तत्त्वार्थ / सर्वार्थसिद्धि १९५५
+ Identification
+ Original line breaks
− References to notes
१ओं नमः श्रीपरमात्मने वीतरागाय श्रीगृद्धपिच्छाचार्यविरचितस्य तत्त्वार्थसूत्रस्य श्रीपूज्यपादाचार्यविरचिता तत्त्वार्थवृत्तिः ०५सर्वार्थसिद्धिः प्रथमोऽध्यायः मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृताम् । ज्ञातारं विश्वतत्त्वानां वन्दे तद्गुणलब्धये ॥ १ ॥ कश्चिद्भव्यः प्रत्यासन्ननिष्ठः प्रज्ञावान् स्वहितमुपलिप्सुर्विविक्ते परमरम्ये भव्य- १०सत्त्वविश्रामास्पदे क्वचिदाश्रमपदे मुनिपरिषण्मध्ये सन्निषण्णं मूर्त्तमिव मोक्षमार्गमवाग्वि- सर्गं वपुषा निरूपयन्तं युक्त्यागमकुशलं परहितप्रतिपादनैककार्यमार्यनिषेव्यं निर्ग्रन्था- चार्यवर्यमुपसद्य सविनयं परिपृच्छति स्म । भगवन्, किं नु खलु आत्मने हितं स्यादिति ? स आह मोक्ष इति । स एव पुनः प्रत्याह किं स्वरूपोऽसौ मोक्षः कश्चास्य प्राप्त्युपाय इति ? आचार्य आह — निरवशेषनिराकृतकर्ममलकलङ्कस्याशरीरस्यात्मनोऽचिन्त्यस्वा- २भाविकज्ञानादिगुणमव्याबाधसुखंमात्यन्तिकमवस्थान्तरं मोक्ष इति । तस्यात्यन्तपरोक्षत्वाच्छद्मस्थाः प्रवादिनस्तीर्थकरम्मन्यास्तस्य स्वरूपमस्पृशन्ती- भिर्वाग्भिर्युक्त्याभासनिबन्धनाभिरन्यथैव परिकल्पयन्ति चैतन्यं पुरुषस्य स्वरूपम्, तच्च ज्ञेयाकारपरिच्छेदपराङ्मुखm’इति । तत्सदप्यसदेव, निराकारत्वादिति । ‘बुध्द्यादिवैशे- ०५षिकगुणोच्छेदः पुरुषस्य मोक्ष’ इति । तदपि परिकल्पनमसदेव विशेषलक्षणशून्यस्यावस्तु- त्वात् । ‘प्रदीपनिर्वाणकल्पमात्मनिर्वाणम्’ इति च । तस्य खरविषाणकल्पता तैरेवाहत्य निरूपिता । इत्येवमादि । तस्य स्वरूपमनवद्यमुत्तरत्र वक्ष्यामः । ३तत्प्राप्त्युपायं प्रत्यपि ते विसंवदन्ते — ‘ज्ञानादेव चारित्रनिरपेक्षात्तत्प्राप्तिः, श्रद्धा- नमात्रादेव वा, ज्ञाननिरपेक्षाच्चारित्रमात्रादेव’ इति च । व्याध्यभिभूतस्य तद्विनिवृत्त्यु- पायभूतभेषजविषयव्यस्तज्ञानादिसाधनत्वाभाववद् व्यस्तं ज्ञानादिर्मोक्षप्राप्त्युपायो न भवति । ५किं तर्हि ? तत् त्रितयं समुदितमित्याह — सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १ ॥ सम्यगित्यव्युत्पन्नः शब्दो व्युत्पन्नो वा । अञ्चतेः क्वौ समञ्चतीति सम्यगिति । aस्यार्थः प्रशंसा । स प्रत्येकं परिसमाप्यते । सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति । ०५एतेषां स्वरूपं लक्षणतो विधानतश्च पुरस्ताद्विस्तरेण निर्देक्ष्यामः । उद्देशमात्रं त्विदमुच्यते — भावानां याथात्म्यप्रतिपत्तिविषयश्रद्धानसंग्रहार्थं दर्शनस्य सम्यग्विशेषणम् । येन येन प्रकारेण जीवादयः पदार्था व्यवस्थितास्तेन तेनावगमः सम्यग्ज्ञानम् । विमोहसंशयविपर्यय- निवृत्त्यर्थं सम्यग्विशेषणम् । संसारकारणनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतः कर्मादाननिमित्त- क्रियोपरमः सम्यक्चारित्रम् । अज्ञानपूर्वकाचरणनिवृत्त्यर्थं सम्यग्विशेषणम् । ६पश्यति दृश्यतेऽनेन दृष्टिमात्रं वा दर्शनम् । जानाति ज्ञायतेऽनेन ज्ञातिमात्रं वा ज्ञानम् । चरति चर्यतेऽनेन चरणमात्रं वा चारित्रम् । नन्वेवं स एव कर्ता स एव करणमित्या- यातम् । तच्च विरुद्धम् । सत्यं, स्वपरिणामपरिणामिनोर्भेदविवक्षायां तथाऽभिधानात् । यथाऽग्निर्दहतीन्धनं दाहपरिणामेन । उक्तः कर्त्रादिसाधनभावः पर्यायपर्यायिणोरेकत्वाने- ०५कत्वं प्रत्यनेकान्तोपपत्तौ स्वातन्त्र्यपारतन्त्र्यविवक्षोपपत्तेरेकस्मिन्नप्यर्थे न विरुध्यते । अग्नौ दहनादिक्रियायाः कर्त्रादिसाधनभाववत् । ज्ञानग्रहणमादौ न्याय्यं, दर्शनस्य तत्पूर्वकत्वात् अल्पाच्तरत्वाच्च । नैतद्युक्तं, युग- पदुत्पत्तेः । यदाऽस्य दर्शनमोहस्योपशमात्क्षयात्क्षयोपशमाद्वा आत्मा सम्यग्दर्शनपर्या- ७येणाविर्भवति तदैव तस्य मत्यज्ञानश्रुताज्ञाननिवृत्तिपूर्वकं मतिज्ञानं श्रुतज्ञानं चाविर्भवति घनपटलविगमे सवितुः प्रतापप्रकाशाभिव्यक्तिवत् । अल्पाच्तरादभ्यर्हितं पूर्वं निपतति । कथमभ्यर्हितत्वं ? ज्ञानस्य सम्यग्व्यपदेशहेतुत्वात् । चारित्रात्पूर्वं ज्ञानं प्रयुक्तं, तत्पूर्वकत्वाच्चारित्रस्य । ०५सर्वकर्मविप्रमोक्षो मोक्षः । तत्प्राप्त्युपायोमार्गः । मार्ग इति चैकवचननिर्देशः समस्तस्य मार्गभावज्ञापनार्थः । तेन व्यस्तस्य मार्गत्वनिवृत्तिः कृता भवति । अतः सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमित्येतत् त्रितयं समुदितं मोक्षस्य साक्षान्मार्गो वेदितव्यः । ८तत्रादावुद्दिष्टस्य सम्यग्दर्शनस्य लक्षणनिर्देशार्थमिदमुच्यते — तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ तत्त्वशब्दो भावसामान्यवाची । कथम् ? तदिति सर्वनामपदम् । सर्वनाम च सामान्ये वर्तते । तस्य भावस्तत्त्वम् । तस्य कस्य । योऽर्थो यथावस्थितस्तथा तस्य भवन- ०५मित्यर्थः । अर्यत इत्यर्थो निश्चीयत इति यावत् । तत्त्वेनार्थस्तत्त्वार्थः । अथवा भावेन ९भाववतोऽभिधाम्, तदव्यतिरेकात् । तत्त्वमेवार्थस्तत्त्वार्थः । तत्त्वार्थस्य श्रद्धानं तत्त्वार्थ- श्रद्धानं सम्यग्दर्शनं प्रत्येतव्यम् । तत्त्वार्थश्च वक्ष्यमाणो जीवादिः । दृशेरालोकार्थत्वात् श्रद्धानार्थगतिर्नोपपद्यते ? धातूनामनेकार्थत्वाददोषः । प्रसिद्धार्थ- त्यागः कुत इति चेन्मोक्षमार्गप्रकरणात् । तत्त्वार्थश्रद्धानं ह्यात्मपरिणामो मोक्षसाधनं ०५युज्यते, भव्यजीवविषयत्वात् । आलोकस्तु चक्षुरादिनिमितः सर्वसंसारिजीवसाधारण- त्वान्न मोक्षमार्गो युक्तः । अर्थश्रद्धानमिति चेत्सर्वार्थप्रसङ्गः । तत्त्वश्रद्धानमिति चेद्भावमात्रप्रसङ्गः । ‘सत्ताद्रव्यत्वगुणत्वकर्मत्वादि तत्त्वम्’ इति कैश्चित्कल्प्यत इति । तत्त्वमेकत्त्वमिति वा १०सर्वैक्यग्रहणप्रसङ्गः । ‘पुरुष एवेदं सर्वम्’ इत्यादि कैश्चित्कल्प्यत इति । एवं सति दृष्टेष्ट- विरोधः । तस्मादव्यभिचारार्थमुभयोरुपादानम् । तत् द्विविधं, सरागवीतरागविषयभेदात् प्रशमसंवेगानुकम्पास्तिक्याद्यभिव्यक्तिलक्षणं प्रथमम् । आत्मविशुद्धिमात्रमितरत् । १२अथैतत्सम्यग्दर्शनं जीवादिपदार्थविषयं कथमुत्पद्यत इत्यत आह — तन्निसर्गादधिगमाद्वा ॥ ३ ॥ निसर्गः स्वभाव इत्यर्थः । अधिगमोऽर्थावबोधः । तयोर्हेतुत्वेन निर्देशः । कस्याः ? क्रियायाः । का च क्रिया । उत्पद्यत इत्यध्याह्रियते, सोपस्कारत्वात् सूत्राणाम् । तदेत- ०५त्सम्यग्दर्शनं निसर्गादधिगमाद्वोत्पद्यत इति । अत्राह — निसर्गजे सम्यग्दर्शनेऽर्थाधिगमः स्याद्वा न वा ? यद्यस्ति, तदपि अधिगम- जमेव नार्थान्तरम् । अथ नास्ति, कथमनवबुद्धतत्त्वस्यार्थश्रद्धानमिति ? नैष दोषः । उभयत्र सम्यग्दर्शने अन्तरङ्गो हेतुस्तुल्यो दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा । तस्मिन्सति यद्बाह्योपदेशादृते प्रादुर्भवति तन्नैसर्गिकम् । यत्परोपदेशपूर्वकं जीवाद्यधि- १३गमनिमित्तं तदुत्तरम् । इत्यनयोरयं भेदः । तद्ग्रहणं किमर्थम् ? अनन्तरनिर्देशार्थम् । अनन्तरं सम्यग्दर्शनं तदित्यनेन निर्दिश्यते । इतरथा मोक्षमार्गोऽपि प्रकृतस्तस्याभिसम्बन्धः स्यात् । ननु च ‘अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा’ इत्यनन्तरस्य सम्यग्दर्शनस्य ग्रहणं सिद्धमिति चेन्न, ०५‘प्रत्यासत्तेः प्रधानं बलीयः’ इति मोक्षमार्ग एव सम्बध्येत । तस्मात्तद्वचनं क्रियते । १४तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । अथ किं तत्त्वमित्यत इदमाह — जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ ४ ॥ तत्र चेतनालक्षणो जीवः । सा च ज्ञानादिभेदादनेकधा भिद्यते । तद्विपर्ययलक्षणो- ऽजीवः । शुभाशुभकर्मागमद्वाररूप आस्रवः । आत्मकर्मणोरन्योऽन्यप्रदेशानुप्रवेशात्मको ०५बन्धः । आस्रवनिरोधलक्षणः संवरः । एकदेशकर्मसंक्षयलक्षणा निर्जरा । कृत्स्नकर्म- वियोगलक्षणो मोक्षः । एषां प्रपञ्च उत्तरत्र वक्ष्यते । सर्वस्य फलस्यात्माधीनत्वादादौ जीवग्रहणम् । तदुपकारार्थत्वात्तदनन्तरमजीवाभिधानम् । तदुभयविषयत्वात्तदनन्तरमा- स्रवग्रहणम् । तत्पूर्वकत्वात्तदनन्तरं बन्धाभिधानम् । संवृतस्य बन्धाभावात्तत्प्रत्यनीक- १५प्रतिपत्यर्थं तदनन्तरं संवरवचनम् । संवरे सति निर्जरोपपत्तेस्तदन्तिके निर्जरावचनम् । अन्ते प्राप्यत्वान्मोक्षस्यान्ते वचनम् । इह पुण्यपापग्रहणं कर्त्तव्यं, ‘नव पदार्था’ इत्यन्यैरप्युक्तत्वात् । न कर्त्तव्यम्, आस्रवे बन्धे चान्तर्भावात् । यद्येवमास्रवादिग्रहणमनर्थकं, जीवाजीवयोरन्त- ०५र्भावात् । नानर्थकम् । इह मोक्षः प्रकृतः । सोऽवश्यं निर्देष्टव्यः । स च संसार- पूर्वकः । संसारस्य प्रधानहेतुरास्रवो बन्धश्च । मोक्षस्य प्रधानहेतुः संवरो निर्जरा च । अतः प्रधानहेतुहेतुमत्फलनिदर्शनार्थत्वात्पृथगुपदेशः कृतः । दृश्यते हि सामान्येऽन्तर्भूत- स्यापि विशेषस्य पृथगुपादानं प्रयोजनार्थम् । ‘क्षत्रिया आयाताः सूरवर्माऽपि’ इति । १६तत्त्वशब्दो भाववाचीत्युक्तः । स कथं जीवादिभिर्द्रव्यवचनैः सामानाधिकरण्यं प्रतिपद्यते ? अव्यतिरेकात्तद्भावाध्यारोपाच्च सामानाधिकरण्यं भवति । यथा ‘उपयोग एवात्मा’ इति । यद्येवं तत्तल्लिङ्गसङ्ख्यानुवृत्तिः प्राप्नोति ? ‘विशेषणविशेष्यसम्बन्धे सत्यपि शब्दशक्तिव्यपेक्षया उपात्तलिङ्गसङ्ख्याव्यतिक्रमो न भवति । ’ अयं क्रम आदि- ०५सूत्रेऽपि योज्यः । १७एवमेषामुद्दिष्टानां सम्यग्दर्शनादीनां जीवादीनां च संव्यवहारविशेषव्यभिचार- निवृत्त्यर्थमाह — नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ ५ ॥ अतद्गुणे वस्तुनि संव्यवहारार्थं पुरुषकारान्नियुज्यमानं संज्ञाकर्म नाम । काष्ठ- ०५पुस्तचित्रकर्माक्षनिक्षेपादिषु सोऽयमिति स्थाप्यमाना स्थापना । गुणैर्गुणान्वा द्रुतं गतं गुणै- र्द्रोष्यते गुणान्द्रोष्यतीति वा द्रव्यम् । वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः । तद्यथा, नामजीवः स्थापनाजीवो द्रव्यजीवो भावजीव इति चतुर्धा जीवशब्दार्थो न्यस्यते । जीवन- गुणमनपेक्ष्य यस्य कस्यचिन्नाम क्रियमाणं नामजीवः । अक्षनिक्षेपादिषु जीव इति वा १८मनुष्यजीव इति वा व्यवस्थाप्यमानः स्थापनाजीवः । द्रव्यजीवो द्विविधः आगम- द्रव्यजीवो नोआगमद्रव्यजीवश्चेति । तत्र जीवप्राभृतज्ञायी मनुष्यजीवप्राभृतज्ञायी वा अनुपयुक्त आत्मा आगमद्रव्यजीवः । नोआगमद्रव्यजीवस्त्रेधा व्यवतिष्ठते ज्ञायक- शरीर-भावि-तद्व्यतिरिक्तभेदात् । तत्र ज्ञातुर्यच्छरीरं त्रिकालगोचरं तज् ज्ञायक- ०५शरीरम् । सामान्यापेक्षया नोआगमभाविजीवो नास्ति, जीवनसामान्यस्य सदाऽपि विद्यमानत्वात् । विशेषापेक्षया त्वस्ति । गत्यन्तरे जीवो व्यवस्थितो मनुष्यभव प्राप्तिं प्रत्यभिमुखो मनुष्यभाविजीवः । तद्व्यतिरिक्तः कर्मनोकर्मविकल्पः । भावजीवो द्विविधः आगमभावजीवो नोआगमभावजीवश्चेति । तत्र जीवप्राभृतविषयोपयोगा- विष्टो मनुष्यजीवप्राभृतविषयोपयोगयुक्तो वा आत्मा आगमभावजीवः । जीवनपर्यायेण १०मनुष्यजीवत्वपर्यायेण वा समाविष्ट आत्मा नोआगमभावजीवः । एवमितरेषामपि पदार्थानां नामादिनिक्षेपविधिर्नियोज्यः । स किमर्थः ? अप्रकृतनिराकरणाय प्रकृतनि- १९रूपणाय च । निक्षेपविधिना शब्दार्थः प्रस्तीर्यते । तच्छब्दग्रहणं किमर्थम् ? सर्वसड्ग्र- हार्थम् । असति हि तच्छब्दे सम्यग्दर्शनादीनां प्रधानानामेव न्यासेनाभिसम्बन्धः स्यात्, तद्विषयभावेनोपगृहीतानां जीवादीनां अप्रधानानां न स्यात् । तच्छब्दग्रहणे पुनः क्रियमाणे सति सामर्थ्यात्प्रधानानामप्रधानानां च ग्रहणं सिद्धं भवति । ०५एवं नामादिभिः प्रस्तीर्णानामधिकृतानां तत्त्वाधिगमः कुतः ? इत्यत इदमुच्यते — २०प्रमाणनयैरधिगमः ॥ ६ ॥ नामादिनिक्षेपविधिनोपक्षिप्तानां जीवादीनां तत्त्वं प्रमाणाभ्यां नयैश्चाधिगम्यते ॥ प्रमाणनया वक्ष्यमाणलक्षणविकल्पाः । तत्र प्रमाणं द्विविधं स्वार्थं परार्थं च । तत्र स्वार्थं प्रमाणं श्रुतवर्ज्जम् । श्रुतं पुनः स्वार्थं भवति परार्थं च । ज्ञानात्मकं स्वार्थं वचनात्मकं परार्थम् । ०५तद्विकल्पा नयाः । अत्राह — नयशब्दस्य अल्पाच्तरत्वात्पूर्वनिपातः प्राप्नोति ? नैष दोषः । अभ्यर्हितत्वात्प्रमाणस्य पूर्वनिपातः । अभ्यर्हितत्वं च सर्वतो बलीयः । कुतोऽभ्यर्हितत्वम् ? नयप्ररूपणप्रभवयोनित्वात् । एवं ह्युक्तं ’प्रगृह्य प्रमाणतः परिणतिविशेषादर्थावधारणं नय’ इति । सकलविषयत्वाच्च प्रमाणस्य । तथा चोक्तं — ’सकलादेशः प्रमाणाधीनो विकला- देशो नयधीन इति’ ॥ नयो द्विविधो द्रव्यार्थिकः पर्यायार्थिकश्च । पर्यायार्थि- १०कनयेन भावतत्त्वमधिगन्तव्यम् । इतरेषां त्रयाणां द्रव्यार्थिकनयेन, सामान्यात्मकत्वात् । २१द्रव्यमर्थः प्रयोजनमस्येत्यसौ द्रव्यार्थिकः । पर्यायोऽर्थः प्रयोजनमस्येत्यसौ पर्यायार्थिकः । तत्सर्वं समुदितं प्रमाणेनाधिगन्तव्यम् । २२एवं प्रमाणनयैरधिगतानां जीवादीनां पुनरप्यधिगमोपायान्तरप्रदर्शनार्यमाह — निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ ७ ॥ निर्देशः स्वरूपाभिधानम् । स्वामित्वमाधिपत्यम् । साधनमुत्पत्तिनिमित्तम् । अधि- करणमधिष्ठानम् । स्थितिः कालपरिच्छेदः । विधानं प्रकारः । तत्र सम्यग्दर्शनं किमिति ०५प्रश्ने तत्त्वार्थश्रद्धानमिति निर्देशो नामादिर्वा । कस्येत्युक्ते सामान्येन जीवस्य । विशेषेण गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकाणां पर्याप्तकानामौपशमिकं क्षायोपशमिकं २३चास्ति । प्रथमायां पृथिव्यां पर्याप्तापर्याप्तकानां क्षायिकं क्षायोपशमिकं चास्ति । तिर्यग्गतौ तिरश्चां पर्याप्तकानामौपशमिकमस्ति । क्षयिकं क्षायोपशमिकं च पर्याप्तापर्याप्त- कानामस्ति । तिरश्चीनां क्षायिकं नास्ति । औपशमिकं क्षायोपशमिकं च पर्याप्तिकानामेव नापर्याप्तिकानाम् । मनुष्यगतौ मनुष्याणां पर्याप्तापर्याप्तकानां क्षायिकं क्षायोपशमिकं ०५तास्ति । औपशमिकं पर्याप्तकानामेव नापर्याप्तकानाम् । मानुषीणां त्रितयमप्यस्ति पर्याप्तिकानामेव नापर्याप्तिकानाम् । देवगतौ देवानां पर्याप्तापर्याप्तकानां त्रितयम- प्यस्ति । औपशमिकमपर्याप्तकानां कथमिति चेच्चारित्रमोहोपशमेन सह मृतान्प्रति । भवनवासिव्यन्तरज्योतिष्काणां देवानां देवीनां च सौधर्मैशानकल्पवासिनीनां च क्षायिकं २४नास्ति । तेषां पर्याप्तकानामौपशमिकं क्षायोपशमिकं चास्ति । इन्द्रियानुवादेन पञ्चेन्द्रियाणां संज्ञिनां त्रितयमप्यस्ति नेतरेषाम् । कायानुवादेन त्रसकायिकानां त्रितयमप्यस्ति नेतरेषाम् । योगानुवादेन त्रयाणां योगानां त्रितयमप्यस्ति । अयोगिनां क्षायिकमेव । वेदानुवादेन त्रिवेदानां त्रितयमप्यस्ति । अपगतवेदानामौपशमिकं ०५क्षायिकं चास्ति । कषायानुवादेन चतुष्कषायाणां त्रितयमप्यस्ति । अकषायाणामौपश- मिकं क्षायिकं चास्ति । ज्ञानानुवादेन आभिनिबोधिकश्रुतावधिमनःपर्ययज्ञानिनां त्रितयमप्यस्ति । केवलज्ञानिनां क्षायिकमेव । संयमानुवादेन सामायिकच्छेदोपस्थापनः संय- तानां त्रितयमप्यस्ति । परिहारविशुद्धिसंयतानामौपशमिकं नास्ति, इतरत् द्वितयमप्यस्ति । सूक्ष्मसाम्पराययथाख्यातसंयतानामौपशमिकं क्षायिकं चास्ति । संयतासंयतानां असंयतानां १०च त्रितयमप्यस्ति । दर्शनानुवादेन चक्षुदर्शनाचक्षुर्दर्शनावधिदर्शनिनां त्रितयमप्यस्ति । २५केवलदर्शनिनां क्षायिकमेव । लेश्यानुवादेन षड्लेश्यानां त्रितयमप्यस्ति । अलेश्यानां क्षायिकमेव । भव्यानुवादेन भव्यानां त्रितयमप्यस्ति नाभव्यानाम् । सम्यक्त्वानुवादेन यत्र यत्सम्यग्दर्शनं तत्र तदेव ज्ञेयम् । संज्ञानुवादेन संज्ञिनां त्रितयमप्यस्ति नासंज्ञिनाम् । तदुभयव्यपदेशरहितानां क्षायिकमेव । आहारानुवादेन ०५आहारकाणां त्रितयमप्यस्ति । अनाहारकाणां छद्मस्थानां त्रितयमप्यस्ति केवलिनां समुद्घातगतानां क्षायिकमेव । २६साधनं द्विविधं अभ्यन्तरं बाह्यं च । अभ्यन्तरं दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा । बाह्यं नारकाणां प्राक्चतुर्थ्याः सम्यग्दर्शनस्य साधनं केषाञ्चिज्जाति- स्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिद्वेदनाभिभवः । चतुर्थीमारभ्य आ सप्तम्या २७नारकाणां जातिस्मरणं वेदनाभिभवश्च । तिरश्चां केषाञ्चिज्जातिस्मरणं केषाञ्चिद्ध- र्मश्रवणं केषाञ्चिज्जिनबिम्बदर्शनम् । मनुष्याणामपि तथैव । देवानां केषाञ्चिज्जाति- स्मरणं केषाञ्चिद्धर्मश्रवणं केषाञ्चिज्जिनमहिमदर्शनं केषाञ्चिद्देवर्द्धिदर्शनम् । एवं प्रागानतात् । आनतप्राणतारणाच्युतदेवानां देवर्द्धिदर्शनं मुक्त्वाऽन्यत्र्त्रितयमप्यस्ति । ०५नवग्रैवेयकवासिनां केषाञ्चिज्जातिस्मरणं केषाञ्चिद्धर्मश्रवणम् । अनुदिशानुत्तरविमान- वासिनामियं कल्पना न सम्भवति; प्रागेव गृहीतसम्यक्त्वानां तत्रोत्पत्तेः । अधिकरणं द्विविधं अभ्यन्तरं बाह्यं च । अभ्यन्तरं स्वस्वामिसम्बन्धार्ह एव आत्मा; विवक्षातः कारकप्रवृत्तेः । बाह्यं लोकनाडी । सा कियती ? एकरज्जुविष्कम्भा चतुर्दशरज्ज्वायामा । १०स्थितिरौपशमिकस्य जघन्योत्कृष्टा चान्तर्मौहूतिंकी । क्षायिकस्य संसारिणो २८जघन्यान्तर्मौहूर्तिंकी । उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाणि सान्तर्मूहूर्ताष्टवर्षहीनपूर्वकोटिद्वया- धिकानि । मुक्तस्य सादिरपर्यवसाना । क्षायोपशमिकस्य जघन्याऽन्तर्मौहूर्त्तिकी उत्कृष्टा षट्षष्टिसागरोपमाणि । विधानं सामान्यादेकं सम्यग्दर्शनम् । द्वितयं निसर्गजाधिगमजभेदात् । त्रितयं ०५औपशमिकक्षायिकक्षायोपशमिकभेदात् । एवं सङ्ख्येया विकल्पाः शब्दतः । असङ्ख्येया २९अनन्ताश्च भवन्ति श्रद्धातृश्रद्धातव्यभेदात् । एवमयं निर्देशादिविधिर्ज्ञानचारित्रयोर्जीवा- जीवादिषु चागमानुसारेण योजयितव्यः । किमेतैरेव जीवादीनामधिगमो भवति उत अन्योऽप्यधिगमोपायोऽस्तीति परिपृष्टोऽस्तीत्याह — ०५सत्सङ्ख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८ ॥ सदित्यस्तित्वनिर्देशः । स प्रशंसादिषु वर्तमानो नेह गृह्यते । सङ्ख्या भेदगणना । क्षेत्रं निवासो वर्तमानकालविषयः । तदेव स्पर्शनं त्रिकालगोचरम् । कालो द्विविधः मुख्यो व्यावहारिकश्च । तयोरुत्तरत्र निर्णयो वक्ष्यते । अन्तरं विरहकालः । भावः औपशमिकादिलक्षणः । अल्पबहुत्वमन्योऽन्यापेक्षया विशेषप्रतिपत्तिः । एतैश्च सम्यग्दर्श- १०नादीनां जीवादीनां चाधिगमो वेदितव्यः । ननु च निर्देशादेव सद्ग्रहणं सिद्धम् । विधान- ग्रहणात्सङ्ख्यागतिः । अधिकरणग्रहणात्क्षेत्रस्पर्शनावबोधः । स्थितिग्रहणात्कालसङ्ग्रहः । ३०भावो नामादिषु सङ्गृहीत एव । पुनरेषां किमर्थं ग्रहणमिति । सत्यं, सिद्धम् । विनेया- शयवशात्तत्त्वदेशनाविकल्पः । केचित्सङ्क्षेपरुचयः केचित् विस्तररुचयः अपरे नातिसङ्क्षेपेण नातिविस्तरेण प्रतिपाद्याः । सर्वसत्त्वानुग्रहार्थो हि सतां प्रयास इति अधिगमाभ्युपायभेदोद्देशः कृतः । इतरथा हि ’प्रमाणनयैरधिगमः’ इत्यनेनैव ०५सिद्धत्वादितरेषां ग्रहणमनर्थकं स्यात् । तत्र जीवद्रव्यमधिकृत्य सदाद्यनुयोगद्वारनिरूपणं क्रियते । जीवाश्चतुर्दशसु गुणस्थानेषु व्यवस्थिताः । मिथ्यादृष्टिः सासादनसम्यग्दृष्टिः सम्यङ्मिथ्यादृष्टिः संयत- सम्यग्दृष्टिः संयतासंयतः प्रमत्तसंयतः अप्रमत्तसंयतः अपूर्वकरणस्थाने उपशमकः क्षपकः अनिवृत्तिबादरसाम्परायस्थाने उपशमकः क्षपकः सूक्ष्मसाम्परायस्थाने उपशमकः क्षपकः १०उपशान्तकषायवीतरागछद्मस्थः क्षीणकषायवीतरागछद्मस्थः सयोगकेवली अयोगकेवली चेति । एतेषामेव जीवसमासानां निरूपणार्थं चतुर्दश मार्गणास्थानानि ज्ञेयानि । गती- न्द्रियकाययोगवेदकषायज्ञानसंयमदर्शनलेश्याभव्यसम्यक्त्वसज्ञाऽऽहारका इति । ३१तत्र सत्प्ररूपणा द्विविधा सामान्येन विशेषेण च । सामान्येन अस्ति मिथ्यादृष्टिः सासादनसम्यग्दृष्टिरित्येवमादि । विशेषेण गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु आद्यानि चत्वारि गुणस्थानानि सन्ति । तिर्यग्गतौ तान्येव संयतासंयतस्थानाधिकानि सन्ति । मनुष्यगतौ चतुर्दशापि सन्ति । देवगतौ नारकवत् । इन्द्रियानुवादेन एकेद्रियादिषु ०५चतुरिन्द्रियपर्यन्तेषु एकमेव मिथ्यादृष्टिस्थानम् । पञ्चेन्द्रियेषु चतुर्दशापि सन्ति । कायानुवादेन पृथिवीकायादिवनस्पतिकायान्तेषु एकमेव मिथ्यादृष्टिस्थानम् । त्रसकायेषु चतुर्दशापि सन्ति । योगानुवादेन त्रिषु योगेषु त्रयोदश गुणस्थानानि भवन्ति । ततः परं अयोगकेवली । वेदानुवादेन त्रिषु वेदेषु मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानि सन्ति । अपगतवेदेषु अनिवृत्तिबादराद्ययोगकेवल्यन्तानि । कषायानुवादेन क्रोधमानमायासु १०मिथ्यादृष्ट्यादीनि अनिवृत्तिबादरस्थानान्तानि सन्ति । लोभकषाये तान्येव सूक्ष्मसाम्पराय- ३२स्थानाधिकानि । अकषायः उपशान्तकषायः क्षीणकषायः सयोगकेवली अयोगकेवली चेति । ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानेषु मिथ्यादृष्टिः सासादनसम्यग्दृष्टि- श्चास्ति । आभिनिबोधिकश्रुतावधिज्ञानेषु असंयतसम्यग्दृष्ट्यादीनि क्षीणकषायान्तानि सन्ति । मनःपर्ययज्ञाने प्रमत्तसंयतादयः क्षीणकषायान्ताः सन्ति । केवलज्ञाने सयोगोऽयो- ०५गश्च । संयमानुवादेन संयताः प्रमत्तादयोऽयोगकेवल्यन्ताः । सामायिकच्छेदोपस्थापनाशुद्धि- संयताः प्रमत्तादयोऽनिवृत्तिस्थानान्ताः । परिहारविशुद्धिसंयताः प्रमत्ताश्चाप्रमत्ताश्च । सूक्ष्मसाम्परायशुद्धिसंयता एकस्मिन्नेव सूक्ष्मसाम्परायस्थाने । यथाख्यातविहारशुद्धिसंयता उपशान्तकषायादयोऽयोगकेवल्यन्ताः । संयतासंयता एकस्मिन्तेव संयतासंयतस्थाने । असंयता आद्येषु चतुर्षु गुणस्थानेषु । दर्शनानुवादेन चक्षुर्दर्शनाचक्षुर्दर्शनयोर्मिथ्यादृष्ट्यादीनि १०क्षीणकषायान्तानि सन्ति । अवधिदर्शने असंयतसम्यग्दृष्ट्यादीनि क्षीणकषायान्तानि । केवलदर्शने सयौगकेवली अयोगकेवली च । लेश्यानुवादेन कृष्णनीलकपोतलेश्यासु मिथ्या- दृष्ट्यादीनि असंयतसम्यग्दृष्ट्यन्तानि सन्ति । तेजः पद्मलेश्ययोर्मिथ्यादृष्ट्यादीनि ३३अप्रमत्तस्थानान्तानि । शुक्ललेश्यायां मिथ्यादृष्टयादीनि सयोगकेवल्यन्तानि । अलेश्या अयोगकेवलिनः । भव्यानुवादेन भव्येषु चतुर्दशापि सन्ति । अभव्या आद्य एव स्थाने । सम्यक्त्वानुवादेन क्षायिकसम्यकत्वे असंयतसम्यग्दृष्ट्यादीनि अयोगकेवल्यन्तानि सन्ति । क्षायोपशमिकसम्यक्त्वे असंयतसम्यग्दृष्ट्यादीनि अप्रमत्तान्तानि । औपशमिक- ०५सम्यक्त्वे असंयतसम्यग्दृष्ट्यादीनि उपशान्तकषायान्तानि । सासादनसम्यग्दृष्टिः सम्य- ङ्मिथ्यादृष्टिर्मिथ्यादृष्टिश्च स्वे स्वे स्थाने । संज्ञानुवादेन संज्ञिसु द्वादश गुणस्थानानि क्षीणकषायान्तानि । असंज्ञिषु एकमेव मिथ्यादृष्टिस्थानम् । तदुभयव्यपदेशरहितः सयोग- केवली अयोगकेवली च । आहारानुवादेन आहारकेषु मिथ्यादृष्ट्यादीनि केवल्यन्तानि । अनाहारकेषु विग्रहगत्यापन्नेषु त्रीणि गुणस्थानानि मिथ्यादृष्टिः सासादनसम्यग्दृष्टिर- १०संयतसम्यग्दृष्टिश्च । समुद्घातगतः सयोगकेवली अयोगकेवली च । सिद्धाः परमेष्ठिनः अतीतगुणस्थानाः । उक्ता सत्प्ररूपाणा । ३४सङ्ख्याप्ररूपणोच्यते । सा द्विविधा सामान्येन विशेषेण च । सामान्येन तावत् जीवा मिथ्यादृष्टयोऽनन्तानन्ताः । सासादनसम्यग्दृष्टयः सम्यङ्मिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयः संयतासंयताश्च पल्योपमासङ्ख्येयभागप्रमिताः । प्रमत्तसंयताः कोटीपृथक्त्वसङ्ख्याः । पृथक्त्वमित्यागमसंज्ञा तिसृऋणां कोटीनामुपरि नवानामधः । अप्रमत्तसंयताः संख्येयाः । ०५चत्वार उपशमकाः प्रवेशेन एको वा द्वौवात्रयो वा । उत्कर्षेण चतुःपञ्चाशत् । स्वकालेन समुदिताः संख्येयाः । चत्वारः क्षपका अयोगकेवलिनश्च प्रवेशेन एको वा द्वौवात्रयो वा । उत्कर्षेणाष्टोत्तरशतसंख्याः । स्वकालेन समुदिताः संख्येयाः । सयोगकेवलिनः प्रवेशेन एको वा द्वौ वा त्रयो वा । उत्कर्षेणाष्टोत्तरशतसंख्याः । स्वकालेन समुदिताः शतसहस्रपृथ- क्त्वसंख्याः । १०विशेषेण गत्यनुवादेन नरकगतौ प्रथमायां पृथिव्यां नारका मिथ्यादृष्टयोऽसं- ख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । द्वितीयादिष्वा सप्तम्या मिथ्यादृष्टयः श्रेण्य- ३५संख्येयभागप्रमिताः । स चासंख्येयभागः असंख्येया योजनकोटीकोट्यः । सर्वासु पृथिवीषु सासादनसंम्यग्दृष्टयः सम्यङ्मिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयश्च पल्योपमासंख्येयभागप्र- मिताः । तिर्यग्गतौ तिरश्चां मध्ये मिथ्यादृष्टयोऽनन्तानन्ताः । सासादनसम्यग्दृष्ट्यादयः संयतासंयतान्ताः पल्योपमासंख्येयभागप्रमिताः । मनुष्यगतौ मनुष्या मिथ्यादृष्टयः श्रेण्य- ०५संख्येयभागप्रमिताः । स चासंख्येयभागः असंख्येया योजनकोटीकोट्यः । सासादनसम्य- ग्दृष्ट्यादयः संयतासंयतान्ताः संख्येयाः । प्रमत्तादीनां सामान्योक्ता संख्या । देवगतौ देवा मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादनसम्यग्दृष्टिसम्यङ्- मिथ्यादृष्ट्यसंयतसम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः । इन्द्रियानुवादेन एकेन्द्रिया ३६मिथ्यादृष्टयोऽनन्तानन्ताः । द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रिया असंख्येयाः श्रेणयः प्रत- रासंख्येयभागप्रमिताः । पञ्चेन्द्रियेषु मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभाग- प्रमिताः । सासादनसम्यग्दृष्ट्यादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः । कायानुवादेन पृथिवीकायिका अप्कायिकास्तेजःकायिका वायुकायिका असंख्येया लोकाः । वनस्पतिका- ०५यिकाः अनन्तानन्ताः । त्रसकायिकसंख्या पञ्चेन्द्रियवत् । योगानुवादेन मनोयोगिनो वा- ग्योगिनश्च मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । काययोगिनो मिथ्यादृष्टयोऽनन्तानन्ताः । त्रयाणामपि योगिनां सासादनसम्यग्दृष्ट्यादयः संयतासंयतान्ता पल्योपमासंख्येयभागप्रमिताः । प्रमत्तसंयतादयःसयोगकेवल्यन्ताः संख्येयाः । अयोगकेवलिनः सामान्योक्तसङ्ख्याः । वेदानुवादेन स्त्रीवेदाः १०पुंवेदाश्च मिथ्यादृष्टयोऽसङ्ख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । नपुंसक- ३७वेदा मिथ्यादृष्टयोऽनन्तानन्ताः । स्त्रीवेदा नपुंसकवेदाश्च सासादनसम्यदृष्ट्यादयः संय- तासंयतान्ताः सामान्योक्तसंख्याः । प्रमत्तसंयतादयोऽनिवृत्तिबादरान्ताः संख्येयाः । पुंवेदाः सासादनसम्यग्दृष्ट्यादयोऽनिवृत्तिबादरान्ताः सामान्योक्तसंख्याः । अपगतवेदा अनिवृत्ति- बादरादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः । कषायानुवादेन क्रोधमानमायासु मिथ्यादृ- ०५ष्ट्यादयः संयतासंयतान्ताः सामान्योक्तसंख्याः । प्रमत्तसंयतादयोऽनिवृत्तिबादरान्ताः संख्येयाः । लोभकषायाणामुक्त एव क्रमः । अयं तु विशेषः सूक्ष्मसाम्परायसंयताः सामा- न्योक्तसंख्याः । अकषाया उपशान्तकषायादयोऽयोगकेवल्यन्ताः सामान्योक्तसंख्याः । ज्ञाना- नुवादेन मत्यज्ञानिनः श्रुताज्ञानिनश्च मिथ्यादृष्टिसासादनसम्यग्दृष्टयः सामान्योक्तसंख्याः । ३८विभङ्गज्ञानिनो मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभागप्रमिताः । सासादन- सम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः । मतिश्रुतज्ञानिनोऽसंयतसम्यग्दृष्ट्यादयः क्षीण- कषायान्ताः सामान्योक्तसंख्याः । अवधिज्ञानिनोऽसंयतसम्यग्दृष्टिसंयतासंयता सामान्यो- क्तसंख्याः । प्रमत्तसंयतादयः क्षीणकपायान्ताः संख्येयाः । मनःपर्ययज्ञानिनः प्रमत्तसंय- ०५तादयः क्षीणकषायान्ताः संख्येयाः । केवलज्ञानिनः सयोगा अयोगाश्च सामान्योक्तसं- ख्याः । संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयताः प्रमत्तादयोऽनिवृत्तिबादरान्ताः सामान्योक्तसंख्याः । परिहारविशुद्धिसंयताः प्रमत्ताश्चाप्रमत्ताश्च संख्येयाः । सूक्ष्मसा- म्परायशुद्धिसंयता यथाख्यातविहारशुद्धिसंयताः संयतासंयता असंयताश्च सामान्योक्त- संख्याः । दर्शनानुवादेन चक्षुर्दर्शनिनो मिथ्यादृष्टयोऽसंख्येयाः श्रेणयः प्रतरासंख्येयभाग- १०प्रमिताः । अचक्षुर्दर्शनिनो मिथ्यादृष्टयोऽनन्तानन्ताः । उभये च सासादनसम्यग्दृष्ट्यादयः ३९क्षीणकषायान्ताः सामान्योक्तसंख्याः । अवधिदर्शनिनोऽवधिज्ञानिवत् । केवलदर्शनिनः केवलज्ञानिवत् । लेश्यानुवादेन कृष्णनीलकपोतलेश्या मिथ्यादृष्ट्यादयोऽसंयतसम्यग्दृष्ट्य- न्ताः सामान्योक्तसंख्याः । तेजःपद्मलेश्या मिथ्यादृष्ट्यादयः संयतासंयतान्ताः स्त्रीवे- दवत् । प्रमत्ताप्रमत्तसंयताः संख्येयाः । शुक्ललेश्या मिथ्यादृष्ट्यादयः संयतासंयतान्ताः ०५पल्योपमासंख्येयभागप्रमिताः । प्रमत्ताप्रमत्तसंयताः संख्येयाः । अपूर्वकरणादयः सयोग- केवल्यन्ता अलेश्याश्च सामान्योक्तसंख्याः । भव्यानुवादेन भव्येषु मिथ्यादृष्ट्यादयोऽ- योगकेवल्यन्ताः सामान्योक्तसंख्याः । अभव्या अनन्ताः । सम्यक्त्वानुवादेन क्षायिकसम्य- ग्दृष्टिषु असंयतसम्यग्दृष्टयः पल्योपमासंख्येयभागप्रमिताः । संयतासंयतादय उपशान्तक- ४०षायान्ताः संख्येयाः । चत्वारः क्षपकाः सयोगकेवलिनोऽयोगकेवलिनश्च सामान्योक्त- संख्याः । क्षायोपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्ट्यादयोऽप्रमत्तान्ताः सामान्योक्त- संख्याः । औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टिसंयतासंयताः पल्योपमासंख्येयभाग- प्रमिताः । प्रमत्ताप्रमत्तसंयताः संख्येयाः । चत्वार औपशमिकाः सामान्योक्तसंख्याः । ०५सासादनसम्यग्दृष्टयः सम्यङ्मिथ्यादृष्टयो मिथ्यादृष्टयश्च सामान्योक्तसंख्याः । संज्ञानुवा- देन संज्ञिषु मिथ्यादृष्ट्यादयः क्षीणकषायान्ताश्चक्षुर्दर्शनिवत् । असंज्ञिनो मिथ्यादृष्टयो- ऽनन्तानन्ताः । तदुभयव्यपदेशरहिताः सामान्योक्तसंख्याः । आहारानुवादेन आहारकेषु मिथ्यादृष्ट्यादयः सयोगकेवल्यन्ताः सामान्योक्तसंख्याः । अनाहारकेषु मिथ्यादृष्टिसासा- दनसम्यग्दृ ष्ट्यसंयतसम्यग्दृष्टयः सामान्योक्तसंख्याः । सयोगकेवलिनः संख्येयाः । १०अयोगकेवलिनः सामान्योक्तसंख्याः । संख्या निर्णीता । ४१क्षेत्रमुच्यते । तत् द्विविधं सामान्येन विशेषेण च । सामान्येन तावत् मिथ्या- दृष्टीनां सर्वलोकः । सासादनसम्यग्दृष्ट्यादीनामयोगकेवल्यन्तानां लोकस्यासंख्येयभागः । सयोगकेवलिनां लोकस्यासंख्येयभागोऽसंख्येया भागाः सर्वलोको वा । विशेषेण गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकाणां चतुर्षु गुणस्थानेषु लोकस्यासंख्येयभागः । तिर्यग्गतौ ०५तिरश्चां मिथ्यादृष्ट्यादिसंयतासंयतान्तानां सामान्योक्तं क्षेत्रम् । मनुष्यगतौ मनुष्याणां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां लोकस्यासंख्येयभागः । सयोगकेवलिनां सामान्योक्तं क्षेत्रम् । देवगतौ देवानां सर्वेषां चतुर्षु गुणस्थानेषु लोकस्यासंख्येयभागः । इन्द्रियानुवादेन एकेन्द्रियाणां क्षेत्रं सर्वलोकः । विकलेन्द्रियाणां लोकस्यासंख्येयभागः । पञ्चेन्द्रियाणां मनुष्यवत् । कायानुवादेन पृथिवीकायादिवनस्पतिकायान्तानां सर्वलोकः । त्रसका- १०यिकानां पञ्चेन्द्रियवत् । योगानुवादेन वाङ्मनसयोगिनां मिथ्यादृष्ट्यादिसयोगकेवल्य- ४२न्तानां लोकस्यासंख्येयभागः । काययोगिनां मिथ्यादृष्ट्यादिसयोगकेवल्यन्तानामयोग- केवलिनां च सामान्योक्तं क्षेत्रम् । वेदानुवादेन स्त्रीपुंवेदानां मिथ्यादृष्ट्याद्यनिवृतिबा- दरान्तानां लोकस्यासंख्येयभागः । नपुंसकवेदानां मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्ताना- मपगतवेदानां च सामान्योक्तं क्षेत्रम् । कषायानुवादेन क्रोधमानमायाकषायाणां लोभ- ०५कषायाणां च मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां सूक्ष्मसाम्परायाणामकषायाणां च सामा- न्योक्तं क्षेत्रम् । ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां सामान्योक्तं क्षेत्रम् । विभङ्गज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां लोकस्यासंख्ये- यभागः । आभिनिबोधिकश्रुतावधिज्ञानिनामसंयतसम्यग्दृष्ट्यादीनां क्षीणकषायान्तानां मनःपर्ययज्ञानिनां च प्रमत्तादीनां क्षीणकषायान्तानां केवलज्ञानिनां सयोगानामयोगानां १०च सामान्योक्तं क्षेत्रम् । संयमानुवादेन सामायिकच्छेदोपस्थापनाशुद्धिसंयतानां चतुर्णां परिहारविशुद्धिसंयतानां प्रमत्ताप्रमत्तानां सूक्ष्मसाम्परायशुद्धिसंयतानां यथाख्यात- ४३विहारशुद्धिसंयतानां चतुर्णां संयतासंयतानामसंयतानां च चतुर्णां सामान्योक्तं क्षेत्रम् । दर्शनानुवादेन चक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां लोकस्यासंख्ययभागः । अचक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तं क्षेत्रम् । अवधिदर्शनि- नामवधिज्ञानिवत् । केवलदर्शनिनां केवलज्ञानिवत् । लेश्यानुवादेन कृष्णनीलकापोत- ०५लेश्यानां मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तानां सामान्योक्तं क्षेत्रम् । तेजःपद्मलेश्यानां मिथ्यादृष्ट्याद्यप्रमत्तान्तानां लोकस्यासंख्येयभागः । शुक्ललेश्यानां मिथ्यादृष्ट्यादिक्षी- णकषायान्तानां लोकस्यासंख्येयभागः । सयोगकेवलिनामलेश्यानां च सामान्योक्तं क्षेत्रम् । भव्यानुवादेन भव्यानां चतुर्दशानां सामान्योक्तं क्षेत्रम् । अभव्यानां सर्व- लोकः । सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां १०क्षायोपशमिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानामौपशमिकसम्यग्दृष्टीनामसंय- तसम्यग्दृष्ट्याद्युपशान्तकषायान्तानां सासादनसम्यग्दृष्टीनां सम्यङ्मिथ्यादृष्टीनां ४४मिथ्यादृष्टीनां च सामान्योक्तं क्षेत्रम् । सञ्ज्ञानुवादेन सञ्ज्ञिनां चक्षुर्दर्शनिवत् । अस- ञ्ज्ञिनां सर्वलोकः । तदुभयव्यपदेशरहितानां सामान्योक्तं क्षेत्रम् । आहारानुवादेन आहारकाणां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां लोकस्यासंख्येयभागः । अनाहारकाणां मिथ्यादृष्टिसासादनसम्यग्दृष्ट्यसंयतसम्यग्दृष्ट्य- ०५योगकेवलिनां सामान्योक्तं क्षेत्रम् । सयोगकेवलिनां लोकस्यासंख्येया भागाः सर्वलोको वा । क्षेत्रनिर्णयः कृतः । ४६स्पर्शनमुच्यते । तद् द्विविधं सामान्येन विशेषेण च । सामान्येन तावत् मिथ्या- दृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ द्वादश वा चतुर्दशभागा देशोनाः । सम्यङ्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येय- भागः अष्टौ चतुर्दशभागा वा देशोनाः । संयतासंयतैर्लोकस्यासंख्येयभागः षट् चतुर्द- ०५शभागा वा देशोनाः । प्रमत्तसंयतादीनामयोगकेवल्यन्तानां क्षेत्रवत्स्पर्शनम् । विशेषेण गत्यनुवादेन नरकगतौ प्रथमायां पृथिव्यां नारकैश्चतुर्गुणस्थानैर्लोकस्यासं- ख्येयभागःस्पृष्टः । द्विदीयादिषु प्राक्सप्तम्या मिथ्यादृष्टिसासादनसम्यग्दृष्टिभिर्लोकस्यासं- ख्येयभागः एको द्वौ त्रयः चत्वारः पञ्च चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्ट्यसंय- ४७तसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः । सप्तम्यां पृथिव्यां मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । शेषैस्त्रिभिर्लोकस्यासंख्येयभागः । तिर्यग्गतौ तिरश्चां मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः । असंयतस- ०५म्यग्दृष्टिसंयतासंयतैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । मनुष्यगतौ मनुष्यैर्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः सर्वलोको वा स्पृष्टः । सासादनसम्यग्दृष्टि- भिर्लोकस्यासंख्येयभागः सप्त चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्ट्यादीना- ४८मयोगकेवल्यन्तानां क्षेत्रवत्स्पर्शनम् । देवगतौ देवैर्मिथ्यादृष्टिसासादनसम्यग्दृष्टिभिर्लो- कस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्ट्यसंयत- सम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः । इन्द्रियानुवादेन एकेन्द्रियैः सर्वलोकः स्पृष्टः । विकलेन्द्रियैर्लोकस्यासंख्येयभागः ०५सर्वलोको वा । पञ्चेन्द्रियेषु मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः सर्वलोको वा । शेषाणां सामान्योक्तं स्पर्शनम् । ४९कायानुवादेन स्थावरकायिकैः सर्वलोकः स्पृष्टः । त्रसकायिनां पञ्चेन्द्रियवत् स्पर्शनम् । योगानुवादेन वाङ्मनसयोगिनां मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतु- र्दशभागा वा देशोनाः सर्वलोको वा । सासादनसम्यग्दृष्ट्यादीनां क्षीणकषायान्तानां ०५सामान्योक्तं स्पर्शनम् । सयोगकेवलिनां लोकस्यासंख्येयभागः । काययोगिनां मिथ्या- दृष्टयादीनां सयोगकेवल्यन्तानामयोगकेवलिनां च सामान्योक्तं स्पर्शनम् । वेदानुवादेन स्त्रीपुंवेदैर्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः स्पृष्टः अष्टौ चतुर्दशभागा वा देशोनाः सर्वलोकोवा । सासादनसम्यग्दृष्टिभिः लोकस्यासंख्येय- ५०भागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्यमिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्योक्तं स्पर्शनम् । नपुंसकवेदेषु मिथ्यादृष्टीनां सासादनसम्यग्दृष्टीनां च सामा- न्योक्तं स्पर्शनम् । सम्यङ्मिथ्यादृष्टिभिर्लोकस्यासंख्येयभागः । असंयतसम्यग्दृष्टिसंयता- संयतैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्ताद्यनिवृत्तिबादरान्ता- ०५नामपगतवेदाणां च सामान्योक्तं स्पर्शनम् । ५१कषायानुवादेन चतुष्कषायाणामकषायाणां च सामान्योक्तं स्पर्शनम् । ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिनां मिथ्यादृष्टिसासादनसम्यग्दृष्टीनां सामा- न्योक्तं स्पर्शनम् । विभङ्गज्ञानिनां मिथ्यादृष्टीनां लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः सर्वलोको वा । सासादनसम्यग्दृष्टीनां सामान्योक्तं ०५स्पर्शनम् । आभिनिबोधिकश्रुतावघिमनःपर्ययकेवलज्ञानिनां सामान्योक्तं स्पर्शनम् । संयमानुवादेन संयतानां सर्वेषां संयतासंयतानामसंयतानां च सामान्योक्तं स्पर्शनम् । दर्शनानुवादेन चक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां पञ्चेन्द्रिय- वत् । अचक्षुर्दर्शनिनां मिथ्यादृष्ट्यादिक्षीणकषायान्तानामवधिकेवलदर्शनिनां च सामा- न्योक्तं स्पर्शनम् । १०लेश्यानुवादेन कृष्णनीलकापोतलेश्यैर्मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । ५२सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः पञ्च चत्वारो द्वौ चतुर्दशभागा वा देशोनाः । सम्यङ्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः । तेजोलेश्यैर्मिथ्यादृष्टिसासा- दनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः । सम्य- ग्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः अष्टौ चतुर्दशभागा वा देशोनाः । ०५संयतासंयतैर्लोकस्यासंख्येयभागः अध्यर्धचतुर्दशभागा वा देशोनाः । प्रमत्ताप्रमत्तैर्लो- कस्यासंख्येयभागः । पद्मलेश्यैर्मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तैर्लोकस्यासंख्येयभागः ५३अष्टौ चतुर्दशभागा वा देशोनाः । संयतासंयतैर्लोकस्यासंख्येयभागः पञ्च चतुर्दश- भागा वा देशोनाः । प्रमत्ताप्रमत्तैर्लोकस्यासंख्येयभागः । शुक्ललेश्यैर्मिंथ्यादृष्ट्यादिसं- यतासंयतान्तैर्लोकस्यासंख्येयभागः षट् चतुर्दशभागा वा देशोनाः । प्रमत्तादिसयोग- केवल्यन्तानां अलेश्यानां च सामान्योक्तं स्पर्शनम् । ०५भव्यानुवादेन भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तं स्पर्शनम् । अभव्यैः सर्वलोकः स्पृष्टः । सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां ५४सामान्योक्तम् । किंतु संयतासंयतानां लोकस्यासंख्येयभागः । क्षायोपशमिकसम्यग्दृष्टीनां सामान्योक्तम् । औपशमिकसम्यक्त्वानामसंयतसम्यग्दृष्टीनां सामान्योक्तम् । शेषाणां लोकस्यासंख्येयभागः । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिमिथ्यादृष्टीनां सामान्योक्तम् । सञ्ज्ञानुवादेन सञ्ज्ञिनां चक्षुर्दर्शनिवत् । असञ्ज्ञिभिः सर्वलोकः स्पृष्टः । ०५तदुभयव्यपदेशरहितानां सामान्योक्तम् । आहारानुवादेन आहारकाणां मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्योक्तम् । सयोगकेवलिनां लोकस्यासंख्येयभागः । अनाहारकेषु मिथ्यादृष्टिभिः सर्वलोकः स्पृष्टः । सासादनसम्यग्दृष्टिभिर्लोकस्यासंख्येयभागः एकादश चतुर्दशभागा वा देशोनाः । असंयतसम्यग्दृष्टिभिः लोकस्यासंख्येयभागः षट् चतुर्दश भागा वा देशोनाः । सयोग- १०केवलिनां लोकस्यासंख्येयभागाः सर्वलोको वा । अयोगकेवलिनां लोकस्यासंख्येयभागः । स्पर्शनं व्याख्यातम् । ५५कालः प्रस्तूयते । स द्विविधः सामान्येन विशेषेण च । सामान्येन तावत् मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवापेक्षया त्रयो भङ्गाः । अनादिरप- र्यवसानः अनादिः सपर्यवसानः सादिः सपर्यवसानश्चेति । तत्र सादिः सपर्यवसानो जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेणार्धपुद्गलपरिवर्त्तो देशोनः । सासादनसम्यग्दृष्टेर्नानाजी- ०५वापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्ये- नैकः समयः । उत्कर्षेण षडावलिकाः । सम्यङ्मिथ्यादृष्टेर्नानाजीवापेक्षया जघन्ये- नान्तर्मुहूर्त्तः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्यः उत्कृष्टश्चान्त- र्मुहूर्त्तः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्त- र्मुहूर्त्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । संयतासंयतस्य नानाजीवापे- १०क्षया सर्वःकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण पूर्वकोटी देशोना । ५६प्रमत्ताप्रमत्तयोर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षे- णान्तर्मुहूर्त्तः । चतुर्णामुपशमकानां नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । चतुर्णां क्षपकाणामयोगकेवलिनां च नानाजीवापेक्षया एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्चन्तार्मुहूर्तः । सयोगकेवलिनां नानाजीवापेक्षया ०५सर्वकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणं पूर्वकोटी देशोना । विशेषेण गत्यनुवादेन नरकगतौ नारकेषु सप्तसु पृथिवीषु मिथ्यादृष्टेर्नानाजीवा- पेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्त्तर्मुहूर्तः । उत्कर्षेण यथासंख्यं एक-त्रि-सप्त- दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमाणि । सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टेश्च सामान्योक्तः कालः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति १०जघन्येनान्तर्मुहूर्तः । उत्कर्षेण उक्त एवोत्कृष्टो देशोनः । ५७तिर्यग्गतौ तिरश्चां मिथ्यादृष्टीनां नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । सासादनसम्यग्दृष्टि- सम्यग्मिथ्यादृष्टिसंयतासंयतानां सामान्योक्तः कालः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि । ०५मनुष्यगतौ मनुष्येषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्ये- नान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि । सासादनसम्य- ग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । एकजीवं प्रति जघ- न्येनैकः समयः । उत्कर्षेण षडावलिकाः । सम्यग्मिथ्यादृष्टेर्नानाजीवापेक्षया एकजीवा- पेक्ष या च जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । १०एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि सातिरेकाणि । शेषाणां ५८सामान्योक्तः कालः । देवगतौ देवेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्त- र्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि । सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टेश्च सामा- न्योक्तः कालः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्त- ०५र्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि । इन्द्रियानुवादेन एकेन्द्रियाणां नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणानन्तः कालोऽसंख्येया पुद्गलपरिवर्ताः । विकलेन्द्रियाणां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण संख्येयानि वर्षसहस्राणि । पञ्चेन्द्रियेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं १०प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् । शेषाणां सामान्योक्तः कालः । ५९कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणासंख्येया लोकाः । वनस्पतिकायिका- नामेकेन्द्रियवत् । त्रसकायिकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके । शेषाणां ०५पञ्चेन्द्रियवत् । योगानुवादेन वाङ्मनसयोगिषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रम- त्तसयोगकेवलिनां नानाजीवापेक्षया सर्वकालः । एकजीवापेक्षया जघन्येनैकः समयः । उत्क- र्षेणान्तर्मुहूर्तः । सासादनसम्यग्दृष्टेः सामान्योक्तः कालः । सम्यङ्मिथ्यादृष्टेर्नानाजीवापेक्षया जघन्येनैकसमयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्येनैकः समयः । ६०उत्कर्षेणान्तर्मुहूर्तः । चतुर्णामुपशमकानां क्षपकाणां च नानाजीवापेक्षया एकजीवापेक्षया च जघन्यैनैकसमयः । उत्कर्षेणान्तर्मुहूर्तः । काययोगिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्व- कालः । एकजीवं प्रति जघन्येनैकसमयः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरि- वर्ताः । शेषाणामनोयोगिवत् । अयोगानां सामान्यवत् । ०५वेदानुवादेन स्त्रीवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमशतपृथक्त्वम् । सासादनसम्यग्दृष्ट्याद्यनिवृत्ति- बादरान्तानां सामान्योक्तः कालः । किं तु असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वकालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि देशोनानि । पुंवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । १०उत्कर्षेण सागरोपमशतपृथक्त्वम् । सासादनसम्यग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामा- न्योक्तः कालः । नपुंसकवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति ६१जघन्येनान्तर्मुहूर्तः । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । सासादनसम्य- ग्दृष्ट्याद्यनिवृत्तिबादरान्तानां सामान्यवत् । किं त्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । अपगतवेदानां सामान्यवत् । ०५कषायानुवादेन चतुष्कषायाणां मिथ्यादृष्ट्याद्यप्रमत्तान्तानां मनोयोगिवत् । द्वयोरुपशमकयोर्द्वयोः क्षपकयोः केवललोभस्य च अकषायाणां च सामान्योक्तः कालः । ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिषु मिथ्यादृष्टिसासादनसम्यग्दृष्ट्योः सामा- न्यवत् । विभङ्गज्ञानिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । सासादनसम्य- १०ग्दृष्टेः सामान्योक्तः कालः । आभिनिबोधिकश्रुतावधिमनःपर्ययकेवलज्ञानिनां च सामान्योक्तः । ६२संयमानुवादेन सामायिकच्छेदोपस्थापनपरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्या- तशुद्धिसंयतानां संयतासंयतानामसंयतानां च चतुर्णां सामान्योक्तः कालः । दर्शनानुवादेन चक्षुर्दर्शनिषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे । सासादनसम्यग्दृष्ट्यादीनां ०५क्षीणकषायान्तानां सामान्योक्तः कालः । अचक्षुर्दर्शनिषु मिथ्यादृष्ट्यादिक्षीणकषा- यान्तानां सामान्योक्तः कालः । अवधिकेवलदर्शनिनोरवधिकेवलज्ञानिवत् । लेश्यानुवादेन कृष्णनीलकपोतलेश्यासु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सप्तदशसप्तसागरोपमाणि साति- रेकाणि । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योः सामान्योक्तः कालः । असंयतसम्यग्दृ- १०ष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिं- ६३शत्सप्तदशसप्तसागरोपमाणि देशोनानि । तेजःपद्मलेश्ययोर्मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्यो- र्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे साग- रोपमे अष्टादश च सागरोपमाणि सातिरेकाणि । सासादनसम्यग्दृष्टिसम्यङ्मिथ्या- दृष्ट्योः सामान्योक्तः कालः । संयतासंयतप्रमत्ताप्रमत्तानां नानाजीवापेक्षया सर्वःकालः । ०५एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । शुक्ललेश्यानां मिथ्यादृष्टेर्नाना- जीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरो- पमाणि सातिरेकाणि । सासादनसम्यग्दृष्ट्यादिसयोगकेवल्यन्तानामलेश्यानां च सामान्योक्तः कालः । किं तु संयतासंयतस्य नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः । १०भव्यानुवादेन भव्येषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवापेक्षया द्वौ भङ्गौ । अनादिः सपर्यवसानः सादिः सपर्यवसानश्च । तत्र सादिः सपर्यवसानो ६४जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । सासादनसम्यग्दृष्ट्याद्ययोग- केवल्यन्तानां सामान्योक्तः कालः । अभव्यानामनादिरपर्यवसानः । सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टीनामसंयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तः कालः । क्षायोपशमिकसम्यग्दृष्टीनां चतुर्णां सामान्योक्तः कालः । औप- ०५शमिकसम्यक्त्वेषु असंयतसम्यग्दृष्टिसंयतासंयतयोर्नानाजीवापेक्षया जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः । प्रम- त्ताप्रमत्तयोश्चतुर्णामुपशमकानां च नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः । समयः । उत्कर्षेणान्तर्मुहूर्तः । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्टिमिथ्यादृष्टीनां सामा- न्योक्तः कालः । १०सञ्ज्ञानुवादेन संज्ञिषु मिथ्यादृष्ट्याद्यनिवृत्तिबादरान्तानां पुंवेदवत् । शेषाणां सामान्योक्तः । असंज्ञिनां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभव- ग्रहणम् । उत्कर्षेणानन्तःकालोऽसंख्येयाः पुद्गलपरिवर्ताः । तदुभयव्यपदेशरहितानां ६५सामान्योक्तः । आहारानुवादेन आहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणांगुलासंख्येयभागः असंख्येयासंख्येया उत्सर्पीण्यव- सर्पिण्यः । शेषाणां सामान्योक्तः कालः । अनाहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया ०५सर्वः कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण त्रयः समयाः । सासादनसम्य- ग्दृष्ट्यसंयतसम्यग्दृष्ट्योर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेणावलिकाया असंख्येयभागः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण द्वौ समयौ । सयोगकेव- लिनो नानाजीवापेक्षया जघन्येन त्रयः समयाः । उत्कर्षेण संख्येयाः समयाः । एकजीवं प्रति जघन्यश्चोत्कृष्टश्च त्रयः समयाः । अयोगकेवलिनां सामान्योक्तः कालः । कालो १०वर्णितः । अन्तरं निरूप्यते । विविक्षितस्य गुणस्य गुणान्तरसंक्रमे सति पुनस्तत्प्राप्तेः प्राङ्मध्यमन्तरम् । तत् द्विविधं सामान्येन विशेषेण च । सामान्येन तावत् मिथ्या- ६६दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे षट्षष्ठी देशोने सागरोपमाणाम् । सासादनसम्यग्दृष्टेरन्तरं नानाजीवापेक्षया जघन्ये- नैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्येन पल्योपमासंख्ये- यभागः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । सम्यग्मिथ्यादृष्टेरन्तरं नानाजीवापेक्षया ०५सासादनवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । चतुर्णामुपशमकानां नानाजी- ६७वापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः । चतुर्णां क्षपकाणामयोगकेवलिनां च नानाजीवा- पेक्षया जघन्येनैकः समयः । उत्कर्षेण पण्मासाः । एकजीवं प्रति नास्त्यन्तरम् । सयोगके- वलिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । ०५विशेषेण गत्यनुवादेन नरकगतौ नारकाणां सप्तसु पृथिवीषु मिथ्यादृष्ट्यसंय- तसम्यग्दृष्ट्योर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण एक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । सासा- दनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्यो- पमासंख्येयभागः । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण १०एक-त्रि-सप्त-दश-सप्तदश-द्वाविंशति-त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । ६८तिर्यग्गतौ तिरश्चां मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनार्न्तुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि देशोनानि । सासादनसम्यग्दृष्ट्यादीनां चतुर्णां सामान्योक्तमन्तरम् । मनुष्यगतौ मनुष्याणां मिथ्यादृष्टेस्तिर्यग्वत् । सासादनसम्यग्दृष्टिसम्यग्मिथ्या- ०५दृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागो- ऽन्तर्मुहूर्तश्च । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि । असंयत- ६९सम्यग्दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्यैनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि पूर्वकोटीपृथक्त्वैरभ्यधिकानि । संयतासंयतप्रमत्ताप्रमत्तानां नाना- जीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी- पृथक्त्वानि । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति ०५जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटीपृथक्त्वानि । शेषाणां सामान्यवत् । देवगतौ देवानां मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्योर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण एकत्रिंशत्सागरोपमाणि देशोनानि । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति ७०जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेणैकत्रिंशत्सागरोपमाणि देशोनानि । इन्द्रियानुवादेन एकेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके । विकलेन्द्रियाणां नानाजीवापेक्षया नास्त्यन्तरम् । एक जीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । ०५उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । एवमिन्द्रियं प्रत्यन्नरमुक्तम् । गुणं प्रत्युभयतोऽपि नास्त्यन्तरम् । पञ्चेन्द्रियेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टि- सम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमा- संख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् । असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति ७१जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् । चतुर्णोमुपश- मकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण साग- रोपमसहस्रं पूर्वकोटीपृथक्त्वैरभ्यधिकम् । शेषाणां सामान्योक्तम् । कायानुवादेन पृथिव्यप्तेजोवायुकायिकानां नानाजीवापेक्षया नास्त्यन्तरम् । ०५एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । वनस्पतिकायिकानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवापेक्षया जघन्येन क्षुद्रभवग्रहणम् । उत्कर्षेणासंख्येया लोकाः । एवं कायं प्रत्यन्तरमुक्तम् । गुणं प्रत्युभयतोऽपि नास्त्यन्तरम् । त्रसकायिकेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्- योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । १०उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरभ्यधिके । असंयतसम्यग्दृष्ट्याद्यप्रम- ७२त्तान्तानां नानाजीवापेक्षया नास्त्यन्तरं । एक जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वकोटीपृथक्त्वैरम्यधिके । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे पूर्वको- टीपृथक्त्वैरभ्यधिके । शेषाणां पञ्ञेन्द्रियवत् । ०५योगानुवादेन कायवाङ्मनसयोगिनां मिथ्यादृष्ट्यसंयतसम्यग्दृष्टिसंयतासंयतप्रम त्ताप्रमत्तसयोगकेवलिनां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । सासाद- नसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्य- न्तरम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । चतुर्णां क्षपकाणामयोगकेवलिनां च सामान्यवत् । १०वेदानुवादेन स्त्रीवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पञ्चपञ्चाशत्पल्योपमानि देशोनानि । सासादनसम्यग्दृ- ष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमा- ७३संख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण पल्योपमशतपृथक्त्वम् । असंयतसम्यग्दृष्ट्याद्यप्रमत्ता- न्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्त्तः । उत्कर्षेण पल्योपमशतपृथक्त्वम् । द्वयोरुपशमकयोर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पल्योपमशतपृथक्त्वम् । द्वयोः क्षपकयोर्नानाजीवापेक्षया ०५जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् । पुंवेदेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नाना- जीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् । असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । ७४द्वयोरुपशमकयोर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । द्वयोः क्षपकयोर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण संवत्सरः सातिरेकः । एकजीवं प्रति नास्त्यन्तरम् । नपुंसकवेदेषु मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्ये- ०५नान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । सासादनसम्यग्दृष्ट्याद्यनि- वृत्त्युपशमकान्तानां सामान्योक्तम् । द्वयोः क्षपकयोः स्त्रीवेदवत् । अपगतवेदेषु अनिवृत्ति- बादरोपशमकसूक्ष्मसाम्परायोपशमकयोर्नानाजीवापेक्षया सामान्योक्तम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । शेषाणां सामान्यवत् । १०कषायानुवादेन क्रोधमानमायालोभकषायाणां मिथ्यादृष्ट्याद्यनिवृत्त्युपशमका- न्तानां मनोयोगिवत् । द्वयोः क्षपकयोर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण संवत्सरः सातिरेकः । केवललोभस्य सूक्ष्मसाम्परायोपशमकस्य नानाजीवापेक्षया ७५सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । क्षपकस्य तस्य सामान्यवत् । अकषायेषु उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । शेषाणां त्रयाणां सामान्यवत् । ज्ञानानुवादेन मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानिषु मिथ्यादृष्टेर्नानाजीवापेक्षया ०५एकजीवापेक्षया च नास्त्यन्तरम् । सासादनसम्यग्दृष्टेर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । आभिनिबोधिकश्रुतावधिज्ञानिषु असंयतसम्यग्दृष्टेर्नाना- जीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । संयतासंयतस्य नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्त- र्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि सातिरेकाणि । प्रमत्ताप्रमत्तयोर्नानाजीवापेक्षया १०नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति ७६जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि सातिरेकाणि । चतुर्णां क्षपकाणां सामान्यवत् । किं तु अवधिज्ञानिषु नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् । मनःपर्ययज्ञानिषु प्रमत्ताप्रमत्तसंयतयोर्नाना- जीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । चतुर्णामुपशमकानां ०५नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । चतुर्णां क्षपकाणामवधिज्ञानिवत् । द्वयोः केवलज्ञानिनोः सामान्यवत् । संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतेषु प्रमत्ताप्रमत्तयोर्नानाजीवा- पेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । द्वयोरुपशमकयोर्नाना- जीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । ७७द्वयोः क्षपकयोः सामान्यवत् । परिहारशुद्धिसंयतेषु प्रमत्ताप्रमत्तयोर्नानाजीवापेक्षया नास्त्यन्त- रम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । सूक्ष्मसाम्परायशुद्धिसंय तेषूपशमकस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । तस्यैव क्षपकस्य सामा- न्यवत् । यथाख्याते अकषायवत् । संयतासंयतस्य नानाजीवापेक्षया एकजीवापेक्षया च ०५नास्त्यन्तरम् । असंयतेषु मिथ्यादृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि । शेषाणां त्रयाणां सामान्यवत् । दर्शनानुवादेन चक्षुर्दर्शनिषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टि- सम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमा- १०संख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमसहस्रे देशोने । असंयतसम्यग्दृष्ट्याद्य- ७८प्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वेसागरोपमसहस्रे देशोने । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्योक्तम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमसहस्रे देशोने । चतुर्णां क्षपकाणां सामान्योक्तम् । अचक्षुर्दर्शनिषु मिथ्यादृष्ट्यादिक्षीणकषायान्तानां सामान्यो ०५क्तमन्तरम् । अवधिदर्शनिनोऽवधिज्ञानिवत् । केवलदर्शनिनः केवलज्ञानिवत् । लेश्यानुवादेन कृष्णनीलकपोतलेश्येषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्ट्योर्नानाजी- वापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सप्तद- शसप्तसागरोपमाणि देशोनानि । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया ७९सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण त्रयस्त्रिंशत्सप्तदशसप्तसागरोपमाणि देशोनानि । तेजःपद्मलेश्ययोर्मिथ्यादृष्ट्यसंयतसम्यग्दृट्योर्नानाजीवापेक्षया नास्त्यन्तरम् । एक- जीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमाणि ०५सातिरेकाणि । सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमाणि सातिरेकाणि । संयतासंयतप्रमत्ताप्रमत्तसंयतानां नाना- जीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । शुक्ललेश्येषु मिथ्यादृष्ट्यसंयतसम्यग्दृष्टयोर्नानाजीवापेक्षया नास्त्यन्तरम् । १०एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि देशोनानि । सासाद- नसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेणैकत्रिंशत्सागरोपमाणि देशोनानि । संयता- संयतप्रमत्तसंयतयोस्तेजोलेश्यावत् । अप्रमत्तसंयतस्य नानाजीवापेक्षया नास्त्यन्तरम् । ८०एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । त्रयाणामुपशमकानां नानाजीवापेक्षया सामा- न्यवत् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । चतुर्णां क्षपकाणां सयोगकेवलिनामलेश्यानां च सामान्यवत् । ०५भव्यानुवादेन भव्येषु मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् । अभव्यानां नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिष्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । संयतासंयतप्रमत्ताप्रमत्तसंय- तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंश- १०त्सागरोपमाणि सातिरेकाणि । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं ८१प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । शेषाणां सामान्यवत् । क्षायोपशमिकसम्यग्दृष्टिष्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । संयतासंयतस्य नानाजीवापेक्षया ०५नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण षट्षष्टिसागरोपमाणि देशोनानि । प्रमत्ताप्रमत्तसंयतयोर्नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येना- न्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । औपशमिकसम्यग्दृष्टिष्वसंयतसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण सप्त रात्रिंदिनानि । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । संयतासंयतस्य ८२नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण चतुर्दश रात्रिंदिनानि । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । प्रमत्ताप्रमत्तसंयतयोर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पञ्चदश रात्रिंदिनानि । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । त्रयाणामुप- शमकानां नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति ०५जघन्यमुत्कृष्टं चान्तर्मुहूर्तः । उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति नास्त्यन्तरम् । मिथ्यादृष्टेर्नाना- जीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । सञ्ज्ञानुवादेन संज्ञिषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टिसम्यङ्मिथ्या- १०दृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्त- र्मुहूर्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् । असंयतसम्यग्दृष्ट्याद्यप्रमत्तान्तानां नानाजीवा- ८३पेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथ- क्त्वम् । चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्त- र्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् । चतुर्णां क्षपकाणां सामान्यवत् । असंज्ञिनां नानाजीवापेक्षयैकजीवापेक्षया च नास्त्यन्तरम् । तदुभयव्यपदेशरहितानां सामान्यवत् । ०५आहारानुवादेन आहारकेषु मिथ्यादृष्टेः सामान्यवत् । सासादनसम्यग्दृष्टि- सम्यङ्मिथ्यादृष्ट्योर्नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येय- भागोऽन्तर्मुहूर्तश्च । उत्कर्षेणांगुलासंख्येयभागोऽसंख्येयासंख्येया उत्सर्पिण्यवसर्पिण्यः । असंयतसम्यग्दृष्ट्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणांगुलासंख्येयभागोऽसंख्येया संख्येयाउत्सर्पिण्यवसर्पिण्यः । १०चतुर्णामुपशमकानां नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणांगुलासंख्येयभागोऽसंख्येयासंख्येया उत्सर्पिण्यवसर्पिण्यः । चतुर्णां क्षपकाणां सयोगकेवलिनां च सामान्यवत् । ८४अनाहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया एकजीवापेक्षया च नास्त्यन्तरम् । सासादनसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण पल्योपमासंख्येयभागः । एकजीवं प्रति नास्त्यन्तरम् । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया जघन्यैनैकः समयः । उत्कर्षेण मासपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् । सयोगकेवलिनः नानाजीवापेक्षया ०५जघन्येनैकः समयः । उत्कर्षेण वर्षपृथक्त्वम् । एकजीवं प्रति नास्त्यन्तरम् । अयोग- केवलिनः नानाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण षण्मासाः । एकजीवं प्रति नास्त्यन्तरम् । अन्तरमवगतम् । भावो विभाव्यते । स द्विविधः सामान्येन विशेषेण च । सामान्येन तावत् मिथ्यादृष्टिरित्यौदयिको भावः । सासादनसम्यग्दृष्टिरिति पारिणामिको भावः । सम्य- १०ङ्मिथ्यादृष्टिरिति क्षायोपशमिको भावः । असंयतसम्यग्दृष्टिरिति औपशमिको वा क्षायिको ८५वा क्षायोपशमिको वा भावः । असंयतः पुनरौयिकेन भावेन । संयतासंयतः प्रमत्तसंयतोऽ- प्रमत्तसंयत इति क्षायोपशमिको भावः । चतुर्णामुपशमकानामौपशमिको भावः । चतुर्षु क्षपकेषु सयोगायोगकेवलिनोश्च क्षायिको भावः । विशेषेण गत्यनुवादेन नरकगतौ प्रथमायां पृथिव्यां नारकाणां मिथ्यादृष्ट्याद्य- ०५संयतसम्यग्दृष्ट्यन्तानां सामान्यवत् । द्वितीयादिष्वा सप्तम्या मिथ्यादृष्टिसासादनसम्य- ग्दृष्टिसम्यङ्मिथ्यादृष्टीनां सामान्यवत् । असंयतसम्यग्दृष्टेरौपशमिको वा क्षायोपशमिको वा भावः । असंयतः पुनरौदयिकेन भावेन । तिर्गग्गतौ तिरश्चां मिथ्यादृष्ट्यादिसंयता- संयतान्तानां सामान्यवत् । मनुष्यगतौ मनुष्याणां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् । देवगतौ देवानां मिथ्यादृष्ट्याद्यसंयतसम्यग्दृष्ट्यन्तानां सामान्यवत् । १०इन्द्रियानुवादेन एकेन्द्रियविकलेन्द्रियाणामौदयिको भावः । पञ्चेद्रियेषु मिथ्या- दृष्ट्ययोगकेवल्यन्तानां सामान्यवत् । कायानुवादेन स्थावरकायिकानामौदयिको भावः । त्रसकायिकानां सामान्यमेव । ८६योगानुवादेन कायवाङ्मनसयोगिनां मिथ्यादृष्ट्यादिसयोगकेवल्यन्तानां च सामान्यमेव । वेदानुवादेन स्त्रीपुन्नपुंसकवेदानामवेदानां च सामान्यवत् । कषायानुवादेन क्रोधमानमायालोभकषायाणामकषायाणां च सामान्यवत् । ०५ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिनां मतिश्रुतावधिमनःपर्ययकेवल- ज्ञानिनां च सामान्यवत् । संयमानुवादेन सर्वेषां संयतानां संयतासंयतानामसंयतानां च सामान्यवत् । दर्शनानुवादेन चक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनिनां सामान्यवत् । लेश्यानुवादेन षड्लेश्यानामलेश्यानां च सामान्यवत् । १०भव्यानुवादेन भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्यन्तानां सामान्यवत् । अभव्यानां पारिणामिको भावः । ८७सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेः क्षायिको भावः । क्षायिकं सम्यक्त्वम् । असंयतत्वमौदयिकेन भावेन । संयतासंयतप्रमत्ताप्रमत्तसंयतानां क्षायोपशमिको भावः । क्षायिकं सम्यक्त्वं । चतुर्णामुपशमकानामौपशमिको भावः । क्षायिकं सम्यक्त्वम् । शेषाणां सामान्यवत् । क्षायोपमिकसम्यग्दृष्टिषु ०५असंयतसम्यग्दृष्टेः क्षायोपशमिको भावः । क्षायोपशमिकं सम्यक्त्वम् । असंयतः पुनरौदयिकेन भावेन । संयतासंयतप्रमत्ताप्रमत्तसंयतानां क्षायोपशमिको भावः । क्षायोपशमिकं सम्यक्त्वम् । औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेरौपशमिको भावः । औपशमिकं सम्यक्त्वम् । असंयतः पुनरौदयिकेन भावेन । संयतासंयतप्रमत्ताप्रमत्तसंयतानां क्षायोपशमिको भावः । औपशमिकं सम्यक्त्वम् । चतुर्णामुपशमकानामौपशमिको भावः । १०औपशमिकं सम्यक्त्वम् । सासादनसम्यग्दृष्टेः पारिणामिको भावः । सम्यङ्मिथ्यादृष्टेः क्षायोपशमिको भावः । मिथ्यादृष्टेरौदयिको भावः । संज्ञानुवादेन संज्ञिनां सामान्यवत् । असंज्ञिनामौदयिको भावः । तदुभयव्यपदेश- रहितानां सामान्यवत् । ८८आहारानुवादेन आहारकाणामनाहारकाणां च सामन्यवत् । भावः परिसमाप्तः । अल्पबहुत्वमुपवर्ण्यते । तत् द्विविधं सामान्येन विशेषेण च । सामान्येन तावत् सर्वतः स्तोकाः त्रय उपशमकाः स्वगुणस्थानकालेषु प्रवेशेन तुल्यसंख्याः । उपशान्तक- षायास्तावन्त एव । त्रयः क्षपकाः संख्येयगुणाः । क्षीणकषायवीतरागच्छद्मस्थास्तावन्त ०५एव । सयोगकेवलिनोऽयोगकेवलिनश्च प्रवेशेन तुल्यसंख्याः । सयोगकेवलिनः स्वकालेन समुदिताः संख्येयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संय- तासंयता असंख्येयगुणाः । सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः । सम्यग्मिथ्यादृष्टयः सं- ख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः । विशेषेण गत्यनुवादेन नरकगतौ सर्वासु पृथिवीषु नारकेषु सर्वतः स्तोकाः सासा- १०दनसम्यग्दृष्टयः । सम्यग्मिथ्यादृष्टयः संख्येयगुणाः । असंयतसग्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽसंख्येयगुणाः । तिर्यग्गतौ तिरश्चां सर्वतः स्तोकाः संयतासंयताः । इतरेषां ८९सामान्यवत् । मनुष्यगतौ मनुष्याणामुपशमकादिप्रत्तसंयतान्तानां सामान्यवत् । ततः संख्येयगुणाः संयतासंयताः । सासादनसम्यग्दृष्टयः संख्येयगुणाः । सम्यग्मिथ्यादृष्टयः संख्ये- यगुणाः । असंयतसम्यग्दृष्टयः संख्येयगुणाः । मिथ्यादृष्टयोऽसंख्येयगुणाः । देवगतौ देवानां नारकवत् । ०५इंद्रियानुवादेन एकेन्द्रियविकलेन्द्रियेषु गुणस्थानभेदो नास्तीत्यल्पबहुत्वाभावः । पञ्चेन्द्रियाणां सामान्यवत् । अयं तु विशेषः मिथ्यादृष्टयोऽसंख्येयगुणाः । कायानुवादेन स्थावरकायेषु गुणस्थानभेदाभावादल्पबहुत्वाभावः । त्रसकायि- कानां पञ्चेन्द्रियवत् । योगानुवादेन वाङ्मनसयोगिनां पञ्चेन्द्रियवत् । काययोगिनां सामान्यवत् । १०वेदानुवादेन स्त्रीपुंवेदानां पञ्चेन्द्रियवत् । नपुंसकवेदानामवेदानां च सामान्यवत् । ९०कषायानुवादेन क्रोधमानमायाकषायाणां पुंवेदवत् । अयं तु विशेषः मिथ्या- दृष्टयोऽनन्तगुणाः । लोभकषायाणां द्वयोरुपशमकयोस्तुल्या संख्या । क्षपकाः संख्येय- गुणाः । सूक्ष्मसाम्परायशुध्द्युपशमकसंयता विशेषाधिकाः । सूक्ष्मसाम्परायक्षपकाः संख्येय- गुणाः । शेषाणां सामान्यवत् । ०५ज्ञानानुवादेन मत्यज्ञानिश्रुताज्ञानिषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । मिथ्यादृष्टयोऽनन्तगुणाः । विभंगज्ञानिषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । मिथ्यादृष्टयोऽसंख्येयगुणः । मतिश्रुतावधिज्ञानिषु सर्वतः स्तोकाश्चत्वार उपशमकाश्चत्वारः क्षपकाः संख्येयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संयता- संयताः असंख्येयगुणाः । असंयतसम्यग्दृष्टयः असंख्येयगुणाः । मनःपर्ययज्ञानिषु सर्वतः १०स्तोकाश्चत्वार उपशमकाः । चत्वारः क्षपकाः संख्येयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । केवलज्ञानिषु अयोगकेवलिभ्यः सयोगकेवलिनः संख्येयगुणाः । संयमानुवादेन सामायिकच्छेदोपस्थापनशुद्धिसंयतेषु द्वयोरुपशमकयोस्तुल्या संख्या । ९१ततः संख्येयगुणौ क्षपकौ । अप्रमत्ताः संख्येयगुणाः । प्रमत्ताः संख्येयगुणाः । परिहारशुद्धिसंय- तेषु अप्रमत्तेभ्यः प्रमत्ताः संख्येयगुणाः । सूक्ष्मसाम्परायशुद्धिसंयतेषु उपशमकेभ्यः क्षपकाः संख्येयगुणाः । यथाख्यातविहारशुद्धिसंयतेषु उपशान्तकषायेभ्यः क्षीणकषायाः संख्येय- गुणाः । अयोगकेवलिनस्तावन्त एव । सयोगकेवलिनः संख्येयगुणाः । संयतासंयतानां ०५नास्त्यल्पबहुत्वम् । असंयतेषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । सम्यङ्मिथ्यादृष्टयः संख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः । दर्शनानुवादेन चक्षुर्दर्शनिनां मनोयोगिवत् । अचक्षुर्दर्शनिनां काययोगिवत् । अवधिदर्शनिनामवधिज्ञानिवत् । केवलदर्शनिनां केवलज्ञानिवत् । लेश्यानुवादेन कृष्णनीलकपोतलेश्यानां असंयतवत् । तेजःपद्मलेश्यानां सर्वंतः १०स्तोका अप्रमत्ताः । प्रमत्ताः संख्येयगुणाः । एवमितरेषां पञ्चेन्द्रियवत् । शुक्ललेश्यानां सर्वतः स्तोका उपशमकाः । क्षपकाः संख्येयगुणाः । सयोगकेवलिनः संख्येयगुणाः । अप्रमत्तसंयताः संख्येयगुणाः । प्रमत्तसंयताः संख्येयगुणाः । संयतासंयताः असंख्येय- ९२गुणाः । सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः । सम्यग्मिथ्यादृष्टयः संख्येयगुणाः । मिथ्या- दृष्टयोऽसंख्येगुणाः । असंयतसम्यग्दृष्टयः संख्येयगुणाः । भव्यानुवादेन भव्यानां सामान्यवत् । अभव्यानां नास्त्यल्पबहुत्वम् । सम्यक्त्वानुवादेन क्षायिकसम्यग्दृष्टिषु सर्वतः स्तोकाश्चत्वार उपशमकाः । ०५इतरेषां प्रमत्तान्तानां सामान्यवत् । ततः संयतासंयताः संख्येयगुणाः । असंयतसम्यग्दृष्ट- योऽसंख्येयगुणाः । क्षायोपशमिकसम्यग्दृष्टिषु सर्वतः स्तोका अप्रमत्ताः । प्रमत्ताः संख्येय- गुणाः । संयतासंयताः असंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । औपशमिक- सम्यग्दृष्टीनां सर्वतः स्तोकाश्चत्वार उपशमकाः । अप्रमत्ताः संख्येयगुणाः । प्रमत्ताः संख्येयगुणाः । संयतासंयताः असंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । शेषाणां १०नास्त्यल्पबहुत्वम् । सञ्ज्ञानुवादेन संज्ञिनां चक्षुर्दर्शनिवत् । असंज्ञिनां नास्त्यल्पबहुत्वम् । तदुभय- व्यपदेशरहितानां केवलज्ञानिवत् । ९३आहारानुवादेन आहारकाणां काययोगिवत् । अनाहारकाणां सर्वतः स्तोकाः सयोगकेवलिनः । अयोगकेवलिनः संख्येयगुणाः । सासादनसम्यग्दृष्टयोऽसंख्येयगुणाः । असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः । एवं मिथ्यादृष्ट्यादीनां गत्यादिषु मार्गणा कृता सामान्येन । तत्रसूक्ष्मभेद ०५आगमाविरोधेनानुसर्तव्यः । एवं सम्यग्दर्शनस्यादावुद्दिष्टस्य लक्षणोत्पत्तिस्वामिविषयन्यासाधिगमोपाया निर्दिष्टाः । तत्सम्बन्धेन च जीवादीनां सञ्ज्ञापरिमाणादि निर्दिष्टम् । तदनन्तरं सम्यग्- ज्ञानं विचारार्हमित्याह — मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९ ॥ १०ज्ञानशब्दः प्रत्येकं परिसमाप्यते । मतिज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानमिति । इन्द्रियैर्मनसा च यथास्वमर्थोमन्यते अनया मनुते मननमात्रं वा मतिः । ९४तदावरणकर्मक्षयोपशमे सति निरूप्यमाणं श्रूयते अनेन तत् शृणोति श्रवणमात्रं वा श्रुतम् । अनयोः प्रत्यासन्ननिर्देशः कृतः कार्यकारणभावात् । तथा च वक्ष्यते ’श्रुतं मतिपूर्वम्’ इति । अवाग्धानादवच्छिन्नविषयाद्वा अवधिः । परकीयमनोगतोऽर्थो मन इत्युच्यते । साहचर्यात्तस्य पर्ययणं परिगमनं मनःपर्ययः । मतिज्ञानप्रसङ्ग इति चेत्; न; ०५अपेक्षामात्रत्वात् । क्षयोपशमशक्तिमात्रविजृम्भितं हि तत्केवलं स्वपरमनोभिर्व्यपदिश्यते । यथा अभ्रे चन्द्रमसं पश्येति । बाह्येनाभ्यन्तरेण च तपसा यदर्थमर्थिनो मार्गं केवन्ते सेवन्ते तत्केवलम् । असहायमिति वा । ९५तदन्ते प्राप्यते इति अन्ते क्रियते । तस्य प्रत्यासन्नत्वात्तत्समीपे मनःपर्ययग्रहणम् । कुतः प्रत्यासत्तिः । संयमैकाधिकरणत्वात् । तस्य अवधिर्विप्रकृष्टः । कुतः ? विप्रकृष्टांत- रत्वात् । प्रत्यक्षात्परोक्षं पूर्वमुक्तं सुगमत्वात् । श्रुतपरिचितानुभूता हि मतिश्रुतपद्धतिः सर्वेण प्राणिगणेन प्रायः प्राप्यते यतः । एवमेतत्पञ्चविधं ज्ञानम् । तद्भेदादयश्च पुरस्ताद्वक्ष्यन्ते ०५’प्रमाणनयैरधिगमः’ इत्युक्तम् । प्रमाणं च केषाञ्चित् ज्ञानमभिमतम् । केषा- ९६ञ्चित् सन्निकर्षः । केषाञ्चिदिन्द्रियमिति । अतोऽधिकृतानामेव मत्यादीनां प्रमाणत्वख्यापनार्थमाह — तत्प्रमाणे ॥ १० ॥ तद्वचनं किमर्थम् ? प्रमाणान्तरपरिकल्पनानिवृत्त्यर्थम् । सन्निकर्षः प्रमाणमिन्द्रियं ०५प्रमाणमिति केचित्कल्पयन्ति तन्निवृत्त्यर्थं तदित्युच्यते । तदेव मत्यादि प्रमाणं नान्यदिति । अथ सन्निकर्षे प्रमाणे सति इन्द्रिये वा को दोषः ? यदि सन्निकर्षः प्रमाणम्; सूक्ष्मव्यवहितविप्रकृष्टानामर्थानामग्रहणप्रसङ्गः । न हि ते इन्द्रियैः सन्निकृष्यन्ते । अतः सर्वज्ञत्वाभावः स्यात् । इन्द्रियमपि यदि प्रमाणं स एव दोषः; अल्पविषयत्वात् १०चक्षुरादीनां ज्ञेयस्य चापरिमाणत्वात् । सर्वेन्द्रियसन्निकर्षाभावश्च; चक्षुर्मनसोः प्राप्यकारित्वाभावात् । अप्राप्यकारित्वं च उत्तरत्न वक्ष्यते । ९७यदि ज्ञानं प्रमाणं फलाभावः । अधिगमो हि फलमिष्टं न भावान्तरम् । स चेत्प्रमाणं, न तस्यान्यत्फलं भवितुमर्हति । फलवता च प्रमाणेन भवितव्यम् । सन्निकर्षे इन्द्रिये वा प्रमाणे सति अधिगमः फलमर्थान्तरभूतं युज्यते इति ? तदयुक्तम् । यदि सन्निकर्षः प्रमाणं अर्थाधिगमः फलं, तस्य द्विष्ठत्वात्तत्फलेनाधिगमेनापि द्विष्ठेन ०५भवितव्यमिति अर्थादीनामप्यधिगमः प्राप्नोति । आत्मनश्चेतनत्वात्तत्रैव समवाय इति चेत् ? न; ज्ञस्वभावाभावे सर्वेषामचेतनत्वात् । ज्ञस्वभावाभ्युपगमे वा आत्मनः स्वमतविरोधः स्यात् । ननु चोक्तं ज्ञाने प्रमाणे सति फलाभावः इति ? नैष दोषः; अर्थाधिगमे प्रीतिदर्शनात् । ज्ञस्वभावस्यात्मनः कर्ममलीमसस्य करणालम्बनादर्थनिश्चये प्रीतिरु- १०पजायते । सा फलमित्युच्यते । उपेक्षा अज्ञाननाशो वा फलम् । रागद्वेषयोरप्रणिधा- ९८नमुपेक्षा । अन्धकारकल्पाज्ञाननाशो वा फलमित्युच्यते । प्रमिणोति प्रमीयतेऽनेन प्रमितिमात्रं वा प्रमाणम् । किमनेन प्रमीयते ? जीवादिरथंḥ । यदि जीवादेरधिगमे प्रमाणं प्रमाणाधिगमे च अन्यत्प्रमाणं परिकल्पयि- तव्यम् । तथा सत्यनवस्था ? नानवस्था प्रदीपवत् । यथा घटादीनां प्रकाशने प्रदीपो ०५हेतुः स्वस्वरूपप्रकाशनेऽपि स एव, न प्रकाशान्तरं मृग्यं तथा प्रमाणमपीति अवश्यं चैतदभ्युपगन्तव्यम् । प्रमेयवत्प्रमाणस्य प्रमाणान्तरपरिकल्पनायां स्वाधिगमाभावात् स्मृत्यभावः । तदभावाद् व्यवहारलोपः स्यात् । वक्ष्यमाणभेदापेक्षया द्विवचननिर्देशः । वक्ष्यते हि ’आद्ये परोक्षम्, प्रत्यक्षमन्यद्’ इति स च द्विवचननिर्देशः प्रमाणान्तरसंख्यानिवृत्त्यर्थः । १००उक्तस्य पञ्चविधस्य ज्ञानस्य प्रमाणद्वयान्तःपातित्वे प्रतिपादिते प्रत्यक्षानुमा- नादिप्रमाणद्वयकल्पनानिवृत्त्यर्थमाह — १०१आद्ये परोक्षम् ॥ ११ ॥ आदिशब्दः प्राथम्यवचनः । आदौ भवमाद्यम् । कथं द्वयोः प्रथमत्वं ? मुख्यो- पचारकल्पनया । मतिज्ञानं तावन्मुख्यकल्पनया प्रथमम् । श्रुतमपि तस्य प्रत्यासत्त्या प्रथममित्युपचर्यते । द्विवचननिर्देशसामर्थ्याद्गौणस्यापि ग्रहणम् । आद्यं च आद्यं आद्ये मतिश्रुते ०५इत्यर्थः । तदुभयमपि परोक्षं प्रमाणमित्यभिसम्बध्यते । कुतोऽस्य परोक्षत्वम् ? परायत्तत्वात् ’मतिज्ञानं इन्द्रियानिन्द्रियनिमित्तम्’इति वक्ष्यते’श्रुतमनिन्द्रियस्य’ इति च । अतः पराणी- न्द्रियाणि मनश्च प्रकाशोपदेशादि च बाह्यनिमित्तं प्रतीत्य तदावरणकर्मक्षयोपशमापेक्षस्या- त्मनो मतिश्रुतं उत्पद्यमानं परोक्षमित्याख्यायते । अत उपमानागमादीनामत्रैवान्तर्भावः । १०२अभिहितलक्षणात्परोक्षादितरस्य सर्वस्य प्रत्यक्षत्वप्रतिपादनार्थमाह — प्रत्यक्षमन्यत् ॥ १२ ॥ १०३अक्ष्णोति व्याप्नोति जानातीत्यक्ष आत्मा । तमेव प्राप्तक्षयोपशमं प्रक्षीणावरणं वा प्रति नियतं प्रत्यक्षम् । अवधिदर्शनं केवलदर्शनमपि अक्षमेव प्रति नियतमतस्तस्यापि ग्रहणं प्राप्नोति ? नैष दोषः; ज्ञानमित्यनुवर्तते, तेन दर्शनस्य व्युदासः । एवमपि विभङ्गज्ञानमक्षमेव प्रति नियतमतोऽस्यापि ग्रहणं प्राप्नोति ? सम्यगित्यधिकारात् तन्निवृत्तिः । सम्यगित्य- ०५नुवर्तते तेन ज्ञानं विशिष्यते ततो विभङ्गज्ञानस्य निवृत्तिः कृता । तद्धि मिथ्यादर्शनोद- याद्विपरीतार्थविषयमिति न सम्यक् । स्यान्मतमिन्द्रियव्यापारजनितं ज्ञानं प्रत्यक्षं व्यतीतेन्द्रियविषयव्यापारं परोक्ष- मित्येतदविसंवादि लक्षणमभ्युपगन्तव्यमिति ? तदयुक्तम्, आप्तस्य प्रत्यक्षज्ञानाभावप्रसङ्गात् । १०४यदि इन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षमिष्यते एवं सति आप्तस्य प्रत्यक्षज्ञानं न स्यात् । न हि तस्येन्द्रियपूर्वोऽर्थाधिगमः । अथ तस्यापि करणपूर्वकमेव ज्ञानं कल्प्यते, तस्यासर्वज्ञत्वं स्यात् । तस्य मानसं प्रत्यक्षमिति चेत्; मनःप्रणिधानपूर्वकत्वात्ज्ञानस्य सर्वज्ञत्वाभाव एव । आगमतस्तत्सिद्धिरिति चेत् ? न; तस्य प्रत्यक्षज्ञानपूर्वकत्वात् । ०५योगिप्रत्यक्षमन्यज्ज्ञानं दिव्यमप्यस्तीति चेत् ? न तस्य प्रत्यक्षत्वं; इन्द्रियनिमि- त्तत्वाभावात्; अक्षमक्षं प्रति यद्वर्तते तत्प्रत्यक्षमित्यभ्युपगमात् । किञ्च सर्वज्ञत्वाभावः प्रतिज्ञाहानिर्वा । अस्य योगिनो यज्ज्ञानं तत्प्रत्यर्थवशवर्ति वा स्यात् अनेकार्थग्राहि वा ? यदि प्रत्यर्थवशवर्ति सर्वज्ञत्वमस्य नास्ति योगिनः, ज्ञेयस्यानन्त्यात् । अथानेकार्थग्राहि या प्रतिज्ञा १०५’विजानाति न विज्ञानमेकमर्थद्वयं यथा । एकमर्थं विजानाति न विज्ञानद्वयं तथा ॥ ’ सा हीयते । अथवा ’क्षणिकाः सर्वसंकाराः’ इति प्रतिज्ञा हीयते; अनेकक्षणवृत्त्येकविज्ञा- ०५नाभ्युपगमात् । अनेकार्थग्रहणं हि क्रमेणेति । युगपदेवेति चेत् ? योऽस्य जन्मक्षणः स आत्मलाभार्थ एव । लब्धात्मलाभं हि किञ्चित्स्वकार्यं प्रति व्याप्रियते । प्रदीपवदिति चेत् ? तस्याप्यनेकक्षणविषयतायां सत्यामेव प्रकाश्यप्रकाशनाभ्युपगमात् । विकल्पाती- तत्वात्तस्य शून्यताप्रसङ्गश्च । १०६अभिहितोभयप्रकारस्य प्रमाणस्य आदिप्रकारविशेषप्रतिपत्त्यर्थमाह — मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥ १३ ॥ āदौ उद्दिष्टं यज्ज्ञानं तस्य पर्यायशब्दा एते वेदितव्याः; मतिज्ञानावरणक्षयोप- शमान्तरङ्गनिमित्तजनितोपयोगविषयत्वादेतेषां श्रुतादिष्वप्रवृत्तेश्च । मननं मतिः स्मरणं ०५स्मृतिः सञ्ज्ञानं सञ्ज्ञा चिन्तनं चिन्ता अभिनिबोधनमभिनिबोध इति । यथासम्भवं विग्रहान्तरं विज्ञेयम् । १०७सत्यपि प्रकृतिभेदे रूढिबललाभात् पर्यायशब्दत्वम् । यथा इन्द्रः शक्रः पुरन्दर इति इन्दनादिक्रियाभेदेऽपि शचीपतेरेकस्यैव संज्ञा । समभिरूढनयापेक्षया तेषामर्थान्तर- कल्पनायां मत्यादिष्वपि स क्रमो विद्यत एव । किं तु मतिज्ञानावरणक्षयोपशमनिमित्तो- पयोगं नातिवर्तन्त इति अयमत्रार्थो विवक्षितः । ‘इति’शब्दः प्रकारार्थः । एवंप्रकारा अस्य ०५पर्यायशब्दा इति । अभिधेयार्थो वा । मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध इत्येतैर्यो- ऽर्थोऽभिधीयते स एक एव इति । १०८अथास्यात्मलाभे किं निमित्तमित्यत आह — तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥ इन्दतीति इन्द्र आत्मा । तस्य ज्ञस्वभावस्य तदावरणक्षयोपशमे सति स्वयमर्थान् गृहीतुमसमर्थस्य यदर्थोपलब्धिलिङ्गं तदिन्द्रस्य लिङ्गमिन्द्रियमित्युच्यते । अथवा लीनमर्थं ०५गमयतीति लिङ्गम् । आत्मनः सूक्ष्मस्यास्तित्वाधिगमे लिङ्गमिन्द्रियम् । यथा इह धूमोऽग्नेः । एवमिदं स्पर्शनादि करणं नासति कर्तर्यात्मनि भवितुमर्हतीति ज्ञातुरस्तित्वं १०९गम्यते । अथवा इन्द्र इति नामकर्मोच्यते । तेन सृष्टमिन्द्रियमिति । तत्स्पर्शनादि उत्तरत्र वक्ष्यते । अनिन्द्रियं मनः अन्तःकरणमित्यनर्थान्तरम् । कथं पुनरिन्द्रियप्रतिषेधेन इन्द्रलिङ्गे एव मनसि अनिन्द्रियशब्दस्य वृत्तिः ? ईषदर्थस्य नञः प्रयोगात् । ईषदिन्द्रियमनिन्द्रय- ०५मिति । यथा अनुदरा कन्या इति । कथमीषदर्थः ? । इमानीन्द्रियाणि प्रतिनियतदेश- विषयाणि कालान्तरावरथायीनि च । न तथा मनः इन्द्रस्य लिङ्गमपि सत्प्रतिनियतदेश- विषयं कालान्तरावस्थायि च । तदन्तःकरणमिति चोच्यते । गुणदोषविचारस्मरणादिव्यापारे इन्द्रियानपेक्षत्वा- ११०च्चक्षुरादिवद् बहिरनुपलब्धेश्च अन्तर्गतं करणमन्तःकरणमित्युच्यते । तदिति किमर्थम् ? । मतिज्ञाननिर्देशार्थम् । ननु च तदनन्तरं ‘अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा’ इति तस्यैव ग्रहणं भवति ? इहार्थमुत्तरार्थं च तदित्युच्यते । यन्मत्यादिपर्यायशब्दवाच्यं ज्ञानं तदिन्द्रियानिन्द्रियनिमित्तं तदेवावग्रहेहावायधारणा इति । ०५इतरथा हि प्रथमं मत्यादिशब्दवाच्यं ज्ञानमित्युक्त्वा इन्द्रियानिन्द्रियनिमित्तं श्रुतम् । तदेवावग्रहेहावायधारणा इत्यनिष्टमभिसम्बध्येत । १११एवं निर्ज्ञातोत्पत्तिनिमित्तमनिर्णीतभेदमिति तद्भेदप्रतिपत्त्यर्थमाह — अवग्रहेहावायधारणाः ॥ १५ ॥ विषयविषयिसन्निपातसमनन्तरमाद्यं ग्रहणमवग्रहः । विषयविषयिसन्निपाते सति दर्शनं भवति । तदनन्तरमर्थग्रहणमवग्रहः । यथा — चक्षुषा शुक्लं रूपमिति ग्रहणम- ०५वग्रहः । अवग्रहगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा । यथा — शुक्लं रूपं किं बलाका पताका वेति । विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । उत्पतननिपतनपक्षविक्षेपादिभिर्ब- लाकैवेयं न पताकेति । अवेतस्य कालान्तरेऽविस्मरणकारणं धारणा । यथा — सैवेयं ११२बलाका पूर्वाह्वे यामहमद्राक्षमिति । एषामवग्रहादीनामुपन्यासक्रम उत्पत्तिक्रमकृतः । उक्तानामवग्रहादीनां प्रभेदप्रतिपत्यर्थमाह — बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥ अवग्रहादयः क्रियाविशेषाः प्रकृताः । तदपेक्षोऽयं कर्मनिर्देशः । बह्वादीनां ०५सेतराणामिति । बहुशब्दस्य संख्यावैपुल्यवाचिनो ग्रहणमविशेषात् । संख्यवाची यथा, एको द्वौ बहव इति । वैपुल्यवाची यथा, बहुरोदनो बहुः सूप इति । विधशब्दः प्रकार- वाची । क्षिप्रग्रहणमचिरप्रतिपत्त्यर्थम् । अनिःसृतग्रहणं असकलपुद्गलोद्गमार्थम् । ११३अनुक्तमभिप्रायेण ग्रहणम् । ध्रुवं निरन्तरं यथार्थग्रहणम् । सेतरग्रहणं प्रतिपक्षसंग्रहार्थम् । बहूनामवग्रहः अल्पस्यावग्रहः बहुविधस्यावग्रहः एकविधस्यावग्रहः क्षिप्रमवग्रहः चिरेणावग्रहः अनिःसृतस्यावग्रहः निःसृतस्यावग्रहः अनुक्तस्यावग्रहः उक्तस्याव- ग्रहः ध्रुवस्यावग्रहः अध्रुवस्यावग्रहश्चेति अवग्रहो द्वादशविकल्पः । एवमीहादयोऽपि । त ०५एते पञ्चभिरिन्द्रियद्वारैर्मनसा च प्रत्येकं प्रादुर्भाव्यन्ते । तत्र बह्ववग्रहादयः मतिज्ञाना- वरणक्षयोपशमप्रकर्षात् प्रभवन्ति नेतरे इति । तेषामभ्यर्हितत्वादादौ ग्रहणं क्रियते । बहुबहुविधयोः कः प्रतिविशेषः; यावता बहुष्वपि बहुत्वमस्ति बहुविधेष्वपि बहुत्वमस्ति; एकप्रकारनानाप्रकारकृतो विशेषः । उक्तनिःसृतयोः कः प्रतिविशेषः; यावता सकलनिःसरणान्निःसृतम् । उक्तमप्येवंविधमेव ? अयमस्ति विशेषः, अन्योपदेश- ११४पूर्वकं ग्रहणमुक्तम् । स्वत एव ग्रहणं निःसृतम् । अपरेषां क्षिप्रनिःसृत इति पाठः । त एवं वर्णयन्ति श्रोत्रेन्द्रियेण शब्दमवगृ- ह्यमाणं मयूरस्य वा कुररस्य वेति कश्चित्प्रतिपद्यते । अपरःस्वरूपमेवा श्रित्य इति । ध्रुवावग्रहस्य धारणायाश्च कः प्रतिविशेषः ? उच्यते, क्षयोपशमप्राप्तिकाले ०५विशुद्धपरिणामसन्तत्या प्राप्तात्क्षयोपशमात्प्रथमसपये यथावग्रहस्तथैव द्वितीयादिष्वपि समयेषु नोनोनाभ्यधिक इति ध्रुवावग्रह इत्युच्यते । यदा पुनर्विशुद्धपरिणामस्य संक्लेश- परिणामस्य च मिश्रणात्क्षयोपशमो भवति तत उत्पद्यमानोऽवग्रहः कदाचिद् बहूनां कदा- चिदल्पस्य कदाचिद् बहुविधस्य कदाचिदेकविधस्य वेति न्यूनाधिकभावादऽध्रुवावग्रह इत्युच्यते । धारणा पुनर्गृहीतार्थाविस्मरणकारणमिति महदनयोरन्तरम् । ११५यद्यवग्रहादयो बह्वादीनां कर्मणामाक्षेप्तारः, बह्वादीनि पुनर्विशेषणानि कस्ये- त्यत आह — अर्थस्य ॥ १७ ॥ चक्षुरादिविषयोऽर्थः । तस्य बह्वादिविशेषणविशिष्टस्य अवग्रहादयो भवन्तीत्य- ०५भिसम्बन्धः क्रियते । किमर्थमिदमुच्यते यावता बह्वादिरर्थ एव ? सत्यमेवं किन्तु प्रवादिप- रिकल्पनानिवृत्त्यर्थं ‘अर्थस्य’ इत्युच्यते । केचित्प्रवादिनो मन्यन्ते रूपादयो गुणा एव इन्द्रियैः सन्निकृष्यन्ते तेनेतेषामेव ग्रहणमिति ? तदयुक्तम्; न हि ते रूपादयो गुणा अमूर्ता इन्द्रि- ११६यसन्निकर्षमापद्यन्ते । न तर्हि इदानीमिदं भवति रूपं मया दृष्टं गन्धो वा घ्रात इति । भवति च । कथं ? इयर्ति पर्यायांस्तैर्वाऽर्यत इत्यर्थो द्रव्यं तस्मिन्निन्द्रियैः सन्निकृष्यमाणे तदव्यतिरेकाद्रूपादिष्वपि संव्यवहारो युज्यते । किमिमे अवग्रहादयः सर्वस्येन्द्रियानिन्द्रियस्य भवन्ति उत कश्चिद्विषयविशेषोऽ- ०५स्तीत्यत आह — व्यञ्जनस्यावग्रहः ॥ १८ ॥ व्यञ्जनमव्यक्तं शब्दादिजातं तस्यावग्रहो भवति नेहादयः । किमर्थमिदं ? नियमार्थम्, अवग्रह एव नेहादय इति । स तर्हि एवकारः कर्तव्यः ? न कर्तव्यः । ‘सिद्धे ११७विधिरारभ्यमाणो नियमार्थः इति अन्तरेणैवकारं नियमार्थो भविष्यति । ननु अवग्रह- ग्रहणमुभयत्र तुल्यं तत्त्र किं कृतोऽयं विशेषः ? अर्थावग्रहव्यञ्जनावग्रहयोर्व्यक्ताव्यक्तकृतो विशेषः । कथम् ? अभिनवशरावार्द्रीकरणवत् । यथा जलकणद्वित्रासिक्तः सरावोऽभिनवो नार्द्रीभवति, स एव पुनःपुनः सिच्यमानः शनैस्तिम्यति एवं श्रोत्रादिष्विन्द्रियेषु शब्दा- ०५दिपरिणताः पुद्गला द्वित्रादिषु समयेषु गृह्यमाणा न व्यक्तीभवन्ति, पुनःपुनरवग्रहे सति व्यक्तीभवन्ति । अतो व्यक्तग्रहणात्प्राग्व्यञ्जनावग्रहः व्यक्तग्रहणमर्थावग्रहः । ततोऽव्यक्तावग्रहणादीहादयो न भवन्ति । ११८सर्वेन्द्रियाणामविशेषेण व्यञ्जनावग्रहप्रसङ्गे यत्रासम्भवस्तदर्थप्रतिषेधमाह — न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ चक्षुषा अनिन्द्रियेण च व्यञ्जनावग्रहो न भवति । कुतः ? अप्राप्यकारित्वात् । यतोऽप्राप्तमर्थमविदिक्कं युक्तं सन्निकर्षविषयेऽवस्थितं बाह्यप्रकाशाभिव्यक्तमुपलभते ०५चक्षुः मनश्चाप्राप्तमित्यनयोर्व्यञ्जनावग्रहो नास्ति । चक्षुषोऽप्राप्यकारित्वं कथमध्यवसीयते ? आगमतो युक्तितश्च । आग- मतस्तावत् — ’पुट्ठं सुणेदि सद्दं अपुट्ठं चेव पस्सदे रूअं । गंधं रसं च फासं पुट्ठमपुट्ठं वियाणादि ॥ ’ ११९युक्तितश्च — अप्राप्यकारि चक्षुः; स्पृष्टानवग्रहात् । यदि प्राप्यकारि स्यात् त्वगि- न्द्रियवत् स्पृष्टमञ्जनं गृह्णीयात् न तु गृह्णात्यतो मनोवदप्राप्यकारीत्यवसेयम् । ततश्चक्षुर्मनसी वर्जयित्वा शेषाणामिन्द्रियाणां व्यञ्जनावग्रहः । सर्वेषामिन्द्रिया- निन्द्रियाणामर्थावग्रह इति सिद्धं । १२०आह निर्दिष्टं मतिज्ञानं लक्षणतो विकल्पतश्च; तदनन्तरमुद्दिष्टं यत् श्रुतं तस्येदानीं लक्षणं विकल्पश्च वक्तव्य इत्यत आह — श्रुतं मतिपूर्वं द्व्यनेकद्वादशभेदम् ॥ २० ॥ श्रुतशब्दोऽयं श्रवणमुपादय व्युत्पादितोऽपि रूढिवशात् कस्मिंश्चिज्ज्ञानविशेषे ०५वर्तते । यथा कुशलवनकर्म प्रतीत्यव्युत्पादितोऽपि कुशलशब्दो रूढिवशात्पर्यवदातेवर्तते । कः पुनरसौ ज्ञानविशेष इति अत आह ‘श्रुतं मतिपूर्वम्’ इति । श्रुतस्य प्रमाणत्वं पूरयतीति पूर्वं निमित्तं कारणमित्यनर्थान्तरम् । मतिर्निर्दिष्टा । मतिः पूर्वमस्य मतिपूर्वं मतिकारणमित्यर्थः । यदि मतिपूर्वं श्रुतं तदपि मत्यात्मकं प्राप्नोति ‘कारणसदृशं हि लोके कार्यं दृष्टम् इति । नैतदैकान्तिकम् । दण्डादिकारणोऽयं घटो न दण्डाद्यात्मकः । अपि १२१च सति तस्मिंस्तदभावात् । सत्यपि मतिज्ञाने बाह्यश्रुतज्ञाननिमित्तसन्निधानेऽपि प्रबलश्रुतावरणोदयस्य श्रुताभावः । श्रुतावरणक्षयोपशमप्रकर्षे तु सति श्रुतज्ञानमुत्पद्यत इति मतिज्ञानं निमित्तमात्रं ज्ञेयम् । आह, श्रुतमनादिनिधनमिष्यते । तस्य मतिपूर्वकत्वे तदभावः; आदिमतोऽन्त- ०५वत्त्वात् । ततश्च पुरुषकृतित्वादप्रामाण्यमिति ? नैष दोषः; द्रव्यादिसामान्यार्पणात् श्रुतमनादिनिधनमिष्यते । न हि केनचित्पुरुषेण क्वचित्कदाचित्कथञ्चिदुत्प्रेक्षितमिति । तेषामेव विशेषापेक्षया आदिरन्तश्च सम्भवतीति ‘मतिपूर्वम्’इत्युच्यते । यथाङ्कुरो बीज- पूर्वकः स च सन्तानापेक्षया अनादिनिधन इति । न चापौरुषेयत्वं प्रामाण्यकारणम्; चौर्याद्युपदेशस्यास्मर्यमाणकर्तृ कस्य प्रामाण्यप्रसङ्गात् । अनित्यस्य च प्रत्यक्षादेः प्रामाण्ये १०को विरोधः । १२२आह, प्रथमसम्यक्त्वोत्पत्तौ युगपज्ज्ञानपरिणामान्मतिपूर्वकत्वं श्रुतस्य नोपपद्यत इति ? तदयुक्तम्; सम्यक्त्वस्य तदपेक्षत्वात् । आत्मलाभस्तु क्रमवानिति मतिपूर्वकत्व- व्याघाताभावः । आह, मतिपूर्वं श्रुतमित्येतल्लक्षणमव्यापि श्रुतपूर्वमपि श्रुतमिष्यते । तद्यथा — ०५शब्दपरिणतपुद्गलस्कन्धादाहितवर्णपदवाक्यादिभावाच्चक्षुरादिविषयाच्च आद्यश्रुतविषय- भावमापन्नादव्यभिचारिणः कृतसंगीतिर्जनो घटाज्जलधारणादि कार्यं सम्बन्ध्यन्तरं प्रतिपद्यते, धूमादेर्वाग्न्यादिद्रव्यं, तदा श्रुतात् श्रुतप्रतिपत्तिरिति ? नैष दोषः; तस्यापि मतिपूर्वकत्वमुपचारतः । श्रुतमपि क्वचिन्मतिरित्युपचर्यते मतिपूर्वकत्वादिति । १२३भेदशब्दः प्रत्येकं परिसमाप्यते-द्विभेदमनेकभेदं द्वादशभेदमिति । द्विभेदं तावत् — अङ्गबाह्यमङ्गप्रविष्टमिति । अङ्गबाह्यमनेकविधं दशवैकालिकोत्तराध्य- यनादि । अङ्गप्रविष्टं द्वादशविधम् । तद्यथा, आचारः सूत्रकृतं स्थानं समवायः व्याख्याप्रज्ञप्तिः ज्ञातृधर्मकथा उपासकाध्ययनं अन्तकृद्दशं अनुत्तरौपपादिकदशं ०५प्रश्नव्याकरणं विपाकसूत्रं दृष्टिवाद इति । दृष्टिवादः पञ्चविधः — परिकर्म सूत्रं प्रथमानुयोगः पूर्वगतं चूलिका चेति । तत्र पूर्वगतं चतुर्दशविधम् — उत्पादपूर्वं आग्रायणीयं वीर्यानुप्रवादं अस्तिनास्तिप्रवादं ज्ञानप्रवादं सत्यप्रवादं आत्मप्रवादं कर्मप्रवादं प्रत्याख्या- ननामधेयं विद्यानुप्रवादं कल्याणनामधेयं प्राणावायं क्रियाविशालं लोकबिन्दुसारमिति । तदेतत् श्रुतं द्विभेदमनेकभेदं द्वादशभेदमिति । १०किंकृतोऽयं विशेषः ? वक्तृविशषकृतः । त्रयो वक्तारः — सर्वज्ञस्तीर्थकर इतरो वा श्रुतकेवली आरातीयश्चेति । तत्र सर्वज्ञेन परमर्षिणा परमाचिन्त्यकेवलज्ञानविभूति- विशेषेण अर्थत आगम उद्दिष्टः । तस्य प्रत्यक्षदर्शित्वात्प्रक्षीणदोषत्वाच्च प्रामाण्यम् । तस्य साक्षाच्छिष्यैर्बुद्ध्यतिशयर्द्धियुक्तैर्गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ्गपूर्व- १२४लक्षणम् । तत्प्रमाणम्; तत्प्रामाण्यात् । आरातीयैः पुनराचार्यैः कालदोषात्त्संक्षिप्तायु- र्मतिबलशिष्यानुग्रहार्थं दशवैकालिकाद्युपनिबद्धम् । तत्प्रमाणमर्थतस्तदेवेदमिति क्षीरार्णवजलं घटगृहीतमिव । १२५व्याख्यातं परोक्षम् । प्रत्यक्षमिदानीं वक्तव्यम् । तद् द्वेधा — देशप्रत्यक्षं सर्वप्रत्यक्षं च । देशप्रत्यक्षमवधिमनःपर्ययज्ञाने । सर्वप्रत्यक्षं केवलम् । यद्येवमिदमेव तावदवधिज्ञानं त्रिःप्रकारस्य प्रत्यक्षस्याद्यं व्याक्रियतामित्यत्रोच्यते — द्विविधोऽवधिर्भवप्रत्ययः क्षयोपशम- निमित्तश्चेति । तत्र भवप्रत्यय उच्यते — ०५भवप्रत्ययोऽवधिर्देवनारकाणाम् ॥ २१ ॥ भव इत्युच्यते । को भवः ? आयुर्नामकर्मोदयनिमित्त आत्मनः पर्यायो भवः । प्रत्ययः कारणं निमित्तमित्यनर्थान्तरम् । भवः प्रत्ययोऽस्य भवप्रत्ययोऽवधिर्देवनारकाणां वेदितव्यः । यद्येवं तत्र क्षयोपशमनिमित्तत्वं न प्राप्नोति ? नैष दोष; तदाश्रया- त्तत्सिद्धेः । भवं प्रतीत्य क्षयोपशमः संज्ञायत इति कृत्वा भवः प्रधानकारणमित्युपदिश्यते । १०यथा पतत्रिणो गमनमाकाशे भवनिमित्तम्, न शिक्षागुणविशेषः तथा देवनारकाणां १२६व्रतनियमाद्यभावेऽपि जायत ‘इति भवप्रत्ययः’इत्युच्यते । इतरथा हि भवः साधारण इति कृत्वा सर्वेषामविशेषः स्यात् । इष्यते च तत्रावधेः प्रकर्षाप्रकर्षवृत्तिः । ‘देव- नारकाणाम्’इत्यविशेषाभिधानेऽपि सम्यग्दृष्टीनामेव ग्रहणम् । कुतः ? अवधिग्रहणात् । मिथ्यादृष्टीनां च विभङ्ग इत्युच्यते । प्रकर्षाप्रकर्षवृत्तिश्च आगमतो विज्ञेया । ०५यदि भवप्रत्ययोऽवधिर्देवनारकाणाम्, अथ क्षयोपशमहेतुकः केषामित्यत आह — १२७क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥ अवधिज्ञानावरणस्य देशघातिस्पर्द्धकानामुदये सति सर्वघातिस्पर्द्धकानामुदयाभावः क्षयः तेषामेवानुदयप्राप्तानां सदवस्था उपशमः । तौ निमित्तमस्येति क्षयोपशमनिमित्तः । स शेषाणां वेदितव्यः । के पुनः शेषाः ? मनुष्यास्तिर्यञ्चश्च । तेष्वपि यत्र सामर्थ्यमस्ति ०५तत्रैव वेदितव्यः । न ह्यसंज्ञिनामपर्याप्तकानां च तत्सामर्थ्यमस्ति । संज्ञिनां पर्याप्त- कानां च न सर्वेषाम् । केषां तर्हि ? यथोवतसम्यग्दर्शनादिनिमित्तसन्निधाने सति शान्तक्षीणकर्मणां तस्योपलब्धिर्भवति । सर्वस्य क्षयोपशमनिमित्तत्वे क्षयोपशमग्रहणं नियमार्थं क्षयोपशम एव निमित्तं न भव इति । स एषोऽवधिः षड्विकल्पः । कुतः ? अनुगाम्यननुगामिवर्धमानहीयमानावस्थितानवस्थितभेदात् । कश्चिदवधिर्भास्कर- १०प्रकाशवद् गच्छन्तमनुगच्छति । कश्चिन्नानुगच्छति तत्रैवानिपतति उन्मुखप्रश्नादेशिपुरुष- १२८वचनवत् । अपरोऽवधिः अरणिनिर्मथनोत्पन्नशुष्कपर्णोपचीयमानेन्धननिचयसमिद्ध- पावकवत्सम्यग्दर्शनादिगुणविशुद्धिपरिणामसन्निधानाद्यत्परिमाण उत्पन्नस्ततो वर्द्धते आ असंख्येयलोकेभ्यः । अपरोऽवधिः परिच्छिन्नोपादानसन्तत्यग्निशिखावत्सम्यग्दर्श- नादिगुणहानिसंक्लेशपरिणामवृद्धियोगाद्यत्परिमाण उत्पन्नस्ततो हीयते आ अङ्गुलस्या- ०५संख्येभागात् । इतरोऽवधिः सम्यग्दर्शनादिगुणावस्थानाद्यत्परिमाण उत्पन्नस्तत्परिमाण एवावतिष्ठते; न हीयते नापि वर्धते लिङ्गवत् आ भवक्षयादा केवलज्ञानोत्पत्तेर्वा । अन्योऽवधिः सम्यग्दर्शनादिगुणवृद्धिहानियोगाद्यत्परिमाण उत्पन्नस्ततो वर्द्धते यावदनेन वर्धितव्यं हीयते च यावदनेन हातव्यं वायुवेगप्रेरितजलोर्मिवत् । एवं षड्विकल्पोऽ- वधिर्भवति । १०एवं व्याख्यातमवधिज्ञानं तदनन्तरमिदानीं मनःपर्ययज्ञानं वक्तव्यम् । तस्य भेदपुरःसरं लक्षणं व्याचिख्यासुरिदमाह — १२९ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥ ऋज्वी निर्वर्तिता प्रगुणा च । कस्मान्निर्वर्तिता ? वाक्कायमनःकृतार्थस्य परमनो- गतस्य विज्ञानात् । ऋज्वी मतिर्यस्य सोऽयं ऋजुमतिः । अनिर्वर्तिता कुटिला च विपुला । कस्मादनिर्वर्तिता ? वाक्कायमनःकृतार्थस्य परकीयमनोगतस्य विज्ञानात् । विपुला मति- ०५र्यस्य सोऽयं विपुलमतिः । ऋजुमतिश्च विपुलमतिश्च ऋजुविपुलमती । एकस्य मति- शब्दस्य गतार्थत्वादप्रयोगः । अथवा ऋजुश्च विपुला च ऋजुविपुले । ऋजुविपुले मती ययोस्तौ ऋजुविपुलमती इति । स एष मनःपर्ययो द्विविधः ऋजुमतिर्विपुलमतिरिति । आह, उक्तो भेदः, लक्षणमिदानीं वक्तव्यमित्यत्रोच्यते — वीर्यान्तरायमनःपर्ययज्ञाना- वरणक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भादात्मनः परकीयमनःसम्बन्धेन लब्धवृत्तिरुप- १०योगो मनःपर्ययः । मतिज्ञानप्रसङ्ग इति चेत् उक्तोत्तरं पुरस्तात् । अपेक्षाकारणं मन इति । परकीयमनसि व्यवस्थितोऽर्थः अनेन ज्ञायते इत्येतावदत्रापेक्ष्यते । तत्र ऋजुमति- १३०र्मनःपर्ययः कालतो जघन्येन जीवानामात्मनश्च द्वित्राणि भवग्रहणानि, उत्कर्षेण सप्ताष्टौ गत्यागत्यादिभिः प्ररूपयति । क्षेत्रतो जघन्येन गव्यूतिपृथक्त्वं, उत्कर्षेण योजनपृथक्त्व- स्याभ्यन्तरं न बहिः । द्वितीयः कालतो जघन्येन सप्ताष्टौ भवग्रहणानि, उत्कर्षेणा- संख्येयानि गत्यागत्यादिभिः प्ररूपयति । क्षेत्रतो जघन्येन योजनपृथक्त्वं, उत्कर्षेण मानुषो- ०५त्तरशैलस्याभ्यन्तरं, न बहिः । उक्तयोरनयोः पुनरपि विशेषप्रतिपत्त्यर्थमाह — विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ तदावरणक्षयोपशमे सति आत्मनः प्रसादो विशुद्धिः । प्रतिपतनं प्रतिपातः । १३१न प्रतिपातः अप्रतिपातः । उपशान्तकषायस्य चारित्रमोहोद्रेकात्प्रच्युतसंयमशिखरस्य प्रति- पातो भवति । क्षीणकषायस्य प्रतिपातकारणाभावादप्रतिपातः । विशुद्धिश्च अप्रति- पातश्च विशुद्ध्यप्रतिपातौ । ताभ्यां विशुद्ध्यप्रतिपाताभ्याम् । तयोर्विशेषस्तद्विशेषः । तत्र विशुद्ध्या तावत् — ऋजुमतेर्विपुलमतिर्द्रव्यक्षेत्रकालभावैर्विशुद्धतरः । कथम् ? ०५इह यः कार्मणद्रव्यानन्तभागोऽन्त्यः सर्वावधिना ज्ञातस्तस्य पुनरनन्तभागीकृतस्यान्त्यो भाग ऋजुमतेर्विषयः । तस्य ऋजुमतिविषयस्यानन्तभागीकृतस्यान्त्यो भागो विपुलमते- र्विषयः । अनन्तस्यानन्तभेदत्वात् । द्रव्यक्षेत्रकालतो विशुद्धिरुक्ता । भावतो विशुद्धिः सूक्ष्मतरद्रव्यविषयत्वादेव वेदितव्या प्रकृष्टक्षयोपशमविशुद्धियोगात् । अप्रतिपातेनापि विपुलमतिर्विशिष्टः; स्वामिनां प्रवर्द्धमानचारित्रोदयत्वात् । ऋजुमतिः पुनः प्रतिपाती; १०स्वामिनां कषायोद्रेकाद्धीयमानचारित्रोदयत्वात् । १३२यद्यस्य मनःपर्ययस्य प्रत्यात्ममयं विशेषः, अथानयोरवधिमनःपर्यययोः कुतो विशेष इत्यत आह — विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥ २५ ॥ विशुद्धिः प्रसादः । क्षेत्रं यत्रस्थान्भावान्प्रतिपद्यते । स्वामी प्रयोक्ता । विषयो ०५ज्ञेयः । तत्रावधेर्मनःपर्ययो विशुद्धतरः । कुतः ? सूक्ष्मविषयत्वात् । क्षेत्रमुक्तम् । विषयो वक्ष्यते । स्वामित्वं प्रत्युच्यते । प्रकृष्टचारित्रगुणोपेतेषु वर्तते प्रमत्तादिषु क्षीणकषाया- न्तेषु । तत्र चोत्पद्यमानः प्रवर्द्धमानचारित्रेषु न हीयमानचारित्रेषु । प्रवर्द्धमानचारित्रेषु चोत्पद्यमानः सप्तविधान्यतमर्द्धिप्राप्तेषूपजायते नेतरेषु । ऋद्धिप्राप्तेषु केषुचिन्न सर्वेषु । iत्यस्यायं स्वामिविशेषो विशिष्टसंयमग्रहणं वा वाक्ये प्रकृतम् । अवधिः पुनश्चातुर्गति- १३३केष्विति स्वामिभेदादप्यनयोर्विशेषः । इदानीं केवलज्ञानलक्षणाभिधानं प्राप्तकालम् । तदुल्लङ्ध्य ज्ञानानां विषयनि- बन्धः परीक्ष्यते । कुतः ? तस्य ‘मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्’ इत्यत्र वक्ष्यमाणत्वात् । यद्येवमाद्ययोरेव तावन्मतिश्रुतयोर्विषयनिबन्ध उच्यतामित्यत ०५आह — मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २६ ॥ निबन्धनं निबन्धः । कस्य ? विषयस्य । तद्विषयग्रहणं कर्तव्यम् । न कर्तव्यम् । प्रकृतं विषयग्रहणम् । क्व प्रकृतम् ? ‘विशुद्धिक्षेत्रस्वामिविषयेभ्यः’इत्यत्र । अतस्तस्यार्थ- वशाद्विभक्तिपरिणामो भवतीति ‘विषयस्य’ इत्यभिसम्बध्यते । ‘द्रव्येषु’इति बहुवचन- १३४निर्देशः सर्वेषां जीवधर्माधर्माकालाकाशपुद्गलानां संग्रहार्थः । तद्विशेषणार्थं ‘असर्वपर्याय’ ग्रहणम् । तानि द्रव्याणि मतिश्रुतयोर्विषयभावमापद्यमानानि कतिपयैरेव पर्यायैर्विषय- भावमास्कन्दन्ति न सर्वपर्यायैरनन्तैरपीति । अत्राह — धर्मास्तिकायादीन्यतीन्द्रियाणि तेषु मतिज्ञानं न प्रवर्तते । अतः सर्वद्रव्येषु मतिज्ञानं वर्तत इत्ययुक्तम् ? नैष दोषः; अनि- ०५न्द्रियाख्यं करणमस्ति तदालम्बनो नोइन्द्रियावरणक्षयोपशमलब्धिपूर्वक उपयोगोऽवग्रहा- दिरूपः प्रागेवोपजायते । ततस्तत्पूर्वं श्रुतज्ञानं तद्विषयेषु स्वयोग्येषु व्याप्रियते । अथ मतिश्रुतयोरनन्तरनिर्देशार्हस्यावधेः को विषयनिबन्ध इत्यत आह — रूपिष्ववधेः ॥ २७ ॥ ‘विषयनिबन्धः’ इत्यनुवर्तते । ‘रूपिषु’ इत्यनेन पुद्गलाः पुद्गलद्रव्यसम्बन्धाश्च १०जीवाः परिगृह्यन्ते । रूपिष्वेवावधेर्विषयनिबन्धो नारूपिष्विति नियमः क्रियते । रूपिष्वपि भवन्न सर्वपर्यायेषु, स्वयोग्येष्वेवेत्यवधारणार्थमसर्वपर्यायेष्वित्यभिसम्बध्यते । १३५अथ तदनन्तरनिर्देशभाजो मनःपर्ययस्य को विषयनिबन्ध इत्यत आह — तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥ यदेतद्रूपि द्रव्यं सर्वावधिज्ञानविषयत्वेन समर्थितं तस्यानन्तभागीकृतस्यैकस्मि- न्भागे मनःपर्ययः प्रवर्तते । ०५अथान्ते यन्निर्दिष्टं केवलज्ञानं तस्य को विषयनिबन्ध इत्यत आह — सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ द्रव्याणि च पर्यायाश्च द्रव्यपर्याया इति इतरेतरयोगलक्षणो द्वन्द्वः । तद्विशेषणं ‘सर्व’ ग्रहणं प्रत्येकमभिसम्बध्यते, सर्वेषु द्रव्येषु सर्वेषु पर्यायेष्विति । जीवद्रव्याणि ताव- दनन्तानन्तानि, पुद्गलद्रव्याणि च ततोऽप्यनन्तानन्तानि अणुस्कन्धभेदभिन्नानि, धर्मा- १०धर्माकाशानि त्रीणि, कालश्चासंख्येयस्तेषां पर्यायाश्च त्रिकालभुवः प्रत्येकमनन्तानन्तास्तेषु । द्रव्यं पर्यायजातं वा न किञ्चित्केवलज्ञानस्य विषयभावमतिक्रान्तमस्ति । अपरिमित- माहात्म्यं हि तदिति ज्ञापनार्थं ‘सर्वद्रव्यपर्यायेषु’इत्युच्यते । १३६आह विषयनिबन्धोऽवधृतो मत्यादीनाम् । इदं तु न निर्ज्ञातमेकस्मिन्नात्मनि स्वनि- मित्तसन्निधानोपजनितवृत्तीनि ज्ञानानि यौगपद्येन कति भवन्तीत्युच्यते — एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्भ्यः ॥ ३० ॥ एकशब्दः संख्यावाची, आदिशब्दोऽवयववचनः । एक आदिर्येषां तानि इमान्येका- ०५दिनि । भाज्यानि विभक्तव्यानि । यौगपद्येनैकस्मिन्नात्मनि । आ कुतः ? आ चतुर्भ्यः । तद्यथा-एकं तावत्केवलज्ञानं, न तेन सहान्यानि क्षायोपशमिकानि युगपदवतिष्ठन्ते । द्वे मतिश्रुते । त्रीणि मतिश्रुतावधिज्ञानानि, मतिश्रुतमनःपर्ययज्ञानानि वा । चत्वारि मतिश्रुतावधिमनःपर्ययज्ञानानि । न पञ्च सन्ति, केवलस्यासहायत्वात् । १३७अथ यथोक्तानि मत्यादीनि ज्ञानव्यपदेशमेव लभन्ते उतान्यथापीत्यत आह — मतिश्रुतावधयो विपर्ययश्च ॥ ३१ ॥ विपर्ययो मिथ्येत्यर्थः । कुतः ? सम्यगधिकारात् । ‘च’शब्दः समुच्चयार्थः । विपर्ययश्च सम्यक्चेति । कुतः पुनरेषां विपर्ययः ? मिथ्यादर्शनेन सहैकार्थसमवायात् सरजस्क- १३८कटुकालाबुगतदुग्धवत् । ननु च तत्राधारदोषाद् दुग्धस्य रसविपर्ययो भवति । न च तथा मत्यज्ञानादीनां विषयग्रहणे विपर्ययः । तथा हि, सम्यग्दृष्टिर्यथा चक्षुरादिभी रूपादी- नुपलभते तथा मिथ्यादृष्टिरपि मत्यज्ञानेन । यथा च सम्यग्दृष्टिः श्रुतेन रूपादीन् जानाति निरूपयति च तथा मिथ्यादृष्टिरपि श्रुताज्ञानेन । यथा चावधिज्ञानेन सम्यग्दृष्टिः ०५रूपिणोऽर्थानवगच्छति तथा मिथ्यादृष्टिर्विभङ्गज्ञानेनेति । अत्रोच्यते — सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३२ ॥ सद्विद्यमानमसदविद्यमानमित्यर्थः । तयोरविशेषेण यदृच्छया उपलब्धेर्विपर्ययो भवति । कदाचिद्रूपादि सदप्यसदिति प्रतिपद्यते, असदपि सदिति, कदाचित्सत्सदेव, असदप्यसदेवेति मिथ्यादर्शनोदयादध्यवस्यति । यथा पित्तोदयाकुलितबुद्धिर्मातरं भार्येति, १०भार्यामपि मातेति मन्यते । यदृच्छया यदापि मातरं मातैवेति भार्यामपि भार्यैवेति च १३९तदापि न तत्सम्यग्ज्ञानम् । एवं मत्यादीनामपि रूपादिषु विपर्ययो वेदितव्यः । तथा हि, कश्चिन्मिथ्यादर्शनपरिणाम आत्मन्यवस्थितो रूपाद्युपलब्धौ सत्यामपि कारणविपर्यासं भेदाभेदविपर्यासं स्वरूपविपर्यासं च जनयति । कारणविपर्यासस्तावत् — रूपादीनामेकं कारणममूर्त्तं नित्यमिति केचित्कल्पयन्ति । अपरे पृथिव्यादिजातिभिन्नाः परमाणवश्चतु ०५स्त्रिद्व्येकगुणास्तुल्यजातीयानां कार्याणाभारम्भका इति । अन्ये वर्णयन्ति — पृथिव्या — दीनि चत्वारि भूतानि, भौतिकधर्मा वर्णगन्धरसस्पर्शाः, एतेषां समुदायो रूपपरमाणुरष्टक इत्यादि । इतरे वर्णयन्ति — पृथिव्यप्तेजोवायवः काठिन्यादिद्रवत्वाद्युष्णत्वादीरण- त्वादिगुणा जातिभिन्नाः परमाणवः कार्यस्यारम्भकाः । भेदाभेदविपर्यासः कारणात्कार्य- मर्थान्तरभूतमेवेति अनर्थान्तरभूतमेवेति च परिकल्पना । स्वरूपविपर्यासो रूपादयो १०निर्विकल्पाः सन्ति न सन्त्येव वा । तदाकारपरिणतं विज्ञानमेव । न च तदालम्बनं वस्तु बाह्यमिति । एवमन्यानपि परिकल्पनाभेदान् दृष्टेष्टविरुद्धान्मिथ्यादर्शनोदयात्कल्प- १४०यन्ति तत्र च श्रद्धानमुत्पादयन्ति । ततस्तन्मत्यज्ञानं श्रुताज्ञानं विभंगज्ञानं च भवति । सम्यग्दर्शनं पुनस्तत्त्वार्थाधिगमे श्रद्धानमुत्पादयति । ततस्तन्मतिज्ञानं श्रुतज्ञानमवधि- ज्ञानं च भवति । आह प्रमाणं द्विप्रकारं वर्णितम् । प्रमाणैकदेशाश्च नयास्तदनन्तरोद्देशभाजो निर्दे- ०५ष्टव्या इत्यत आह — नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूता नयाः ॥ ३३ ॥ एतेषां सामान्यविशेषलक्षणं वक्तव्यम् । सामान्यलक्षणं तावद्वस्तुन्यनेकान्तात्मन्य- विरोधेन हेत्वर्पणात्साध्यविशेषस्य याथात्म्यप्रापणप्रवणः प्रयोगो नयः । स द्वेधा द्रव्या- र्थिकः पर्यायार्थिकश्चेति । द्रव्यं सामान्यमुत्सर्गः अनुवृत्तिरित्यर्थः । तद्विषयो द्रव्यार्थिकः । १४१पर्यायो विशेषोऽपवादो व्यावृत्तिरित्यर्थः । तद्विषयः पर्यायार्थिकः । तयोर्भेदा नैगमादयः । तेषां विशेषलक्षणमुच्यते — अनभिनिर्वृत्तार्थसंकल्पमात्रग्राहीं नैगमः । कञ्चित्पुरुषं परिगृहीतपरशुं गच्छन्तमवलोक्य कश्चित्पृच्छति किमर्थं भवान्गच्छतीति । स आह प्रस्थमानेतुमिति । नासौ तदा प्रस्थपर्यायः सन्निहितः । तदभिनिर्वृत्तये संकल्पमात्रे ०५प्रस्थव्यवहारः । तथा एधोदकाद्याहरणे व्याप्रियमाणं कश्चित्पृच्छति किं करोति भवा- निति । स आह ओदनं पचामीति । न तदौदनपर्यायः सन्निहितः, तदर्थे व्यापारे स प्रयुज्यते । एवंप्रकारो लोकसंव्यवहारः अनभिनिर्वृत्तार्थसङ्कल्पमात्रविषयो नैगमस्य गोचरः । स्वजात्यविरोधेनैकध्यमुपानीय पर्यायानाक्रान्तभेदानविशेषेण समस्तग्रहणा- त्संग्रहः । सत्, द्रव्यं, घट इत्यादि । सदित्युक्ते सदिति वाग्विज्ञानानुप्रवृत्तिलिङ्गानुमित- १०सत्ताधारभूतानामविशेषेण सर्वेषां संग्रहः । द्रव्यमित्युक्तेऽपि द्रवति गच्छति तांस्तान्पर्या- यानित्युपलक्षितानां जीवाजीवतद्भेदप्रभेदानां संग्रहः । तथा घट इत्युक्तेऽपि घट- १४२ब्द्ध्यभिधानानुगमलिङ्गानुमितसकलार्थसंग्रहः । एवंप्रकारोऽन्योऽपि संग्रहनयस्य विषयः । संग्रहनयाक्षिप्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः । को विधिः ? यः संग्रहगृहीतोऽर्थस्तदानुपूर्वेणैव व्यवहारः प्रवर्तत इत्ययं विधिः । तद्यथा — सर्वसंग्रहेण यत्सत्त्वं गृहीतं तच्चानपेक्षितविशेषं नालं संव्यवहारायेति व्यवहारनय आश्रीयते । ०५यत्सत्तद् द्रव्यं गुणो वेति । द्रव्येणापि संग्रहाक्षिप्तेन जीवाजीवविशेषानपेक्षेण न शक्यः संव्यवहार इति जीवद्रव्यमजीवद्रव्यमिति वा व्यवहार आश्रीयते । जीवाजीवावपि च संग्रहाक्षिप्तौ नालं संव्यवहारायेति प्रत्येकं देवनारकादिर्घटादिश्च व्यवहारेणाश्रीयते । एवमयं नयस्तावद्वर्तते यावत्पुनर्नास्ति विभागः । ऋजुं प्रगुणं सूत्रयति तन्त्रयतीति ऋजुसूत्रः । पूर्वापरांस्त्रिकालविषयानतिशय्य १०वर्तमानकालविषयानादत्ते अतीतानागतयोर्विनष्टानुत्पन्नत्वेन व्यवहाराभावात् । तच्च १४३वर्तमानं समयमात्रम् । तद्विषयपर्यायमात्रग्राह्यमयमृजुसूत्रः । ननु संव्यवहारलोपप्रसङ्ग इति चेद् ? न; अस्य नयस्य विषयमात्रप्रदर्शनं क्रियते । सर्वनयसमूहसाध्यो हि लोकसंव्यवहारः । लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः शब्दनयः । तत्र लिङ्गव्यभिचारः — ०५पुष्यस्तारका नक्षत्रमिति । संख्याव्यभिचारः — जलमापः, वर्षा ऋतुः, आम्रा वनम्, वरणा नगरमिति । साधनव्यभिचारः — सेना पर्वतमधिवसति । पुरुषव्यभिचारः — एहि मन्ये रथेन यास्यसि, न हि यास्यसि, यातस्ते पितेति । कालव्यभिचारः — विश्वदृश्वाऽस्य पुत्रो जनिता । भावि कृत्यमासीदिति । उपग्रहव्यभिचारः — सन्तिष्ठते प्रतिष्ठते विर- १४४मत्युपरमतीति । एवम्प्रकारं व्यवहारमन्याय्यं मन्यते; अन्यार्थस्यान्यार्थेन सम्बन्धा- भावात् । लोकसमयविरोध इति चेत् ? विरुध्यताम् । तत्त्वमिह मीमांस्यते, न भैष- ज्यमातुरेच्छानुवर्ति । नानार्थसमभिरोहणात्समभिरूढः । यतो नानार्थान्समतीत्यैकमर्थमाभिमुख्येन रूढः- ०५समभिरूढः । गौरित्ययं शब्दो वागादिष्वर्थेषु वर्तमानः पशावभिरूढः । अथवा अर्थ- गत्यर्थः शब्दप्रयोगः । तत्रैकस्यार्थस्यैकेन गतार्थत्वात्पर्यायशब्दप्रयोगोऽनर्थकः । शब्द- भेदश्चेदस्ति अर्थभेदेनाप्यवश्यं भवितव्यमिति । नानार्थसमभिरोहणात्समभिरूढः । इन्द- नादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इत्येवं सर्वत्र । अथवा यो यत्राभिरूढः स तत्र समेत्याभिमुख्येनारोहणात्समभिरूढः । यथा क्व भवानास्ते ? आत्मनीति । कुतः ? १४५वस्त्वन्तरे वृत्त्यभावात् । यद्यन्यस्यान्यत्र वृत्तिः स्यात्, ज्ञानादीनां रूपादीनां चाकाशे वृत्तिः स्यात् । येनात्मना भूतस्तेनैवाध्यवसाययतीति एवम्भूतः । स्वाभिप्रेतक्रियापरिणतिक्षणे एव स शब्दो युक्तो नान्यदेति । यदैवेन्दति तदैवेन्द्रो नाभिषेचको न पूजक इति । यदैव गच्छति ०५तदैव गौर्न स्थितो न शयित इति । अथवा येनात्मना येन ज्ञानेन भूतः परिणतस्तेनैवाध्य- वसाययति । यथेन्द्राग्निज्ञानपरिणत आत्मैवेन्द्रोऽग्निश्चेति । उक्ता नैगमादयो नयाः । उत्तरोत्तरसूक्ष्मविषयत्वादेषां क्रमः पूर्वपूर्वहेतुकत्वाच्च । एवमेते नयाः पूर्वपूर्वविरुद्धमहाविषया उत्तरोत्तरानुकूलाल्पविषया द्रव्यस्यानन्तशवतेः प्रति- शक्ति विभिद्यमाना बहुविकल्पा जायन्ते । त एते गुणप्रधानतया परस्परतन्त्राः सम्य- १०ग्दर्शनहेतवः पुरुषार्थक्रियासाधनसामर्थ्यात्तन्त्वादय इव यथोपायं विनिवेश्यमानाः पटादि- संज्ञाः स्वतन्त्राश्चासमर्थाः । तन्त्वादय इवेति विषम उपन्यासः । तन्त्वादयो निरपेक्षा १४६अपि काञ्चिदर्थमात्रां जनयन्ति । भवति हि कश्चित्प्रत्येकं तन्तुस्त्वक्त्राणे समर्थः । एकश्च बल्वजो बन्धने समर्थः । इमे पुनर्नया निरपेक्षाः सन्तो न काञ्चिदपि सम्यग्दर्शन- मात्रां प्रादुर्भावयन्तीति ? नैष दोषः, अभिहितानवबोधात् । अभिहितमर्थमनवबुध्य परेणेदमुपालभ्यते । एतदुक्तं, निरपेक्षेषु तन्त्वादिषु पटादिकार्यं नास्तीति । यत्तु तेनो- ०५पदर्शितं न तत्पटादिकार्यम् । किं तर्हि । केवलं तन्त्वादिकार्यम् । तन्त्वादिकार्यमपि तन्त्वाद्य- वयवेषु निरपेक्षेषु नास्त्येव इत्यस्मत्पक्षसिद्धिरेव । अथ तन्त्वादिषु पटादिकार्यं शक्त्यपेक्षया अस्तीत्युच्यते ? नयेष्वपि निरपेक्षेषु बुद्ध्यभिधानरूपेषु कारणवशात्सम्यग्दर्शनहेतुत्ववि- परिणतिसद्भावात् शक्त्याऽऽत्मनाऽस्तित्वम् इति साम्यम् एवोपन्यासस्य । इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसंज्ञायां प्रथमोऽध्यायः । १४९अथ द्वितीयोऽध्यायः आह, सम्यग्दर्शनस्य विषयभावेनोपदिष्टेषु जीवादिष्वादावुपन्यस्तस्य जीवस्य किं स्वतत्त्वमित्युच्यते — औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥ १ ॥ ०५आत्मनि कर्मणः स्वशवतेः कारणवशादनुद्भूतिरुपशमः । यथा कतकादि- द्रव्यसम्बन्धादम्भसि पङ्कस्य उपशमः । क्षय आत्यन्तिकी निवृत्तिः । यथा तस्मिन्नेवा- म्भसि शुचिभाजनान्तरसंक्रान्ते पङ्कस्यात्यन्ताभावः । उभयात्मको मिश्रः । यथा तस्मि- न्नेवाम्भसि कतकादिद्रव्यसम्बन्धात्पङ्कस्य क्षीणाक्षीणवृत्तिः । द्रव्यादिनिमित्तवशात्कर्मणां फलप्राप्तिरुदयः । द्रव्यात्मलाभमात्रहेतुकः परिणामः । उपशमः प्रयोजनमस्येत्यौपश- १०मिकः । एवं क्षायिकः क्षायोपशमिकः औदयिकः पारिणामिकश्च । त एते पञ्च भावा असाधारणा जीवस्य स्वतत्त्वमित्युच्यन्ते । १५०सम्यग्दर्शनस्य प्रकृतत्वात्तस्य त्रिषु विकल्पेषु औपशमिकमादौ लभ्यत इति तस्यादौ ग्रहणं क्रियते । तदनन्तरं क्षायिकग्रहणम्; तस्य प्रतियोगित्वात् संसार्यपेक्षया द्रव्यतस्ततोऽसंख्येयगुणत्वाच्च । तत उत्तरं मिश्रग्रहणम्; तदुभयात्मकत्वात्ततोऽसंख्येय- गुणत्वाच्च । तेषां सर्वेषामनन्तगुणत्वाद् औदयिकपारिणामिकग्रहणमन्ते क्रियते । अत्र ०५द्वन्द्वनिर्देशः कर्तव्यः — औपशमिकक्षायिकमिश्रौदयिकपारिणामिका इति । तथा सति द्विः ‘च’ शब्दो न कर्तव्यो भवति ? नैवं शङ्क्यम्; अन्यगुणापेक्षया मिश्र इति प्रतीयेत । वाक्ये पुनः सति ‘च’शब्देन प्रकृतोभयानुकर्षः कृतो भवति । तर्हि क्षायोपशमिकग्रहणमेव कर्तव्यमिति चेत् ? न; गौरवात् । मिश्रग्रहणं मध्ये क्रियते उभयापेक्षार्थम् । भव्यस्य औपशमिकक्षायिकौ भावौ । मिश्रः पुनरभव्यस्यापि भवति औदयिकपारिणामिकाभ्यां १०सह भव्यस्यापीति । भावापेक्षया तल्लिङ्गसंख्याप्रसङ्गः स्वतत्त्वस्येति चेत् ? न; उपा- त्तलिङ्गसंख्यत्वात् । तद्भावस्तत्त्वम् । स्वं तत्त्वं स्वतत्त्वमिति । १५१अत्राह तस्यैकस्यात्मनो ये भावा औपशमिकादयस्ते किं भेदवन्त उताभेदा इति ? अत्रोच्यते, भेदवन्तः । यद्येवं, भेदा उच्यन्तामित्यत आह — द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ द्व्यादीनां संख्याशब्दानां कृतद्वन्द्वानां भेदशब्देन सह स्वपदार्थेऽन्यपदार्थे वा वृत्ति- ०५र्वेदितव्या । द्वौ च नव च अष्टादश च एकविंशतिश्च त्रयश्च द्विनवाष्टादशैकविंशतित्रयः । ते च ते भेदाश्च, त एव भेदा येषामिति वा वृत्तिर्द्विनवाष्टादशैकविंशतित्रिभेदा इति । यदा स्वपदार्थे वृत्तिस्तदा औपशमिकादीनां भावानां द्विनवाष्टादशैकविंशतिंत्रयो भेदा इत्यभिसम्बन्धः क्रियते; अर्थवशाद्विभक्तिपरिणाम इति । यदाऽन्यपदार्थे वृत्तिस्तदा १५२निर्दिष्टविभक्त्यन्ता एवाभिसम्बन्ध्यन्ते, औपशमिकादयो भावा द्विनवाष्टादशैकविंशति- त्रिभेदा इति । ‘यथाक्रम’वचनं यथासंख्यप्रतिपत्त्यर्थम् । औपशमिको द्विभेदः । क्षायिको नवभेदः । मिश्रोऽष्टादशभेदः । औदयिक एकविंशतिभेदः । पारिणामिकस्त्रिभेद इति । यद्येवमौपशमिकस्य कौ द्वौ भेदावित्यत आह — ०५सम्यक्त्वचारित्रे ॥ ३ ॥ व्याख्यातलक्षणे सम्यक्त्वचारित्रे । औपशमिकत्वं कथमिति चेदुच्यते । चारित्र- मोहो द्विविधः कषायवेदनीयो नोकषायवेदनीयश्चेति । तत्र कषायवेदनीयस्य भेदा अन- न्तानुबन्धिनः क्रोधमानमायालोभाश्चत्वारः । दर्शनमोहस्य त्रयो भेदाः सम्यक्त्वं मिथ्यात्वं सम्यग्मिथ्यात्वमिति । आसां सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वम् । १०अनादिमिथ्यादृष्टेर्भव्यस्य कर्मोदयापादितकालुष्ये सति कुतस्तदुपशमः ? काल- लब्ध्यादिनिमित्तत्वात् । तत्र काललब्धिस्तावत् — कर्माविष्ट आत्मा भव्यः कालेऽर्द्धपुद्गल- परिवर्त्तनाख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति नाधिके इति । इयमेका १५३काललब्धिः । अपरा कर्मस्थितिका काललब्धिः । उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थिति- केषु च प्रथमसम्यक्त्वलाभो न भवति । क्व तर्हि भवति ? अन्तःकोटीकोटीसागरोपम- स्थितिकेषु कर्मसु बन्धमापद्यमानेषु विशुद्धपरिणामवशात्सत्कर्मसु च ततः संख्येयसागरोप- मसहस्रोनायामन्तःकोटीकोटीसागरोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति । ०५अपरा काललब्धिर्भवापेक्षया । भव्यः पञ्चेन्द्रियः संज्ञी पर्याप्तकः सर्वविशुद्धः प्रथमसम्य- क्त्वमुत्पादयति । ‘आदि’शब्देन जातिस्मरणादिः परिगृह्यते । कृत्स्नस्य मोहनीयस्योपशमादौपशमिकं चारित्रम् । तत्र सम्यक्त्वस्यादौ वचनं; तत्पूर्वकत्वाच्चारित्रस्य । १५४यः क्षायिको भावो नवविध उद्दिष्टस्तस्य भेदस्वरूपप्रतिपादनार्थमाह — ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥ ४ ॥ ‘च’शब्दः सम्यक्त्वचारित्रानुकर्षणार्थः । ज्ञानावरणस्यात्यन्तक्षयात्केवल- ज्ञानं क्षायिकं तथा केवलदर्शनम् । दानान्तरायस्यात्यन्तक्षयादनन्तप्राणिगणानुग्रहकरं ०५क्षायिकमभयदानम् । लाभान्तरायस्याशेषस्य निरासात् परित्यक्तकवलाहारक्रियाणां केवलिनां यतः शरीरबलाधानहेतवोऽन्यमनुजासाधारणाः परमशुभाः सूक्ष्माः अनन्ताः प्रति- समयं पुद्गलाः सम्बन्धमुपयान्ति स क्षायिको लाभः । कृत्स्नस्य भोगान्तरायस्य तिरो- भावादाविर्भूतोऽतिशयवाननन्तो भोगः क्षायिकः । यतः कुसुमवृष्ट्यादयो विशेषाः प्रादु- र्भवन्ति । निरवशेषस्योपभोगान्तरायस्य प्रलयात्प्रादुर्भूतोऽनन्त उपभोगः क्षायिकः । यतः १०सिंहासनचामरच्छत्रत्रयादयो विभूतयः । वीर्यान्तरायस्य कर्मणोऽत्यन्तक्षयादाविर्भूतम- नन्तवीर्यं क्षायिकम् । पूर्वोक्तानां सप्तानां प्रकृतीनामत्यन्तक्षयात्क्षायिकं सम्यक्त्वम् । १५५चारित्रमपि तथा । यदि क्षायिकदानादिभावकृतमभयदानादि, सिद्धेष्वपि तत्प्रसङ्गः ? नैष दोषः; शरीरनामतीर्थकरनामकर्मोदयाद्यपेक्षत्वात् । तेषां तदभावे तदप्रसङ्गः । कथं तर्हि तेषां सिद्धेषु वृत्तिः ? परमानन्दाव्याबाधरूपेणैव तेषां तत्र वृत्तिः । केवल- ज्ञानरूपेणानन्तवीर्यवृत्तिवत् । १५६य उक्तः क्षायोपशमिको भावोऽष्टादशविकल्पस्तद्भेदनिरूपणार्थमाह — ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च ॥ ५ ॥ १५७चत्वारश्च त्रयश्च त्रयश्च पञ्च च चतुस्त्रित्रिपञ्च । ते भेदा यासां ताश्चतु- स्त्रित्रिपञ्चभेदाः । यथाक्रममित्यनुवर्तते । तेनाभिसम्बन्धाच्चतुरादिभिर्ज्ञानादीन्यभिसम्ब- ध्यन्ते । चत्वारि ज्ञानानि, त्रीण्यज्ञानानि, त्रीणि दर्शनानि, पञ्च लब्धय इति । सर्व- घातिस्पर्द्धकानामुदयक्षयात्तेषामेव सदुपशमाद्देशघातिस्पर्द्धकानामुदये क्षायोपशमिको भावो ०५भवति । तत्र ज्ञानादीनां वृत्तिः स्वावरणान्तरायक्षयोपशमाद् व्याख्यातव्या । ‘सम्यक्त्व’- ग्रहणेन वेदकसम्यक्त्वं गृह्यते । अनन्तानुबन्धिकषायचतुष्टयस्य मिथ्यात्वसम्यङ्मिथ्या- त्वयोश्चोदयक्षयात्सदुपशमाच्च सम्यक्त्वस्य देशघातिस्पर्द्धकस्योदये तत्त्वार्थश्रद्धानं क्षायोप- शमिकं सम्यक्त्वम् । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानद्वादशकषायोदयक्षयात्सदुपश- माच्च सञ्ज्वलनकषायचतुष्टयान्यतमदेशघातिस्पर्द्धकोदये नोकषायनवकस्य यथासम्भ- १०वोदये च निवृत्तिपरिणाम आत्मनः क्षायोपशमिकं चारित्रम् । अनन्तानुबन्ध्यप्रत्याख्यान- कषायाष्टकोदयक्षयात्सदुपशमाच्च प्रत्याख्यानकषायोदये सञ्ज्वलनकषायस्य देशघाति- स्पर्द्धकोदये नोकषायनवकस्य यथासम्भवोदये च विरताविरतपरिणामः क्षायोपशमिकः संयमासंयम इत्याख्यायते । १५८य एकविंशतिविकल्प औदयिको भाव उद्दिष्टस्तस्य भेदसञ्ज्ञासङ्कीर्तनार्थमिद- मुच्यते — १५९गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतुस्त्र्येकैकैकैकषड्भेदाः ॥ ६ ॥ यथाक्रममित्यनुवर्तते, तेनाभिसम्बन्धाद् गतिश्चतुर्भेदा, नरकगतिस्तिर्यग्गतिर्मनुष्य- गतिर्देवगतिरिति । तत्र नरकगतिनामकर्मोदयान्नारको भावो भवतीति नरकगतिरौद- यिकी । एवमितरत्रापि । कषायश्चतुर्भेदः, क्रोधो मानो माया लोभ इति । तत्र क्रोधनि- ०५र्वर्तनस्य कर्मण उदयात्क्रोध औदयिकः । एवमितरत्रापि । लिङ्गं त्रिभेदं, स्त्रीवेदः पुंवेदो नपुंसकवेद इति । स्त्रीवेदकर्मण उदयात्स्त्रीवेद औदयिकः । एवमितरत्रापि । मिथ्या- दर्शनमेकभेदम् । मिथ्यादर्शनकर्मण उदयात्तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनमौदयि- कम् । ज्ञानावरणकर्मण उदयात्पदार्थानवबोधो भवति तदज्ञानमौदयिकम् । चारित्र- मोहस्य सर्वघातिस्पर्द्धकस्योदयादसंयत औदयिकः । कर्मोदयसामान्यापेक्षोऽसिद्ध औद- १०यिकः । लेश्या द्विविधा, द्रव्यलेश्या भावलेश्या चेति । जीवभावाधिकाराद् द्रव्यलेश्या नाधिकृता । भावलेश्या कषायोदयरञ्जिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते । सा षड्विधा-कृष्णलेश्या नीललेश्या कापोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति । १६०ननु च उपशान्तकषाये क्षीणकषाये सयोगकेवलिनि च शुक्ललेश्याऽस्तीत्यागमः । तत्र कषायानुरञ्जनाभावादौदयिकत्वं नोपपद्यते ? नैष दोषः; पूर्वभावप्रज्ञापननया- पेक्षया याऽसौ योगप्रवृत्तिः कषायानुरञ्जिता सैवेत्युपचारादौदयिकीत्युच्यते । तदभावा दयोगकेवल्यलेश्य इति निश्चीयते । ०५यः पारिणामिको भावस्त्रिभेद उक्तस्तद्भेदस्वरूपप्रतिपादनार्थमाह — जीवभव्याभव्यत्वानि च ॥ ७ ॥ १६१जीवत्वं भव्यत्वमभव्यत्वमिति त्रयो भावाः पारिणामिका अन्यद्रव्यासाधारणा आत्मनो वेदितव्याः । कुतः पुनरेषां पारिणामिकत्वम् ? कर्मोदयोपशमक्षयक्षयोपशमान- पेक्षित्वात् । जीवत्वं चैतन्यमित्यर्थः । सम्यग्दर्शनादिभावेन भविष्यतीति भव्यः । तद्वि- परीतोऽभव्यः । त एते त्रयो भावा जीवस्य पारिणामिकाः । ०५ननु चास्तित्वनित्यत्वप्रदेशवत्त्वादयोऽपि भावाः पारिणामिकाः सन्ति, तेषामिह ग्रहणं कर्तव्यम् ? न कर्तव्यम्; कृतमेव । कथम् ? ‘च’शब्देन समुच्चितत्वात् । यद्येवं त्रय इति संख्या विरुध्यते ? न विरुध्यते, असाधारणा जीवस्य भावाः पारिणामिकास्त्रय एव । अस्तित्वादयः पुनर्जीवाजीवविषयत्वात्साधारणा इति‘च’शब्देन पृथग्गृह्यन्ते । आह, औप- शमिकादिभावानुपपत्तिरमूर्तत्वादात्मनः । कर्मबन्धापेक्षा हि ते भावाः । न चामूर्तेः १०कर्मणां बन्धो युज्यत इति ? तन्न; अनेकान्तात् । नायमेकान्तः अमूर्तिरेवात्मेति । कर्म- १६२बन्धपर्यायापेक्षया तदावेशात्स्यान्मूर्तः । शुद्धस्वरूपापेक्षया स्यादमूर्तः । यद्येवं कर्मबन्धा- वेशादस्यैकत्वे सत्यविवेकः प्राप्नोति ? नैष दोषः; बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदादस्य नानात्वमवसीयते । उक्तं च — ’बंधं पडि एयत्तं लक्खणदो हवै तस्स णाणत्तं । ०५तम्हा अमुत्तिभावोऽणेयंतो होइ जीवस्स ॥ ’ इति । १६३यद्येवं तदेव लक्षणमुच्यतां येन नानात्वमवसीयते इत्यत आह — उपयोगो लक्षणम् ॥ ८ ॥ उभयनिमित्तवशादुत्पद्यमानश्चैतन्यानुविधायी परिणाम उपयोगः । तेन बन्धं प्रत्येकत्वे सत्यप्यात्मा लक्ष्यते सुवर्णरजतयोर्बन्धं प्रत्येकत्वे सत्यपि वर्णादिभेदवत् । ०५तद्भेदप्रदर्शनार्थमाह — स द्विविधोऽष्टचतुर्भेदः ॥ ९ ॥ स उपयोगो द्विविधः — ज्ञानोपयोगो दर्शनोपयोगश्चेति । ज्ञानोपयोगोऽष्टभेदः — मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानं मत्यज्ञानं श्रुताज्ञानं विभङ्गज्ञानं चेति । दर्शनोपयोगश्चतुर्विधः — चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं केवलदर्शनं चेति । तयोः १०कथं भेदः ? साकारानाकारभेदात् । साकारं ज्ञानमनाकारं दर्शनमिति । तच्छद्मस्थेषु क्रमेण वर्तते । निरावरणेषु युगपत् । पूर्वकालभाविनोऽपि दर्शनाज्ज्ञानस्य प्रागुपन्या- सः; अभ्यर्हितत्वात् । सम्यग्ज्ञानप्रकरणात्पूर्वं पञ्चविधो ज्ञानोपयोगो व्याख्यातः । इह १६४पुनरुपयोगग्रहणाद्विपर्ययोऽपि गृह्यते इत्यष्टविध इति उच्यते । यथोक्तेनानेनाभिहितपरिणामेन सर्वात्मसाधारणेनोपयोगेन ये उपलक्षिता उपयोगिनस्ते द्विविधाः — संसारिणो मुक्ताश्च ॥ १० ॥ ०५संसरणं संसारः परिवर्तनमित्यर्थः । स एषामस्ति ते संसारिणः । तत्परिवर्तनं १६५पञ्चविधं द्रव्यपरिवर्तनं क्षेत्रपरिवर्तनं कालपरिवर्तनं भवपरिवर्तनं चेति । तत्र द्रव्यपरिवर्तनं द्विविधम् — नोकर्मद्रव्यपरिवर्तनं कर्मद्रव्यपरिवर्तनं चेति । तत्र नोकर्म- द्रव्यपरिवर्तनं नाम त्रयाणां शरीराणां षण्णां पर्याप्तीनां च योग्या ये पुद्गला एकेन जीवेन एकस्मिन्समये गृहीताः स्निग्धरूक्षवर्णगन्धादिभिस्तीव्रमन्दमध्यमभावेन च यथावस्थिता ०५द्वितीयादिषु समयेषु निर्जीर्णा अगृहीताननन्तवारानतीत्य मिश्रकांश्चानन्तवारानतीत्य मध्ये गृहीतांश्चानन्तवारानतीत्य त एव तेनैव प्रकारेण तस्यैव जीवस्य नोकर्मभावमा- पद्यन्ते यावत्तावत्समुदितं नोकर्मद्रव्यपरिवर्तनम् । कर्मद्रव्यपरिवर्तनमुच्यते — एकस्मिन्स- मये एकेन जीवेनाष्टविधकर्मभावेन ये गृहीताः पुद्गलाः समयाधिकामावलिकामतीत्य द्वितीयादिषु समयेषु निर्जीणाः, पूर्वोक्तेनैव क्रमेण त एव तेनैव प्रकारेण तस्य जीवस्य १०कर्मभावमापद्यन्ते यावत्तावत्कर्मद्रव्यपरिवर्तनम् । उक्तं च — ’सव्वे वि पुग्गला खलु कमसो भुत्तुज्झिया य जीवेण । असैं अणंतखुत्तो पुग्गलपरियट्टसंसारे ॥ ’ क्षेत्रपरिवर्तनमुच्यते — सूक्ष्मनिगोदजीवोऽपर्याप्तकः सर्वजघन्यप्रदेशशरीरो लोकस्याष्टमध्यप्रदेशान्स्वशरीरमध्ये कृत्वोत्पन्नः क्षुद्रभवग्रहणं जीवित्वा मृतः । स एव १६६पुनस्तेनैवावगाहेन द्विरुत्पन्नस्तथा त्रिस्तथा चतुरित्येवं यावद् घनाङ्गुलस्यासंख्येयभाग- प्रमिताकाशप्रदेशास्तावत्कृत्वस्तत्रैव जनित्वा पुनरेकैकप्रदेशाधिकभावेन सर्वो लोक आत्मनो जन्मक्षेत्रभावमुपनीतो भवति यावत्तावत्क्षेत्रपरिवर्त्तनम् । उक्तं च — ’सव्वम्हि लोयखेत्ते कमसो तं णत्थि जं ण उप्पणं । ०५ओगाहणाए बहुसो परिभमिदो खेत्तसंसारे ॥ ’ कालपरिवर्तनमुच्यते — उत्सर्पिण्याः प्रथमसमये जातः कश्चिज्जीवः स्वायुषः परिसमाप्तौ मृतः । स एव पुनर्द्वितीयाया उत्सर्पिण्या द्वितीयसमये जातः स्वायुषः क्षया- न्मृतः । स एव पुनस्तृतीयाया उत्सर्पिण्यास्तृतीयसमये जातः । एवमनेन क्रमेणोत्सर्पिणी परिसमाप्ता । तथावसर्पिणी च । एवं जन्मनैरन्तर्यमुक्तम् । मरणस्यापिनैरन्तर्यं तथैव १०ग्राह्यम् । एतावत्कालपरिवर्तनम् । उक्तं च — ’उस्सप्पिणिअवसप्पिणिसमयावलियासु णिरवसेसासु । जादो मुदो य बहुसो भमणेण दु कालसंसारे ॥ ’ १६७भवपरिवर्तनमुच्यते — नरकगतौ सर्वजघन्यमायुर्दशवर्षसहस्राणि । तेनायुषा तत्रोत्पन्नः पुनः परिभ्रम्य तेनैवायुषा जातः । एवं दशवर्षसहस्राणां यावन्तः समयास्ताव- त्कृत्वस्तत्रैव जातो मृतः । पुनरेकैकसमयाधिकभावेन त्रयस्त्रिंशत्सागरोपमाणि परिसमा- पितानि । ततः प्रच्युत्य तिर्यग्गतावन्तर्मुहूर्तायुः समुत्पन्नः । पूर्वोवतेनैव क्रमेण त्रीणि ०५पल्योपमानि तेन परिसमापितानि । एवं मनुष्यगतौ च । देवगतौ च नारकवत् । अयं तु विशेषः — एकत्रिंशत्सागरोपमाणि परिसमापितानि यावत्तावद् भवपरिवर्तनम् । उक्तं च — ’णिरयादिजहण्णादिसु जाव दु उवरिल्लया दु गेवज्जा । मिच्छत्तसंसिदेण दु बहुसो वि भवट्ठिदी भमिदा ॥ ’ १०भावपरिवर्तनमुच्यते — पञ्चेन्द्रियः सञ्ज्ञी पर्याप्तको मिथ्यादृष्टिः कश्चिज्जीवः स सर्वजघन्यां स्वयोग्यां ज्ञानावरणप्रकृतेः स्थितिमन्तःकोटीकोटीसंज्ञिकामापद्यते । तस्य कषायाध्यवसायस्थानान्यसंख्येयलोकप्रमितानि षट्स्थानपतितानि तत्स्थितियोग्यानि भवन्ति । तत्र सर्वजघन्यकषायाध्यवसायस्थाननिमित्तान्यनुभागाध्यवसायस्थानान्य- संख्येयलोकप्रमितानि भवन्ति । एवं सर्वजघन्यां स्थितिं सर्वजघन्यं च कषायाध्यवसा- १६८यस्थानं सर्वजघन्यमेवानुभागबन्धस्थानमास्कन्दतस्तद्योग्यं सर्वजघन्यं योगस्थानं भवति । तेषामेव स्थितिकषायानुभागस्थानानां द्वितीयमसंख्येयभागवृद्धियुक्तं योगस्थानं भवति । एवं च तृतीयादिषु चतुःस्थानपतितानि श्रेण्यसंख्येयभागप्रमितानि योगस्थानानि भवन्ति । तथा तामेव स्थितिं तदेव कषायाध्यवसायस्थानं च प्रतिपद्यमानस्य द्वितीयमनुभवाध्यव- ०५सायस्थानं भवति । तस्य च योगस्थानानि पूर्ववद्वेदितव्यानि । एवं तृतीयादिष्वपि अनु- भवाध्यवसायस्थानेषु आ असंख्येयलोकपरिसमाप्तेः । एवं तामेव स्थितिमापद्यमानस्य द्वितीयं कषायाध्यवसायस्थानं भवति । तस्याप्यनुभवाध्यवसायस्थानानि योगस्थानानि च पूर्ववद्वेदितव्यानि । एवं तृतीयादिष्वपि कषायाध्यवसायस्थानेषु आ असंख्येयलोक- परिसमाप्तेर्वृद्धिक्रमो वेदितव्यः । उक्ताया जघन्यायाः स्थितेः समयाधिकायाः कषायादि- १०स्थानानि पूर्ववत् । एवं समयाधिकक्रमेण आ उत्कृष्टस्थितेस्त्रिंशत्सागरोपमकोटी- कोटीपरिमितायाः कषायादिस्थानानि वेदितव्यानि । अनन्तभागवृद्धिः असंख्येय- १६९भागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिः असंख्येयगुणवृद्धिः अनन्तगुणवृद्धिः इमानि षट् वृद्धिः स्थानानि । हानिरपि तथैव । अनन्तभागवृद्ध्यनन्तणवृद्धिरहितानि चत्वारि स्थानानि । एवं सर्वेषां कर्मणां मूलप्रकृतीनामुत्तरप्रकृतीनां च परिवर्तनक्रमो वदितव्यः । तदेतत्सर्वं समुदितं भावपरिवर्तनम् । उक्तं च — ०५’सव्वा पयडिट्ठदीओ अणुभागपदेसबंधठाणाणि । मिच्छत्तसंसिदेण य भमिदा पुण भावसंसारे ॥ ’ उक्तात्पञ्चविधात्संसारान्निवृत्ता ये ते मुक्ताः । संसारिणां प्रागुपादानं तत्पूर्वक- त्वान्मुक्तव्यपदेशस्य । १७०य एते संसारिणस्ते द्विविधाः — समनस्कामनस्काः ॥ ११ ॥ मनो द्विविधम् — द्रव्यमनो भावमनश्चेति । तत्र पुद्गलविपाकिकर्मोदयापेक्षं द्रव्यमनः । वीर्यान्तरायनोइन्द्रियावरणक्षयोपशमापेक्षा आत्मनो विशुद्धिर्भावमनः । तेन ०५मनसा सह वर्तन्त इति समनस्काः । न विद्यते मनो येषां त इमे अमनस्काः । एवं मनसो भावाभावाभ्यां संसारिणो द्विविधा विभज्यन्ते । समनस्काश्चामनस्काश्च समनस्कामन- मनस्का इति । अभ्यर्हितत्वात्समनस्कशब्दस्य पूर्वनिपातः । कथमभ्यर्हितत्वम् ? गुण- दोषविचारकत्वात् । पुनरपि संसारिणां भेदप्रतिपत्त्यर्थमाह — १०संसारिणस्त्रसस्थावराः ॥ १२ ॥ ‘संसारि’ग्रहणमनर्थकम्; प्रकृतत्वात् । क्व प्रकृतम् ? ‘संसारिणो मुक्ताश्च’इति । नानर्थकम् । पूर्वापेक्षार्थम् । ये उक्ताः समनस्का अमनस्कास्ते संसारिण इति । यदि हि १७१पूर्वस्य विशेषणं न स्यात् समनस्कामनस्कग्रहणं संसारिणो मुक्ताश्चेत्यनेन यथासंख्यम- भिसंबध्येत । एवं च कृत्वा ‘संसारि’ग्रहणमादौ क्रियमाणमुपपन्नं भवति ? तत्पूर्वापेक्षं सदुत्तरार्थमपि भवति । ते संसारिणो द्विविधाः — त्रसाः स्थावरा इति । त्रसनामकर्मो- दयवशीकृतास्त्रसाः । स्थावरनामकर्मोदयवशवर्तिनः स्थावराः । त्रस्यन्तीति त्रसाः, स्थान- ०५शीलाः स्थावरा इति चेत् ? न; आगमविरोधात् । आगमे हि कायानुवादेन त्रसा द्वीन्द्रिया- दारभ्य आ अयोगकेवलिन इति । तस्मान्न चलनाचलनापेक्षं त्रसस्थावरत्वम् । कर्मोदया- पेक्षमेव । त्रसग्रहणमादौ क्रियते; अल्पाच्तरत्वादभ्यर्हितत्वाच्च । सर्वोपयोगसम्भवाद- भ्यर्हितत्वम् । एकेन्द्रियाणामतिबहुवक्तव्याभावादुल्लङ्घ्यानुपूर्वीं स्थावरभेदप्रतिपत्त्यर्थमाह — १०पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥ १३ ॥ १७२स्थावरनामकर्मभेदाः पृथिवीकायादयः सन्ति । तदुदयनिमित्ता जीवेषु पृथि- व्यादयः सञ्ज्ञा वेदितव्याः । प्रथनादिप्रकृतिनिष्पन्ना अपि रूढिवशात्प्रथनाद्यनपेक्षा वर्तन्ते । एषां पृथिव्यादीनामार्षे चातुर्विध्यमुक्तं प्रत्येकम् । तत्कथमिति चेद् ? उच्यते — पृथिवी पृथि- वीकायः पृथिवीकायिकः पृथिवीजीव इत्यादि । तत्र अचेतना वैश्रसिकपरिणामनिर्वृत्ता ०५काठिन्यगुणात्मिका पृथिवी । अचेतनत्वादसत्यपि पृथिवीकायनामकर्मोदये प्रथनक्रियोपल- क्षितैवेयम् । अथवा पृथिवीति सामान्यम्; उत्तरत्रयेऽपि सद्भावात् । कायः शरीरम् । पृथिवीकायिकजीवपरित्यक्तः पृथिवीकायो मृतमनुष्यादिकायवत् । पृथिवीकायोऽस्या- स्तीति पृथिवीकायिकः । तत्कायसम्बन्धवशीकृत आत्मा । समवाप्तपृथिवीकायनामक- र्मोदयः कार्मणकाययोगस्थो यो न तावत्पृथिवीं कायत्वेन गृह्णाति स पृथिवीजीवः । १०एवमबादिष्वपि योज्यम् । एते पञ्चविधाः प्राणिनः स्थावराः । कति पुनरेषां प्राणाः ? चत्वारः स्पर्शनेन्द्रियप्राणः कायबलप्राणः उच्छ्वासनिश्वासप्राणः आयुःप्राणश्चेति । १७३अथ त्रसाः के ते इत्यत्रोच्यते — द्वीन्द्रियादयस्त्रसाः ॥ १४ ॥ द्वे इन्द्रिये यस्य सोऽयं द्वीन्द्रियः । द्वीन्द्रिय आदिर्येषां ते द्वीन्द्रियादयः । ‘आदि’ शब्दो व्यवस्थावाची । क्व व्यवस्थिताः ? आगमे । कथम् ? द्वीन्द्रियस्त्रीन्द्रियश्चतुरि- ०५न्द्रियः पञ्चेन्द्रियश्चेति । तद्गुणसंविज्ञानवृत्तिग्रहणाद् द्वीन्द्रियस्याप्यन्तर्भावः । कति पुनरेषां प्राणाः ? द्वीन्द्रियस्य तावत् षट् प्राणाः, पूर्वोक्ता एव रसनवाक्प्राणाधिकाः । त्रीन्द्रियस्य सप्त त एव ध्राणप्राणाधिकाः । चतुरिन्द्रियस्याष्टौ त एव चक्षुःप्राणाधिकाः । पञ्चेन्द्रियस्य तिरश्चोऽसंज्ञिनो नव त एव श्रोत्रप्राणाधिकाः । संज्ञिनो दश त एव मनोबल- प्राणाधिकाः । १७४‘आदि’शब्देन निर्दिष्टानामनिर्ज्ञातसंख्यानामियत्तावधारणं कर्त्तव्यमित्यत आह — पञ्चेन्द्रियाणि ॥ १५ ॥ ‘इन्द्रिय’ शब्दो व्याख्यातार्थः । ‘पञ्च’ग्रहणमवधारणार्थम्, पञ्चै वनाधिक- संख्यानीति । कर्मेन्द्रियाणां वागादीनामिह ग्रहणं कर्तव्यम् ? न कर्तव्यम्; ०५उपयोगप्रकरणात् । उपयोगसाधनानामिह ग्रहणं न क्रियासाधनानाम्; अनवस्थानाच्च । क्रियासाधनानामङ्गोपाङ्गनामकर्मनिर्वर्तितानां सर्वेषामपि क्रियासाधनत्वमस्तीति न पञ्चैव कर्मेन्द्रियाणि । तेषामन्तर्भेदप्रदर्शनार्थमाह — द्विविधानि ॥ १६ ॥ १०‘विध’ शब्दः प्रकारवाची । द्वौ विधौ येषां तानि द्विविधानि, द्विप्रकाराणीत्यर्थः । १७५कौ पुनस्तौ द्वौ प्रकारौ ? द्रव्येन्द्रियं भावेन्द्रियमिति । तत्र द्रव्येन्द्रियस्वरूपप्रतिपत्त्यर्थमाह — निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वर्त्यते इति निर्वृत्तिः । केन निर्वर्त्यते ? कर्मणा । सा द्विविधा; बाह्याभ्य- ०५न्तरभेदात् । उत्सेधाङ्गुलासंख्येयभागप्रमितानां शुद्धानामात्मप्रदेशानां प्रतिनियतचक्षु- रादीन्द्रियसंस्थानेनावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । तेष्वात्मप्रदेशेष्विन्द्रियव्यपदेश- भाक्षु यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः सा बाह्या निर्वृत्तिः । येन निर्वृत्तेरुपकारः क्रियते तदुपकरणम् । पूर्ववत्तदपि द्विविधम् । तत्रा- भ्यन्तरं कृष्णशुक्लमण्डलं बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेषु ज्ञेयम् । १७६भावेन्द्रियमुच्यते — लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लम्भनं लब्धिः । का पुनरसौ ? ज्ञानावरणकर्मक्षयोपशमविशेषः । यत्सन्निधा- नादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते तन्निमित्त आत्मनः परिणाम उपयोगः । तदु- ०५भये भावेन्द्रियम् । इन्द्रियफलमुपयोगः, तस्य कथमिन्द्रियत्वम् ? कारणधर्मस्य कार्ये दर्शनात् । यथा घटाकारपरिणतं विज्ञानं घट इति । स्वार्थस्य तत्र मुख्यत्वाच्च । इन्द्रस्य लिङ्गमिन्द्रियमिति यः स्वार्थः स उपयोगे मुख्यः, उपयोगलक्षणो जीव इति वचनात् । अत उपयोगस्येन्द्रियत्वं न्याय्यम् । १७७उक्तानामिन्द्रियाणां संज्ञानुपूर्वीप्रतिपादनार्थमाह — स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ १९ ॥ लोके इन्द्रियाणां पारतन्त्र्यविवक्षा दृश्यते । अनेनाक्ष्णा सुष्ठु पश्यामि, अनेन कर्णेन सुष्ठु शृणोमीति । ततः पारतन्त्र्यात्स्पर्शनादीनां करणत्वम् । वीर्यान्तरायमति- ०५ज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भादात्मना स्पृश्यतेऽनेनेति स्पर्शनम् । १७८रस्यतेऽनेनेति रसनम् । घ्रायतेऽनेनेति घ्राणम् । चक्षेरनेकार्थत्वाद्दर्शनार्थविवक्षायां चष्टे अर्थान्पश्यत्यनेनेति चक्षुः । श्रूयतेऽनेनेति श्रोत्रम् । स्वातन्त्र्यविवक्षा च दृश्यते । इदं मे अक्षि सुष्ठु पश्यति । अयं मे कर्णः सुष्ठु शृणोति । ततः स्पर्शनादीनां कर्तरि निष्पत्तिः । स्पृशतीति स्पर्शनम् । रसतीति रसनम् । जिघ्रतीति घ्राणम् । चष्टे इति चक्षुः । शृणो- ०५तीति श्रोत्रम् । एषां निर्देशक्रमः एकैकवृद्धिक्रमप्रज्ञापनार्थः । तेषामिन्द्रियाणां विषयप्रदर्शनार्थमाह — स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥ २० ॥ द्रव्यपर्याययोः प्राधान्यविवक्षायां कर्मभावसाधनत्वं स्पर्शादिशब्दानां वेदितव्यम् । द्रव्यप्राधान्यविवक्षायां कर्मनिर्देशः । स्पृश्यत इति स्पर्शः । रस्यत इति रसः । गन्ध्यत १०इति गन्धः । वर्ण्यत इति वर्णः । शब्द्यत इति शब्दः । पर्यायप्राधान्यविवक्षायां भाव- १७९निर्देशः । स्पर्शानं स्पर्शः । रसनं रसः । गन्धनं गन्धः । वर्णनं वणः । शब्दनं शब्द इति । एषां क्रम इन्द्रियक्रमेणैव व्याख्यातः । अत्राह, यत्तावन्मनोऽनवस्थानादिन्द्रियं न भवतीति प्रत्याख्यातं तत्किमुपयोग- स्योपकारि उत नेति ? तदप्युपकार्येव । तेन विनेन्द्रियाणां विषयेषु स्वप्रयोजनवृत्त्य- ०५भावात् । किमस्यैषां सहकारित्वमात्रमेव प्रयोजनमुतान्यदपीत्यत आह — श्रुतमनिन्द्रियस्य ॥ २१ ॥ श्रुतज्ञानविषयोऽर्थः श्रुतम् । स विषयोऽनिन्द्रियस्य; परिप्राप्तश्रुतज्ञानावरण- क्षयोपशमस्यात्मनः श्रुतार्थेऽनिन्द्रियालम्बनज्ञानप्रवृत्तेः । अथवा श्रुतज्ञानं श्रुतम्, तदनि- न्द्रियस्यार्थः प्रयोजनमिति यावत् । स्वातन्त्र्यसाध्यमिदं प्रयोजनमनिन्द्रियस्य । १८०उक्तानामिन्द्रियाणां प्रतिनियतविषयाणां स्वामित्वनिर्देशे कर्तव्ये यत्प्रथमं गृहीतं स्पर्शनं तस्य तावत्स्वामित्वावधारणार्थमाह — वनस्पत्यन्तानामेकम् ॥ २२ ॥ एकं प्रथममित्यर्थः । किं तत् ? स्पर्शनम् । तत्केषाम् ? पृथिव्यादीनां वनस्प- ०५त्यन्तानां वेदितव्यम् । तस्योत्पत्तिकारणमुच्यते — वीर्यान्तरायस्पर्शनेन्द्रियावरणक्षयो- पशमे सति शेषेन्द्रियसर्वघातिस्पर्धकोदये च शरीरनामलाभावष्टम्भे एकेन्द्रियजाति- नामोदयवशवर्तितायां च सत्यां स्पर्शनमेकमिन्द्रियमाविर्भवति । इतरेषामिन्द्रियाणां स्वामित्वप्रदर्शनार्थमाह — कृमिपिपीलकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २३ ॥ १०‘एकैकम्’ इति वीप्सायां द्वित्वम् । एकैकेन वृद्धानि एकैकवृद्धानि । कृमिमादिं कृत्वा, स्पर्शनाधिकारात् स्पर्शनमादिं कृत्वा एकैकवृद्धानीत्यभिसम्बन्धः क्रियते । ‘आदि’ शब्दः प्रत्येकं परिसमाप्यते । कृम्यादीनां स्पर्शनं रसनाधिकम्, पिपीलिकादीनां स्पर्शनरसने १८१ध्राणाधिके, भ्रमरादीनां स्पर्शनरसनघ्राणानि चक्षुरधिकानि, मनुष्यादीनां तान्येव श्रोत्रा- धिकानीति यथासंख्येनाभिसम्बन्धो व्याख्यातः । तेषां निष्पत्तिः स्पर्शनोत्पत्त्या व्याख्याता उत्तरोत्तरसर्वघातिस्पर्धकोदयेन । एवमेतेषु संसारिषु द्विभेदेषु इन्द्रियभेदात्पञ्चविधेषु ये पञ्चेन्द्रियास्तद्भेदस्या- ०५नुक्तस्य प्रतिपादनार्थमाह — संज्ञिनः समनस्काः ॥ २४ ॥ मनो व्याख्यातम् । सह तेन ये वर्तन्ते ते समनस्काः । संज्ञिन इत्युच्यन्ते । पारिशेष्यादितरे संसारिणः प्राणिनोऽसंज्ञिन इति सिद्धम् । ननु च संज्ञिन इत्यनेनैव गतार्थ- त्वात्समनस्का इति विशेषणमनर्थकम् । यतो मनोव्यापारो हिताहितप्राप्तिपरिहारपरीक्षा । १०संज्ञापि सैवेति ? नैतद्युक्तम्, संज्ञाशब्दार्थव्यभिचारात् । संज्ञा नामेत्युच्यते । तद्वन्तः सञ्ज्ञिन इति सर्वेषामतिप्रसङ्गः । संज्ञा ज्ञानमिति चेत्; सर्वेषां प्राणिनां १८२ज्ञानात्मकत्वादतिप्रसङ्गः । आहारादिविषयाभिलाषः संज्ञेति चेत् ? तुल्यम् । तस्मात्स- मनस्का इत्युच्यते । एवं च कृत्वा गर्भाण्डजमूर्च्छितसुषुप्त्याद्यवस्थासु हिताहितपरीक्षा- भावेऽपि मनःसन्निधानात्सञ्ज्ञित्वमुपपन्नं भवति । यदि हिताहितादिविषयपरिस्पन्दः प्राणिनां मनःप्रणिधानपूर्वकः । अथाभि- ०५नवशरीरग्रहणं प्रत्यागूर्णस्य विशीर्णपूर्वमूर्तेर्निर्मनस्कस्य यत्कर्म तत्कुत इत्युच्यते — विग्रहगतौ कर्मयोगः ॥ २५ ॥ विग्रहो देहः । विग्रहार्था गतिर्विग्रहगतिः । अथवा विरुद्धो ग्रहो विग्रहो व्याघातः । कर्मादानेऽपि नोकर्मपुद्गलादाननिरोध इत्यर्थः । विग्रहेण गतिर्विग्रहगतिः । सर्व- १८३शरीरप्ररोहणबीजभूतं कार्मणं शरीरं कर्मेत्युच्यते । योगो वाङ्मनसकायवर्गणानिमित्त आत्मप्रदेशपरिस्पन्दः । कर्मणा कृतो योगः कर्मयोगो विग्रहगतौ भवतीत्यर्थः । तेन कर्मादानं देशान्तरसंक्रमश्च भवति । आह जीवपुद्गलानां गतिमास्कन्दतां देशान्तरसंक्रमः किमाकाशप्रदेशक्रमवृत्त्या ०५भवति, उताविशेषेणेत्यत आह — अनुश्रेणि गतिः ॥ २६ ॥ लोकमध्यादारभ्य ऊर्ध्वमधस्तिर्यक् च आकाशप्रदेशानां क्रमसन्निविष्टानां पङ्क्तिः श्रेणिः इत्युच्यते । ‘अनु’ शब्दस्यानुपूर्व्येण वृत्तिः । श्रेणेरानुपूर्व्येणानुश्रेणीति जीवानां पुद्गलानां च गतिर्भवतीत्यर्थः । अनधिकृतानां पुद्गलानां कथं ग्रहणमिति चेत् ? गति- १०ग्रहणात् । यदि जीवानामेव गतिरिष्टा स्याद् गतिग्रहणमनर्थकम्; अधिकारात्तत्सिद्धेः । उत्तरत्र जीवग्रहणाच्च पुद्गलसंप्रत्ययः । ननु चन्द्रादीनां ज्योतिष्काणां मेरुप्रदक्षिणा- काले विद्याधरादीनां च विश्रेणिगतिरपि दृश्यते, तत्र किमुच्यते ‘अनुश्रेणि गतिः’ इति ? १८४कालदेशनियमोऽत्र वेदितव्यः । तत्र कालनियमस्तावज्जीवानां मरणकाले भवान्तरसंक्रम मुक्तानां चोर्ध्वगमनकाले अनुश्रेण्येव गतिः । देशनियमोऽपि ऊर्ध्वलोकादधोगतिः, अधो- लोकादूर्ध्वगतिः, तिर्यग्लोकादधोगतिरूर्ध्वा वा तत्रानुश्रेण्येव । पुद्गलानां च या लोकान्त- प्रापिणी सा नियमादनुश्रेण्येव । इतरा गतिर्भजनीया । ०५पुनरपि गतिविशेषप्रतिपत्त्यर्थमाह — अविग्रहाः जीवस्य ॥ २७ ॥ विग्रहो व्याघातः कौटिल्यमित्यर्थः । स यस्यां न विद्यतेऽसावविग्रहा गतिः । कस्य ? जीवस्य । कीदृशस्य ? मुक्तस्य । कथं गम्यते मुक्तस्येति ? उत्तरसूत्रे संसारि- ग्रहणादिह मुक्तस्येति विज्ञायते । ननु च ‘अनुश्रेणि गतिः, इत्यनेनैव श्रेण्यन्तरसंक्रमाभावो १०व्याख्यातः । नार्थोऽनेन ? पूर्वसूत्रे विश्रेणिगतिरपि क्वचिदस्तीति ज्ञापनार्थमिदं १८५वचनम् । ननु तत्रैव देशकालनियम उक्तः ? न; अतस्तत्सिद्धेः । यद्यसङ्गस्यात्मनोऽप्रतिबन्धेन गतिरालोकान्तादवधृतकाला प्रतिज्ञायते, सदेहस्य पुनर्गतिः किं प्रतिबन्धिनी उत मुक्तात्मवदित्यत आह — विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ॥ २८ ॥ ०५कालावधारणार्थं ‘प्राक्चतुर्भ्यः’ इत्युच्यते । ‘प्राग्’ इति वचनं मर्यादार्थम्, चतुर्था- त्समयात्प्राग्विग्रहवती गतिर्भवति न चतुर्थे इति । कुत इति चेत् ? सर्वोत्कृष्टविग्रहनिमित्त- निष्कुटक्षेत्रे उत्पित्सुः प्राणी निष्कुटक्षेत्रानुपूर्व्यनुश्रेण्यभावादिषुगत्यभावे निष्कुटक्षेत्रप्रापण- निमित्तां त्रिविग्रहां गतिमारभते नोर्ध्वाम्; तथाविधोपपादक्षेत्राभावात् । ‘च’ शब्दः समुच्चयार्थः । विग्रहवती चाविग्रहा चेति । १८६विग्रहवत्या गतेः कालोऽवधृतः । अविग्रहायाः कियान् काल इत्युच्यते — एकसमयाऽविग्रहा ॥ २९ ॥ एकः समयो यस्याः सा एकसमया । न विद्यते विग्रहो यस्याः सा अविग्रहा । गतिमतां हि जीवपुद्गलानामव्याघातेनैकसमयिकी गतिरालोकान्तादपीति । ०५अनादिकर्मबन्धसन्ततौ मिथ्यादर्शनादिप्रत्ययवशात्कर्माण्याददानो विग्रहगता- वप्याहारकः प्रसक्तस्ततो नियमार्थमिदमुच्यते — एकं द्वौ त्रीन्वाऽनाहारकः ॥ ३० ॥ अधिकारात्समयाभिसम्बन्धः । ‘वा’शब्दो विकल्पार्थः । विकल्पश्च यथेच्छाति- सर्गः । एकं वा द्वौ वा त्रीन्वा समयाननाहारको भवतीत्यर्थः । त्रयाणां शरीराणां षण्णां १०पर्याप्तीनां योग्यपुद्गलग्रहणमाहारः । तदभावादनाहारकः । कर्मादानं हि निरन्तरं कार्मणशरीरसद्भावे । उपपादक्षेत्रं प्रति ऋज्व्यां गतौ आहारकः । इतरेषु त्रिषु समयेषु अनाहारकः ॥ १८७एवं गच्छतोऽभिनवमूर्त्यन्तरनिर्वृत्तिप्रकारप्रतिपादनार्थमाह — सम्मूर्च्छनगर्भोपपादा जन्म ॥ ३१ ॥ त्रिषु लोकेषूर्ध्वमधस्तिर्यक् च देहस्य समन्ततो मूर्च्छनं सम्मूर्च्छनमवयवप्रकल्प- नम् । स्त्रिया उदरे शुक्रशोणितयोर्गरणं मिश्रणं गर्भः । मात्रुपभुक्ताहारगरणाद्वा गर्भः । ०५उपेत्य पद्यतेऽस्मिन्निति उपपादः । देवनारकोत्पत्तिस्थानविशेषसञ्ज्ञा । एते त्रयः संसारिणां जीवानां जन्मप्रकाराः शुभाशुभपरिणामनिमित्तकर्मभेदविपाककृताः । अथाधिकृतस्य संसारविषयोपभोगोपलब्ध्यधिष्ठानप्रवणस्य जन्मनो योनिवि- कल्पा वक्तव्या इत्यत आह — सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥ ३२ ॥ १०आत्मनश्चैतन्यविशेषपरिणामश्चित्तम् । सह चित्तेन वर्तत इति संचित्तः । शीत इति स्पर्शविशेषः, शुक्लादिवदुभयवचनत्वात्तद्युक्तं द्रव्यमप्याह । सम्यग्वृतः संवृतः । १८८संवृत इति दुरुपलक्ष्यप्रदेश उच्यते । सह इतरैर्वर्तन्त इति सेतराः । सप्रतिपक्षा इत्यर्थः । के पुनरितरे ? अचित्तोष्णविवृताः । उभयात्मको मिश्रः । सचित्ताचित्तः शीतोष्णः संवृत- विवृत इति । ‘च’शब्दः समुच्चयार्थः मिश्राश्च योनयो भवन्तीति । इतरथा हि पूर्वोक्तानामेव विशेषणं स्यात् । ‘एकशः’ इति वीप्सार्थः । तस्य ग्रहणं क्रममिश्रप्रतिपत्त्यर्थम् । यथैवं ०५विज्ञायेत — सचित्तश्च अचित्तश्च, शीतश्च उष्णश्च, संवृतश्च विवृतश्चेति । भैवं विज्ञायि — सचित्तश्च शीतश्चेत्यादि । ‘तद्ग्रहणं जन्मप्रकारप्रतिनिर्देशार्थम् । तेषां सम्मूर्च्छनादीनां जन्मनां योनय इति । एते नव योनयो वेदितव्याः । योनिजन्मनोरविशेष इति चेत् ? न; आधाराधेयभेदात्तद्भेदः । त एते सचित्तादयो योनय आधाराः । आधेया जन्मप्रकाराः । यतः सचित्तादियोन्यधिष्ठाने आत्मा सम्मूर्च्छनादिना जन्मना शरीराहारेन्द्रियादियोग्या- १०न्पुद्गलानुपादत्ते । देवनारका अचित्तयोनयः । तेषां हि योनिरुपपाददेशपुद्गलप्रचयोऽ- चित्तः । गर्भजा मिश्रयोनयः । तेषां हि मातुरुदरे शुक्रशोणितमचित्तम्, तदात्मना चित्तवता मिश्रणान्मिश्रयोनिः । सम्मूर्च्छनजास्त्रिविकल्पयोनयः । केचित्सचित्तयोनयः । १८९अन्ये अचित्तयोनयः । अपरे मिश्रयोनयः । सचित्तयोनयः साधारणशरीराः । कुतः ? परस्पराश्रयत्वात् । इतरे अचित्तयोनयो मिश्रयोनयश्च । शीतोष्णयोनयो देवनारकाः । तेषां हि उपपादस्थानानि कानिचिच्छीतानि कानिचिदुष्णानीति । उष्णयोनयस्तैजस्का- यिकाः । इतरे त्रिविकल्पयोनयः । केचिच्छीतयोनयः । केचिदुष्णयोनयः । अपरे मिश्र- ०५योनय इति । देवनारकैकेन्द्रियाः संवृतयोनयः । विकलेन्द्रिया विवृतयोनयः । गर्भजाः मिश्रयोनयः । तद्भेदाश्चतुरशीतिशतसहस्रसंख्या आगमतो वेदितव्याः । उवkतं च — ‘णिच्चिदरधादु सत्त य तरु दस वियलिंदिएसु छच्चेव । सुरणिरयतिरिय चौरो चोद्दस मणुए सदसहस्सा ॥ ’ एवमेतस्मिन्नवयोनिभेदसङ्कटे त्रिविधजन्मनि सर्वप्राणभृतामनियमेन प्रसक्ते तद- १०वधारणार्थमाह — जरायुजाण्डजपोतानां गर्भः ॥ ३३ ॥ यज्जालवत्प्राणिपरिवरणं विततमांसशोणितं तज्जरायुः । यन्नखत्वक्सदृशमु- १९०पात्तकाठिन्यं शुक्रशोणितपरिवरणं परिमण्डलं तदण्डम् । किञ्चित्परिवरणमन्तरेण परिपूर्णावयवो योनिनिर्गतमात्र एव परिस्पन्दादिसामर्थ्योपेतः पोतः । जरायौ जाता जरायुजाः । अण्डे जाता अण्डजाः । जरायुजाश्च अण्डजाश्च पोताश्च जरायु- जाण्डजपोता गर्भयोनयः । ०५यद्यमीषां जरायुजाण्डजपोतानां गर्भोऽवध्रियते, अथोपपादः केषां भवतीत्यत आह — देवनारकाणामुपपादः ॥ ३४ ॥ देवानां नारकाणां चोपपादो जन्म वेदितव्यम् । अथान्येषां किं जन्मेत्यत आह — १०शेषाणां सम्मूर्च्छनम् ॥ ३५ ॥ गर्भजेभ्य औपपादिकेभ्यश्चान्ये शेषाः । सम्मूर्छनं जन्मेति । एते त्रयोऽपि योगा नियमार्थाः । उभयतो नियमश्च द्रष्टव्यः । जरायुजाण्डजपोतानामेव गर्भः । गर्भ एव च जरायुजाण्डजपोतानाम् । देवनारकाणामेवोपपादः । उपपाद एव च देवनारकाणाम् । शेषाणामेव सम्मूर्च्छनम् । संमूर्च्छनमेव शेषाणामिति । १९१तेषां पुनः संसारिणां त्रिविधजन्मनामाहितबहुविकल्पनवयोनिभेदानां शुभाशुभ- नामकर्मविपाकनिर्वर्तितानि बन्धफलानुभवनाधिष्ठानानि शरीराणि कानीत्यत आह — औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥ ३६ ॥ विशिष्टनामकर्मोदयापादितवृत्तीनि शीर्यन्त इति शरीराणि । औदारिकादि- ०५प्रकृतिविशेषोदयप्राप्तवृत्तीनि औदारिकादीनि । उदार स्थूलम् । उदारे भवं उदारं प्रयोजनमस्येति वा औदारिकम् । अष्टगुणैश्वर्ययोगादेकानेकाणुमहच्छरीरविविधकरणं विक्रिया, सा प्रयोजनमस्येति वैक्रियिकम् । सूक्ष्मपदार्थनिर्ज्ञानार्थमसंयमपरिजिहीर्षया वा प्रमत्तसंयतेनाह्रियते निर्वर्त्यते तदित्याहारकम् । यत्तेजोनिमित्तं तेजसि वा भवं तत्तैज- सम् । कर्मणां कार्यं कार्मणम् । सर्वेषां कर्मनिमित्तत्त्वेऽपि रूढिवशाद्विशिष्टविषये वृत्ति- १०रवसेया । यथौदारिकस्येन्द्रियैरुपलब्धिस्तथेतरेषां कस्मान्न भवतीत्यत आह — परम्परं सूक्ष्मम् ॥ ३७ ॥ ‘पर’शब्दस्यानेकार्थवृत्तित्वेऽपि विवक्षातो व्यवस्थार्थगतिः । पृथग्भूतानां शरी- १९२राणां सूक्ष्मगुणेन वीप्पानिर्देशः क्रियते परम्परमिति । औदारिकं स्थूलम्, ततः सूक्ष्मं वैक्रि- यिकम्, ततः सूक्ष्मं आहारकम्, ततः सूक्ष्मं तैजसम्, तैजसात्कार्मणं सूक्ष्ममिति । यदि परम्परं सूक्ष्मम्, प्रदेशतोऽपि न्यूनं परम्परं हीनमिति विपरीतप्रतिपत्तिनिवृत्त्य- र्थमाह — ०५प्रदेशतोऽसंख्येयगुणं प्राक्तैजसात् ॥ ३८ ॥ प्रदिश्यन्त इति प्रदेशाः परमाणवः । संख्यामतीतोऽसंख्येयः । असंख्येयो गुणो- ऽस्य तदिदमसंख्येयगुणम् । कुतः ? प्रदेशतः । नावगाहतः । परम्परमित्यनुवृत्तेरा कार्म- णात्प्रसङ्गे तन्निवृत्त्यर्थमाह प्राक्तैजसादिति । औदारिकादसंख्येयगुणप्रदेशं वैक्रियिकम् । वैक्रियिकादसंख्येयगुणप्रदेशमाहारकमिति । को गुणकारः ? पल्योपमासंख्येयभागः । १०यद्येवं, परम्परं महापरिमाणं प्राप्नोति ? नैवम्; बन्धविशेषात्परिमाणभेदा- भावस्तूलनिचयायःपिण्डवत् । १९३अथोत्तरयोः किं समप्रदेशत्वमुतास्ति कश्चिद्विशेष इत्यत आह — अनन्तगुणे परे ॥ ३९ ॥ प्रदेशत इत्यनुवर्तते, तेनैवमभिसम्बन्धः क्रियते — आहारकात्तैजसं प्रदेशतोऽनन्त- गुणम, तैजसात्कार्मणं प्रदेशतोऽनन्तगुणमिति । को गुणकारः ? अभव्यानामनन्तगुणः सिद्धा- ०५नामनन्तभागः । तत्रेतत्स्याच्छल्यकवन्मूर्तिमद्द्रव्योपचितत्वात्संसारिणो जीवस्याभिप्रेतगतिनिरोध- प्रसङ्ग इति ? तन्न; किं कारणम् ? यस्मादुभे अप्येते — अप्रतीघाते ॥ ४० ॥ मूर्तिमतो मूर्त्यन्तरेण व्याघातः प्रतीघातः । स नास्त्यनयोरित्यप्रतीघाते; सूक्ष्म- १०परिणामात् । अयःपिण्डे तेजोऽनुप्रवेशवत्तैजसकार्मणयोर्नास्ति वज्रपटलादिषु व्याघातः । ननु च वैक्रियिकाहारकयोरपि नास्ति प्रतीघातः ? सर्वत्राप्रतीघातोऽत्र विवक्षितः । यथा १९४तेजसकार्मणयोरा लोकान्तात् सर्वत्र नास्ति प्रतीघातः, न तथा वैक्रियिकाहारकयोः । आह किमेतावानेव विशेष उत कश्चिदन्योऽप्यस्तीत्याह — अनादिसम्बन्धे च ॥ ४१ ॥ ‘च’शब्दो विकल्पार्थः । अनादिसम्बन्धे सादिसम्बन्धे चेति । कार्यकारणभाव- ०५सन्तत्या अनादिसम्बन्धे, विशेषापेक्षया सादिसम्बन्धे च बीजवृक्षवत् । यथौदारिक- वैक्रियिकाहारकाणि जीवस्य कादाचित्कानि, न तथा तैजसकार्मणे । नित्यसम्बन्धिनी हि ते आ संसारक्षयात् । त एते तैजसकार्मणे किं कस्यचिदेव भवत उताविशेषेणेत्यत आह — सर्वस्य ॥ ४२ ॥ १०‘सर्व’शब्दो निरवशेषवाची । निरवशेषस्य संसारिणो जीवस्य ते द्वे अपि शरीरे भवत इत्यर्थः । अविशेषाभिधानात्तैरौदारिकादिभिः सर्वस्य संसारिणो यौगपद्येन सम्बन्धप्रसङ्गे सम्भविशरीरप्रदर्शनार्थमिदमुच्यते — १९५तदादीनि भाज्यानि युगपदेकस्या चतुर्भ्यः ॥ ४३ ॥ ‘तत्’शब्दः प्रकृततैजसकार्मणप्रतिनिर्देशार्थः । ते तैजसकार्मणे आदिर्येषां तानि तदादीनि । भाज्यानि विकल्प्यानि । आ कुतः ? आ चतुर्भ्यः । युगपदेकस्यात्मनः । कस्यचिद् द्वे तैजसकार्मणे । अपरस्य त्रीणि औदारिकतैजसकार्मणानि वैक्रियिकतैजस- ०५कार्मणानि वा । अन्यस्य चत्वारि औदारिकाहारकतैजसकार्मणानीति विभागः क्रियते । पुनरपि तेषां विशेषप्रतिपत्त्यर्थमाह — निरुपभोगमन्त्यम् ॥ ४४ ॥ अन्ते भवमन्त्यम् । किं तत् ? कार्मणम् । इन्द्रियप्रणालिकया शब्दादीनामुप- १९६लब्धिरुपभोगः । तदभावान्निरुपभोगम् । विग्रहगतौ सत्यामपि इन्द्रियलब्धौ द्रव्ये- न्द्रियनिर्वृत्त्यभावाच्छब्दाद्युपभोगाभाव इति । ननु तैजसमपि निरुपभोगम् । तत्र किमु- च्यते निरुपभोगमन्त्यमिति ? तैजसं शरीरं योगनिमित्तमपि न भवति, ततोऽस्योपभोग- विचारेऽनधिकारः । ०५एवं तत्रोक्तलक्षणेषु जन्मसु अमूनि शरीराणि प्रादुर्भावमापद्यमानानि किम- विशेषेण भवन्ति, उत कश्चिदस्ति प्रतिविशेष इत्यत आह — गर्भसम्मूर्च्छनजमाद्यम् ॥ ४५ ॥ १९७सूत्रक्रमापेक्षया आदौ भवमाद्यम् । औदारिकमित्यर्थः । यद् गभजं यच्च सम्मू- र्च्छनजं तत्सर्वमौदारिकं द्रष्टव्यम् । तदनन्तरं यन्निर्दिष्टं तत्कस्मिन् जन्मनीत्यत आह — औपपादिकं वैक्रियिकम् ॥ ४६ ॥ ०५उपपादे भवमौपपादिकम् । तत्सर्वं वैक्रियिकं वेदितव्यम् । यद्यौपपादिकं वैक्रियिकम्, अनौपपादिकस्य वैक्रियिकत्वाभाव इत्यत आह — लब्धिप्रत्ययं च ॥ ४७ ॥ ‘च’शब्देन वैक्रियिकमभिसम्बध्यते । तपोविशेषादृद्धिप्राप्तिर्लब्धिः । लब्धिः प्रत्ययः कारणमस्य लब्धिप्रत्ययम् । वैक्रियिकं लब्धिप्रत्ययं च भवतीत्यभिसम्बध्यते । १०किमेतदेव लब्ध्यपेक्षमुतान्यदप्यस्तीत्यत आह — तैजसमपि ॥ ४८ ॥ ‘अपि’शब्देन लब्धिप्रत्ययमभिसम्बध्यते । तैजसमपि लब्धिप्रत्ययं भवतीति । १९८वक्रियिकानन्तरं यदुपदिष्टं तस्य स्वरूपनिर्धारणार्थं स्वामिनिर्देशार्थं चाह — शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥ शुभकारणत्वाच्छुभव्यपदेशः । शुभकर्मण आहारककाययोगस्य कारणत्वाच्छु- भमित्युच्यते अन्नस्य प्राणव्यपदेशवत् । विशुद्धकार्यत्वाद्विशुद्धव्यपदेशः । विशुद्धस्य पुण्य- ०५कर्मणः अशबलस्य निरवद्यस्य कार्यत्वाद्विशुद्धमित्युच्यते तन्तूनां कार्पासव्यपदेशवत् । उभयतो व्याघाताभावादव्याघाति । न ह्याहारकशरीरेणान्यस्य व्याघातः । नाप्यन्ये- नाहारकस्येति । तस्य प्रयोजनसमुच्चयार्थः ‘च’शब्दः क्रियते । तद्यथा — कदाचि- ल्लब्धिविशेषसद्भावज्ञापनार्थं कदाचित्सूक्ष्मपदार्थनिर्द्धारणार्थं संयमपरिपालनार्थं च । आहारकमिति प्रागुक्तस्य प्रत्याम्नायः । यदाऽऽहारकशरीरं निर्वर्तयितुमारभते तदा १०प्रमत्तो भवतीति‘प्रमत्तसंयतस्य’इत्युच्यते । इष्टतोऽवधारणार्थं ‘एव’कारोपादानम् । यथैवं विज्ञायेत प्रमत्तसंयतस्यैवाहारकं नान्यस्येति । मैवं विज्ञायि प्रमत्तसंयतस्याहारकमेवेति । १९९मा भूदौदारिकादिनिवृत्तिरिति । एवं विभक्तानि शरीराणि बिभ्रतां संसारिणां प्रतिगति किं त्रिलिङ्गसन्निधानं उत लिङ्गनियमः कश्चिदस्तीत्यत आह — नारकसम्मूर्च्छिनो नपुंसकानि ॥ ५० ॥ ०५नरकाणि वक्ष्यन्ते । नरकेषु भवा नारकाः । सम्मूर्छनं सम्मूर्च्छः स येषामस्ति ते सम्मूर्च्छिनः । नारकाश्च सम्मूर्छिनश्च नारकसम्मूर्छिनः । चारित्रमोहविकल्पनोकषाय- भेदस्य नपुंṃसकवेदस्याशुभनाम्नश्चोदयान्न स्त्रियो न पुमांस इति नपुंṃसकानि भवन्ति । नारकसम्मूर्च्छिनो नपुंṃसकान्येवेति नियमः । तत्र हि स्त्रीपुंṃसविषयमनोज्ञशब्दगन्धरूप- रसस्पर्शसम्बन्धनिमित्ता स्वल्पापि सुखमात्रा नास्ति । १०यद्येवमवध्रियते, अर्थादापन्नमेतदुक्तेभ्योऽन्ये संसारिणस्त्रिलिङ्गा इति यत्रा- त्यन्तं नपुंṃसकलिङ्गस्याभावस्तत्प्रतिपादनार्थमाह — न देवाः ॥ ५१ ॥ स्त्रैणं पौंस्नं च यन्निरतिशयसुखं शुभगतिनामोदयापेक्षं तद्देवा अनुभवन्तीति न तेषु नपुंṃसकानि सन्ति । २००अथेतरे कियल्लिङ्गा इत्यत आह — शेषास्त्रिवेदाः ॥ ५२ ॥ त्रयो वेदा येषां ते त्रिवेदाः । के पुनस्ते वेदाः ? स्त्रीत्वं पुंस्त्वं नपुंसकत्वमिति । कथं तेषां सिद्धिः ? वेद्यत इति वेदः । लिङ्गमित्यर्थः । तद् द्विविधं द्रव्यलिङ्गं भाव- ०५लिङ्गं चेति । द्रव्यलिङ्गं योनिमेहनादि नामकर्मोदयनिर्वर्तितम् । नोकषायोदयापादितवृत्ति भावलिङ्गम् । स्त्रीवेदोदयात् स्यायस्त्यस्यां गर्भ इति स्त्री । पुंवेदोदयात् सूते जनयत्य- पत्यमिति पुमान् । नपुंṃसकवेदोदयात्तदुभयशक्तिविकलं नपुंṃसकम् । रूढिशब्दाश्चैते । रूढि- षु च क्रिया व्युत्पत्त्यर्थैव । यथा गच्छतीति गौरिति । इतरथा हि गर्भधारणादिक्रिया- प्राधान्ये बालवृद्धानां तिर्यङ्मनुष्याणां देवानां कार्मणकाययोगस्थानां च तदभावात्स्त्री- १०त्वादिव्यपदेशो न स्यात् । त एते त्रयो वेदाः शेषाणां गर्भजानां भवन्ति । २०१य इमे जन्मयोनिशरिरलिङ्गसम्बन्धाहितविशेषाः प्राणिनो निर्दिश्यन्ते देवा- दयो विचित्रधर्माधर्मवशीकृताश्चतसृषु गतिषु शरीराणि धारयन्तस्ते किं यथाकालमुप- भुक्तायुषो मूर्त्यन्तराण्यास्कन्दन्ति उतायथाकालमपीत्यत आह — औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषोऽनपवर्त्यायुषः ॥ ५३ ॥ ०५औपपादिका व्याख्याता देवनारका इति । चरमशब्दोऽन्त्यवाची । उत्तम उत्कृष्टः । चरम उत्तमो देहो येषां ते चरमोत्तमदेहाः । परीतसंसारास्तज्जन्मनिर्वा- णार्हा इत्यर्थः । असंख्येयमतीतसंख्यानमुपमाप्रमाणेन पल्यादिना गम्यमायुर्येषां त इमे असंख्येयवर्षायुषस्तिर्यङ्मनुष्या उत्तरकुर्वादिषु प्रसूताः । औपपादिकाश्च चरमोत्तम- देहाश्च असंख्येयवर्षायुषश्च औपपादिकचरमोत्तमदेहासंख्येयवर्षायुषः । बह्यस्योपघात- १०निमित्तस्य विषशस्त्रादेः सति सन्निधाने ह्रस्वं भवतीत्यपवर्त्यम् । अपवर्त्यमायुर्येषां त इमे अपवर्त्यायुषः । न अपवर्त्यायुषः अनपवर्त्यायुषः । नह्येषामौपपादिकादीनां बाह्य- २०२निमित्तवशादायुरपवर्त्यते इत्ययं नियमः । इतरेषामनियमः । चरमस्य देहस्योत्कृष्टत्व- प्रदर्शनार्थमुत्तमग्रहणं नार्थान्तरविशेषोऽस्ति । चरमदेहा इति वा पाठः । इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां द्वितीयोऽध्यायः । २०३अथ तृतीयोऽध्यायः ‘भवप्रत्ययोऽवधिर्देवनारकाणाम्’ इत्येवमादिषु नारकाः श्रुतास्ततः पृच्छति के ते नारका इति । तत्प्रतिपादनार्थं तदधिकरणनिर्देशः क्रियते — रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभा भूमयो ०५घनाम्बुवाताकाशप्रतिष्ठाः सप्ताधोऽधः ॥ १ ॥ रत्नं च शर्करा च वालुका च पङ्कश्च धूमश्च तमश्च महातमश्च रत्नशर्करावालु- कापङ्कधूमतमोमहातमांसि । ‘प्रभा’ शब्दः प्रत्येकं परिसमाप्यते । साहचर्यात्ताच्छब्द्यम् । चित्रादिरत्नप्रभासहचरिता भूमिः रत्नप्रभा, शर्कराप्रभासहचरिता भूमिः शर्कराप्रभा, वालुकाप्रभासहचरिता भूमिर्वालुकाप्रभा, पङ्कप्रभासहचरिता भूमिः पङ्कप्रभा, धूमप्रभा- १०सहचरिता भूमिर्धूमप्रभा, तमःप्रभासहचरिता भूमिस्तमःप्रभा, महातमःप्रभासहचरिता भूमिर्महातमःप्रभा इति । एताः संज्ञा अनेनोपायेन व्युत्पाद्यन्ते । ‘भूमि’ग्रहणमधिकरण- विशेषप्रतिपत्त्यर्थम् । यथा स्वर्गपटलानि भूमिमनाश्रित्य व्यवस्थितानि न तथा नारका- २०४वासाः । किं तर्हि ? भूमिमाश्रिता इति । आसां भूमीनामालम्बननिर्ज्ञानार्थं घनाम्बु- वातादिग्रहणं क्रियते । घनाम्बु च वातश्च आकाशं च घनाम्बुवाताकाशानि । तानि प्रतिष्ठा आश्रयो यासां ता घनाम्बुवाताकाशप्रतिष्ठाः । सर्वा एता भूमयो घनोदधिवलय- प्रतिष्ठाः । घनोदधिवलयं घनवातवलयप्रतिष्ठम् । घनवातवलयं तनुवातवलयप्रति- ०५ष्ठम् । तनुवातवलयमाकाशप्रतिष्ठम् । आकाशमात्मप्रतिष्ठं, तस्यैवाधाराधेयत्वात् । त्रीण्यप्येतानि वलयानि प्रत्येकं विंशतियोजनसहस्रबाहुल्यानि । ‘सप्त’ग्रहणं संख्यान्तरनि- वृत्त्यर्थम् । सप्त भूमयो नाष्टौ न नव चेति । ‘अधोऽधः’वचनं तिर्यक्प्रचयनिवृत्त्यर्थम् । २०५किं ता भूमयो नारकाणां सर्वत्रावासा आहोस्वित्क्वचित्क्वचिदिति तन्नि- र्धारणार्थमाह — तासु त्रिंशत्पञ्चविंशतिपंचदशदशत्रिपंचोनैकनरकशतसहस्राणि पंच चैव यथाक्रमम् ॥ २ ॥ ०५तासु रत्नप्रभादिषु भूमिषु नरकाण्यनेन संख्यायन्ते यथाक्रमम् । रत्नप्रभायां त्रिंशन्नरकशतसहस्राणि, शर्कराप्रभायां पञ्चविंशतिर्नरकशतसहस्राणि, वालुकाप्रभायां पञ्चदश नरकशतसहस्राणि, पङ्कप्रभायां दश नरकशतसहस्राणि, धूमप्रभायां त्रीणि नरकशतसहस्राणि, तमःप्रभायां पञ्चोनमेकं नरकशतसहस्रं, महातमःप्रभायां पञ्च नरकाणि । रत्नप्रभायां नरकप्रस्तारस्त्रयोदश । ततोऽध आ सप्तम्या द्वौ द्वौ नरकप्र- २०६स्तारौ हीनौ । इतरो विशेषो लोकानुयोगतो वेदितव्यः । अथ तासु भूमिषु नारकाणां कः प्रतिविशेष इत्यत आह — नारका नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ लेश्यादयो व्याख्यातार्थाः । अशुभतरा इति प्रकर्षनिर्देशः तिर्यग्गतिविषयाशुभ- ०५लेश्याद्यपेक्षया, अधोऽधः स्वगत्यपेक्षया च वेदितव्यः । ‘नित्य’शब्द आभीक्ष्ण्यवचनः । नित्यमशुभतरा लेश्यादयो येषां ते नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रिया नारकाः । २०७प्रथमाद्वितीययोः कापोती लेश्या, तृतीयायामुपरिष्टात्कापोती अधो नीला, चतुर्थ्यां नीला, पञ्चम्यामुपरि नीला अधः कृष्णा, षष्ठ्यां कृष्णा, सप्तम्यां परमकृष्णा । स्वायुः- प्रमाणावधृता द्रव्यलेश्या उक्ताः । भावलेश्यास्तु अन्तर्मुहूर्तपरिवर्तिन्यः । परिणामाः स्पर्शरसगन्धवर्णशब्दाः क्षेत्रविशेषनिमित्तवशादतिदुःखहेतवोऽशुभतराः । देहाश्च तेषाम- ०५शुभनामकर्मोदयादत्यन्ताशुभतरा विकृताकृतयो हुण्डसंस्थाना दुर्दर्शनाः । तेषामुत्सेधः प्रथमायां सप्त धनूंषि त्रयो हस्ताः षडङ्गुलयः । अधोऽधो — द्विगुणद्विगुण उत्सेधः । अभ्यन्तरासद्वेद्योदये सति अनादिपारिणामिकशीतोष्णबाह्यनिमित्तजनिता अतितीव्रा वेदना भवन्ति नारकाणाम् । प्रथमाद्वितीयातृतीयाचतुर्थीषु उष्णवेदनान्येव नरकाणि । पञ्चम्यामुपरि उष्णवेदने द्वे नरकशतसहस्रे । अधः शीतवेदनमेकं शतसहस्रम् । षष्ठीस- १०प्तम्योः शीतवेदनान्येव । शुभं विकरिष्याम इति अशुभतरमेव विकुर्वन्ति, सुखहेतूनुत्पाद- याम इति दुःखहेतूनेवोपादयन्ति । त एते भावा अधोऽधोऽशुभतरा वेदितव्याः । २०८किमेतेषां नारकाणां शीतोष्णजनितमेव दुःखमुतान्यथापि भवतीत्यत आह — परस्परोदीरितदुःखाः ॥ ४ ॥ कथं परस्परोदीरितदुःखत्वम् ? नारकाः भवप्रत्ययेनावधिना मिथ्यादर्शनोदयाद्वि- भङ्गव्यपदेशभाजा च दूरादेव दुःखहेतूनवगम्योत्पन्नदुःखा प्रत्यासत्तौ परस्परालोकनाच्च ०५प्रज्वलितकोपाग्नयः पूर्वभवानुस्मरणाच्चातितीव्रानुबद्धवैराश्च श्वशृगालादिवत्स्वाभिघाते प्रवर्तमानाः स्वविक्रियाकृतासिवासीपरशुभिण्डिमालशक्तितोमरकुन्तायोघनादिभिरायुधैः स्वकरचरणदशनैश्च छेदनभेदनतक्षणदंशनादिभिः परस्परस्यातितीव्रं दुःखमुत्पादयन्ति । किमेतावानेव दुःखोत्पत्तिकारणप्रकार उतान्योऽपि कश्चिदस्तीत्यत आह — २०९संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ५ ॥ देवगतिनामकर्मविकल्पस्यासुरत्वसंवर्तनस्य कर्मण उदयादस्यन्ति परानित्यसुराः । पूर्वजन्मनि भावितेनातितीब्रेण संक्लेशपरिणामेन यदुपार्जितं पापकर्म तस्योदयात्सततं क्लिष्टाः संक्लिष्टाः, संक्लिष्टा असुराः संक्लिष्टासुराः । संक्लिष्टा इति विशेषणान्न सर्वे ०५असुरा नारकाणां दुःखमुत्पादयन्ति । किं तर्हि ? अम्बावरीषादय एव केचनेति । अवधिप्र- दर्शनार्थं ‘प्राक्चतुर्थ्याः’ इति विशेषणम् । उपरि तिसृषु पृथ्वीषु संक्लिष्टासुरा बाधाहेतवो नातः परमिति प्रदर्शनार्थम् । ‘च’ शब्दः पूर्वोक्तदुःखहेतुसमुच्चयार्थः । सुतप्तायोरसपा- यननिष्टप्तायस्तम्भालिङ्गनकूटशाल्मल्यारोहणावतरणायोघनाभिघातवासीक्षुरतक्षणक्षा- रतप्ततैलावसेचनायःकुम्भीपाकाम्बरीषभर्जनवैतरणीमज्जनयन्त्रनिष्पीडनादिभिर्नारकाणां १०दुःखमुत्पादयन्ति । एवं छेदनभेदनादिभिः शकलीकृतमूर्तीनामपि तेषां न मरणमकाले भवति । कुतः ? अनपवर्त्यायुष्कत्वात् । २१०यद्येवं, तदेव तावदुच्यतां नारकाणामायुःपरिमाणमित्यत आह — तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिं शत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥ यथाक्रममित्यनुवर्तते । तेषु नरकेषु भूमिंक्रमेण यथासंख्यमेकादयः स्थितयोऽ ०५भिसम्बध्यन्ते । रत्नप्रभायामुत्कृष्टा स्थितिरेकसागरोपमा । शर्कराप्रभायां त्रिसागरो- पमा । वालुकाप्रभायां सप्तसागरोपमा । पङ्कप्रभायां दशसागरोपमा । धूमप्रभायां सप्तदशसागरोपमा । तमःप्रभायां द्वाविंशतिसागरोपमा । महातमःप्रभायां त्रयस्त्रिं- शत्सागरोपमा इति । परा उत्कृष्टेत्यर्थः । ‘सत्त्वानाम्’ इति वचनं भूमिनिवृत्त्यर्थम् । भूमिषु सत्त्वानामियं स्थितिः, न भूमीनामिति । १०उक्तः सप्तभूमिविस्तीर्णोऽधोलोकः । इदानीं तिर्यग्लोको वक्तव्यः । कथं पुन- स्तिर्यग्लोकः ? यतोऽसंख्येयाः स्वयम्भूरमणपर्यन्तास्तिर्यक्प्रचयविशेषेणावस्थिता द्वीप- समुद्रास्ततस्तिर्यग्लोक इति । के पुनस्तिर्यग्व्यवस्थिता इत्यत आह — २११जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ जम्बूद्वीपादयो द्वीपाः । लवणोदादयः समुद्राः । यानि लोके शुभानि नामानि तन्नामानस्ते । तद्यथा — जम्बूद्वीपो द्वीपः । लवणोदः समुद्रः । धातकीखण्डो द्वीपः । कालोदः समुद्रः । पुष्करवरो द्वीपः । पुष्करवरः समुद्रः । वारुणीवरो द्वीपः । वारुणीवरः ०५समुद्रः । क्षीरवरो द्वीपः । क्षीरवरः समुद्रः । घृतवरो द्वीपः । घृतवरः समुद्रः । इक्षुवरो द्वीपः । इक्षुवरः समुद्रः । नन्दीश्वरवरो द्वीपः । नन्दीश्वरवरः समुद्रः । अरुणवरो द्वीपः । अरुणवरः समुद्रः । इत्येवमसंख्येया द्वीपसमुद्राः स्वयम्भूरमणपर्यन्ता वेदितव्याः । अमीषां विष्कम्भसन्निवेशसंस्थानविशेषप्रतिपत्त्यर्थमाह — द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८ ॥ १०द्विर्द्विरिति वीप्साभ्यावृत्तिवचनं विष्कम्भद्विगुणत्वव्याप्त्यर्थम् । आद्यस्य द्वीपस्य यो विष्कम्भः तद्द्विगुणविष्कम्भो लवणजलधिः । तद्द्विगुणविष्कम्भो द्वितीयो द्वीपः । तद्द्विगुणविष्कम्भो द्वितीयो जलधिरिति । द्विर्द्विर्विष्कम्भो येषां ते द्विर्द्विर्विष्कम्भाः । पूर्वपूर्वपरिक्षेपिवचनं ग्रामनगरादिवद्विनिवेशो मा विज्ञायीति । वलयाकृतिवचनं चतुरस्रा- २१२दिसंस्थानान्तरनिवृत्त्यर्थम् । अत्राह, जम्बूद्वीपस्य प्रदेशसंस्थानविष्कम्भा वक्तव्यास्तन्मूलत्वादितरविष्कम्भा- दिविज्ञानस्येत्युच्यते — तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥ ०५तेषां मध्ये तन्मध्ये । केषाम् ? पूर्वोक्तानां द्वीपसमुद्राणाम् । नाभिरिव नाभिः । मेरुर्नाभिर्यस्य स मेरुनाभिः । वृत्त आदित्यमण्डलोपमानः । शतानां सहस्रं शतसहस्रम् । योजनानां शतसहस्रं योजनशतसहस्रम् । योजनशतसहस्रं विष्कम्भो यस्य सोऽयं योजन- शतसहस्रविष्कम्भः । कोऽसौ ? जम्बूद्वीपः । कथं जम्बूद्वीपः ? जम्बूबृक्षोपलक्षितत्वात् । उत्तरकुरूणां मध्ये जम्बूवृक्षोऽनादिनिधनः पृथिवीपरिणामोऽकृत्रिमः सपरिवारस्त- १०दुपलक्षितोऽयं द्वीपः । २१३तत्र जम्बूद्वीपे षड्भिः कुलपर्वतैर्विभक्तानि सप्त क्षेत्राणि कानि तानीत्यत आह — भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ भरतादयः सञ्ज्ञा अनादिकालप्रवृत्ता अनिमित्ताः । तत्र भरतवर्षः ०५क्व सन्निविष्टः ? दक्षिणदिग्भागे हिमवतोऽद्रेस्त्रयाणां समुद्राणां मध्ये आरोपितचापाकारो भरतवर्षः । विजयार्द्धेन गङ्गासिन्धुभ्यां च विभक्तः स षट्- खण्डः । क्षुद्रहिमवन्तमुत्तरेण दक्षिणेन महाहिमवन्तं पूर्वापरसमुद्रयोर्मध्ये हैमवतवर्षः । २१४निषधस्य दक्षिणतो महाहिमवत उत्तरतः पूर्वापरसमुद्रयोरन्तराले हरिवर्षः । निषधस्यो- त्तरान्नीलतो दक्षिणतः पूर्वापरसमुद्रयोरन्तरे विदेहस्य संनिवेशो द्रष्टव्यः । नीलत उत्त- रात् रुक्मिणो दक्षिणात् पूर्वापरसमुद्रयोर्मध्ये रम्यकवर्षः । रुक्मिण उत्तराच्छिखरिणो दक्षिणात्पूर्वापरसमुद्रयोर्मध्ये सन्निवेशी हैरण्यवतवर्षः । शिखरिण उत्तरतस्त्रयाणां ०५समुद्राणां मध्ये ऐरावतवर्षः । विजयार्द्धेन रक्तारक्तोदाभ्यां च विभक्तः स षट्खण्डः । षट् कुलपर्वता इत्युक्तं के पुनस्ते कथं वा व्यवस्थिता इत्यत आह — तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनील- रुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥ तानि क्षेत्राणि विभजन्त इत्येवंशीलास्तद्विभाजिनः । पूर्वापरायता इति पूर्वा- १०परकोटिभ्यां लवणजलधिस्पर्शिन इत्यर्थः । हिमवदादयोऽनादिकालप्रवृत्ता अनिमित्त- सञ्ज्ञा वर्षविभागहेतुत्वाद्वर्षधरपर्वता इत्युच्यन्ते । तत्र क्व हिमवान् ? भरतस्य हैमव- तस्य च सीमनि व्यवस्थितः । क्षुद्रहिमवान् योजनशतोच्छ्रायः । हैमवतस्य हरि- २१५वर्षस्य च विभागकरो महाहिमवान् द्वियोजनशतोच्छ्रायः । विदेहस्य दक्षिणतो हरि- वर्षस्योत्तरतो निषधो नाम पर्वतश्चतुर्योजनशतोच्छ्रायः । उत्तरे त्रयोऽपि पर्वताः स्ववर्षवि- भाजिनो व्याख्याताः । उच्छ्रायश्च तेषां चत्वारि द्वे एकं च योजनशतं वेदितव्यम् । सर्वेषां पर्वतानामुच्छ्रायस्य चतुर्भागोऽवगाहः । ०५तेषां वर्णविशेषप्रतिपत्त्यर्थमाह — हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ॥ त एते हिमवदादयः पर्वता हेमादिमया वेदितव्या यथाक्रमम् । हेममयो हिमवान् चीनपट्टवर्णः । अर्जुनमयो महाहिमवान् शुक्लवर्णः । तपनीयमयो निषधस्तरुणादित्य- वर्णः । वैदूर्यमयो नीलो मयूरग्रीवाभः । रजतमयो रुक्मी शुक्लः । हेममयः शिखरी १०चीनपट्तवर्णः । पुनरपि तद्विशेषणार्थमाह — मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्ताराः ॥ १३ ॥ नानावर्णप्रभादिगुणोपेतैर्मणिभिर्विचित्राणि पार्श्वाणि येषां ते मणिविचित्रपार्श्वाः । २१६अनिष्टसंस्थानस्य निवृत्त्यर्थमुपर्यादिवचनं क्रियते । ‘च’शब्दो मध्यसमुच्चयार्थः । य एषां मूले विस्तारः स उपरि मध्ये च तुल्यः । तेषां मध्ये लब्धास्पदा ह्रदा उच्यन्ते — पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ह्रदास्तेषामुपरि ॥ १४ ॥ ०५पद्मो महापद्मस्तिगिञ्छः केसरी महापुण्डरीकः पुण्डरीक इति तेषां हिमवदादीना- मुपरि यथाक्रममेते ह्रदा वेदितव्याः । तत्राद्यस्य संस्थानविशेषप्रतिपत्त्यर्थमाह — प्रथमो योजनसहस्रायामस्तदर्द्धविष्कम्भो ह्रदः ॥ १५ ॥ प्राक्प्रत्यक् योजनसहस्रायाम उदगवाक् पञ्चयोजनशतविस्तारो वज्रमयतलो १०विविधमणिकनकविचित्रिततटः पद्मनामा ह्रदः । तस्यावगाहप्रक्लृप्त्यर्थमिदमुच्यते — दशयोजनावगाहः ॥ १६ ॥ अवगाहोऽधःप्रवेशो निम्नता । दशयोजनान्यवगाहोऽस्य दशयोजनावगाहः । २१७तन्मध्ये किम् — तन्मध्ये योजनं पुष्करम् ॥ १७ ॥ योजनप्रमाणं योजनम्, क्रोशायामपत्रत्वात्क्रोशद्वयविष्कम्भकर्णिकत्वाच्च योजना- यामविष्कम्भम् । जलतलात्क्रोशद्वयोच्छ्रांयनालं तावद्बहुलपत्रप्रचयं पुष्करमवगन्तव्यम् । ०५इतरेषां ह्रदानां पुष्कराणां चायामादिनिर्ज्ञानार्थमाह — तद्द्विगुणद्विगुणा ह्रदाः पुष्कराणि च ॥ १८ ॥ स च तच्चते, तयोर्द्विगुणा द्विगुणास्तद्द्विगुणद्विगुणा इति द्वित्वं व्याप्तिज्ञापनार्थम् । केन द्विगुणाः ? आयामादिना । पद्मह्रदस्य द्विगुणायामविष्कम्भावगाहो महापद्मो ह्रदः । तस्य द्विगुणायामविष्कम्भावगाहस्तिगिञ्छो ह्रदः । पुष्कराणि च । किम् ? १०द्विगुणानि द्विगुणानीत्यभिसम्बध्यते । तन्निवासिनीनां देवीनां सञ्ज्ञाजीवितपरिवारप्रतिपादनार्थमाह — २१८तन्निवासिन्यो देव्यः श्रीथीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमस्थितयः ससामानिकपरिषत्काः ॥ १९ ॥ तेषु पुष्करेषु कर्णिकामध्यदेशनिवेशिनः शरद्विमलपूर्णचन्द्रद्युतिहराः क्रोशायामाः क्रोशार्द्धविष्कम्भा देशोनक्रोशोत्सेधाः प्रासादाः । तेषु निवसन्तीत्येवंशीलास्तन्निवासिन्यः, ०५देव्यः श्री ह्रीधृतिकीर्तिबुद्धिलक्ष्मीसंज्ञिकास्तेषु पद्मादिषु यथाक्रमं वेदितव्याः । ‘पल्योपम- स्थितयः’ इत्यनेनायुषः प्रमाणमुक्तम् । समाने स्थाने भवाः सामानिकाः । सामानिकाश्च परिषदश्च सामानिकपरिषदः । सह सामानिकपरिषद्भिर्वर्तन्त इति ससामानिकपरि- षत्काः । तस्य पद्मस्य परिवारपद्मेषु प्रासादानामुपरि सामानिका परिषदश्च वसन्ति । यकाभिः सरिदिभस्तानि क्षेत्राणि प्रविभक्तानि ता उच्यन्ते — १०गङ्गासिन्धुरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्ता- सुवर्णरूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥ २० ॥ सरितो न वाप्यः । ताः किमन्तरा उत समीपाः ? इत्यत आह तन्मध्यगाः । तेषां क्षेत्राणां मध्यं तन्मध्यम् । तन्मध्यं तन्मध्येन वा गच्छन्तीति तन्मध्यगाः । २१९एकत्र सर्वासां प्रसङ्गनिवृत्त्यर्थं दिग्विशेषप्रतिपत्त्यर्थंचाह — द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥ २१ ॥ द्वयोर्द्वयोः सरितोरेकैकं क्षेत्रं विषय इति वाक्यशेषाभिसम्बन्धादेकत्र सर्वासां प्रसङ्गनिवृत्तिः कृता । ‘पूर्वाः पूर्वगाः’ इति वचनं दिग्विशेषप्रतिपत्त्यर्थम् । तत्र पूर्वा याः ०५सरितस्ताः पूर्वगाः । पूर्वजलधिं गच्छन्तीति पूर्वगाः । किमपेक्षं पूर्वत्वम् ? सूत्रनिर्देशापे- क्षम् । यद्येवं गङ्गासिध्वादयः सप्त पूर्वगा इति प्राप्तम् ? नैष दोषः; द्वयोर्द्वयोरित्यभि- सम्बन्धात् । द्वयोर्द्वयोः पूर्वाः पूर्वगा इति वेदितव्याः । इतरासां दिग्विभागप्रतिपत्त्यर्थमाह — शेषास्त्वपरगाः ॥ २२ ॥ १०द्वयोर्द्वयोर्या अवशिष्टास्ता अपरगाः प्रत्येतव्याः । अपरसमुद्रं गच्छन्तीत्यपरगाः । तत्र पद्मह्रदप्रभवा पूर्वतोरणद्वारनिर्गता गङ्गा । अपरतोरणद्वारनिर्गता सिन्धुः । उदीच्य- तोरणद्वारनिर्गता रोहितास्या । महापद्मह्रदप्रभवा अवाच्यतोरणद्वारनिर्गता रोहित् । २२०उदीच्यतोरणद्वारनिर्गता हरिकान्ता । तिगिञ्छह्रदप्रभवा दक्षिणतोरणद्वारनिर्गता हरित् । उदीच्यतोरणद्वारनिर्गता सीतोदा । केसरिह्रदप्रभवा अवाच्यतोरणद्वारनिर्गता सीता । उदीच्यतोरणद्वारनिर्गता नरकान्ता । महापुण्डरीकह्रदप्रभवा दक्षिणद्वारनिर्गता नारी । उदीच्यतोरणद्वारनिर्गता रूप्यकूला । पुण्डरीकह्रदप्रभवा अवाच्यतोरणद्वारनिर्गता सुव- ०५र्णकूला । पूर्वतोरणद्वारनिर्गत रक्ता । प्रतीच्यतोरणद्वारनिर्गता रक्तोदा । तासां परिवारप्रतिपादनार्थमाह — चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः ॥ २३ ॥ किमर्थं ‘गङ्गासिन्ध्वादि’ ग्रहणं क्रियते ? नदीग्रहणार्थम् । प्रकृतास्ता अभि- सम्बध्यन्ते ? नैवं शङ्क्यम्; aनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति अपरगाणामेव १०ग्रहणं स्यात् । गङ्गादिग्रहणमेवास्तीति चेत् ? पूर्वगाणामेव ग्रहणं स्यात् । अत उभयीनां ग्रहणार्थं ‘गङ्गासिन्ध्वादि’ ग्रहणं क्रियते । ‘नदी’ ग्रहणं द्विगुणा द्विगुणा इत्यभिसम्बन्धार्थम् । २२१गङ्गा चतुर्दशनदिसहस्रपरिवृता । सिन्धुरपि । एवमुत्तरा अपि नद्यः प्रतिक्षेत्रं तद्द्विगुणद्वि- गुणा भवन्ति; आ विदेहान्तात् । तत उत्तरा अर्द्धार्द्धहीनाः । उक्तानां क्षेत्राणां विष्कम्भप्रतिपत्त्यर्थमाह — भरतः षड्विंशपञ्चयोजनशतविस्तारः षट् चैकोनविंशतिभागा योजनस्य ॥ २४ ॥ ०५षडधिका विंशतिः षड्विंशतिः । षड्विंशतिरधिका येषु तानि षड्विंशानि । षड्विंशानि पञ्चयोजनशतानि विस्तारो यस्य षड्विंशपञ्चयोजनशतविस्तारो भरतः । किमेतावानेव ? न; इत्याह षट् चैकोनविंशतिभागायोजनस्य विस्तारोऽस्येत्यभिसम्बध्यते । इतरेषां विष्कम्भविशेषप्रतिपत्त्यर्थमाह — तद्द्विगुणद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥ २५ ॥ १०ततो भरताद् द्विगुणो द्विगुणो विस्तारो येषां त इमे तद्द्विगुणद्विगुणविस्ताराः । के ते ? वर्षधरवर्षाः । किं सर्वे ? न; इत्याह विदेहान्ता इति । २२२अथोत्तरेषां कथमित्यत आह — उत्तरा दक्षिणतुल्याः ॥ २६ ॥ उत्तरा ऐरावतादयो नीलान्ता भरतादिभिर्दक्षिणैस्तुल्या द्रष्टव्याः । अतीतस्य सर्वस्यायं विशेषो वेदितव्यः । तेन ह्रदपुष्करादीनां तुल्यता योज्या । ०५अत्राह, उक्तेषु भरतादिषु क्षेत्रेषु मनुष्याणां किं तुल्योऽनुभवादिः, आहोस्वि- दस्ति कश्चित्प्रतिविशेष इत्यत्रोच्यते — भरतैरावतयोर्वृद्धिह्रासौ षट्समयाभ्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २७ ॥ वृद्धिश्च ह्रासश्च वृद्धिह्रासौ । काभ्याम् ? षट्समयाभ्यामुत्सर्पिण्यवसर्पिणी- भ्याम् । कयोः ? भरतैरावतयोः । न तयोः क्षेत्रयोर्वृद्धिह्रासौ स्तः; असम्भवात् । १०तत्स्थानां मनुष्याणां वृद्धिह्रासौ भवतः । अथवाधिकरणनिर्देशः । भरते ऐरावते च मनुष्याणां वृद्धिह्रासाविति । किंकृतौ वृद्धिह्रासौ ? अनुभवायुःप्रमाणादिकृतौ । अनुभव २२३उपभोगः, आयुर्जीवितपरिमाणम्, प्रमाणं शरीरोत्सेध इत्येवमादिभिर्वृद्धिह्रासौ मनुष्याणां भवतः । किंहेतुकौ पुनस्तौ ? कालहेतुकौ । स च कालो द्विविधः-उत्सर्पिणी अवसर्पिणी चेति । तद्भेदाः प्रत्येकं षट् । अन्वर्थसञ्ज्ञे चैते । अनुभवादिभिरुत्सर्पणशीला उत्सर्पिणी । तैरेवावसर्पणशीला अवसर्पिणी । तत्रावसर्पिणी षड्विधा — सुषमसुषमा सुषमा सुषम- ०५दुष्षमा दुष्षमसुषमा दुष्षमा अतिदुष्षमा चेति । उत्सर्पिण्यपि अतिदुष्षमाद्या सुषमसुष- मान्ता षड्विधैव भवति । अवसर्पिण्याः परिमाणं दशसागरोपमकोटीकोट्यः । उत्सर्पिण्या अपि तावत्य एव । सोभयी कल्प इत्याख्यायते । तत्र सुषमसुषमा चतस्रः सागरोपमको- टीकोट्यः । तदादौ मनुष्या उत्तरकुरुमनुष्यतुल्याः । ततः क्रमेण हानौ सत्यां सुषमा भवति तिस्रः सागरोपमकोटीकोट्यः । तदादौ मनुष्या हरिवर्षमनुष्यसमाः । ततः क्रमेण हानौ १०सत्यां सुषमदुष्षमा भवति द्वे सागरोपमकोटीकोट्यौ । तदादौ मनुष्या हैमवतकमनुष्य- २२४समाः । ततह् क्रमेण हानौ सत्यां दुष्षमसुषमा भवति एकसागरोमकोटीकोटी द्विचत्वा- रिंशद्वर्षसहस्रोना । तदादौ मनुष्या विदेहजनतुल्या भवन्ति । ततः क्रमेण हानौ सत्यां दुष्षमा भवति एकविंशतिवर्षसहस्राणि । ततः क्रमेण हानौ सत्यामतिदुष्षमा भवति एकविंशतिवर्षसहस्राणि । एवमुत्सर्पिण्यपि विपरीतक्रमा वेदितव्या । ०५अथेतरासु भूमिषु काऽवस्थेत्यत आह — ताभ्यामपरा भूमयोऽवस्थिताः ॥ २८ ॥ ताभ्यां भरतैरावताभ्यामपरा भूमयोऽवस्थिता भवन्ति । न हि तत्रोत्सर्पिण्यव- सर्पिण्यौ स्तः । किं तासु भूमिषु मनुष्यास्तुल्यायुष आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्यत आह — १०एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥ २९ ॥ हैमवते भवा हैमवतका इत्येवं ‘वुञि’ सति मनुष्यसम्प्रत्ययो भवति । एव- मुत्तरयोरपि । हैमवतकादयस्त्रयः । एकादयस्त्रयः । तत्र यथासंख्यमभिसम्बन्धः क्रियते । एकपल्योपमस्थितयो हैमवतकाः । द्विपल्योपमस्थितयो हारिवर्षकाः । त्रिपल्योपमस्थितयो दैवकुरवका इति । तत्र पञ्चसु हैमवतेषु सुषमदुष्षमा सदाऽवस्थिता । तत्र मनुष्या २२५एकपल्योपमायुषो द्विधनुःसहस्रोछ्रिताश्चतुर्थभक्ताहारा नीलोत्पलवर्णाः । पञ्चसु हरि- वर्षेषु सुषमा सदाऽवस्थिता । तत्र मनुष्या द्विपल्योपमायुषश्चतुश्चापसहस्रोत्सेधाः षष्ठ- भक्ताहाराः शङ्खवर्णाः । पञ्चसु देवकुरुषु सुषमसुषमा सदाऽवस्थिता । तत्र मनुष्या- स्त्रिपल्योपमायुषः षड्धनुःसहस्रोच्छ्राया अष्टमभक्ताहाराः कनकवर्णाः । ०५अथोत्तरेषु काऽवस्थेत्यत आह — तथोत्तराः ॥ ३० ॥ यथा दक्षिणा व्याख्यातास्तथैवोत्तरा वेदितव्याः । हैरण्यवतका हैमवतकैस्तुल्याः । राम्यका हारिवर्षकैस्तुल्याः । देवकुरवकैरौत्तरकुरवकाः समाख्याताः । अथ विदेहेष्ववस्थितेषु का स्थितिरित्यत्रोच्यते — १०विदेहेषु संख्येयकालाः ॥ ३१ ॥ सर्वेषु विदेहेषु संख्येयकाला मनुष्याः । तत्र कालः सुषमदुष्षमान्तोपमः सदाऽ- वस्थितः । मनुष्याश्च पञ्चधनुःशतोत्सेधाः । नित्याहाराः । उत्कर्षेणैकपूर्वकोटीस्थिति- २२६काः । जघन्येनान्तर्मुहूर्तायुषः । तस्याश्च सम्बन्धे गाथां पठन्ति — ’पुव्वस्स दु परिमाणं सदरिं खलु कोडिसदसहस्साइं । छप्पण्णं च सहस्सा बोद्धव्वा वासकोडीणं ॥ ’ उक्तो भरतस्य विष्कम्भः । पुनः प्रकारान्तरेण तत्प्रतिपत्त्यर्थमाह — ०५भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥ ३२ ॥ जम्बूद्वीपविष्कम्भस्य योजनशतसहस्रस्य नवतिशतभागीकृतस्यैको भागो भरतस्य विष्कम्भः । स पूर्वोक्त एव । उक्तं जम्बूद्वीपं परिवृत्य वेदिका स्थिता, ततः परो लवणोदः समुद्रो द्वियोजनशतसहस्रवलयविष्कम्भः । ततः परो धातकीखण्डो द्वीपश्चतुर्योजन- शतसहस्रवलयविष्कम्भः । १०तत्र वर्षादीनां संख्यादिविधिप्रतिपत्त्यर्थमाह — द्विधार्तकीखण्डे ॥ ३३ ॥ भरतादीनां द्रव्याणामिहाभ्यावृत्तिर्विवक्षिता । तत्र कथं सुच् ? अध्याह्रिय- माणक्रियाभ्यावृत्तिद्योतनार्थः सुच् । यथा द्विस्तावानयं प्रासादो मीयत इति । एवं २२७द्विर्धातकीखण्डे भरतादयो मीयन्ते इति । तद्यथा — द्वाभ्यामिष्वाकारपर्वताभ्यां दक्षिणो- त्तरायताभ्यां लवणोदकालोदवेदिकास्पृष्टकोटिभ्यां विभवतो धातकीखण्डः पूर्वापर इति । तत्र पूर्वस्य अपरस्य च मध्ये द्वौ मन्दरौ । तयोरुभयतो भरतादीनि क्षेत्राणि हिमवदादयश्च वर्षधेरपर्वताः । एवं द्वौ भरतौ द्वौ हिमवन्तौ इत्येवमादि संख्यानं द्विगुणं वेदितव्यम् । ०५जम्बूद्वीपहिमवदादीनां वर्षधराणां यो विष्कम्भस्तद्द्विगुणो धातकीखण्डे हिमवदादीनां वर्ष- धराणाम् । वर्षधराश्चक्रारवदवस्थिताः । अरविवरसंस्थानानि क्षेत्राणि । जम्बूद्वीपे यत्र जम्बूवृक्षः स्थितः, तत्र धातकीखण्डे धातकीवृक्षः सपरिवारः । तद्योगाद्धातकीखण्ड इति द्वीपस्य नाम प्रतीतम् । तत्परिक्षेपी कालोदः समुद्रः टङ्कच्छिन्नतीर्थः अष्टयोजनशतसहस्र- वलयविष्कम्भः । कालोदपरिक्षेपी पुष्करद्वीपः षोडशयोजनशतसहस्रवलयविष्कम्भः । १०तत्र द्वीपाम्भोनिधिविष्कम्भद्विगुणपरिक्लृप्तिवद्धातकीखण्डवर्षादिद्विगुणवृद्धि- प्रसङ्गे विशेषावधारणार्थमाह — पुष्करार्द्धे च ॥ ३४ ॥ २२८किम् ? द्विरित्यनुवर्तते । किमपेक्षा द्विरावृत्तिः ? जम्बूद्वीपभरतहिमवदाद्यपेक्षयैव । कुतः ? व्याख्यानतः । यथा धातकीखण्डे हिमवदादीनां विष्कम्भस्तथा पुष्करार्धे हिमव- दादीनां विष्कम्भो द्विगुण इति व्याख्यायते । नामानि तान्येव, इष्वाकारौ मन्दरौ च पूर्ववत् । यत्र जम्बूवृक्षस्तत्र पुष्करं सपरिवारम् । तत एव तस्य द्वीपस्य नाम रूढं ०५पुष्करद्वीप इति । अथ कथं पुष्करार्द्धसञ्ज्ञा ? मानुषोत्तरशैलेन विभक्तार्धत्वात्पुष्करार्ध- सञ्ज्ञा । अत्राह किमर्थं जम्बूद्वीपहिमवदादिसंख्या द्विरावृत्ता पुष्करार्धे कथ्यते, न पुनः कृत्स्न एव पुष्करद्वीपे ? इत्यत्रोच्यते — प्राङ्मानुषोत्तरान्मनुष्याः ॥ ३५ ॥ १०पुष्करद्वीपबहुमध्यदेशभागी वलयवृत्तो मानुषोत्तरो नाम शैलः । तस्मात्प्रागेव २२९मनुष्या न बहिरिति । ततो न बहिः पूर्वोक्तक्षेत्रविभागोऽस्ति । नास्मादुत्तरं कदाचिदपि विद्याधरा ऋद्धिप्राप्ता अपि मनुष्या गच्छन्ति अन्यत्रोपपादसमुद्धाताभ्याम् । ततोऽ स्यान्वर्थसञ्ज्ञा । एवं जम्बूद्वीपादिष्वर्धतृतीयेषु द्वीपेषु द्वयोश्च समुदयोर्मनुष्या वेदि- तव्याः । ते द्विविधाः — ०५आर्या म्लेच्छाश्च ॥ ३६ ॥ गुणैर्गुणवद्भिर्वा अर्यन्त इत्यार्याः । ते द्विविधा ऋद्धिप्राप्तार्या अनृद्धिप्राप्तार्या- २३०श्चेति । अनृद्धिप्राप्तार्याः पञ्चविधाः-क्षेत्रार्या जात्यार्याः कर्मार्याश्चारित्रार्या दर्शनार्या- श्चेति । ऋद्धिप्राप्तार्याः सप्तविधाः; बुद्धिविक्रियातपोबलौषधरसाक्षीणभेदात् । म्लेच्छा द्विविधाः-अन्तर्द्वीपजाः कर्मभूमिजाश्चेति । तत्रान्तर्द्वीपा लवणोदधे- रभ्यन्तरे पार्श्वेऽष्टासु दिक्ष्वष्टौ । तदन्तरेषु चाष्टौ । हिमवच्छिखरिणोरुभयोश्च विजया- ०५र्द्धयोरन्तेष्वष्टौ । तत्र दिक्षु द्वीपा वेदिकायास्तिर्यक् पञ्चयोजनशतानि प्रविश्य भवन्ति । विदिक्ष्वन्तरेषु च द्वीपाः पञ्चाशत्पञ्चयोजनशतेषु गतेषु भवन्ति । शैलान्तेषु द्वीपाः षट् योजनशतेषु गतेषु भवन्ति । दिक्षु द्वीपाः शतयोजनविस्ताराः । विदिक्ष्वन्तरेषु च द्वीपास्तदर्धविष्कम्भाः । शैलान्तेषु पञ्चविंशतियोजनविस्ताराः । तत्र पूर्वस्यां दिश्येकोरुकाः । अपरस्यां दिशि लाङ्गूलिनः । उत्तरस्यां दिश्य- १०भाषकाः । दक्षिणस्यां दिशि विषाणिनः । शशकर्णशष्कुलीकर्णप्रावरणकर्णलम्बकर्णाः विदिक्षु । अश्वसिंहश्वमहिषवराहव्याघ्रकाककपिमुखा अन्तरेषु । मेघमुखविद्युन्मुखाः २३१शिखरिण उभयोरन्तयोः । मत्स्यमुखकालमुखा हिमवत उभयोरन्तयोः । हस्तिमुखा- दर्शमुखाः उत्तरविजयार्धस्योभयोरन्तयोः । गोमुखमेषमुखा दक्षिणविजयार्धस्योभयो- रन्तयोः । एकोरुका मृदाहारा गुहावासिनः । शेषाः पुष्पफलाहारा वृक्षवासिनः । सर्वे ते पल्योपमायुषः । ०५ते चतुर्विंशतिरपि द्वीपा जलतलादेकयोजनोत्सेधाः । लवणोदधेर्बाह्यपार्श्वेऽ- प्येवं चतुर्विंशतिर्द्वीपा विज्ञातव्याः । तथा कालोदेऽपि वेदितव्याः । त एतेऽन्तर्द्वीपजा म्लेच्छाः । कर्मभूमिजांश्च शकयवनशवरपुलिन्दादयः । काः पुनः कर्मभूमय इत्यत आह — २३२भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३७ ॥ भरता ऐरावता विदेहाश्च पञ्च पञ्च, एताः कर्मभूमय इति व्यपदिश्यन्ते । तत्र ‘विदेह’ग्रहणाद्देवकुरूत्तरकुरुग्रहणे प्रसवते तत्प्रतिषेधार्थमाह — ‘अन्यत्र देवकुरूत्तरकु- कुरुभ्यः’ इति । ‘अन्यत्र’ शब्दो वर्जनार्थः । देवकुरव उत्तरकुरवो हैमवतो हरिवर्षो रम्यको ०५हैरण्यवतोऽन्तर्द्वीपाश्च भोगभूमय इति व्यपदिश्यन्ते । अथ कथं कर्मभूमित्वम् ? शुभाशुभ- लक्षणस्य कर्मणोऽधिष्ठानत्वात् । ननु सर्वं लोकत्रितयं कर्मणोऽधिष्ठानमेव ? तत एवं प्रकर्षगतिर्विज्ञास्यते, प्रकर्षेण यत्कर्मणोऽधिष्ठानमिति । तत्राशुभकर्मणस्तावत्सप्तमनरक- प्रापणस्य भरतादिष्वेवार्जनम्, शुभस्य च सर्वार्थसिद्ध्यादि स्थानविशेषप्रापणस्य कर्मण उपार्जनं तत्रैव, कृष्यादिलक्षणस्य षड्विधस्य कर्मणः पात्रदानादिसहितस्य तत्रैवारम्भा- १०त्कर्मभूमिव्यपदेशो वेदितव्यः । इतरास्तु दशविधकल्पवृक्षकल्पितभोगानुभवनविषयत्वाद्- भोगभूमय इति व्यपदिश्यन्ते । २३३उक्तासु भूमिषु मनुष्याणां स्थितिपरिच्छेदार्थमाह — नूस्थिती परापरे त्रिपल्योपमान्तर्मुहूर्ते ॥ ३८ ॥ त्रीणि पल्योपमानि यस्याः सा त्रिपल्योपमा । अन्तर्गतो मुहूर्तो यस्याः सा अन्त- र्मुहूर्ता । यथासंख्येनाभिसम्बन्धः । मनुष्याणां परा उत्कृष्टा स्थितिस्त्रिपल्योपमा । ०५अपरा जघन्या अन्तर्मुहूर्ता । मध्ये अनेकविकल्पा । तत्र पल्यं त्रिविधम् — व्यवहारपल्य- मुद्धारपल्यमद्धापल्यमिति । अन्वर्थसंज्ञा एताः । आद्यं व्यवहारपल्यमित्युच्यत; उत्तर- पल्यद्वयव्यवहारबीजत्वात् । नानेन किञ्चित्परिच्छेद्यमस्तीति । द्वितीयमुद्धारपल्यम् । तत उद्धृतैर्लोमकच्छेदैर्द्वीपसमुद्राः संख्यायन्त इति । तृतीयमद्धापल्यम् । अद्धा काल- स्थितिरित्यर्थः । तत्राद्यस्य प्रमाणं कथ्यते, तत्परिच्छेदनार्थत्वात् । तद्यथा — प्रमाणाङ्गुल- १०परिमितयोजनविष्कम्भायामावगाहानि त्रीणि पल्यानि कुशूला इत्यर्थः । एकादि सप्तान्ताहोरात्रजाताविवालाग्राणि तावच्छिन्नानि यावद्वितीयं कर्तरिच्छेदं नावाप्नुवन्ति, तादृशैर्लोमच्छेदैः परिपूर्णं घनीकृतं व्यवहारपल्यमित्युच्यते । ततो वर्षशते वर्षशते गते २३४एकैकलोमापकर्षणविधिना यावता कालेन तद्रिक्तं भवेत्तावान्कालो व्यवहारपल्योप- माख्यः । तैरेव लोमच्छेदैः प्रत्येकमसंख्येयवर्षकोटीसमयमात्रच्छिन्नैस्तत्पूर्णमुद्धारपल्यम् । ततः समये समये एकैकस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन तद्रिक्तं भवति तावान्काल उद्धारपल्योपमाख्यः । एषामुद्धारपल्याणां दशकोटीकोट्य एकमुद्धारसागरोपमम् । अर्धतृ- ०५तीयोद्धारसागरोपमानां यावन्तो रोमच्छेदास्तावन्तो द्वीपसमुद्राः । पुनरुद्धारपल्यरोमच्छे- दैर्वर्षशतसमयमात्रच्छिन्नैः पूर्णमद्धापल्यम् । ततः समये समये एकैकस्मिन् रोमच्छेदेऽप- कृष्यमाणे यावता कालेन तद्रिक्तं भवति तावान्कालोऽद्धापल्योपमाख्यः । एषामद्धा- पल्यानां दशकोटीकोट्य एकमद्धासागरोपमम् । दशाद्धासागरोपमकोटीकोट्य एकाव- सर्पिणी । तावत्येवोत्सर्पिणी । अनेनाद्धापल्येन नारकतैर्यग्योनानां देवमनुष्याणां च कर्म- १०स्थितिर्भवस्थितिरायुःस्थितिः कायस्थितिश्च परिच्छेत्तव्या । उक्ता च संग्रहगाथा — ’ववहारुद्धारद्धा पल्ला तिण्णेव होंति बोद्धब्बा । संखा दीव-समुद्दा कम्मटिठदि वण्णिदा तदिए ॥ ’ यथैवैते उत्कृष्टजघन्ये स्थिती नृणां तथैव — तिर्यग्योनिजानां च ॥ ३९ ॥ २३५तिरश्चां योनिस्तिर्यग्योनिः । तिर्यग्गतिनामकर्मोदयापादितं जन्मेत्यर्थः । तिर्य- ग्योनौ जातास्तिर्यग्योनिजाः । तेषां तिर्यग्योनिजानामुत्कृष्टा भवस्थितिस्त्रिपल्योपमा । जघन्या अन्तर्मुहूर्ता । मध्येऽनेकविकल्पाः । इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां तृतीयोऽध्यायः ॥ ३ ॥ २३६अथ चतुर्थोऽध्यायः ‘भवप्रत्ययोऽवधिर्देवनारकाणाम्’ इत्येवमादिष्वसकृद्देवशब्द उक्तस्तत्र न ज्ञायते के देवाः कतिविधा इति तन्निर्णयार्थमाह — देवाश्चतुर्णिकायाः ॥ १ ॥ ०५देवगतिनामकर्मोदये सत्यभ्यन्तरे हेतौ बाह्यविभूतिविशेषैः द्वीपाद्रिसमुद्रादि- प्रदेशेषु यथेष्टं दीव्यन्ति क्रीडन्तीति देवाः । इहैकवचननिर्देशो युक्तः ‘देवश्चतुर्णिकायः’ इति । स जात्यभिधानाद्बहूनां प्रतिपादको भवति ? बहुत्वनिर्देशस्तदन्तर्गतभेदप्रतिपत्त्यर्थः । इन्द्रसामानिकादयो बहबो भेदाः सन्ति स्थित्यादिकृताश्च तत्सूचनार्थः । देवगतिनामक- र्मोदयस्य स्वकर्मविशेषापादितभेदस्य सामर्थ्यान्निचीयन्त इति निकायाः संघाता इत्यर्थः । २३७चत्वारो निकाया येषां ते चतुर्णिकायाः । के पुनस्ते ? भवनवासिनो व्यन्तरा ज्योतिष्का वैमानिकाश्चेति । तेषां लेश्यावधारणार्थमुच्यते — आदितस्त्रिषु पीतान्तलेश्याः ॥ २ ॥ ०५‘आदित’ इत्युच्यते, अन्ते मध्ये अन्यथा वा ग्रहणं मा विज्ञायीति । आदौ आदितः । द्वयोरेकस्य च निवृत्त्यर्थं ‘त्रि’ग्रहणं क्रियते । अथ चतुर्ण्णां निवृत्त्यर्थं कस्मान्न भवति ? ‘आदित’ इति वचनात् । षड् लेश्या उक्ताः । तत्र चतसृणां लेश्यानां ग्रहणार्थं ‘पीतान्त’ ग्रहणं क्रियते । पीतं तेज इत्यर्थः । पीता अन्ते यासां ताः पीतान्ताः । पीतान्ता लेश्या येषां ते पीतान्तलेश्याः । एतदुक्तं भवति — आदितस्त्रिषु निकायेषु भवनवासिव्यन्तर- १०ज्योतिष्कनामसु देवानां कृष्णा नीला कापोता पीतेति चतस्रो लेश्या भवन्ति । २३८तेषां निकायानामन्तर्विकल्पप्रतिपादनार्थमाह — दशाष्टपञ्चद्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ३ ॥ चतुर्ण्णां देवनिकायानां दशादिभिः संख्याशब्दैर्यथासंख्यमभिसम्बन्धो वेदितव्यः । दशविकल्पा भवनवासिनः । अष्टविकल्पा व्यन्तराः । पञ्चविकल्पा ज्योतिष्काः । द्वादश- ०५विकल्पा वैमानिका इति । सर्ववैमानिकानां द्वादशविकल्पान्तःपातित्वे प्रसक्ते ग्रैवेयकादि- निवृत्त्यर्थं विशेषणमुपादीयते ‘कल्पोपपन्नपर्यन्ता’ इति । अथ कथं कल्पसञ्ज्ञा ? इन्द्रादयः प्रकारा दश एतेषु कल्प्यन्त इति कल्पाः । भवनवासिषु तत्कल्पनासम्भवेऽपि रूढिवशा- द्वैमानिकेष्वेव वर्तते कल्पशब्दः । कल्पेषूपपन्नाः कल्पोपपन्नाः । कल्पोपपन्नाः पर्यन्ता येषां ते कल्पोपपन्नपर्यन्ताः । १०पुनरपि तद्विशेषप्रतिपत्त्यर्थमाह — इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्णका- भियोग्यकिल्विषिकाश्चैकशः ॥ ४ ॥ २३९अन्यदेवासाधारणाणिमादिगुणयोगादिन्दन्तीति इन्द्राः । आज्ञैश्वर्यवर्जितं यत्स्थानायुर्वीर्यपरिवारभोगोपभोगादि तत्समानं, तस्मिन्समाने भवाः सामानिका मह- त्तराः पितृगुरूपाध्यायतुल्याः । मन्त्रिपुरोहितस्थानीयास्त्रायस्त्रिंशाः । त्रयस्त्रिंशदेव त्रायस्त्रिंशाः । वयस्यपीठमर्दसदृशाः परिषदि भवाः पारिषदाः । आत्मरक्षाः शिरोरक्षोप- ०५मानाः । अर्थचरारक्षकसमाना लोकपालाः । लोकं पालयन्तीति लोकपालाः । पदात्या- दीनि सप्त अनीकानि दण्डस्थानीयानि । प्रकीर्णकाः पौरजानपदकल्पाः । आभियोग्या दाससमाना वाहनादिकर्मणि प्रवृत्ताः । अन्तेवासिस्थानीयाः किल्विषिकाः । किल्बिषं पापं येषामस्तीति किल्विषिकाः । एकैकस्य निकायस्य एकश एते इन्द्रादयो दश विकल्पाश्चतुर्षु निकायेषूत्सर्गेण १०प्रसक्तास्ततोऽपवादार्थमाह — त्रायस्त्रिंशलोकपालवर्ज्या व्यन्तरज्योतिष्काः ॥ ५ ॥ व्यन्तरेषु ज्योतिष्केषु च त्रायस्त्रिंशांल्लोकपालांश्च वर्जयित्वा इतरेऽष्टौ विकल्पा द्रष्टव्याः । २४०अथ तेषु निकायेषु किमेकैक इन्द्र उतान्यः प्रतिनियमः कश्चिदस्तीत्यत आह — पूर्वयोर्द्वीन्द्राः ॥ ६ ॥ पूर्वयोर्निकाययोर्भवनवासिव्यन्तरनिकाययोः । कथं द्वितीयस्य पूर्वत्वम् ? सामी- प्यात्पूर्वत्वमुपचर्योक्तम् । ‘द्वीन्द्राः’ इति अन्तर्नीतवीप्सार्थः । द्वौ द्वौ इन्द्रौ येषां ते द्वीन्द्रा इति । ०५यथा सप्तपर्णोऽष्टापद इति । तद्यथा — भवनवासिषु तावदसुरकुमाराणां द्वाविन्द्रौ चमरो वैरोचनश्च । नागकुमाराणां धरणो भूतानन्दंश्च । विद्युत्कुमाराणां हरिसिंहो हरि- कान्तश्च । सुपर्णकुमाराणां वेणुदेवो वेणुधारी च । अग्निकुमाराणामग्निशिखोऽग्निमाण- वश्च । वातकुमाराणां वैलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णो वसिष्ठश्च । दिक्कुमाराणा- १०ममितगतिरमितवाहनश्चेति । व्यन्तरेष्वपि किन्नराणां द्वाविन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महापुरुषश्च । महोरगाणामतिकायो महाकायश्च । गन्धर्वाणां गीतरतिर्गीतयशाश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । भूतानां प्रतिरूपोऽप्रतिरूपश्च । पिशाचानां कालो महाकालश्च । २४१अथैषां देवानां सुखं कीदृशमित्युक्ते सुखावबोधनार्थमाह — कायप्रवीचारा आ ऐशानात् ॥ ७ ॥ प्रवीचारो मैथुनोपसेवनम् । कायेन प्रवीचारो येषां ते कायप्रवीचाराः । आङ् अभिविध्यर्थः । असंहितया निर्देशः असन्देहार्थः । एते भवनवास्यादय ऐशानान्ताः संक्ल्लि- ०५ष्टकर्मत्वान्मनुष्यवत्स्त्रीविषयसुखमनुभवन्तीत्यर्थः । अवधिग्रहणादितरेषां सुखविभागेऽनिर्ज्ञाते तत्प्रतिपादनार्थमाह — शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥ ८ ॥ उक्तावशिष्टग्रहणार्थं ‘शेष’ग्रहणम् । के पुनरुक्तावशिष्टाः ? कल्पवासिनः । स्पर्शश्च रूपं च शब्दश्च मनश्च स्पर्शरूपशब्दमनांसि, तेषु प्रवीचारो येषां ते स्पर्शरूप- १०शब्दमनःप्रवीचाराः । कथमभिसम्बन्धः ? आर्षाविरोधेन । कुतः पुनः ‘प्रवीचार’ ग्रहणम् ? २४२इष्टसम्प्रत्ययार्थमिति । कः पुनरिष्टोऽभिसम्बन्धः ? आर्षाविरोधी — सानत्कुमारमाहेन्द्र- योर्देवा देवाङ्गनाङ्गस्पर्शमात्रादेव परां प्रीतिमुपलभन्ते, तथा देव्योऽपि । ब्रह्मब्रह्मोत्तर- लान्तवकापिष्ठेषु देवा दिव्याङ्गनानां शृङ्गाराकारविलासचतुरमनोज्ञवेषरूपावलोकन- मात्रादेव परमसुखमाप्नुवन्ति । शुक्रमहाशुक्रशतारसहस्रारेषु देवा देववनितानां मधुर- ०५सङ्गीतमृदुहसितललितकथितभूषणरवश्रवणमात्रादेव परां प्रीतिमास्कन्दन्ति । आनतप्राणतारणाच्युतकल्पेषु देवा स्वाङ्गनामनःसङ्कल्पमात्रादेव परं सुखमाप्नुवन्ति । अथोत्तरेषां किंप्रकारं सुखमित्युक्ते तन्निश्चयार्थमाह — परेऽप्रविचाराः ॥ ९ ॥ ‘पर’ ग्रहणमितराशेषसंग्रहार्थम् । ‘अप्रवीचार’ग्रहणं परमसुखप्रतिपत्त्यर्थम् । १०प्रवीचारो हि वेदनाप्रतिकारः । तदभावे तेषां परमसुखमनवरतं भवति । उक्ता ये आदिनिकायदेवा दशविकल्पा इति तेषां सामान्यविशेषसञ्ज्ञाविज्ञाप- नार्थमिदमुच्यते — २४३भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥ १० ॥ भवनेषु वसन्तीत्येवंशीला भवनवासिनः । आदिनिकायस्येयं सामान्यसञ्ज्ञा । असुरादयो विशेषसञ्ज्ञा विशिष्टनामकर्मोदयापादितवृत्तयः । सर्वेषां देवानामवस्थितवयः- स्वभावत्वेऽपि वेषभूषायुधयानवाहनक्रीडनादिं कुमारवदेषामाभासत इति भवनवासिषु ०५कुमारव्यपदेशो रूढः । स प्रत्येकं परिसमाप्यते असुरकुमारा इत्येवमादि । क्व तेषां भवना- नीति चेत् ? उच्यते — रत्नप्रभायाः पङ्कबहुलभागेऽसुरकुमाराणां भवनानि । खरपृथिवी- भागे उपर्यधश्च एकैकयोजनसहस्रं वर्जयित्वा शेषनवानां कुमाराणामावासाः । द्वितीयनिकायस्य सामान्यविशेषसञ्ज्ञावधारणार्थमाह — व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ ११ ॥ १०विविधदेशान्तराणि येषां निवासास्ते ‘व्यन्तरा’ इत्यन्वर्था सामान्यसञ्ज्ञेयमष्टा- नामपि विकल्पानाम् । तेषां व्यन्तराणामष्टौ विकल्पाः किन्नरादयो वेदितव्या नामकर्मो- दयविशेषापादिताः । क्व पुनस्तेषामावासा इति चेत् ? उच्यते — अस्माज्जम्बूद्वीपाद- २४४संख्येयान्द्वीपसमुद्रानतीत्य उपरिष्टे खरपृथिवीभागे सप्तानां व्यन्तराणामावासाः । राक्षसानां पङ्कबहुलभागे । तृतीयस्य निकायस्य सामान्यविशेषसंज्ञासङ्कीर्तनार्थमाह — ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहंनक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥ ०५ज्योतिस्स्वभावत्वादेषां पञ्चानामपि ‘ज्योतिष्का’ इति सामान्यसंज्ञा अन्वर्था । सूर्यादयस्तद्विशेषसंज्ञा नामकर्मोदयप्रत्ययाः । ‘सूर्याचन्द्रमसौ’ इति पृथग्ग्रहणं प्राधान्य- ख्यापनार्थम् । किंकृतं पुनः प्राधान्यम् ? प्रभावादिकृतम् । क्व पुनस्तेषामावासाः ? इत्यत्रो- च्यते, अस्मात्समाद् भूमिभागादूर्ध्वं सप्तयोजनशतानि नवत्युत्तराणि उत्पत्त्य सर्वज्यो- तिषामधोभागविन्यस्तास्तारकाश्चरन्ति । ततो दशयोजनान्युत्पत्य सूर्याश्चरन्ति । ततोऽ- १०शीतियोजनान्युत्पत्य चन्द्रमसो भ्रमन्ति । ततश्चत्वारि योजनान्युत्पत्य नक्षत्राणि । ततश्चत्वारि योजनान्युत्पत्य बुधाः । ततस्त्रीणि योजनान्युत्पत्य शुक्राः । ततस्त्रीणि योजनान्युत्पत्य बृहस्पतयः । ततस्त्रीणि योजनान्युत्पत्याङ्गारकाः । ततस्त्रीणि योजनान्यु- त्पत्य शनैश्चराश्चरन्ति । स एष ज्योतिर्गणगोचरो नभोऽवकाशो दशाधिकयोजनशत- २४५बहलस्तिर्यगसंख्यातद्वीपसमुद्रप्रमाणो घनोदधिपर्यन्तः । उक्तं च — ’णौदुत्तरसत्तसया दससीदी चदुगं तियचौक्कं । तारारविससिरिक्खा बुहभग्गवगुरुअंगिरारसणी ॥ ’ ज्योतिष्काणां गतिविशेषप्रतिपत्त्यर्थमाह — ०५मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ मेरोः प्रदक्षिणा मेरुप्रदक्षिणाः । ‘मेरुप्रदक्षिणाः’ इति वचनं गतिविशेषप्रति- पत्त्यर्थं विपरीता गतिर्मा विज्ञायीति । ‘नित्यगतयः’ इति विशेषणमनुपरतक्रियाप्रति- पादनार्थम् । ‘नृलोक’ ग्रहणं विषयार्थम् । अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोर्ज्योतिष्का नित्यगतयो नान्यत्रेति । ज्योतिष्कविमानानां गतिहेत्वभावात्तद्वृत्त्यभाव इति चेत् ? १०न; असिद्धत्वात् गतिरताभियोग्यदेवप्रेरितगतिपरिणामात्कर्मविपाकस्य वैचित्र्यात् । तेषां हि गतिमुखेनैव कर्म विपच्यत इति । एकादशभिर्योजनशतैरेकविंशैर्मेरुमप्राप्य ज्योतिष्काः प्रदक्षिणाश्चरन्ति । २४६गतिमज्ज्योतिस्सम्बन्धेन व्यवहारकालप्रतिपत्त्यर्थमाह — तत्कृतः कालविभागः ॥ १४ ॥ ‘तद्’ग्रहणं गतिमज्ज्योतिःप्रतिनिर्देशार्थम् । न केवलया गत्या नापि केवलैर्ज्यो- तिर्भिः कालः परिच्छिद्यते; अनुपलब्धेरपरिवर्तनाच्च । कालो द्विविधो व्यावहारिको ०५मुख्यश्च । व्यावहारिकः कालविभागस्तत्कृतः समयावलिकादिः क्रियाविशेषपरिच्छिन्नोऽ- न्यस्यापरिच्छिन्नस्य परिच्छेदहेतुः । मुख्योऽन्यो वक्ष्यमाणलक्षणः । २४७इतरत्र ज्योतिषामवस्थानप्रतिपादनार्थमाह — बहिरवस्थिताः ॥ १५ ॥ ‘बहिः’इत्युच्यते । कुतो बहिः ? नृलोकात् । कथमवगम्यते ? अर्थवशाद्विभक्ति- परिणामो भवति । ननु च नृलोके ‘नित्यगति’वचनादन्यत्रावस्थानं ज्योतिष्काणां सिद्धम् । ०५अतो बहिरवस्थिता इति वचनमनर्थकमिति ? तन्न; किं कारणम् ? नृलोकादन्यत्र हि ज्योतिषामस्तित्वमवस्थानं चासिद्धम् । अतस्तदुभयसिद्ध्यर्थं बहिरवस्थिता इत्यु- च्यते । विपरीतगतिनिवृत्त्यर्थं कादाचित्कगतिनिवृत्त्यर्थं च सूत्रमारब्धम् । तुरीयस्य निकायस्य सामान्यसञ्ज्ञासङ्कीर्तनार्थमाह — २४८वैमानिकाः ॥ १६ ॥ ‘वैमानिक’ग्रहणमधिकारार्थम् । इत उत्तरं ये वक्ष्यन्ते तेषां वैमानिकसम्प्रत्ययो यथा स्यादिति अधिकारः क्रियते । विशेषेणात्मस्थान् सुकृतिनो मानयन्तीति विमानानि । विमानेषु भवा वैमानिकाः । तानि विमानानि त्रिविधानि — इन्द्रकश्रेणीपुष्पप्रकीर्णकभेदेन । ०५तत्र इन्द्रकविमानानि इन्द्रवन्मध्येऽवस्थितानि । तषां चतसृषु दिक्षु आकाशप्रदेशश्रेणि- वदवस्थानात् श्रेणिविमानानि । विदिक्षु प्रकीर्णपुष्पवदवस्थानात्पुष्पप्रकीर्णकानि । तेषां वैमानिकानां भेदावबोधनार्थमाह — कल्पोपपन्नाः कल्पातीताश्च ॥ १७ ॥ कल्पेषूपपन्नाः कल्पोपपन्नाः कल्पानतीताः कल्पातीताश्चेति द्विविधा वैमानिकाः । १०तेषामवस्थानविशेषनिर्ज्ञानार्थमाह — उपर्युपरि ॥ १८ ॥ किमर्थमिदमुच्यते ? तिर्यगवस्थितिप्रतिषेधार्थमुच्यते । न ज्योतिष्कवत्तिर्यगव- स्थिताः । न व्यन्तरवदसमावस्थितयः । ‘उपर्युपरि’ इत्युच्यन्ते ? के ते ? कल्पाः । २४९यद्येवं, कियत्सु कल्पविमानेषु ते देवा भवन्तीत्यत आह — सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठ- शुक्रमहाशुक्रशतारसहस्रारेष्वानतप्राणतयोरारणाच्युतयोर् नवसु ग्रैवेयकेषु विजयवैजयन्तजयन्तापराजितेषु सर्वार्थसिद्धौ च ॥ १९ ॥ ०५कथमेषां सौधर्मादिशब्दानां कल्पाभिधानम् ? चातुरर्थिकेनाणा स्वभावतो वा कल्प- स्याभिधानं भवति । अथ कथमिन्द्राभिधानम् ? स्वभावतः साहचर्याद्वा । तत्कथमिति चेत् ? उच्यते — सुधर्मा नाम सभा, साऽस्मिन्नस्तीति सौधर्मः कल्पः । ’तदस्मिन्नस्तीति’ अण् । तत्कल्पसाहचर्यादिन्द्रोऽपि सौधर्मः । ईशानो नाम इन्द्रः स्वभावतः । ईशानस्य निवासः कल्प ऐशानः । ’तस्य निवासः’ इत्यण् । तत्साहचर्यादिन्द्रोऽप्पैशानः । सनत्कुमारो १०नाम इन्द्रः स्वभावतः । ’तस्य निवासः’ इत्यण् । सानत्कुमारः कल्पः । तत्साहचर्यादि- २५०न्द्रोऽपि सानत्कुमारः । महेन्द्रो नामेन्द्रः स्वभावतः । तस्य निवासः कल्पो माहेन्द्रः । तत्साह- चर्यादिन्द्रोऽपि माहेन्द्रः । एवमुत्तरत्रापि योज्यम् । आगमापेक्षया व्यवस्था भवतीति ‘उपर्युपरि’ इत्यनेन द्वयोर्द्वयोरभिसम्बन्धो वेदितव्यः । प्रथमौ सौधर्मैशानकल्पौ, तयोरुपरि सानत्कुमारमाहेन्द्रौ, तयोरुपरि ब्रह्मलोकब्रह्मोत्तरौ, तयोरुपरि लान्तवकापिष्ठौ, तयोरुपरि ०५शुक्रमहाशुक्रौ, तयोरुपरि शतारसहस्रारौ, तयोरुपरि आनतप्राणतौ, तयोरुपरि आरणा- च्युतौ । अध उपरि च प्रत्येकमिन्द्रसम्बन्धो वेदितव्यः । मध्ये तु प्रतिद्वयम् । सौधर्मैशान- सानत्कुमारमाहेन्द्राणां चतुर्णां चत्वार इन्द्राः । ब्रह्मलोकब्रह्मोत्तरयोरेको ब्रह्मा नाम । लान्तवकापिष्ठयोरेको लान्तवाख्यः । शुक्रमहाशुक्रयोरेकः शुक्रसञ्ज्ञः । शतारसहस्रारयो- रेकः शतारनामा । आनतप्राणतारणाच्युतानां चतुर्ण्णां चत्वारः । एवं कल्पवासिनां द्वादश १०इन्द्रा भवन्ति । जम्बूद्वीपे महामन्दरो योजनसहस्रावगाहो नवनवतियोजनसहस्रोच्छ्रायः । तस्या- धस्तादधोलोकः । बाहल्येन तत्प्रमाणस्तिर्यक्प्रसृतस्तिर्यग्लोकः । तस्योपरिष्टादूर्ध्व- २५१लोकः । मेरुचूलिका चत्वारिंशद्योजनोच्छ्राया । तस्या उपरि केशान्तरमात्रे व्यवस्थित- मृजुविमानमिन्द्रकं सौधर्मस्य । सर्वमन्यल्लोकानुयोगाद्वेदितव्यम् । ‘नवसु ग्रैवेयकेषु’ इति नवशब्दस्य पृथग्वचनं किमर्थम् ? अन्यान्यपि नवविमानानि अनुदिशसञ्ज्ञकानि सन्तीति ज्ञापनार्थम् । तेनानुदिशानां ग्रहणं वेदितव्यम् । ०५एषामधिकृतानां वैमानिकानां परस्परतो विशेषप्रतिपत्त्यर्थमाह — स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २० ॥ स्वोपात्तस्यायुष उदयात्तस्मिन्भवे शरीरेण सहावस्थानं स्थितिः । शापानुग्रह- शक्तिः प्रभावः । सुखमिन्द्रियार्थानुभवः । शरीरवसनाभरणादिदीप्तिः द्युतिः । लेश्या उक्ता । लेश्याया विशुद्धिर्लेश्याविशुद्धिः । इन्द्रियाणामवधेश्च विषय इन्द्रियावधिविषयः । १०तेभ्यस्तैर्वाऽधिका इति तसिः । उपर्युपरि प्रतिकल्पं प्रतिप्रस्तारं च वैमानिकाः स्थित्यादि- २५२भिरधिका इत्यर्थः । यथा स्थित्यादिभिरुपर्युपर्यधिका एवं गत्यादिभिरपीत्यतिप्रसङ्गे तन्निवृत्त्यर्थ- माह — गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥ ०५देशाद्देशान्तरप्राप्तिहेतुर्गतिः शरीरं वैक्रियिकमुक्तम् । लोभकषायोदयाद्विष- येषु सङ्गः परिग्रहः । मानकषायादुत्पन्नोऽहङ्कारोऽभिमानः । एतैर्गत्यादिभिरुपर्युपरि हीनाः । देशान्तरविषयक्रीडारतिप्रकर्षाभावादुपर्युपरि गतिहीनाः । शरीरं सौधर्मैशानयोर्देवानां सप्तारत्निप्रमाणम् । सानत्कुमारमाहेन्द्रयोः षडरत्निप्रमाणम् । ब्रह्मलोकब्रह्मोत्तरलान्तव- कापिष्ठेषु पञ्चारत्निप्रमाणम् । शुक्रमहाशुक्रशतारसहस्रारेषु चतुररत्निप्रमाणम् । आनत- १०प्राणतयोरर्द्धचतुर्थारत्निप्रमाणम् । आरणाच्युतयोस्त्र्यरत्निप्रमाणम् । अधोग्रैवेयकेषु अर्द्ध- तृतीयारत्निप्रमाणम् । मध्यग्रैवेयकेष्वरत्निद्वयप्रमाणम् । उपरिमग्रैवेयकेषु अनुदिशवि- मानकेषु च अध्यर्द्धारत्निप्रमाणम् । अनुत्तरेष्वरत्निप्रमाणम् । परिग्रहश्च विमानपरि- च्छदादिरुपर्युपरि हीनः । अभिमानश्चोपर्युपरि तनुकषायत्वाद्धीनः । २५३पुरस्तात्त्रिषु निकायेषु देवानां लेश्याविधिरुक्तः । इदानीं वैमानिकेषु लेश्याविधि- प्रतिपत्त्यर्थमाह — पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २२ ॥ पीता च पद्मा च शुक्ला च ताः पीतपद्मशुक्लाः । पीतपद्मशुक्ला लेश्या ०५येषां ते पीतपद्मशुक्ललेश्याः । कथं ह्रस्वत्वम् ? औत्तरपदिकम् । यथा — ’द्रुतायां तपरकरणे मध्यमविलम्बितयोरुपसंख्यानm’ इति । अथवा पीतश्च पद्मश्च शुक्लश्च पीतपद्मशुक्ला वर्णवन्तोऽर्थाः । तेषामिव लेश्या येषां ते पीतपद्म- शुक्ललेश्याः । तत्र कस्य का लेश्या इति ? अत्रोच्यते — सौधर्मैशानयोः पीतलेश्याः । सानत्कुमारमाहेन्द्रयोः पीतपद्मलेश्याः । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु पद्मलेश्याः । २५४शुक्रमहाशुक्रशतारसहस्रारेषु पद्मशुक्ललेश्याः । आनतादिषु शुक्ललेश्याः । तत्राप्यनुदिशानु- त्तरेषु परमशुक्ललेश्याः । सूत्रेऽनभिहितं कथं मिश्रग्रहणम् ? साहचर्याल्लोकवत् । तद्यथा — छत्रिणो गच्छन्ति इति अच्छत्रिषु छत्रिव्यवहारः । एवमिहापि मिश्रयोरन्यतरग्रहणं भवति । अयमर्थः सूत्रतः कथं गम्यते इति चेत् ? उच्यते — एवमभिसम्बन्धः क्रियते, ०५द्वयोः कल्पयुगलयोः पीतलेश्या; सानत्कुमारमाहेन्द्रयोः पद्मलेश्याया अविवक्षातः । ब्रह्म- लोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्या; शुक्रमहाशुक्रयोः शुक्ललेश्याया अविवक्षातः । शेषेषु शतारादिषु शुक्ललेश्या; पद्मलेश्याया अविवक्षातः । इति नास्ति दोषः । आह कल्पोपपन्ना इत्युक्तं तत्रेदं न ज्ञायते के कल्पा इत्यत्रोच्यते — प्राग्ग्रैवेयकेभ्यः कल्पाः ॥ २३ ॥ १०इदं न ज्ञायते इत आरभ्य कल्पा भवन्तीति सौधर्मादिग्रहणमनुवर्तते । तेनाय- मर्थो लभ्यते — सौधर्मादयः प्राग्ग्रैवेयकेभ्यः कल्पा इति । पारिशेष्यादितरे कल्पातीता इति । लौकान्तिका देवा वैमानिकाः सन्तः क्व गृह्यन्ते ? कल्पोपपन्नेषु । कथमिति चेदुच्यते — २५५ब्रह्मलोकालया लौकान्तिकाः ॥ २४ ॥ एत्य तस्मिन् लीयन्त इति आलय आवासः । ब्रह्मलोक आलयो येषां ते ब्रह्म- लोकालया लौकान्तिका देवा वेदितव्याः । यद्येवं सर्वेषां ब्रह्मलोकालयानां देवानां लौकान्ति- कत्वं प्रसक्तम् ? अन्वर्थसञ्ज्ञाग्रहणाददोषः । ब्रह्मलोको लोकः तस्यान्तो लोकान्तः तस्मि- ०५न्भवा लौकान्तिका इति न सर्वेषां ग्रहणम् । तेषां हि विमानानि ब्रह्मलोकस्यान्तेषु स्थि- तानि । अथवा जन्मजरामरणाकीर्णो लोकः संसारः, तस्यान्तो लोकान्तः । लोकान्ते भवा लौकान्तिकाः । ते सर्वे परीतसंसाराः ततश्च्युता एकं गर्भावासं प्राप्य परिनिर्वास्यन्तीति । तेषां सामान्येनोपदिष्टानां भेदप्रदर्शनार्थमाह — सारस्वतादित्यवह्न्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ १०क्व इमे सारस्वतादयः ? अष्टास्वपि पूर्वोत्तरादिषु दिक्षु यथाक्रममेते सारस्वता- दयो देवगणा वेदितव्याः । तद्यथा — पूर्वोत्तरकोणे सारस्वतविमानम्, पूर्वस्यां दिशि आदित्य- विमानम्, पूर्वदक्षिणस्यां दिशि वह्निविमानम्, दक्षिणस्यां दिशि अरुणविमानम्, दक्षिणापर- २५६कोणे गर्दतोयविमानम्, अपरस्यां दिशि तुषितविमानम्, उत्तरापरस्यां दिशि अव्याबाध- विमानम्, उत्तरस्यां दिशि अरिष्टविमानम् । ‘च’शब्दसमुच्चितास्तेषामन्तरेषु द्वौ देव- गणौ । तद्यथा — सारस्वतादित्यान्तरे अग्न्याभसूर्याभाः । आदित्यस्य च वह्नेश्चान्तरे चन्द्राभसत्याभाः । वह्न्यरुणान्तराले श्रेयस्करक्षेमङ्कराः । अरुणगर्दतोयान्तराले वृषभेष्ट- ०५कामचाराः । गर्दतोयतुषितमध्ये निर्माणरजोदिगन्तरक्षिताः । तुषिताव्याबाधमध्ये आत्म- रक्षितसर्वरक्षिताः । अव्याबाधारिष्टान्तराले मरुद्वसवः । अरिष्टसारस्वतान्तराले अश्व- विश्वाः । सर्वे एते स्वतन्त्राः; हीनाधिकत्वाभावात्, विषयरतिविरहाद्देवर्षयः, इतरेषां देवानामर्चनीयाः, चतुर्दशपूर्वधराः, तीर्थकरनिष्क्रमणप्रतिबोधनपरा वेदितव्याः । आह, उक्ता लौकान्तिकास्ततश्च्युता एकं गर्भवासमवाप्य निर्वास्यन्तीत्युक्ताः । १०किमेवमन्येष्वपि निर्वाणप्राप्तिकालविभागो विद्यते ? इत्यत आह — विजयादिषु द्विचरमाः ॥ २६ ॥ ‘आदि’शब्दः प्रकारार्थे वर्तते, तेन विजयवैजयन्तजयन्तापराजितानुदिशविमा- नानामिष्टानां ग्रहणं सिद्धं भवति । कः पुनरत्र प्रकारः ? अहमिन्द्रत्वे सति सम्यग्दृष्ट्यु- २५७पपादः । सर्वार्थसिद्धिप्रसङ्ग इति चेत् ? न; तेषां परमोत्कृष्टत्वात्, अन्वर्थसञ्ज्ञात एक- चरमत्वसिद्धेः । चरमत्वं देहस्य मनुष्यभवापेक्षया । द्वौ चरमौ देहौ येषां ते द्विचरमाः । विजयादिभ्यश्च्युता अप्रतिपतितसम्यक्त्वा मनुष्येषूत्पद्य संयममाराध्य पुनर्विजयादिषू- त्पद्य ततश्च्युताः पुनर्मनुष्यभवमवाप्य सिद्ध्यन्तीति द्विचरमदेहत्वम् । ०५आह, जीवस्यौदयिकेषु भावेषु तिर्यग्योनिगतिरौदयिकीत्युक्तं, पुनश्च स्थितौ ‘तिर्यग्योनिजानां च’ इति । तत्र न ज्ञायते के तिर्यग्योनयः ? इत्यत्रोच्यते — औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७ ॥ औपपादिका उक्ता देवनारकाः । मनुष्याश्च निर्दिष्टाः ‘प्राङ्मानुषोत्तरान्म- नुष्याः’ इति । एभ्योऽन्ये संसारिणो जीवाः शेषास्ते तिर्यग्योनयो वेदितव्याः । तेषां तिरश्चां २५८देवादीनामिव क्षेत्रविभागः पुनर्निर्देष्टव्यः ? सर्वलोकव्यापित्वात्तेषां क्षेत्रविभागो नोवतः । आह, स्थितिरुक्ता नारकाणां मनुष्याणां तिरश्चां च । देवानां नोक्ता । तस्यां वक्तव्यायामादावुद्दिष्टानां भवनवासिनां स्थितिप्रतिपादनार्थमाह — स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्द्धहीनमिता ॥ २८ ॥ ०५असुरादीनां सागरोपमादिभिर्यथाक्रममत्राभिसम्बन्धो वेदितव्यः । इयं स्थिति- रुत्कृष्टा । जघन्याऽप्युत्तरत्र वक्ष्यते । तद्यथा असुराणां सागरोपमा स्थितिः । नागानां त्रिपल्योपमानि स्थितिः । सुपर्णानामर्द्धतृतीयानि । द्वीपानां द्वे । शेषाणां षण्णामध्यर्द्ध- पल्योपमम् । आद्यदेवनिकायस्थित्यभिधानादनन्तरं व्यन्तरज्योतिष्कस्थितिवचने क्रमप्राप्ते १०सति तदुल्लङ्घ्य वैमानिकानां स्थितिरुच्यते । कुतः ? तयोरुत्तरत्र लघुनोपायेन स्थिति- वचनात् । तेषु चादावुद्दिष्टयोः कल्पयोः स्थितिविधानार्थमाह — सौधर्मैशानयोः सागरोपमे अधिके ॥ २९ ॥ २५९‘सागरोपमे’ इति द्विवचननिर्देशाद् द्वित्वगतिः । ‘अधिके’ इत्ययमधिकारः । आ कुतः ? आ सहस्रारात् । इदं तु कुतो ज्ञायते ? उत्तरत्र ‘तु’शब्दग्रहणात् । तेन सौधर्मैशान- योर्देवानां द्वे सागरोपमे सातिरेके प्रत्येतव्ये । उत्तरयोः स्थितिविशेषप्रतिपत्त्यर्थमाह — ०५सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३० ॥ अनयोः कल्पयोर्देवानां सप्तसागरोपमाणि साधिकानि उत्कृष्टा स्थितिः । ब्रह्मलोकादिष्वच्युतावसानेषु स्थितिविशेषप्रतिपत्त्यर्थमाह — त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥ ३१ ॥ ‘सप्त’ग्रहणं प्रकृतम् । तस्येह त्र्यादिभिर्निर्दिष्टैरभिसम्बन्धो वेदितव्यः । सप्त १०त्रिभिरधिकानि, सप्त सप्तभिरधिकानीत्यादिः । द्वयोर्द्वयोरभिसम्बन्धो वेदितव्यः । ‘तु’ शब्दो विशेषणार्थः । किं विशिनष्टि ? ‘अधिक’ शब्दोऽनुवर्तमानश्चतुर्भिरभिसम्बध्यते २६०नोत्तराभ्यामित्ययमर्थो विशिष्यते । तेनायमर्थो भवति — ब्रह्मलोकब्रह्मोत्तरयोर्दशसाग- रोपमाणि साधिकानि । लान्तवकापिष्ठयोश्चतुर्दशसागरोपमाणि साधिकानि । शुक्रमहा- शुक्रयोः षोडशसागरोपमाणि साधिकानि । शतारसहस्रारयोरष्टादशसागरोपमाणि साधि- कानि । आनतप्राणतयोर्विंशतिसागरोपमाणि । आरणाच्युतयोर्द्वार्विंशतिसागरोपमाणि । ०५तत ऊर्ध्वं स्थितिविशेषप्रतिपत्त्यर्थमाह — आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धौ च ॥ ३२ ॥ ‘अधिक’ ग्रहणमनुवर्तते । तेनेहाभिसम्बन्धो वेदितव्यः । एकैकेनाधिकानीति । ‘नव’ग्रहणं किमर्थम् ? प्रत्येकमेकैकमधिकमिति ज्ञापनार्थम् । इतरथा हि ग्रैवेयकेष्वेक- मेवाधिकं स्यात् । विजयादिष्विति ‘आदि’शब्दस्य प्रकारार्थत्वादनुदिशानामपि ग्रहणम् । १०सर्वार्थसिद्धेस्तु पृथग्ग्रहणं जघन्याभावप्रतिपादनार्थम् । तेनायमर्थः, अधोग्रैवेयकेषु प्रथमे त्रयोविंशतिः, द्वितीये चतुर्विंशतिः, तृतीये पञ्चविंशतिः । मध्यमग्रैवेयेकेषु प्रथमे षड्विं- २६१शतिः द्वितीये सप्तविंशतिः तृतीयेऽष्टाविंशतिः । उपरिमग्रैवेयकेषु प्रथमे एकोनत्रिंशद् द्वितीये त्रिंशत् तृतीये एकत्रिंशत् । अनुदिशविमानेषु द्वात्रिंशत् । विजयादिषु त्रयस्त्रिं- शत्सागरोपमाण्युत्कृष्टा स्थितिः । सवर्थिसिद्धौ त्रयस्त्रिंशदेवेति । निर्दिष्टोत्कृष्टस्थितिकेषु देवेषु जघन्यस्थितिप्रतिपादनार्थमाह — ०५अपरा पल्योपममधिकम् ॥ ३३ ॥ पल्योपमं व्याख्यातम् । अपरा जघन्या स्थितिः । पल्योपमं साधिकम् । केषाम् ? सौधर्मैशानीयानाम् । कथं गम्यते ? ‘परतः तरतः’ इत्युत्तरत्र वक्ष्यमाणत्वात् । तत ऊर्ध्वं जघन्यस्थितिप्रतिपादनार्थमाह — परतः परतः पूर्वापूर्वाऽनन्तरा ॥ ३४ ॥ १०परस्मिन्देशे परतः । वीप्सायां द्वित्वम् । ‘पूर्व’शब्दस्यापि । ‘अधिक’ग्रहणमनु- २६२वर्तते । तेनैवमभिसम्बन्धः क्रियते — सौधर्मैशानयोर्द्वे सागरोपमे साधिके उक्ते, ते साधिके सानत्कुमारमाहेन्द्रयोर्जघन्या स्थितिः । सानत्कुमारमाहेन्द्रयोः परा स्थितिः सप्तसागरोप- माणि साधिकानि, तानि साधिकानि ब्रह्मब्रह्मोत्तरयोर्जघन्या स्थितिरित्यादि । नारकाणामुत्कृष्टा स्थितिरुक्ता । जघन्यां सूत्रेऽनुपात्तामप्रकृतामपि लघुनोपा- ०५येन प्रतिपादयितुमिच्छन्नाह — नारकाणां च द्वितीयादिषु ॥ ३५ ॥ ‘च’शब्दः किमर्थः ? प्रकृतसमुच्चयार्थः । किं च प्रकृतम् ? ‘परतः परतः पूर्वापूर्वाऽ- नन्तरा’ अपरा स्थितिरिति । तेनायमर्थो लभ्यते — रत्नप्रभायां नारकाणां परा स्थितिरेकं सागरोपमम् । सा शर्कराप्रभायां जघन्या । शर्कराप्रभायामुत्कृष्टा स्थितिस्त्रीणि सागरोप- १०माणि । सा वालुकाप्रभायां जघन्येत्यादि । एवं द्वितीयादिषु जघन्या स्थितिरुक्ता । प्रथमायां का जघन्येति तत्प्रदर्शनार्थमाह — दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ २६३अपरा स्थितिरित्यनुवर्तते । रत्नप्रभायां दशवर्षसहस्राणि अपरा स्थितिर्वेदितव्या । अथ भवनवासिनां का जघन्या स्थितिरित्यत आह — भवनेषु च ॥ ३७ ॥ ‘च’शब्दः किमर्थः ? प्रकृतसमुच्चयार्थः । तेन भवनवासिनामपरा स्थितिर्दश- ०५वर्षसहस्राणीत्यभिसम्बध्यते । व्यन्तराणां तर्हि का जघन्या स्थितिरित्यत आह — व्यन्तराणां च ॥ ३८ ॥ ‘च’शब्दः प्रकृतसमुच्चयार्थः । तेनव्यन्तराणामपरा स्थितिर्दशवर्षसहस्राणीत्यव- गम्यते । १०अथैषां परा स्थितिः का इत्यत्रोच्यते — परा पल्योपममधिकम् ॥ ३९ ॥ परा उत्कृष्टा स्थितिर्व्यन्तराणां पल्योपममधिकम् । इदानीं ज्योतिष्काणां परा स्थितिर्वक्तव्येत्यत आह — ज्योतिष्काणां च ॥ ४० ॥ २६४‘च’शब्दः प्रकृतसमुच्चयार्थः । तेनैवमभिसम्बन्धः । ज्योतिष्काणां परा स्थितिः पल्योपममधिकमिति । अथापरा कियतीत्यत आह — तदष्टभागोऽपरा ॥ ४१ ॥ ०५तस्य पल्योपमस्याष्टभागो ज्योतिष्काणामपरा स्थितिरित्यर्थः । अथ लौकान्तिकानां विशेषोक्तानां स्थितिविशेषो नोक्तः । स किया- नित्यत्रोच्यते — लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥ ४२ ॥ अविशिष्टाः सर्वे ते शुक्ललेश्याः पञ्चहस्तोत्सेधशरीराः । १०इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसंज्ञिकायां चतुर्थोऽध्यायः ॥ २६५अथ पञ्चमोऽध्यायः इदानीं सम्यग्दर्शनस्य विषयभावेनोपक्षिप्तेषु जीवादिषु जीवपदार्थों व्याख्यातः । अथाजीवपदार्थो विचारप्राप्तस्तस्य संज्ञाभेदसंकीर्तनार्थमिदमुच्यते — अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥ ०५‘काय’शब्दः शरीरे व्युत्पादितः इहोपचारादध्यारोप्यते । कुत उपचारः ? यथा शरीरं पुद्गलद्रव्यप्रचयात्मकं तथा धर्मादिष्वपि प्रदेशप्रचयापेक्षया काया इव काया इति । अजीवाश्च ते कायाश्च अजीवकायाः ’विशेषणं विशेष्येणेति’ वृत्तिः । ननु च नीलोत्पलादिषु व्यभिचारे सति विशेषणविशेष्ययोगः ? इहापि व्यभिचारयोगोऽस्ति । अजीवशब्दोऽकाये कालेऽपि वर्तते, कायोऽपि जीवे । किमर्थः कायशब्दः ? प्रदेशबहुत्वज्ञापनार्थः । धर्मादीनां २६६प्रदेशा बहव इति । ननु च ‘असंख्येयाः प्रदेशा धर्माधर्मैकजीवानाम्’ इत्यनेनैव प्रदेशबहुत्वं ज्ञापितम् ? सत्यमिदम् । परं किन्त्वस्मिन्विधौ सति तदवधारणं विज्ञायते, असंख्येया प्रदेशा न संख्येया नाप्यनन्ता इति । कालस्य प्रदेशप्रचयाभावज्ञापनार्थं च इह ‘काय’ — ग्रहणम् । कालोः वक्ष्यते । तस्य प्रदेशप्रतिषेधार्थमिह ‘काय’ग्रहणम् । यथाऽणोः प्रदेशमा- ०५त्रत्वाद् द्वितीयादयोऽस्य प्रदेशा न सन्तीत्यप्रदेशोऽणुः तथा कालपरमाणुरप्येकप्रदेशत्वाद- प्रदेश इति । तेषां धर्मादीनाम् ‘अजीव’ इति सामान्यसञ्ज्ञा जीवलक्षणाभावमुखेन प्रवृत्ता । ‘धर्माधर्माकाशपुद्गलाः’ इति विशेषसञ्ज्ञाः सामयिक्यः । अत्राह, ‘सर्वद्रव्यपर्यायेषु केवलस्य’ इत्येवमादिषु द्रव्याण्युक्तानि, कानि तानीत्युच्यते — द्रव्याणि ॥ २ ॥ १०यथास्वं पर्यायैर्द्रूयन्ते द्रवन्ति वा तानि इति द्रव्याणि । द्रव्यत्वयोगाद् द्रव्यमिति २६७चेत् ? न; उभयासिद्धेः । यथा दण्डदण्डिनोर्योगो भवति पृथक्सिद्धयोः, न च तथा द्रव्यद्रव्यत्वे पृथक्सिद्धे स्तः । यद्यपृथक्सिद्धयोरपि योगः स्यादाकाशकुसुमस्य प्रकृतपु- रुषस्य द्वितीयशिरसश्च योगः स्यादिति । अथ पृथक्सिद्धिरभ्युपगम्यते, द्रव्यत्वकल्पना निरर्थिका । गुणसमुदायो द्रव्यमिति चेत् ? तत्रापि गुणानां समुदायस्य च भेदाभावे ०५तद्व्यपदेशो नोपपद्यते । भेदाभ्युपगमे च पूर्वोक्त एव दोषः । ननु गुणान्द्रवन्ति गुणैर्वा द्रूयन्त इति विग्रहेऽपि स एव दोष इति चेत् ? न; कथञ्चिद्भेदाभेदोपपत्तेस्तद्व्यपदेशसिद्धिः । व्यतिरेकेणानुपलब्धेरभेदः संज्ञालक्षणप्रयोजनादिभेदाद् भेद इति । प्रकृता धर्मादयो बहव- स्तत्सामानाधिकरण्याद् बहुत्वनिर्देशः । स्यादेतत्संख्यानुवृत्तिवत्पुल्लिङ्गानुवृत्तिरपि प्राप्नोति ? नैष दोषः; आविष्टलिङ्गाः शब्दा न कदाचिल्लिङ्गं व्यभिचरन्ति । अतो १०धर्मादयो द्रव्याणि भवन्तीति । २६८अनन्तरत्वाच्चतुर्णामेव द्रव्यव्यपदेशप्रसङ्गेऽध्यारोपणार्थमिदमुच्यते — जीवाश्च ॥ ३ ॥ ‘जीव’शब्दो — व्याख्यातार्थः । बहुत्वनिर्देशो व्याख्यातभेदप्रतिपत्त्यर्थः । ‘च’ शब्दः द्रव्यसञ्ज्ञानुकर्षणार्थः जीवाश्च द्रव्याणीति । एवमेतानि वक्ष्यमाणेन कालेन सह षड् ०५द्रव्याणि भवन्ति । ननु द्रव्यस्य लक्षणं वक्ष्यते ‘गुणपर्ययवद् द्रव्यम्’ इति । तल्लक्षणयोगा- द्धर्मादीनां द्रव्यव्यपदेशो भवति, नार्थः परिगणनेन ? परिगणनमवधारणार्थम् । तेनान्यवादिपरिकल्पितानां पृथिव्यादीनां निवृत्तिः कृता भवति । कथम् ? पृथिव्यप्ते- जोवायुमनांसि पुद्गलद्रव्येऽन्तर्भवन्ति; रूपरसगन्धस्पर्शवत्त्वात् । वायुमनसो रूपादियोगा- भाव इति चेत् ? न; वायुस्तावद्रूपादिमान्; स्पर्शवत्त्वाद्धटादिवत् । चक्षुरादिकरण- २६९ग्राह्यत्वाभावाद्रूपाद्यभाव इति चेत् ? न; परमाण्वादिष्वतिप्रसङ्गः स्यात् । आपो गन्ध- वत्यः; स्पर्शवत्त्वात्पृथिवीवत् । तेजोऽपि रसगन्धवद्; रूपवत्त्वात् तद्वदेव । मनोऽपि द्विविधं द्रव्यमनो भावमनश्चेति । तत्र भावमनो ज्ञानम्; तस्य जीवगुणत्वादात्मन्यन्तर्भावः । द्रव्यमनश्च रूपादियोगात्पुद्गलद्रव्यविकारः । रूपादिवन्मनः; ज्ञानोपयोगकरणत्वाच्चक्षु- ०५रिन्द्रियवत् । ननु अमूर्तेऽपि शब्दे ज्ञानोपयोगकरणत्वदर्शनाद् व्यभिचारी हेतुरिति चेत् ? न; तस्य पौद्गलिकत्वान्मूर्तिमत्त्वोपपत्तेः । ननु यथा परमाणूनां रूपादिमत्कार्य- दर्शनाद्रृपादिमत्त्वं न तथा वायुमनसो रूपादिमत्कार्यं दृश्यते इति चेत् ? न्; तेषामपि तदुपपत्तेः । सर्वेषां परमाणूनां सर्वरूपादिमत्कार्यत्वप्राप्तियोग्यत्वाभ्युपगमात् । न च केचित्पार्थिवादिजातिविशेषयुक्ताः परमाणवः सन्ति; जातिसंकरेणारम्भदर्शनात् । १०दिशोऽप्याकाशेऽन्तर्भावः; आदित्योदयाद्यपेक्षया आकाशप्रदेशपङ्क्तिषु इत इदमिति व्यवहारोपपत्तेः । २७०उक्तानां द्रव्याणां विशेषप्रतिपत्त्यर्थमाह — नित्यावस्थितान्यरूपाणि ॥ ४ ॥ नित्यं ध्रुवमित्यर्थः । ‘नेर्ध्रुवे त्यः’ इति निष्पादितत्वात् । धर्मादीनि द्रव्याणि गतिहेतुत्वादिविशेषलक्षणद्रव्यार्थादेशादस्तित्वादिसामान्यलक्षणद्रव्यार्थादेशाच्च कदाचि- ०५दपि न व्ययन्तीति नित्यानि । वक्ष्यते हि ‘तद्भावाव्ययं नित्यम्’ इति । इयत्ताऽव्यभि- २७१चारादवस्थितानि । धर्मादीनि षडपि द्रव्याणि कदाचिदपि षडिति इयत्त्वं नातिवर्तन्ते । ततोऽवस्थितानीत्युच्यन्ते । न विद्यते रूपमेषामित्यरूपाणि, रूपप्रतिषेधे तत्सहचारिणां रसादीनामपि प्रतिषेधः । तेन अरूपाण्यमूर्तानीत्यर्थः । यथा सर्वेषां द्रव्याणां ‘नित्यावस्थितानि’ इत्येतत्साधारणं लक्षणं प्राप्तं तथा पुद्गला- ०५नामपि अरूपित्वं प्राप्तम् । अतस्तदपवादार्थमाह — रूपिणः पुद्गलाः ॥ ५ ॥ रूपं मूर्तिरित्यर्थः । का मूर्तिः ? रूपादिसंस्थानपरिणामो मूर्तिः । रूपमेषामस्तीति रूपिणः । मूर्तिमन्त इत्यर्थः । अथवा रूपमिति गुणविशेषवचनशब्दः । तदेषामस्तीति रूपिणः । रसाद्यग्रहणमिति चेत् ? न; तदविनाभावात्तदन्तर्भावः । ‘पुद्गलाः’ इति बहुवचनं १०भेदप्रतिपादनार्थम् । भिन्ना हि पुद्गलाः; स्कन्धपरमाणुभेदात् । तद्विकल्प उपरिष्टाद्वक्ष्यते । यदि प्रधानवदरूपत्वमेकत्वं चेष्टं स्यात्, विश्वरूपकार्यदर्शनविरोधः स्यात् । आह, किं पुद्गलवद्धर्मादीन्यपि द्रव्याणि प्रत्येकं भिन्नानीत्यत्रोच्यते — २७२ā आकाशादेकद्रव्याणि ॥ ६ ॥ ‘आङ्’ अयमभिविध्यर्थः । सौत्रीमानुपूर्वीमासृत्यैतदुक्तम् । तैन धर्माऽधर्माकाशानि गृह्यन्ते । ‘एक’ शब्दः संख्यावचनः । तेन द्रव्यं विशिष्यते, एकं द्रव्यं एकद्रव्यमिति । यद्येवं बहुवचनमयुक्तम्, धर्माद्यपेक्षया बहुत्वसिद्धिर्भवति । ननु एकस्यानेकार्थप्रत्यायनशक्तियो- ०५गादेकैकमित्यस्तु; लघुत्वाद् । ‘द्रव्य’ ग्रहणमनर्थकम् ? तथापि द्रव्यापेक्षया एक- त्वख्यापनार्थं द्रव्यग्रहणम् । क्षेत्रभावाद्यपेक्षया असंख्येयत्वानन्तत्वविकल्पस्येष्टत्वान्न जीवपुद्गलवदेषां बहुत्वमित्येतदनेन ख्याप्यते । अधिकृतानामेव एकद्रव्याणां विशेषप्रतिपत्त्यर्थमिदमुच्यते — निष्क्रियाणि च ॥ ७ ॥ १०उभयनिमित्तवशादुत्पद्यमानः पर्यायो द्रव्यस्य देशान्तरप्राप्तिहेतुः क्रिया । तस्या २७३निष्क्रान्तानि निष्क्रियाणि । अत्र चोद्यते — धर्मादीनि द्रव्याणि यदि निष्क्रियाणि ततस्तेषामुत्पादो न भवेत् । क्रियापूर्वको हि घटादीनामुत्पादो दृष्टः । उत्पादाभावाच्च व्ययाभाव इति । अतः सर्वद्रव्याणामुत्पादादित्रतयकल्पनाव्याघात इति ? तन्न; किं कारणम् ? अन्यथोपपत्तेः । क्रियानिमित्तोत्पादाभावेऽप्येषां धर्मादीनामन्यथोत्पादः ०५कल्प्यते । तद्यथा — द्विविध उत्पादः स्वनिमित्तः परप्रत्ययश्च । स्वनिमित्तस्तावदनन्ता- नामगुरुलघुगुणानामागमप्रामाण्यादभ्युपगम्यमानानां षट्स्थानपतितया वृद्ध्या हान्या च प्रवर्तमानानां स्वभावादेतेषामुत्पादो व्ययश्च । परप्रयत्योऽपि अश्वादिगतिस्थित्यवगाहन- हेतुत्वात्क्षणे क्षणे तेषां भेदात्तद्धेतुत्वमपि भिन्नमिति परप्रत्ययापेक्ष उत्पादो विनाशश्च व्यवह्रियते । ननु यदि निष्क्रियाणि धर्मादीनि, जीवपुद्गलानां गत्यादिहेतुत्वं नोपपद्यते । १०जलादीनि हि क्रियावन्ति मत्स्यादीनां गत्यादिनिमित्तानि दृष्टानीति ? नैष दोषः; बलाधाननिमित्तत्वाच्चक्षुर्वत् । यथा रूपोपलब्धौ चक्षुर्निमित्तमिति न व्याक्षिप्तमनस्क- स्यापि भवति । अधिकृतानां धर्माधर्माकाशानां निष्क्रियत्वेऽभ्युपगते जीवपुद्गलानां सक्रि- २७४यत्वमर्थादापन्नम् । कालस्यापि सक्रियत्वमिति चेत् ? न; अनधिकारात् । अत एवा- सावेतैः सह नाधिक्रियते । अजीवकाया इत्यत्र कायग्रहणेन प्रदेशास्तित्वमात्रं निर्ज्ञातं न त्वियत्तावधारिता प्रदे- शानामतस्तन्निर्धारणार्थमिदमुच्यते — ०५असंख्येयाः प्रदेशा धर्माधमै कजीवानाम् ॥ ८ ॥ संख्यामतीता असंख्येयाः । असंख्येयस्त्रिविधः — जघन्य उत्कृष्टोऽजघन्योत्कृष्टश्चेति । तत्रेहाजघन्योत्कृष्टासंख्येयः परिगृह्यते । प्रदिश्यन्त इति प्रदेशाः । वक्ष्यमाणलक्षणः परमाणुः स यावति क्षेत्रे व्यवतिष्ठते स प्रदेश इति व्यवह्रियते । धर्माधर्मैकजीवास्तुल्या- संख्येयप्रदेशाः । तत्र धर्माधर्मौ निष्क्रियौ लोकाकाशं व्याप्य स्थितौ । जीवस्तावत्प्रदेशोऽपि १०सन् संहरणविसर्पणस्वभावत्वात्कर्मनिर्वर्तितं शरीरमणु महद्वाऽधितिष्ठंस्तावदवगाह्य वर्ते । यदा तु लोकपूरणं भवति तदा मन्दरस्याधश्चित्रवज्रपटलमध्ये जीवस्याष्टौ मध्य- प्रदेशा व्यवतिष्ठन्ते । इतरे प्रदेशा ऊर्ध्वमधस्तिर्यक् च कृत्स्नं लोकाकाशं व्यश्नुवते । २७५अथाकाशस्य कति प्रदेशा इत्यत आह — आकाशस्यानन्ताः ॥ ९ ॥ अविद्यमानोऽन्तो येषां ते अनन्ताः । के ? प्रदेशाः । कस्य ? आकाशस्य । पूर्वव- दस्यापि प्रदेशकल्पनाऽवसेया । ०५उक्तममूर्तानां प्रदेशपरिमाणम् । इदानीं मूर्तानां पुद्गलानां प्रदेशपरिमाणं निर्ज्ञातव्यमित्यत आह — संख्येयाऽसंख्येयाश्च पुद्गलानाम् ॥ १० ॥ ‘च’शब्दादनन्ताश्चेत्यनुकृष्यते । कस्यचित्पुद्गलद्रव्यस्य द्व्यणुकादेः संख्येयाः प्रदेशाः कस्यचिदसंख्येया अनन्ताश्च । अनन्तानन्तोपसंख्यानमिति चेत् ? न; अनन्तसामान्यात् । १०अनन्तप्रमाणं त्रिविधमुक्तं परीतानन्तं युक्तानन्तमनन्तानन्तं चेति । तत्सर्वमनन्तसामा- न्येन गृह्यते । स्यादेतदसंख्यातप्रदेशो लोकः अनन्तप्रदेशस्यानन्तानन्तप्रदेशस्य च २७६स्कन्धस्याधिकरणमिति विरोधस्ततो नानन्त्यमिति ? नैष दोषः; सूक्ष्मपरिणामावगाहन- शक्तियोगात् । परमाण्वादयो हिसूक्ष्मभावेन परिणता एकैकस्मिन्नप्याकाशप्रदेशेऽनन्तानन्ता अवतिष्ठन्ते, अवगाहनशक्तिश्चैषामव्याहताऽस्ति । तस्मादेकस्मिन्नपि प्रदेशे अनन्ता- नन्तानामवस्थानं न विरुध्यते । ०५‘पुद्गलानाम्’इत्यविशेषवचनात्परमाणोरपि प्रदेशवत्त्वप्रसङ्गे तत्प्रतिषेधार्थमाह — नाणोः ॥ ११ ॥ अणोः ‘प्रदेशा न सन्ति’ इति वाक्यशेषः । कुतो न सन्तीति चेत् ? प्रदेशमात्रत्वात् । यथा आकाशप्रदेशस्यैकस्य प्रदेशभेदाभावादप्रदेशत्वमेवमणोरपि प्रदेशमात्रत्वात्प्रदेशभे- दाभावः । किं च ततोऽल्पपरिमाणाभावात् । न ह्यणोरल्पीयानन्योऽस्ति, यतोऽस्य १०प्रदेशा भिद्येरन् । एषामवधृतप्रदेशानां धर्मादीनामाधारप्रतिपत्त्यर्थमिदमुच्यते — लोकाकाशेऽवगाहः ॥ १२ ॥ २७७उक्तानां धर्मादीनां द्रव्याणां लोकाकाशेऽवगाहो न बहिरित्यर्थः । यदि धर्मादीनां लोकाकाशमाधारः, आकाशस्य क आधार इति ? आकाशस्य नास्त्यन्य आधारः । स्वप्रतिष्ठमाकाशम् । यद्याकाशं स्वप्रतिष्ठम्; धर्मादीन्यपि स्वप्रतिष्ठान्येव । अथ धर्मा- दीनामन्य आधारः कल्प्यते, आकाशस्याप्यन्य आधारः कल्प्यः । तथा सत्यनवस्थाप्रसङ्ग ०५इति चेत् ? नैष दोषः; नाकाशादन्यदधिकपरिमाणं द्रव्यमस्ति यत्राकाशं स्थितमि- त्युच्येत । सर्वतोऽनन्तं हितत् । धर्मादीनां पुनरधिकरणमाकाशमित्युच्यते व्यवहारनय- वशात् । एवम्भूतनयापेक्षया तु सर्वाणि द्रव्याणि स्वप्रतिष्ठान्येव । तथा चोक्तम्, ’क्व भवानास्ते ? आत्मनि’ इति । धर्मादीनि लोकाकाशान्न बहिः सन्तीत्येतावदत्राधाराधेयक- ल्पनासाध्यं फलम् । ननु च लोके पूर्वोत्तरकालभाविनामाधाराधेयभावो दृष्टो यथा १०कुण्डे बदरादीनाम् । न तथाऽऽकाशं पूर्वं धर्मादीन्युत्तरकालभावीनि; अतो व्यवहार- नयापेक्षयाऽपि आधाराधेयकल्पनानुपपत्तिरिति ? नैष दोषः; युगपद्भाविनामपि आधाराधेयभावो दृश्यते । घटे रूपादयः शरीरे हस्तादय इति । २७८लोक इत्युच्यते । को लोकः ? धर्माधर्मादीनि द्रव्याणि यत्र लोक्यन्ते स लोक इति । aधिकरणसाधनो घञ् । आकाशं द्विधा विभक्तं लोकाकाशमलोकाकाशं चेति । लोक उक्तः । स यत्र तल्लोकाकाशम् । ततो बहिः सर्वतोऽनन्तमलोकाकाशम् । लोकालोक- विभागश्च धर्माधर्मास्तिकायसद्भावासद्भावाद्विज्ञेयः । असति हि तस्मिन्धर्मास्तिकाये ०५जीवपुद्गलानां गतिनियमहेत्वभावाद्विभागो न स्यात् । असति चाधर्मास्तिकाये स्थितेरा- श्रयनिमित्ताभावात् स्थितेरभावो लोकालोकविभागाभावो वा स्यात् । तस्मादुभयसद्- भावासद्भावाल्लोकालोकविभागसिद्धिः । तत्रावध्रियमाणानामवस्थानभेदसम्भवाद्विशेषप्रतिपत्त्यर्थमाह — धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ १०कृत्स्नवचनमशेषव्याप्तिप्रदर्शनार्थम् । अगारेऽस्थितो घट इति यथा तथा धर्माधर्म- योर्लोकाकाशेऽवगाहो न भवति । किं तर्हि ? कृत्स्ने तिलेषु तैलवदिति । अन्योन्यप्रदेशप्र- वेशव्याघाताभावः अवगाहनशक्तियोगाद्वेदितव्यः । २७९अतो विपरीतानां मूर्तिमतामप्रदेशसंख्येयासंख्येयानन्तप्रदेशानां पुद्गलानामवगाहवि- शेषप्रतिपत्त्यर्थमाह — एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ eकः प्रदेश एकप्रदेशः । एकप्रदेश आदिर्येषां त इमे एकप्रदेशादयः । तेषु पुद्ग- ०५लानामवगाहो भाज्यो विकल्प्यः । ’अवयवेन विग्रहः समुदायः समासाथः’ इति एक- प्रदेशोऽपि गृह्यते । तद्यथा — एकस्मिन्नाकाशप्रदेशे परमाणोरवगाहः । द्वयोरेकत्रोभयत्र च बद्धयोरबद्धयोश्च । त्रयाणामप्येकत्र द्वयोस्त्रिषु च बद्धानामबद्धानां च । एवं संख्ये- यासंख्येयानन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेषु लोकाकाशेऽवस्थानं प्रत्येत- व्यम् । ननु युक्तं तावदमूर्त्तयोर्धर्माधर्मयोरेकत्राविरोधेनावरोध इति । मूर्तिमतां १०पुद्गलानां कथम् ? इत्यत्रोच्यते — अवगाहनस्वभावत्वात्सूक्ष्मपरिणामाच्च मूर्तिमतामप्यव- गाहो न विरुध्यते एकापवरके अनेकदीपप्रकाशावस्थानवत् । आगमप्रामाण्याच्च तथाऽध्य- वसेयम् । तदुक्तम् — २८०’ओगाढगाढणिचिओ पुग्गलकाएहि सव्वदो लोगो । सुहुमेहिं बादरेहिं अणंताणंतेहिं विवहेहिं ॥ ’ अथ जीवानां कथमवगाहनमित्यत्रोच्यते — असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ ०५‘लोकाकाशे’ इत्यनुवर्तते । तस्यासंख्येयभागीकृतस्यैको भागोऽसंख्येयभाग इत्युच्यते । स आदिर्येषां तेष्संख्येयभागादयः । तेषु जीवानामवगाहो वेदितव्यः । तद्यथा — एक- स्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते । एवं द्वित्रिचतुरादिष्वपि असंख्येयभागेषु आ सर्वलोकादवगाहः प्रत्येतव्यः । नानाजीवानां तु सर्वलोक एव । यद्येकस्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते, कथं द्रव्यप्रमाणेनानन्तानन्तो जीवराशिः सशरीरोऽवतिष्ठते १०लोकाकाशे ? सूक्ष्मबादरभेदादवस्थानं प्रत्येतव्यम् । बादरास्तावत्सप्रतिघातशरीराः । सूक्ष्मास्तु सशरीरा अपि सूक्ष्मभावादेवैकनिगोदजीवावगा ह्येऽपि प्रदेशे साधारणश- रीरा अनन्तानन्ता वसन्ति । न ते परस्परेण बादरैश्च व्याहन्यन्त इति नास्त्यवगाहविरोधः । अत्राह लोकाकाशतुल्यप्रदेश एकजीव इत्युक्तम्, तस्य कथं लोकस्यासंख्येयभागादिषु वृत्तिः ? ननु सर्वलोकव्याप्त्यैव भवितव्यमित्यत्रोच्यते — २८१प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ अमूर्तस्वभावस्यात्मनोऽनादिबन्धं प्रत्येकत्वात् कथञ्चिन्मूर्ततां बिभ्रतः कार्मणशरी- रवशान्महदणु च शरीरमधितिष्ठतस्तद्वशात्प्रदेशसंहरणविसर्पणस्वभावस्य तावत्प्रमाण- तायां सत्यामसंख्येयभागादिषु वृत्तिरुपपद्यते, प्रदीपवत् । यथा निरावरणव्योमप्रदेशेऽनव ०५धृतप्रकाशपरिमाणस्य प्रदीपस्य शरावमणिकापवरकाद्यावरणवशात्तत्परिमाणतेति । अत्राह धर्मादीनामन्योन्यप्रदेशानुप्रवेशात्संकरे सति, एकत्वं प्राप्नोतीति ? तन्न; पर- स्परमत्यन्तसंश्लेषे सत्यपि स्वभावं न जहति । उक्तं च — ’अण्णोण्णं पविसंता दिंता ओगासमण्णमण्णस्स । मेलंता वि य णिच्चं सगसब्भावं ण जहंति । ’ १०यद्येवं धर्मादीनां स्वभावभेद उच्यतामित्यत आह — गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥ १७ ॥ देशान्तरप्राप्तिहेतुर्गतिः । तद्विपरीता स्थितिः । उपगृह्यत इत्युपग्रहः । गतिश्च २८२स्थितिश्च गतिस्थिती । गतिस्थिती एव उपग्रहौ गतिस्थित्युपग्रहौ । धर्माधर्मयोरिति कर्तृनिर्देशः । उपक्रियत इत्युपकारः । कः पुनरसौ ? गत्युपग्रहः स्थित्युपग्रहश्च । यद्येवं द्वित्वनिर्देशः प्राप्नोति ? नैष दोषः; सामान्येन व्युत्पादितः शब्द उपात्तसंख्यः शब्दान्त- रसम्बन्धे सत्यपि न पूर्वोपात्तां संख्यां जहाति । यथा — ’साधोः कार्यं तपःश्रुते’ इति । ०५एतदुक्तं भवति — गतिपरिणामिनां जीवपुद्गलानां गत्युपग्रहे कर्तव्ये धर्मास्तिकायः साधारणाश्रयो जलवन्मत्स्यगमने । तथा स्थितिपरिणामिनां जीवपुद्गलानां स्थित्युप- ग्रहे कर्तव्ये अधर्मास्तिकायः साधारणाश्रयः पृथिवीधातुरिवाश्वादिस्थिताविति । ननु च ‘उपग्रह’ वचनमनर्थकम् ‘उपकारः’ इत्येवं सिद्धत्वात् । ‘गतिस्थिती धर्मा- धर्मयोरुपकारः’ इति ? नैष दोषः; याथासंख्यनिवृत्त्यर्थम् ‘उपग्रह’ वचनम् । धर्माधर्मयोर्ग- १०तिस्थित्योश्च यथासंख्यं भवति, एवं जीवपुद्गलानां यथासंख्यं प्राप्नोति धर्मस्योपकारो जीवानां गतिः अधर्मस्योपकारः पुद्गलानां स्थितिरिति । तन्निवृत्त्यर्थमुपग्रहवचनं क्रियते । २८३आह धर्माधर्मयोर्य उपकारः स आकाशस्य युक्तः; सर्वगतत्वादिति चेत् ? तदयुक्तम्; तस्यान्योपकारसद्भावात् । सर्वेषां धर्मादीनां द्रव्याणामवगाहनं तत्प्रयोजनम् । एक- स्यानेकप्रयोजनकल्पनायां लोकालोकविभागाभावः । भूमिजलादीन्येव तत्प्रयोजनसम- र्थानि नार्थो धर्माधर्माभ्यामिति चेत् ? न; साधारणाश्रय इति विशिष्योक्तत्वात् । अनेकका- ०५रणसाध्यत्वाच्चैकस्य कार्यस्य । तुल्यबलत्वात्तयोर्गतिस्थितिप्रतिबन्ध इति चेत् ? न; अप्रेरकत्वात् । अनुपलब्धेर्न तौ स्तः खरविषाणवदिति चेत् ? न; सर्व प्रवाद्यविप्रतिपत्तेः । सर्वे हि प्रवादिनः प्रत्यक्षा- प्रत्यक्षानर्थानभिवाञ्छन्ति । अस्मान्प्रति हेतोरसिद्धेश्च । सर्वज्ञेन निरतिशयप्रत्यक्षज्ञान- चक्षुषा धर्मादयः सर्वे उपलभ्यन्ते । तदुपदेशाच्च श्रुतज्ञानिभिरपि । १०अत्राह, यद्यतीन्द्रिययोर्धर्माधर्मयोरुपकारसम्बन्धेनास्तित्वमवध्रियते, तदनन्तरमु- द्दिष्टस्य नभसोऽतीन्द्रियस्याधिगमे क उपकार इत्युच्यते — २८४आकाशस्यावगाहः ॥ १८ ॥ ‘उपकारः’ इत्यनुवर्तते । जीवपुद्गलादीनामवगाहिनामवकाशदानमवगाह आकाशस्योपकारो वेदितव्यः । आह, जीवपुद्गलानां क्रियावतामवगाहिनामवकाशदानं युक्तम् । धर्मास्तिकायादयः पुनर्निष्क्रिया नित्यसम्बन्धास्तेषां कथमवगाह इति चेत् ? ०५न; उपचारतस्तत्सिद्धेः । यथा गमनाभावेऽपि ‘सर्वगतमाकाशम्’ इत्युच्यते; सर्वत्र सद्भावात्, एवं धर्माधर्मावपि अवगाहक्रियाभावेऽपि सर्वत्र व्याप्तिदर्शनादवगाहिनावित्यु- पचर्येते । आह यद्यवकाशदानमस्य स्वभावो वज्रादिभिर्लोष्टादीनां भित्त्यादिभिर्गवादीनां च व्याघातो न प्राप्नोति । दृश्यते च व्याघातः । तस्मादस्यावकाशदानं हीयते इति ? नैष दोषः; वज्रलोष्टादीनां स्थूलानां परस्परव्याघात इति नास्यावकाशदानसामर्थ्यं १०हीयते; तत्रावगाहिनामेव व्याघातात् । वज्रादयः पुनः स्थूलत्वात्परस्परं प्रत्यवका- शदानं न कुर्वन्तीति नासावाकाशदोषः । ये खलु पुद्गलाः सूक्ष्मास्ते परस्परं २८५प्रत्यवकाशदानं कुर्वन्ति । यद्येवं नेदमाकाशस्यासाधरणं लक्षणम्; इतरेषामपि तत्सद्भावादिति ? तन्न; सर्वपदार्थानां साधारणावगाहनहेतुत्वमस्यासाधारणं लक्षणमिति नास्ति दोषः । अलोकाकाशे तद्भावादभाव इति चेत्; न; स्वभावापरित्यागात् । उक्त आकाशस्योपकारः । अथ तदनन्तरोद्दिष्टानां पुद्गलानां क उपकार इत्यत्रोच्यते — ०५शरीरवाङ्मनः प्राणापानाः पुद्गलानाम् ॥ १९ ॥ इदमयुक्तं वर्तते । किमत्रायुक्तम् ? पुद्गलानां क उपकार इति परिप्रश्ने पुद्गलानां लक्षणमुच्यते; शरीरादीनि पुद्गलमयानीति ? नैतदयुक्तम्; पुद्गलानां लक्षणमुत्तरत्र वक्ष्यते । इदं तु जीवान् प्रति पुद्गलानामुपकारप्रतिपादनार्थमेवेति उपकारप्रकरणे उच्यते । १०शरीराण्युक्तानि । औदारिकादीनि सौक्ष्म्यादप्रत्यक्षाणि । तदुदयापादितवृत्तीन्यु- पचयशरीराणि कानिचित्प्रत्यक्षाणि कानिचिदप्रत्यक्षाणि । एतेषां कारणभूतानि कर्मा- २८६ण्यपि शरीरग्रहणेन गृह्यन्ते । एतानि पौद्गलिकानीति कृत्वा जीवानामुपकारे पुद्- गलाः प्रवर्तन्ते । स्यान्मतं कार्मणमपौद्गलिकम्; अनाकारत्वाद् । आकारवतां हि औ- दारिकादीनां पौद्गलिकत्वं युक्तमिति ? तन्न; तदपि पौद्गलिकमेव; तद्विपाकस्य मूर्तिमत्सम्बन्धनिमित्तत्वात् । दृश्यते हि ब्रीह्यादीनामुदकादिद्रव्यसम्बन्धप्रापितपरि- ०५पाकानां पौद्गलिकत्वम् । तथा कार्मणमपि गुडकण्टकादिमूर्तिमद्द्रव्योपनिपाते सति विपच्यमानत्वात्पौद्गलिकमित्यवसेयम् । वाग् द्विविधा द्रव्यवाग् भाववागिति । तत्र भाववाक् तावद्वीर्यान्तरायमतिश्रुतज्ञा- नावरणक्षयोपशमाङ्गोपाङ्गनामलाभनिमित्तत्वात् पौद्गलिकी । तदभावे तद्वृत्त्यभावात् । तत्सामर्थ्योपेतेन क्रियावताऽऽत्मना प्रेर्यमाणाः पुद्गला वाक्त्वेन विपरिणमन्त इति द्रव्य- १०वागपि पौद्गलिकी; श्रोत्रेन्द्रियविषयत्वात् । इतरेन्द्रियविषया कस्मान्न भवति ? तद्ग्रहणायोग्यत्वात् । ध्राणग्राह्ये गन्धद्रव्ये रसाद्यनुपलब्धिवत् । अमूर्ता वागिति चेत् ? न; मूर्तिमद्ग्रहणावरोधव्याघाताभिभवादिदर्शनान्मूर्तिमत्त्वसिद्धेः । २८७मनो द्विविधं द्रव्यमनो भावमनश्चेति । भावमनस्तावल्लब्ध्युपयोगलक्षणं पुद्ग- लावलम्बनत्वात् पौद्गलिकम् । द्रव्यमनश्च, ज्ञानावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गना- मलाभप्रत्यया गुणदोषविचारस्मरणादिप्रणिधानाभिमुखस्यात्मनोऽनुग्राहकाः पुद्गला मनस्त्वेन परिणता इति पौद्गलिकम् । कश्चिदाह मनो द्रव्यान्तरं रूपादिपरिणामरहित- ०५मणुमात्रं तस्य पौद्गलिकत्वमयुक्तमिति ? तदयुक्तम् । कथम् ? उच्यते — तदिन्द्रियेणात्मना च सम्बद्धं वा स्यादसम्बद्धं वा ? यद्यसम्बद्धम्, तन्नात्मन उपकारकं भवितुमर्हति इन्द्रियस्य च साचिव्यं न करोति । अथ सम्बद्धम्, एकस्मिन् प्रदेशे संबद्धं सत्तदणु इतरेषु प्रदेशेषु उपकारं न कुर्यात् । अदृष्टवशादस्य अलातचक्रवत्परिभ्रमणमिति चेत् ? न; तत्सा- मर्थ्याभावात् । अमूर्तस्यात्मनो निष्क्रियस्यादृष्टो गुणः, स निष्क्रियः सन्नन्यत्र १०क्रियारम्भे न समर्थः । दृष्टो हि वायुद्रव्यविशेषः क्रियावान्स्पर्शवान्प्राप्तवनस्पतौ परिस्पन्दहेतुस्तद्विपरीतलक्षणश्चायमिति क्रियाहेतुत्वाभावः । २८८वीर्यान्तरायज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामोदयापेक्षिणाऽऽत्मना उदस्यमानः कोष्ठ्यो वायुरुच्छ्वासलक्षणः प्राण इत्युच्यते । तेनैवात्मना बाह्यो वायुरभ्यन्तरीक्रि- यमाणो निःश्वासलक्षणोऽपान इत्याख्याते । एवं तावप्यात्मानुग्राहिणौ; जीवितहेतुत्वात् । ०५तेषां मनःप्राणापानानां मूर्तिमत्त्वमबसेयम् । कुतः ? मूर्तिमद्भिः प्रतिघातादिदर्श- नात् । प्रतिभयहेतुभिरशनिपातादिभिर्मनसः प्रतिघातो दृश्यते । सुरादिभिश्चाभिभवः । हस्ततलपटादिभिरास्यसंवरणात्प्राणापानयोः प्रतिघात उपलभ्यते । श्लेष्मणा चाभिभवः । न चामूर्तस्य मूर्तिमद्भिरभिघातादयः स्युः । अत एवात्मास्तित्वसिद्धिः । यथा यन्त्रप्रतिमा- चेष्टितं प्रयोक्तुरस्तित्वं गमयति तथा प्राणापानादिकर्मापि क्रियावन्तमात्मानं साधयति । १०किमेतावानेव पुद्गलकृत उपकार आहोस्विदन्योऽप्यस्तीत्यत आह — सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ सदसद्वेद्योदयेऽन्तरङ्गहेतौ सति बाह्यद्रव्यादिपरिपाकनिमित्तवशादुत्पद्यमानः प्रीति- परितापरूपः परिणामः सुखदुःखमित्याख्यायते । भवधारणकारणायुराख्यकर्मोदयाद् भव- २८९स्थितिमादधानस्य जीवस्य पूर्वोक्तप्राणापानक्रियाविशेषाव्युच्छेदो जीवितमित्युच्यते । तदुच्छेदो मरणम् । एतानि सुखादीनि जीवस्य पुद्गलकृत उपकारः; मूर्तिमद्धेतुसन्निधाने सति तदुत्पत्तेः । उपकाराधिकारात्‘उपग्रह’वचनमनर्थकम् ? नानर्थकम् । स्वोपग्रह- प्रदर्शनार्थमिदम् । पुद्गलानां पुद्गलकृत उपकार इति । तद्यथा — कांस्यादीनां भस्मादि- ०५भिर्जलादीनां कतकादिभिरयःप्रभृतीनामुदकादिभिरुपकारः क्रियते । ‘च’शब्दः किमर्थः ? समुच्चयार्थः । अन्योऽपि पुद्गलकृत उपकारोऽस्तीति समुच्चीयते । यथा शरीराणि एवं चक्षुरादीनीन्द्रियाण्यपीति । एवमाद्यमजीवकृतमुपकारं प्रदर्श्य जीवकृतोपकारप्रदर्शनार्थमाह — परस्परोपग्रहो जीवानाम् ॥ २१ ॥ १०‘परस्पर’शब्दः कर्मव्यतिहारे वर्तते । कर्मव्यतिहारश्च क्रियाव्यतिहारः । परस्पर- स्योपग्रहः परस्परोपग्रहः । जीवानामुपकारः । कः पुनरसौ ? स्वामी भृत्यः, आचार्यः २९०शिष्यः, इत्येवमादिभावेन वृत्तिः परस्परोपग्रहः । स्वामी तावद्वित्तत्यागादिना भृत्यानामुप- कारे वर्तते । भृत्याश्च हितप्रतिपादनेनाहितप्रतिषेधेन च । आचार्य उभयलोकफलप्रदो- पदेशदर्शनेन तदुपदेशविहितक्रियानुष्ठापनेन च शिष्याणामनुग्रहे वर्तते । शिष्या अपि तदानुकूल्यवृत्त्या आचार्याणाम् । उपकाराधिकारे पुनः‘उपग्रह’वचनं किमर्थम् ? पूर्वोक्त- ०५सुखादिचतुष्टयप्रदर्शनार्थं पुनः‘उपग्रह’ वचनं क्रियते । सुखादीन्यपि जीवानां जीवकृत उपकार इति । २९१आह, यद्यवश्यं सतोपकारिणा भवितव्यम्; संश्च कालोऽभिमतस्तस्य क उपकार इत्यत्रोच्यते — वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥ २२ ॥ वृतेर्णिजन्तात्कर्मणि भावे वा युटि स्त्रीलिङ्गे वर्तनेति भवति । वर्त्यते वर्तनमात्रं ०५वा वर्तना इति । धर्मादीनां द्रव्याणां स्वपर्यायनिर्वृत्तिं प्रति स्वात्मनैव वर्तमानानां बाह्यो- पग्रहाद्विना तद्वृत्त्यभावात्तत्प्रवर्तनोपलक्षितः काल इति कृत्वा वर्तना कालस्योपकारः । को णिजर्थः ? वर्तते द्रव्यपर्यायस्तस्य वर्तयिता कालः । यद्येवं कालस्य क्रियावत्त्वं प्राप्नोति । यथा शिष्योऽधीते, उपाध्यायोऽध्यांपयतीति ? नैष दोषः; निमित्तमात्रेऽपि हेतुकर्तृव्यप- २९२देशो दृष्टः । यथा ’कारीषोऽग्निरध्यापयति । ’ एवं कालस्य हेतुकर्तृता । स कथं काल इत्यवसीयते ? समयादीनां क्रियाविशेषाणां समयादिभिर्निर्वर्त्यमानानां च पाकादीनां समयः पाक इत्येवमादिस्वसंज्ञारूढिसद्भावेऽपि समयः कालः ओदनपाकः काल इति अध्यारोप्यमाणः कालव्यपदेश तद्व्यपदेशनिमित्तस्य कालस्यास्तित्वं गमयति । कुतः ? ०५गौणस्य मुख्यापेक्षत्वात् । द्रव्यस्य पर्यायो धर्मान्तरनिवृत्तिधर्मान्तरोपजननरूपः अपरिस्पन्दात्मकः परिणामः । जीवस्य क्रोधादिः, पुद्गलस्य वर्णादिः । धर्माधर्माकाशानामगुरुलघुगुणवृद्धिहानिकृतः । क्रिया परिस्पन्दात्मिका । सा द्विविधा; प्रायोगिकवैस्रसिकभेदात् । तत्र प्रायोगिकी शकटादीनाम्, वैस्रसिकी मेघादीनाम् । १०परत्वापरत्वे क्षेत्रकृते कालकृते च स्तः । तत्र कालोपकारप्रकरणात्कालकृते गृह्येते । त एते वर्तनादय उपकाराः कालस्यास्तित्वं गमयन्ति । ननु ‘वर्तना’ग्रहणमेवास्तु, २९३तद्भेदाः परिणामादयस्तेषां पृथग्ग्रहणमनर्थकम् ? नानर्थकम्; कालद्वयसूचनार्थत्वात्प्र- पञ्चस्य । कालो हि द्विविधः परमार्थकालो व्यवहारकालश्च । परमार्थकालो वर्तना- लक्षणः । परिणामादिलक्षणो व्यवहारकालः । अन्येन परिच्छिन्नः अन्यस्य परिच्छेदहेतुः क्रियाविशेषः काल इति व्यवह्रियते । स त्रिधा व्यवतिष्ठते भूतो वर्तमानो भविष्यन्निति । ०५तत्र परमार्थकाले कालव्यपदेशो मुख्यः । भूतादिव्यपदेशो गौणः । व्यवहारकाले भूतादि- व्यपदेशो मुख्यः । कालव्यपदेशो गौणः; क्रियावद्द्रव्यापेक्षत्वात्कालकृतत्वाच्च । अत्राह, धर्माधर्माकाशपुद्गलजीवकालानामुपकारा उक्ताः । लक्षणं चोक्तम् ‘उप- योगो लक्षणम्’इत्येवमादि । पुद्गलानां तु सामान्यलक्षणमुक्तम्‘अजीवकायाः’ इति । विशेषलक्षणं नोक्तम् । तक्तिमित्यत्रोच्यते — १०स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ स्पृश्यते स्पर्शनमात्रं वा स्पर्शः । सोऽष्टविधः; मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्ष- भेदात् । रस्यते रसनमात्रं वा रसः । स पञ्चविधः; तिक्ताम्लकटुकमधुरकषायभेदात् । २९४गन्ध्यते गन्धनमात्रं वा गन्धः । स द्वेधा; सुरभिरसुरभिरिति । वर्ण्यते वर्णनमात्रं वा वर्णः । स पञ्चविधः; कृष्णनीलपीतशुक्ललोहितभेदात् । त एते मूलभेदाः प्रत्येकं संख्येया- संख्येयानन्तभेदाश्च भवन्ति । स्पर्शश्च रसश्च गन्धश्च वर्णश्च गन्धश्च वर्णश्च स्पर्शरसगन्धवर्णास्त एतेषां सन्तीति स्पर्शरसगन्धवर्णवन्त इति । नित्ययोगे मतुनिर्देशः । यथा क्षीरिणो न्यग्रोधा ०५इति । ननु च रूपिणः पुद्गला इत्यत्र पुद्गलानां रूपवत्त्वमुक्तं तदविनाभाविनश्च रसाद- यस्तत्रैव परिगृहीता इति व्याख्यातं तस्मात्तेनैव पुद्गलानां रूपादिमत्त्वसिद्धेः सूत्रमिदमनर्थ- कमिति ? नैष दोषः; ‘नित्यावस्थितान्यरूपाणि’इत्यत्र धर्मादीनां नित्यत्वादिनिरूपणेन पुद्गलानामरूपित्वप्रसङ्गे तदपाकरणार्थं तदुक्तम् । इदं तु तेषां स्वरूपविशेषप्रतिपत्त्य- र्थमुच्यते । १०अवशिष्टपुद्गलविकारप्रतिपत्त्यर्थमिदमुच्यते — शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपोद्योतवन्तश्च ॥ २४ ॥ शब्दो द्विविधो भाषालक्षणो विपरीतश्चेति । भाषांलक्षणो द्विविधः साक्षरोऽनक्षर- २९५श्चेति । अक्षरीकृतः शास्त्राभिव्यञ्जकः संस्कृतविपरीतभेदादार्यम्लेच्छव्यवहारहेतुः । अनक्षरात्मको द्वीन्द्रियादीनामतिशयज्ञानस्वरूपप्रतिपादनहेतुः । स एष सर्वः प्रायोगिकः । अभाषात्मको द्विविधः प्रायोगिको वैस्रसिकश्चेति । वैस्रसिको वलाहकादिप्रभवः । प्रायो- गिकश्चतुर्धा, ततविततघनसौषिरभेदात् । तत्र चर्मतनननिमित्तः पुष्करभेरीदर्दुरादिप्रभव ०५स्ततः । तन्त्रीकृतवीणासुघोषादिसमुद्भवो विततः । तालघण्टालालनाद्यभिघातजो घनः । वंशशङ्खादिनिमित्तः सौषिरः । बन्धो द्विविधो वैस्रसिकः प्रायोगिकश्च । पुरुषप्रयोगानपेक्षो वैस्रसिकः । तद्यथा — स्निग्धरूक्षत्वगुणनिमित्तो विद्युदुल्काजलधाराग्नीन्द्रधनुरादिविषयः । पुरुषप्रयोगनिमित्तः प्रायोगिकः अजीवविषयो जीवाजीवविषयश्चेति द्विधा भिन्नः । तत्राजीवविषयो जतुकाष्ठा- १०दिलक्षणः । जीवाजीवविषयः कर्मनोकर्मबन्धः । सौक्ष्म्यं द्विविधं, अन्त्यमापेक्षिकं च । तत्रान्त्यं परमाणूनाम् । आपेक्षिकं विल्वामल- कबदरादीनाम् । स्थौल्यमपि द्विविधमन्त्यमापेक्षिकं चेति । तत्रान्त्यं जगद्व्यापिनि महास्कन्धे । आपेक्षिकं बदरामलकविल्वतालादिषु । २९६संस्थानमाकृतिः । तद् द्विविधमित्थंलक्षणमनित्थंलक्षणं चेति । वृत्तत्र्यस्रचतुरस्रायत- परिमण्डलादीनामित्थंलक्षणम् । अतोऽन्यन्मेघादीनां संस्थानमनेकविधमित्थमिदमिति निरूपणाभावादनित्थंलक्षणम् । भेदाः षोढा; उत्करचूर्णखण्डचूर्णिकाप्रतराणुचटनविकल्पात् । तत्रोत्करः काष्ठा- ०५दीनां करपत्रादिभिरुत्करणम् । चूर्णो यवगोधूमादीनां सक्तुकणिकादिः । खण्डो घटादीनां कपालशर्करादिः । चूर्णिका माषमुद्गादीनाम् । प्रतरोऽभ्रपटलादीनाम् । अणुचटनं सन्तप्तायःपिण्डादिषु अयोघनादिभिरभिहन्यमानेषु स्फुलिङ्गनिर्गमः । तमो दृष्टिप्रतिबन्धकारणं प्रकाशविरोधि । छाया प्रकाशावरणनिमित्ता । सा द्वेधा, वर्णादिविकारपरिणता प्रतिबिम्बमात्रात्मिका चेति । आतप आदित्यादिनिमित्त उष्ण- १०प्रकाशलक्षणः । उद्योतश्चन्द्रमणिखद्योतादिप्रभवः प्रकाशः । त एते शब्दादयः पुद्गलद्रव्यविकाराः । त एषां सन्तीति शब्दबन्धसौक्ष्म्यस्थौल्यसंस्था- नभेदतमश्छायाऽऽतपोद्योतवन्तः पुद्गला इत्यभिसम्बध्यते । ‘च’ शब्देन नोदनाभिघाता- दयः पुद्गलपरिणामा आगमे प्रसिद्धाः समुच्चीयन्ते । २९७उक्तानां पुद्गलानां भेदप्रदर्शनार्थमाह — अणवः स्कन्धाश्च ॥ २५ ॥ प्रदेशमात्रभाविस्पर्शादिपर्यायप्रसवसामर्थ्येनाण्यन्ते शब्द्यन्त इत्यणवः । सौक्ष्म्यादा- त्मादय आत्ममध्या आत्मान्ताश्च ॥ उक्तं च — ०५’अत्तादि अत्तमज्झं अत्तंतं णेव इंदिये गेज्झं । जं दव्वं अविभागी तं परमाणुं विआणाहि ॥ ’ स्थूलभावेन ग्रहणनिक्षेपणादिव्यापारस्कन्धनात्स्कन्धा इति सञ्ज्ञायन्ते । रूढौ क्रिया क्वचित्सती उपलक्षणत्वेनाश्रयते इति ग्रहणादिव्यापारायोग्येष्वपि द्व्यणुकादिषु स्कन्धा- ख्या प्रवर्तते । अनन्तभेदा अपि पुद्गला अणुजात्या स्कन्धजात्या च द्वैविध्यमापद्यमानाः १०सर्वे गृह्यन्त इति तज्जात्याधारानन्तभेदसंसूचनार्थं बहुवचनं क्रियते । अणवः स्कन्धा इति भेदाभिधानं पूर्वोक्तसूत्रद्वयभेदसम्बन्धनार्थम् । स्पर्शरसगन्धवर्णवन्तोऽणवः । स्कन्धाः पुनः शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तश्च स्पर्शादिमन्तश्चेति । आह, किमेषां पुद्गलानामणुस्कन्धलक्षणः परिणामोऽनादिरुत आदिमानित्युच्यते । २९८स खलूत्पत्तिमत्त्वादादिमान्प्रतिज्ञायते । यद्येवं तस्मादभिधीयतां कस्मान्निमित्तादुत्पद्यन्त इति । तत्र स्कन्धानां तावदुत्पत्तिहेतुप्रतिपादनार्थमुच्यते — भेदसंघातेभ्य उत्पद्यन्ते ॥ २६ ॥ संघातानां द्वितयनिमित्तवशाद्विदारणं भेदः । पृथग्भूतानामेकत्वापत्तिः संघातः । ०५ननु च द्वित्वाद् द्विवचनेन भवितव्यम् ? बहुवचननिर्देशस्त्रितयसंग्रहार्थः । भेदात्संघाताद् भेद- संघाताभ्यां च उत्पद्यन्त इति । तद्यथा — द्वयोः परमाण्वोः संघाताद् द्विप्रदेशः स्कन्ध उत्पद्यते । द्विप्रदेशस्याणोश्च त्रयाणां वा अणूनां संघातात्त्रिप्रदेशः । द्वयोर्द्विप्रदेशयोस्त्रिप्रदे- शस्याणोश्च चतुर्णां वा अणूनां संघाताच्चतुःप्रदेशः । एवं संख्येयासंख्येयानन्तानामनन्ता- नन्तानां च संघातात्तावत्प्रदेशः । एषामेव भेदात्तावद् द्विप्रदेशपर्यन्ताः स्कन्धा उत्पद्यन्ते । १०एवं भेदसंघाताभ्यामेकसमयिकाभ्यां द्विप्रदेशादयः स्कन्धा उत्पद्यन्ते । अन्यतो भेदेनान्यस्य संघातेनेति । एवं स्कन्धानामुत्पत्तिहेतुरुक्तः । अणोरुत्पत्तिहेतुप्रदर्शनार्थमाह — २९९भेदादणुः ॥ २७ ॥ ’सिद्धे विधिरारभ्यमाणो नियमार्थो भवति । ’ अणोरुत्पत्तिर्भेदादेव, न संघाता- न्नापि भेदसंघाताभ्यामिति । आह, संघातादेव स्कन्धानामात्मलाभे सिद्धे भेदसंघातग्रहणमनर्थकमिति तद्ग्रहणप्र- ०५योजनप्रतिपादनार्थमिदमुच्यते — भेदसंघाताभ्यां चाक्षुषः ॥ २८ ॥ अनन्तानन्तपरमाणुसमुदयनिष्पाद्योऽपि कश्चिच्चाक्षुषः कश्चिदचाक्षुषः । तत्र योऽ चाक्षुषः स कथं चाक्षुषो भवतीति चेदुच्यते — भेदसंघाताभ्यां चाक्षुषः । न भेदादिति । कात्रोपपत्तिरिति चेत् ? ब्रूमः; सूक्ष्मपरिणामस्य स्कन्धस्य भेदे सौक्ष्म्यापरित्यागादचाक्षु- १०षत्वमेव । सौक्ष्म्यपरिणतः पुनरपरः सत्यपि तद्भेदेऽन्यसंघातान्तरसंयोगात्सौक्ष्म्य- परिणामोपरमे स्थौल्योत्पत्तौ चाक्षुषो भवति । आह, धर्मादीनां द्रव्याणां विशेषलक्षणान्युक्तानि, सामान्यलक्षणं नोक्तम्, तद्वक्त- व्यम् । उच्यते — ३००सद् द्रव्यलक्षणम् ॥ २९ ॥ यत्सत्तद् द्रव्यमित्यर्थः । यद्येवं तदेव तावद्वक्तव्यं किं सत् ? इत्यत आह — उत्पादव्ययध्रौव्ययुक्तं सत् ॥ ३० ॥ ०५चेतनस्याचेतनस्य वा द्रव्यस्य स्वां जातिमजहत उभयनिमित्तवशाद् भावान्तरावा- प्तिरुत्पादनमुत्पादः मृत्पिण्डस्य घटपर्यायवत् । तथा पूर्वभावविगमनं व्ययः । यथा घटोत्पत्तौ पिण्डाकृतेः । अनादिपारिणामिकस्वभावेन व्ययोदयाभावाद् ध्रुवति स्थिरी- भवतीति ध्रुवः । ध्रुवस्य भावः कर्म वा ध्रौव्यम् । यथा मृत्पिण्डघटाद्यवस्थासु मृदाद्य- न्वयः । तैरुत्पादव्ययध्रौव्यैर्यु क्तं उत्पादव्ययध्रौव्ययुक्तं सदिति । १०आह, भेदे सति युक्तशब्दो दृष्टः । यथा दण्डेन युक्तो देवदत्त इति । तथा सति तेषां त्रयाणां तैर्युक्तस्य द्रव्यस्य चाभावः प्राप्नोति ? नैष दोषः; अभेदेऽपि कथञ्चिद् भेद- नयापेक्षया युक्तशब्दो दृष्टः । यथा सारयुक्तः स्तम्भ इति । तथा सति तेषामविनाभावा- ३०१त्सद्व्यपदेशो युक्तः । समाधिवचनो वा युक्तशब्दः । युक्तः समाहितस्तदात्मक इत्यर्थः । उत्पादव्ययध्रौव्ययुक्तं सत् उत्पादव्ययध्रौव्यात्मकमिति यावत् । एतदुक्तं भवति — उत्पादादीनि द्रव्यस्य लक्षणानि । द्रव्यं लक्ष्यम् । तत्र पर्यायार्थिकनयापेक्षया परस्परतो द्रव्याच्चार्थान्तरभावः । द्रव्यार्थिकनयापेक्षया व्यतिरेकेणानुपलब्धेरनर्थान्तरभावः । ०५इति लक्ष्यलक्षणभावसिद्धिः । ३०२आह ‘नित्यावस्थितान्यरूपाणि’इत्युक्तं तत्र न ज्ञायते किं नित्यमित्यत आह — तद्भावाव्ययं नित्यम् ॥ ३१ ॥ ‘तद्भावः’इत्युच्यते । कस्तद्भावः ? प्रत्यभिज्ञानहेतुता । तदेवेदमिति स्मरणं प्रत्यभिज्ञानम् । तदकस्मान्न भवतीति योऽस्य हेतुः स तद्भावः । भवनं भावः । तस्य ०५भावस्तद्भावः । येनात्मना प्राग्दृष्टं वस्तु तेनैवात्मना पुनरपि भावात्तदेवेदमिति प्रत्यभि- ज्ञायते । यद्यत्यन्तनिरोधोऽभिनवप्रादुर्भावमात्रमेव वा स्यात्ततः स्मरणानुपपत्तिः । तदधीनो लोकसंव्यवहारो विरुध्यते । ततस्तद्भावेनाव्ययं तद्भावाव्ययं नित्यमिति निश्चीयते । तत् तु कथञ्चिद्वेदितव्यम् । सर्वथा नित्यत्वे अन्यथाभावाभावात्संसारतद्वि- निवृत्तिकारणप्रक्रियाविरोधः स्यात् । १०ननु इदमेव विरुद्धं तदेव नित्यं तदेवानित्यमिति । यदि नित्यं व्ययोदयाभावादनित्य- ताव्याघातः । अथानित्यमेव स्थित्यभावान्नित्यताव्याघात इति ? नैतद्विरुद्धम् । कुतः ? ३०३अर्पितानर्पितसिद्धेः ॥ ३२ ॥ अनेकान्तात्मकस्य वस्तुनः प्रयोजनवशाद्यस्य कस्यचिद्धर्मस्य विवक्षया प्रापितं प्राधा- न्यमर्पितमुपनीतमिति यावत् । तद्विपरीतमनर्पितम् । प्रयोजनाभावात् सतोऽप्यविवक्षा भवतीत्युपसर्जनीभूतमनर्पितमित्युच्यते । अर्पितं चानर्पितं चार्पितानर्पिते । ताभ्यां सिद्धे- ०५रर्पितानर्पितसिद्धेर्नास्ति विरोधः । तद्यथा — एकस्य देवदत्तस्य पिता पुत्रो भ्राता भागि- नेय इत्येवमादयः सम्बन्धा जनकत्वजन्यत्वादिनिमित्ता न विरुध्यन्ते; अर्पणाभेदात् । पुत्रापेक्षया पिता, पित्रपेक्षया पुत्र इत्येवमादिः । तथा द्रव्यमपि सामान्यार्पणया नित्यम्, विशेषार्पणयाऽनित्यमिति नास्ति विरोधः । तौ च सामान्यविशेषौ कथञ्चिद् भेदाभेदाभ्यां व्यवहारहेतू भवतः । १०अत्राह, सतोऽनेकनयव्यवहारतन्त्रत्वात् उपपन्ना भेदसंघातेभ्यः सतां स्कन्धात्मनो- त्पत्तिः । इदं तु सन्दिग्धम्, किं संघातः संयोगादेव द्व्यणुकादिलक्षणो भवति, उत कश्चिद्वि- शेषोऽवध्रियत इति ? उच्यते, ‘सति संयोगे बन्धादेकत्वपरिणामात्मकात्संघातो निष्पद्यते । ’ ३०४यद्येवमिदमुच्यतां, कतो नु खलु पुद्गलजात्यपरित्यागे संयोगे च सति भवति केषांचिद्व- न्धोऽन्येषां च नेति ? उच्यते, यस्मात्तेषां पुद्गलात्माविशेषेऽप्यनन्तपर्यायाणां परस्परवि- लक्षणपरिणामादाहितसामर्थ्याद्भवन्प्रतीतः — स्निग्धरूक्षत्वाद् बन्धः ॥ ३३ ॥ ०५बाह्याभ्यन्तरकारणवशात् स्नेहपर्यायाविर्भावात् स्निह्यते स्मेति स्निग्धः । तथा रूक्षणाद्रूक्षः । स्निग्धश्च रूक्षश्च स्निग्धरूक्षौ । तयोर्भावः स्निग्धरूक्षत्वम् । स्निग्धत्वं चिक्कणगुणलक्षणः पर्यायः । तद्विपरीतपरिणामो रूक्षत्वम् । ‘स्निग्धरूक्षत्वात्’इति हेतु- निर्देशः । तत्कृतो बन्धो द्व्यणुकादिपरिणामः । द्वयोः स्निग्धरूक्षयोरण्वोः परस्परश्लेष- लक्षणे बन्धे सति द्व्यणुकस्कन्धो भवति । एवं संख्येयासंख्येयानन्तप्रदेशः स्कन्धो योज्यः । १०तत्र स्नेहगुण एकद्वित्रिचतुःसंख्येयासंख्येयानन्तविकल्पः । तथा रूक्षगुणोऽपि । तद्गुणाः पर- माणवः सन्ति । यथा तोयाजागोमहिष्युष्ट्रीक्षीरघृतेषु स्नेहगुणः प्रकर्षाप्रकर्षेण प्रवर्तते । पांशुकणिकाशर्करादिषु च रूक्षगुणो दृष्टः । तथा परमाणुष्वपि स्निग्धरूक्षगुणयोर्वृत्तिः प्रकर्षाप्रकर्षेणानुमीयते । ३०५स्निग्धरूक्षत्वगुणनिमित्ते बन्धे अविशेषेण प्रसक्ते अनिष्टगुणनिवृत्यर्थमाह — न जघन्यगुणानाम् ॥ ३४ ॥ जघन्यो निकृष्टः । गुणो भागः । जघन्यो गुणो येषां ते जघन्यगुणाः । तेषां जघन्य गुणानां नास्ति बन्धः । तद्यथा — एकगुणस्निग्धस्यैकगुणस्निग्धेन द्व्यादिसंख्येयासंख्येया- ०५नन्तगुणस्निग्धेन वा नास्ति बन्धः । तस्यैवैकगुणस्निग्धस्य एकगुणरूक्षेण द्व्यादिसंख्येया- संख्येयानन्तगुणरूक्षेण वा नास्ति बन्धः । तथा एकगुणरूक्षस्यापि योज्यमिति । एतौ जघन्यगुणस्निग्धरूक्षौ वर्जयित्वा अन्येषां स्निग्धानां रूक्षाणां च परस्परेण बन्धो भवतीत्यविशेषेण प्रसङ्गे तत्रापि प्रतिषेधविषयख्यापनार्थमाह — गुणसाम्ये सदृशानाम् ॥ ३५ ॥ १०‘सदृश’ग्रहणं तुल्यजातीयसंप्रत्ययार्थम् । ‘गुणसाम्य’ग्रहणं तुल्यभागसंप्रत्ययार्थम् । एतदुक्तं भवति — द्विगुणस्निग्धानां द्विगुणरूक्षैः त्रिगुणस्निग्धानां त्रिगुणरूक्षैः द्विगुणस्नि- ग्धानां द्विगुणस्निग्धैः द्विगुणरूक्षाणां द्विगुणरूक्षैश्चैत्येवमादिषु नास्ति बन्ध इति । यद्येवं ‘सदृश’ग्रहणं किमर्थम् ? गुणवैषम्ये सदृशानामपि बन्धप्रतिपत्त्यर्थं ‘सदृश’ग्रहणं क्रियते । ३०६अतो विषमगुणानां तुल्यजातीयानामतुल्यजातीयानां चानियमेन बन्धप्रसक्तौ इष्टार्थसंप्रत्ययार्थमिदमुच्यते — द्व्यधिकादिगुणानां तु ॥ ३६ ॥ द्वाभ्यां गुणाभ्यामधिकोद्व्यधिकः । कः पुनरसौ ? चतुर्गुणः । ‘आदि’शब्दः प्रकारार्थः । ०५कः पुनरसौ प्रकारः ? द्व्यधिकता । तेन पञ्चगुणादीनां संप्रत्ययो न भवति । तेन द्व्यधि- कादिगुणानां तुल्यजातीयानामतुल्यजातीयानां च बन्ध उक्तो भवति नेतरेषाम् । तद्यथा — द्विगुणस्निग्धस्य परमाणोरेकगुणस्निग्धेन द्विगुणस्निग्धेन त्रिगुणस्निग्धेन वा नास्ति बन्धः । चतुर्गुणस्निग्धेन पुनरस्ति बन्धः । तस्यैव पुनर्द्विगुणस्निग्धस्य पञ्चगुणस्निग्धेन षट्सप्ता- ष्टसंख्येयासंख्येयानन्तगुणस्निग्धेन वा बन्धो नास्ति । एवं त्रिगुणस्निग्धस्य पञ्चगुण १०स्निग्धेन बन्धोऽस्ति । शेषैः पूर्वोत्तरैर्न भवति । चतुर्गुणस्निग्धस्य षड्गुणस्निग्धेनास्ति ३०७बन्धः । शेषैः पूर्वोत्तरैर्नास्ति । एवं शेषेष्वपि योज्यः । तथा द्विगुणरूक्षस्य एकद्वित्रिगुण- रूक्षैर्नास्ति बन्धः । चतुर्गुणरूक्षेण त्वस्ति बन्धः । तस्यैव द्विगुणरूक्षस्य पञ्चगुणरूक्षादि- भिरुत्तरैर्नास्ति बन्धः । एवं त्रिगुणरूक्षादीनामपि द्विगुणाधिकैर्बन्धो योज्यः । एवं भिन्नजातीयेष्वपि योज्यः । उक्तं च — ०५’णिद्धस्स णिद्धेण दुराधिएण लुक्खस्स लुक्खेण दुराधिएण । णिद्धस्स लुक्खेण हवेइ बंधो जहण्णवज्जो विसमे समे वा ॥ ’ ‘तु’ शब्दो विशेषणार्थः । प्रतिषेधं व्यावर्तयति बन्धं च विशेषयति । किमर्थमधिकगुणविषयो बन्धो व्याख्यातो न समगुणविषय इत्यत आह — बन्धेऽधिकौ पारिणामिकौ च ॥ ३७ ॥ १०अधिकाराद् ‘गुण’ शब्दः सम्बध्यते । अधिकगुणावधिकाविति । भावान्तरापादनं पारिणामिकत्वं क्लिन्नगुडवत् । यथा क्लिन्नो गुडोऽधिकमधुररसः परीतानां रेण्वादीनां स्वगुणापादनात् पारिणामिकः । तथाऽन्योऽप्यधिकगुणः अल्पीयसः पारिणामिक इति ३०८कृत्वा द्विगुणादिस्निग्धरूक्षस्य चतुर्गुणादिस्निग्धरूक्षः पारिणामिको भवति । ततः पूर्वा- वस्थाप्रच्यवनपूर्वकं तार्तीयिंकमवस्थान्तरं प्रादुर्भवतीत्येकत्वमुपपद्यते । इतरथा हि शुक्लकृष्णतन्तुवत् संयोगे सत्यप्यपारिणामिकत्वात्सर्वं विविक्तरूपेणैवावतिष्ठेत । उक्तेन विधिना बन्धे पुनः सति ज्ञानावरणादीनां कर्मणां त्रिंशत्सागरोपमकोटीकोट्यादि- ०५स्थितिरुपपन्ना भवति । ३०९‘उत्पादव्ययध्रौव्ययुक्तं सत्’इति द्रव्यलक्षणमुक्तं पुनरपरेण प्रकारेण द्रव्यलक्षण- प्रतिपादनार्थमाह — गुणपर्ययवद् द्रव्यम् ॥ ३८ ॥ गुणाश्च पर्ययाश्च गुणपर्ययाः । तेऽस्य सन्तीति गुणपर्ययवद् द्रव्यम् । अत्र मतोरु- ०५त्पत्तावुक्त एव समाधिः । कथंचित् भेदोपपत्तेरिति । के गुणाः के पर्यायाः ? अन्वयिनो गुणा व्यतिरेकिणः पर्यायाः । उभयैरुपेतं द्रव्यमिति । उक्तं च — ’गुण इदि दव्वविहाणं दव्वविकारो हि पज्जवो भणिदो । तेहि अणूणं दव्वं अजुदपसिद्धं हवे णिच्चं ॥ ’ इति ॥ एतदुक्तं भवति, द्रव्यं द्रव्यान्तराद् येन विशिष्यते स गुणः । तेन हि तद् द्रव्यं विधीयते । ३१०असति तस्मिन् द्रव्यसंकरप्रसङ्गः स्यात् । तद्यथा — जीवः पुद्गलादिभ्यो ज्ञानादिभिर्गुणै- र्विशिष्यते, पुद्गलादयश्च रूपादिभिः । ततश्चाविशेषे संकरः स्यात् । ततः सामान्या- पेक्षया अन्वयिनो ज्ञानादयो जीवस्य गुणाः पुद्गलादीनां च रूपादयः । तेषां विकारा विशे- षात्मना भिद्यमानाः पर्यायाः । घटज्ञानं पटज्ञानं क्रोधो मानो गन्धो वर्णस्तीव्रो मन्द इत्येव- ०५मादयः । तेभ्योऽन्यत्वं कथंचिदापद्यमानः समुदायो द्रव्यव्यपदेशभाक् । यदि हि सर्वथा समुदायोऽनर्थान्तरभूत एव स्यात् सर्वाभावः स्यात् । तद्यथा — परस्परविलक्षणानां समु- दाये सति एकानर्थान्तरभावात् समुदायस्य सर्वाभावः परस्परतोऽर्थान्तरभूतत्वात् । यदिदं रूपं तस्मादर्थान्तरभूता रसादयः । ततः समुदयोऽनर्थान्तरभूतः । यश्च रसादिभ्योऽ- र्थान्तरभूताद्रूपादनर्थान्तरभूतः समुदायः स कथं रसादिभ्योऽर्थान्तरभूतो न भवेत् । ततश्च १०रूपमात्रं समुदायः प्रसक्तः । न चैकं रूपं समुदायो भवितुमर्हति । ततः समुदायाभावः । समुदायाभावाच्च तदनर्थान्तरभूतानां समुदायिनामप्यभाव इति सर्वाभावः । एवं रसादि- ३११ष्वपि योज्यम् । तस्मात्समुदायमिच्छता कथंचिदर्थान्तरभाव एषितव्यः । उक्तानां द्रव्याणां लक्षणनिर्देशात्तद्विषय एव द्रव्याध्यवसाये प्रसक्ते अनुक्तद्रव्यसं- सूचनार्थमिदमाह — कालश्च ॥ ३९ ॥ ०५किम् ? ‘द्रव्यम्’इति वाक्यशेषः । कुतः ? तल्लक्षणोपेतत्वात् । द्विविधं लक्षणमुक्तम् — ‘उत्पादव्ययध्रौव्ययुक्तं सत्’‘गुणपर्ययवद् द्रव्यम्’इति च । तदुभयं लक्षणं कालस्य ३१२विद्यते । तद्यथा — ध्रौव्यं तावत्कालस्य स्वप्रत्ययं स्वभावव्यवस्थानात् । व्ययोदयौ परप्रत्ययौ, अगुरुलघुगुणवृद्धिहान्यपेक्षया स्वप्रत्ययौ च । तथा गुणा अपि कालस्य साधारणा- साधारणरूपाः सन्ति । तत्रासाधारणो वर्तनाहेतुत्वम्, साधारणाश्चाचेतनत्वामूर्तत्वसूक्ष्म- त्वागुरुलघुत्वादयः । पर्यायाश्च व्ययोत्पादलक्षणा योज्याः । तस्माद् द्विप्रकारलक्षणोपेत- ०५त्वादाकाशादिवत्कालस्य द्रव्यत्वं सिद्धम् । तस्यास्तित्वलिङ्गं धर्मादिवद् व्याख्यातम् ‘वर्तनालक्षणः कालः’ इति । ननु किमर्थ- मयं कालः पृथगुच्यते ? यत्रैव धर्मादय उक्तास्तत्रैवायमपि वक्तव्यः ‘अजीवकाया धर्मा- धर्माकाशकालपुद्गलाः’ इति ? नैवं शङ्क्यम्; तत्रोद्देशे सति कायत्वमस्य स्यात् । नेष्यते च मुख्योपचारप्रदेशप्रचयकल्पनाभावात् । धर्मादीनां तावन्मुख्यप्रदेशप्रचय उक्तः, असंख्ये- १०याः प्रदेशाः’ इत्येवमादिना । अणोरप्येकप्रदेशस्य पूर्वोत्तरभावप्रज्ञापननयापेक्षयोपचार- कल्पनया प्रदेशप्रचय उक्तः । कालस्य पुनर्द्वेधाऽपि प्रदेशप्रचयकल्पना नास्तीत्यकायत्वम् । अपि च तत्र पाठे ‘निष्क्रियाणि च’ इत्यत्र धर्मादीनामाकाशान्तानां निष्क्रियत्वे प्रति- ३१३पादिते इतरेषां जीवपुद्गलानां सक्रियत्वप्राप्तिवत्कालस्यापि सक्रियत्वं स्यात् । अथाका- शात्प्राक्काल उद्दिश्येत ? तन्न; ‘आ आकाशादेकद्रव्याणि’ इत्येकद्रव्यत्वमस्य स्यात् । तस्मात्पृथगिह कालोद्देशः क्रियते । अनेकद्रव्यत्वे सति किमस्य प्रमाणम् ? लोकाकाशस्य यावन्तः प्रदेशास्तावन्तः कालाणवो निष्क्रिया एकैकाकाशप्रदेशे एकैकवृत्त्या लोकं व्याप्य ०५व्यवस्थिताः । उक्तं च — ’लोगागासपदेसे एक्केक्के जे ट्ठिया हु एक्कक्का । रयणाणं रासीविव ते कालाणू मुणेयव्वा ॥ ’ रूपादिगुणविरहादमूर्ताः । ३१५वर्तनालक्षणस्य मुख्यस्य कालस्य प्रमाणमुक्तम् । परिणामादिगम्यस्य व्यवहार- कालस्य किं प्रमाणमित्यत इदमुच्यते — सोऽनन्तसमयः ॥ ४० ॥ साम्प्रतिकस्यैकसमयिकत्वेऽपि अतीता अनागताश्च समया अनन्ता इति कृत्वा ०५‘अनन्तसमयः’ इत्युच्यते । अथवा मुख्यस्यैव कालस्य प्रमाणावधारणार्थमिदमुच्यते । अनन्तपर्यायवर्तनाहेतुत्वादेकोऽपि कालाणुरनन्त इत्युपचर्यते । समयः पुनः परमनिरुद्धः कालांशस्तत्प्रचयविशेष आवलिकादिरवगन्तव्यः । आह गुणपर्ययवद् द्रव्यमित्युक्तं तत्र के गुणा इत्यत्रोच्यते — द्रव्याश्रया निर्गुणा गुणाः ॥ ४१ ॥ १०द्रव्यमाश्रयो येषां ते द्रव्याश्रयाः । निष्क्रान्ता गुणेभ्यो निर्गुणाः । एवमुभयलक्षणो- ३१६पेता गुणा इति । ‘निर्गुणाः’ इति विशेषणं द्व्यणुकादिनिवृत्त्यर्थम् । तान्यपि हि कारण- भूतपरमाणुद्रव्याश्रयाणि गुणवन्ति तु तस्मात् ‘निर्गुणाः’ इति विशेषणात्तानि निवर्त्ति- तानि भवन्ति । ननु पर्याया अपि घटसंस्थानादयो द्रव्याश्रया निर्गुणाश्च, तेषामपि गुणत्वं प्राप्नोति ? ‘द्रव्याश्रयाः’इति वचनात् ‘नित्यं द्रव्यमाश्रित्य वर्तन्ते ये’ते गुणा इति विशेषा- ०५त्पर्याया निवर्तिता भवन्ति । ते हि कादाचित्का इति । ३१७असकृत् ‘परिणाम’शब्द उक्तः । तस्य कोऽर्थ इति प्रश्ने उत्तरमाह — तद्भावः परिणामः ॥ ४२ ॥ अथवा गुणा द्रव्यादर्थान्तरभूता इति केषाञ्चिद्दर्शनं तत्किं भवतोऽभिमतम् ? न; इत्याह — यद्यपि कथञ्चिद् व्यपदेशादिभेदहेत्वपेक्षया द्रव्यादन्ये, तथापि तदव्यतिरेकात्तत्प- ०५रिणामाच्च नान्ये । यद्येवं स उच्यतां कः परिणाम इति ? तन्निश्चयार्थमिदमुच्यते — धर्मा- दीनि द्रव्याणि येनात्मना भवन्ति स तद्भावस्तत्त्वं परिणाम इति आख्यायते । स द्विवि- धोऽनादिरादिमांश्च । तत्रानादिर्धर्मादीनां गत्युपग्रहादिः सामान्यापेक्षया । स एवादि- मांश्च भवति विशेषापेक्षया इति । इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसंज्ञिकायां पञ्चमोऽध्यायः । ३१८अथ षष्ठोऽध्यायः आह, अजीवपदार्थो व्याख्यातः । इदानीं तदनन्तरोद्देशभागास्रवपदार्थो व्याख्येय इति ततस्तत्प्रसिद्ध्यर्थमिदमुच्यते — कायवाङ्मनःकर्म योगः ॥ १ ॥ ०५कायादयः शब्दा व्याख्यातार्थाः । कर्म क्रिया इत्यनर्थान्तरम् । कायवाङ् मनसां कर्म कायवाङ्मनःकर्म योग इत्याख्यायते । आत्मप्रदेशपरिस्पन्दो योगः । स निमित्तभेदा- त्त्रिधा भिद्यते । काययोगो वाग्योगो मनोयोग इति । तद्यथा — वीर्यान्तरायक्षयोपशम- सद्भावे सति औदारिकादिसप्तविधकायवर्गणान्यतमालम्बनापेक्ष आत्मप्रदेशपरिस्पन्दः काययोगः । शरीरनामकर्मोदयापादितवाग्वर्गणालम्बने सति वीर्यान्तरायमत्यक्षराद्याव- १०रणक्षयोपशमापादिताभ्यन्तरवाग्लब्धिसान्निध्ये वाक्परिणामाभिमुखस्यात्मनः प्रदेशपरि- स्पन्दो वाग्योगः । अभ्यन्तरवीर्यान्तरायनोइन्द्रियावरणक्षयोपशमात्मकमनोलब्धिसन्निधाने बाह्यनिमित्तमनोवर्गणालम्बने च सति मनःपरिणामाभिमुखस्यात्मप्रदेशपरिस्पन्दो मनो- ३१९योगः । क्षयेऽपि त्रिविधवर्गणापेक्षः सयोगकेवलिन आत्मप्रदेशपरिस्पन्दो योगो वेदितव्यः । आह, अभ्युपेमः आहितत्रैविध्यक्रियो योग इति । प्रकृत इदानीं निर्द्दिश्यतां किंलक्षण आस्रव इत्युच्यते । योऽयं योगशब्दाभिधेयः संसारिणः पुरुषस्य — स आस्रवः ॥ २ ॥ ०५यथा सरस्सलिलावाहिद्वारं तदाऽऽस्रवकारणत्वात् आस्रव इत्याख्यायते तथा योग- प्रणालिकया आत्मनः कर्म आस्रवतीति योग आस्रव इति व्यपदेशमर्हति । आह कर्म द्विविधं पुण्यं पापं चेति । तस्य किमविशेषेण योग आस्रवहेतुराहोस्विदस्ति कश्चित्प्रतिविशेष इत्यत्रोच्यते — शुभः पुण्यस्याशुभः पापस्य ॥ ३ ॥ १०कः शुभो योगः को वा अशुभः ? प्राणातिपातादत्तादानमैथुनादिरशुभः काययोगः । अनृतभाषणपरुषासभ्यवचनादिरशुभो वाग्योगः । वधचिन्तनेर्ष्यासूयादिरशुभो मनोयोगः । ततो विपरीतः शुभः । कथं योगस्य शुभाशुभत्वम् ? शुभपरिणामनिर्वृत्तो योगः शुभः । ३२०अशुभपरिणामनिर्वृत्तश्चाशुभः । न पुनः शुभाशुभकर्मकारणत्वेन । यद्येवमुच्यते शुभ- योग एव न स्यात् शुभयोगस्यापि ज्ञानावरणादिबन्धहेतुत्वाभ्युपगमात् । पुनात्यात्मानं पूयतेऽनेनेति वा पुण्यम् । तत्सद्वेद्यादि । पाति रक्षति आत्मानं शुभादिति पापम् । तद- सद्वेद्यादि । ०५आह किमयमास्रवः सर्वसंसारिणां समानफलारम्भहेतुराहोस्वित्कश्चिदस्ति प्रति- विशेष इत्यत्रोच्यते — सकषायाकषाययोः साम्परायिकेर्यापथयोः ॥ ४ ॥ स्वामिभेदादास्रवभेदः । स्वामिनौ द्वौ सकषायोऽकषायश्चेति । कषायः क्रोधादिः । कषाय इव कषायः । कः उपमार्थः ? यथा कषायो नैयग्रोधादिः श्लेषहेतुस्तथा क्रोधादिर- १०प्यात्मनः कर्मश्लेषहेतुत्वात् कषाय इव कषाय इत्युच्यते । सह कषायेण वर्तत इति सकषायः न विद्यते कषायो यस्येत्यकषायः । सकषायश्चाकषायश्च सकषायाकषायौ तयोः सकषाया- ३२१कषाययोः । सम्परायः संसारः । तत्प्रयोजनं कर्म साम्परायिकम् । इरणमीर्या योगो गति- रित्यर्थः । तद्द्वारकं कर्म ईर्यापथम् । साम्परायिकं च ईर्यापथं च साम्परायिकेर्यापथे । तयोः साम्परायिकेर्यापथयोः । यथासंख्यमभिसम्बन्धः । सकषायस्यात्मनो मिथ्यादृष्ट्यादेंḥ साम्परायिकस्य कर्मण आस्रवो भवति । अकषायस्य उपशान्तकषायादेरीर्यापथस्य कर्मण ०५आस्रवो भवति । आदावुद्दिष्टस्यास्रवस्य भेदप्रतिपादनार्थमाह — इन्द्रियकषायाव्रतक्रियाः पञ्चचतुःपञ्चपञ्चविंशतिसंख्याः पूर्वस्य भेदाः ॥ ५ ॥ अत्र इन्द्रियादीनां पञ्चादिभिर्यथासंख्यमभिसंबन्धो वेदितव्यः । इन्द्रियाणि पञ्च । चत्वारः कषायाः । पञ्चाव्रतानि । पञ्चविंशतिः क्रिया इति । तत्र पञ्चेन्द्रियाणि स्पर्श- १०नादीन्युक्तानि । चत्वारः कषायाः क्रोधादयः । पञ्चाव्रतानि प्राणव्यपरोपणादीनि वक्ष्यन्ते । पञ्चविंशतिः क्रिया उच्यन्ते — चैत्यगुरुप्रवचनपूजादिलक्षणा सम्यक्त्ववर्धनी क्रिया सम्यक्त्वक्रिया । अन्यदेवतास्तवनादिरूपा मिथ्यात्वहेतुकी प्रवृत्तिर्मिथ्यात्वक्रिया । गमना- गमनादिप्रवर्तनं कायादिभिः प्रयोगक्रिया । संयतस्य सतः अविरतिं प्रत्याभिमुख्यं समादान- ३२२क्रिया । ईर्यापथनिमित्तेर्यापथक्रिया । ता एताः पञ्च क्रियाः । क्रोधावेशात्प्रादोषिकी क्रिया । प्रदुष्टस्य सतोऽभ्युद्यमः कायिकी क्रिया । हिंसोपकरणादानादाधिकरणिकी क्रिया । दुःखोत्पत्तितन्त्रत्वात्पारितापिकी क्रिया । आयुरिन्द्रियबलोच्छ्वासनिःश्वासप्राणानां वियो- गकरणात्प्राणातिपातिकी क्रिया । ता एताः पञ्च क्रियाः । रागार्द्रीकृतत्वात्प्रमादिनो ०५रमणीयरूपालोकनाभिप्रायो दर्शनक्रिया । प्रमादवशात्स्पृष्टव्यसञ्चेतनानुबन्धः स्पर्शन- क्रिया । अपूर्वाधिकरणोत्पादनात्प्रात्ययिकी क्रिया । स्त्रीपुरुषपशुसम्पातिदेशेऽन्तर्मलोत्सर्ग- करणं समन्तानुपातक्रिया । अप्रमृष्टादृष्टभूमौ कायादिनिक्षेपोऽनाभोगक्रिया । ता एताः पञ्च क्रियाः । यां परेण निर्वर्त्यां क्रियां स्वयं करोति सा स्वहस्तक्रिया । पापादानादिप्रवृत्तिवि- शेषाभ्यनुज्ञानं निसर्गक्रिया । पराचरितसावद्यादिप्रकाशनं विदारणक्रिया । यथोक्तामा- १०ज्ञामावश्यकादिषु चारित्रमोहोदयात्कर्तुमशक्नुवतोऽन्यथा प्ररूपणादाज्ञाव्यापादिकी क्रिया । शाठ्यालस्याभ्यां प्रवचनोपदिष्टविधिकर्तव्यतानादरोऽनाकाङ्क्षक्रिया । ता एताः पञ्च क्रियाः । छेदनभेदनविशसनादिक्रियापरत्वमन्येन वाऽऽरम्भे क्रियमाणे प्रहर्षः प्रारम्भ- ३२३क्रिया । परिग्रहाविनाशार्था पारिग्राहिकी क्रिया । ज्ञानदर्शनादिषु निकृतिर्वञ्चन माया- क्रिया । अन्यं मिथ्यादर्शनक्रियाकरणकारणाविष्टं प्रशंसादिभिर्दृढयति यथा साधु करोषीति सा मिथ्यादर्शनक्रिया । संयमघातिकर्मोदयवशादनिवृत्तिरप्रत्याख्यानक्रिया । ता एताः पञ्च क्रियाः । समुदिताः पञ्चविंशतिक्रियाः । एतानीन्द्रियादीनि कार्यकारण- ०५भेदाद्भेदमापद्यमानानि साम्परायिकस्य कर्मण आस्रवद्वाराणि भवन्ति । अत्राह, योगत्रयस्य सर्वात्मकार्यत्वात्सर्वेषां संसारिणां साधारणः ततो बन्धफलानु- भवनं प्रत्यविशेष इत्यत्रोच्यते — नैतदेवम् । यस्मात् सत्यपि प्रत्यात्मसम्भवे तेषां जीवप- रिणामेभ्योऽनन्तविकल्पेभ्यो विशेषोऽभ्यनुज्ञायते । कथमिति चेदुच्यते — तीव्रमन्दज्ञाताज्ञातभावाधिकरणवीर्यविशेषेभ्यस्तद्विशेषः ॥ ६ ॥ १०बाह्याभ्यन्तरहेतूदीरणवशादुद्रिक्तः परिणामस्तीव्रः । तद्विपरीतो मन्दः । अयं प्राणी मया हन्तव्य इति ज्ञात्वा प्रवृत्तिर्ज्ञातमित्युच्यते । मदात्प्रमादाद्वाऽनवबुध्य प्रवृत्तिर- ज्ञातम् । अधिक्रियन्तेऽस्मिन्नर्था इत्यधिकरणं द्रव्यमित्यर्थः । द्रव्यस्य स्वशक्तिविशेषो ३२४वीर्यम् । भावशब्दः प्रत्येकं परिसमाप्यते — तीव्रभावो मन्दभाव इत्यादिः । एतेभ्यस्त- स्यास्रवस्य विशेषो भवति । कारणभेदाद्धि कार्यभेद इति । अत्राह, अधिकरणमुक्तम्, तत्स्वरूपमनिर्ज्ञातमतस्तदुच्यतामिति । तत्र भेदप्रति- पादनद्वारेणाधिकरणस्वरूपनिर्ज्ञानार्थमाह — ०५अधिकरणं जीवाजीवाः ॥ ७ ॥ उक्तलक्षणा जीवाजीवाः । यद्युक्तलक्षणाः पुनर्वचनं किमर्थम् ? अधिकरणविशेषज्ञा- पनार्थं पुनर्वचनम् । जीवाजीवा अधिकरणमित्ययं विशेषो ज्ञापयितव्य इति । कः पुन- रसौ ? हिंसाद्युपकरणभाव इति । स्यादेतन्मूलपदार्थयोर्द्वित्वाज्जीवाजीवाविति द्विवचनं न्यायप्राप्तमिति ? तन्न, पर्यायाणामधिकरणत्वात् । येन केनचित्पर्यायेण विशिष्टं द्रव्यम- १०धिकरणम्, न सामान्यमिति बहुवचनं कृतम् । जीवाजीवा अधिकरणं कस्य ? आस्रव- स्येति । अर्थवशादभिसम्बन्धो भवति । ३२५तत्र जीवाधिकरणभेदप्रतिपत्त्यर्थमाह — आद्यं संरम्भसमारम्भारम्भयोगकृतकारितानुमतकषायविशेषैस् त्रिस्त्रिस्त्रिश्चतुश्चैकशः ॥ ८ ॥ प्राणव्यपरोपणादिषु प्रमादवतः प्रयत्नावेशः संरम्भः । साधनसमभ्यासीकरणं समा- रम्भः । प्रक्रम आरम्भः । ‘योग’ शब्दो व्याख्यातार्थः । कृतवचनं स्वातन्त्र्यप्रतिपत्त्यर्थम् । ०५कारिताभिधानं परप्रयोगापेक्षम् । अनुमतशब्दः प्रयोजकस्य मानसपरिणामप्रदर्शनार्थः । अभिहितलक्षणाः कषायाः क्रोधादयः । विशिष्यतेऽर्थोऽर्थान्तरादिति विशेषः । स प्रत्येकमभिसम्बध्यते — संरम्भविशेषः समारम्भविशेष इत्यादि । आद्यं जीवाधिकरण- मेतैर्विशेषैः ‘भिद्यते’ इति वाक्यशेषः । एते चत्वारः सुजन्तास्त्र्यादिशब्दा यथाक्रममभि- सम्बध्यन्ते — संरम्भसमारम्भारम्भास्त्रयः, योगास्त्रयः, कृतकारितानुमतास्त्रयः, कषाया- १०श्चत्वार इति । एतेषां गणनाभ्यावृत्तिः सुचा द्योत्यते । एकश इति वीप्सानिर्देशः । एकैकं त्र्यादीन् भेदान् नयेदित्यर्थः । तद्यथा — क्रोधकृतकायसंरम्भः मानकृतकायसंरम्भः मायाकृतकायसंरम्भः लोभकृतकायसंरम्भः क्रोधकारितकायसंरम्भः मानकारितकायसं- रम्भः मायाकारितकायसंरम्भः लोभकारितकायसंरम्भः क्रोधानुमतकायसंरम्भः मानानु- ३२६मतकायसंरम्भः मायानुमतकायसंरम्भः लोभानुमतकायसंरम्भश्चेति द्वादशधा कायसं- रम्भः । एवं वाग्योगे मनोयोगे च द्वादशधा संरम्भः । त एते संपिण्डिताः षट्त्रिंशत्, तथा समारम्भा अपि षट्त्रिंशत्, आरम्भा अपि षट्त्रिंशत् । एते संपिण्डिता जीवाधिकरणास्रव- भेदा अष्टोत्तरशतसंख्याः सम्भवन्ति । ‘च’ शब्दोऽनन्तानुबन्ध्यप्रत्याख्यानप्रत्यख्यानसञ्ज्व- ०५लनकषायभेदकृतान्तर्भेदसमुच्चयार्थः । परस्याजीवाधिकरणस्य भेदप्रतिपत्त्यर्थमाह — निर्वर्तनानिक्षेपसंयोगनिसर्गा द्विचतुर्द्वित्रिभेदाः परम् ॥ ९ ॥ निर्वर्त्यत इति निर्वर्तना निष्पादना । निक्षिप्यत इति निक्षेपः स्थापना । संयुज्यते इति संयोगो मिश्रीकृतम् । निसृज्यत इति निसर्गः प्रवर्तनम् । एते द्व्यादिभिर्यथाक्रम- १०मभिसम्बध्यन्ते — निर्वर्तना द्विभेदा निक्षेपश्चतुर्भेदः संयोगो द्विभेदः निसर्गस्त्रि- भेद इति । त एते भेदा अजीवाधिकरणस्य वेदितव्याः । परवचनमनर्थकम्, पूर्वसूत्रे आद्यमिति वचनादिदमवशिष्टार्थं भवतीति ? नानर्थकम् । अन्यार्थः परशब्दः । संरम्भा- दिभ्योऽन्यानि निर्वर्त्तनादीनि । इतरथा हि निर्वर्तनादीनामात्मपरिणामसद्भावाज्जीवा- ३२७धिकरणविकल्पा एवेति विज्ञायेत । निर्वर्तनाधिकरणं द्विविधं मूलगुणनिर्वर्तनाधिकरण- मुत्तरगुणनिर्वर्तनाधिकरणञ्चेति । तत्र मूलगुणनिर्वर्तनं पञ्चविधम्, शरीरवाङ्मनः- प्राणापानाश्च । उत्तरगुणनिर्वर्तनं काष्ठपुस्तचित्रकर्मादि । निक्षेपश्चतुर्विधः अप्रत्यवे- क्षितनिक्षेपाधिकरणं दुःप्रमृष्टनिक्षेपाधिकरणं सहसानिक्षेपाधिकरणमनाभोगनिक्षेपाधि- ०५करणं चेति । संयोगो द्विविधः — भक्तपानसंयोगाधिकरणमुपकरणसंयोगाधिकरणं चेति । निसर्गस्त्रिविधः — कायनिसर्गाधिकरणं वाग्निसर्गाधिकरणं मनोनिसर्गाधिकरणञ्चेति । उक्तः सामान्येन कर्मास्रवभेदः । इदानीं कर्मविशेषास्रवभेदो वक्तव्यः । तस्मिन् वक्तव्ये आद्ययोर्ज्ञानदर्शनावरणयोरास्रवभेदप्रतिपत्त्यर्थमाह — तत्प्रदोषनिह्नवमात्सर्यान्तरायासादनोपघाता ज्ञानदर्शनावरणयोः ॥ १० ॥ १०तत्त्वज्ञानस्य मोक्षसाधनस्य कीर्तने कृते कस्यचिदनभिव्याहरतः अन्तःपैशुन्यपरि- णामः प्रदोषः । कुतश्चित्कारणान्नास्ति न वेद्मीत्यादि ज्ञानस्य व्यपलपनं निह्नवः । कुतश्चित्कारणाद् भावितमपि विज्ञानं दानार्हमपि यतो न दीयते तन्मात्सर्यम् । ज्ञानव्य- वच्छेदकरणमन्तरायः । कायेन वाचा च परप्रकाश्यज्ञानस्य वर्जनमासादनम् । प्रशस्त- ३२८ज्ञानदूषणमुपघातः । आसादनमेवेति चेत् ? सतो ज्ञानस्य विनयप्रदानादिगुणकीर्तनान- नुष्ठानमासादनम् । उपघातस्तु ज्ञानमज्ञानमेवेति ज्ञाननाशाभिप्रायः । इन्यनयोग्यं भेदः । ‘तत्’शब्देन ज्ञानदर्शनयोः प्रतिनिर्देशः क्रियते । कथं पुनरप्रकृतयोग्निदिष्टयोस्तच्छब्देन परामर्शः कर्तुं शक्यः ? प्रश्नापेक्षया । ज्ञानदर्शनावरणयोः क आस्रव इति प्रश्ने कृते तद- ०५पेक्षया तच्छब्दो ज्ञानदर्शने प्रतिनिर्दिशति । एतेन ज्ञानदर्शनवत्सु तत्साधनेषु च प्रदोषादयो योज्याः; तन्निमित्तत्वात् । त एते ज्ञानदर्शनावरणयोरास्रवहेतवः । एककारणमाध्यस्य कार्यस्यानेकस्य दर्शनात् तुल्येऽपि प्रदोषादौ ज्ञानदर्शनावरणास्रवसिद्धिः । अथवा विषय- भेदादास्रवभेदः । ज्ञानविषयाः प्रदोषादयो ज्ञानावरणस्य । दर्शनविषयाः प्रदोषादयो दर्शनावरणस्येति । १०यथाऽनयोः कर्मप्रकृत्योरास्रवभेदास्तथा — दुःखशोकतापाक्रन्दनवधपरिदेवनान्यात्मपरोभयस्थान्यसद्वेद्यस्य ॥ ११ ॥ पीडालक्षणः परिणामो दुःखम् । अनुग्राहकसम्बन्धविच्छेदे वैक्लव्यविशेषः शोकः । ३२९परिवादादिनिमित्तादाविलान्तःकरणस्य तीव्रानुशयस्तापः । परितापजाताश्रुपातप्रचुर- विप्रलापादिभिर्व्यक्तक्रन्दनमाक्रन्दनम् । आयुरिन्द्रियबलप्राणवियोगकरणं वधः । संक्ले- शपरिणामावलम्बनं गुणस्मरणानुकीर्तनपूर्वकं स्वपरानुग्रहाभिलाषविषयमनुकम्पाप्रचुरं रोदनं परिदेवनम् । ननु च शोकादीनां दुःखविशेषत्वाद् दुःखग्रहणमेवास्तु ? सत्यमेवम्; ०५तथापि कतिपयविशेषप्रतिपादनेन दुःखजात्यनुविधानं क्रियते । यथा गौरित्युक्ते अनिर्ज्ञाते विशेषे तत्प्रतिपादनार्थं खण्डमुण्डकृष्णशुक्लाद्युपादानं क्रियते तथा दुःखविषयास्रवासंख्येय- लोकभेदसम्भवाद् दुःखमित्युक्ते विशेषानिर्ज्ञानात्कतिपयविशेषनिर्देशेन तद्विशेषप्रतिपत्तिः क्रियते । तान्येतानि दुःखादीनि क्रोधाद्यावेशादात्मस्थानि भवन्ति परस्थान्युभयस्थानि च । एतानि सर्वाण्यसद्वेद्यास्रवकारणानि वेदितव्यानि । अत्र चोद्यते — यदि दुःखादीन्यात्म- १०परोभयस्थान्यसद्वेद्यास्रवनिमित्तानि, किमर्थमार्हतैः केशलुञ्चनानशनातपस्थानादीनि दुःख- निमित्तान्यास्थीयन्ते परेषु च प्रतिपाद्यन्ते इति ? नैष दोषः — अन्तरङ्गक्रोधाद्यावेशपूर्व- काणि दुःखादीन्यसद्वेद्यास्रवनिमित्तानीति विशेष्योक्तत्वात् । यथा कस्यचिद् भिषजः ३३०परमकरुणाशयस्य निःशल्यस्य संयतस्योपरि गण्डं पाटयतो दुःखहेतुत्वे सत्यपि न पापबन्धो बाह्यनिमित्तमात्रादेव भवति । एवं संसारविषयमहादुःखादुद्विग्नस्य भिक्षोस्तन्निवृत्त्यु- पायं प्रति समाहितमनस्कस्य शास्त्रविहिते कर्मणि प्रवर्तमानस्य संक्लेशपरिणामाभावाद् दुःखनिमित्तत्वे सत्यपि न पापबन्धः । उक्तञ्च — ०५’न दुःखं न सुखं यद्वद्धेतुर्दृष्टश्चिकित्सिते । चिकित्सायां तु युक्तस्य स्याद् दुःखमथवा सुखम् ॥ न दुःखं न सुखं तद्वद्धेतुर्मोक्षस्य साधने । मोक्षोपाये तु युक्तस्य स्याद् दुःखमथवा सुखम् ॥ ’ उक्ता असद्वेद्यास्रवहेतवः । सद्वेद्यस्य पुनः के इत्यत्रोच्यते — १०भूतव्रत्यनुकम्पादानसरागसंयमादियोगः क्षान्तिः शौचमिति सद्वेद्यस्य ॥ १२ ॥ तासु तासु गतिषु कर्मोदयवशाद्भवन्तीति भूतानि प्राणिन इत्यर्थः । व्रतान्यहिंसा- दीनि वक्ष्यन्ते, तद्वन्तो व्रतिनः । ते द्विविधाः । अगारम्प्रति निवृत्तौत्सुक्याः संयताः गृहिणश्च संयतासंयताः । अनुग्रहार्द्रीकृतचेतसः परपीडामात्मस्थामिव कुर्वतोऽनुकम्पन- मनुकम्पा । भूतेषु व्रतिषु चानुकम्पा भूतव्रत्यनुकम्पा । परानुग्रहबुद्ध्या स्वस्यातिसर्जनं ३३१दानम् । संसारकारणविनिवृत्तिं प्रत्यागुर्णोऽक्षीणाशयः सराग इत्युच्यते । प्राणीन्द्रियेष्व- शुभप्रवृत्तेर्विरतिः संयमः । सरागस्य संयमः सरागो वा संयमः सरागसंयमः । ‘आदि’- शब्देन संयमासंयमाकामनिर्जराबालतपोऽनुरोधः । योगः समाधिः सम्यक्प्रणिधानमित्यर्थः । भूतव्रत्यनुकम्पादानसरागसंयमादीनां योगो भूतव्रत्यनुकम्पादानसरागसंयमादियोगः । ०५क्रोधादिनिवृत्तिः क्षान्तिः । लोभप्रकाराणामुपरमः शौचम् । ‘इति’ शब्दः प्रकारार्थः । के पुनस्ते प्रकाराः ? अर्हत्पूजाकरणतत्परताबालवृद्धतपस्विवैयावृत्त्यादयः । ‘भूत’ ग्रहणात् सिद्धे ‘व्रति’ग्रहणं तद्विषयानुकम्पाप्राधान्यख्यापनार्थम् । त एते सद्वेद्यस्यास्रवा ज्ञेयाः । अथ तदनन्तरोद्देशभाजो मोहस्यास्रवहेतौ वक्तव्ये तद्भेदस्य दर्शनमोहस्यास्रवहेतु- प्रतिपादनार्थमिदमुच्यते — १०केवलिश्रुतसंघधर्मदेवावर्णवादो दर्शनमोहस्य ॥ १३ ॥ निरावरणज्ञानाः केवलिनः । तदुपदिष्टं बुद्ध्यतिशयर्द्धियुक्तगणधरानुस्मृतं ग्रन्थ- रचनं श्रुतं भवति । रत्नत्रयोपेतः श्रमणगणः संघः । अहिंसालक्षणस्तदागमदेशितो धर्मः । देवाश्चतुर्णिकाया उक्ताः । गुणवत्सु महत्सु असद्भूतदोषोद्भावनमवर्णवादः । एतेष्व- ३३२वर्णवादो दर्शनमोहस्यास्रवहेतुः । कवलाभ्यवहारजीविनः केवलिन इत्येवमादि वचनं केवलिनामवर्णवादः । मांसभक्षणाद्यनवद्याभिधानं श्रुतावर्णवादः । शूद्रत्वाशुचित्वाद्या- विर्भावनं संघावर्णवादः । जिनोपदिष्टो धर्मो निर्गुणस्तदुपसेविनो ये ते चासुरा भविष्य- न्तीत्येवमाद्यभिधानं धर्मावर्णवादः । सुरामांसोपसेवाद्याघोषणं देवावर्णवादः । ०५द्वितीयस्य मोहस्यास्रवभेदप्रतिपादनार्थमाह — कषायोदयात्तीव्रपरिणामश्चारित्रमोहस्य ॥ १४ ॥ कषाया उक्ताः । उदयो विपाकः । कषायाणामुदयात्तीव्रपरिणामश्चारित्रमोहस्या- स्रवो वेदितव्यः । तत्र स्वपरकषायोत्पादनं तपस्विजनवृत्तदूषणं संक्लिष्टलिङ्गव्रतधार- णादिः कषायवेदनीयस्यास्रवः । सद्धर्मोपहसनदीनातिहासकन्दर्पोपहासबहुविप्रलापोप- १०हासशीलतादिर्हास्यवेदनीयस्य । विचित्रक्रीडनपरताव्रतशीलारुच्यादिः रतिवेदनीयस्य । परारतिप्रादुर्भावनरतिविनाशनपापशीलसंसर्गादिः अरतिवेदनीयस्य । स्वशोकोत्पादनपर- ३३३शोकप्लुताभिनन्दनादिः शोकवेदनीयस्य । स्वभयपरिणामपरभयोत्पादनादिर्भयवे- दनीस्य । कुशलक्रियाचारजुगुप्सापरिवादशीलत्वादिर्जुगुप्सावेदनीयस्य । अलीकाभिधा- यितातिसन्धानपरत्वपररन्ध्रप्रेक्षित्वप्रवृद्धरागादिः स्त्रीवेदनीयस्य । स्तोकक्रोधानु- त्सुकत्वस्वदारसन्तोषादिः पुंṃवेदनीयस्य । प्रचुरकषायगुह्येन्द्रियव्यपरोपणपराङ्गनावस्क- ०५न्दादिर्नपुंसकवेदनीयस्य । निर्दिष्टो मोहनीयस्यास्रवभेदः । इदानीं तदनन्तरनिर्दिष्टस्यायुषः आस्रवहेतौ वक्तव्ये आद्यस्य नियतकालपरिपाकस्यायुषः कारणप्रदर्शनार्थमिदमुच्यते — बह्वारम्भपरिग्रहत्वं नारकस्यायुषः ॥ १५ ॥ आरम्भः प्राणिपीडाहेतुर्व्यापारः । ममेदंबुद्धिलक्षणः परिग्रहः । आरम्भाश्च परि- १०ग्रहाश्च आरम्भपरिग्रहाः । बहव आरम्भपरिग्रहा यस्य स बह्वारम्भपरिग्रहः । तस्य भावो बह वारम्भपरिग्रहत्वम् । हिंसादिक्रूरकर्माजस्रप्रवर्तनपरस्वहरणविषयातिगृद्धि- कृष्णलेश्याभिजातरौद्रध्यानमरणकालतादिलक्षणो नारकस्यायुष आस्रवो भवति । आह, उक्तो नारकस्यायुष आस्रवः । तैर्यग्योनस्येदानीं वक्तव्य इत्यत्रोच्यते — ३३४माया तैर्यग्योनस्य ॥ १६ ॥ चारित्रमोहकर्मविशेषस्योदयादाविर्भूत आत्मनः कुटिलभावोमाया निकृतिः तैर्यग्यो- नस्यायुष आस्रवो वेदितव्यः । तत्प्रपञ्चो मिथ्यात्वोपेतधर्मदेशना निःशीलतातिसन्धान- प्रियता नीलकपोतलेश्यार्तध्यानमरणकालतादिः । ०५आह, व्याख्यातस्तैर्यग्योनस्यायुष आस्रवः । इदानीं मानुषस्यायुषः को हेतुरित्य- त्रोच्यते — अल्पारम्भपरिग्रहत्वं मानुषस्य ॥ १७ ॥ नारकायुरास्रवो व्याख्यातः । तद्विपरीतो मानुषस्यायुष इति संक्षेपः । तद्व्यासः — विनीतस्वभावः प्रकृतिभद्रता प्रगुणव्यवहारता तनुकषायत्वं मरणकालासंक्लेशतादिः । १०किमेतावानेव मानुषस्यायुष आस्रव इत्यत्रोच्यते — स्वभावमार्दवं च ॥ १८ ॥ भृदोर्भावो मार्दवम् । स्वभावेन मार्दवं स्वभावमार्दवम् । उपदेशानपेक्षमित्यर्थः । एतदपि मानुषस्यायुष आस्रवः । ३३५पृथग्योगकरणं किमर्थम् ? उत्तरार्थम्, देवायुष आस्रवोऽयमपि यथा स्यात् । किमेतदेव द्वितयं मानुषस्यास्रवः ? न; इत्युच्यते — निश्शीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥ ‘च’शब्दोऽधिकृतसमुच्चयार्थः । अल्पारम्भपरिग्रहत्वञ्च निःशीलव्रतत्वञ्च । ०५शीलानि च व्रतानि च शीलव्रतानि तानि वक्ष्यन्ते । निष्क्रान्तः शीलव्रतेभ्यो निःशीलव्रतः । तस्य भावो निःशीलव्रतत्वम् । ‘सर्वेषां’ ग्रहणं सकलायुरास्रवप्रतिपत्त्यर्थम् । किं देवायुषोऽ- पि भवति ? सत्यम्, भवति भोगभूमिजापेक्षया । अथ चतुर्थस्यायुषः क आस्रव इत्यत्रोच्यते — सरागसंयमसंयमासंयमाकामनिर्जराबालतपांसि दैवस्य ॥ २० ॥ १०सरागसंयमः संयमासंयमश्च व्याख्यातौ । अकामनिर्जरा अकामश्चारकनिरोध- बन्धनबद्धेषु क्षुत्तृष्णानिरोधब्रह्मचर्यभूशय्यामलधारणपरितापादिः । अकामेन निर्जरा ३३६अकामनिर्जरा । बालतपो मिथ्यादर्शनोपेतमनुपायकायक्लेशप्रचुरं निकृतिबहुलव्रतधार- णम् । तान्येतानि दैवस्यायुष आस्रवहेतवो वेदितव्याः । किमेतावानेव दैवस्यायुष आस्रवः ? नेत्याह — सम्यक्त्वं च ॥ २१ ॥ ०५किम् ? दैवस्यायुष आस्रव इत्यनुवर्तते । अविशेषाभिधानेऽपि सौधर्मादिविशेषगतिः । कुतः ? पृथक्करणात् । यद्येवम्, पूर्वसूत्रे उक्त आस्रवविधिरविशेषेण प्रसक्तः तेन सरागसंय- मसंयमासंयमावपि भवनवास्याद्यायुष आस्रवौ प्राप्नुतः ? नैष दोषः; सम्यक्त्वाभावे सति तद्व्यपदेशाभावात्तदुभयमप्यत्रान्तर्भवति । आयुषोऽनन्तरमुद्दिष्टस्य नाम्न आस्रवविधौ वक्तव्ये, तत्राऽशुभनाम्न आस्रवप्रति- १०पत्त्यर्थमाह — योगवक्रता विसंवादनं चाशुभस्य नाम्नः ॥ २२ ॥ ३३७योगस्त्रिप्रकारो व्याख्यातः । तस्य वक्रता कौटिल्यम् । विसंवादनमन्यथाप्रवर्तनम् । ननु च नार्थभेदः । योगवक्रतैवान्यथाप्रवर्तनम् ? सत्यमेवमेतत् — स्वगता योगवक्रतेत्यु- च्यते । परगतं विसंवादनम् । सम्यगभ्युदयनिःश्रेयसार्थासु क्रियासु प्रवर्तमानमन्यं तद्वि- परीतकायवाङ्मनोभिर्विसंवादयति मैवं कार्षीरेवं कुर्विति । एतदुभयमशुभनामकर्मा- ०५स्रवकारणं वेदितव्यम् । ‘च’शब्देन मिथ्यादर्शनपैशुन्यास्थिरचित्तताकूटमानतुलाकरणपर- निन्दाऽऽत्मप्रशंसादिः समुच्चीयते । अथ शुभनामकर्मणः क आस्रव इत्यत्रोच्यते — तद्विपरीतं शुभस्य ॥ २३ ॥ कायवाङ्मनसामृजुत्वमविसंवादनं च तद्विपरीतम् । ‘च’शब्देन समुच्चितस्य च १०विपरीतं ग्राह्यम् । धर्मिकदर्शनसंभ्रमसद्भावोपनयनसंसरणभीरुताप्रमादवर्जनादिः । तदेतच्छुभनामकर्मास्रवकारणं वेदितव्यम् । आह किमेतावानेव शुभनाम्न आस्रवविधिरुत कश्चिदस्ति प्रतिविशेष इत्यत्रोच्यते — यदिदं तीर्थकरनामकर्मानन्तानुपमप्रभावमचिन्त्यविभूतिविशेषकारणं त्रैलोक्यविजयकरं ३३८तस्यास्रवविधिविशेषोऽस्तीति । यद्येवमुच्यतां के तस्यास्रवाः ? इत्यत इदमारभ्यते — दर्शनविशुद्धिर्विनयसम्पन्नता शीलव्रतेष्वनतीचारोऽभीक्ष्णज्ञानोपयोगसंवेगौ शविततस्त्यागतपसी साधुसमाधिर्वैयावृत्त्यकरणम् अर्हदाचार्य- बहुश्रुतप्रवचनभक्तिर् आवश्यकापरिहाणिर्मार्गप्रभावना प्रवचनवत्सलत्वमिति तीर्थकरत्वस्य ॥ २४ ॥ ०५जिनेन भगवताऽर्हत्परमेष्ठिनोपदिष्टे निर्ग्रन्थलक्षणे मोक्षवर्त्मनि रुचिर्दर्शनविशुद्धिः प्रागुक्तलक्षणा । तस्या अष्टावङ्गानि निश्शङ्कितत्वं निःकाङ्क्षिता विचिकित्साविरहता अमूढदृष्टिता उपबृंहणं स्थितीकरणं वात्सल्यं प्रभावनं चेति । सम्यग्ज्ञानादिषु मोक्ष- मार्गेषु तत्साधनेषु च गुर्वादिषु स्वयोग्यवृत्त्या सत्कार आदरो विनयस्तेन सम्पन्नता विनय- सम्पन्नता । अहिंसादिषु व्रतेषु तत्प्रतिपालनार्थेषु च क्रोधवर्जनादिषु शीलेषु निरवद्या १०वृत्तिः शीलव्रतेष्वनतीचारः । जीवादिपदार्थस्वतत्त्वविषये सम्यग्ज्ञाने नित्यं युक्तता अभीक्ष्ण- ज्ञानोंपयोगः । संसारदुःखान्नित्यभीरुता संवेगः । त्यागो दानम् । तत्त्रिविधम् — आहारदानम- भयदानं ज्ञानदानं चेति । तच्छक्तितो यथाविधि प्रयुज्यमानं त्याग इत्युच्यते । अनिगूहित- ३३९वीर्यस्य मार्गाविरोधि कायक्लेशस्तपः । यथा भाण्डागारे दहने समुत्थिते तत्प्रशमनमनु- ष्ठीयते बहूपकारत्वात्तथाऽनेकव्रतशीलसमृद्धस्य मुनेस्तपसः कुतश्चित्प्रत्यूहे समुपस्थिते तत्सन्धारणं समाधिः । गुणवद्दुःखोपनिपाते निरवद्येन विधिना तदपहरणं वैयावृत्त्यम् । अर्हदाचार्येषु बहुश्रुतेषु प्रवचने च भावविशुद्धियुक्तोऽनुरागो भक्तिः । षण्णामावश्यक- ०५क्रियाणां यथाकालं प्रवर्तनमावश्यकापरिहाणिः । ज्ञानतपोदानजिनपूजाविधिना धर्म- प्रकाशनं मार्गप्रभावना । वत्से धेनुवत्सधर्मणि स्नेहः प्रवचनवत्सलत्वम् । तान्येतानि षोडशकारणानि सम्यग्भाव्यमानानि व्यस्तानि समस्तानि च तीर्थकरनामकर्मास्रव- कारणानि प्रत्येतव्यानि । इदानीं नामास्रवाभिधानानन्तरं गोत्रास्रवे वक्तव्ये सति नीचैर्गोत्रस्यास्रवविधानार्थ- १०मिदमाह — परात्मनिन्दाप्रशंसे सदसद्गुणोच्छादनोद्भावने च नीचैर्गोत्रस्य ॥ २५ ॥ तथ्यस्य वाऽतथ्यस्य वा दोषस्योद्भावनं प्रति इच्छा निन्दा । गुणोद्भावनाभिप्रायः प्रशंसा । यथासंख्यमभिसम्बन्धः — परनिन्दा आत्मप्रशंसेति । प्रतिबन्धकहेतुसन्निधाने ३४०सति अनुद्भूतवृत्तिता अनाविर्भाव उच्छादनम् । प्रतिबन्धकाभावे प्रकाशवृत्तिता उद्भावनम् । अत्रापि च यथाक्रममभिसम्बन्धः — सद्गुणोच्छादनमसद्गुणोद्भावन- मिति । तान्येतानि नीचैर्गोत्रस्यास्रवकारणानि वेदितव्यानि । अथोच्चैर्गोत्रस्य क आस्रवविधिरत्रोच्यते — ०५तद्विपर्ययो नीचैर्वृत्त्यनुत्सेकौ चोत्तरस्य ॥ २६ ॥ ‘तत्’इत्यनेन प्रत्यासत्तेर्नीचैर्गोत्रस्यास्रवः प्रतिनिर्दिश्यते । अन्येन प्रकारेण वृत्तिर्विप- र्ययः । तस्य विपर्ययस्तद्विपर्ययः । कः पुनरसौ विपर्ययः ? आत्मनिन्दा, परप्रशंसा, सद्गुणो- द्भावनमसद्गुणोच्छादनं च । गुणोत्कृष्टेषु विनयेनावनतिर्नीचैर्वृत्तिः । विज्ञानादिभि- रुत्कृष्टस्यापि सतस्तत्कृतमदविरहोऽनहङ्कारताऽनुत्सेकः । तान्येतान्युत्तरस्योच्चैर्गोत्र- १०स्यास्रवकारणानि भवन्ति । अथ गोत्रानन्तरमुद्दिष्टस्यान्तरायस्य क आस्रव इत्युच्यते — विध्नकरणमन्तरायस्य ॥ २७ ॥ ३४१दानादीन्युक्तानि ‘दानलाभभोगोपभोगवीर्याणि च’ इत्यत्र । तेषां विहननं विघ्नः । विघ्नस्य करणं विघ्नकरणमन्तरायस्यास्रवविधिर्वेदितव्यः । अत्र चोद्यते — तत्प्रदोषनि- ह्नवादयो ज्ञानदर्शनावरणादीनां प्रतिनियता आस्रवहेतवो वर्णिताः, किं ते प्रतिनियत- ज्ञानावरणाद्यास्रवहेतव एव उताविशेषेणेति । यदि प्रतिनियतज्ञानावरणाद्यास्रवहेतव ०५एव, आगमविरोधः प्रसज्यते । आगमे हि सप्त कर्माणि आयुर्वर्ज्यानि प्रतिक्षणं युगपदास्र- वन्तीत्युक्तम् । तद्विरोधः स्यात् । अथाविशेषेण आस्रवहेतवो विशेषनिर्देशो न युक्त इति ? अत्रोच्यते — यद्यपि तत्प्रदोषादिभिर्ज्ञानावरणादीनां सर्वासां कर्मप्रकृतीनां प्रदेशबन्धनियमो नास्ति, तथाप्यनुभागनियमहेतुत्वेन तत्प्रदोषनि ह्नवादयो विभज्यन्ते । इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां षष्ठोऽध्यायः । ३४२अथ सप्तमोऽध्यायः आस्रवपदार्थो व्याख्यातः । तत्प्रारम्भकाले एवोक्तं ‘शुभः पुण्यस्य’इति तत्सामान्ये- नोक्तम् । तद्विशेषप्रतिपत्त्यर्थं कः पुनः शुभ इत्युक्ते इदमुच्यते — हिंसाऽनृतस्तेयाब्रह्मपरिग्रहेभ्यो विरतिर्व्रतम् ॥ १ ॥ ०५‘प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा’इत्येवमादिभिः सूत्रैर्हिंसादयो निर्देक्ष्यन्ते । तेभ्यो विरमणं विरतिर्व्रतमित्युच्यते । व्रतमभिसन्धिकृतो नियमः, इदं कर्तव्यमिदं न कर्तव्यमिति वा । ननु च हिंसादयः परिणामविशेषा अध्रुवाः, कथं तेषामपादानत्वमुच्यते ? बुद्ध्यपाये ध्रुवत्वविवक्षोपपत्तेः । यथा धर्माद्विरमतीत्यत्र य एष मनुष्यः सम्भिन्नबुद्धिः स पश्यति — दुष्करो धर्मः, फलं चास्य श्रद्धामात्रगम्यमिति स बुद्ध्या सम्प्राप्य निवर्तते । एवमिहापि य ३४३एष मनुष्यः प्रेक्षापूर्वकारी स पश्यति — य एते हिंसादयः परिणामास्ते पापहेतवः । पाप- कर्मणि प्रवर्तमानान् जनानिहैव राजानो दण्डयन्ति परत्र च दुःखमाप्नुवन्तीति स बुद्ध्या सम्प्राप्य निवर्तते । ततो बुद्ध्या ध्रुवत्वविवक्षोपपत्तेरपादानत्वं युक्तम् । ‘विरति’शब्दः प्रत्येकं परिसमाप्यते हिंसाया विरतिः अनृताद्विरतिरित्येवमादि । तत्र अहिंसाव्रतमादौ ०५क्रियते प्रधानत्वात् । सत्यादीनि हि तत्परिपालनार्थानि सस्यस्य वृतिपरिक्षेपवत् । सर्व- सावद्यनिवृत्तिलक्षणसामायिकापेक्षया एकं व्रतं, तदेव छेदोपस्थापनापेक्षया पञ्चविध- मिहोच्यते । ननु च अस्य व्रतस्यास्रवहेतुत्वमनुपपन्नं संवरहेतुष्वन्तर्भावात् । संवरहेतवो वक्ष्यन्ते गुप्तिसमित्यादयः । तत्र दशविधे धर्मे संयमे वा व्रतानामन्तर्भाव इति ? नैषदोषः; तत्र संवरो निवृत्तिलक्षणो वक्ष्यते । प्रवृत्तिश्चात्र दृश्यते; हिंसानृतादत्तादानादिपरित्यागे १०अहिंसासत्यवचनदत्तादानादिक्रियाप्रतीतेः गुप्त्यादिसंवरपरिकर्मत्वाच्च । व्रतेषु हि कृत- परिकर्मा साधुः सुखेन संवरं करोतीति ततः पृथक्त्वेनोपदेशः क्रियते । ननु च षष्ठमणु- ३४४व्रतमस्ति रात्रिभोजनविरमणं तदिहोपसंख्यातव्यम् ? न; भावनास्वन्तर्भावात् । अहिंसा- व्रतभावना हि वक्ष्यन्ते । तत्र आलोकितपानभोजनभावना कायति । तस्य पञ्चतयस्य व्रतस्य भेदप्रतिपत्त्यर्थमाह — देशसर्वतोऽणुमहती ॥ २ ॥ ०५देश एकदेशः । सर्वः सकलः । देशश्च सर्वश्च देशसर्वौ ताभ्यां देशसर्वतः । ‘विरतिः’ इत्यनुवर्तते । अणु च महच्चाणुमहती । व्रताभिसम्बन्धान्नपुंṃसकलिङ्गनिर्देशः । यथासंख्य- मभिसम्बध्यते । देशतो विरतिरणुव्रतं सर्वतो विरतिर्महाव्रतमिति द्विधा भिद्यते प्रत्येकं व्रतम् । एतानि व्रतानि भावितानि वरौषधवद्यत्नवते दुःखनिवृत्तिनिमित्तानि भवन्ति । किमर्थं कथं वा भावनं तेषामित्यत्रोच्यते — १०तत्स्थैर्यार्थं भावनाः पञ्च पञ्च ॥ ३ ॥ तेषां व्रतानां स्थिरीकरणायैकैकस्य व्रतस्य पञ्च पञ्च भावना वेदितव्याः । ३४५यद्येवमाद्यस्याहिंसाव्रतस्य भावनाः का इत्यत्रोच्यते — वाङ्मनोगुप्तीर्यादाननिक्षेपणसमित्यालोकितपानभोजनानि पञ्च ॥ ४ ॥ वाग्गुप्तिः मनोगुप्तिः ईर्यासमितिः आदाननिक्षेपणसमितिः आलोकितपानभोजन- मित्येताः पञ्चाहिंसाव्रतस्य भावनाः । ०५अथ द्वितीयस्य व्रतस्य का इत्यत्रोच्यते — क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचीभाषणं च पञ्च ॥ ५ ॥ क्रोधप्रत्याख्यानं लोभप्रत्याख्यानं भीरुत्वप्रत्याख्यानं हास्यप्रत्याख्यानम् अनुवीची- भाषणं चेत्येताः पञ्च भावनाः सत्यव्रतस्य ज्ञेयाः । अनुवीचीभाषणं निरवद्यानुभाषण- मित्यर्थः । १०इदानीं तृतीयस्य व्रतस्य का भावना इत्यत्राह — शून्यागारविमोचितावासपरोपरोधाकरणभैक्षशुद्धिसधर्माविसंवादाः पञ्च ॥ ६ ॥ शून्यागारेषु गिरिगुहातरुकोटरादिष्वावासः । परकीयेषु च विमोचितेष्वावासः । परेषामुपरोधाऽकरणम् । आचारशास्त्रमार्गेण भैक्षशुद्धिः । ममेदं तवेदमिति सधर्मभिर- ३४६विसंवादः । इत्येताः पञ्चादत्तादानविरमणव्रतस्य भावनाः । अथेदानीं ब्रह्मचर्यव्रतस्य भावना वक्तव्या इत्यत्राह — स्त्रीरागकथाश्रवणतन्मनोहराङ्गनिरीक्षणपूर्वरतानुस्मरण- वृष्येष्टरसस्वशरीरसंस्कारत्यागाः पञ्च ॥ ७ ॥ ०५त्यागशब्दः प्रत्येकं परिसमाप्यते । स्त्रीरागकथाश्रवणत्यागः तन्मनोहराङ्गनिरी- क्षणत्यागः पूर्वरतानुस्मरणत्यागः वृष्येष्टरसत्यागः स्वशरीरसंस्कारत्यागश्चेति चतुर्थ- व्रतस्य भावनाः पञ्च विज्ञेयाः । अथ पञ्चमव्रतस्य भावनाः का इत्यत्रोच्यते — मनोज्ञामनोज्ञेन्द्रियविषयरागद्वेषवर्जनानि पञ्च ॥ ८ ॥ १०पञ्चानामिन्द्रियाणां स्पर्शनादीनामिष्टानिष्टेषु विषयेषू पनिपतितेषु स्पर्शादिषु राग- वर्जनानि पञ्च आकिञ्चन्यस्य व्रतस्य भावनाः प्रत्येतव्याः । किञ्चान्यद्यथाऽमीषां व्रतानां द्रढिमार्थं भावनाः प्रतीयन्ते तद्विपश्चिद्भिरिति भावनोपदेशः, तथा तदर्थं तद्विरोधिष्वपीत्याह — ३४७हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ९ ॥ अभ्युदयनिःश्रेयसार्थानां क्रियाणां विनाशकः प्रयोगोऽपायः । अवद्यं गर्ह्यम् । अपाय- श्चावद्यं चापायावद्ये तयोर्दर्शनमपायावद्यदर्शनं भावयितव्यम् । क्व ? इहामुत्र च । केषु ? हिंसादिषु । कथमिति चेदुच्यते — हिंसायां तावत्, हिंस्रो हि नित्योद्वेजनीयः सततानु- ०५बद्धवैरश्च इह च वधबन्धपरिक्लेशादीन् प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति हिंसाया व्युपरमः श्रेयान् । तथा अनृतवादी अश्रद्धेयो भवति इहैव च जिह्वाच्छे- दादीन् प्रतिलभते मिथ्याभ्याख्यानदुःखितेभ्यश्च बद्धवैरेभ्यो बहूनि व्यसनान्यवाप्नोति प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति अनृतवचनादुपरमः श्रेयान् । तथा स्तेनः परद्रव्या- हरणासक्तः सर्वस्योद्वेजनीयो भवति । इहैव चाभिघातवधबन्धहस्तपादकर्णनासोत्तरौष्ठ- १०च्छेदनभेदनसर्वस्वहरणादीन् प्रतिलभते प्रेत्य चाशुभां गतिं गर्हितश्च भवतीति स्तेयाद् व्युपरतिः श्रेयसी । तथा अब्रह्मचारी मदविभ्रमोद्भ्रान्तचित्तो वनगज इव वासिता- ३४८वञ्चितो विवशो वधबन्धनपरिक्लेशाननुभवति मोहाभिभूतत्वाच्च कार्याकार्यानभिज्ञो न किञ्चित्कुशलमाचरति पराङ्गनालिङ्गनसङ्गकृतरतिश्चेहैव वैरानुबन्धिनो लिङ्ग- च्छेदनवधबन्धसर्वस्वहरणादीनपायान् प्राप्नोति प्रेत्य चाशुभां गतिमश्नुते गर्हितश्च भवति अतो विरतिरात्महिता । तथा परिग्रहवान् शकुनिरिव गृहीतमांसखण्डोऽन्येषां ०५तदर्थिनां पतत्त्रिणामिहैव तस्करादीनामभिभवनीयो भवति तदर्जनरक्षणप्रक्षयकृतांश्च दोषान् बहूनवाप्नोति न चास्य तृप्तिर्भवति इन्धनैरिवाग्नेः लोभामिभूतत्वाच्च कार्याकार्या- नपेक्षो भवति प्रेत्य चाशुभां गतिमास्कन्दते लुब्धोऽयमिति गर्हितश्च भवतीति तद्वि- रमणं श्रेयः । एवं हिंसादिष्वपायावद्यदर्शनं भावनीयम् । हिंसादिषु भावनान्तरप्रतिपादनार्थमाह — १०दुःखमेव वा ॥ १० ॥ हिंसादयो दुःखमेवेति भावयितव्याः । कथं हिंसादयो दुःखम् ? दुःखकारणत्वात् । यथा ’अन्नं वै प्राणाः’ इति । कारणस्य कारणत्वाद्वा । यथा ’धनं प्राणाः’ इति । धनकारण- ३४९मन्नपानमन्नपानकारणाः प्राणा इति । तथा हिंसादयोऽसद्वेद्यकर्मकारणम् । असद्वेद्यकर्म च दुःखकारणमिति दुःखकारणे दुःखकारणकारणे वा दुःखोपचारः । तदेते दुःखमेवेति भावनं परात्मसाक्षिकमवगन्तव्यम् । ननु च तत्सर्वं न दुःखमेव; विषयरतिसुखसद्भावात् ? न तत्सुखम्; वेदनाप्रतीकारत्वात्कच्छूकण्डूयनवत् । ०५पुनरपि भावनान्तरमाह — मैत्रीप्रमोदकारुण्यमाध्यस्थानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥ ११ ॥ परेषां दुःखानुत्पत्त्यभिलाषो मैत्री । वदनप्रसादादिभिरभिव्यज्यमानान्तर्भवितरागः प्रमोदः । दीनानुग्रहभावः कारुण्यम् । रागद्वेषपूर्वकपक्षपाताभावो माध्यस्थम् । दुष्कर्म- विपाकवशान्नानायोनिषु सीदन्तीति सत्त्वा जीवाः । सम्यग्ज्ञानादिभिः प्रकृष्टा गुणाधिकाः । १०असद्वेद्योदयापादितक्लेशाः क्लिश्यमानाः । तत्त्वार्थश्रवणग्रहणाभ्यामसंपादितगुणा अवि- नेयाः । एतेषु सत्त्वादिषु यथासंख्यं मैत्र्यादीनि भावयितव्यानि । सर्वसत्त्वेषु मैत्री, ३५०गुणाधिकेषु प्रमोदः, क्लिश्यमानेषु कारुण्यम्, अविनेयेषु माध्यस्थमिति । एवं भावयतः पूर्णान्यहिंसादीनि व्रतानि भवन्ति । पुनरपि भावनान्तरमाह — जगत्कायस्वभावौ वा संवेगवैराग्यार्थम् ॥ १२ ॥ ०५जगत्स्वभावस्तावदनादिरनिधनो वेत्रासनझल्लरीमृदङ्गनिभः । अत्र जीवा अनादि- संसारेऽनन्तकालं नानायोनिषु दुःखं भोजं भोजं पर्यटन्ति । न चात्र किञ्चिन्नियतमस्ति । जलबुद्बुदोपमं जीवितम्, विद्युन्मेघादिविकारचपला भोगसम्पद इति । एवमादिजगत्स्व- भावचिन्तनात्संसारात्संवेगो भवति । कायस्वभावश्च अनित्यता दुःखहेतुत्वं निःसारता अशुचित्वमिति । एवमादिकायस्वभावचिन्तनाद्विषयरागनिवृत्तेर्वैराग्यमुपजायते । इति १०जगत्कायस्वभावौ भावयितव्यौ । अत्राह; उक्तं भवता हिंसादिनिवृत्तिर्व्रतमिति, तत्र न जानीमः के हिंसादयः क्रियाविशेषा इत्यत्रोच्यते । युगपद्वक्तुमशक्यत्वात्तल्लक्षणनिर्देशस्य क्रमप्रसङ्गे याऽसा- वादौ चोदिता सैव तावदुच्यते — ३५१प्रमत्तयोगात्प्राणव्यपरोपणं हिंसा ॥ १३ ॥ प्रमादः सकषायत्वं तद्वानात्मपरिणामः प्रमत्तः । प्रमत्तस्य योगः प्रमत्तयोगः । तस्मात्प्रमत्तयोगात् इन्द्रियादयो दशप्राणास्तेषां यथासंभवं व्यपरोपणं वियोगकरणं हिंसेत्यभिधीयते । सा प्राणिनो दुःखहेतुत्वादधर्महेतुः । ‘प्रमत्तयोगात्’इति विशेषणं ०५केवलं प्राणव्यपरोपणं नाधर्मायेति ज्ञापनार्थम् । उक्तं च — ’वियोजयति चासुभिर्न च वधेन संयुज्यते ॥ ’ इति ॥ उक्तं च — ’उच्चालिदम्हि पादे इरियासमिदस्स णिग्गमट्ठाणे । आवादे[धे]ज्ज कुलिंगो मरेज्ज तज्जोगमासेज्ज ॥ १०ण हि तस्स तण्णिमित्तो बंधो सुहुमो वि देसिदो समए । मुच्छापरिग्गहो त्ति य अज्झप्पपमाणदो भणिदो ॥ ’ ननु च प्राणव्यपरोपणाभावेऽपि प्रमत्तयोगमात्रादेव हिंसेष्यते । उक्तं च — ’मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा । पयदस्स णत्थि बंधो हिंसामित्तेण समिदस्स ॥ ’ ३५२नैष दोषः । अत्रापि प्राणव्यपरोपणमस्ति भावलक्षणम् । तथा चोक्तम् — ’स्वयमेवात्मनाऽऽत्मानं हिनस्त्यात्मा प्रमादवान् । पूर्वं प्राण्यन्तराणान्तु पश्चात्स्याद्वा न वा वधः ॥ ’ आह अभिहितलक्षणा हिंसा । तदनन्तरोद्दिष्टमनृतं किंलक्षणमित्यत्रोच्यते — ०५असदभिधानमनृतम् ॥ १४ ॥ सच्छब्दः प्रशंसावाची । न सदसदप्रशस्तमिति यावत् । असतोऽर्थस्याभिधानमसद- भिधानमनृतम् । ऋतं सत्यं, न ऋतमनृतम् । किं पुनरप्रशस्तम् ? प्राणिपीडाकरं यत्तद- प्रशस्तं विद्यमानार्थविषयं वा अविद्यमानार्थविषयं वा । उक्तं च प्रागेवाहिंसाव्रतपरि- पालनार्थमितरद्व्रतम् इति । तस्माद्धिंसाकरं वचोऽनृतमिति निश्चेयम् । १०अथानृतानन्तरमुद्दिष्टं यत्स्तेयं तस्य किं लक्षणमित्यत आह — अदत्तादानं स्तेयम् ॥ १५ ॥ आदानं ग्रहणमदत्तस्यादानमदत्तादानं स्तेयमित्युच्यते । यद्येवं कर्मनोकर्मग्रहणमपि ३५३स्तेयं प्राप्नोति; अन्येनादत्तत्वात् ? नैष दोष; दानादाने यत्र सम्भवतस्तत्रैव स्तेय- व्यवहारः । कुतः ? ‘अदत्त’ग्रहणसामर्थ्यात् । एवमपि भिक्षोर्ग्रामनगरादिषु भ्रमणकाले रथ्याद्वारादिप्रवेशाददत्तादानं प्राप्नोति ? नैष दोषः; सामान्येन मुक्तत्वात् । तथाहि — अयं भिक्षुः पिहितद्वारादिषु न प्रविशति अमुक्तत्वात् । अथवा ‘प्रमत्तयोगात्’इत्यनुवर्तते । ०५प्रमत्तयोगाददत्तादानं यत् तत्स्तेयमित्युच्यते । न च रथ्यादि प्रविशतः प्रमत्तयोगोऽस्ति । तेनैतदुक्तं भवति, यत्र संक्लेशपरिणामेन प्रवृत्तिस्तत्र स्तेयं भवति बाह्यवस्तुनो ग्रहणे चाग्रहणे च । अथ चतुर्थमब्रह्म किंलक्षणमित्यत्रोच्यते — मैथुनमब्रह्म ॥ १६ ॥ १०स्त्रीपुंṃसयोश्चारित्रमोहोदये सति रागपरिणामाविष्टयोः परस्परस्पर्शनं प्रति इच्छा मिथुनम् । मिथुनस्य कर्म मैथुनमित्युच्यते । न सर्वं कर्म । कुतः ? लोके शास्त्रे च तथा ३५४प्रसिद्धेः । लोके तावदागोपालादिप्रसिद्धं स्त्रीपुंṃसयोः रागपरिणामनिमित्तं चेष्टितं मैथुन- मिति । शास्त्रेऽपि ’अश्ववृषभयोर्मैथुनेच्छायाम्’ इत्येवमादिषु तदेव गृह्यते । अपि च ‘प्रमत्तयोगात्’इत्यनुवर्तते तेन स्त्रीपुंṃसमिथुनविषयं रतिसुखार्थं चेष्टितं मैथुनमिति गृह्यते, न सर्वम् । अहिंसादयो गुणा यस्मिन् परिपाल्यमाने बृंहन्ति वृद्धिमुपयान्ति तद् ब्रह्म । ०५न ब्रह्म अब्रह्म इति । किं तत् ? मैथुनम् । तत्र हिंसादयो दोषाः पुष्यन्ति । यस्मान्मैथुन- सेवनप्रवणः स्थास्नूंṃश्चरिष्णूनू प्राणिनो हिनस्ति मृषावादमाचष्टे अदत्तमादत्ते अचेतन- मितरं च परिग्रहं गृह् णाति । अथ पञ्चमस्य परिग्रहस्य किं लक्षणमित्यत आह — मूर्छा परिग्रहः ॥ १७ ॥ १०मूर्छेत्युच्यते । का मूर्छा ? बाह्यानां गोमहिषमणिमुक्ताफलादीनां चेतनाचेतनाना- माभ्यन्तराणां च रागादीनामुपधीनां संरक्षणार्जनसंस्कारादिलक्षणाव्यावृत्तिर्मूर्छा । ननु ३५५च लोके वातादिप्रकोपविशेषस्य मूर्छेति प्रसिद्धिरस्ति तद्ग्रहणं कस्मान्न भवति ? सत्यमेव- मेतत् । मूर्छिरयं मोहसामान्ये वर्तते । ’सामान्यचोदनाश्च विशेषेष्ववतिष्ठन्ते’ इत्युक्ते विशेषे व्यवस्थितः परिगृह्यते; परिग्रहप्रकरणात् । एवमपि बाह्यस्य परिग्रहत्वं न प्राप्नोति; आध्यात्मिकस्य संग्रहात् ? सत्यमेवमेतत्; प्रधानत्वादभ्यन्तर एव संगृहीतः । ०५असत्यपि बाह्ये ममेदमिति सङ्कल्पवान् सपरिग्रह एव भवति । अथ बाह्यः परिग्रहो न भवत्येव, भवति च मूर्छाकारणत्वात् यदि ममेदमिति संकल्पः परिग्रहः; सञ्ज्ञानाद्यपि परिग्रहः प्राप्नोति तदपि हि ममेदमिति सङ्कल्प्यते रागादिपरिणामवत् ? नैष दोषः; ‘प्रमत्तयोगात्’इत्यनुवर्तते । ततो ज्ञानदर्शनचारित्रवतोऽप्रमत्तस्य मोहाभावान्न मूर्छाऽस्तीति निष्परिग्रहत्वं सिद्धम् । किञ्च तेषां ज्ञानादीनामहेयत्वादात्मस्वभावत्वादपरि- १०ग्रहत्वम् । रागादयः पुनः कर्मोदयतन्त्रा इति अनात्मस्वभावत्वाद्धेयाः । ततस्तेषु सङ्कल्पः परिग्रह इति युज्यते । तन्मूलाः सर्वे दोषाः । ममेदमिति हि सति संकल्पे संरक्षणादयः ३५६संजायन्ते । तत्र च हिंसाऽवश्यम्भाविनी । तदर्थमनृतं जल्पति । चौर्यं वा आचरति । मैथुने च कर्मणि प्रयतते । तत्प्रभवा नरकादिषु दुःखप्रकाराः । एवमुक्तेन प्रकारेण हिंसादिदोषदर्शिनोऽहिंसादिगुणाहितचेतसः परमप्रयत्नस्याहिंसा- दीनि व्रतानि यस्य सन्ति सः — ०५निश्शल्यो व्रती ॥ १८ ॥ शृणाति हिनस्तीति शल्यम् । शरीरानुप्रवेशि काण्डादिप्रहरणं शल्यमिव शल्यं यथा तत् प्राणिनो बाधाकरं तथा शारीरमानसबाधाहेतुत्वात्कर्मोदयविकारः शल्यमित्यु- पचर्यते । तत् त्रिविधम् — मायाशल्यं निदानशल्यं मिथ्यादर्शनशल्यमिति । माया निकृति- र्वञ्चना । निदानं विषयभोगाकाङ्क्षा । मिथ्यादर्शनमतत्त्वश्रद्धानम् । एतस्मात्त्रि- १०विधाच्छल्यान्निष्क्रान्तो निश्शल्यो व्रती इत्युच्यते । अत्र चोद्यते — शल्याभावान्निःशल्यो व्रताभिसम्बन्धाद् व्रती, न निश्शल्यत्वाद्व्रती भवितुमर्हति । न हि देवदत्तो दण्डसम्बन्धा- च्छत्री भवतीति ? अत्रोच्यते — उभयविशेषणविशिष्टस्येष्टत्वात् । न हिंसाद्युपरति- ३५७मात्रव्रताभिसम्बन्धाद् व्रती भवत्यन्तरेण शल्याभावम् । सति शल्यापगमे व्रतसम्बन्धाद् व्रती विवक्षितो यथा बहुक्षीरघृतो गोमानिति व्यपदिश्यते । बहुक्षीरघृताभावात्सतीष्वपि गोषु न गोमांस्तथा सशल्यत्वात्सत्स्वपि व्रतेषु न व्रती । यस्तु निःशल्यः स व्रती । तस्य भेदप्रतिपत्त्यर्थमाह — ०५अगार्यनगारश्च ॥ १९ ॥ प्रतिश्रयार्थिभिः अङ्ग्यते इति अगारं वेश्म, तद्वानगारी । न विद्यते अगारमस्येत्यन- गारः । द्विविधो व्रती अगारी अनगारश्च । ननु चात्र विपर्ययोऽपि प्राप्नोति शून्या- गारदेवकुलाद्यावासस्य मुनेरगारित्वम् अनिवृत्तविषयतृष्णस्य कुतश्चित्कारणाद् गृहं विमुच्य वने वसतोऽनगारत्वञ्च प्रानोतीति ? नैष दोषः; भावागारस्य विवक्षितत्वात् । १०चारित्रमोहोदये सत्यगारसम्बन्धं प्रत्यनिवृत्तः परिणामो भावागारमित्युच्यते । स यस्यास्त्यसावगारी वने वसन्नपि । गृहे वसन्नपि तदभावादनगार इति च भवति । ननु चागारिणो व्रतित्वं न प्राप्नोति; असकलव्रतत्वात् ? नैष दोषः; नैगमादिनयापेक्षया ३५८अगारिणोऽपि व्रतित्वमुपपद्यते नगरावासवत् । यथा गृहे अपवरके वा वसन्नपि नगरावास इत्युच्येत तथा असकलव्रतोऽपि नैगमसंग्रहव्यवहारनयापेक्षया व्रतीति व्यपदिश्यते । अत्राह किं हिंसादीनामन्यतमस्माद्यः प्रतिनिवृत्तः स खल्वगारी व्रती ? नैवम् । किं तर्हि ? पञ्चतय्या अपि विरतेर्वैकल्येन विवक्षित इत्युच्यते — ०५अणुव्रतोऽगारी ॥ २० ॥ ‘अणु’शब्दोऽल्पवचनः । अणूनि व्रतान्यस्य अणुव्रतोऽगारीत्युच्यते । कथमस्य व्रताना- मणुत्वम् ? सर्वसावद्यनिवृत्त्यसम्भवात् । कुतस्तर्ह्यसौ निवृत्तः । त्रसप्राणिव्यपरोपणान्नि- वृत्तः अगारीत्याद्यमणुव्रतम् । स्नेहमोहादिवशाद् गृहविनाशे ग्रामविनाशे वा कारणमित्य- भिमतादसत्यवचनान्निवृत्तो गृहीति द्वितीयमणुव्रतम् । अन्यपीडाकरं पार्थिवभयादिवशाद- १०वश्यं परित्यक्तमपि यददत्तं ततः प्रतिनिवृत्तादरः श्रावक इति तृतीयमणुव्रतम् । उपात्ताया अनुपात्तायाश्च पराङ्गनायाः सङ्गान्निवृत्तरतिर्गृहीति चतुर्थमणुव्रतम् । धनधान्यक्षेत्रा- ३५९दीनामिच्छावशात् कृतपरिच्छेदो गृहीति पञ्चममणुव्रतम् । आह अपरित्यक्तागारस्य किमेतावानेव विशेष आहोस्विदस्ति कश्चिदन्योऽपीत्यत आह — दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपवासोपभोगपरिभोगपरिमाणातिथिसं- ०५विभागव्रतसम्पन्नश्च ॥ २१ ॥ ‘विरति’शब्दः प्रत्येकं परिसमाप्यते । दिग्विरतिः देशविरतिः अनर्थदण्डविरति- रिति एतानि त्रीणि गुणव्रतानि; ‘व्रत’ शब्दस्य प्रत्येकमभिसम्बन्धात् । तथा सामायिक- व्रतं प्रोषधोपवासव्रतं उपभोगपरिभोगपरिमाणव्रतं अतिथिसंविभागव्रतं एतानि चत्वारि शिक्षाव्रतानि । एतैर्व्रतैः सम्पन्नो गृही विरताविरत इत्युच्यते । तद्यथा — दिक्प्रा- १०च्यादिः तत्र प्रसिद्धैरभिज्ञानैरवधिं कृत्वा नियमनं दिग्विरतिव्रतम् । ततो बहिस्त्रसस्थावर- व्यपरोपणनिवृत्तेर्महाव्रतत्वमवसेयम् । तत्र लाभे सत्यपि परिणामस्य निवृत्तेर्लोभनिरासश्च कृतो भवति । ग्रामादीनामवधृतपरिमाणः प्रदेशो देशः । ततो बहिर्निंवृत्तिर्देशविरति- व्रतम् । पूर्ववद्बहिर्महाव्रतत्वं व्यवस्थाप्यम् । असत्युपकारे पापादानहेतुरनर्थदण्डः । ततो ३६०विरतिरनर्थदण्डविरतिः । अनर्थदण्डः पञ्चविधः — अपध्यानं पापोपदेशः प्रमादाचरितं हिंसाप्रदानं अशुभश्रुतिरिति । तत्र परेषां जयपराजयवधबन्धनाङ्गच्छेदपरस्वहर- णादि कथं स्यादिति मनसा चिन्तनमपध्यानम् । तिर्यक्क्लेशवाणिज्यप्राणिवधकारम्भा- दिषु पापसंयुक्तं वचनं पापोपदेशः । प्रयोजनमन्तरेण वृक्षादिच्छेदनभूमिकुट्टनसलिल- ०५सेचनाद्यवद्यकर्म प्रमादाचरितम् । विषकण्टकशस्त्राग्निरज्जुकशादण्डादिहिंसोपकरणप्रदानं हिंसाप्रदानम् । हिंसारागादिप्रवर्धनदुष्टकथाश्रवणशिक्षणव्यापृतिरशुभश्रुतिः । समेकीभावे वर्तते । तद्यथा सङ्गतं घृतं सङ्गतं तैलमित्युच्यते एकीभूतमिति गम्यते । एकत्वेन अयनं गमनं समयः, समय एव सामायिकं, समयः प्रयोजनमस्येति वा विगृह्य सामायिकम् । इयति देशे एतावति काले इत्यवधारिते सामायिके स्थितस्य महाव्रतत्वं १०पूर्ववद्वेदितव्यम् । कुतः ? अणुस्थूलकृतहिंसादिनिवृत्तेः । संयमप्रसङ्ग इति चेत् ? न; ३६१तद्धातिकर्मोदयसद्भावात् । महाव्रतत्वाभाव इति चेत् ? तन्न; उपचाराद् राजकुले सर्व- गतचैत्राभिधानवत् । प्रोषधशब्दः पर्वपर्यायवाची । शब्दादिग्रहणं प्रति निवृत्तौत्सुक्यानि पञ्चापीन्द्रि- याण्युपेत्य तस्मिन् वसन्तीत्युपवासः । चतुर्विधाहारपरित्याग इत्यर्थः । प्रोषधे उपवासः ०५प्रोषधोपवासः । स्वशरीरसंस्कारकारणस्नानगन्धमाल्याभरणादिविरहितः शुचाववकाशे साधुनिवासे चैत्यालये स्वप्रोषधोपवासगृहे वा धर्मकथाश्रवणश्रावणचिन्तनविहितान्तः — करणः सन्नुपवसेन्निरारम्भः श्रावकः । उपभोगोऽशनपानगन्धमाल्यादिः । परिभोग आच्छादनप्रावरणालङ्कारशयनासनगृह- यानवाहनादिः । तयोः परिमाणमुपभोगपरिभोगपरिमाणम् । मधु मांसं मद्यञ्च सदा १०परिहर्तव्यं त्रसघातान्निवृत्तचेतसा । केतक्यर्जुनपुष्पादीनि शृङ्गवेरमूलकादीनि बहुजन्तु- ३६२योनिस्थानान्यनन्तकायव्यपदेशार्हाणि परिहर्तव्यानि बहुघाताल्पफलत्वात् । यानवाहना- भरणादिष्वेतावदेवेष्टमतोऽन्यदनिष्टमित्यनिष्टान्निवर्तनं कर्तव्यं कालनियमेन यावज्जीवं वा यथाशक्ति । संयममविनाशयन्नततीत्यतिथिः । अथवा नास्य तिथिरस्तीत्यतिथिः अनियतकाला- ०५गमन इत्यर्थः । अतिथये संविभागोऽतिथिसंविभागः । स चतुर्विधः; भिक्षोपकरणौषध- प्रतिश्रयभेदात् । मोक्षार्थमभ्युद्यतायातिथये संयमपरायणाय शुद्धाय शुद्धचेतसा निरवद्या भिक्षा देया । धर्मोपकरणानि च सम्यग्दर्शनाद्युपबृंहणानि दातव्यानि । औषधमपि योग्यमुपयोजनीयम् । प्रतिश्रयश्च परमधर्मश्रद्धया प्रतिपादयितव्य इति । ‘च’शब्दो वक्ष्यमाणगृहस्थधर्मसमुच्चयार्थः । १०कः पुनरसौ ? — मारणान्तिकीं सल्लेखनां जोषिता ॥ २२ ॥ स्वपरिणामोपात्तस्यायुष इन्द्रियाणां बलानां च कारणवशात्संक्षयो मरणम् । ‘अन्त’ ग्रहणं तद्भवमरणप्रतिपत्त्यर्थम् । मरणमन्तो मरणान्तः । स प्रयोजनमस्येति मारणा- ३६३न्तिकी । सम्यक्कायकषायलेखना सल्लेखना । कायस्य बाह्यस्याभ्यन्तराणां च कषा- याणां तत्कारणहापनक्रमेण सम्यग्लेखना सल्लेखना । तां मारणान्तिकीं सल्लेखनां जोषिता सेविता गृहीत्यभिसम्बध्यते । ननु च विस्पष्टार्थं सेवितेत्येवं वक्तव्यम् ? न; अर्थ- विशेषोपपत्तेः । न केवलमिह सेवनं परिगृह्यते । किं तर्हि ? प्रीत्यर्थोऽपि । यस्मादसत्यां ०५प्रीतौ बलान्न सल्लेखना कार्यते । सत्यां हि प्रीतौ स्वयमेव करोति । स्यान्मतमात्मवधः प्राप्नोति; स्वाभिसन्धिपूर्वकायुरादिनिवृत्तेः ? नैष दोषः; अप्रमत्तत्वात् । ‘प्रमत्तयोगा- त्प्राणव्यपरोपणं हिंसा’इत्युक्तम् । न चास्य प्रमादयोगोऽस्ति । कुतः ? रागाद्यभावात् । रागद्वेषमोहाविष्टस्य हि विषशस्त्राद्युपकरणप्रयोगवशादात्मानं घ्नतः स्वघातो भवति । न सल्लेखनां प्रतिपन्नस्य रागादयः सन्ति ततो नात्मवधदोषः । उक्तं च — १०’रागादीणमणुप्पा अहिंसगत्तं ति देसिदं समये । तेसिं चे उप्पत्ती हिंसेति जिणेहि णिद्दिट्ठा ॥ ’ ३६४किञ्च मरणस्यानिष्टत्वाद्यथा वणिजो विविधपण्यदानादानसञ्चयपरस्य स्वगृहवि- नाशोऽनिष्टः । तद्विनाशकारणे च कुतश्चिदुपस्थिते यथाशक्ति परिहरति । दुष्परिहारे च पण्यविनाशो यथा न भवति तथा यतते । एवं गृहस्थोऽपि व्रतशीलपण्यसंचये प्रवर्तमानः तदाश्रयस्य न पातमभिवाञ्छति । तदुपप्लवकारणे चोपस्थिते स्वगुणाविरोधेन परि- ०५हरति । दुष्परिहारे च यथा स्वगुणविनाशो न भवति तथा प्रयतत इति कथमात्मवधो भवेत् । अत्राह, ‘निःशल्यो व्रती’ इत्युक्तं तत्र च तृतीयं शल्यं मिथ्यादर्शनम् । ततः सम्यग्दृष्टिना व्रतिना निःशल्येन भवितव्यमित्युक्तम् । तत्सम्यग्दर्शनं किं सापवादं निरपवादमिति ? उच्यते — कस्यचिन्मोहनीयावस्थाविशेषात्कदाचिदिमे भवन्त्यपवादाः — १०शङ्काकाङ्क्षाविचिकित्साऽन्यदृष्टिप्रशंसासंस्तवाः सम्यग्दृष्टेरतिचाराः ॥ २३ ॥ निःशङ्कितत्वादयो व्याख्याताः ‘दर्शनविशुद्धिः’इत्यत्र । तत्प्रतिपक्षभूताः शङ्कादयो वेदितव्याः । अथ प्रशंसासंस्तवयोः को विशेषः ? मनसा मिथ्यादृष्टेर्ज्ञानचारित्रगुणो- ३६५द्भावनं प्रशंसा, भूताभूतगुणोद्भाववचनं संस्तव इत्ययमनयोर्भेदः । ननु च सम्यग्दर्शनम- ष्टाङ्गमुक्तं तस्यातिचारैरप्यष्टभिर्भवितव्यम् ? नैष दोषः; व्रतशीलेषु पञ्च पञ्चाति- चारा इत्युत्तरत्र विवक्षुणाऽऽचार्येण प्रशंसासंस्तवयोरितरानतिचारानन्तर्भाव्य पञ्चैवाति- चारा उक्ताः । ०५आह, सम्यग्दृष्टेरतिचारा उक्ताः । किमेवं व्रतशीलेष्वपि भवन्तीति ? ओमित्यु- क्त्वा तदतिचारसंख्यानिर्देशार्थमाह — व्रतशीलेषु पञ्च पञ्च यथाक्रमम् ॥ २४ ॥ व्रतानि च शीलानि च व्रतशीलानि तेषु व्रतशीलेषु । शीलग्रहणमनर्थकम्; व्रतग्रहणेनैव सिद्धेः ? नानर्थकम्; विशेषज्ञापनार्थं व्रतपरिरक्षणार्थं शीलमिति दिग्विरत्यादीनीह १०‘शील’ग्रहणेन गृह्यन्ते । अगार्यधिकारादगारिणो व्रतशीलेषु पञ्च पञ्चातिचारा वक्ष्यमाणा यथाक्रमं वेदित- व्याः । तद्यथा — आद्यस्य तावदहिंसाव्रतस्य — ३६६बन्धवधच्छेदातिभारारोपणान्नपाननिरोधाः ॥ २५ ॥ अभिमतदेशगतिनिरोधहेतुर्बन्धः । दण्डकशावेत्रादिभिरभिघातः प्राणिनां वधः, न प्राणव्यपरोपणम्; ततः प्रागेवास्य विनिवृत्तत्वात् । कर्णनासिकादीनामवयवानामप- नयनं छेदः । न्याय्यभारादतिरिक्तवाहनमतिभारारोपणम् । गवादीनां क्षुत्पिपासाबाधा- ०५करणमन्नपाननिरोधः । एते पञ्चाहिंसाणुव्रतस्यातिचाराः । मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियान्यासापहारसाकारमन्त्रभेदाः ॥ २६ ॥ अभ्युदयनिःश्रेयसार्थेषु क्रियाविशेषेषु अन्यस्यान्यथा प्रवर्तनमतिसन्धापनं वा मिथ्यो- पदेशः । यत्स्त्रीपुंसाभ्यामेकान्तेऽनुष्ठितस्य क्रियाविशेषस्य प्रकाशनं तद्रहोभ्याख्यानं वेदितव्यम् । अन्येनानुक्तमननुष्ठितं यत्किंचित्परप्रयोगवशादेवं तेनोक्तमनुष्ठितमिति १०वञ्चनानिमित्तं लेखनं कूटलेखक्रिया । हिरण्यादेर्द्रव्यस्य निक्षेप्तुर्विस्मृतसंख्यस्याल्पसंख्येय- माददानस्यैवमित्यनुज्ञावचनं न्यासापहारः । अर्थप्रकरणाङ्गविकारभ्रूविक्षेपादिभिः परा- कूतमुपलभ्य तदाविष्करणमसूयादिनिमित्तं यत्तत्साकारमन्त्रभेद इति कथ्यते । त एते सत्याणुव्रतस्य पञ्चातिचारा बोद्धव्याः । ३६७स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहीनाधिकमानोन्मानप्रतिरूप- कव्यवहाराः ॥ २७ ॥ मुष्णन्तं स्वयमेव वा प्रयुङ्क्तेऽन्येन वा प्रयोजयति प्रयुक्तमनुमन्यते वा यतः स स्तेन- प्रयोगः । अप्रयुक्तेनाननुमतेन च चौरेणानीतस्य ग्रहणं तदाहृतादानम् । उचितन्या- ०५यादन्येन प्रकारेण दानग्रहणमतिक्रमः । विरुद्धं राज्यं विरुद्धराज्यं विरुद्धराज्येऽतिक्रमः विरुद्धराज्यातिक्रमः । तत्र ह्यल्पमूल्यलभ्यानि महार्घ्याणि द्रव्याणीति प्रयत्नः । प्रस्थादि मानम्, तुलाद्युन्मानम् । एतेन न्यूनेनान्यस्मै देयमधिकेनात्मनो ग्राह्यमित्येवमादिकूटप्रयोगो हीनाधिकमानोन्मानम् । कृत्रिमैर्हिरण्यादिभिर्वञ्चनापूर्वको व्यवहारः प्रतिरूपकव्यवहारः । त एते पञ्चादत्तादानाणुव्रतस्यातिचाराः । १०परविवाहकरणेत्वरिकापरिगृहीताऽपरिगृहीतागमनानङ्गक्रीडाकाम- तीव्राभिनिवेशाः ॥ २८ ॥ कन्यादानं विवाहः । परस्य विवाहः परविवाहः । परविवाहस्य करणं परविवाह- करणम् । परपुरुषानेति गच्छतीत्येवंशीला इत्वरी । कुत्सिता इत्वरी कुत्सायां क ३६८इत्वरिका । या एकपुरुषभर्तृका सा परिगृहीता । या गणिकात्वेन पुंश्चलीत्वेन वा पर- पुरुषगमनशीला अस्वामिका सा अपरिगृहीता । परिगृहीता चापरिगृहीता च परिगृहीता- परिगृहीते । इत्वरिके च ते परिगृहीतापरिगृहीते च इत्वरिकापरिगृहीताऽपरिगृहीते, तयोर्गमने इत्वरिकापरिगृहीतापरिगृहीतागमने । अङ्गं प्रजननं योनिश्च ततोऽन्यत्र क्रीडा ०५अनङ्गक्रीडा । कामस्य प्रवृद्धः परिणामः कामतीव्राभिनिवेशः । त एते पञ्च स्वदारसन्तोष- व्रतस्यातिचाराः । क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिक्रमाः ॥ २९ ॥ क्षेत्रं सस्याधिकरणम् । वास्तु अगारम् । हिरण्यं रूप्यादिव्यवहारतन्त्रम् । सुवर्णं प्रतीतम् । धनं गवादि । धान्यं व्रीह्यादि । दासीदासं भृत्यस्त्रीपुंसवर्गः । कुप्यं क्षौमका- १०र्पासकौशेयचन्दनादि । क्षेत्रं च वास्तु च क्षेत्रवास्तु, हिरण्यं च सुवर्णं च हिरण्यसुवर्णम्, धनं च धान्यं च धनधान्यम्, दासी च दासश्च दासीदासम् । क्षेत्रवास्तु च हिरण्यसुवर्णं च धनधान्यं च दासीदासं च कुप्यं च क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यानि । एतावानेव परिग्रहो मम नान्य इति परिच्छिन्नाणुप्रमाणात्क्षेत्रवास्त्वादिविषयादतिरेका अतिलोभवशात्प्रमाणातिक्रमा इति प्रत्याख्यायन्ते । त एते परिग्रहपरिमाणव्रतस्याति- १५चाराः । ३६९उक्ता व्रतानामतिचाराः शीलानामतिचारा वक्ष्यन्ते । तद्यथा — ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ॥ ३० ॥ परिमितस्य दिगवधेरतिलङ्घनमतिक्रमः । स समासतस्त्रिविधः — ऊर्ध्वातिक्रमः अधोऽतिक्रमस्तिर्यगतिक्रमश्चेति । तत्र पर्वताद्यारोहणादूर्ध्वातिक्रमः । कूपावतरणादेर- ०५धोऽतिक्रमः । बिलप्रवेशादेस्तिर्यगतिक्रमः । परिगृहीताया दिशो लोभावेशादाधिक्याभि- सन्धिः क्षेत्रवृद्धिः । स एषोऽतिक्रमः प्रमादान्मोहाद् व्यासङ्गाद्वा भवतीत्यवसेयः । अननु- स्मरणं स्मृत्यन्तराधानम् । त एते दिग्विरमणस्यातिचाराः । आनयनप्रेष्यप्रयोगशब्दरूपानुपातपुद्गलक्षेपाः ॥ ३१ ॥ आत्मना सङ्कल्पिते देशे स्थितस्य प्रयोजनवशाद्यत्किञ्चिदानयेत्याज्ञापनमानयनम् । १०एव कुर्विति नियोगः प्रेष्यप्रयोगः । व्यापारकरान्पुरुषान्प्रत्यभ्युत्कासिकादिकरणं शब्दानु- पातः । स्वविग्रहदर्शनं रूपानुपातः । लोष्टादिनिपातः पुद्गलक्षेपः । त एते देशविरमणस्य पञ्चातिचाराः । कन्दर्पकौत्कुच्यमौखर्यासमीक्ष्याधिकरणोपभोगपरिभोगानर्थक्यानि ॥ ३२ ॥ रागोद्रेकात्प्रहासमिश्रोऽशिष्टवाक्प्रयोगः कन्दर्पः । तदेवोभयं परत्र दुष्टकायकर्म- ३७०प्रयुक्तं कौत्कुच्यम् । धार्ष्ट्यप्रायं यत्किञ्चनानर्थकं बहुप्रलापित्वं मौखर्यम् । असमीक्ष्य प्रयोजनमाधिक्येन करणमसमीक्ष्याधिकरणम् । यावताऽर्थेनोपभोगपरिभोगौ सोऽर्थस्ततो ऽन्यस्याधिक्यमानर्थक्यम् । त एते पञ्चानर्थदण्डविरतेरतिचाराः । योगदुष्प्रणिधानानादरस्मृत्यनुपस्थानानि ॥ ३३ ॥ ०५योगो व्याख्यातस्त्रिविधः । तस्य दुष्टं प्रणिधानं योगदुष्प्रणिधानम् — कायदुष्प्रणि- धानं वाग्दुष्प्रणिधानं मनोदुष्प्रणिधानमिति । अनादरोऽनुत्साहः । अनैकाग्र्यं स्मृत्यनुप- स्थानम् । त एते पञ्च सामायिकस्यातिक्रमाः । अप्रत्यवेक्षिताप्रमार्जितोत्सर्गादानसंस्तरोपक्रमणानादरस्मृत्यनुपस्थानानि ॥ ३४ ॥ जन्तवः सन्ति न सन्ति वेति प्रत्यवेक्षणं चक्षुर्व्यापारः । मृदुनोपकरणेन यत्क्रियते प्रयो- १०जनं तत्प्रमार्जितम् । तदुभयं प्रतिषेधविशिष्टमुत्सर्गादिभिस्त्रिभिरभिसम्बध्यते — अप्रत्य- वेक्षिताप्रमार्जितोत्सर्ग इत्येवमादि । तत्र अप्रत्यवेक्षिताप्रमार्जितायां भूमौ मूत्रपुरीषोत्सर्गः अप्रत्यवेक्षिताप्रमार्जितोत्सर्गः । अप्रत्यवेक्षिताप्रमार्जितस्यार्हदाचार्यपूजोपकरणस्य गन्ध- ३७१माल्यधूपादेरात्मपरिधानाद्यर्थस्य च वस्त्रादेरादानमप्रत्यवेक्षिताप्रमार्जितादानम् । अप्रत्यवे- क्षिताप्रमार्जितस्य प्रावरणादेः संस्तरस्योपक्रमणं अप्रत्यवेक्षिताप्रमार्जितसंस्तरोपक्रम- णम् । क्षुदभ्यर्दितत्वादावश्यकेष्वनादरोऽनुत्साहः । स्मृत्यनुपस्थानं व्याख्यातम् । त एते पञ्च प्रोषधोपवासस्यातिचाराः । ०५सचित्तसम्बन्धसम्मिश्राभिषवदुष्पक्वाहाराः ॥ ३५ ॥ सह चित्तेन वर्तते इति सचित्तं चेतनावद् द्रव्यम् । तदुपश्लिष्टः सम्बन्धः । तद्व्यति- कीर्णः सम्मिश्रः । कथं पुनरस्य सचित्तादिषु प्रवृत्तिः ? प्रमादसम्मोहाभ्याम् । द्रवो वृष्यो वाभिषवः । असम्यक्पक्वो दुष्पक्वः । एतैराहारो विशेष्यते — सचित्ताहारः सम्बन्धा- हारः सम्मिश्राहारोऽभिषवाहारो दुष्पक्वाहार इति । त एते पञ्च भोगोपभोगपरिसंख्यान- १०स्यातिचाराः । सचित्तनिक्षेपापिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥ ३६ ॥ सचित्ते पद्मपत्रादौ निक्षेपः सचित्तनिक्षेपः । अपिधानमावरणम् । सचित्तेनैव सम्बध्यते ३७२सचित्तापिधानमिति । अन्यदातृदेयार्पणं परव्यपदेशः । प्रयच्छतोऽप्यादराभावोऽन्यदातृ- गुणासहनं वा मात्सर्यम् । अकाले भोजनं कालातिक्रमः । त एते पञ्चातिथिसंविभाग- शीलातिचाराः । जीवितमरणाशंसामित्रानुरागसुखानुबन्धनिदानानि ॥ ३७ ॥ ०५आशंसनमाशंसा आकाङ्क्षणमित्यर्थः । जीवितं च मरणं च जीवितमरणम्, जीवित- मरणस्याशंसे जीवितमरणाशंसे । पूर्वसुहृत्सहपांसुक्रीडनाद्यनुस्मरणं मित्रानुरागः । अनु- भूतप्रीतिविशेषस्मृतिसमन्वाहारः सुखानुबन्धः । भोगाकाङ्क्षया नियतं दीयते चित्तं तस्मिंस्तेनेति व निदानम् । त एते पञ्च सल्लेखनाया अतिचाराः । अत्राह, उक्तं भवता तीर्थकरत्वकारणकर्मास्रवनिर्देशे ‘शक्तितस्त्यागतपसी’इति, १०पुनश्चोक्तं शीलविधान‘अतिथिसंविभाग’इति । तस्य दानस्य लक्षणमनिर्ज्ञातं तदुच्यता- मित्यत आह — अनुग्रहार्थं स्वस्यातिसर्गो दानम् ॥ ३८ ॥ स्वपरोपकारोऽनुग्रहः । स्वोपकारः पुण्यसंचयः, परोपकारः सम्यग्ज्ञानादिवृद्धिः । ३७३‘स्व’शब्दो धनपर्यायवचनः । अनुग्रहार्थं स्वस्यातिसर्गस्त्यागो दानं वेदितव्यम् । अत्राह — उक्तं दानं तत्किमविशिष्टफलमाहोस्विदस्ति कश्चित्प्रतिविशेष इत्यत आह — विधिद्रव्यदातृपात्रविशेषात्तद्विशेषः ॥ ३९ ॥ ०५प्रतिग्रहादिक्रमो विधिः । विशेषो गुणकृतः । तस्य प्रत्येकमभिसम्बन्धः क्रियते — विधिविशेषो द्रव्यविशषो दातृविशेषः पात्रविशेष इति । तत्र विधिविशेषः प्रतिग्रहादिष्वा- दरानादरकृतो भेदः । तपःस्वाध्यायपरिवृद्धिहेतुत्वादिर्द्रव्यविशेषः । अनसूयाविषादादि- र्दातृविशेषः । मोक्षकारणगुणसंयोगः पात्रविशेषः । ततश्च पुण्यफलविशेषः क्षित्यादि- विशेषाद् बीजफलविशेषवत् । १०इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां सप्तमोऽध्यायः समाप्तः । ३७४अथाष्टमोऽध्यायः व्याख्यात आस्रवपदार्थः । तदनन्तरोद्देशभाग्बन्धपदार्थ इदानीं व्याख्येयः । तस्मि- न्व्याख्येये सति पूर्वं बन्धहेतूपन्यासः क्रियते; तत्पूर्वकत्वाद् बन्धस्येति — मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः ॥ १ ॥ ०५मिथ्यादर्शनादय उक्ताः । क्व ? मिथ्यादर्शनं तावदुक्तम्, ‘तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्’ इत्यत्र तत्प्रतिपक्षभूतम्, आस्रवविधाने च क्रियासु व्याख्यातं मिथ्यादर्शनक्रियेति । विर- तिरुक्ता । तत्प्रतिपक्षभूता अविरतिर्ग्राह्या । आज्ञाव्यापादनक्रिया अनाकाङ्क्षाक्रियेत्यनयोः प्रमादस्यान्तर्भावः । स च प्रमादः कुशलेष्वनादरः । कषायाः क्रोधादयः अनन्तानुबन्ध्य- प्रत्याख्यानप्रत्याख्यानसंज्वलनविकल्पाः प्रोक्ताः । क्व ? ‘इन्द्रियकषाया-’इत्यत्रैव । १०योगाः कायादिविकल्पाः प्रोक्ताः । क्व ? ‘कायवाङ्मनःकर्म योगः’ इत्यत्र । ३७५मिथ्यादर्शनं द्विविधम्; नैसर्गिकं परोपदेशपूर्वकं च । तत्र परोपदेशमन्तरेण मिथ्यात्व- कर्मोदयवशाद् यदाविर्भवति तत्त्वार्थाश्रद्धानलक्षणं तन्नैसर्गिकम् । परोपदेशनिमित्तं चतु- र्विधम्; क्रियाक्रियावाद्यज्ञानिकवैनयिकविकल्पात् । अथवा पञ्चविधं मिथ्यादर्शनम् — एकान्तमिथ्यादर्शनं विपरीतमिथ्यादर्शनं संशयमिथ्यादर्शनं वैनयिकमिथ्यादर्शनं अज्ञा- ०५निकमिथ्यादर्शनं चेति । तत्र इदमेव इत्थमेवेति धर्मिधर्मयोरभिनिवेश एकान्तः । ’पुरुष एवेदं सवम्’इति वा नित्य एव वा अनित्य एवेति । सग्रन्थो निर्ग्रन्थः, केवली कवलाहारी, स्त्री सिध्यतीत्येवमादिः विपर्ययः । सम्यग्दशनज्ञानचारित्राणि किं मोक्षमार्गः स्याद्वा न वेत्यन्यतरपक्षापरिग्रहः संशयः । सर्वदेवतानां सर्वसमयानां च समदर्शनं वैनयिकम् । हिताहितपरीक्षाविरहोऽज्ञानिकत्वम् । उक्तञ्च — १०’असिदिसदं किरियाणं अक्किरियाणं तह य होइ चुलसीदी । सत्तट्ठमण्णाणीणं वेणैयाणं तु बत्तीसं ॥ ’ अविरतिर्द्वादशविधा; षट्कायषट्करणविषयभेदात् । षोडश कषाया नव नोकषाया- ३७६स्तेषामीषद्भेदो न भेद इति पञ्चविंशतिः कषायाः । चत्वारो मनोयोगाश्चत्वारो वाग्योगाः पञ्च काययोगा इति त्रयोदशविकल्पो योगः । आहारककाययोगाहारकमिश्रकाययोगयोः प्रमत्तसंयते सम्भवात्पञ्चदशापि भवन्ति । प्रमादोऽनेकविधः; शुद्ध्यष्टकोत्तमक्षमादि- विषयभेदात् । त एते पञ्च बन्धहेतवः समस्ता व्यस्ताश्च भवन्ति । तद्यथा — ०५मिथ्यादृष्टेः पञ्चापि समुदिता बन्धहेतवो भवन्ति । सासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृ- ष्ट्यसंयतसम्यग्दृष्टीनामविरत्यादयश्चत्वारः । संयतासंयतस्याविरतिर्विरतिमिश्रा प्रमाद- कषाययोगाश्च । प्रमत्तसंयतस्य प्रमादकषाययोगाः । अप्रमत्तादीनां चतुर्णां योगकषायौ । उपशान्तकषायक्षीणकषायसयोगकेवलिनामेक एव योगः । अयोगकेवलिनो न बन्धहेतुः । उक्ता बन्धहेतवः । इदानीं बन्धो वक्तव्य इत्यत आह — १०सकषायत्वाज्जीवः कर्मणो योग्यान्पुद्गलानादत्ते स बन्धः ॥ २ ॥ सह कषायेण वर्तत इति सकषायः । सकषायस्य भावः सकषायत्वम् । तस्मात्सकषाय- त्वादिति । पुनर्हेतुनिर्देशः जठराग्न्याशयानुरूपाहारग्रहणवत्तीव्रमन्दमध्यमकषायाशयानुरू- ३७७पस्थित्यनुभवविशेषप्रतिपत्त्यर्थम् । अमूर्तिरहस्य आत्मा कथं कर्मादत्त इति चोदितः सन् ‘जीवः’इत्याह । जीवनाज्जीवः प्राणधारणादायुःसम्बन्धान्नायुर्विरहादिति । ‘कर्मयोग्यान्’ इति लघुनिर्देशात्सिद्धे ‘कर्मणो योग्यान्’इति पृथग्विभक्त्युच्चारणं वाक्यान्तरज्ञापनाथम् । किं पुनस्तद्वाक्यान्तरम् ? कर्मणो जीवः सकषायो भवतीत्येकं वाक्यम् । एतदुक्तं भवति — ०५‘कर्मणः’इति हेतुनिर्देशः कर्मणो हेतोर्जीवः सकषायो भवति नाकर्मकस्य कषायलेपोऽस्ति । ततो जीवकर्मणोरनादिसम्बन्ध इत्युक्तं भवति । तेनामूर्तो जीवो मूर्तेन कर्मणा कथं बध्यते इति चोद्यमपाकृतं भवति । इतरथा हि बन्धस्यादिमत्त्वे आत्यन्तिकीं शुद्धिं दधतः सिद्ध- स्येव बन्धाभावः प्रसज्येत । द्वितीयं वाक्यं ‘कर्मणो योग्यान् पुद्गलानादत्ते’इति । अर्थवशाद्- विभक्तिपरिणाम इति पूर्वहेतुसम्बन्धं त्यक्त्वा षष्ठीसम्बन्धमुपैति ‘कर्मणो योग्यान्’इति । १०‘पुद्गल’वचनं कर्मणस्तादात्म्यख्यापनार्थम् । तेनात्मगुणोऽदृष्टो निराकृतो भवति; तस्य संसारहेतुत्वानुपपत्तेः । ‘आदत्ते’इति हेतुहेतुमद्भावख्यापनार्थम् । अतो मिथ्यादर्शनाद्या- ३७८वेशादार्द्रीकृतस्यात्मनः सर्वतो योगविशेषात्तेषां सूक्ष्मैकक्षेत्रावगाहिनामनन्तानन्तप्रदेशानां पुद्गलानां कर्मभावयोग्यानामविभागेनोपश्लेषो बन्ध इत्याख्यायते । यथा भाजनविशेषे प्रक्षिप्तानां विविधरसबीजपुष्पफलानां मदिराभावेन परिणामस्तथा पुद्गलानामप्यात्मनि स्थितानां योगकषायवशात्कर्मभावेन परिणामो वेदितव्यः । ‘सः’ वचनमन्यनिवृत्त्यर्थम् । ०५स एष बन्धो नान्योऽस्तीति । तेन गुणगुणिबन्धो निवर्तितो भवति । कर्मादिसाधनो ‘बन्ध’- शब्दो व्याख्येयः । आह किमयं बन्ध एकरूप एव, आहोस्वित्प्रकारा अप्यस्य सन्तीत्यत इदमुच्यते — प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ॥ ३ ॥ प्रकृतिः स्वभावः । निम्बस्य का प्रकृतिः ? तिक्तता । गुडस्य का प्रकृतिः ? मधुरता । १०तथा ज्ञानावरणस्य का प्रकृतिः ? अर्थानवगमः । दर्शनावरणस्य का प्रकृतिः ? अर्थानालो- ३७९कनम् । वेद्यस्य सदसल्लक्षणस्य सुखदुःखसंवेदनम् । दर्शनमोहस्य तत्त्वार्थाश्रद्धानम् । चारित्रमोहस्यासंयमः । आयुषो भवधारणम् । नाम्नो नारकादिनामकरणम् । गोत्रस्यो- च्चैर्नींचैःस्थानसंशब्दनम् । अन्तरायस्य दानादिविघ्नकरणम् । तदेवंलक्षणं कार्यं प्रक्रियते प्रभवत्यस्या इति प्रकृतिः । तत्स्वभावादप्रच्युतिः स्थितिः । यथा — अजागोमहिष्यादिक्षी- ०५राणां माधुर्यस्वभावादप्रच्युतिः स्थितिः । तथा ज्ञानावरणादीनामर्थावगमादिस्वभावाद- प्रच्युतिः स्थितिः । तद्रसविशेषोऽनुभवः । यथा — अजागोमहिष्यादिक्षीराणां तीव्रमन्दादि- भावेन रसविशेषः । तथा कर्मदुपुद्गलानां स्वगतसामर्थ्यविशेषोऽनुभवः । इयत्तावधारणं प्रदेशः । कर्मभावपरिणतपुद्गलस्कन्धानां परमाणुपरिच्छेदेनावधारणं प्रदेशः । ‘विधि’- शब्द प्रकारवचनः । त एते प्रकृत्यादयश्चत्वारस्तस्य बन्धस्य प्रकाराः । तत्र योगनिमित्तौ १०प्रकृतिप्रदेशौ । कषायनिमित्तौ स्थित्यनुभवौ । तत्प्रकर्षाप्रकर्षभेदात्तद्बन्धविचित्रभावः । तथा चोक्तम् — ’जोगा पयडि-पएसा ठिदिअणुभागा कसायदो कुणदि । अपरिणदुच्छिण्णेसु य बंधट्ठिदिकारणं णत्थि ॥ ’ ३८०तत्राद्यस्य प्रकृतिबन्धस्य भेदप्रदर्शनार्थमाह — आद्यो ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ॥ ४ ॥ आद्यः प्रकृतिबन्धो ज्ञानावरणाद्यष्टविकल्पो वेदितव्यः । आवृणोत्याव्रियतेऽनेनेति वा आवरणम् । तत्प्रत्येकमभिसम्बध्यते — ज्ञानावरणं दर्शनावरणमिति । वेदयति वेद्यत ०५इति वा वेदनीयम् । मोहयति मोह्यतेऽनेनेति वा मोहनीयम् । एत्यनेन नारकादिभव- ३८१मित्यायुः । नमयत्यात्मानं नम्यतेऽनेनेति वा नाम । उच्चैर्नीचैश्च गूयते शब्द्यत इति वा गोत्रम् । दातृदेयादीनामन्तरं मध्यमेतीत्यन्तरायः । एकेनात्मपरिणामेनादीयमानाः पुद्गला ज्ञानावरणाद्यनेकभेदं प्रतिपद्यन्ते सकृदुपभुक्तान्नपरिणामरसरुधिरादिवत् । आह, उक्तो मूलप्रकृतिबन्धोऽष्टविधः । इदानीमुत्तरप्रकृतिबन्धो वक्तव्य इत्यत ०५आह — पञ्चनवद्व्यष्टाविंशतिचतुर्द्विचत्वारिंशद्द्विपञ्चभेदा यथाक्रमम् ॥ ५ ॥ द्वितीयग्रहणमिह कर्तव्यं द्वितीय उत्तरप्रकृतिबन्ध एवंविकल्प इति ? न कर्तव्यम्; पारिशेष्यात्सिद्धेः । आद्योमूलप्रकृतिबन्धोऽष्टविकल्प उक्तः । ततः पारिशेष्यादयमुत्तर- प्रकृतिविकल्पविधिर्भवति । ‘भेद’शब्दः पञ्चादिभिर्यथाक्रममभिसम्बध्यते — पञ्चभेदं १०ज्ञानावरणीयं नवभेदं दर्शनावरणीयं द्विभेदं वेदनीयं अष्टाविंशतिभेदं मोहनीयं चतु- र्भेदमायुः द्विचत्वारिंशद्भेदं नाम द्विभेदं गोत्रं पञ्चभेदोऽन्तराय इति । यदि ज्ञानावरणं पञ्चभेदं तत्प्रतिपत्तिरुच्यतामित्यत आह — मतिश्रुतावधिमनःपर्ययकेवलानाम् ॥ ६ ॥ ३८२मत्यादीनि ज्ञानानि व्याख्यातानि । तेषामावृतेरावरणभेदो भवतीति पञ्चोत्तर- प्रकृतयो वेदितव्याः । अत्र चोद्यते — अभव्यस्य मनःपर्ययज्ञानशक्तिः केवलज्ञानशक्तिश्च स्याद्वा न वा ? यदि स्यात् तस्याभव्यत्वाभावः । अथ नास्ति तत्रावरणद्वयकल्पना व्यर्थेति ? उच्यते — आदेशवचनान्न दोषः । द्रव्यार्थादेशान्मनःपर्ययकेवलज्ञानशक्तिसम्भवः । पर्याया- ०५र्थादेशात्तच्छक्त्यभावः । यद्येवं भव्याभव्यविकल्पो नोपपद्यते; उभयत्र तच्छक्तिसद्भा- वात् ? न शक्तिभावाभावापेक्षया भव्याभव्यविकल्प इत्युच्यते । कुतस्तर्हि ? व्यक्ति- सद्भावासद्भावापेक्षया । सम्यग्दर्शनादिभिर्व्यक्तिर्यस्य भविष्यति स भव्यः । यस्य तु न भविष्यति सोऽभव्य इति । कनकेतरपाषाणवत् । ३८३आह, उक्तो ज्ञानावरणोत्तरप्रकृतिविकल्पः । इदानीं दर्शनावरणस्य वक्तव्य इत्यत आह — चक्षुरचक्षुरवधिकेवलानां निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानगृद्धयश्च ॥ ७ ॥ चक्षुरचक्षुरवधिकेवलानामिति दर्शनावरणापेक्षया भेदनिर्देशः — चक्षुर्दर्शनावरणम- ०५चक्षुर्दर्शनावरणमवधिदर्शनावरणं केवलदर्शनावरणमिति । मदखेदक्लमविनोदनार्थः स्वापो निद्रा । तस्या उपर्युपरि वृत्तिर्निद्रानिद्रा । या क्रियाऽऽत्मानं प्रचलयति सा प्रचला शोकश्रम- मदादिप्रभवा आसीनस्यापि नेत्रगात्रविक्रियासूचिका । सैव पुनःपुनरावर्तमाना प्रचला- प्रचला । स्वप्ने यया वीर्यविशेषाविर्भावः सा स्त्यानगृद्धिः । स्त्यायतेरनेकार्थत्वात्स्वप्नार्थ इह गृह्यते, गृद्धेरपि दीप्तिः । स्त्याने स्वप्ने गृद्ध्यति दीप्यते यदुदयादात्मा रौद्रं बहुकर्म करोति १०सा स्त्यानगृद्धिः । इह निद्रादिभिर्दर्शनावरणं सामानाधिकरण्येनाभिसम्बध्यते — निद्रा ३८४दर्शनावरणं निद्रानिद्रादर्शनावरणमित्यादि । तृतीयस्याः प्रकृतेरुत्तरप्रकृतिप्रतिपादनार्थमाह — सदसद्वेद्ये ॥ ८ ॥ यदुदयाद्देवादिगतिषु शारीरमानससुखप्राप्तिस्तत्सद्वेद्यम् । प्रशस्तं वेद्यं सद्वेद्यमिति । ०५यत्फलं दुःखमनेकविधं तदसद्वेद्यम् । अप्रशस्तं वेद्यमसद्वेद्यमिति । चतुर्थ्याः प्रकृतेरुत्तरप्रकृतिविकल्पनिदर्शनार्थमाह — दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्यास्त्रिद्विनवषोडशभेदाः सम्यक्त्व- मिथ्यात्वतदुभयान्यकषायकषायौ हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुन्न- पुंसकवेदा अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनविक- १०ल्पाश्चैकशः क्रोधमानमायालोभाः ॥ ९ ॥ ३८५दर्शनादयश्चत्वारः त्र्यादयोऽपि । तत्र यथासंख्येन सम्बन्धो भवति — दर्शनमोहनीयं त्रिभेदम्, चारित्रमोहनीयं द्विभेदम्, अकषायवेदनीयं नवविधम्, कषायवेदनीयं षोडशविध- मिति । तत्र दर्शनमोहनीयं त्रिभेदम् — सम्यक्त्वं मिथ्यात्वं तदुभयमिति । तद् बन्धं प्रत्येकं भूत्वा ०५सत्कर्मापेक्षया त्रिधा व्यवतिष्ठते । तत्र यस्योदयात्सर्वज्ञप्रणीतमार्गपराङ्मुखस्तत्त्वार्थश्रद्धा- ननिरुत्सुको हिताहितविचारासमर्थो मिथ्यादृष्टिर्भवति तन्मिथ्यात्वम् । तदेव सम्यक्त्वं शुभपरिणामनिरुद्धस्वरसं यदौदासीन्येनावस्थितमात्मनः श्रद्धानं न निरुणद्धि, तद्वेदयमानः पुरुषः सम्यग्दृष्टिरित्यभिधीयते । तदेव मिथ्यात्वं प्रक्षालनविशेषात्क्षीणाक्षीणमदशक्ति- कोद्रववत्सामिशुद्धस्वरसं तदुभयमित्याख्यायते सम्यङ्मिथ्यात्वमिति यावत् । यस्योदया- १०दात्मनोऽर्धशुद्धमदकोद्रवौदनोपयोगापादितमिश्रपरिणामवदुभयात्मको भवति परिणामः । चारित्रमोहनीयं द्विधा; अकषायकषायभेदात् । ईषदर्थे नञः प्रयोगादीषत्क- षायोऽकषाय इति । अकषायवेदनीयं नवविधम् । कुतः ? हास्यादिभेदात् । यस्योदया- द्धास्याविर्भावस्तद्धास्यम् । यदुदयाद्देशादिष्वौत्सुक्यं सा रतिः । अरतिस्तद्विपरीता । ३८६यद्विपाकाच्छोचनं स शोकः । यदुदयादुद्वेगस्तद्भयम् । यदुदयादात्मदोषसंवरणं परदोषा- विष्करणं सा जुगुप्सा । यदुदयात्स्त्रैणान्भावान्प्रतिपद्यते स स्त्रीवेदः । यस्योदयात्पौस्ना- न्भावानास्कन्दति स पुंवेदः । यदुदयान्नापुंसकान्भावानुपव्रजति स नपुंसकवेदः । कषायवेदनीयं षोडशविधम् । कुतः ? अनन्तानुबन्ध्यादिविकल्पात् । तद्यथा — ०५कषायाः क्रोधमानमायालोभाः । तेषां चतस्रोऽवस्थाः — अनन्तानुबन्धिनोऽप्रत्याख्याना- वरणाः प्रत्याख्यानावरणाः संज्वलनाश्चेति । अनन्तसंसारकारणत्वान्मिथ्यादर्शनमनन्तम् । तदनुबन्धिनोऽनन्तानुबन्धिनः क्रोधमानमायालोभाः । यदुदयाद्देशविरतिं संयमासंयमा- ख्यामल्पामपि कर्तुं न शक्नोति ते देशप्रत्याख्यानमावृण्वन्तोऽप्रत्याख्यानावरणाः क्रोध- मानमायालोभाः । यदुदयाद्विरतिं कृत्स्नां संयमाख्यां न शक्नोति कर्तुं ते कृत्स्नं प्रत्याख्यान- १०मावृण्वन्तः प्रत्याख्यानावरणाः क्रोधमानमायालोभाः । समेकीभावे वर्तते । संयमेन सहा- वस्थानादेकीभूय ज्वलन्ति संयमो वा ज्वलत्येषु सत्स्वपीति संज्वलनाः क्रोधमानमाया- लोभाः । त एते समुदिताः सन्तः षोडश कषाया भवन्ति । ३८८मोहनीयानन्तरोद्देशभाज आयुष उत्तरप्रकृतिनिर्ज्ञापनार्थमाह — नारकतैर्यग्योनमानुषदैवानि ॥ १० ॥ नारकादिषु भवसम्बन्धेनायुषो व्यपदेशः क्रियते । नरकेषु भवं नारकमायुः, तिर्यग्यो- निषु भवं तैर्यग्योनम्, मानुषेषु भवं मानुषम्, देवेषु भवं दैवमिति । नरकेषु तीव्रशीतोष्णवेदनेषु ०५यन्निमित्तं दीर्घजीवनं तन्नारकम् । एवं शेषेष्वपि । आयुश्चतुर्विधं व्याख्यातम् । तदनन्तरमुद्दिष्टं यन्नामकर्म तदुत्तरप्रकृतिनिर्णयार्थमाह — गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्ध- वर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येक- शरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तिसेतराणि तीर्थकरत्वं च ॥ ११ ॥ ३८९यदुदयादात्मा भवान्तरं गच्छति सा गतिः । सा चतुर्विधा — नरकगतिस्तिर्यग्गतिर्म- नुष्यगतिर्देवगतिश्चेति । यन्निमित्त आत्मनो नारको भावस्तन्नरकगतिनाम । एवं शेषेष्वपि योज्यम् । तासु नरकादिगतिष्वव्यभिचारिणा सादृश्येनैकीकृतोऽर्थात्मा जातिः । तन्निमित्तं जातिनाम । तत्पञ्चविधम् — एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम त्रीन्द्रियजातिनाम ०५चतुरिन्द्रियजातिनाम पञ्चेन्द्रियजातिनाम चेति । यदुदयात्मा एकेन्द्रिय इति शब्द्यते तदेकेन्द्रियजातिनाम । एवं शेषेष्वपि योज्यम् । यदुदयादात्मनः शरीरनिर्वृत्तिस्तच्छरीर- नाम । तत्पञ्चविधम् — औदारिकशरीरनाम वैक्रियिकशरीरनाम आहारकशरीरनाम तैजसशरीरनाम कार्मणशरीरनाम चेति । तेषां विशेषो व्याख्यातः । यदुदयादङ्गोपाङ्ग- विवेकस्तदङ्गोपाङ्गनाम । तत् त्रिविधम् — औदारिकशरीराङ्गोपाङ्गनाम वैक्रियिक- १०शरीराङ्गोपाङ्गनाम आहारकशरीराङ्गोपाङ्गनाम चेति । यन्निमित्तात्परिनिष्पत्तिस्त- न्निर्माणम् । तद् द्विविधं — स्थाननिर्माणं प्रमाणनिर्माणं चेति । तज्ज्जातिनामोदयापेक्षं चक्षुरादीनां स्थानं प्रमाणं च निर्वर्तयति । निर्मीयतेऽनेनेति निर्माणम् । शरीरनामकर्मोदय- ३९०वशादुपात्तानां पुद्गलानामन्योन्यप्रदेशसंश्लेषणं यतो भवति तद्बन्धननाम । यदुदयादौ- दारिकादिशरीराणां विवरविरहितान्योऽन्यप्रदेशानुप्रवेशेन एकत्वापादनं भवति तत्संघात- नाम । यदुदयादौदारिकादिशरीराकृतिनिर्वृत्तिर्भवति तत्संस्थाननाम । तत् षोढा विभज्यते — समचतुरस्रसंस्थाननाम न्यग्रोधपरिमण्डलसंस्थाननाम स्वातिसंस्थाननाम कुब्जसंस्थाननाम ०५वामनसंस्थाननाम हुण्डसंस्थाननाम चेति । यस्योदयादस्थिबन्धनविशेषो भवति तत्संहनन- नाम । तत् षड्विधम् — वज्रर्षभनाराचसंहनननाम वज्रनाराचसंहनननाम नाराचसंहनन- नाम अर्धनाराचसंहनननाम कीलिकासंहनननाम असम्प्राप्तासृपाटिकासंहनननाम चेति । यस्योदयात्स्पर्शप्रादुर्भावस्तत्स्पर्शनाम । तदष्टविधम् — कर्कशनाम मृदुनाम गुरुनाम लघु- नाम स्निग्धनाम रूक्षनाम शीतनाम उष्णनाम चेति । यन्निमित्तो रसविकल्पस्तद्रसनाम । १०तत्पञ्चविधम् — तिक्तनाम कटुकनाम कषायनाम आम्लनाम मधुरनाम चेति । यदुदयप्रभवो गन्धस्तद्गन्धनाम । तद्विविधम् — सुरभिगन्धनाम असुरभिगन्धनाम चेति । यद्धेतुको वर्ण- विभागस्तद्वर्णनाम । तत्पञ्चविधम् — कृष्णवर्णनाम नीलवर्णनाम रक्तवर्णनाम हारिद्रवर्ण- नाम शुक्लवर्णनाम चेति । पूर्वशरीराकाराविनाशो यस्योदयाद् भवति तदानुपूर्व्यनाम । ३९१तच्चतुर्विधम् — नरकगतिप्रायोग्यानुपूर्व्यनाम तिर्यग्गतिप्रायोग्यानुपूर्व्यनाम मनुष्यगति- प्रायोग्यानुपूर्व्यनाम देवगतिप्रायोग्यानुपूर्व्यनाम चेति । यस्योदयादयःपिण्डवद् गुरुत्वान्नाधः पतति न चार्कतूलवल्लघुत्वादूर्ध्वं गच्छति तदगुरुलघुनाम । यस्योदयात्स्वयंकृतोद्बन्धन- मरुप्रपतनादिनिमित्त उपघातो भवति तदुपघातनाम । यन्निमित्तः परशस्त्रादेर्व्याघात- ०५स्तत्परघातनाम । यदुदयान्निर्वृत्तमातपनं तदातपनाम । तदादित्ये वर्तते । यन्निमित्त- मुद्योतनं तदुद्योतनाम । तच्चन्द्रखद्योतादिषु वर्तते । यद्धेतुरुच्छ्वासस्तदुच्छ्वासनाम । विहाय आकाशम् । तत्र गतिनिर्वर्तकं तद्विहायोगतिनाम । तद्द्विविधम्; प्रशस्ताप्रशस्तभे- दात् । शरीरनामकर्मोदयान्निर्वर्त्यमानं शरीरमेकात्मोपभोगकारणं यतो भवति तत्प्रत्येक- शरीरनाम । बहूनामात्मनामुपभोगहेतुत्वेन साधारणं शरीरं यतो भवति तत्साधारणशरीर- १०नाम । यदुदयाद् द्वीन्द्रियादिषु जन्म तत्त्रसनाम । यन्निमित्त एकेन्द्रियेषु प्रादुर्भावस्तत्स्थावर- नाम । यदुदयादन्यप्रीतिप्रभवस्तत्सुभगनाम । यदुदयाद्रूपादिगुणोपेतोऽप्यप्रीतिकरस्तद् दुर्भगनाम । यन्निमित्तं मनोज्ञस्वरनिर्वर्तनं तत्सुस्वरनाम । तद्विपरीतं दुःस्वरनाम । ३९२यदुदयाद्रमणीयत्वं तच्छुभनाम । तद्विपरीतमशुभनाम । सूक्ष्मशरीरनिर्वर्तकं सूक्ष्मनाम । अन्यबाधाकरशरीरकारणं बादरनाम । यदुदयादाहारादिपर्याप्तिनिर्वृत्तिः तत्पर्याप्तिनाम । तत् षड्विधम् — आहारपर्याप्तिनाम शरीरपर्याप्तिनाम इन्द्रियपर्याप्तिनाम प्राणापान- पर्याप्तिनाम भाषापर्याप्तिनाम मनःपर्याप्तिनाम चेति । षड्विधपर्याप्त्यभावहेतुरपर्याप्ति- ०५नाम । स्थिरभावस्य निर्वर्तकं स्थिरनाम । तद्विपरीतमस्थिरनाम । प्रभोपेतशरीरकारण- मादेयनाम । निष्प्रभशरीरकारणमनादेयनाम । पुण्यगुणख्यापनकारणं यशःकीर्तिनाम । तत्प्रत्यनीकफलमयशःकीर्तिनाम । आर्हन्त्यकारणं तीर्थकरत्वनाम । ३९३उक्तो नामकर्मण उत्तरप्रकृतिभेदः । तदनन्तरोद्देशभाजो गोत्रस्य प्रकृतिभेदो व्याख्यायते — उच्चैर्नीचैश्च ॥ १२ ॥ ३९४गोत्रं द्विविधम् — उच्चैर्गोत्रं नीचैर्गोत्रमिति । यस्योदयाल्लोकपूजितेषु कुलेषु जन्म तदुच्चैर्गोत्रम् । यदुदयाद्गर्हितेषु कुलेषु जन्म तन्नीचैर्गोत्रम् । अष्टम्याः कर्मप्रकृतेरुत्तरप्रकृतिनिर्देशार्थमाह — दानलाभभोगोपभोगवीर्याणाम् ॥ १३ ॥ ०५अन्तरायापेक्षया भेदनिर्देशः क्रियते — दानस्यान्तरायो लाभस्यान्तराय इत्यादि । दानादिपरिणामव्याघातहेतुत्वात्तद्व्यपदेशः । यदुदयाद्दातुकामोऽपि न प्रयच्छति, लब्धु- कामोऽपि न लभते, भोक्तुमिच्छन्नपि न भुङ्क्ते — उपभोक्तुमभिवाञ्छन्नपि नोपभुङ्क्ते उत्सहितुकामोऽपि नोत्सहते त एते पञ्चान्तरायस्य भेदाः । ३९५व्याख्याताः प्रकृतिबन्धविकल्पाः । इदानीं स्थितिबन्धविकल्पो वक्तव्यः । सा स्थिति- र्द्विविंधा — उत्कृष्टा जघन्या च । तत्र यासां कर्मप्रकृतीनामुत्कृष्टा स्थितिः समाना तन्निर्दे- शार्थमुच्यते — आदितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपमकोटीकोट्यः परा स्थितिः ॥ १४ ॥ ०५मध्येऽन्ते वा तिसृणां ग्रहणं माभूदिति ‘आदितः’ इत्युच्यते । ‘अन्तरायस्य’इति वचनं व्यवहितग्रहणार्थम् । सागरोपममुक्तपरिमाणम् । कोटीनां कोट्यः कोटीकोट्यः । परा उत्कृष्टेत्यर्थः । एतदुक्तं भवति — ज्ञानावरणदर्शनावरणवेदनीयान्तरायाणामुत्कृष्टा स्थितिस्त्रिंशत्सागरोपमकोटीकोट्य इति । सा कस्य भवति ? मिथ्यादृष्टेः सञ्ज्ञिनः पञ्चेन्द्रियस्य पर्याप्तकस्य । अन्येषामागमात्सम्प्रत्ययः कर्तव्यः । ३९६मोहनीयस्योत्कृष्टस्थितिप्रतिपत्त्यर्थमाह — सप्ततिर्मोहनीयस्य ॥ १५ ॥ ‘सागरोपमकोटीकोट्यः परा स्थितिः’ इत्यनुवर्तते । इत्यमपि परा स्थितिर्मिथ्या- दृष्टेः संज्ञिनः पञ्चेन्द्रियस्य पर्याप्तकस्यावसेया । इतरेषां यथागममवगमः कर्तव्यः । ०५नामगोत्रयोरुत्कृष्टस्थितिप्रतिपत्त्यर्थमाह — विंशतिर्नामगोत्रयोः ॥ १६ ॥ ‘सागरोपमकोटीकोट्यः परा स्थितिः’इत्यनुवर्तते । इयमप्युत्कृष्टा स्थितिर्मिथ्या- दृष्टेः संज्ञिपञ्चेन्द्रियपर्याप्तकस्य । इतरेषां यथागममवबोद्धव्या । अथायुषः कोत्कृष्टा स्थितिरित्युच्यते — १०त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥ पुनः ‘सागरोपम’ग्रहणं कोटीकोटीनिवृत्त्यर्थम् । ‘परा स्थितिः’इत्यनुवर्तते । इयमपि पूर्वोक्तस्यैव । शेषाणामागमतोऽवसेया । ३९७उक्तोत्कृष्टा स्थितिः । इदानीं जघन्या स्थितिर्वक्तव्या । तत्र समानजघन्यस्थितीः पञ्च प्रकृतीरवस्थाप्य तिसृणां जघन्यस्थितिप्रतिपत्त्यर्थं सूत्रद्वयमुपन्यस्यते लघ्वर्थम् — अपरा द्वादश मुहूर्ता वेदनीयस्य ॥ १८ ॥ अपरा जघन्या इत्यर्थः । वेदनीयस्य द्वादश मुहूर्ताः । ०५नामगोत्रयोरष्टौ ॥ १९ ॥ ‘मुहूर्ता’ इत्यनुवर्तते । ‘अपरा स्थितिः’इति च । अवस्थापितप्रकृतिजघन्यस्थितिप्रतिपादनार्थमाह — शेषाणामन्तर्मुहूर्ता ॥ २० ॥ शेषाणां पञ्चानां प्रकृतीनामन्तर्मुहूर्ताऽपरा स्थितिः । ज्ञानदर्शनावरणान्तरायाणां १०जघन्या स्थितिः सूक्ष्मसाम्पराये, मोहनीयस्य अनिवृत्तिबादरसाम्पराये । आयुषः संख्येय- वर्षायुष्षु तिर्यक्षु मनुष्येषु च । ३९८आह, उभयी स्थितिरभिहिता । ज्ञानावरणादीनाम् अथानुभवः किंलक्षण इत्यत आह — विपाकोऽनुभवः ॥ २१ ॥ विशिष्टो नानाविधो वा पाको विपाकः । पूर्वोक्तकषायतीव्रमन्दादिभावास्रवविशेषा- द्विशिष्टः पाको विपाकः । अथवा द्रव्यक्षेत्रकालभवभावलक्षणनिमित्तभेदजनितवैश्वरूप्यो ०५नानाविधः पाको विपाकः । असावनुभव इत्याख्यायते । शुभपरिणामानां प्रकर्षभावाच्छुभ- प्रकृतीनां प्रकृष्टोऽनुभवः अशुभप्रकृतीनां निकृष्टः । अशुभपरिणामानां प्रकर्षभावादशुभ- प्रकृतीनां प्रकृष्टोऽनुभवः शुभप्रकृतीनां निकृष्टः । स एवं प्रत्ययवशादुपात्तोऽनुभवो द्विधा प्रवर्तते स्वमुखेन परमुखेन च । सर्वासां मूलप्रकृतीनां स्वमुखेनैवानुभवः । उत्तरप्रकृतीनां तुल्यजातीयानां परमुखेनापि भवति आयुर्दर्शनचारित्रमोहवर्जानाम् । न हि नरकायुर्मुखेन १०तिर्यगायुर्मनुष्यायुर्वा विपच्यते । नापि दर्शनमोहश्चारित्रमोहमुखेन, चारित्रमोहो वा दर्शनमोहमुखेन । आह, अभ्युपेमः प्रागुपचितनानाप्रकारकर्मविपाकोऽनुभवः । इदं तु न विजानीमः किमयं प्रसंख्यातोऽप्रसंख्यातः ? इत्यत्रोच्यते प्रसंख्यातोऽनुभूयत इति ब्रूमहे । कुतः ? यतः — ३९९स यथानाम ॥ २२ ॥ ज्ञानावरणस्य फलं ज्ञानाभावो दर्शनावरणस्यापि फलं दर्शनशक्त्युपरोध इत्येवमाद्य- न्वर्थसञ्ज्ञानिर्देशात्सर्वासां कर्मप्रकृतीनां सविकल्पानामनुभवसम्प्रत्ययो जायते । आह, यदि विपाकोऽनुभवः प्रतिज्ञायते, तत्कर्मानुभूतं सत् किमाभरणवदवतिष्ठते ०५आहोस्विन्निष्पीतसारं प्रच्यवते ? इत्यत्रोच्यते — ततश्च निर्जरा ॥ २३ ॥ पीडानुग्रहावात्मने प्रदायाभ्यवहृतौदनादिविकारवत्पूर्वस्थितिक्षयादवस्थानाभावात्क- र्मणो निवृत्तिर्निर्जरा । सा द्विप्रकारा — विपाकजा इतरा च । तत्र चतुर्गतावनेकजाति- विशेषावघूर्णिते संसारमहार्णवे चिरं परिभ्रमतः शुभाशुभस्य कर्मणः क्रमेण परिपाककाल- १०प्राप्तस्यानुभवोदयावलिस्रोतोऽनुप्रविष्टस्यारब्धफलस्य या निवृत्तिः सा विपाकजा निर्जरा । यत्कर्माप्राप्तविपाककालमौपक्रमिकक्रियाविशेषसामर्थ्यादनुदीर्णं बलादुदीर्यो- दयावलिं प्रवेश्य वेद्यते आम्रपनसादिपाकवत् सा अविपाकजा निर्जरा । ‘च’शब्दो निमित्ता- न्तरसमुच्चयार्थः । ‘तपसा निर्जरा’इति वक्ष्यते ततश्च भवति अन्यतश्चेति सूत्रार्थो योजितः । ४००किमर्थमिह निर्जरानिर्देशः क्रियते, संवरात्परा निर्देष्टव्या उद्देशवत् ? लघ्वर्थमिह वचनम् । तत्र हि पाठे ‘विपाकोऽनुभवः’ इति पुनरनुवादः कर्तव्यः स्यात् । ४०२आह अभिहितोऽनुभवबन्धः । इदानीं प्रदेशबन्धो वक्तव्यः । तस्मिंश्च वक्तव्ये सति इमे निर्देष्टव्याः — किंहेतवः कदा कुतः किंस्वभावाः कस्मिन् किंपरिमाणाश्चेति ? तदर्थ- मिदं क्रमेण परिगृहीतप्रश्नापेक्षभेदं सूत्रं प्रणीयते — नामप्रत्ययाः सर्वतो योगविशेषात्सूक्ष्मैकक्षेत्रावगाहस्थिताः ०५सर्वात्मप्रदेशेष्वनन्तानन्तप्रदेशाः ॥ २४ ॥ नाम्नः प्रत्यया नामप्रत्ययाः ‘नाम’इति सर्वाः कर्मप्रकृतयोऽभिधीयन्ते; ‘स यथानाम’ इति वचनात् । अनेन हेतुभाव उक्तः । सर्वेषु भवेषु सर्वतः ‘दृश्यन्ते अन्यतोऽपि’ इति तसि कृते सर्वतः । अनेन कालोपादानं इति कृतम् । एकैकस्य हि जीवस्यातिक्रान्ता अनन्ता भवा आगामिनः संख्येया असंख्येया अनन्तानन्ता वा भवन्तीति । योगविशेषान्निमित्तात्कर्म- १०भावेन पुद्गला आदीयन्त इति निमित्तविशेषनिर्देशः कृतो भवति । ‘सूक्ष्म’ आदिग्रहणं कर्मग्रहणयोग्यपुद्गलस्वभावानुवर्तनार्थम्, ग्रहणयोग्याः पुद्गलाः सूक्ष्मा न स्थूला इति । ‘एकक्षेत्रावगाह’वचनं क्षेत्रान्तरनिवृत्त्यर्थम् । ‘स्थिता’ इति वचनं क्रियान्तरनिवृत्त्यर्थम्, ४०३स्थिता न गच्छन्त इति । ‘सर्वात्मप्रदेशेषु’इति वचनमाधारनिर्देशार्थं नैकप्रदेशादिषु कर्म- प्रदेशा वर्तन्ते । क्व तर्हि ? ऊर्ध्वमधस्तिर्यक् च सर्वेष्वात्मप्रदेशेषु व्याप्य स्थिता इति । ‘अनन्तानन्तप्रदेश’ वचनं परिमाणान्तरव्यपोहार्थम्, न संख्येया न चासंख्येया नाप्यनन्ता इति । ते खलु पुद्गलस्कन्धा अभव्यानन्तगुणाः सिद्धानन्तभागप्रमितप्रदेशा घनाङ्गुलस्या- ०५संख्येयभागक्षेत्रावगाहिन एकद्वित्रिचतुःसंख्येयासंख्येयसमयस्थितिकाः पञ्चवर्णपञ्चरस- द्विगन्धचतुःस्पर्शस्वभावा अष्टविधकर्मप्रकृतियोग्या योगवशादात्मनाऽऽत्मसात्क्रियन्ते । इति प्रदेशबन्धः समासतो वेदितव्यः । आह, बन्धपदार्थानन्तरं पुण्यपापोपसंख्यानं चोदितं तद्बन्धेऽन्तर्भूतमिति प्रत्याख्यातम् । तत्रेदं वक्तव्यं कोऽत्र पुण्यबन्धः कः पापबन्ध इति । तत्र पुण्यप्रकृतिपरिगणनार्थमिदमार- १०भ्यते — ४०४सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥ शुभं प्रशस्तमिति यावत् । तदुत्तरैः प्रत्येकमभिसम्बध्यते शुभमायुः शुभं नाम शुभं गोत्रमिति । शुभायुस्त्रितयं तिर्यगायुर्मनुष्यायुर्देवायुरिति । शुभनाम सप्तत्रिंशद्विकल्पम् । तद्यथा — मनुष्यगतिर्देवगतिः पञ्चेन्द्रियजातिः पञ्च शरीराणि त्रीण्यङ्गोपाङ्गानि सम- ०५चतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तवर्णरसगन्धस्पर्शा मनुष्यदेवगत्यानुपूर्व्यद्वय- मगुरुलघुपरघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतयस्त्रसबादरपर्याप्तिप्रत्येकशरीरस्थिर शुभसुभगसुस्वरादेययशःकीर्तयो निर्माणं तीर्थकरनाम चेति । शुभमेकमुच्चैर्गोत्रं, सद्वेद्य- मिति । एता द्वाचत्वारिंशत्प्रकृतयः ‘पुण्य’सञ्ज्ञाः । अतोऽन्यत्पापम् ॥ २६ ॥ १०अस्मात्पुण्यसंज्ञिकर्मप्रकृतिसमहादन्यत्कर्म ‘पापम्’इत्युच्यते । तद् द्व्यशीतिविधम् । तद्यथा — ज्ञानावरणस्य प्रकृतयः पञ्च दर्शनावरणस्य नव मोहनीयस्य षड्विंशतिः पञ्चान्तरायस्य नरकगतितिर्यग्गती चतस्रो जातयः पञ्च संस्थानानि पञ्च संहननान्य- ४०५प्रशस्तवर्णरसगन्धस्पर्शा नरकगतितिर्यग्गत्यानुपूर्व्यद्वयमुपपघाताप्रशस्तविहायोगतिस्थावर- सूक्ष्मापर्याप्तिसाधारणशरीरास्थिराशुभदुर्भगदुःस्वरानादेयायशःकीर्तयश्चेति नामप्रकृत- यश्चतुस्त्रिंशत् । असद्वेद्यं नरकायुर्नीचैर्गोत्रमिति । एवं व्याख्यातो सप्रपञ्चः बन्धपदार्थः । अवधिमनःपर्ययकेवलज्ञानप्रत्यक्षप्रमाणगम्यस्तदुपदिष्टागमानुमेयः । ०५इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायामष्टमोऽध्यायः समाप्तः ॥ ८ ॥ ४०६अथ नवमोऽध्यायः बन्धपदार्थो निर्दिष्टः । इदानीं तदनन्तरोद्देशभाजः संवरस्य निर्देशः प्राप्तकाल इत्यत इदमाह — आस्रवनिरोधः संवरः ॥ १ ॥ ०५अभिनवकर्मादानहेतुरास्रवो व्याख्यातः । तस्य निरोधः संवर इत्युच्यते । स द्विविधो भावसंवरो द्रव्यसंवरश्चेति । तत्र संसारनिमित्तक्रियानिवृत्तिर्भावसंवरः । तन्निरोधे तत्पूर्वकर्मपुद्गलादानविच्छेदो द्रव्यसंवरः । इदं विचार्यते — कस्मिन् गुणस्थाने कस्य संवर इति । अत्र उच्यते-मिथ्यादर्शनकर्मो- दयवशीकृत आत्मा मिथ्यादृष्टिः । तत्र मिथ्यादर्शनप्राधान्येन यत्कर्म आस्रवति तन्निरोधा- १०च्छेषे सासादनसम्यग्दृष्ट्यादौ तत्संवरो भवति । किं पुनस्तत् ? मिथ्यात्वनपुं सकवेदनर- कायुर्नरकगत्येकद्वित्रिचतुरिन्द्रियजातिहुण्डसंस्थानासम्प्राप्तासृपाटिकासंहनननरकगतिप्रा- योग्यानुपूर्व्यातपस्थावरसूक्ष्मापर्याप्तकसाधारणशरीरसंज्ञकषोडशप्रकृतिलक्षणम् । ४०७असंयमस्त्रिविधः; अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानोदयविकल्पात् । तत्प्रत्ययस्य कर्मणस्तदभावे संवरोऽवसेयः । तद्यथा — निद्रानिद्राप्रचलाप्रचलास्त्यानगृद्ध्यनन्तानुबन्धि- क्रोधमानमायालोभस्त्रीवेदतिर्यगायुस्तिर्यग्गतिचतुःसंस्थानचतुःसंहननतिर्यग्गतिप्रायोग्यानु- पूर्व्योद्योताप्रशस्तविहायोगतिदुर्भगदुःस्वरानादेयनीचैर्गोत्रसंज्ञिकानां पञ्चविंशतिप्रकृतीना- ०५मनन्तानुबन्धिकषायोदयकृतासंयमप्रधानास्रवाणामेकेन्द्रियादयः सासादनसम्यग्दृष्ट्यन्ता बन्धकाः । तदभावे तासामुत्तरत्र संवरः । अप्रत्याख्यानावरणक्रोधमानमायालोभमनुष्यायुर्मनुष्य- गत्यौदारिकशरीरतदङ्गोपाङ्गवज्रर्षभनाराचसंहननमनुष्यगतिप्रायोग्यानुपूर्व्यनाम्नां दशानां प्रकृतीनामप्रत्याख्यानकषायोदयकृतासंयमहेतुकानामेकेन्द्रियादयोऽसंयतसम्यग्दृष्ट्यन्ताबन्ध- काः । तदभावादूर्ध्वं तासांसंवरः । सम्यङ् मिथ्यात्वगुणेनायुर्न बध्यते । प्रत्याख्यानावरणक्रोध- १०मानमायालोभानां चतसृणां प्रकृतीनां प्रत्याख्यानकषायोदयकारणासंयमास्रवाणामे- केन्द्रियप्रभृतयः संयतासंयतावसाना बन्धकाः । तदभावादुपरिष्टात्तासां संवरः । प्रमादोप- नीतस्य तदभावे निरोधः । प्रमादेनोपनीतस्य कर्मणः प्रमत्तसंयतादूर्ध्वं तदभावान्निरोधः ४०८प्रत्येतव्यः । किं पुनस्तत् ? असद्वेद्यारतिशोकास्थिराशुभायशःकीर्तिविकल्पम् । देवायु- र्बन्धारम्भस्य प्रमाद एव हेतुरप्रमादोऽपि तत्प्रत्यासन्नः । तदूर्ध्वं तस्य संवरः । कषाय एवा- स्रवो यस्य कर्मणो न प्रमादादिः तस्य तन्निरोधे निरासोऽवसेयः । स च कषायः प्रमादादिवि- रहितस्तीव्रमध्यमजघन्यभावेन त्रिषु गुणस्थानेषु व्यवस्थितः । तत्रापूर्वकरणस्यादौ संख्येय- ०५भागे द्वे कर्मप्रकृती निद्राप्रचले बध्येते । तत ऊर्ध्वं संख्येयभागे त्रिंशत् प्रकृतयो देवगतिपञ्चेन्द्रियजातिवैक्रियिकाहारकतैजसकार्मणशरीरसमचतुरस्रसंस्थानवैक्रियिकाहा- रकशरीराङ्गोपाङ्गवर्णगन्धरसस्पर्शदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छ्वासप्र- शस्तविहायोगतित्रसबादरपर्याप्तप्रत्येकशरीरस्थिरशुभसुभगसुस्वरादेयनिर्माणतीर्थकराख्या बध्यन्ते । तस्यैव चरमसमये चतस्रः प्रकृतयो हास्यरतिभयजुगुप्सासंज्ञा बन्धमुपयान्ति । १०ता एतास्तीव्रकषायास्रवास्तदभावान्निर्द्दिष्टाद् भागादूर्ध्वं संव्रियन्ते । अनिवृत्तिबादरसाम्परा- यस्यादिसमयादारभ्य संख्येयेषु भागेषु पुंवेदक्रोधसञ्ज्वलनौ बध्येते । तत ऊर्ध्वं शेषेषु संख्येयेषु भागेषु मानसंज्वलनमायासञ्ज्वलनौ बन्धमुपगच्छतः । तस्यैव चरमसमये लोभ- संज्वलनो बन्धमेति । ता एताः प्रकृतयो मध्यमकषायास्रवास्तदभावे निर्द्दिष्टस्य भागस्यो- ४०९परिष्टात्संवरमाप्नुवन्ति । पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां यशःकीर्तेरु- चैर्गोत्रस्य पञ्चानामन्तरायाणां च मन्दकषायास्रवाणां सूक्ष्मसाम्परायो बन्धकः । तदभावादुत्तरत्र तेषां संवरः । केवलेनैव योगेन सद्वेद्यस्योपशान्तकषायक्षीणकषायसयोगानां बन्धो भवति । तदभावादयोगकेवलिनस्तस्य संवरो भवति । ०५उक्तः संवरस्तद्धेतुप्रतिपादनार्थमाह — स गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयचारित्रैः ॥ २ ॥ यतः संसारकारणादात्मनो गोपनं भवति सा गुप्तिः । प्राणिपीडापरिहारार्थं सम्यगयनं समितिः । इष्टे स्थाने धत्ते इति धर्मः । शरीरादीनां स्वभावानुचिन्तनमनुप्रेक्षा । क्षुदादि- वेदनोत्पत्तौ कर्मनिर्जरार्थं सहनं परिषहः । परिषहस्य जयः परिषहजयः । चारित्रशब्द १०आदिसूत्रे व्याख्यातार्थः । एतेषां गुप्त्यादीनां संवरणक्रियायाः साधकतमत्वात् करण- निर्द्देशः । संवरोऽधिकृतोऽपि ‘स’ इति तच्छब्देन परामृश्यते गुप्त्यादिभिः साक्षात्सम्बन्ध- ४१०नार्थः । किं प्रयोजनम् ? अवधारणार्थम् । स एष संवरो गुप्त्यादिभिरेव नान्येनोपायेनेति । तेन तीर्थाभिषेकदीक्षाशीर्षोपहारदेवताराधनादयो निवर्तिता भवन्ति; रागद्वेषमोहोपा- त्तस्य कर्मणोऽन्यथा निवृत्त्यभावात् । संवरनिर्जराहेतुविशेषप्रतिपादनार्थमाह — ०५तपसा निर्जरा च ॥ ३ ॥ तपो धर्मेऽन्तर्भूतमपि पृथगुच्यते उभयसाधनत्वख्यापनार्थं संवरं प्रति प्राधान्यप्रति- पादनार्थं च । ननु च तपोऽभ्युदयाङ्गमिष्टं देवेन्द्रादिस्थानप्राप्तिहेतुत्वाभ्युपगमात्, तत् कथं निर्जराङ्गं स्यादिति ? नैष दोषः; एकस्यानेककार्यदर्शनादग्निवत् । यथाऽग्निरेकोऽपि विक्लेदनभस्माङ्गारादिप्रयोजन उपलभ्यते तथा तपोऽभ्युदयकर्मक्षयहेतुरित्यत्र को विरोधः । ४११संवरहेतुष्वादावुद्दिष्टाया गुप्तेः स्वरूपप्रतिपत्त्यर्थमाह — सम्यग्योगनिग्रहो गुप्तिः ॥ ४ ॥ योगो व्याख्यातः ‘कायवाङ्मनःकर्म योगः’ इत्यत्र । तस्य स्वेच्छाप्रवृत्तिनिवर्तनं निग्रहः । विषयसुखाभिलाषार्थप्रवृत्तिनिषेधार्थं सम्यग्विशेषणम् । तस्मात् सम्यग्विशेषण- ०५विशिष्टात् संक्लेशाप्रादुर्भावपरात्कायादियोगनिरोधे सति तन्निमित्तं कर्म नास्रवतीति सवरप्रसिद्धिरवगन्तव्या । सा त्रितयी कायगुप्तिर्वाग्गुप्तिर्मनोगुप्तिरिति । तत्राशक्तस्य मुनेर्निरवद्यप्रवृत्तिख्यापनार्थमाह — ईर्याभाषैषणादाननिक्षेपोत्सर्गाः समितयः ॥ ५ ॥ ‘सम्यग्’इत्यनुवर्तते । तेनेर्यादयो विशेष्यन्ते । सम्यगीर्या सम्यग्भाषा सम्यगेषणा १०सम्यगादाननिक्षेपौ सम्यगुत्सर्ग इति । ता एताः पञ्च समितयो विदितजीवस्थानादिवि- धेर्मुनेः प्राणिपीडापरिहाराभ्युपाया वेदितव्याः । तथा प्रवर्तमानस्यासंयमपरिणामनिमित्त- कर्मास्रवात्संवरो भवति । तृतीयस्य संवरहेतोर्धर्मस्य भेदप्रतिपत्त्यर्थमाह — ४१२उत्तमक्षमामार्दवार्जवशौचसत्यसंयमतपस्त्यागाकिञ्चन्यब्रह्मचंर्याणि धर्मः ॥ ६ ॥ किमर्थमिदमुच्यते ? आद्यं प्रवृत्तिनिग्रहार्थम्, तत्रासमर्थानां प्रवृत्त्युपायप्रदर्शनार्थं द्वितीयम् । इदं पुनर्दशविधधर्माख्यानं समितिषु प्रवर्तमानस्य प्रमादपरिहारार्थं वेदितव्यम् । शरीरस्थितिहेतुमार्गणार्थं परकुलान्युपगच्छतो भिक्षोर्दुष्टजनाक्रोशप्रहसनावज्ञाताडन- ०५शरीरव्यापादनादीनां सन्निधाने कालुष्यानुत्पत्तिः क्षमा । जात्यादिमदावेशादभिमाना- भावो मार्दवं माननिर्हरणम् । योगस्यावक्रता आर्जवम् । प्रकर्षप्राप्तलोभान्निवृत्तिः शौचम् । सत्सु प्रशस्तेषु जनेषु साधु वचनं सत्यमित्युच्यते । ननु चैतद् भाषासमितावन्तर्भवति ? नैष दोषः; समितौ प्रवर्तमानो मुनिः साधुष्वसाधुषु च भाषाव्यवहारं कुर्वन् हितं मितञ्च ब्रूयात् अन्यथा रागादनर्थदण्डदोषः स्यादिति वाक्समितिरित्यर्थः । इह पुनः सन्तः प्रव्रजिता- १०स्तद्भक्ता वा तेषु साधु सत्यं ज्ञानचारित्रशिक्षणादिषु बहवपि कर्तव्यमित्यनुज्ञायते धर्मोप- बृं? ? हणार्थम् । समितिषु वर्तमानस्य प्राणीन्द्रियपरिहारस्संयमः । कर्मक्षयार्थं तप्यत इति ४१३तपः । तदुत्तरत्र वक्ष्यमाणं द्वादशविकल्पमवसेयम् । संयतस्य योग्यं ज्ञानादिदानं त्यागः । उपात्तेष्वपि शरीरादिषु संस्कारापोहाय ममेदमित्यभिसन्धिनिवृत्तिराकिञ्चन्यम् । नास्य किञ्चनास्तीत्यकिञ्चनः । तस्य भावः कर्म वा आकिञ्चन्यम् । अनुभूताङ्गनास्मरणकथा- श्रवणस्त्रीसंसक्तशयनासनादिवर्जनाद् ब्रह्मचर्यं परिपूर्णमवतिष्ठते । स्वतन्त्रवृत्तिनिवृत्त्यर्थो ०५वा गुरुकुलवासो ब्रह्मचर्यम् । दृष्टप्रयोजनपरिवर्जनार्थमुत्तमविशेषणम् । तान्येवं भाव्यमा- नानि धर्मव्यपदेशभाञ्जि स्वगुणप्रतिपक्षदोषसद्भावनाप्रणिहितानि संवरकारणानि भवन्ति । आह, क्रोधाद्यनुत्पत्तिः क्षमादिविशेषप्रत्यनीकालम्बनादित्युक्तम्, तत्र कस्मात्क्षमा- दीनयमवलम्बते नान्यथा प्रवर्तत इत्युच्यते । यस्मात्तप्तायःपिण्डवत्क्षमादिपरिणतेनात्म- १०हितैषिणा कर्तव्याः — अनित्याशरणसंसारैकत्वान्यत्वाशुच्यास्रवसंवरनिर्जरालोकबोधिदुर्लभधर्मस्वा- ख्यातत्वानुचिन्तनमनुप्रेक्षाः ॥ ७ ॥ इमानि शरीरेन्द्रियविषयोपभोगद्रव्याणि समुदयरूपाणि जलबुद्बुद्वदनवस्थितस्व- ४१४भावानि गर्भादिष्ववस्थाविशेषेषु सदोपलभ्यमानसंयोगविपर्ययाणि, मोहादत्राज्ञो नित्यतां मन्यते । न किञ्चित्संसारे समुदितं ध्रुवमस्ति आत्मनो ज्ञानदर्शनोपयोगस्वभावादन्यदिति चिन्तनमनित्यतानुप्रेक्षा । एवं ह्यस्य भव्यस्य चिन्तयतस्तेष्वभिष्वङ्गाभावाद् भुक्तोज्झित- गन्धमाल्यादिष्विव वियोगकालेऽपि विनिपातो नोत्पद्यते । ०५यथा — मृगशावस्यैकान्ते बलवता क्षुधितेनामिषैषिणा व्याघ्रेणाभिभूतस्य न किञ्चि- च्छरणमस्ति, तथा जन्मजरामृत्युव्याधिप्रभृतिव्यसनमध्ये परिभ्रमतो जन्तोः शरणं न विद्यते । परिपुष्टमपि शरीरं भोजनं प्रति सहायीभवति न व्यसनोपनिपाते । यत्नेन संचिता अर्था अपि न भवान्तरमनुगच्छन्ति । संविभक्तसुखदुःखाः सुहृदोऽपि न मरणकाले परि- त्रायन्ते । बान्धवाः समुदिताश्च रुजा परीतं न परिपालयन्ति । अस्ति चेत्सुचरितो धर्मो १०व्यसनमहार्णवे तारणोपायो भवति । मृत्युना नीयमानस्य सहस्रनयनादयोऽपि न शरणम् । तस्माद् भवव्यसनसङ्कटे धर्म एव शरणं सुहृदर्थोऽप्यनपायी, नान्यकिञ्चिच्छरणमिति भावना अशरणानुप्रेक्षा । एवं ह्यस्याध्यवस्यतो नित्यमशरणोऽस्मीति भृशमुद्विग्नस्य सांसारिकेषु भावेषु ममत्वविगमो भवति । भगवदर्हत्सर्वज्ञप्रणीत एव मार्गे प्रयत्नो भवति । ४१५कर्मविपाकवशादात्मनो भवान्तरावाप्तिः संसारः । स पुरस्तात्पञ्चविंधपरिवर्तन- रूपेण व्याख्यातः । तस्मिन्ननेकयोनिकुलकोटिबहुशतसहस्रसंकटे संसारे परिभ्रमन् जीवः कर्मयन्त्रप्रेरितः पिता भूत्वा भ्राता पुत्रः पौत्रश्च भवति । माता भूत्वा भगिनी भार्या दुहिता च भवति । स्वामी भूत्वा दासो भवति । दासो भूत्वा स्वाम्यपि भवति । नट इव रङ्गे । ०५अथवा किं बहुना, स्वयमात्मनः पुत्रो भवतीत्येवमादि संसारस्वभावचिन्तनं संसारानुप्रेक्षा । एवं ह्यस्य भावयतः संसारदुःखभयादुद्विग्नस्य ततो निर्वेदो भवति । निर्विण्नश्च संसार- प्रहाणाय प्रयतते । जन्मजरामरणावृत्तिमहादुःखानुभवनं प्रति एक एवाहं न कश्चिन्मे स्वः परो वा विद्यते । एक एव जायेऽहम् । एक एव म्रिये । न मे कश्चित् स्वजनः परजनो वा व्याधि- १०जरामरणादीनि दुःखान्यपहरति । बन्धुमित्राणि स्मशानं नातिवर्तन्ते । धर्म एव मे सहायः सदा अनपायीति चिन्तनमेकत्वानुप्रेक्षा । एवं ह्यस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न भवति । परजनेषु च द्वेषानुबन्धो नोपजायते । ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटते । शरीरादन्यत्वचिन्तनमन्यत्वानुप्रेक्षा । तद्यथा — बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदा- ४१६दन्योऽहमैन्द्रियकं शरीरमतीन्द्रियोऽहमज्ञं शरीरं ज्ञोऽहमनित्यं शरीरं नित्योऽहमाद्यन्त- वच्छरीरमनाद्यन्तोऽहम् । बहूनि मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः । स एवाह- मन्यस्तेभ्य इत्येवं शरीरादप्यन्यत्वं मे किमङ्ग, पुनर्बाह्येभ्यः परिग्रहेभ्यः । इत्वेवं ह्यस्य मनः समादधानस्य शरीरादिषु स्पृहा नोत्पद्यते । ततस्तत्त्वज्ञानभावनापूर्वके वैराग्यप्रकर्षे ०५सति आत्यन्तिकस्य मोक्षसुखस्यावाप्तिर्भवति । शरीरमिदमत्यन्ताशुचियोनि शुक्रशोणिताशुचिसंवर्धितमवस्करवदशुचिभाजनं त्वङ् मात्रप्रच्छादितमतिपूतिरसनिष्यन्द्रिस्रोतोबिलमङ्गारवदात्मभावमाश्रितमप्याश्वेवापादय- ति । स्नानानुलेपनधूपप्रघर्षवासमाल्यादिभिरपि न शक्यमशुचित्वमपहर्तुमस्य । सम्य- ग्दर्शनादि पुनर्भाव्यमानं जीवस्यात्यन्तिकीं शुद्धिमाविर्भावयतीति तत्त्वतो भावनम- १०शुचित्वानुप्रेक्षा । एवं ह्यस्य संस्मरतः शरीरनिर्वेदो भवति । निर्विण्णश्च जन्मोदधितर- णाय चित्तं समाधत्ते । आस्रवसंवरनिर्जराः पूर्वोक्ता अपि इहोपन्यस्यन्ते तद्गतगुणदोषभावनार्थम् । तद्यथा- आस्रवा इहामुत्रापाययुक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियकषायाव्रतादयः । तत्रेन्द्रि- ४१७याणि तावत्स्पर्शनादीनि वनगजवायसपन्नगपतङ्गहरिणादीन् व्यसनार्णवमवगाहयन्ति तथा कषायादयोऽपीह वधबन्धापयशःपरिक्लेशादीन् जनयन्ति । अमुत्र च नानागतिषु बहुविध- दुःखप्रज्वलितासु परिभ्रमयन्तीत्येवमास्रवदोषानुचिन्तनमास्रवानुप्रेक्षा । एवं ह्यस्य चिन्त- यतः क्षमादिषु श्रेयस्त्वबुद्धिर्न प्रच्यवते । सर्व एते आस्रवदोषाः कूर्मवत्संवृतात्मनो न भवन्ति । ०५यथा महार्णवे नावो विवरपिधानेऽसति क्रमात्स्रुतजलाभिप्लवे सति तदाश्रयाणां विनाशोऽवश्यंभावी, छिद्रपिधाने च निरुपद्रवमभिलषितदेशान्तरप्रापणं, तथा कर्मागम- द्वारसंवरणे सति नास्ति श्रेयःप्रतिबन्धः इति संवरगुणानुचिन्तनं संवरानुपेक्षा । एवं ह्यस्य चिन्तयतः संवरे नित्योद्युक्तता भवति । ततश्च निःश्रेयसपदप्राप्तिरिति । निर्जरा वेदनाविपाक इत्युक्तम् । सा द्वेधा — अबुद्धिपूर्वा कुशलमूला चेति । तत्र १०नरकादिषु गतिषु कर्मफलविपाकजा अबुद्धिपूर्वा सा अकुशलानुबन्धा । परिषहजये कृते कुशलमूला सा शुभानुबन्धा निरनुबन्धा चेति । इत्येवं निर्जराया गुणदोषभावनं निर्जरानु- प्रेक्षा । एवं ह्यस्यानुस्मरतः कर्मनिर्जरायै प्रवृत्तिर्भवति । ४१८लोकसंस्थानादिविधिर्व्याख्यातः । समन्तादनन्तस्यालोकाकाशस्य बहुमध्यदेशभाविनो लोकस्य संस्थानादिविधिर्व्याख्यातः । तत्स्वभावानुचिन्तनं लोकानुप्रेक्षा । एवं ह्यस्याध्य- वस्यतस्तत्त्वज्ञानविशुद्धिर्भवति । एकस्मिन्निगोतशरीरे जीवाः सिद्धानामनन्तगुणाः । एवं सर्वलोको निरन्तरं निचितः ०५स्थावरैरतस्तत्र त्रसता वालुकासमुद्रे पतिता वज्रसिकताकणिकेव दुर्लभा । तत्र च विकलेन्द्रि- याणां भूयिष्ठत्वात्पञ्चेन्द्रियता गुणेषु कृतज्ञतेव कृच्छ्रलभ्या । तत्र च तिर्यक्षु पशुमृगपक्षि- सरीसृपादिषु बहुषु सत्सु मनुष्यभावश्चतुष्पथे रत्नराशिरिव दुरासदः । तत्प्रच्यवे च पुनस्त- दुपत्तिर्दग्धतरुपुद्गलतद्भावोपपत्तिवद् दुर्लभा । तल्लाभे च देशकुलेन्द्रियसम्पन्नीरोग- त्वान्युरोत्तरतोऽतिदुर्लभानि । सर्वेष्वपि तेषु लब्धेषु सर्द्धमप्रतिलम्भो यदि न स्याद् व्यर्थं १०जन्म वदनमिव दृष्टिविकलम् । तमेवं कृच्छ्रलभ्यं धर्ममवाप्य विषयसुखे रञ्जनं भस्मार्थं चन्दनदहनमिव विफलम् । विरक्तविषयसुखस्य तु तपोभावनाधर्मप्रभावनासुखमरणादि- लक्षणः समाधिर्दुरवापः । तस्मिन् सति बोधिलाभः फलवान् भवतीति चिन्तनं बोधिदुर्ल- ४१९भानुप्रेक्षा । एवं ह्यस्य भावयतो बोधिं प्राप्य प्रमादो न कदाचिदपि भवति । अयं जिनोपदिष्टो धर्मोऽहिंसालक्षणः सत्याधिष्ठितो विनयमूलः । क्षमाबलो ब्रह्मचर्य- गुप्त उपशमप्रधानो नियतिलक्षणो निष्परिग्रहतालम्बनः । अस्यालाभादनादिसंसारे जीवाः परिभ्रमन्ति दुष्कर्मविपाकजं दुखमनुभवन्तः । अस्य पुनः प्रतिलम्भे विविधाभ्यु- ०५दयप्राप्तिपूर्विका निःश्रेयसोपलब्धिर्नियतेति चिन्तनं धर्मस्वाख्यातत्वानुप्रेक्षा । एवं ह्यस्य चिन्तयतो धर्मानुरागात्सदा प्रतियत्नो भवति । एवमनित्यत्वाद्यनुप्रेक्षासन्निधाने उत्तमक्षमादिधारणान्महान्संवरो भवति । मध्ये ‘अनुप्रेक्षा’वचनमुभयार्थम् । अनुप्रेक्षा हि भावयन्नुत्तमक्षमादींश्च प्रतिपालयति परीष- हांश्च जेतुमुत्सहते । १०के पुनस्ते परिषहाः किमर्थं वा ते सह्यन्त इतीदमाह — मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ॥ ८ ॥ संवरस्य प्रकृतत्वात्तेन मार्गो विशिष्यते । संवरमार्ग इति । तदच्यवनार्थं निर्जरार्थं च परिषोढव्याः परीषहाः । क्षुत्पिपासादिसहनं कुर्वन्तः जिनोपदिष्टान्मार्गादप्रच्यवमानास्त- न्मार्गपरिक्रमणपरिचयेन कर्मागमद्वारं संवृण्वन्त औपक्रमिकं कर्मफलमनुभवन्तः क्रमेण ४२०निर्जीर्णकर्माणो मोक्षमाप्नुवन्ति । तत्स्वरूपसंख्यासम्प्रतिपत्त्यर्थमाह — क्षुत्पिपासाशीतोष्णदंशमशकनाग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाच- नाऽलाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्रज्ञाज्ञाज्ञानादर्शनानि ॥ ९ ॥ ०५क्षुदादयो वेदनाविशेषा द्वाविंशतिः । एतेषां सहनं मोक्षार्थिना कर्तव्यम् । तद्यथा — भिक्षोर्निरवद्याहारगवेषिणस्तदलाभे ईषल्लाभे च अनिवृत्तवेदनस्याकाले अदेशे च भिक्षां प्रति निवृत्तेच्छस्यावश्यकपरिहाणिं मनागप्यसहमानस्य स्वाध्यायध्यानभावनापरस्य बहु- कृत्वः स्वकृतपरकृतानशनावमौदर्यस्य नीरसाहारस्य संतप्तभ्राष्ट्रपतितजलबिन्दुकतिप- यवत्सहसा परिशुष्कपानस्योदीर्णक्षुद्वेदनस्यापि सतो भिक्षालाभादलाभमधिकगुणं मन्य- १०मानस्य क्षुद्बाधां प्रत्यचिन्तनं क्षुद्विजयः । जलस्नानावगाहनपरिषेकपरित्यागिनः पतत्त्रिवदनियतासनावसथस्यातिलवणस्नि- ग्धरूक्षविरुद्धाहारग्रैष्मातपपित्तज्वरानशनादिभिरुदीर्णां शरीरेन्द्रियोन्माथिनीं पिपासां ४२१प्रत्यनाद्रियमाणप्रतीकारस्य पिपासानलशिखां धृतिनवमृद्घटपूरितशीतलसुगन्धिसमाधिवा- रिणा प्रशमयतः पिपासासहनं प्रशस्यते । परित्यक्तप्रच्छादनस्य पक्षिवदनवधारितालयस्य वृक्षमूलपथिशिलातलादिषु हिमा- नीपतनशीतलानिलसम्पाते तत्प्रतिकारप्राप्तिं प्रति निवृत्तेच्छस्य पूर्वानुभूतशीतप्रति- ०५कारहेतुवस्तूनामस्मरतो ज्ञानभावनागर्भागारे वसतः शीतवेदनासहनं परिकीर्त्यते । निवाते निर्जले ग्रीष्मरविकिरणपरिशुष्कपतितपर्णव्यपेतच्छायातरुण्यटव्यन्तरे यदृ- च्छयोपनिपतितस्यानशनाद्यभ्यन्तरसाधनोत्पादितदाहस्य दवाग्निदाहपरुषवातातपज- नितगलतालुशोषस्य तत्प्रतीकारहेतून् बहूननुभूतानचिन्तयतः प्राणिपीडापरिहारावहित- चेतसश्चारित्ररक्षणमुष्णसहनमित्युपवर्ण्यते । १०‘दंशमशक’ ग्रहणमुपलक्षणम् । यथा ’काकेभ्यो रक्ष्यतां सर्पिः’ इति उपघातकोप- लक्षणं काकग्रहणं, तेन दंशमशकमक्षिकापिशुकपुत्तिकामत्कुणकीटपिपीलिकावृश्चिकादयो ४२२गृह्यन्ते । तत्कृतां बाधामप्रतीकारां सहमानस्य तेषां बाधां त्रिधाऽप्यकुर्वाणस्य निर्वाण- प्राप्तिमात्रसंकल्पप्रावरणस्य तद्वेदनासहनं दंशमशकपरिषहक्षमेत्युच्यते । जातरूपवन्निष्कलङ्कजातरूपधारणमशक्यप्रार्थनीयं याचनरक्षणहिंसनादिदोषवि- निर्मुक्तं निष्परिग्रहत्वान्निर्वाणप्राप्तिं प्रत्येकं साधनमनन्यबाधनं नाग्न्यं बिभ्रतो मनोविक्रि- ०५याविप्लुतिविरहात् स्त्रीरूपाण्यत्यन्ताशुचिकुणपरूपेण भावयतो रात्रिन्दिवं ब्रह्मचर्यम- खण्डमातिष्ठमानस्याचेलव्रतधारणमनवद्यमवगन्तव्यम् । संयतस्येन्द्रियेष्टविषयसम्बधं प्रति निरुत्सुकस्य गीतनृत्यवादित्रादिविरहितेषु शून्या- गारदेवकुलतरुकोटरशिलागुहादिषु स्वाध्यायध्यानभावनारतिमास्कन्दतो दृष्टश्रुतानु- भूतरतिस्मरणतत्कथाश्रवणकामशरप्रवेशनिर्विवरहृदयस्य प्राणिषु सदा सदयस्यारतिपरि- १०षहजयोऽवसेयः । एकान्तेष्वारामभवनादिप्रदेशेषु नवयौवनमदविभ्रममदिरापानप्रमत्तासु प्रमदासु बाधमानासु कूर्मवत्संवृतेन्द्रियहृदयविकारस्य ललितस्मितमृदुकथितसविलासवीक्षणप्रह- सनमदमन्थरगमनमन्मथशरव्यापारविफलीकरणस्य स्त्रीबाधापरिषहसहनमवगन्तव्यम् । ४२३दीर्घकालमुषितगुरुकुलब्रह्मचर्यस्याधिगतबन्धमोक्षपदार्थतत्त्वस्य संयमायतनभक्तिहे- तोर्देशान्तरातिथेर्गुरुणाऽभ्यनुज्ञातस्य पवनवन्निःसङ्गतामङ्गीकुर्वतो बहुशोऽनशनावमौदर्य- वृत्तिपरिसंख्यानरसपरित्यागादिबाधापरिक्लान्तकायस्य देशकालप्रमाणापेतमध्वगमनं संयमविरोधि परिहरतो निराकृतपादावरणस्य परुषशर्कराकण्टकादिव्य धनजातचरणखेद- ०५स्यापि सतः पूर्वोचितयानवाहनादिगमनमस्मरतो यथाकालमावश्यकापरिहाणिमास्कन्दत- श्चर्यापरिषहसहनमवसेयम् । स्मशानोद्यानशून्यायतनगिरिगुहागह्वरादिष्वनभ्यस्तपूर्वेषु निवसत आदित्यप्रकाश- स्वेन्द्रियज्ञानपरीक्षितप्रदेशे कृतनियमक्रियस्य निषद्यां नियमितकालामास्थितवतः सिंह- व्याध्रादिविविधभीषणध्वनिश्रवणान्निवृत्तभयस्य चतुर्विधोपसर्गसहनादप्रच्युतमोक्षमार्गस्य १०वीरासनोत्कुटिकाद्यासनादविचलितविग्रहस्य तत्कृतबाधासहनं निषद्यापरिषहविजय इति निश्चीयते । स्वाध्यायध्यानाध्वश्रमपरिखेदितस्य मौहूर्तिकीं खरविषमप्रचुरशर्कराकपालसङ्कटा- ४२४तिशीतोष्णेषु भूमिप्रदेशेषु निद्रामनुभवतो यथाकृतैकपार्श्वदण्डायितादिशायिनः प्राणिबाधा- परिहाराय पतितदारुवद् व्यपगतासुवदपरिवर्तमानस्य ज्ञानभावनावहितचेतसोऽनुष्ठित- व्यन्तरादिविविधोपसर्गादप्यचलितविग्रहस्यानियमितकालां तत्कृतबाधां क्षममाणस्य शय्या परिषहक्षमा कथ्यते । ०५मिथ्यादर्शनोदृक्तामर्षपरुषावज्ञानिन्दासभ्यवचनानि क्रोधाग्निशिखाप्रवर्धनानि निशृण्वतोऽपि तदर्थेष्वसमाहितचेतसः सहसा तत्प्रतीकारं कर्तुमपि शक्नुवतः पापकर्म- विपाकमभिचिन्तयतस्तान्याकर्ण्य तपश्चरणभावनापरस्य कषायविषलवमात्रस्याप्यनव- काशमात्महृदयं कुर्वत आक्रोशपरिषहसहनमवधार्यते । निशितविशसनमुशलमुद्गराद्रिप्रहरणताडनपीडनादिभिर्व्यापाद्यमानशरीरस्य व्या- १०पादकेषु मनागपि मनोविकारमकुर्वतो मम पुराकृतदुष्कर्मफलमिदमिमे वराकाः किं कुर्वन्ति, शरीरमिदं जलबुद्बुद्वद्विशरणस्वभावं व्यसनकारणमेतैर्बाबाध्यते, संज्ञानदर्शनचारित्राणि मम न केनचिदुपहन्यन्ते इति चिन्तयतो वासितक्षणचन्दनानुलेपनसमदर्शिनो वधपरिषह- क्षमा मन्यते । ४२५बाह्याभ्यन्तरतपोऽनुष्ठानपरस्य तद्भावनावशेन निस्सारीकृतमूर्तेः पटुतपनताप- निष्पीतसारतरोरिव विरहितच्छायस्य त्वगस्थिशिराजालमात्रतनुयन्त्रस्य प्राणात्यये सत्यप्याहारवसतिभेषजादीनि दीनाभिधानमुखवैवर्ण्याङ्गसञ्ज्ञादिभिरयाचमानस्य भि- क्षाकालेऽपि विद्युदुद्योतवत् दुरुपलक्ष्यमूर्तेर्याचनापरिषहसहनमवसीयते । ०५वायुवदसङ्गादनेकदेशचारिणोऽभ्युपगतैककालसम्भोजनस्य वाचंयमस्य तत्समितस्य वा सकृत्स्वतनुदर्शनमात्रतन्त्रस्य पाणिपुटमात्रपात्रस्य बहुषु दिवसेषु बहुषु च गृहेषु भिक्षा- मनवाप्याप्यसंक्लिष्टचेतसो दातृविशेषपरीक्षानिरुत्सुकस्य लाभादप्यलाभो मे परमं तप इति सन्तुष्टस्यालाभविजयोऽवसेयः । सर्वाशुचिनिधानमिदमनित्यमपरित्राणमिति शरीरे निःशङ्कल्पत्वाद्विगतसंस्कारस्य १०गुणरत्नभाण्डसञ्चयप्रवर्धनसंरक्षणसन्धारणकारणत्वादभ्युपगतस्थितिविधानस्याक्षम्रक्षण- वद् व्रणानुलेपनवद्वा बहूपकारमाहारमभ्युपगच्छतो विरुद्धाहारपानसेवनवैषम्यजनितवा- तादिविकाररोगस्य युगपदनेकशतसंख्यव्याधिप्रकोपे सत्यपि तद्वशवर्तितां विजहतो जल्लौ- षधिप्राप्त्याद्यनेकतपोविशेषर्द्धियोगे सत्यपि शरीरनिस्स्पृहत्वात्तत्प्रतिकारानपेक्षिणो रोगपरिषहसहनमवगन्तव्यम् । ४२६तृणग्रहणमुपलक्षणं कस्यचिद्व्यधनदुःखकारणस्य । तेन शुष्कतृणपरुषशर्कराकण्टक- निशितमृत्तिकाशूलादिव्यधनकृतपादवेदनाप्राप्तौ सत्यां तत्राप्रणिहितचेतसश्चर्याशय्या- निषद्यासु प्राणिपीडापरिहारे नित्यमप्रमत्तचेतसस्तृणादिस्पर्शबाधापरिषहविजयो वेदितव्यः । अप्कायिकजन्तुपीडापरिहाराया मरणादस्नानव्रतधारिणः पटुरविकिरणप्रताप- ०५जनितप्रस्वेदाक्तपवनानीतपांसुनिचयस्य सिध्मकच्छूदद्रूदीर्णकण्डूयायामुत्पन्नायामपि कण्डू- यनविमर्दनसंघट्टनविवर्जितमूर्तेः स्वगतमलोपचयपरगतमलापचययोरसंकल्पितमनसः सज्ज्ञानचारित्रविमलसलिलप्रक्षालनेन कर्ममलपङ्क निराकरणाय नित्यमुद्यतमतेर्मलपीडा- सहनमाख्यायते । सत्कारः पूजाप्रशंसात्मकः । पुरस्कारो नाम क्रियारम्भादिष्वग्रतः करणमामन्त्रणं १०वा, तत्रानादरो मयि क्रियते । चिरोषितब्रह्मचर्यस्य महातपस्विनः स्वपरसमयनिर्णयज्ञस्य बहुकृत्वः परवादिविजयिनः प्रणामभक्तिसम्भ्रमासनप्रदानादीनि मे न कश्चित्करोति । मिथ्यादृष्टय एवातीव भक्तिमन्तः किञ्चिदजानन्तमपि सर्वज्ञसम्भावनया सम्मान्य स्वस- ४२७मयप्रभावनं कुर्वन्ति । व्यन्तरादयः पुरा अत्युग्रततपसां प्रत्यग्रपूजां निर्वर्तयन्तीति मिथ्या श्रुतिर्यदि न स्यादिदानीं कस्मान्मादृशां न कुर्वन्तीति दुष्प्रणिधानविरहितचित्तस्य सत्कार- पुरस्कारपरिषहविजय इति विज्ञायते । अङ्गपूर्वप्रकीर्णकविशारदस्य शब्दन्यायाध्यात्मनिपुणस्य मम पुरस्तादितरे भास्कर- ०५प्रभाभिभूतखद्योतोद्योतवन्नितरां नावभासन्त इति विज्ञानमदनिरासः प्रज्ञापरिषहजयः प्रत्येतव्यः । अज्ञोऽयं न वेत्ति पशुसम इत्येवमाद्यधिक्षेपवचनं सहमानस्य परमदुश्चरतपोऽनुष्ठा- यिनो नित्यमप्रमत्तचेतसो मेऽद्यापि ज्ञानातिशयो नोत्पद्यत इति अनभिसन्दधतोऽज्ञानपरि- षहजयोऽवगन्तव्यः । १०परमवैराग्यभावनाशुद्धहृदयस्य विदितसकलपदार्थतत्त्वस्यार्हदायतनसाधुधर्मपूजकस्य चिरन्तनप्रव्रजितस्याद्यापि मे ज्ञानातिशयो नोत्पद्यते । महोपवासाद्यनुष्ठायिनां प्रातिहार्य- विशेषाः प्रादुरभूवन्निति प्रलापमात्रमनर्थिकेयं प्रव्रज्या । विफलं व्रतपरिपालनमित्येवमस- मादधानस्य दर्शनविशुद्धियोगाददर्शनपरिषहसहनमवसातव्यम् । ४२८एवं परिषहान् असंकल्पोपस्थितान् सहमानस्यासंक्लिष्टचेतसो रागादिपरिणामास्र- वनिरोधान्महान्संवरो भवति । आह, किमिमे परिषहाः सर्वे संसारमहाटवीमतिक्रमितुमभ्युद्यतमभिद्रवन्ति उत कश्चित्प्रतिविशेष इत्यत्रोच्यते — अमी व्याख्यातलक्षणाः क्षुदादयश्चारित्रान्तराणि प्रति ०५भाज्याः । नियमेन पुनरनयोः प्रत्येतव्याः — सूक्ष्मसाम्परायछद्मस्थवीतरागयोश्चतुर्दश ॥ १० ॥ क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधालाभरोगतृणस्पर्शमलप्रज्ञाज्ञानानि । ‘चतु- र्दश’ इति वचनादन्येषां परिषहाणामभावो वेदितव्यः । आह युक्तं तावद्वीतरागच्छ- द्मस्थे मोहनीयाभावात् तत्कृतवक्ष्यमाणाष्टपरिषहाभावाच्चतुर्दशनियमवचनम् । सूक्ष्म- १०साम्पराये तु मोहोदयसद्भावात् ‘चतुर्दश’इति नियमो नोपपद्यत इति ? तदयुक्तम्; सन्मात्र- त्वात् । तत्र हि केवलो लोभसञ्ज्वलनकषायोदयः सोऽप्यतिसूक्ष्मः । ततो वीतरागछद्म- स्थकल्पत्वात् ‘चतुर्दश’इति नियमस्तत्रापि युज्यते । ननु मोहोदयसहायाभावान्मन्दोद- ४२९यत्वाच्च क्षुदादिवेदनाभावात्तत्सहनकृतपरिषहव्यपदेशो न युक्तिमवतरति ? तन्न । किं कारणम् ? शक्तिमात्रस्य विवक्षितत्वात् । सर्वार्थसिद्धिदेवस्य सप्तमपृथिवीगमन- सामर्थ्यव्यपदेशवत् । आह, यदि शरीरवत्यात्मनि परिषहसन्निधानं प्रतिज्ञायते अथ भगवति उत्पन्नकेवल- ०५ज्ञाने कर्मचतुष्टयफलानुभवनवशवर्तिनि कियन्त उपनिपतन्तीत्यत्रोच्यते । तस्मिन्पुनः — eकादश जिने ॥ ११ ॥ निरस्तघातिकर्मचतुष्टये जिने वेदनीयसद्भावात्तदाश्रया एकादशपरिषहाः सन्ति । ननु च मोहनीयोदयसहायाभावात्क्षुदादिवेदनाभावे परिषहव्यपदेशो न युक्तः ? सत्यमेव- मेतत् — वेदनाभावेऽपि द्रव्यकर्मसद्भावापेक्षया परिषहोपचारः क्रियते, निरवशेषनिरस्त- १०ज्ञानातिशये चिन्तानिरोधाभावेऽपि तत्फलकर्मनिर्हरणफलापेक्षया ध्यानोपचारवत् । अथवा — एकादश जिने ‘न सन्ति’इति वाक्यशेषः कल्पनीयः; सोपस्कारत्वात्सूत्राणाम् । ४३०’कल्प्यो हि वावयशेषो वाक्यं च वक्तर्यधीनम्’ इत्युपगमात् मोहोदयसहायीकृतक्षुदादि- वेदनाभावात् ‘न सन्ति’ इति वाक्यशेषः । ४३१आह, यदि सूक्ष्मसाम्परायादिषु व्यस्ता परिषहाः अथ समस्ताः ताः क्वेति — बादरसाम्पराये सर्वे ॥ १२ ॥ साम्परायः कषायः । बादरः साम्परायो यस्य स बादरसाम्पराय इति । नेदं गुणस्थान- विशेषग्रहणम् । किं तर्हि ? अर्थनिर्देशः । तेन प्रमत्तादीनां संयतानां ग्रहणम् । तेषु हि ०५अक्षीणकषायदोषत्वात्सर्वे संभवन्ति । कस्मिन् पुनश्चारित्रे सर्वेषां सम्भवः ? सामायिक- च्छेदोपस्थापनपरिहारविशुद्धिसंयमेषु प्रत्येकं सर्वेषां सम्भवः । ४३२आह, गृहीतमेतत्परिषहाणां स्थानविशेषावधारणम्, इदं तु न विद्मः कस्याः प्रकृतेः कः कार्य इत्यत्रोच्यते — ज्ञानावरणे प्रज्ञाऽज्ञाने ॥ १३ ॥ इदमयुक्तं वर्तते । किमत्रायुक्तम् ? ज्ञानावरणे सत्यज्ञानपरिषह उपपद्यते, प्रज्ञापरि- ०५षहः पुनस्तदपाये भवतीति कथं ज्ञानावरणे स्यात् ? इत्यत्रोच्यते — क्षायोपशमिकी प्रज्ञा अन्यस्मिन् ज्ञानावरणे सति मदं जनयति न सकलावरणक्षये इति ज्ञानावरणे सतीत्युपपद्यते । पुनरपरयोः परिषहयोः प्रकृतिविशेषनिर्देशार्थमाह — ४३३दर्शनमोहान्तराययोरदर्शनालाभौ ॥ १४ ॥ यथासंख्यमभिसम्बन्धः । दर्शनमोहे अदर्शनपरिषहो, लाभान्तराये अलाभपरिषह इति । आह; यद्याद्ये मोहनीयभेदे एकः परिषहः, अथ द्वितीयस्मिन् कति भवन्तीत्यत्रोच्यते — चारित्रमोहे नाग्न्यारतिस्त्रीनिषद्याक्रोशयाचनासत्कारपुरस्काराः ॥ १५ ॥ ४३४पुंवेदोदयादिनिमित्तत्वान्नाग्न्यादिपरिषहाणां मोहोदयनिमित्तत्वं प्रतिपद्यामहे । निषद्यापरिषहस्य कथम् ? तत्रापि प्रणिपीडापरिहारार्थत्वात् । मोहोदये सति प्राणि- पीडापरिणामः संजायत इति । अवशिष्टपरिषहप्रकृतिविशेषप्रतिपादनार्थमाह — ०५वेदनीये शेषाः ॥ १६ ॥ उक्ता एकादश परिषहाः । तेभ्योऽन्ये शेषाः वेदनीये सति ‘भवन्ति’इति वाक्यशेषः । के पुनस्ते ? क्षुत्पिपासाशीतोष्णदंशमशकचर्याशय्यावधरोगतृणस्पर्शमलपरिषहाः । ४३५आह, व्याख्यातनिमित्तलक्षणविकल्पाः प्रत्यात्मनि प्रादुर्भवन्तः कति युगपदवतिष्ठन्त इत्यत्रोच्यते — एकादयो भाज्या युगपदेकस्मिन्नैंकान्नविंशतेः ॥ १७ ॥ आङ्भिविध्यर्थः । तेन एकोनविंशतिरपि क्वचित् युगपत्सम्भवतीत्यवगम्यते । तत्कथ- ०५मिति चेदुच्यते — शीतोष्णपरिषहयोरेकः शय्यानिषद्याचर्याणां चान्यतम एव भवति एक- स्मिन्नात्मनि । कुतः ? विरोधात् । तत्त्रयाणामपगमे युगपदेकात्मनीतरेषां सम्भवादेकोन- विंशतिविकल्पा बोद्धव्याः । ननु प्रज्ञाज्ञानयोरपि विरोधाद्युगपदसम्भवः ? श्रुतज्ञानापेक्षया प्रज्ञापरिषहः अवधिज्ञानाद्यभावापेक्षया अज्ञानपरिषह इति नास्ति विरोधः । आह, उक्ता गुप्तिसमितिधर्मानुप्रेक्षापरिषहजयाः संवरहेतवः पञ्च । संवरहेतुश्चा- १०रित्रसञ्ज्ञो वक्तव्य इति तद्भेदप्रदर्शनार्थमुच्यते — ४३६सामायिकच्छेदोपस्थापनापरिहारविशुद्धिसूक्ष्मसाम्पराययथाख्यातमिति चारित्रम् ॥ १८ ॥ अत्र चोद्यते — दशविधे धर्मे संयम उक्तः स एव चारित्रमिति पुनर्ग्रहणमनर्थकमिति ? नानर्थकम्; धर्मेऽन्तर्भूतमपि चारित्रमन्ते गृह्यते मोक्षप्राप्तेः साक्षात्कारणमिति ज्ञापनार्थम् । ०५सामायिकमुक्तम् । क्व ? ‘दिग्देशानर्थदण्डविरतिसामायिक — ’ इत्यत्र । तद् द्विविधं नियतकालमनियतकालञ्च । स्वाध्यायादि नियतकालम् । ईर्यापथाद्यनियतकालम् । प्रमादकृतानर्थप्रबन्धविलोपे सम्यक्प्रतिक्रिया छेदोपस्थापना विकल्पनिवृत्तिर्वा । परिहरणं परिहारः प्राणिवधान्निवृत्तिः । तेन विशिष्टा शुद्धिर्यस्मिंस्तत्परिहारविशुद्धिचारित्रम् । अतिसूक्ष्मकषायत्वात्सूक्ष्मसाम्परायचारित्रम् । मोहनीयस्य निरवशेषस्योपशमात्क्षयाच्च १०आत्मस्वभावावस्थापेक्षालक्षणं अथाख्यातचारित्रमित्याख्यायते । पूर्वचारित्रानुष्ठायिभिरा- ख्यातं न तत्प्राप्तं प्राङ्मोहक्षयोपशमाभ्यामित्यथाख्यातम् । अथशब्दस्यानन्तयार्थिवृत्तित्वा — ४३७न्निरवशेषमोहक्षयोपशमानन्तरमाविर्भवतीत्यर्थः । ‘यथाऽऽख्यातम्’इति वा; यथाऽऽत्मस्व- भावोऽवस्थितस्तथैवाख्यातत्वात् । ‘इति’ शब्दः परिसमाप्तौ द्रष्टव्यः । ततो यथाख्यात- चारित्रात्सकलकर्मक्षयपरिसमाप्तिर्भवतीति ज्ञाप्यते । सामायिकादीनामानुपूर्व्यवचनमुत्त- रोत्तरगुणप्रकर्ष ख्यापनार्थं क्रियते । ४३८आह, उक्तं चारित्रम् । तदनन्तरमुद्दिष्टं यत् ‘तपसा निजरी च’इति तस्येदानीं तपसो विधानं कर्तव्यमित्यत्रोच्यते । तद् द्विविधं बाह्यमाभ्यन्तरं च । तत्प्रत्येकं षड्विधम् । तत्र बाह्यभेदप्रतिपत्त्यर्थमाह अनशनावमौदर्यवृत्तिपरिसंख्यानरसपरित्यागविविक्तशय्यासनकायक्लेशा ०५बाह्यं तपः ॥ १९ ॥ दृष्टफलानपेक्षं संयमप्रसिद्धिरागोच्छेदकर्मविनाशध्यानागमावाप्त्यर्थमनशनम् । संयमप्रजागरदोषप्रशमसन्तोषस्वाध्यायादिसुखसिद्ध्यर्थमवमौदर्यम् । भिक्षार्थिनो मुने- रेकागारादिविषयः सङ्कल्पः चिन्तावरोधो वृत्तिपरिसंख्यानमाशानिवृत्त्यर्थमवगन्तव्यम् । इन्द्रियदर्पनिग्रहनिद्राविजयस्वाध्यायसुखसिद्ध्याद्यर्थो घृतादिवृष्यरसपरित्यागश्चतुर्थं तपः । १०शून्यागारादिषु विविक्तेषु जन्तुपीडाविरहितेषु संयतस्य शय्यासनमाबाधात्यय- ब्रह्मचयस्वाध्यायध्यानादिप्रसिद्ध्यर्थं कर्तव्यमिति पञ्चमं तपः । आतपस्थानं वृक्षमूल- निवासो निरावरणशयनं बहुविधप्रतिमास्थानमित्येवमादिः कायक्लेशः तत् षष्ठं तपः । ४३९तत्किमर्थम् ? देहदुःखतितिक्षासुखानभिष्वङ्गप्रवचनप्रभावनाद्यर्थम् । परिषहस्यास्य च को विशेषः ? यदृच्छयोपनिपतितः परिषहः । स्वयंकृतः कायक्लेशः । बाह्यत्व- मस्य कुतः ? बाह्यद्रव्यापेक्षत्वात्परप्रत्यक्षत्वाच्च बाह्यत्वम् । अभ्यन्तरतपोभेदप्रदर्शनार्थमाह — ०५प्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायव्युत्सर्गध्यानान्युत्तरम् ॥ २० ॥ कथमस्याभ्यन्तरत्वम् ? मनोनियमनार्थत्वात् । प्रमाददोषपरिहारः प्रायश्चित्तम् । पूज्येष्वादरो विनयः । कायचेष्टया द्रव्यान्तरेण चोपासनं वैयावृत्त्यम् । ज्ञानभावनाऽऽल- स्यत्यागः स्वाध्यायः । आत्माऽऽत्मीयसङ्कल्पत्यागो व्युत्सर्गः । चित्तविक्षेपत्यागो ध्यानम् । तद्भेदप्रतिपादनार्थमाह — १०नवचतुर्दशपञ्चद्विभेदा यथाक्रमं प्राग्ध्यानात् ॥ २१ ॥ ४४०‘यथाक्रमम्’इति वचनान्नवभेदं प्रायश्चित्तम्, विनयश्चतुर्विधः, वैयावृत्त्यं दशवि- धम्, स्वाध्यायः पञ्चविधः, द्विभेदो व्युत्सर्ग इत्यभिसंबध्यते । ‘प्राग्ध्यानात्’इति वचनं ध्यानस्य बहुवक्तव्यत्वात्पश्चाद्वक्ष्यत इति । आद्यस्य भेदस्वरूपनिर्ज्ञानार्थमाह — ०५आलोचनप्रतिक्रमणतदुभयविवेकव्युत्सर्गतपश्छेदपरिहारोपस्थापनाः ॥ २२ ॥ तत्र गुरवे प्रमादनिवेदनं दशदोषविवर्जितमालोचनम् । मिथ्यादुष्कृताभिधानादभि- व्यक्तप्रतिक्रियं प्रतिक्रमणम् । [तदुभय-] संसर्गे सति विशोधनात्तदुभयम् । संसक्तान्न- पानोपकरणादिविभजनं विवेकः । कायोत्सर्गादिकरणं व्युत्सर्गः । अनशनावमोदर्यादिलक्षणं तपः । दिवसपक्षमासादिना प्रव्रज्याहापनं छेदः । पक्षमासादिविभागेन दूरतः परिवर्जनं १०परिहारः । पुनर्दीक्षाप्रापणमुपस्थापना । ४४१विनयविकल्पप्रतिपत्त्यर्थमाह — ज्ञानदर्शनचारित्रोपचाराः ॥ २३ ॥ ‘विनयः’ इत्यधिकारेणऽभिसम्बन्धः क्रियते । ज्ञानविनयो दर्शनविनयश्चा- रित्रविनय उपचारविनयश्चेति । सबहुमानं मोक्षार्थं ज्ञानग्रहणाभ्यासस्मरणादिज्ञनि- ४४२विनयः । शङ्कादिदोषविरहितं तत्त्वार्थश्रद्धानं दर्शनविनयः । तद्वतश्चारित्रे समाहितचित्तता चारित्रविनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलिकरणादिरुपचारविनयः । परोक्षेष्वपि कायवाङ् मनोऽभिरञ्जलिक्रियागुणसङ्कीर्तनानुस्मरणादिः । वैयावृत्त्यभेदप्रतिपादनार्थमाह — ०५आचार्योपाध्यायतपस्विशैक्षग्लानगणकुलसंघसाधुमनोज्ञानाम् ॥ २४ ॥ वैयावृत्त्यं दशधा भिद्यते । कुतः ? विषयभेदात् । आचार्यवैयावृत्त्यमुपाध्यायवैया- वृत्त्यमित्यादि । तत्र आचरन्ति तस्माद् व्रतानीत्याचार्यः । मोक्षार्थं शास्त्रमुपेत्य तस्माद- धीयत इत्युपाध्यायः । महोपवासाद्यनुष्ठायी तपस्वी । शिक्षाशीलः शैक्षः । रुज्ञादिक्लिष्ट- शरीरो ग्लानः । गणः स्थविरसन्ततिः । दीक्षकाचार्यशिष्यसंस्त्यायः कुलम् । चातुर्वण श्रमण- १०निबहः संघः । चिरप्रव्रजितः साधुः । मनोज्ञो लोकसम्मतः । तेषां व्याधिपरिषहमिथ्यात्वाद्यु- पनिपाते कायचेष्टया द्रव्यान्तरेण वा तत्प्रतीकारो वैयावृत्त्यं समाध्याधानविचिकित्साऽ- ४४३भावप्रवचनवात्सल्याद्यभिव्यक्त्यर्थम् । स्वाध्यायविकल्पविज्ञानार्थमाह — वाचनाप्रच्छनाऽनुप्रेक्षाऽऽम्नायधर्मोपदेशाः ॥ २५ ॥ निरवद्यग्रन्थार्थोभयप्रदानं वाचना । संशयच्छेदाय निश्चितबलाधानाय वा परानुयोगः ०५प्रच्छना । अधिगतार्थस्य मनसाऽध्यासोऽनुप्रेक्षा । घोषशुद्धं परिवर्तनमाम्नायः । धर्मकथाद्य- नुष्ठानं धर्मोपदेशः । स एष पञ्चविधः स्वाध्यायः किमर्थः ? प्रज्ञातिशयः प्रशस्ताध्यवसायः परमसंवेगस्तपोवृद्धिरतिचारविशुद्धिरित्येवमाद्यर्थः । व्युत्सर्गभेदनिर्ज्ञानार्थमाह — बाह्याभ्यन्तरोपध्योः ॥ २६ ॥ १०व्युत्सर्जनं व्युत्सर्गस्त्यागः । स द्विविधः — बाह्योपधित्यागोऽभ्यन्तरोपधित्यागश्चेति । अनुपात्तं वास्तुधनधान्यादि बाह्योपधिः । क्रोधादिरात्मभावोऽभ्यन्तरोपधिः । कायत्यागश्च नियतकालो यावज्जीवं वाऽभ्यन्तरोपधित्याग इत्युच्यते । स किमर्थः ? निस्सङ्गत्वनिर्भयत्व- जीविताशाव्युदासाद्यर्थः । ४४४यद् बहुवक्तव्यं ध्यानमिति पृथग्व्यवस्थापितं तस्येदानीं भेदाभिदानं प्राप्तकालम् । तदुल्लङ्ध्य तस्य प्रयोक्तृस्वरूपकालनिर्द्धारणार्थमुच्यते — उत्तमसंहननस्यैकाग्रचिन्तानिरोधो ध्यानमाऽन्तर्मुहूर्तात् ॥ २७ ॥ आद्यं त्रितयं संहननमुत्तमं वज्रर्षभनाराचसंहननं वज्रनाराचसंहननं नाराचसंहनन- ०५मिति । तत्त्रितयमपि ध्यानस्य साधनं भवति । मोक्षस्य तु आद्यमेव । तदुत्तमं संहननं यस्य सोऽयमुत्तमसंहननः, तस्योत्तमसंहननस्येति । अनेन प्रयोक्तृनिर्देशः कृतः । अग्रं मुखम् । एकमग्रमस्येत्येकाग्रः । नानार्थावलम्बनेन चिन्ता परिस्पन्दवती, तस्या अन्याशेषमुखेभ्यो व्यावर्त्य एकस्मिन्नग्रे नियम एकाग्रचिन्तानिरोध इत्युच्यते । अनेन ध्यानस्वरूपमुक्तं भवति । मुहूर्त इति कालपरिमाणम् । अन्तर्गतो मुहूर्तोऽन्तर्मुहूर्तः । ‘आ अन्तर्मुहूर्तात्’- ४४५इत्यनेन कालावधिः कृतः । ततः परं दुर्धरत्वादेकाग्रचिन्तायाः । चिन्ताया निरोधो यदि ध्यानं, निरोधश्चाभावः, तेन ध्यानमसत्खरविषाणवत्स्यात् ? नैष दोषः; अन्यचिन्ता- निवृत्त्यपेक्षयाऽसदिति चोच्यते, स्वविषयाकारप्रवृत्तेः सदिति च; अभावस्य भावान्तर- त्वाद् हेत्वङ्गत्वादिभिरभावस्य वस्तुधर्मत्वसिद्धेश्च । अथवा नायं भावसाधनः, निरो- ०५धनं निरोध इति । किं तर्हि ? कर्मसाधनः ‘निरुध्यत इति निरोधः’ । चिन्ता चासौ निरोधश्च चिन्तानिरोध इति । एतदुक्तं भवति — ज्ञानमेवापरिस्पन्दाग्निशिखावदवभासमानं ध्यान- मिति । तद्भेदप्रदर्शनार्थमाह — आर्त्तरौद्रधर्म्यशुक्लानि ॥ २८ ॥ १०ऋतं दुःखम्, अर्दनमर्तिर्वा, तत्र भवमार्तम् । रुद्रः क्रूराशयस्तस्य कर्म तत्र भवं वा रौद्रम् । धर्मो व्याख्यातः । धर्मादनपेतं धर्म्यम् । शुचिगुणयोगाच्छुक्लम् । तदेतच्चतुर्विधं ध्यानं द्वैविध्यमश्नुते । कुतः ? प्रशस्ताप्रशस्तभेदात् । अप्रशस्तमपुण्यास्रवकारणत्वात् । ४४६कर्मनिर्दहनसामर्थ्यात्प्रशस्तम् । किं पुनस्तदिति चेदुच्यते — परे सोक्षहेतू ॥ २९ ॥ परमुत्तरमन्त्यं । तत्सामीप्याद्धर्म्यमपि ‘परम्’इत्युपचर्यते । द्विवचननिर्देशसामर्थ्याद् ०५गौणमपि गृह्यते । ‘परे मोक्षहेतू’ इति वचनात्पूर्वे आर्तरौद्रे संसारहेतू इत्युक्तं भवति । कुतः ? तृतीयस्य साध्यस्याभावात् । तत्रार्तं चतुर्विधम् । तत्रादिविकल्पलक्षणनिर्देशार्थमाह — आर्तममनोज्ञस्य सम्प्रयोगे तद्विप्रयोगाय स्मृतिसमन्वाहारः ॥ ३० ॥ अमनोज्ञमप्रियं विषकण्टकशत्रुशस्त्रादि, तद्बाधाकारणत्वाद्‘अमनोज्ञम्’इत्युच्यते । १०तस्य सम्प्रयोगे, स कथं नाम मे न स्यादिति सङ्कल्पश्चिन्ताप्रबन्धः स्मृतिसमन्वाहारः प्रथममार्तमित्याख्यायते । द्वितीयस्य विकल्पस्य लक्षणनिर्देशार्थमाह — विपरीतं मनोज्ञस्य ॥ ३१ ॥ ४४७कुतो विपरीतम् ? पूर्वोक्तात् । तेनैतदुक्तं भवति — मनोज्ञस्येष्टस्य स्वपुत्रदारधना- देर्विप्रयोगे तत्सम्प्रयोगाय सङ्कल्पश्चिन्ताप्रबन्धो द्वितीयमार्तमवगन्तव्यम् । तृतीयस्य विकल्पस्य लक्षणप्रतिपादनार्थमाह — वेदनायाश्च ॥ ३२ ॥ ०५‘वेदना’शब्दः सुखे दुःखे च वर्तमानोऽपि आर्तस्य प्रकृतत्वाद् दुःखवेदनायां प्रवर्तते, तस्या वातादिविकारजनितवेदनाया उपनिपाते तस्या अपायः कथं नाम मे स्यादिति संकल्प- श्चिन्ताप्रबन्धस्तृतीयमार्तमुच्यते । तुरीयस्यार्तस्य लक्षणनिर्देशार्थमाह — निदानं च ॥ ३३ ॥ १०भोगाकाङ्क्षातुरस्यानागतविषयप्राप्तिं प्रति मनःप्रणिधानं सङ्कल्पश्चिन्ताप्रबन्ध- स्तुरीयमार्तं निदानमित्युच्यते । तदेतच्चतुर्विधमार्तं किंस्वामिकमिति चेदुच्यते — तदविरतदेशविरतप्रमत्तसंयतानाम् ॥ ३४ ॥ अविरता असंयतसम्यग्दृष्ट्यन्ताः । देशविरताः संयतासंयताः । प्रमत्तसंयताः ४४८पञ्चदशप्रमादोपेताः क्रियानुष्ठायिनः । तत्राविरतदेशविरतानां चतुर्विधमप्यार्तं भवति; असंयमपरिणामोपेतत्वात् । प्रमत्तसंयतानां तु निदानवर्ज्यमन्यदार्तत्रयं प्रमादोदयोद्रेकात्क- दाचित्स्यात् । व्याख्यातमार्तं सञ्ज्ञादिभिः । द्वितीयस्य सञ्ज्ञाहेतुस्वामिनिर्द्धारणार्थमाह — ०५हिंसाऽनृतस्तेयविषयसंरक्षणेभ्यो रौद्रमविरतदेशविरतयोः ॥ ३५ ॥ हिंसादीन्युक्तलक्षणानि । तानि रौद्रध्यानोत्पत्तेर्निमित्तीभवन्तीति हेतुनिर्देशो विज्ञा- यते । तेन हेतुनिर्देशेनानुवर्तमानः ‘स्मृतिसमन्वाहारः’ अभिसम्बध्यते । हिंसायाः स्मृति- समन्वाहार इत्यादि । तद्रौद्रध्यानमविरतदेशविरतयोर्वेदितव्यम् । अविरतस्य भवतु रौद्रध्यानं, देशविरतस्य कथम् ? तस्यापि हिंसाद्यावेशाद्वित्तादिसंरक्षणतन्त्रत्वाच्च कदा- १०चिद् भवितुमर्हति । तत्पुनर्नारकादीनामकारणं; सम्यग्दर्शनसामर्थ्यात् । संयतस्य तु न भवत्येव; तदारम्भे संयमप्रच्युतेः । ४४९आह, ‘परे मोक्षहेतू’ उपदिष्टे । तत्राद्यस्य मोक्षहेतोर्ध्यानस्य भेदस्वरूपस्वामिनिर्देशः कर्तव्य इत्यत आह — आज्ञापायविपाकसंस्थानविचयाय धर्म्यम् ॥ ३६ ॥ विचयनं विचयो विवेको विचारणेत्यर्थः । आज्ञापायविपाकसंस्थानानां विचय आज्ञा- ०५पायविपाकसंस्थानविचयः । ‘स्मृतिसमन्वाहारः’ इत्यनुवर्तते । स प्रत्येकं सम्बध्यते — आज्ञा- विचयाय स्मृतिसमन्वाहार इत्यादि । तद्यथा — उपदेष्टुरभावान्मन्दबुद्धित्वात्कर्मोदया- त्सूक्ष्मत्वाच्च पदार्थानां हेतुदृष्टान्तोपरमे सति सर्वज्ञप्रणीतमागमं प्रमाणीकृत्य इत्थमेवेदं ’नान्यथावादिनो जिनाः’ इति गहनपदार्थश्रद्धानादर्थावधारणमाज्ञाविचयः । अथवा — स्वयं विदितपदार्थतत्त्वस्य सतः परं प्रति पिपादयिषोः स्वसिद्धान्ताविरोधेन तत्त्वसमर्थनार्थं १०तर्कनयप्रमाणयोजनपरः स्मृतिसमन्वाहारः सर्वज्ञाज्ञाप्रकाशनार्थत्वादाज्ञाविचय इत्युच्यते । जात्यन्धवन्मिथ्यादृष्टयः सर्वज्ञप्रणीतमार्गाद्विमुखा मोक्षार्थिनः सम्यङ्मार्गापरिज्ञानात्सु- ४५०दूरमेवापयन्तीति सन्मार्गापायचिन्तनमपायविचयः । अथवा — मिथ्यादर्शनज्ञानचारि- त्रेभ्यः कथं नाम इमे प्राणिनोऽपेयुरिति स्मृतिसमन्वाहारोऽपायविचयः । कर्मणां ज्ञानावरणा- दीनां द्रव्यक्षेत्रकालभवभावप्रत्ययफलानुभवनं प्रति प्रणिधानं विपाकविचयः । लोकसंस्थान- स्वभावविचयाय स्मृतिसमन्वाहारः संस्थानविचयः । उत्तमक्षमादिलक्षणो धर्म उक्तः । ०५तस्मादनपेतं धर्म्यं ध्यानं चतुर्विकल्पमवसेयम् । तदविरतदेशविरतप्रमत्ताप्रमत्तसंयतानां भवति । ४५३त्रयाणां ध्यानानां निरूपणं कृतम् । इदानीं शुक्लध्यानं निरूपयितव्यम् । तद्वक्ष्यमाण- चतुर्विकल्पम् । तत्राद्ययोः स्वामिनिर्देशार्थमिदमुच्यते — शुक्ले चाद्ये पूर्वविदः ॥ ३७ ॥ वक्ष्यमाणेषु शुक्लध्यानविकल्पेषु आद्ये शुक्लध्याने पूर्वविदो भवतः श्रुतकेवलिन ०५इत्यर्थः । ‘च’शब्देन धर्म्यमपि समुच्चीयते । तत्र ’व्याख्यानतो विशेषप्रतिपत्तिः’ इति श्रेण्यारोहणात्प्राग्धर्म्यं, श्रेण्योः शुक्ले इति व्याख्यायते । अवशिष्टे कस्य भवत इत्यत्रोच्यते — परे केवलिनः ॥ ३८ ॥ प्रक्षीणसकलज्ञानावरणस्य केवलिनः सयोगस्यायोगस्य च परे उत्तरे शुक्लध्याने १०भवतः । यथासंख्यं तद्विकल्पप्रतिपादनार्थमिदमुच्यते — पृथक्त्वैकत्ववितर्कंसूक्ष्मक्रियाप्रतिपातिव्युपरतक्रियानिवर्तीनि ॥ ३९ ॥ ४५४पृथक्त्ववितर्कमेकत्ववितर्कं सूक्ष्मक्रियाप्रतिपाति व्युपरतक्रियानिवर्ति चेति चतुर्विधं शुक्लध्यानम् । वक्ष्यमाणलक्षणमपेक्ष्य सर्वेषामन्वर्थत्वमवसेयम् । तस्यालम्बनविशेषनिर्धारणार्थमाह — त्र्येकयोगकाययोगायोगानाम् ॥ ४० ॥ ०५‘योग’शब्दो व्याख्यातार्थः ‘कायवाङ्मनःकर्म योगः’इत्यत्र । उक्तैश्चतुर्भिः शुक्ल- ध्यानविकल्पैस्त्रियोगादीनां चतुर्णां यथासंख्येनाभिसम्बन्धो वेदितव्यः । त्रियोगस्य पृथक्त्व- वितर्कम्, त्रिषु योगेष्वेकयोगस्यैकत्ववितर्कम्, काययोगस्य सूक्ष्मक्रियाप्रतिपाति, अयोगस्य व्युपरतक्रियानिवर्तीति । तत्राद्ययोर्विशेषप्रतिपत्त्यर्थमिदमुच्यते — १०एकाश्रये सवितर्कवीचारे पूर्वे ॥ ४१ ॥ एक आश्रयो ययोस्ते एकाश्रये । उभेऽपि परिप्राप्तश्रुतज्ञाननिष्ठेनारभ्येते इत्यर्थः । वितर्कश्च वीचारश्च वितर्कवीचारौ, सह वितर्कवीचाराभ्यां वर्तेते इति सवितर्क- वीचारे । पूर्वे पृथक्त्वैकत्ववितर्के इत्यर्थः । तत्र यथासंख्यप्रसंगेऽनिष्टनिवृत्त्यर्थमिदमुच्यते — ४५५अवीचारं द्वितीयम् ॥ ४२ ॥ पूर्वयोर्यद् द्वितीयं तदवीचारं प्रत्येतव्यम् । एतदुक्तं भवति — आद्यं सवितर्कं सवीचारं च भवति । द्वितीयं सवितर्कमवीचारं चेति अथ वितर्कवीचारयोः कः प्रतिविशेष इत्यत्रोच्यते — ०५वितर्कः श्रुतम् ॥ ४३ ॥ विशेषेण तर्कणमूहनं वितर्कः श्रुतज्ञानमित्यर्थः । अथ को वीचारः ? वीचारोऽर्थव्यञ्जनयोगसंक्रान्तिः ॥ ४४ ॥ अर्थो ध्येयो द्रव्यं पर्यायो वा । व्यञ्जनं वचनम् । योगः कायवाङ्मनःकर्मलक्षणः । १०संक्रान्तिः परिक्तनम् । द्रव्यं विहाय पर्यायमुपैति पर्यायं त्यक्त्वा द्रव्यमित्यर्थसंक्रान्तिः । एकं श्रुतवचनमुपादाय वचनान्तरमालम्बते तदपि विहायान्यदिति व्यञ्जनसंक्रान्तिः । काययोगं त्यक्त्वा योगान्तरं गृह्णाति योगान्तरं च त्यक्त्वा काययोगमिति योगसंक्रान्ति । एवं परिवर्तनं वीचार इत्युच्यते । तदेतत्सामान्यविशेषनिर्दिष्टं चतुर्विधं धर्म्यं शुक्लं च ४५६पूर्वोदितगुप्त्यादिबहुप्रकारोपायं संसारनिवृत्तये मुनिर्ध्यातुमर्हति कृतपरिकर्मा । तत्र द्रव्य- परमाणुं भावपरमाणुं वा ध्यायन्नाहितवितर्कसामर्थ्यःअर्थव्यञ्जने कायवचसी च पृथक्त्वेन संक्रामता मनसाऽपर्याप्तबालोत्साहवदव्यवस्थितेनानिशितेनापि शस्त्रेण चिरात्तरुं छिन्द- न्निव मोहप्रकृतीरुपशमयन्क्षपयंश्च पृथक्त्ववितर्कवीचारध्यानभाग्भवति । स एव ०५पुनः समूलतूलं मोहनीयं निर्दिधक्षन्ननन्तगुणविशुद्धियोगविशेमाश्रित्य बहुतराणां ज्ञाना- वरणसहायीभूतानां प्रकृतीनां बन्धं निरुन्धन् स्थितिह्रासक्षयौ च कुर्वन् श्रुतज्ञानोपयोगो निवृत्तार्थव्यञ्जनयोगसंक्रान्तिः अविचलितमनाः क्षीणकषायो वैडूर्यमणिरिव निरुपलेपो ध्यात्वा पुनर्न निवर्तत इत्युक्तमेकत्ववितर्कम् । एवमेकत्ववितर्कशुक्लध्यानवैश्वानर- निर्दग्धवातिकर्मेन्धनः प्रज्वलितकेवलज्ञानगभस्तिमण्डलो मेघपञ्जरनिरोधनिर्गत इव घर्म- १०रश्मिर्वा भासमानो भगवांस्तीर्थकर इतरो वा केवली लोकेश्वराणामभिगमनीयोऽर्चनीयश्चो- त्कर्षेणायुषः पूर्वकोटीं देशोनां विहरति । स यदाऽन्तर्मुहूर्तशेषायुष्कस्तत्तुल्यस्थितिवेद्यनाम- गोत्रश्च भवति तदा सर्वं वाङ्मनसयोगं बादरकाययोगं च परिहाप्य सूक्ष्मकाययोगालम्बनः ४५७सूक्ष्मक्रियाप्रतिपातिध्यानमास्कन्दितुमर्हतीति । यदा पुनरन्तर्मुहूर्तशेषायुष्कस्ततोऽधिक- स्थितिशेषकर्मत्रयो भवति सयोगी तदाऽऽत्मोपयोगातिशयस्य सामायिकसहायस्य विशिष्ट- करणस्य महासंवरस्य लघुकर्मपरिपाचनस्याशेषकर्मरेणुपरिशातनशक्तिस्वाभाव्याद्दण्डक- पाटप्रतरलोकपूरणानि स्वात्मप्रदेशविसर्पणतश्चतुर्भिः समयैः कृत्वा पुनरपि तावद्भिरेव ०५समयैः समुपहृतप्रदेशविसरणः समीकृतस्थितिशेषकर्मचतुष्टयः पूर्वशरीरप्रमाणो भूत्वा सूक्ष्मकाययोगेन सूक्ष्मक्रियाप्रतिपाति ध्यानं ध्यायति । ततस्तदनन्तरं समुच्छिन्नक्रिया- निवर्तिध्यानमारभते । समुच्छिन्नप्राणापानप्रचारसर्वकायवाङ्मनोयोगसर्वप्रदेशपरिस्प- न्दक्रियाव्यापारत्वात् समुच्छिन्नक्रियानिवर्तीत्युच्यते । तस्मिन्समुच्छिन्नक्रियानिवर्तिनि ध्याने सर्वबन्धास्रवनिरोधसर्वशेषकर्मशातनसामर्थ्योपपत्तेरयोगिकेवलिनः सम्पूर्णयथा- १०ख्यातचारित्रज्ञानदर्शनं सर्वसंसारदुःखजालपरिष्वङ्गोच्छेदजननं साक्षान्मोक्षकारणमुप- जायते । स पुनरयोगकेवली भगवांस्तदा ध्यानातिशयाग्निनिर्दग्धसर्वमलकलङ्कबन्धनो निरस्तकिट्टधातुपाषाणजात्यकनकवल्लब्धात्मा परिनिर्वाति । तदेतद् द्विविधं तपो- ऽभिनवकर्मास्रवनिरोधहेतुत्वात्संवरकारणं प्राक्तनकर्मरजोविधूनननिमित्तत्वान्निर्जराहेतु- रपि भवति । ४५८अत्राह सम्यग्दृष्टयः किं सर्वे समनिर्जरा आहोस्वित्कश्चिदस्ति प्रतिविशेष इत्य- त्रोच्यते — सम्यग्दृष्टिश्रावकविरतानन्तवियोजकदर्शंनमोहक्षपकोपशमकोपशान्त- मोहक्षपकक्षीणमोहजिनाः क्रमशोऽसंख्येयगुणनिर्जराः ॥ ४५ ॥ ०५त एते दश सम्यग्दृष्ट्यादयः क्रमशोऽसंख्येयगुणनिर्जराः । तद्यथा — भव्यः पञ्चेन्द्रिय- सञ्ज्ञी पर्याप्तकः पूर्वोक्तकाललब्ध्यादिसहायः परिणामविशुद्ध्या वर्धमानः क्रमेणापूर्व- करणादिसोपानपङ्क्त्योत्प्लवमानो बहुतरकर्मनिर्जरो भवति । स एव पुनः प्रथमसम्यक्त्व- प्राप्तिनिमित्तसन्निधाने सति सम्यग्दृष्टिर्भवन्नसंख्येयगुणनिर्जरो भवति । स एव पुन- श्चारित्रमोहकर्मविकल्पाप्रत्याख्यानावरणक्षयोपशमनिमित्तपरिणामप्राप्तिकाले विशुद्धि- १०प्रकर्षयोगात् श्रावको भवन् ततोऽसंख्येयगुणनिर्जरो भवति । स एव पुनः प्रत्याख्याना- वरणक्षयोपशमकारणपरिणामविशुद्धियोगाद् विरतव्यपदेशभाक् सन् ततोऽसंख्येय- गुणनिर्जरो भवति । स एव पुनरनन्तानुबन्धिक्रोधमानमायालोभानां वियोजनपरो भवति यदा तदा परिणामविशुद्धिप्रकर्षयोगात्ततोऽसंख्येयगुणनिर्जरो भवति । स एव पुनर्दर्शन- मोहप्रकृतित्रयतृणनिचयं निर्दिधक्षन् परिणामविशुद्ध्यतिशययोगाद्दर्शनमोहक्षपकव्यपदेश- ४५९भाक् पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । एवं सः क्षायिकसम्यग्दृष्टिर्भूत्वा श्रेण्यारोहणा- भिमुखश्चारित्रमोहोपशमं प्रति व्याप्रियमाणो विशुद्धिप्रकर्षयोगादुपशमकव्यपदेशमनु- भवन् पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव पुनरशेषचारित्रमोहोपशमनिमित्त- सन्निद्धाने परिप्राप्तोपशान्तकषायव्यपदेशः पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव ०५पुनश्चारित्रमोहक्षपणं प्रत्यभिमुखः परिणामविशुद्ध्या वर्द्धमानः क्षपकव्यपदेशमनुभव- न्पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स यदा निःशेषचारित्रमोहक्षपणकारणपरिणामा- भिमुखः क्षीणकषायव्यपदेशमास्कन्दन्पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव द्वितीय- शुक्लध्यानानलनिर्दग्धघातिकर्मनिचयः सन् जिनव्यपदेशभाक् पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । ४६०आह सम्यग्दर्शनसन्निधानेऽपि यद्यसंख्येयगुणनिर्जरत्वात्परस्परतो न साम्यमेषां किं तर्हि श्रावकवदमी विरतादयो गुणभेदान्न निर्ग्रन्थतामर्हन्तीति ? उच्यते, नैतदेवम् । कुतः ? यस्माद् गुणभेदादन्योऽन्यविशेषेऽपि नैगमादिनयव्यापारात्सर्वेऽपि हि भवन्ति — पुलाकबकुशकुशीलनिर्ग्रन्थस्नातका निर्ग्रन्थाः ॥ ४६ ॥ ०५उत्तरगुणभावनापेतमनसो व्रतेष्वपि क्वचित्कदाचित्परिपूर्णतामपरिप्राप्नुवन्तो- 'विशुद्धपुलाकसादृश्यात्पुलाका इत्युच्यन्ते । नैर्ग्रन्थ्यं पति स्थिता अखण्डितव्रताः शरीरोप- करणविभूषानुवर्तिनोऽविविक्तपरिवारा मोहशबलयुक्ता बकुशाः । शबलपर्यायवाची बकुशशब्दः । कुशीला द्विविधाः — प्रतिसेवनाकुशीलाः कषायकुशीला इति । अविविक्त- परिग्रहाः परिपूर्णोभयाः कथञ्चिदुत्तरगुणविराधिनः प्रतिसेवनाकुशीलाः । वशीकृता- १०न्यकषायोदयाः सञ्ज्वलनमात्रतन्त्राः कषायकुशीलाः । उदकदण्डराजिवदनभिव्यक्तोदय- कर्माणः ऊर्ध्वं मुहूर्तादुद्भिद्यमानकेवलज्ञानदर्शनभाजो निर्ग्रन्थाः । प्रक्षीणघातिकर्माणः केवलिनो द्विविधाः स्नातकाः । त एते पञ्चापि निर्ग्रन्थाः । चारित्रपरिणामस्य प्रकर्षा- ४६१प्रकर्षभेदे सत्यपि नैगमसंग्रहादिनयापेक्षया सर्वेऽपि ते निर्ग्रन्था इत्युच्यन्ते । तेषां पुलाकादीनां भूयोऽपि विशेषप्रतिपत्त्यर्थमाह — संयमश्रुतप्रतिसेवनातीर्थलिङ्गलेश्योपपादस्थानविकल्पतः साध्याः ॥ ४७ ॥ त एते पुलाकादयः संयमादिभिरष्टभिरनुयोगैः साध्या व्याख्येयाः । तद्यथा — पुला- ०५कबकुशप्रतिसेवनाकुशीला द्वयोः संयमयोः सामायिकच्छेदोपस्थापनयोर्वर्तन्ते । कषाय- कुशीला द्वयोः संयमयोः परिहारविशुद्धिसूक्ष्मसाम्पराययोः पूर्वयोश्च । निर्ग्रन्थस्नातका एकस्मिन्नेव यथाख्यातसंयमे सन्ति । श्रुतं — पुलाकबकुशप्रतिसेवनाकुशीला उत्कर्षेणाभिन्नाक्षरदशपूर्वधराः । कषाय- कुशीला निर्ग्रन्थाश्चतुर्दशपूर्वधराः । जघन्येन पुलाकस्य श्रुतमाचारवस्तु । बकुशकुशील- १०निर्ग्रन्थानां श्रुतमष्टौ प्रवचनमातरः । स्नातका अपगतश्रुताः केवलिनः । प्रतिसेवना — पञ्चानां मूलगुणानां रात्रिभोजनवर्जनस्य च पराभियोगाद् बला- दन्यतमं प्रतिसेवमानः पुलाको भवति । बकुशो द्विविधः — उपकरणबकुशः शरीरबकुश- श्चेति । तत्रोपकरणबकुशो बहुविशेषयुक्तोपकरणाकांक्षी । शरीरसंस्कारसेवी शरीर- बकुशः । प्रतिसेवनाकुशीलो मूलगुणानविराधयन्नुत्तरगुणेषु काञ्चिद्विराधनां प्रतिसेवते । ४६२कषायकुशीलनिर्ग्रन्थस्नातकानां प्रतिसेवना नास्ति । तीर्थमिति सर्वे सर्वेषां तीर्थकराणां तीर्थेषु भवन्ति । लिङ्गं द्विविधं — द्रव्यलिङ्गं भावलिङ्गं चेति । भावलिङ्गं प्रतीत्य सर्वे पञ्च निर्ग्रन्था लिङ्गिनो भवन्ति । द्रव्यलिङ्गं प्रतीत्य भाज्याः । ०५लेश्याः — पुलाकस्योत्तरास्तिस्रः । बकुशप्रतिसेवनाकुशीलयोः षडपि । कषायकुशी- लस्य चतस्र उत्तराः । सूक्ष्मसाम्परायस्य निर्ग्रन्थस्नातकयोश्च शुक्लैव केवला । अयोगा अलेश्याः । उपपादः — पुलाकस्योत्कृष्ट उपपाद उत्कृष्टस्थितिदेवेषु सहस्रारे । बकुशप्रति- सेवनाकुशीलयोर्द्वाविंशतिसागरोपमस्थितिषु आरणाच्युतकल्पयोः । कषायकुशीलनिर्ग्र- १०न्थयोस्त्रयस्त्रिंशत्सागरोपमस्थितिषु सर्वार्थिसिद्धौ । सर्वेषामपि जघन्यः सौधर्मकल्पे द्विसागरोपमस्थितिषु । स्नातकस्य निर्वाणमिति । स्थानम् — असंख्येयानि संयमस्थानानि कषायनिमित्तानि भवन्ति । तत्र सर्वजघ- न्यानि लब्धिस्थानानि पुलाककषायकुशीलयोः । तौ युगपदसंख्येयानि स्थानानि गच्छतः । ततः पुलाको व्युच्छिद्यते । कषायकुशीलस्ततोऽसंख्येयानि स्थानानि गच्छत्येकाकी । ४६३ततः कषायकुशीलप्रतिसेवनाकुशीलबकुशा युगपदसंख्येयानि स्थानानि गच्छन्ति । ततो बकुशो व्युच्छिद्यते । ततोऽप्यसंख्येयानि स्थानानि गत्वा प्रतिसेवनाकुशीलो व्युच्छिद्यते । ततोऽप्यसंख्येयानि स्थानानि गत्वा कषायकुशीलो व्युच्छिद्यत । अत ऊर्ध्वमकषायस्था- नानि निर्ग्रन्थः प्रतिपद्यते । सोऽप्यसंख्येयानि स्थानानि गत्वा व्युच्छिद्यते । अत ऊर्ध्वमेकं ०५स्थानं गत्वा स्नातको निर्वाणं प्राप्नोतीत्येतेषां संयमलब्धिरनन्तगुणा भवति । इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसञ्ज्ञिकायां नवमोऽध्यायः समाप्तः । ४६४अथ दशमोऽध्यायः आह, अन्ते निर्दिष्टस्य मोक्षस्येदानीं स्वरूपाभिधानं प्राप्तकालमिति ? सत्यमेवम् । मोक्षप्राप्तिः केवलज्ञानावाप्तिपूर्विकेति केवलज्ञानोत्पत्तिकारणमुच्यते — मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम् ॥ १ ॥ ०५इह वृत्तिकरणं न्याय्यम् । कुतः ? लघुत्वात् । कथम् ? एकस्य ‘क्षय’शब्दस्याकरणाद् विभक्त्यन्तरनिर्देशस्य चाभावात्‘च’शब्दस्य चाप्रयोगल्लघु सूत्रं भवति ‘मोहज्ञानदर्शना- वरणान्तरायक्षयात्केवलम्’ इति ? सत्यमेतथ्̣, क्षयक्रमप्रतिपादनार्थो वाक्यभेदेन निर्देशः क्रियते । प्रागेव मोहं क्षयमुपनीयान्तर्मुहूर्तं क्षीणकषायव्यपदेशमवाप्य ततो युगपज्ज्ञान- दर्शनावरणान्तरायाणां क्षयं कृत्वा केवलमवाप्नोति इति । तत्क्षयो हेतुः केवलोत्पत्तेरिति १०हेतुलक्षणो विभक्तिनिर्देशः कृतः । कथं प्रागेव मोहः क्षयमुपनीयते इति चेदुच्यते — भव्यः ४६५सम्यग्दृष्टिः परिणामविशुद्ध्या वर्धमानोऽसंयतसम्यग्दृष्टिसंयतासंयतप्रमत्ताप्रमत्तगुणस्थानेषु कस्मिंश्चिन्मोहस्य सप्त प्रकृतीः क्षयमुपनीय क्षयिकसम्यग्दृष्टिर्भूत्वा क्षपकश्रेण्यारोह- णाभिमुखोऽधःप्रवृत्तकरणमप्रमत्तस्थाने प्रतिपद्यापूर्वकरणप्रयोगेणापूर्वकरणक्षपकगुणस्था- नव्यपदेशमनुभूय तत्राभिनवशुभाभिसन्धितनूकृतपापप्रकृतिस्थित्यनुभागो विवर्धित- ०५शुभकर्मानुभवोऽनिवृत्तिकरणप्राप्त्यानिवृत्तिबादरसाम्परायक्षपकगुणस्थानमधिरुह्य तत्र कषायाष्टकं नष्टं कृत्वा नपुं सकवेदनाशं समापाद्य स्त्रीवेदमुन्मूल्य नोकषायषट्कं पुंवेदे प्रक्षिप्य क्षपयित्वा पुंवेदं क्रोधसंज्वलने, क्रोधसञ्ज्वलनं मानसंज्वलने, मानसंज्वलनं मायासंज्वलने, मायासंज्वलनं च लोभसंज्वलने क्रमेण बादरकृष्टिविभागेन विलयमुप- नीय लोभसंज्वलनं तनूकृत्य सूक्ष्मसाम्परायक्षपकत्वमनुभूय निरवशेषं मोहनीयं निर्मूल- १०काषं कषित्वा क्षीणकषायतामधिरुह्यावतारितमोहनीयभार उपान्त्यप्रथमे समये निद्रा- प्रचले प्रलयमुपनीय पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां पञ्चानामन्तरायाणां चान्तमन्ते समुपनीय तदनन्तरं ज्ञानदर्शनस्वभावं केवलपर्यायमप्रतर्क्यविभूतिविशेषमवा- प्नोति । आह कस्माद्धेतोर्मोक्षः किंलक्षणश्चेत्यत्रोच्यते — ४६६बन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः ॥ २ ॥ मिथ्यादर्शनादिहेत्वभावादभिनवकर्माभावः पूर्वोदितनिर्जराहेतुसन्निधाने चार्जित- कर्मनिरासः । ताभ्यां बन्धहेत्वभावनिर्जराभ्यामिति हेतुलक्षणविभक्तिनिर्देशः । ततो भवस्थितिहेतुसमीकृतशेषकर्मावस्थस्ययुगपदात्यन्तिकः कृत्स्नकर्मविप्रमोक्षो मोक्षः प्रत्ये- ०५तव्यः । कर्माभावो द्विविधः — यत्नसाध्योऽयत्नसाध्यश्चेति । तत्र चरमदेहस्य नारकतिर्यग्दे — वायुषामभावो न यत्नसाध्यः असत्त्वात् । यत्नसाध्य इत उर्ध्वमुच्यते — असंयतसम्यग्दृ- ष्ट्यादिषु चतुर्षु गुणस्थानेषु कस्मिंश्चित्सप्तप्रकृतिक्षयः क्रियते । निद्रानिद्राप्रचलाप्रचला- स्त्यानगृद्धिनरकगतितिर्यग्गत्येकद्वित्रिचतुरिन्द्रियजातिनरकगतितिर्यग्यगतिप्रायोग्यानुपूर्व्या- तपोