ्गवर्णगन्धरसस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छ्वासप्र
-
शस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेयनिर्माणतीर्थकराख्या
बध्यन्ते । तस्यैव चरमसमये चतस्रः प्रकृतयो हास्यरतिभयजुगुप्सासंज्ञा बन्धमुपयान्ति ।
१०
ता एतास्तीव्रकषायास्रवास्तदभावान्निर्द्दिष्टाद् भागादूर्ध्वं संव्रियन्ते । अनिवृत्तिबादरसाम्परा
-
यस्यादिसमयादारभ्य संख्येयेषु भागेषु पुंवेदक्रोधसञ्ज्वलनौ बध्येते । तत ऊर्ध्वं शेषेषु
संख्येयेषु भागेषु मान
१
संज्वलनमायासञ्ज्वलनौ बन्धमुपगच्छतः । तस्यैव चरमसमये लोभ
-
संज्वलनो बन्धमेति । ता एताः प्रकृतयो मध्यमकषायास्रवास्तदभावे निर्द्दिष्टस्य भागस्यो
-
१
मानमाया — मु. ।
४०९
परिष्टात्संवरमाप्नुवन्ति । पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां यशःकीर्तेरु
-
चैर्गोत्रस्य पञ्चानामन्तरायाणां च मन्दकषायास्रवाणां सूक्ष्मसाम्परायो बन्धकः ।
तदभावादु
१
त्तरत्र तेषां संवरः । केवलेनैव योगेन सद्वेद्यस्योपशान्तकषायक्षीणकषायसयोगानां
बन्धो भवति । तदभावादयोगकेवलिनस्तस्य संवरो भवति ।
०५
उक्तः संवर
२
स्तद्धेतुप्रतिपादनार्थमाह —
स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ॥
२
॥
यतः संसारकारणादात्मनो गोपनं भवति सा गुप्तिः । प्राणिपीडापरिहारार्थं सम्यगयनं
समितिः । इष्टे
३
स्थाने धत्ते इति धर्मः । शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा । क्षुदादि
-
वेदनोत्पत्तौ कर्मनिर्जरार्थं सहनं परिषहः । परिषहस्य जयः परिषहजयः । चारित्रशब्द
१०
आदिसूत्रे व्याख्यातार्थः । एतेषां गुप्त्यादीनां संवरणक्रियायाः साधकतमत्वात् करण
-
निर्द्देशः । संवरोऽधिकृतोऽपि
‘
स
’
इति तच्छब्देन परामृश्यते गुप्त्यादिभिः साक्षात्सम्बन्ध
४
-
१
— भावात्तदु — मु. ।
२
तद्भेदप्रति — मु. ।
३
‘
संसारदुःखतः सत्त्वान्यो धरत्युत्तमे सुखे ।
’
रत्न.
पृष्ठ २०५ ।
४
— सम्बन्धार्थः । प्रयो — मु. ।
४१०
नार्थः । किं प्रयोजनम् ? अवधारणार्थम्
१
। स एष संवरो गुप्त्यादिभिरेव नान्येनोपायेनेति ।
तेन तीर्थाभिषेकदीक्षाशीर्षोप
२
हारदेवताराधनादयो निवर्तिता भवन्ति; रागद्वेषमोहोपा
-
त्तस्य कर्मणोऽन्यथा निवृत्त्यभावात् ।
संवरनिर्जराहेतुविशेषप्रतिपादनार्थमाह —
०५
तपसा निर्जरा च ॥
३
॥
तपो धर्मेऽन्तर्भूतमपि पृथगुच्यते उभयसाधनत्वख्यापनार्थं संवरं प्रति प्राधान्यप्रति
-
पादनार्थं च । ननु च तपोऽभ्युदयाङ्गमिष्टं देवेन्द्रादिस्थानप्राप्तिहेतुत्वाभ्युपगमात्
३
, तत्
कथं निर्जराङ्गं स्यादिति ? नैष दोषः; एकस्यानेककार्यदर्शनादग्निवत् । यथाऽग्निरेकोऽपि
वि
४
क्लेदनभस्माङ्गारादिप्रयोजन उपलभ्यते तथा तपोऽभ्युदयकर्मक्षयहेतुरित्यत्र को विरोधः ।
१
— णार्थः । स मु. ।
२
‘
शीर्षोपहारादिभिरात्मदुःखैर्देवान् किलाराध्य सुखाभिगृद्धाः । सिद्ध्यन्ति
१०
दोषापचयानपेक्षा युक्तं च तेषां त्वमृषिर्न येषाम् ॥
’
युक्त्यनुº श्लो. ३९ ।
३
— मात्, कथं मु. ।
४
— कोऽपि
क्लेदभस्मसाद्भवादिप्र — आ. । — कोऽपि विक्लेदभस्मसाद्भावादिप्र — दि. २ । — कोऽपि पचनविक्लेदभस्मसाद्भावादिप्र —
दि. १ ।
४११
संवरहेतु
१
ष्वादावुद्दिष्टाया गुप्तेः स्वरूपप्रतिपत्त्यर्थमाह —
सम्यग्योगनिग्रहो गुप्तिः ॥
४
॥
योगो व्याख्यातः
‘
कायवाङ्मनःकर्म योगः
’
इत्यत्र । तस्य स्वेच्छाप्रवृत्तिनिवर्तनं
निग्रहः । विषयसुखाभिलाषा
२
र्थप्रवृत्तिनिषेधार्थं सम्यग्विशेषणम् । तस्मात् सम्यग्विशेषण
-
०५
विशिष्टात् संक्लेशाप्रादुर्भावपरात्कायादियोगनिरोधे सति तन्निमित्तं कर्म नास्रवतीति
सवरप्रसिद्धिरवगन्तव्या । सा त्रितयी कायगुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति ।
तत्राशक्तस्य मुनेर्निरवद्यप्रवृत्तिख्यापनार्थमाह —
ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ॥
५
॥
‘
सम्यग्
’
इत्य
३
नुवर्तते । तेनेर्यादयो विशेष्यन्ते । सम्यगीर्या सम्यग्भाषा सम्यगेषणा
१०
सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति । ता एताः पञ्च समितयो विदितजीवस्थानादिवि
-
धेर्मुनेः प्राणिपीडापरिहाराभ्युपाया वेदितव्याः । तथा प्रवर्तमानस्यासंयमपरिणामनिमित्त
-
कर्मास्रवात्संवरो भवति ।
तृतीयस्य संवरहेतोर्धर्मस्य भेदप्रतिपत्त्यर्थमाह —
१
— हेतुत्वादा —
२
— षार्थवृत्तिनियमनार्थं सम्य — ता., ना. ।
३
इति वर्तते ता. ।
४१२
उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचंर्याणि धर्मः ॥
६
॥
किमर्थमिदमुच्यते ? आद्यं प्रवृत्तिनिग्रहार्थम्, तत्रासमर्थानां प्रवृत्त्युपायप्रदर्शनार्थं
द्वितीयम् । इदं पुनर्दशविधधर्माख्यानं
१
समितिषु प्रवर्तमानस्य प्रमादपरिहारार्थं वेदितव्यम् ।
शरीरस्थितिहेतुमार्गणार्थं परकुलान्यु
२
पगच्छतो भिक्षोर्दुष्टजनाक्रोशप्रहसनावज्ञाताडन
-
०५
शरीरव्यापादनादीनां सन्निधाने कालुष्यानुत्पत्तिः क्षमा । जात्यादिमदावेशादभिमाना
-
भावो मार्दवं माननिर्हरणम् । योगस्यावक्रता आर्जवम् । प्रकर्षप्राप्तलोभान्निवृत्तिः शौचम् ।
सत्सु प्रशस्तेषु जनेषु साधु वचनं सत्यमित्युच्यते । ननु चैतद् भाषासमितावन्तर्भवति ?
नैष दोषः; समितौ प्रवर्तमानो मुनिः साधुष्वसाधुषु च भाषाव्यवहारं कुर्वन् हितं मितञ्च
ब्रूयात् अन्यथा रागादनर्थदण्डदोषः स्यादिति वाक्समितिरित्यर्थः । इह पुनः सन्तः प्रव्रजिता
-
१०
स्तद्भक्ता वा तेषु साधु सत्यं ज्ञानचारित्र
३
शिक्षणादिषु बहवपि कर्तव्यमित्यनुज्ञायते धर्मोप
-
बृं? ? हणार्थम् । समितिषु वर्तमानस्य प्राणीन्द्रियपरिहारस्संयमः । कर्मक्षयार्थं तप्यत इति
१
— ख्यानं प्रवर्त — ता. । —
२
— न्युपयतो भिक्षो — ता. ।
३
— रित्रलक्षणा — मु. ।
४१३
तपः । तदुत्तरत्र वक्ष्यमाणं द्वादशविकल्पमवसेयम् । संयतस्य योग्यं ज्ञानादिदानं त्यागः ।
उपात्तेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यम् । नास्य
१
किञ्चनास्तीत्यकिञ्चनः । तस्य भावः कर्म वा आकिञ्चन्यम् । अनुभूताङ्गनास्मरणकथा
-
श्रवणस्त्रीसंसक्तशयनासनादिवर्जनाद् ब्रह्मचर्यं परिपूर्णमवतिष्ठते । स्वतन्त्रवृत्तिनिवृत्त्यर्थो
०५
वा गु
२
रुकुलवासो ब्रह्मचर्यम् । दृष्टप्रयोजनपरिवर्जनार्थमुत्तमविशेषणम् । तान्येवं भाव्यमा
-
नानि धर्मव्यपदेशभाञ्जि स्वगुणप्रतिपक्षदोषसद्भावनाप्रणिहितानि संवरकारणानि
भवन्ति ।
आह, क्रोधाद्यनुत्पत्तिः क्षमादिविशेषप्रत्यनीकालम्बनादित्युक्तम्, तत्र कस्मात्क्षमा
-
दीनयमवलम्बते नान्यथा प्रवर्तत इत्युच्यते । यस्मात्तप्तायःपिण्डवत्क्षमादिपरिणतेनात्म
-
१०
हितैषिणा कर्तव्याः —
अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वा
-
ख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥
७
॥
इमानि शरीरेन्द्रियविषयोपभोगद्रव्याणि समुदयरूपाणि जलबुद्बुद्वदनवस्थितस्व
-
१
— नास्ति किंचनास्याकिं — मु., दि. १, दि. २ ।
२
— कुलावासो मु., ता. ।
४१४
भावानि गर्भादिष्ववस्थाविशेषेषु सदोपलभ्यमानसंयोगविपर्ययाणि, मोहादत्राज्ञो नित्यतां
मन्यते । न किञ्चित्संसारे समुदितं ध्रुवमस्ति आत्मनो ज्ञानदर्शनोपयोगस्वभावादन्यदिति
चिन्तनमनित्यतानुप्रेक्षा । एवं ह्यस्य
२
भव्यस्य चिन्तयतस्तेष्वभिष्वङ्गाभावाद् भुक्तोज्झित
-
गन्धमाल्यादिष्विव वियोगकालेऽपि विनिपातो नोत्पद्यते ।
०५
यथा — मृगशावस्यैकान्ते बलवता क्षुधितेनामिषैषिणा व्याघ्रेणाभिभूतस्य न किञ्चि
-
च्छरणमस्ति, तथा जन्मजरामृत्युव्याधिप्रभृतिव्यसनमध्ये परिभ्रमतो जन्तोः शरणं न
विद्यते । परिपुष्टमपि शरीरं भोजनं प्रति सहायीभवति न व्यसनोपनिपाते । यत्नेन संचिता
२
अर्था अपि न भवान्तरमनुगच्छन्ति । संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परि
-
त्रायन्ते । बान्धवाः समुदिताश्च रुजा परीतं न परिपालयन्ति । अस्ति चेत्सुचरितो धर्मो
१०
व्यसनमहार्णवे तारणोपायो भवति । मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणम् ।
तस्माद् भवव्यसनसङ्कटे धर्म एव शरणं सुहृदर्थोऽप्यनपायी, नान्यकिञ्चिच्छरणमिति
भावना अशरणानुप्रेक्षा । एवं ह्यस्याध्यवस्यतो नित्यमशरणोऽस्मीति भृशमुद्विग्नस्य
सांसारिकेषु भावेषु ममत्वविगमो
३
भवति । भगवदर्हत्सर्वज्ञप्रणीत एव मार्गे प्रयत्नो
४
भवति ।
१
ह्यस्य चिन्त — मु., ता. ।
२
सचितोऽर्थोऽपि न भवान्तरमनुगच्छति मु. ।
३
ममत्वनिरासो
भव — आ., दि. १, दि. २. मु., ना. ।
४
मार्गे प्रतिपन्नो भव — आ., दि. १, दि. २, मु. ।
४१५
कर्मविपाकवशादात्मनो भवान्तरावाप्तिः संसारः । स पुरस्तात्पञ्चविंधपरिवर्तन
-
रूपेण व्याख्यातः । तस्मिन्ननेकयोनिकुलकोटिबहुशतसहस्रसंकटे संसारे परिभ्रमन् जीवः
कर्मयन्त्र
१
प्रेरितः पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । माता भूत्वा भगिनी भार्या दुहिता
च भवति । स्वामी भूत्वा दासो भवति । दासो भूत्वा स्वाम्यपि भवति । नट इव रङ्गे ।
०५
अथवा किं बहुना, स्वयमात्मनः पुत्रो भवतीत्येवमादि संसारस्वभावचिन्तनं संसारानुप्रेक्षा ।
एवं ह्यस्य भावयतः संसारदुःखभयादुद्विग्नस्य ततो निर्वेदो भवति । निर्विण्नश्च संसार
-
प्रहाणाय प्र
२
यतते ।
जन्मजरामरणा
३
वृत्तिमहादुःखानुभवनं प्रति एक एवाहं न कश्चिन्मे स्वः परो वा
विद्यते । एक एव जायेऽह
४
म् । एक एव म्रिये । न मे कश्चित् स्वजनः परजनो वा व्याधि
-
१०
जरामरणादीनि दुःखान्यपहरति । बन्धुमित्राणि स्मशा
५
नं नातिवर्तन्ते । धर्म एव मे सहायः
सदा अनपायीति चिन्तनमेकत्वानुप्रेक्षा । एवं ह्यस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न
भवति । परजनेषु च द्वेषानुबन्धो नोपजायते । ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटते ।
शरीरादन्यत्वचिन्तनमन्यत्वानुप्रेक्षा । तद्यथा — बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदा
-
१
— यन्त्रानुप्रेरितः ।
२
प्रतियतते मु. ।
३
— मरणानुवृत्ति — मु. ।
४
जायेऽहम् । एक ता. ।
५
स्मशानात् नाति — ताº ।
४१६
दन्योऽहमैन्द्रियकं शरीरम
१
तीन्द्रियोऽहमज्ञं शरीरं ज्ञोऽहमनित्यं शरीरं नित्योऽहमाद्यन्त
-
वच्छरीरमनाद्यन्तोऽहम् । बहूनि मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः । स एवाह
-
मन्यस्तेभ्य इत्येवं शरीरादप्यन्यत्वं मे किमङ्ग, पुनर्बाह्येभ्यः परिग्रहेभ्यः । इत्वेवं ह्यस्य
मनः समादधानस्य शरीरादिषु स्पृहा नोत्पद्यते । ततस्तत्त्वज्ञानभावनापूर्वके वैराग्यप्रकर्षे
०५
सति आत्यन्तिकस्य मोक्षसुखस्यावा
२
प्तिर्भवति ।
शरीरमिदमत्यन्ताशु
३
चियोनि शुक्रशोणिताशुचिसंवर्धितमवस्करवदशुचिभाजनं त्वङ्
मात्रप्रच्छादितमतिपूतिरसनिष्यन्द्रिस्रोतोबिलमङ्गारवदात्मभावमाश्रितमप्याश्वेवापादय
-
ति । स्नानानुलेपनधूपप्रघर्षवासमाल्यादिभिरपि न शक्यमशुचित्वमपहर्तुमस्य । सम्य
-
ग्दर्शनादि पुनर्भाव्यमानं जीवस्यात्यन्तिकीं शुद्धिमाविर्भावयतीति तत्त्वतो भावनम
-
१०
शुचित्वानुप्रेक्षा । एवं ह्यस्य संस्मरतः शरीरनिर्वेदो भवति । निर्विण्णश्च जन्मोदधितर
-
णाय चित्तं समाधत्ते ।
आस्रवसंवरनिर्जराः पूर्वोक्ता अपि इहोपन्यस्यन्ते त
४
द्गतगुणदोषभावनार्थम् । तद्यथा
-
आस्रवा इहामुत्रापाययुक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियकषायाव्रतादयः । तत्रेन्द्रि
-
१
— मनिन्द्रियो मु., दि. १, दि. २, ता. ।
२
— स्याप्तिर्भ — मु. ।
३
— न्ताशुचिशुक्रशोणितयोन्यशुचिसं —
मु. । — न्ताशुचिपूतिशुक्रशोणितसम् — दि. १ । — न्ताशुचिशुक्रशोणितसं — दि. २ ।
४
तद्गुण — मु. ।
४१७
याणि तावत्स्पर्शनादीनि वनगजवायसपन्नगपतङ्गहरिणादीन् व्यसनार्णवमवगाहयन्ति तथा
कषायादयोऽपीह वधबन्धापय
१
शःपरिक्लेशादीन् जनयन्ति । अमुत्र च नानागतिषु बहुविध
-
दुःखप्रज्वलितासु परि
२
भ्रमयन्तीत्येवमास्रवदोषानुचिन्तनमास्रवानुप्रेक्षा । एवं ह्यस्य चिन्त
-
यतः क्षमादिषु श्रेयस्त्वबुद्धिर्न प्रच्यवते । सर्व एते आस्रवदोषाः कूर्मवत्संवृतात्मनो न भवन्ति ।
०५
यथा महार्णवे नावो विव
३
रपिधानेऽसति क्रमात्स्रुतजलाभिप्लवे सति तदाश्रयाणां
विनाशोऽवश्यंभावी, छिद्रपिधाने च निरुपद्रवमभिलषितदेशान्तरप्रापणं, तथा कर्मागम
-
द्वारसंवरणे सति नास्ति श्रेयःप्रतिबन्धः इति संवरगुणानुचिन्तनं संवरानुपेक्षा । एवं ह्यस्य
चिन्तयतः संवरे नित्योद्युक्तता भवति । ततश्च निःश्रेयसपदप्राप्तिरिति ।
निर्जरा वेदनाविपाक
४
इत्युक्तम् । सा द्वेधा — अबुद्धिपूर्वा कुशलमूला चेति । तत्र
१०
नरकादिषु गतिषु कर्मफलविपाकजा अबुद्धिपूर्वा सा अकुशलानुबन्धा । परिषहजये कृते
कुशलमूला सा शुभानुबन्धा निरनुबन्धा चेति । इत्येवं निर्जराया गुणदोषभावनं निर्जरानु
-
प्रेक्षा । एवं ह्यस्यानुस्मरतः कर्मनिर्जरायै प्रवृत्तिर्भवति ।
१
— बन्धपरि — मु., ता. ।
२
— तासु भ्रम — मु. ।
३
विवरापिधाने सति मु. ।
४
— पाकजा इत्यु
-
मु. ।
४१८
लोकसंस्थानादिविधिर्व्याख्यातः । समन्तादनन्तस्यालोकाकाशस्य बहुमध्यदेशभाविनो
लोकस्य संस्थानादिविधिर्व्याख्यातः । तत्स्वभावानुचिन्तनं लोकानुप्रेक्षा । एवं ह्यस्याध्य
-
वस्यतस्तत्त्वज्ञानविशुद्धिर्भवति ।
एकस्मिन्निगोतशरीरे जीवाः सिद्धानामनन्तगुणाः । एवं सर्वलोको निरन्तरं निचितः
०५
स्थावरैरतस्तत्र त्रसता वालुकासमुद्रे पतिता वज्रसिकताकणिकेव दुर्लभा । तत्र च विकलेन्द्रि
-
याणां भूयिष्ठत्वात्पञ्चेन्द्रियता गुणेषु कृतज्ञतेव कृच्छ्रलभ्या । तत्र च तिर्यक्षु पशुमृगपक्षि
-
सरीसृपादिषु बहुषु सत्सु मनुष्यभावश्चतुष्पथे रत्नराशिरिव दुरासदः । तत्प्रच्यवे च पुनस्त
-
दुपत्तिर्दग्धतरुपुद्गलतद्भावोपपत्तिवद् दुर्लभा । तल्लाभे च देशकुलेन्द्रियसम्पन्नीरोग
-
त्वान्युरोत्तरतोऽतिदुर्लभानि । सर्वेष्वपि तेषु लब्धेषु सर्द्धमप्रतिलम्भो यदि न स्याद् व्यर्थं
१०
जन्म वदनमिव दृष्टिविकलम् । तमेवं
१
कृच्छ्रलभ्यं धर्ममवाप्य विषयसुखे रञ्जनं भस्मार्थं
चन्दनदहनमिव विफलम् । विरक्तविषयसुखस्य तु तपोभावनाधर्मप्रभावनासुखमरणादि
-
लक्षणः समाधिर्दुरवापः । तस्मिन् सति बोधिलाभः फलवान् भवतीति चिन्तनं बोधिदुर्ल
-
१
तमेव कृ — आ., दि. १, दि. २ ।
४१९
भानुप्रेक्षा । एवं ह्यस्य भावयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति ।
अयं जिनोपदिष्टो धर्मोऽहिंसालक्षणः सत्याधिष्ठितो विनयमूलः । क्षमाबलो ब्रह्मचर्य
-
गुप्त उपशमप्रधानो नियतिलक्षणो निष्परिग्रहतालम्बनः । अस्यालाभादनादिसंसारे
जीवाः परिभ्रमन्ति दुष्कर्मविपाकजं दुखमनुभवन्तः । अस्य पुनः प्रतिलम्भे विविधाभ्यु
-
०५
दयप्राप्तिपूर्विका निःश्रेयसोपलब्धिर्नियतेति चिन्तनं धर्मस्वाख्यातत्वानुप्रेक्षा । एवं
ह्यस्य चिन्तयतो धर्मानुरागात्सदा
१
प्रतियत्नो भवति ।
एवमनित्यत्वाद्यनुप्रेक्षासन्निधाने उत्तमक्षमादिधारणान्महान्संवरो भवति । मध्ये
‘
अनुप्रेक्षा
’
वचनमुभयार्थम् । अनुप्रेक्षा हि भावयन्नुत्तमक्षमादींश्च प्रतिपालयति परीष
-
हांश्च जेतुमुत्सहते ।
१०
के पुनस्ते परिषहाः किमर्थं वा
२
ते सह्यन्त इतीदमाह —
मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥
८
॥
संवरस्य प्रकृतत्वात्तेन मार्गो विशिष्यते । संवरमार्ग इति । तदच्यवनार्थं निर्जरार्थं
च परिषोढव्याः परीषहाः । क्षुत्पिपासादिसहनं कुर्वन्तः जिनोपदिष्टान्मार्गादप्रच्यवमानास्त
-
न्मार्गपरिक्रमणपरिचयेन कर्मागमद्वारं संवृण्वन्त औपक्रमिकं कर्मफलमनुभवन्तः क्रमेण
१
सदा कृतप्रति — ता. ।
२
वा सह्य — मु. ।
४२०
निर्जीर्णकर्माणो मोक्षमाप्नुवन्ति ।
तत्स्वरूपसंख्यासम्प्रतिपत्त्यर्थमाह —
क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाच
-
नाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञाज्ञानादर्शनानि ॥
९
॥
०५
क्षुदादयो वेदनाविशेषा द्वाविंशतिः । एतेषां सहनं मोक्षार्थिना कर्तव्यम् । तद्यथा —
भिक्षोर्निरवद्याहारगवेषिणस्तदलाभे ईषल्लाभे च अनिवृत्तवेदनस्याकाले अदेशे च भिक्षां
प्रति निवृत्तेच्छस्यावश्यकपरिहाणिं मनागप्यसहमानस्य स्वाध्यायध्यानभावनापरस्य बहु
-
कृत्वः स्वकृतपरकृतानशनावमौदर्यस्य नीरसाहारस्य
१
संतप्तभ्राष्ट्रपतितजलबिन्दुकतिप
-
यवत्सहसा परिशुष्कपानस्योदीर्णक्षुद्वेदनस्यापि सतो भिक्षालाभादलाभमधिकगुणं मन्य
-
१०
मानस्य क्षुद्बाधां प्रत्यचिन्तनं क्षुद्विजयः ।
जलस्नानावगाहनपरिषेकपरित्यागिनः पतत्त्रिवदनियतासनावसथस्यातिलवणस्नि
-
ग्धरूक्षविरुद्धाहारग्रैष्मातपपित्तज्वरानशनादिभिरुदीर्णां शरीरेन्द्रियोन्माथिनीं पिपासां
१
— रस्य तप्त — मु. ।
४२१
प्रत्यनाद्रियमाणप्रतीकारस्य पिपासानलशिखां धृतिनवमृद्घटपूरितशीतलसुगन्धिसमाधिवा
-
रिणा प्रशमयतः पिपासासहनं प्रशस्यते ।
परित्यक्तप्रच्छादनस्य पक्षिवदनवधारितालयस्य वृक्षमूलपथिशिलातलादिषु हिमा
-
नीपतनशीतला
१
निलसम्पाते तत्प्रतिकारप्राप्तिं प्रति निवृत्तेच्छस्य पूर्वानुभूतशीतप्रति
-
०५
कारहेतुवस्तूनामस्मरतो ज्ञानभावनागर्भागारे वसतः शीतवेदनासहनं परिकीर्त्यते ।
निवाते निर्जले ग्रीष्मरविकिरणपरिशुष्कपतितपर्णव्यपेतच्छायातरुण्यटव्यन्तरे यदृ
-
च्छयोपनिपतितस्यानशनाद्यभ्यन्तरसाधनोत्पादितदाहस्य दवाग्निदाहपरुषवातातपज
-
नितगलतालुशोषस्य तत्प्रतीकारहेतून् बहूननुभूतानचिन्तयतः प्राणिपीडापरिहारावहित
-
चेतसश्चारित्ररक्षणमुष्णसहनमित्युपवर्ण्यते ।
१०
‘
दंशमशक
’
२
ग्रहणमुपलक्षणम् । यथा
’
काकेभ्यो रक्ष्यतां सर्पिः
’
इति उपघातकोप
३
-
लक्षणं काकग्रहणं, तेन दंशमशकमक्षिकापिशुकपुत्तिकामत्कुणकीटपिपीलिकावृश्चिकादयो
१
— शीतानिल — आ., दि. १, दि. २ ।
२
— ग्रहणं दंशमशकोपलक्षणं । यथा आ., दिº १, दिº २,
ताº ।
३
उपघातोप — मुº ।
४२२
गृह्यन्ते । तत्कृतां बाधामप्रतीकारां सहमानस्य तेषां बाधां त्रिधाऽप्यकुर्वाणस्य निर्वाण
-
प्राप्तिमात्रसंकल्पप्रावरणस्य तद्वेदनासहनं दंशमशकपरिषहक्षमेत्युच्यते ।
जातरूपवन्निष्कलङ्कजातरूपधारणमशक्यप्रा
१
र्थनीयं याचनरक्षणहिंसनादिदोषवि
-
निर्मुक्तं निष्परिग्रहत्वान्निर्वाणप्राप्तिं प्रत्येकं साधनमनन्यबाधनं नाग्न्यं बिभ्रतो मनोविक्रि
-
०५
याविप्लुतिविरहात् स्त्रीरूपाण्यत्यन्ताशुचिकुणपरूपेण भावयतो रात्रिन्दिवं ब्रह्मचर्यम
-
खण्डमातिष्ठमानस्याचेलव्रतधारणमनवद्यमवगन्तव्यम् ।
संयतस्येन्द्रियेष्टविषयसम्बधं प्रति निरुत्सुकस्य गीतनृत्यवादित्रादिविरहितेषु शून्या
-
गारदेवकुलतरुकोटरशिलागुहादिषु स्वाध्यायध्यानभावनारतिमास्कन्दतो दृष्टश्रुतानु
२
-
भूतरतिस्मरणतत्कथाश्रवणकामशरप्रवेशनिर्विवरहृदयस्य प्राणिषु सदा सदयस्यारतिपरि
-
१०
षहजयोऽवसेयः ।
एकान्तेष्वारामभवनादिप्रदेशेषु नवयौवनमदविभ्रममदिरापानप्रमत्तासु प्रमदासु
बाधमानासु कूर्मवत्संवृ
३
तेन्द्रियहृदयविकारस्य ललितस्मितमृदुकथितसविलासवीक्षणप्रह
-
सनमद
४
मन्थरगमनमन्मथशरव्यापारविफलीकरणस्य
५
स्त्रीबाधापरिषहसहनमवगन्तव्यम् ।
१
— शक्यमप्रार्थ्य — ता., ना., दिº २, आº ।
२
‘
सुदपरिचिदाणुभूदा सव्वस्स वि कामभोगबंधकहा ।
’
— समयप्रा. गा. ४ ।
३
संहृते — मु. ।
४
पदमन्थर — मुº ।
५
— करणचरणस्य आ., दि. १, दि. २ ।
४२३
दीर्घकालमुषितगुरुकुलब्रह्मचर्यस्याधिगतबन्धमोक्षपदार्थतत्त्वस्य संयमायतनभक्तिहे
-
तोर्देशान्तरातिथेर्गुरुणाऽभ्यनुज्ञातस्य पवनवन्निःसङ्गतामङ्गीकुर्वतो बहुशोऽनशनावमौदर्य
-
वृत्तिपरिसंख्यानरसपरित्यागादिबाधापरिक्ला
१
न्तकायस्य देशकालप्रमाणापेतमध्वगमनं
संयमविरोधि परिहरतो निराकृतपादावरणस्य परुषशर्कराकण्टकादिव्य
२
धनजातचरणखेद
-
०५
स्यापि सतः पूर्वोचितयानवाहनादिगमनमस्मरतो यथाकालमावश्यकापरिहाणिमास्कन्दत
-
श्चर्यापरिषहसहनमवसेयम् ।
स्मशानोद्यानशून्यायतनगिरिगुहागह्वरादिष्वनभ्यस्तपूर्वेषु निवसत आदित्यप्रकाश
३
-
स्वेन्द्रियज्ञानपरीक्षितप्रदेशे
४
कृतनियमक्रियस्य निषद्यां नियमितकालामास्थितवतः सिंह
-
व्याध्रादिविविधभीषणध्वनिश्रवणान्निवृत्तभयस्य चतुर्विधोपसर्गसहनादप्रच्युतमोक्षमार्गस्य
१०
वीरासनोत्कुटिकाद्यासनादविचलितविग्रहस्य तत्कृतबाधासहनं निषद्यापरिषहविजय
इति निश्चीयते ।
स्वाध्यायध्यानाध्वश्रमपरिखेदितस्य मौहूर्तिकीं खरविषमप्रचुरशर्कराकपालसङ्कटा
५
-
१
— परिक्रान्त — मु. ।
२
— व्यथन — मु., दि. १, दि. २ ।
३
प्रतिषु आदित्यस्वेन्द्रियज्ञानप्रकाशपरीक्षि
-
तप्रदेशे इति पाठः ।
४
— देशे प्रकृत — मु. ।
५
— संकटादिशी — मु. ।
४२४
तिशीतोष्णेषु भूमिप्रदेशेषु निद्रामनुभवतो यथाकृतैकपार्श्वदण्डायितादिशायिनः प्राणिबाधा
-
परिहाराय पतितदारुवद्
१
व्यपगतासुवद
२
परिवर्तमानस्य ज्ञान
३
भावनावहितचेतसोऽनुष्ठित
-
व्यन्तरादिविविधोपसर्गादप्यचलितविग्रहस्यानियमितकालां तत्कृतबाधां क्षममाणस्य शय्या
परिषहक्षमा कथ्यते ।
०५
मिथ्यादर्शनोदृक्तामर्षपरुषावज्ञानिन्दासभ्यवचनानि क्रोधाग्निशिखाप्रवर्धनानि
४
निशृण्वतोऽपि तदर्थेष्वसमाहितचेतसः सहसा तत्प्रतीकारं कर्तुमपि शक्नुवतः पापकर्म
-
विपाकमभिचिन्तयतस्तान्याकर्ण्य तपश्चरणभावनापरस्य कषायविषलवमात्रस्याप्यनव
-
काशमात्महृदयं कुर्वत आक्रोशपरिषहसहनमवधार्यते ।
निशितविशसनमुशलमुद्गराद्रिप्रहरणताडनपीडनादिभिर्व्यापाद्यमानशरीरस्य व्या
-
१०
पादकेषु मनागपि मनोविकारमकुर्वतो मम पुराकृतदुष्कर्मफलमिदमिमे वराकाः किं कुर्वन्ति,
शरीरमिदं जलबुद्बुद्वद्विशरणस्वभावं व्यसनकारणमेतैर्बाबा
५
ध्यते, संज्ञानदर्शनचारित्राणि
मम न केनचिदुपहन्यन्ते इति चिन्तयतो वासितक्षणचन्दनानुलेपनसमदर्शिनो वधपरिषह
-
क्षमा मन्यते ।
१
— पतिततरुदण्डव — ता. ।
२
— तासुवदुपरि — मु. ।
३
ज्ञानपरिभावना — मु. ।
४
— नानि शृण्व — मु., दि.
१ ।
५
— मैतैर्व्याबा — मु. ।
४२५
बाह्याभ्यन्तरतपोऽनुष्ठानपरस्य तद्भावनावशेन निस्सारीकृतमूर्तेः पटुतपनताप
-
निष्पीतसारतरोरिव विरहितच्छायस्य त्वगस्थिशिराजालमात्रतनुयन्त्रस्य प्राणात्यये
१
सत्यप्याहारवसतिभेषजादीनि दीनाभिधानमुखवैवर्ण्याङ्गसञ्ज्ञादिभिरयाचमानस्य भि
-
क्षाकालेऽपि विद्युदुद्योतवत् दुरुपलक्ष्यमूर्तेर्याचनापरिषहसहनमवसीयते ।
०५
वायुवदसङ्गादनेकदेशचारिणोऽभ्युपगतैककालसम्भोजनस्य वाचंयमस्य तत्समितस्य
२
वा सकृत्स्वतनुदर्शनमात्रतन्त्रस्य पाणिपुटमात्रपात्रस्य बहुषु दिवसेषु
३
बहुषु च गृहेषु भिक्षा
-
मनवाप्याप्यसंक्लिष्टचेतसो दातृविशेषपरीक्षानिरुत्सुकस्य लाभादप्यलाभो मे परमं
तप इति सन्तुष्टस्यालाभविजयोऽवसेयः ।
सर्वाशुचिनिधानमिदमनित्यमपरित्राणमिति शरीरे निःशङ्कल्पत्वाद्विगतसंस्कारस्य
१०
गुणरत्नभाण्डसञ्चयप्रवर्धनसंरक्षण
४
सन्धारणकारणत्वादभ्युपगतस्थितिविधानस्याक्षम्रक्षण
-
वद् व्रणानुलेपनवद्वा बहूपकारमाहारमभ्युपगच्छतो विरुद्धाहारपानसेवनवैषम्यजनितवा
-
तादिविकाररोगस्य युगपदनेकशतसंख्यव्याधिप्रकोपे सत्यपि तद्वशवर्तितां विजहतो जल्लौ
-
षधिप्राप्त्याद्यनेकतपोविशेषर्द्धियोगे सत्यपि शरीरनिस्स्पृहत्वात्तत्प्रतिकारानपेक्षिणो
रोगपरिषहसहनमवगन्तव्यम् ।
१
प्राणवियोगे सत्य — मु. ।
२
तत्समस्य वा आ., दि. १, दि — २ ।
३
— सेषु च मु. ।
४
—
१५
रक्षणकार — आ., दि. २, ता. ।
४२६
तृणग्रहणमुपलक्षणं कस्यचिद्व्यधनदुःखकारणस्य । तेन शुष्कतृणपरुषशर्कराकण्टक
-
निशितमृत्तिकाशूलादिव्य
१
धनकृतपादवेदनाप्राप्तौ सत्यां तत्राप्रणिहितचेतसश्चर्याशय्या
-
निषद्यासु प्राणिपीडापरिहारे नित्यमप्रमत्तचेतसस्तृणादिस्पर्शबाधापरिषहविजयो वेदितव्यः ।
अप्कायिकजन्तुपीडापरिहाराया मरणादस्नानव्रतधारिणः पटुरविकिरणप्रताप
-
०५
जनितप्रस्वेदाक्तपवनानीतपांसुनिचयस्य सिध्मकच्छूदद्रूदीर्णकण्डूयायामुत्पन्नायामपि कण्डू
-
यनविमर्दनसंघट्टनविवर्जितमूर्तेः स्वगतमलोपचय
३
परगतमलापचययोरसंकल्पितमनसः
स
४
ज्ज्ञानचारित्रविमलसलिलप्रक्षालनेन कर्ममलपङ्क
५
निराकरणाय नित्यमुद्यतमतेर्मलपीडा
-
सहनमाख्यायते
६
।
सत्कारः पूजाप्रशंसात्मकः । पुरस्कारो नाम क्रियारम्भादिष्वग्रतः करणमामन्त्रणं
१०
वा, तत्रानादरो
७
मयि क्रियते । चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयनिर्णयज्ञस्य
बहुकृत्वः परवादिविजयिनः प्रणामभक्तिसम्भ्रमासनप्रदानादीनि मे न कश्चित्करोति ।
मिथ्यादृष्टय एवातीव भक्तिमन्तः किञ्चिदजानन्तमपि सर्वज्ञसम्भावनया सम्मान्य स्वस
८
-
१
— व्यथन — मु. ।
२
— स्वेदात्तपव — मु. ।
३
— लोपचयगत — मु. ।
४
संज्ञान — मु. ।
५
— पंकजाल
-
निरा — मु. ।
६
— ख्यायते । केशलुञ्चसंस्काराभ्यामुत्पन्नखेदसहनं मलसामान्यसहनेऽन्तर्भवतीति न पृथगुक्तम् ।
सत्कारः मु. ।
७
— दरोऽपिक्रि — मु. ।
८
स्वशासनप्रभा — ता. ।
४२७
मयप्रभावनं कुर्वन्ति । व्यन्तरादयः पुरा अत्युग्रततपसां प्रत्यग्रपूजां निर्वर्तयन्तीति मिथ्या
श्रुतिर्यदि न स्यादिदानीं कस्मान्मादृशां न कुर्वन्तीति दुष्प्रणिधानविरहितचित्तस्य सत्कार
-
पुरस्कारपरिषहविजय इति
१
विज्ञायते ।
अङ्गपूर्वप्रकीर्णकविशारदस्य शब्दन्यायाध्यात्मनिपुणस्य मम पुरस्तादितरे भास्कर
-
०५
प्रभाभिभूतखद्योतोद्योतवन्नितरां नावभासन्त इति विज्ञानमदनिरासः प्रज्ञापरिषहजयः
प्रत्येतव्यः ।
अज्ञोऽयं न वेत्ति पशुसम इत्येवमाद्यधि
२
क्षेपवचनं सहमानस्य परमदुश्चरतपोऽनुष्ठा
-
यिनो नित्यमप्रमत्तचेतसो मेऽद्या
३
पि ज्ञानातिशयो नोत्पद्यत इति अनभिसन्दधतोऽज्ञानपरि
-
षहजयोऽवगन्तव्यः ।
१०
परमवैराग्यभावनाशुद्धहृदयस्य विदितसकलपदार्थतत्त्वस्यार्हदायतनसाधुधर्मपूजकस्य
चिरन्तनप्रव्रजितस्याद्यापि मे ज्ञानातिशयो नोत्पद्यते । महोपवासाद्यनुष्ठायिनां प्रातिहार्य
-
विशेषाः प्रादुरभूवन्निति प्रलापमात्रमनर्थिकेयं प्रव्रज्या । विफलं व्रतपरिपालनमित्येवमस
-
मादधानस्य दर्शनविशुद्धियोगाददर्शनपरिषहसहनमवसातव्यम् ।
१
— जयःप्रतिज्ञा — मु. ।
२
— द्यवक्षेप — मु. । — द्यविक्षेप — दि. १, दि. २ ।
३
मेऽद्यत्वेऽपि विज्ञा — मु. ।
४२८
एवं परिषहान्
१
असंकल्पोपस्थितान् सहमानस्यासंक्लिष्टचेतसो रागादिपरिणामास्र
-
वनिरोधान्महान्संवरो भवति ।
आह, किमिमे परिषहाः सर्वे संसारमहाटवीमतिक्रमितुमभ्युद्यतमभिद्रवन्ति उत
कश्चित्प्रतिविशेष इत्यत्रोच्यते — अमी व्याख्यातलक्षणाः क्षुदादयश्चारित्रान्तराणि प्रति
०५
भाज्याः । नियमेन पुनरनयोः प्रत्येतव्याः —
सूक्ष्म
२
साम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥
१०
॥
क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाज्ञानानि ।
‘
चतु
-
र्दश
’
इति वचनादन्येषां परिषहाणामभावो वेदितव्यः । आह युक्तं तावद्वीतरागच्छ
-
द्मस्थे मोहनीयाभावात्
३
तत्कृतवक्ष्यमाणाष्टपरिषहाभावाच्चतुर्दशनियमवचनम् । सूक्ष्म
-
१०
साम्पराये तु मोहोदयसद्भावात्
‘
चतुर्दश
’
इति नियमो नोपपद्यत इति ? तदयुक्तम्; सन्मात्र
-
त्वात् । तत्र हि केव
४
लो लोभसञ्ज्वलनकषायोदयः सोऽप्यतिसूक्ष्मः । ततो वीतरागछद्म
-
स्थकल्पत्वात्
‘
चतुर्दश
’
इति नियमस्तत्रापि युज्यते । ननु मोहोदयसहायाभावान्मन्दोद
-
१
— षहान् सह — मु. ।
२
‘
वेयणीयभवाए ए पन्नानाणा उ आइमे । अट्ठमंमि अलाभोत्थो छौमत्थे
चोद्दस ॥
’
— पञ्चसंº द्वा. ४, गा. २२ । —
३
मुद्रितप्रतौ मोहनीयाभावाद्वक्ष्यमाणनाग्न्यारतिस्त्रीनिषद्याक्रोशयाचना
-
सत्कारपुरस्कारादर्शनानि तत्कृताष्ट — इति पाठः । लिखितप्रतिषु च तथैव । परं नासौ सम्यक् प्रतिभाति ।
१५
संशोधितपाठस्तु तत्त्वार्थवार्तिकपाठानुसारी इति सोऽत्र योजितः ।
४
केवललोभ — मु. ।
४२९
यत्वाच्च क्षुदादिवेदनाभावात्तत्सहनकृतपरिषहव्यपदेशो न युक्तिमवतरति ? तन्न ।
किं कारणम् ? शक्तिमात्रस्य विवक्षितत्वात् । सर्वार्थसिद्धिदेवस्य सप्तमपृथिवीगमन
-
सामर्थ्यव्यपदेशवत् ।
आह, यदि शरीरवत्यात्मनि परिषहसन्निधानं प्रतिज्ञायते अथ भगवति उत्पन्नकेवल
-
०५
ज्ञाने कर्मचतुष्टयफलानुभवनवशवर्तिनि कियन्त उपनिपतन्तीत्यत्रोच्यते । तस्मिन्पुनः —
e
१
कादश जिने ॥
११
॥
निरस्तघातिकर्मचतुष्टये जिने वेदनीयसद्भावात्तदाश्रया एकादशपरिषहाः सन्ति ।
ननु च
२
मोहनीयोदयसहायाभावात्क्षुदादिवेदनाभावे परिषहव्यपदेशो न युक्तः ? सत्यमेव
-
मेतत् — वेदनाभावेऽपि द्रव्यकर्मसद्भावापेक्षया परिषहोपचारः क्रियते, निरवशेषनिरस्त
-
१०
ज्ञानातिशये चिन्तानिरोधाभावेऽपि तत्फलकर्मनिर्हरणफलापेक्षया ध्यानोपचारवत् ।
अथवा — एकादश जिने
‘
न सन्ति
’
इति वाक्यशेषः कल्पनीयः; सोपस्कारत्वात्सूत्राणाम् ।
१
‘
खुप्पिवासुण्हसीयाणि सेज्जा रोगो वहो मलो । तणफासो चरीया य दंसेक्कारस जोगिसु ॥
’
—
पञ्चसंº द्वा. ४, गा, . २२ ।
२
ननु मोह — मु. ।
४३०
’
कल्प्यो हि वा
१
वयशेषो वाक्यं च वक्तर्यधीनम्
’
इत्युपगमात् मोहोदयसहायीकृतक्षुदादि
-
२
वेदनाभावात्
‘
न सन्ति
’
इति वाक्यशेषः ।
१
‘
कल्प्यो हि वाक्यशेषो वाक्यं वक्तर्यधीनं हि ।
’
— पा. म. भा. १, १, ८ ।
२
— भावात् । आह मु. ।
४३१
आह, यदि सूक्ष्मसाम्परायादिषु व्यस्ता परिषहाः अथ समस्ताः
१
ताः क्वेति —
२
बादरसाम्पराये सर्वे ॥
१२
॥
साम्परायः कषायः । बादरः साम्परायो यस्य स बादरसाम्पराय इति । नेदं गुणस्थान
-
विशेषग्रहणम् । किं तर्हि ? अर्थनिर्देशः । तेन प्रमत्तादीनां संयतानां ग्रहणम् । तेषु हि
०५
अक्षीण
३
कषायदोषत्वात्सर्वे संभवन्ति । कस्मिन् पुनश्चारित्रे सर्वेषां सम्भवः ? सामायिक
-
च्छेदोपस्थापनपरिहारविशुद्धिसंयमेषु प्रत्येकं सर्वेषां सम्भवः ।
१
समस्ताः क्वेति मु. ।
२
‘
निसेज्जा जायणाकोसो अरै̄ इत्थिनग्गया । सक्कारो दंसणं मोहा
बावीसा चेव रागिसु ॥
’
— पञ्चसंº द्वा. ४, गा. २३ ।
३
अक्षीणाशयत्वात्सर्वे — आ., दि, १ दि. २, ता.
४
— संयमेष्वन्यतमे सर्वे — मु., ता. ।
४३२
आह, गृहीतमेतत्परिषहाणां स्थानविशेषावधारणम्, इदं तु न विद्मः कस्याः प्रकृतेः
कः कार्य इत्यत्रोच्यते —
ज्ञानावरणे प्रज्ञाऽज्ञाने ॥
१३
॥
इदमयुक्तं वर्तते । किमत्रायुक्तम् ? ज्ञानावरणे सत्यज्ञानपरिषह उपपद्यते, प्रज्ञापरि
-
०५
षहः पुनस्तदपाये भवतीति कथं ज्ञानावरणे स्यात् ? इत्यत्रोच्यते — क्षायोपशमिकी प्रज्ञा
अन्यस्मिन् ज्ञानावरणे सति मदं जनयति न सकलावरणक्षये इति ज्ञानावरणे सतीत्युपपद्यते ।
पुनरपरयोः परिषहयोः प्रकृतिविशेषनिर्देशार्थमाह —
४३३
दर्शनमोहान्तराययोरदर्शनालाभौ ॥
१४
॥
यथासंख्यमभिसम्बन्धः । दर्शनमोहे अदर्शनपरिषहो, लाभान्तराये अलाभपरिषह इति ।
आह; यद्याद्ये मोहनीयभेदे एकः परिषहः, अथ द्वितीयस्मिन् कति भवन्तीत्यत्रोच्यते —
चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥
१५
॥
४३४
पुंवेदोदयादिनिमित्तत्वान्नाग्न्यादिपरिषहाणां मोहोदयनिमित्तत्वं प्रतिपद्यामहे ।
निषद्यापरिषहस्य कथम् ? तत्रापि प्रणिपीडापरिहारार्थत्वात् । मोहोदये सति प्राणि
-
पीडापरिणामः संजायत इति ।
अवशिष्टपरिषहप्रकृतिविशेषप्रतिपादनार्थमाह —
०५
वेदनीये शेषाः ॥
१६
॥
उक्ता एकादश परिषहाः । तेभ्योऽन्ये शेषाः वेदनीये सति
‘
भवन्ति
’
इति वाक्यशेषः ।
के पुनस्ते ? क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरिषहाः ।
४३५
आह, व्याख्यातनिमित्तलक्षणविकल्पाः प्रत्यात्मनि प्रादुर्भवन्तः कति युगपदवतिष्ठन्त
इत्यत्रोच्यते —
एकादयो भाज्या युगपदेकस्मिन्नैंकान्नविंशतेः ॥
१७
॥
आङ्भिविध्यर्थः । तेन एकोनविंशतिरपि क्वचित् युगपत्सम्भवतीत्यवगम्यते । तत्कथ
-
०५
मिति चेदुच्यते — शीतोष्णपरिषहयोरेकः शय्यानिषद्याचर्याणां
१
चान्यतम एव भवति एक
-
स्मिन्नात्मनि । कुतः ? विरोधात् । तत्त्रयाणामपगमे युगपदेकात्मनीतरेषां सम्भवादेकोन
-
विंशतिविकल्पा
२
बोद्धव्याः । ननु प्रज्ञाज्ञानयोरपि विरोधाद्युगपदसम्भवः ? श्रुतज्ञानापेक्षया
प्रज्ञापरिषहः अवधिज्ञाना
३
द्यभावापेक्षया अज्ञानपरिषह इति नास्ति विरोधः ।
आह, उक्ता गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयाः संवरहेतवः पञ्च । संवरहेतुश्चा
-
१०
रित्रसञ्ज्ञो वक्तव्य इति तद्भेदप्रदर्शनार्थमुच्यते —
१
— चर्याणामन्यतम मु. ।
२
— कल्पो बोद्धव्यो । ननु आ., दि. १, दि. २ ।
३
— ज्ञानापेक्षया मु. ।
४३६
सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति
चारित्रम् ॥
१८
॥
अत्र चोद्यते — दशविधे धर्मे संयम उक्तः स एव चारित्रमिति पुनर्ग्रहणमनर्थकमिति ?
नानर्थकम्; धर्मेऽन्तर्भूतमपि चारित्रमन्ते गृह्यते मोक्षप्राप्तेः साक्षात्कारणमिति ज्ञापनार्थम् ।
०५
सामायिकमुक्तम् । क्व ?
‘
दिग्देशानर्थदण्डविरतिसामायिक —
’
इत्यत्र । तद् द्विविधं
नियतकालमनियतकालञ्च । स्वाध्यायादि नियतकालम् । ईर्यापथाद्यनियतकालम्
१
।
प्रमादकृतानर्थप्रबन्धविलोपे सम्यक्प्रतिक्रिया छेदोपस्थापना विकल्पनिवृत्तिर्वा । परिहरणं
परिहारः प्राणिवधान्निवृत्तिः । तेन विशिष्टा शुद्धिर्यस्मिंस्तत्परिहारविशुद्धिचारित्रम् ।
अतिसूक्ष्मकषायत्वात्सूक्ष्मसाम्परायचारित्रम् । मोहनीयस्य निरवशेषस्योपशमात्क्षयाच्च
१०
आत्मस्वभावावस्थापेक्षालक्षणं अथाख्यातचारित्रमित्याख्यायते । पूर्वचारित्रानुष्ठायिभिरा
-
ख्यातं न तत्प्राप्तं प्राङ्मोहक्षयोपशमाभ्यामित्यथाख्यातम् । अथशब्दस्यानन्त
२
यार्थिवृत्तित्वा —
१
— कालञ्च । प्रमा — ता. ।
२
— नन्तरार्थवर्ति — मु । ., ता.
४३७
न्निरवशेषमोहक्षयोपशमानन्तरमाविर्भवतीत्यर्थः
१
।
‘
यथाऽऽख्यातम्
’
इति वा; यथाऽऽत्मस्व
-
भावोऽवस्थितस्तथैवाख्यातत्वात् ।
‘
इति
’
शब्दः परिसमाप्तौ द्रष्टव्यः । ततो यथाख्यात
-
चारित्रात्सकलकर्मक्षयपरिसमाप्तिर्भवतीति ज्ञाप्यते । सामायिकादीनामानुपूर्व्यवचनमुत्त
-
रोत्तरगुणप्रकर्ष
२
ख्यापनार्थं क्रियते ।
१
— त्यर्थः । तथा
-
मु., ता., ना. ।
२
— कर्षज्ञापनार्थम् मु. ।
४३८
आह, उक्तं चारित्रम् । तदनन्तरमुद्दिष्टं यत्
‘
तपसा निजरी च
’
इति तस्येदानीं तपसो
विधानं कर्तव्यमित्यत्रोच्यते । तद् द्विविधं बाह्यमाभ्यन्तरं च । तत्प्रत्येकं षड्विधम् । तत्र
बाह्यभेदप्रतिपत्त्यर्थमाह
अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा
०५
बाह्यं तपः ॥
१९
॥
दृष्टफलानपेक्षं संयमप्रसिद्धिरागोच्छेदकर्मविनाशध्यानागमावाप्त्यर्थमनशनम् ।
संयमप्रजा
१
गरदोषप्रशमसन्तोषस्वाध्यायादिसुखसिद्ध्यर्थमवमौदर्यम् । भिक्षार्थिनो मुने
-
रेकागारादिविषयः
२
सङ्कल्पः चिन्तावरोधो वृत्तिपरिसंख्यानमाशानिवृत्त्यर्थमवगन्तव्यम् ।
इन्द्रियदर्पनिग्रहनिद्राविजयस्वाध्यायसुखसिद्ध्या
३
द्यर्थो घृतादिवृष्यरसपरित्यागश्चतुर्थं तपः ।
१०
शून्यागारादिषु विविक्तेषु जन्तुपीडाविरहितेषु संयतस्य शय्यासनमाबाधात्यय
-
ब्रह्मचयस्वाध्यायध्यानादिप्रसिद्ध्यर्थं कर्तव्यमिति पञ्चमं तपः । आतपस्थानं वृक्षमूल
-
निवासो निरावरणशयनं बहुविधप्रतिमास्थानमित्येवमादिः कायक्लेशः
४
तत् षष्ठं तपः ।
१
— गरणदोष — आ., दि. १, दि. २, ना. ।
२
— विषयसंकल्पचित्ताव — ता., मु. । — विषयः संकल्प
-
चिन्ताव — दि. १, दि. २ ।
३
— सिद्ध्यर्थो मु., दि. २ ।
४
— क्लेशः षष्ठं मु. ता. ।
४३९
तत्किमर्थम् ? देहदुःखतितिक्षासुखानभिष्वङ्गप्रवचनप्रभावनाद्यर्थम् । परिषहस्यास्य च
को विशेषः ? यदृच्छयोपनिपतितः परिषहः । स्वयंकृतः कायक्लेशः । बाह्यत्व
-
मस्य कुतः ? बाह्यद्रव्यापेक्षत्वात्परप्रत्यक्षत्वाच्च बाह्यत्वम् ।
अभ्यन्तरतपोभेदप्रदर्शनार्थमाह —
०५
प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥
२०
॥
कथमस्याभ्यन्तरत्वम् ? मनोनियमनार्थत्वात् । प्रमाददोषपरिहारः प्रायश्चित्तम् ।
पूज्येष्वादरो विनयः । कायचेष्टया द्रव्यान्तरेण चोपासनं
१
वैयावृत्त्यम् । ज्ञानभावनाऽऽल
-
स्यत्यागः स्वाध्यायः । आत्माऽऽत्मीयसङ्कल्पत्यागो व्युत्सर्गः । चित्तविक्षेपत्यागो ध्यानम् ।
तद्भेदप्रतिपादनार्थमाह —
१०
नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् ॥
२१
॥
१
— रेण वोप — ता. ।
४४०
‘
यथाक्रमम्
’
इति वचनान्नवभेदं प्रायश्चित्तम्, विनयश्चतुर्विधः, वैयावृत्त्यं दशवि
-
धम्, स्वाध्यायः पञ्चविधः, द्विभेदो
१
व्युत्सर्ग इत्यभिसंबध्यते ।
‘
प्राग्ध्यानात्
’
इति वचनं
ध्यानस्य बहुवक्तव्यत्वात्पश्चाद्वक्ष्यत इति ।
आद्यस्य भेदस्वरूपनिर्ज्ञानार्थमाह —
०५
आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥
२२
॥
तत्र गुरवे प्रमादनिवेदनं दशदोषविवर्जितमालोचनम् ।
२
मिथ्यादुष्कृताभिधानादभि
-
व्यक्तप्रतिक्रियं प्रतिक्रमणम् ।
[तदुभय
-
]
संसर्गे सति विशोधनात्तदुभयम् । संसक्तान्न
-
पानोपकरणादिविभजनं विवेकः । कायोत्सर्गादिकरणं व्युत्सर्गः । अनशनावमोदर्यादिलक्षणं
तपः । दिवसपक्षमासादिना
३
प्रव्रज्याहापनं छेदः । पक्षमासादिविभागेन दूरतः परिवर्जनं
४
१०
परिहारः । पुनर्दीक्षाप्रापणमुपस्थापना ।
१
द्विविधो व्युत्स
-
मु. ।
२
— लोचनम् । आकंपिय अणुमाणिय जं दिट्ठं बादरं च सुहुमं च । छण्हं
सद्दाउलियं बहुजण अव्वत्त सस्सेवि ॥ इति दश दोषाः । मिथ्या — मु. ।
३
— मासादीनां प्रव्र मु. ।
४
परिवर्ज.
नीयं परि — आ. ।
४४१
विनयविकल्पप्रतिपत्त्यर्थमाह —
ज्ञानदर्शनचारित्रोपचाराः ॥
२३
॥
‘
विनयः
’
इत्यधिकारेणऽभिसम्बन्धः क्रियते । ज्ञानविनयो दर्शनविनयश्चा
-
रित्रविनय उपचारविनयश्चेति । सबहुमानं मोक्षार्थं ज्ञानग्रहणाभ्यासस्मरणादिज्ञनि
-
४४२
विनयः । शङ्कादिदोषविरहितं तत्त्वार्थश्रद्धानं दर्शनविनयः । तद्व
१
तश्चारित्रे समाहितचित्तता
चारित्रविनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादिरुपचारविनयः ।
परोक्षेष्वपि कायवाङ् मनोऽभिरञ्जलिक्रियागुणसङ्कीर्तनानुस्मरणादिः ।
वैयावृत्त्यभेदप्रतिपादनार्थमाह —
०५
आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥
२४
॥
वैयावृत्त्यं दशधा भिद्यते । कुतः ? विषयभेदात् । आचार्यवैयावृत्त्यमुपाध्यायवैया
-
वृत्त्यमित्यादि । तत्र आचरन्ति
२
तस्माद् व्रतानीत्याचार्यः । मोक्षार्थं शास्त्रमुपेत्य
३
तस्माद
-
धीयत इत्युपाध्यायः । महोपवासाद्यनुष्ठायी तपस्वी । शिक्षाशीलः शैक्षः । रुज्ञादिक्लिष्ट
-
शरीरो ग्लानः । गणः स्थविरसन्ततिः । दीक्षकाचार्यशिष्यसंस्त्यायः
४
कुलम् । चातुर्वण
५
श्रमण
-
१०
निबहः संघः । चिरप्रव्रजितः साधुः । मनोज्ञो लोकसम्मतः । तेषां व्याधिपरिषहमिथ्यात्वाद्यु
-
पनिपाते कायचेष्टया द्रव्यान्तरेण वा तत्प्रतीकारो वैयावृत्त्यं समाध्याधा
६
नविचिकित्साऽ
-
१
तत्त्वतश्चा — मु. ।
२
— रन्ति सस्या — आ., दि. १, दि. २, ता., ना. ।
३
‘
उपेत्याधीयते
तस्मादुपाध्यायः ।
’
— पा. म. भा. ३, ३, ११ ।
४
— संस्त्ययः मु. ।
५
चातुर्वर्ण्यश्र — मु. ।
६
— माध्यायान — मु. ।
४४३
भावप्रवचनवात्सल्याद्यभिव्यक्त्यर्थम्
१
।
स्वाध्यायविकल्पविज्ञानार्थमाह —
वाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ॥
२५
॥
निरवद्यग्रन्थार्थोभयप्रदानं वाचना । संशयच्छेदाय निश्चितबलाधानाय वा परानुयोगः
०५
प्रच्छना । अधिगतार्थस्य मनसाऽध्यासोऽनुप्रेक्षा । घोषशुद्धं परिवर्तनमाम्नायः । धर्मकथाद्य
-
नुष्ठानं धर्मोपदेशः । स एष पञ्चविधः स्वाध्यायः किमर्थः ? प्रज्ञातिशयः प्रशस्ताध्यवसायः
परमसंवेगस्तपोवृद्धिरतिचारविशुद्धिरित्येवमाद्यर्थः ।
व्युत्सर्गभेदनिर्ज्ञानार्थमाह —
बाह्याभ्यन्तरोपध्योः ॥
२६
॥
१०
व्युत्सर्जनं व्युत्सर्गस्त्यागः । स द्विविधः — बाह्योपधित्यागोऽभ्यन्तरोपधित्यागश्चेति ।
अनुपात्तं वास्तुधनधान्यादि बाह्योपधिः । क्रोधादिरात्मभावोऽभ्यन्तरोपधिः । कायत्यागश्च
नियतकालो यावज्जीवं वाऽभ्यन्तरोपधित्याग इत्युच्यते । स किमर्थः ? निस्सङ्गत्वनिर्भयत्व
-
जीविताशाव्युदासाद्यर्थः ।
१
— व्यक्तार्थम् आ., दि. १, दि. २, ना. ।
४४४
यद् बहुवक्तव्यं ध्यानमिति पृथग्व्यवस्थापितं तस्येदानीं भेदाभिदानं प्राप्तकालम् ।
तदुल्लङ्ध्य तस्य प्रयोक्तृस्वरूपकालनिर्द्धारणार्थमुच्यते —
उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्या
१
नमाऽन्तर्मुहूर्तात् ॥
२७
॥
आद्यं त्रितयं संहननमुत्तमं वज्रर्षभनाराचसंहननं वज्रनाराचसंहननं नाराचसंहनन
-
०५
मिति । तत्त्रितयमपि ध्यानस्य साधनं भवति । मोक्षस्य तु आद्यमेव । तदुत्तमं संहननं यस्य
सोऽयमुत्तमसंहननः, तस्योत्तमसंहननस्येति । अनेन प्रयोक्तृनिर्देशः कृतः । अग्रं मुखम् ।
एकमग्रमस्येत्येकाग्रः । नानार्थावलम्बनेन चिन्ता परिस्पन्दवती, तस्या अन्याशेषमुखेभ्यो
व्यावर्त्य एकस्मिन्नग्रे नियम एकाग्रचिन्तानिरोध इत्युच्यते । अनेन ध्यानस्वरूपमुक्तं
भवति । मुहूर्त इति कालपरिमाणम् । अन्तर्गतो मुहूर्तोऽन्तर्मुहूर्तः ।
‘
आ अन्तर्मुहूर्तात्
’
-
१
‘
ध्यानं निर्विषयं मनः ।
’
— सां. सू. ६, २५ ।
४४५
इत्यनेन कालावधिः कृतः । ततः परं दु
१
र्धरत्वादेकाग्रचिन्तायाः । चिन्ताया निरोधो यदि
ध्यानं, निरोधश्चाभावः, तेन ध्यानमसत्खरविषाणवत्स्यात् ? नैष दोषः; अन्यचिन्ता
-
निवृत्त्यपेक्षयाऽसदिति चोच्यते, स्वविषयाकारप्रवृत्तेः सदिति च; अभावस्य भावान्तर
-
त्वाद् हेत्वङ्गत्वादिभिरभावस्य वस्तुधर्मत्वसिद्धेश्च । अथवा नायं भावसाधनः, निरो
-
०५
धनं निरोध इति । किं तर्हि ? कर्मसाधनः
‘
निरुध्यत इति निरोधः
’
। चिन्ता चासौ निरोधश्च
चिन्तानिरोध इति । एतदुक्तं भवति — ज्ञानमेवापरिस्पन्दाग्निशिखावदवभासमानं ध्यान
-
मिति ।
तद्भेदप्रदर्शनार्थमाह —
आर्त्तरौद्रधर्म्यशुक्लानि ॥
२८
॥
१०
ऋतं दुःखम्, अर्दनमर्तिर्वा, तत्र भवमार्तम् । रुद्रः क्रूराशयस्तस्य कर्म तत्र भवं वा
रौद्रम् । धर्मो व्याख्यातः । धर्मादनपेतं धर्म्यम् । शुचिगुणयोगाच्छुक्लम् । तदेतच्चतुर्विधं
ध्यानं द्वैविध्यमश्नुते । कुतः ? प्रशस्ताप्रशस्तभेदात् । अप्रशस्तमपुण्यास्रवकारणत्वात् ।
१
— दुर्घरत्वात् । चिन्ताया नि. ता., ना.
४४६
कर्मनिर्दहनसामर्थ्यात्प्रशस्तम् ।
किं पुनस्तदिति चेदुच्यते —
परे सोक्षहेतू ॥
२९
॥
परमुत्तरमन्त्यं । तत्सामीप्याद्धर्म्यमपि
‘
परम्
’
इत्युपचर्यते । द्वि
१
वचननिर्देशसामर्थ्याद्
०५
गौणमपि गृह्यते ।
‘
प
२
रे मोक्षहेतू
’
इति वचनात्पूर्वे आर्तरौद्रे संसारहेतू इत्युक्तं भवति ।
कुतः ? तृतीयस्य साध्यस्याभावात् ।
तत्रार्तं चतुर्विधम् । तत्रादिविकल्पलक्षणनिर्देशार्थमाह —
आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥
३०
॥
अमनोज्ञमप्रियं विषकण्टकशत्रुशस्त्रादि, तद्बाधाकारणत्वाद्
‘
अमनोज्ञम्
’
इत्युच्यते ।
१०
तस्य सम्प्रयोगे, स कथं नाम मे न स्यादिति सङ्कल्पश्चिन्ताप्रबन्धः स्मृतिसमन्वाहारः
प्रथममार्तमित्याख्यायते ।
द्वितीयस्य विकल्पस्य लक्षणनिर्देशार्थमाह —
विपरीतं मनोज्ञस्य ॥
३१
॥
१
— वचनसाम — मु. ।
२
परे धर्म्यशुक्ले मोक्ष — आ., दि. १, दि. २, ता., ना. ।
४४७
कुतो विपरीतम् ? पूर्वोक्तात् । तेनैतदुक्तं भवति — मनोज्ञस्येष्टस्य स्वपुत्रदारधना
-
देर्विप्रयोगे तत्सम्प्रयोगाय सङ्कल्पश्चिन्ताप्रबन्धो द्वितीयमार्तमवगन्तव्यम् ।
तृतीयस्य विकल्पस्य लक्षणप्रतिपादनार्थमाह —
वेदनायाश्च ॥
३२
॥
०५
‘
वेदना
’
शब्दः सुखे दुःखे च वर्तमानोऽपि आर्तस्य प्रकृतत्वाद् दुःखवेदनायां प्रवर्तते,
तस्या वातादिविकारजनितवेदनाया उपनिपाते तस्या अपायः कथं नाम मे स्यादिति संकल्प
-
श्चिन्ताप्रबन्धस्तृतीयमार्तमुच्यते ।
तुरीयस्यार्तस्य लक्षणनिर्देशार्थमाह —
निदानं च ॥
३३
॥
१०
भोगाकाङ्क्षातुरस्यानागतविषयप्राप्तिं प्रति मनःप्रणिधानं सङ्कल्पश्चिन्ताप्रबन्ध
-
स्तुरीयमार्तं निदानमित्युच्यते ।
तदेतच्चतुर्विधमार्तं किंस्वामिकमिति चेदुच्यते —
तदविरतदेशविरतप्रमत्तसंयतानाम् ॥
३४
॥
अविरता असंयतसम्यग्दृष्ट्यन्ताः । देशविरताः संयतासंयताः । प्रमत्तसंयताः
४४८
पञ्चदशप्रमादोपेताः क्रियानुष्ठायिनः । तत्राविरतदेशविरतानां चतुर्विधमप्या
१
र्तं भवति;
असंयमपरिणामोपेतत्वात् । प्रमत्तसंयतानां तु निदानवर्ज्यमन्यदार्तत्रयं प्रमादोदयोद्रेकात्क
-
दाचित्स्यात् ।
व्याख्यातमार्तं सञ्ज्ञादिभिः । द्वितीयस्य सञ्ज्ञाहेतुस्वामिनिर्द्धारणार्थमाह —
०५
हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥
३५
॥
हिंसादीन्युक्तलक्षणानि । तानि रौद्रध्यानोत्पत्तेर्निमित्तीभवन्तीति हेतुनिर्देशो विज्ञा
-
यते । तेन हेतुनिर्देशेनानुवर्तमानः
‘
स्मृतिसमन्वाहारः
’
अभिसम्बध्यते । हिंसायाः स्मृति
-
समन्वाहार इत्यादि । तद्रौद्रध्यानमविरतदेशविरतयोर्वेदितव्यम् । अविरतस्य भवतु
रौद्रध्यानं, देशविरतस्य कथम् ? तस्यापि हिंसाद्यावेशाद्वित्तादिसंरक्षणतन्त्रत्वाच्च कदा
-
१०
चिद् भवितुमर्हति । तत्पुनर्नारकादीनामकारणं; सम्यग्दर्शनसामर्थ्यात् । संयतस्य तु
न भवत्येव; तदारम्भे संयमप्रच्युतेः ।
१
— र्विधमार्तं ता. मु. ।
४४९
आह,
‘
परे मोक्षहेतू
’
उपदिष्टे । तत्राद्यस्य मोक्षहेतोर्ध्यानस्य भेदस्वरूपस्वामिनिर्देशः
कर्तव्य इत्यत आह —
आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥
३६
॥
विचयनं विचयो विवेको विचारणे
१
त्यर्थः । आज्ञापायविपाकसंस्थानानां विचय आज्ञा
-
०५
पायविपाकसंस्थानविचयः ।
‘
स्मृतिसमन्वाहारः
’
इत्यनुवर्तते । स प्रत्येकं सम्बध्यते — आज्ञा
-
विचयाय स्मृतिसमन्वाहार इत्यादि । तद्यथा — उपदेष्टुरभावान्मन्दबुद्धित्वात्कर्मोदया
-
त्सूक्ष्मत्वाच्च पदार्थानां हेतुदृष्टान्तोपरमे सति सर्वज्ञप्रणीतमागमं प्रमाणीकृत्य इत्थमेवेदं
’
नान्यथावादिनो जिनाः
’
इति गहनपदार्थश्रद्धाना
२
दर्थावधारणमाज्ञाविचयः । अथवा —
स्वयं विदितपदार्थतत्त्वस्य सतः परं प्रति पिपादयिषोः स्वसिद्धान्ताविरोधेन तत्त्वसमर्थनार्थं
१०
तर्कनयप्रमाणयोजनपरः स्मृतिसमन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थत्वादाज्ञाविचय इत्युच्यते ।
जात्यन्धवन्मिथ्यादृष्टयः सर्वज्ञप्रणीतमार्गाद्विमुखा मोक्षार्थिनः सम्यङ्मार्गापरिज्ञानात्सु
-
१
विचारणमित्यर्थः मु. । विचारमित्मर्थः ता. ।
२
— द्धानमर्था — मु. ।
४५०
दूरमेवापयन्तीति सन्मार्गापायचिन्तनमपायविचयः । अथवा — मिथ्यादर्शनज्ञानचारि
-
त्रेभ्यः कथं नाम इमे प्राणिनोऽपेयुरिति स्मृतिसमन्वाहारोऽपायविचयः । कर्मणां ज्ञानावरणा
-
दीनां द्रव्यक्षेत्रकालभवभावप्रत्ययफलानुभवनं प्रति प्रणिधानं विपाकविचयः । लोकसंस्थान
-
स्वभावविचयाय स्मृतिसमन्वाहारः संस्थानविचयः । उत्तमक्षमादिलक्षणो धर्म उक्तः ।
०५
तस्मादनपेतं धर्म्यं ध्यानं चतुर्विकल्पमवसेयम् । तदविरतदेशविरतप्रमत्ताप्रमत्तसंयतानां
भवति ।
४५३
त्रयाणां ध्यानानां निरूपणं कृतम् । इदानीं शुक्लध्यानं निरूपयितव्यम् । तद्वक्ष्यमाण
-
चतुर्विकल्पम् । तत्राद्ययोः स्वामिनिर्देशार्थमिदमुच्यते —
शुक्ले चाद्ये पूर्वविदः ॥
३७
॥
वक्ष्यमाणेषु शुक्लध्यानविकल्पेषु आद्ये शुक्लध्याने पूर्वविदो भवतः श्रुतकेवलिन
०५
इत्यर्थः ।
‘
च
’
शब्देन धर्म्यमपि समुच्चीयते । तत्र
’
१
व्याख्यानतो विशेषप्रतिपत्तिः
’
इति
श्रेण्यारोहणात्प्राग्धर्म्यं, श्रेण्योः शुक्ले इति व्याख्यायते ।
अवशिष्टे कस्य भवत इत्यत्रोच्यते —
परे केवलिनः ॥
३८
॥
प्रक्षीणसकलज्ञानावरणस्य केवलिनः सयोगस्यायोगस्य च परे उत्तरे शुक्लध्याने
१०
भवतः ।
यथासंख्यं तद्विकल्पप्रतिपादनार्थमिदमुच्यते —
पृथक्त्वैकत्ववितर्कंसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि ॥
३९
॥
१
‘
व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम् ।
’
— परि. शे., पृ. ८ । पा. म. भा., पृ. ५७,
१३०, १५४ ।
‘
वक्खाणओ विसेसो न हि संदेहादलक्खणया ॥
’
— वि. भा. गा., ३४७ ।
४५४
पृथक्त्ववितर्कमेकत्ववितर्कं सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिवर्ति चेति चतुर्विधं
शुक्लध्यानम् । वक्ष्यमाणलक्षण
१
मपेक्ष्य सर्वेषामन्वर्थत्व
२
मवसेयम् ।
तस्यालम्बनविशेषनिर्धारणार्थमाह —
त्र्येकयोगकाययोगायोगानाम् ॥
४०
॥
०५
‘
योग
’
शब्दो व्याख्यातार्थः
‘
कायवाङ्मनःकर्म योगः
’
इत्यत्र । उक्तैश्चतुर्भिः शुक्ल
-
ध्यानविकल्पैस्त्रियोगादीनां चतुर्णां यथासंख्येनाभिसम्बन्धो वेदितव्यः । त्रियोगस्य पृथक्त्व
-
वितर्कम्, त्रिषु योगेष्वेकयोगस्यैकत्ववितर्कम्, काययोगस्य सूक्ष्मक्रियाप्रतिपाति, अयोगस्य
व्युपरतक्रियानिवर्तीति ।
तत्राद्ययोर्विशेषप्रतिपत्त्यर्थमिदमुच्यते —
१०
एकाश्रये सवितर्कवीचारे पूर्वे ॥
४१
॥
एक आश्रयो ययोस्ते एकाश्रये । उ
३
भेऽपि परिप्राप्तश्रुतज्ञाननिष्ठेनारभ्येते इत्यर्थः ।
वितर्कश्च वीचारश्च वितर्कवीचारौ, सह वितर्कवीचाराभ्यां वर्तेते इति सवितर्क
-
वीचारे । पूर्वे पृथक्त्वैकत्ववितर्के इत्यर्थः ।
तत्र यथासंख्यप्रसंगेऽनिष्टनिवृत्त्यर्थमिदमुच्यते —
१
— क्षणमुपेत्य सर्वे — मु. ।
२
— मन्वर्थमव — मु. ।
३
उभयेऽपि आ., दि. १, दि. २, ना. ।
४५५
अवीचारं द्वितीयम् ॥
४२
॥
पूर्वयोर्यद् द्वितीयं तदवीचारं प्रत्येतव्यम् । एतदुक्तं भवति — आद्यं सवितर्कं सवीचारं
च भवति । द्वितीयं सवितर्कमवीचारं चेति
अथ वितर्कवीचारयोः कः प्रतिविशेष इत्यत्रोच्यते —
०५
वितर्कः श्रुतम् ॥
४३
॥
विशेषेण तर्कणमूहनं वितर्कः श्रुतज्ञानमित्यर्थः ।
अथ को वीचारः ?
वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥
४४
॥
अर्थो ध्येयो द्रव्यं पर्यायो वा । व्यञ्जनं वचनम् । योगः कायवाङ्मनःकर्मलक्षणः ।
१०
संक्रान्तिः परिक्तनम् । द्रव्यं विहाय पर्यायमुपैति पर्यायं त्यक्त्वा द्रव्यमित्यर्थसंक्रान्तिः ।
एकं श्रुतवचनमुपादाय वचनान्तरमालम्बते तदपि विहायान्यदिति व्यञ्जनसंक्रान्तिः ।
काययोगं त्यक्त्वा योगान्तरं गृह्णाति योगान्तरं च
१
त्यक्त्वा काययोगमिति योगसंक्रान्ति ।
एवं परिवर्तनं वीचार इत्युच्यते
२
। तदेतत्सामान्यविशेषनिर्दिष्टं चतुर्विधं धर्म्यं शुक्लं च
१
— न्तरं त्यक्त्वा मु. ।
२
इत्युच्यते । संक्रान्तौ सत्यां कथं ध्यानमिति चेत् ध्यानसन्तानमपि
ध्यानमुच्यते इति न दोषः । तदेतत्सामान्य — मु., दि. १, दि. २, आ. ।
४५६
पूर्वोदितगुप्त्यादिबहुप्रकारोपायं संसारनिवृत्तये मुनिर्ध्यातुमर्हति कृतपरिकर्मा । तत्र द्रव्य
-
परमाणुं भावपरमाणुं वा ध्यायन्नाहितवितर्कसामर्थ्यः
१
अर्थव्यञ्जने कायवचसी च पृथक्त्वेन
संक्रामता म
२
नसाऽपर्याप्तबालोत्साहवदव्यवस्थितेनानिशितेनापि शस्त्रेण चिरात्तरुं छिन्द
-
न्निव मोहप्रकृतीरुपशमयन्क्षपयंश्च पृथक्त्ववितर्कवीचारध्यानभाग्भवति । स एव
०५
पुनः समूलतू
३
लं मोहनीयं निर्दिधक्षन्ननन्तगुणवि
४
शुद्धियोगविशेमाश्रित्य बहुतराणां ज्ञाना
-
वरणसहायीभूतानां प्रकृतीनां बन्धं निरुन्धन् स्थितिह्रासक्षयौ च कुर्वन् श्रुतज्ञानोपयोगो
५
निवृत्तार्थव्यञ्जनयोगसंक्रान्तिः अविचलितमनाः क्षीणकषायो वैडूर्यमणिरिव निरुपलेपो
ध्यात्वा पुनर्न निवर्तत इत्युक्तमेकत्ववितर्कम् । एवमेकत्ववितर्कशुक्लध्यानवैश्वानर
-
निर्दग्धवातिकर्मेन्धनः प्रज्वलितकेवलज्ञानगभस्तिमण्डलो मेघपञ्जरनिरोधनिर्गत इव घर्म
-
१०
रश्मिर्वा भासमानो भगवांस्तीर्थकर इतरो वा केवली लोकेश्वराणामभिगमनीयोऽर्चनीयश्चो
-
त्कर्षेणायुषः पूर्वकोटीं देशोनां विहरति । स यदाऽन्तर्मुहूर्तशेषायुष्कस्तत्तुल्यस्थितिवेद्यनाम
-
गोत्रश्च भवति तदा सर्वं वाङ्मनसयोगं बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगालम्बनः
१
— सामर्थ्यादर्थ — मु. ।
२
मनसा पर्याप्त — मु. ।
३
समूलतलं मु., दि. १, दि. २, आ. ।
४
— शुद्धियोग — मु. ।
५
— योगे निवृत्ता — मु. ।
४५७
सूक्ष्मक्रियाप्रतिपातिध्यानमास्कन्दितुमर्हतीति । यदा पुनरन्तर्मुहूर्तशेषायुष्कस्ततोऽधिक
-
स्थितिशेषकर्मत्रयो भवति सयोगी तदाऽऽत्मोपयोगातिशयस्य सामायिकसहायस्य विशिष्ट
-
करणस्य महासंवरस्य लघुकर्मपरिपाचनस्याशेषकर्मरेणुपरिशातनशक्तिस्वाभाव्याद्दण्डक
-
पाटप्रतरलोकपूरणानि स्वात्मप्रदेशविसर्पणतश्चतुर्भिः समयैः कृत्वा पुनरपि तावद्भिरेव
०५
समयैः समुपहृतप्रदेशविसरणः समीकृतस्थितिशेषकर्मचतुष्टयः पूर्वशरीरप्रमाणो भूत्वा
सूक्ष्मकाययोगेन सूक्ष्मक्रियाप्रतिपाति ध्यानं ध्यायति । ततस्तदनन्तरं समुच्छिन्नक्रिया
-
निवर्तिध्यानमारभते । समुच्छिन्नप्राणापानप्रचारसर्वकायवाङ्मनोयोगसर्वप्रदेशपरिस्प
-
न्दक्रियाव्यापारत्वात् समुच्छिन्नक्रियानिवर्तीत्युच्यते । तस्मिन्समुच्छिन्नक्रियानिवर्तिनि
ध्याने सर्वबन्धास्रवनिरोधसर्वशेषकर्मशातनसामर्थ्योपपत्तेरयोगिकेवलिनः सम्पूर्णयथा
-
१०
ख्यातचारित्रज्ञानदर्शनं सर्वसंसारदुःखजालपरिष्वङ्गोच्छेदजननं साक्षान्मोक्षकारणमुप
-
जायते । स पुनरयोगकेवली भगवांस्तदा ध्यानातिशयाग्निनिर्दग्धसर्वमलकलङ्कबन्धनो
निरस्तकिट्टधातुपाषाणजात्यकनकवल्लब्धात्मा परिनिर्वाति । तदेतद् द्विविधं तपो
-
ऽभिनवकर्मास्रवनिरोधहेतुत्वात्संवरकारणं प्राक्तनकर्मरजोविधूनननिमित्तत्वान्निर्जराहेतु
-
रपि भवति ।
४५८
अत्राह सम्यग्दृष्टयः किं सर्वे समनिर्जरा आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्य
-
त्रोच्यते —
सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शंनमोहक्षपकोपशमकोपशान्त
-
मोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥
४५
॥
०५
त एते दश सम्यग्दृष्ट्यादयः क्रमशोऽसंख्येयगुणनिर्जराः । तद्यथा — भव्यः पञ्चेन्द्रिय
-
सञ्ज्ञी पर्याप्तकः पूर्वोक्तकाललब्ध्यादिसहायः परिणामविशुद्ध्या वर्धमानः क्रमेणापूर्व
-
करणादिसोपानपङ्क्त्योत्प्लवमानो बहुतरकर्मनिर्जरो भवति । स एव पुनः प्रथमसम्यक्त्व
-
प्राप्तिनिमित्तसन्निधाने सति सम्यग्दृष्टिर्भवन्नसंख्येयगुणनिर्जरो भवति । स एव पुन
-
श्चारित्रमोहकर्मविकल्पाप्रत्याख्यानावरणक्षयोपशमनिमित्तपरिणामप्राप्तिकाले विशुद्धि
-
१०
प्रकर्षयोगात् श्रावको भवन् ततोऽसंख्येयगुणनिर्जरो भवति । स एव पुनः प्रत्याख्याना
-
वरणक्षयोपशमकारणपरिणामविशुद्धियोगाद् विरतव्यपदेशभाक् सन् ततोऽसंख्येय
-
गुणनिर्जरो भवति । स एव पुनरनन्तानुबन्धिक्रोधमानमायालोभानां वियोजनपरो भवति
यदा तदा परिणामविशुद्धिप्रकर्षयोगात्ततोऽसंख्येयगुणनिर्जरो भवति । स एव पुनर्दर्शन
-
मोहप्रकृतित्रयतृणनिचयं निर्दिधक्षन् परिणामविशुद्ध्यतिशययोगाद्दर्शनमोहक्षपकव्यपदेश
-
४५९
भाक्
१
पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । एवं सः क्षायिकसम्यग्दृष्टिर्भूत्वा श्रेण्यारोहणा
-
भिमुखश्चारित्रमोहोपशमं प्रति व्याप्रियमाणो विशुद्धिप्रकर्षयोगादुपशमकव्यपदेशमनु
-
भवन् पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव पुनरशेषचारित्रमोहोपशमनिमित्त
-
सन्निद्धाने परिप्राप्तोपशान्तकषायव्यपदेशः पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव
०५
पुनश्चारित्रमोहक्षपणं प्रत्यभिमुखः परिणामविशुद्ध्या वर्द्धमानः क्षपकव्यपदेशमनुभव
-
न्पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स यदा निःशेषचारित्रमोहक्षपणकारणपरिणामा
-
भिमुखः क्षीणकषायव्यपदेशमास्कन्दन्पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव द्वितीय
-
शुक्लध्यानानलनिर्दग्धघातिकर्मनिचयः सन् जिनव्यपदेशभाक् पूर्वोक्तादसंख्येयगुणनिर्जरो
भवति ।
१
— भाक् तेष्वेव पूर्वो — मु. ।
४६०
आह सम्यग्दर्शनसन्निधानेऽपि यद्यसंख्येयगुणनिर्जरत्वात्परस्परतो न साम्यमेषां
किं तर्हि श्रावकवदमी विरतादयो गुणभेदान्न निर्ग्रन्थतामर्हन्तीति ? उच्यते, नैतदेवम् ।
कुतः ? यस्माद् गुणभेदादन्योऽन्यविशेषेऽपि नैगमादिनयव्यापारात्सर्वेऽपि हि भवन्ति —
पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥
४६
॥
०५
उत्तरगुणभाव
१
नापेतमनसो व्रतेष्वपि क्वचित्कदाचित्परिपूर्णतामपरिप्राप्नुवन्तो
-
'
२
विशुद्धपुलाकसादृश्यात्पुलाका इत्युच्यन्ते । नैर्ग्रन्थ्यं पति स्थिता अखण्डितव्रताः शरीरोप
-
करणविभूषानुवर्तिनोऽविविक्तपरिवारा
३
मोहशबलयुक्ता बकुशाः । शबलपर्यायवाची
बकुशशब्दः । कुशीला द्विविधाः — प्रतिसेवनाकुशीलाः कषायकुशीला इति । अविविक्त
-
परिग्रहाः परिपूर्णोभयाः कथञ्चिदुत्तरगुण
४
विराधिनः
१
प्रतिसेवनाकुशीलाः । वशीकृता
-
१०
न्यकषायोदयाः सञ्ज्वलनमात्रतन्त्राः कषायकुशीलाः । उदकदण्डराजिवदनभिव्यक्तोदय
-
कर्माणः ऊर्ध्वं मुहूर्तादुद्भिद्यमानकेवलज्ञानदर्शनभाजो निर्ग्रन्थाः । प्रक्षीणघातिकर्माणः
केवलिनो द्विविधाः स्नातकाः । त एते पञ्चापि निर्ग्रन्थाः । चारित्रपरिणामस्य प्रकर्षा
-
१
— भावनोपेत — मु. ।
२
शुद्धाः पुलाक — मु. ।
३
— वारा मोहछेदशवल — आ., दि. १ । — वारानु
मोहसवल — दि. २ ।
४
— विरोधिनः मु. ।
४६१
प्रकर्षभेदे सत्यपि नैगमसंग्रहादिनयापेक्षया सर्वेऽपि ते निर्ग्रन्था इत्युच्यन्ते ।
तेषां पुलाकादीनां भूयोऽपि विशेषप्रतिपत्त्यर्थमाह —
संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थानविकल्पतः साध्याः ॥
४७
॥
त एते पुलाकादयः संयमादिभिरष्टभिरनुयोगैः साध्या व्याख्येयाः । तद्यथा — पुला
-
०५
कबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्वर्तन्ते । कषाय
-
कुशीला द्वयोः संयमयोः परिहारविशुद्धिसूक्ष्मसाम्पराययोः पूर्वयोश्च । निर्ग्रन्थस्नातका
एकस्मिन्नेव यथाख्यातसंयमे सन्ति ।
श्रुतं — पुलाकबकुशप्रतिसेवनाकुशीला उत्कर्षेणाभिन्नाक्षरदशपूर्वधराः । कषाय
-
कुशीला निर्ग्रन्थाश्चतुर्दशपूर्वधराः । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशील
-
१०
निर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । स्नातका अपगतश्रुताः केवलिनः ।
प्रतिसेवना — पञ्चानां मूलगुणानां रात्रिभोजनवर्जनस्य च पराभियोगाद् बला
-
दन्यतमं प्रतिसेवमानः पुलाको भवति । बकुशो द्विविधः — उपकरणबकुशः शरीरबकुश
-
श्चेति । तत्रोपकरणबकुशो बहुविशेषयुक्तोपकरणाकांक्षी । शरीरसंस्कारसेवी शरीर
-
बकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते ।
४६२
कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति ।
तीर्थमिति सर्वे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति ।
लिङ्गं द्विविधं — द्रव्यलिङ्गं भावलिङ्गं चेति । भावलिङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था
लिङ्गिनो भवन्ति । द्रव्यलिङ्गं प्रतीत्य भाज्याः ।
०५
लेश्याः — पुलाकस्योत्तरास्तिस्रः । बकुशप्रतिसेवनाकुशीलयोः षडपि
१
। कषायकुशी
-
लस्य चतस्र उत्तराः । सूक्ष्मसाम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला । अयोगा
अलेश्याः ।
उपपादः — पुलाकस्योत्कृष्ट उपपाद उत्कृष्टस्थितिदेवेषु सहस्रारे । बकुशप्रति
-
सेवनाकुशीलयोर्द्वाविंशतिसागरोपमस्थितिषु आरणाच्युतकल्पयोः । कषायकुशीलनिर्ग्र
-
१०
न्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थिसिद्धौ । सर्वेषामपि जघन्यः सौधर्मकल्पे
द्विसागरोपमस्थितिषु । स्नातकस्य निर्वाणमिति ।
स्थानम् — असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघ
-
न्यानि लब्धिस्थानानि पुलाककषायकुशीलयोः । तौ युगपदसंख्येयानि स्थानानि गच्छतः ।
ततः पुलाको व्युच्छिद्यते । कषायकुशीलस्ततोऽसंख्येयानि स्थानानि गच्छत्येकाकी ।
१
षडपि । कृष्णलेश्यादित्रितयं तयोः कथमिति चेदुच्यते — तयोरुपकरणासक्तिसंभवादार्तध्यानं
१५
कदाचित्संभवति, आर्तध्यानेन च कृष्णादिलेश्यात्रितयं सम्भवतीति । कषाय — मु. ।
४६३
ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसंख्येयानि स्थानानि गच्छन्ति । ततो
बकुशो व्युच्छिद्यते । ततोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते ।
ततोऽप्यसंख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यत । अत ऊर्ध्वमकषायस्था
-
नानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकं
०५
स्थानं गत्वा स्नातको निर्वाणं प्राप्नोती
१
त्येतेषां संयमलब्धिरनन्तगुणा भवति ।
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां नवमोऽध्यायः समाप्तः ।
१
प्राप्नोति तेषां मु. ।
४६४
अथ दशमोऽध्यायः
आह, अन्ते निर्दिष्टस्य मोक्षस्येदानीं स्वरूपाभिधानं प्राप्तकालमिति ? सत्यमेवम् ।
मोक्षप्राप्तिः केवलज्ञा
१
नावाप्तिपूर्विकेति केवलज्ञानोत्पत्तिकारणमुच्यते —
मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥
१
॥
०५
इह वृत्तिकरणं न्याय्यम् । कुतः ? लघुत्वात् । कथम्
२
? एकस्य
‘
क्षय
’
शब्दस्याकरणाद्
विभक्त्यन्तरनिर्देशस्य चाभावात्
‘
च
’
शब्दस्य चाप्रयोगल्लघु सूत्रं भवति
‘
मोहज्ञानदर्शना
-
वरणान्तरायक्षयात्केवलम्
’
इति ? सत्यमेतथ्̣, क्षयक्रमप्रतिपादनार्थो वाक्यभेदेन निर्देशः
क्रियते । प्रागेव मोहं क्षयमुपनीयान्तर्मुहूर्तं क्षीणकषायव्यपदेशमवाप्य ततो युगपज्ज्ञान
-
दर्शनावरणान्तरायाणां क्षयं कृत्वा केवलमवाप्नोति इति । तत्क्ष
३
यो हेतुः केवलोत्पत्तेरिति
१०
हेतुलक्षणो विभक्तिनिर्देशः कृतः । कथं प्रागेव मोहः क्षयमुपनीयते इति चेदुच्यते — भव्यः
१
— ज्ञानाप्ति — आ. ।
२
कथम् ? क्षय — मु. ।
३
तत्क्षयहेतुः केवलोत्पत्तिरिति मु., ता. ।
४६५
सम्यग्दृष्टिः परिणामविशुद्ध्या वर्धमानोऽसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमत्तगुणस्थानेषु
कस्मिंश्चिन्मोहस्य सप्त प्रकृतीः क्षयमुपनीय क्षयिकसम्यग्दृष्टिर्भूत्वा क्षपकश्रेण्यारोह
-
णाभिमुखोऽधःप्रवृत्तकरणमप्रमत्तस्थाने प्रतिपद्यापूर्वकरणप्रयोगेणापूर्वकरणक्षपकगुणस्था
-
नव्यपदेशमनुभूय तत्राभिनवशुभाभिसन्धितनूकृतपापप्रकृतिस्थित्यनुभागो विवर्धित
-
०५
शुभकर्मानुभवोऽनिवृत्तिकरणप्राप्त्यानिवृत्तिबादरसाम्परायक्षपकगुणस्थानमधिरुह्य तत्र
कषायाष्टकं नष्टं कृत्वा नपुं सकवेदनाशं समापाद्य स्त्रीवेदमुन्मूल्य नोकषायषट्कं पुंवेदे
प्रक्षिप्य क्षपयित्वा पुंवेदं क्रोधसंज्वलने, क्रोधसञ्ज्वलनं मानसंज्वलने, मानसंज्वलनं
मायासंज्वलने, मायासंज्वलनं
१
च लोभसंज्वलने क्रमेण बादरकृष्टिविभागेन विलयमुप
-
नीय लोभसंज्वलनं तनूकृत्य सूक्ष्मसाम्परायक्षपकत्वमनुभूय निरवशेषं मोहनीयं निर्मूल
-
१०
काषं कषित्वा क्षीणकषायतामधिरुह्यावतारितमोहनीयभार उपान्त्यप्रथमे समये निद्रा
-
प्रचले प्रलयमुपनीय पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां पञ्चानामन्तरायाणां
२
चान्तमन्ते समुपनीय
३
तदनन्तरं ज्ञानदर्शनस्वभावं केवलपर्यायमप्रतर्क्यविभूतिविशेषमवा
-
प्नोति ।
आह कस्माद्धेतोर्मोक्षः किंलक्षणश्चेत्यत्रोच्यते —
१
— लनं लोभ — मु. ।
२
— याणामन्त — मु. ।
३
समुपगमय्य तद
-
मु., ता. ।
४६६
बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥
२
॥
मिथ्यादर्शनादिहेत्वभावादभिनवकर्माभावः पूर्वोदितनिर्जराहेतुसन्निधाने चार्जित
-
कर्मनिरासः । ताभ्यां बन्धहेत्वभावनिर्जराभ्यामिति हेतुलक्षणविभक्तिनिर्देशः । ततो
भवस्थितिहेतुसमीकृतशेषकर्मावस्थस्य
१
युगपदात्यन्तिकः
२
कृत्स्नकर्मविप्रमोक्षो मोक्षः प्रत्ये
-
०५
तव्यः । कर्माभावो द्विविधः — यत्नसाध्योऽयत्नसाध्यश्चेति । तत्र चरमदेहस्य नारकतिर्यग्दे —
वायुषामभावो न यत्नसाध्यः असत्त्वात् । यत्नसाध्य इत उर्ध्वमुच्यते — असंयतसम्यग्दृ
-
ष्ट्यादिषु चतुर्षु गुणस्थानेषु कस्मिंश्चित्सप्तप्रकृतिक्षयः क्रियते । निद्रानिद्राप्रचलाप्रचला
-
स्त्यानगृद्धिनरकगतितिर्यग्गत्येकद्वित्रिचतुरिन्द्रियजातिनरकगतितिर्यग्यगतिप्रायोग्यानुपूर्व्या
-
तपोद्योतस्थावरसूक्ष्मसाधारणसञ्ज्ञिकानां षोडशानां कर्मप्रकृतीनामनिवृत्तिबादरसा
-
१०
म्परायस्थाने युगपत्क्षयः क्रियते । ततः परं तत्रैव कषायाष्टकं नष्टं क्रियते । नपुंसकवेदः
स्त्रीवेदश्च
३
क्रमेण तत्रैव क्षयमुपयाति । नोकषायष
४
ट्कं च सहैकेनैव प्रहारेण विनिपातयति ।
ततः पुंवेदसंज्वलनंक्रोधमानमायाः क्रमेणं तत्रैवात्यन्तिकं ध्वंसमास्कन्दन्ति । लोभसंज्व
-
लनः सूक्ष्मसाम्परायान्ते यात्यन्तम् । निद्राप्रचले क्षीणकषायवीतरागच्छद्मस्थस्योपान्त्य
-
१
— वस्थितस्य मु., ता. ।
२
— दात्यतीकृतकृ — मु. ।
३
— वेदश्च तत्रैव मु. ।
४
नोकषायाष्टकं
च सहै — मु. ।
४६७
समये प्रलयमुपव्रजतः । पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां पञ्चानामन्त
-
रायाणां च तस्यैवान्त्यसमये प्रक्षयो भवति । अन्यतरवेदनीयदेवगत्यौदारिकवैक्रियिका
-
हारकतैजसकार्मणशरीरपञ्चबन्धनपञ्चसंघातसंस्थानषट्कौदारिकवैक्रियिकाहारकशरीरा
-
ङ्गोपाङ्गषट्संहननपञ्चप्रशस्तवर्णपञ्चाप्रशस्तवर्णगन्धद्वयपञ्चप्रशस्तरसपञ्चाप्रशस्तरस
-
०५
स्पर्शाष्टकदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगत्यप
-
र्याप्तकप्रत्येकशरिरस्थिरास्थिरशुभाशुभदुर्भगसुस्वरदुःस्वरानादेयायशःकीर्तिनिर्माणनामनी
-
चैर्गोत्राख्या द्वासप्ततिप्रकृतयोऽयोगकेवलिन उपान्त्यसमये विनाशमुपयान्ति । अन्यतरवेद
-
नीयमनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजातिमनुष्यगतिप्रायोग्यानुपूर्व्यत्रसबादरपर्याप्तकसुभगा
-
देययशःकीर्तितीर्थकरनामोच्चैर्गोत्रसंज्ञिकानां त्रयोदशानां प्रकृतीनामयोगकेवलिनश्चरम
-
१०
समये व्युच्छेदो भवति ।
४६८
आह, किमासां पौद्गलिकीनामेव द्रव्यकर्मप्रकृतीनां निरासान्मोक्षोऽवसीयते उत
भावकर्मणोऽपीत्यत्रोच्यते —
औपशमिकादिभव्यत्वानां च ॥
३
॥
किम् ?
‘
मोक्षः
’
इत्यनुवर्तते । भव्यत्वग्रहणमन्यपारिणामिकनिवृत्त्यर्थम् । तेन पारि
-
०५
णामिकेषु भव्यत्वस्यौपशमिकादीनां च भावानामभावान्मोक्षो भवतीत्यभ्युपगम्यते ।
आह, यद्यपवर्गो भावोपरतेः प्रतिज्ञायते न
१
नु औपशमिकादिभावनिवृत्तिवत्सर्वक्षा
-
यिकभावनिवृत्ति
२
व्यपदेशो मुक्तस्य प्राप्नोतीति ? स्यादेतदेवं यदि विशेषो नोच्येत ।
अस्त्यत्र विशेष इत्यपवादविधानार्थमिदमुच्यते —
अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥
४
॥
१०
अन्यत्रशब्दापेक्षया
‘
का
’
निर्देशः
२
। केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यो अन्यत्रान्य
-
स्मिन्नयं विधिरिति । यदि चत्वार एवावशिष्यन्ते, अनन्तवीर्यादीनां निवृत्तिः प्राप्नोति ?
नैष दोषः, ज्ञानदर्शनाविनाभावित्वादनन्तवीर्यादीनामविशेषः; अनन्तसामर्थ्यहीनस्यानन्ता
-
वबोधवृत्त्यभावाज्ज्ञानमय
३
त्वाच्च सुखस्येति । अनाकारत्वान्मुक्तानामभाव इति चेन्न;
१
— यते नत्वौप — मु. । — यतेतदौप — ता. ।
२
‘
का पदाने
’
— जैनेन्द्र. १, ४, ४१ ।
‘
अपादाने कारके
का विभक्तिर्भवति ।
’
— वृत्तिः । प्रतिषु
‘
को निर्देशः
’
इति पाठः ।
३
— मयपर्यायत्वाच्च मु., ता. ।
४६९
a
१
तीतानन्तरशरीराकारत्वात् ।
स्यान्मतं, यदि शरीरानुविधायी जीवः, तदभावात्स्वाभाविकलोकाकाशप्रदेशपरिमाण
-
त्वात्तावद्विसर्पणं प्राप्नोतीति ? नैष दोषः । कुतः ? कारणाभावात् । नामकर्मसम्ब
२
न्धो हि
संहरणविसर्पणकारणम् । तदभावात्पुनः संहरणविसर्पणाभावः ।
०५
यदि कारणाभावान्न संहरणं न विसर्पणं तर्हि गमनकारणाभावादूर्ध्वगमनमपि न
प्राप्नोति अधस्तिर्यग्गमनाभाववत्, ततो यत्र मुक्तस्तत्रैवावस्थानं प्राप्नोतीति ? अत्रोच्यते —
तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् ॥
५
॥
तस्यानन्तरम् । कस्य ? सर्वकर्मविप्रमोक्षस्य । आङ्भिविध्यर्थः । ऊर्ध्वं गच्छत्या
लोकान्तात् ।
१०
अनुपदिष्टहेतुकमिदमूर्ध्वगमनं कथमध्यवसातुं शक्यमित्यत्रोच्यते —
पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च ॥
६
॥
१
अतीतानन्तशरी — मु. ।
२
— कर्मसंसर्गो हि ता. ।
४७०
आह, हेत्वर्थः पुष्कलोऽपि दृष्टान्तसमर्थनमन्तरेणाभिप्रेताथसाधनाय नालमित्य
-
त्रोच्यते —
आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च ॥
७
॥
पूर्वसूत्रे
१
विहितानां हेतूनामत्रोक्तानां दृष्टान्तानां च यथासंख्यमभिसम्बन्धो भवति ।
०५
तद्यथा — कुलालप्रयोगापादितहस्तदण्डचक्रसंयोगपूर्वकं भ्रमणम् । उपरतेऽपि तस्मिन्पूर्वप्रयो
-
गादा संस्कारक्षयाद् भ्रमति । एवं भवस्थेनात्मनाऽपवर्गप्राप्तये बहुशो यत्प्रणिधानं तद
-
भावेऽपि तदावेशपूर्वकं मुक्तस्य गमनमवसीयते । किं च, असङ्गत्वात् । यथा मृत्तिकालेप
-
जनितगौरवमलाबुद्रव्यं जलेऽधःपतितं जलक्लेदविश्लिष्टमृत्तिकाबन्धनं लघु सदूर्ध्वमेव
गच्छति तथा कर्मभाराक्रान्तिवशीकृत आत्मा तदावेशवशात्संसारे अनियमेन गच्छति ।
१०
तत्सङ्गविमुक्तो
२
तूपर्येवोपयाति । किं च, बन्धच्छेदात् । यथा बीजकोशबन्धच्छेदादेरण्ड
-
बीजस्य गतिर्दृष्टा तथा मनुष्यादिभवप्रापकगतिजातिनामादिसकलकर्मबन्धच्छेदान्मुक्त
-
स्य ऊर्ध्वगतिरवसीयते । किं च, तथागतिपरिणामात् । यथा तिर्यक्प्लवनस्वभावसमीरण
-
सम्बन्धनिरुत्सुका प्रदीपशिखा स्वभावादुत्पतति तथा मुक्तात्माऽपि नानागतिविकारकार
-
१
पूर्वसूत्रोदितानां — मु. ।
२
— विप्रमुक्तौ तूपर्येवोप — मु. । — विमुक्ते तूपर्येवोप — ता. । — विमुक्तोऽत्र — दि.
१, दि. २ ।
४७१
णकर्मनिर्वारणे सत्यूर्ध्वगतिस्वभावा
१
दूर्ध्वमेवारोहति ।
आह, यदि मुक्त ऊर्ध्वगतिस्वभावो लोकान्तादूर्ध्वमपि कस्मान्नोत्पततीत्यत्रोच्यते —
धर्मास्तिकायाभावात् ॥
८
॥
गत्युपग्रहकारणभूतो धर्मास्तिकायो नोपर्यस्तीत्यलोके गमनाभावः । तदभावे च
०५
लोकालोकविभागाभावः प्रसज्यते ।
आह, अमी परिनिर्वृत्ता गतिजात्यादिभेदकारणाभावादतीतभेदव्यवहारा एवेति ?
अस्ति कथञ्चिद् भेदोऽपि । कुतः —
क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधित
-
ज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ॥
९
॥
१०
क्षेत्रादिभिर्द्वादशभि
२
रनुयोगैः सिद्धाः साध्या विकल्प्या इत्यर्थः, प्रत्युत्पन्नभूतानुग्रह
-
तन्त्रनयद्वयविवक्षावशात् । तद्यथा — क्षेत्रेण तावत्कस्मिन् क्षेत्रे सिध्यन्ति ? प्रत्युत्पन्न
-
ग्राहिनयापेक्षया सिद्धिक्षेत्रे स्वप्रदेशे आकाशप्रदेशे वा सिद्धिर्भवति । भूतग्राहिनयापेक्षया
जन्म
३
प्रति पञ्चदशसु कर्मभूमिषु, संहरणं प्रति मानुषक्षेत्रे सिद्धिः । कालेन कस्मिन्काले
१
— भावत्वादू — मु. ।
२
-
दिभिः त्रयोदश — ता., ना. ।
३
जन्मप्रभृति पञ्चदशकर्म — मु. ।
४७२
सिद्धिः ? प्रत्युत्पन्ननयापेक्षया एकसमये सिद्ध्यन् सिद्धो भवति । भूतप्रज्ञापननयापेक्षया
जन्मतोऽविशेषेणोत्सर्पिण्यवसर्पिण्योर्जातः सिध्यति । विशेषेणावसर्पिण्यां सुषमदुःषमाया
अन्त्ये भागे दुःषमसुषमायां च जातः सिध्यति । न तु दुःषमायां जातो दुःषमायां सिध्यति ।
अन्यदा नैव सिध्यति । संहरणतः सर्वस्मिन्काले उत्सर्पिण्यामवसर्पिण्यां च सिध्यति ।
०५
गत्या कस्यां गतौ सिद्धिः ? सिद्धिगतौ मनुष्यगतौ वा । लिङ्गेन केन सिद्धिः ?
अवेदत्वेन त्रिभ्यो वा वेदेभ्यः सिद्धिर्भावतो न द्रव्यतः ? द्रव्यतः पुल्लिङ्गेनैव । अथवा निर्ग्रन्थ
-
लिङ्गेन । सग्रन्थलिङ्गेन वा सिद्धिर्भूतपूर्वनयापेक्षया । तीर्थेन
१
, तीर्थसिद्धिः द्वेधा, तीर्थकरेतर
-
विकल्पात् । इतरे द्विविधाः सति तीर्थकरे सिद्धा असति चेति । चारित्रेण केन सिध्यति ?
अव्यपदेशेनैकचतुःपञ्चविकल्पचारित्रेण वा सिद्धिः । स्वशक्तिपरोपदेशनिमित्तज्ञानभेदात्
१०
प्रत्येकबुद्धबोधितविकल्पः । ज्ञानेन केन ? एकेन द्वित्रिचतुर्भिश्च ज्ञानविशेषैः सिद्धिः ।
आत्मप्रदेशव्यापित्वमवगाहनम् । तद् द्विविधम्, उत्कृष्टजघन्यभेदात् । तत्रोत्कृष्टं पञ्च
-
१
तीर्थेन केन तीर्थेन सिद्धिः मु. ।
४७३
धनुःशतानि पञ्चविंशत्युत्तराणि । जघन्यमर्धचतुर्थारत्नयो देशोनाः । मध्ये विकल्पाः ।
एकस्मिन्नवगाहे सिध्यति । किमन्तरम् ? सिध्यतां सि
१
द्धानामनन्तरं जघन्येन द्वौ समयौ
उत्कर्षेणाष्टौ । अन्तरं जघन्येनैकः समयः उत्कर्षेण षण्मासाः । संख्या, जघन्येन एकसमये
एकः सिध्यति । उत्कर्षेणाष्टोत्तरशतसंख्याः । क्षेत्रादिभेदभिन्नानां परस्परतः संख्या
-
०५
विशेषोऽल्पबहुत्वम् । तद्यथा — प्रत्युत्पन्ननयापेक्षया सिद्धिक्षेत्रे सिध्यन्तीति नास्त्यल्प
-
बहुत्वम् । भूतपूर्वनयापेक्षया तु चिन्त्यते, क्षेत्रसिद्धा द्विविधा — जन्मतः संहरणतश्च ।
तत्राल्पे संहरणसिद्धाः । जन्मसिद्धाः संख्येयगुणाः । क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः
समुद्रो द्वीप ऊर्ध्वमधर्स्तियगिति । तत्र स्तोका ऊर्ध्वलोकसिद्धाः । अधोलोकसिद्धाः संख्येय
-
गुणाः । तिर्यग्लोकसिद्धाः संख्येयगुणाः । सर्वतः स्तोकाः समुद्रसिद्धाः । द्वीपसिद्धाः संख्येय
-
१०
गुणाः । एवं तावदविशेषेण । सर्वतः स्तोका लवणोदसिद्धाः । कालोदसिद्धाः संख्येयगुणाः ।
जम्बृद्वीपसिद्धाः संख्येयगुणाः । धातकीखण्डसिद्धाः संख्येयगुणाः । पुष्करद्वीपा
२
र्धसिद्धाः
संख्येयगुणाः इति । एवं कालादिविभागेऽपि यथागममल्पबहुत्वं वेदितव्यम् ॥
१०
॥
१
सिद्धानामन्तरं मु. ।
२
— द्वीपसिद्धाः मु. ।
४७४
स्वर्गापवर्गसुखमाप्तुमनोभिरार्यै
र्जैनेन्द्रशासनवरामृतसारभूता ।
सर्वार्थसिद्धिरिति सद्भिरुपात्तनामा
तत्त्वार्थवृत्तिरनिशं मनसा प्रधार्या ॥
१
॥
०५
तत्त्वार्थवृत्तिमुदितां विदितार्थतत्त्वाः
शृण्वन्ति ये परिपठन्ति च धर्मभक्त्या ।
हस्ते कृतं परमसिद्धिसुखामृतं तै —
र्मर्त्यामरेश्वरसुखेषु किमस्ति वाच्यम् ॥
२
॥
येनेदमप्रतिहतं सकलार्थतत्त्व —
१०
मुद्द्योतितं विमलकेवललोचनेन ।
भक्त्या तमद्भुतगुणं प्रणमामि वीर —
मारान्नरामरगणार्चितपादपीठम् ॥
३
॥
इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसंज्ञिकायां दशमोऽध्यायः समाप्तः ।
शुभं भवतु सर्वेषाम् ॥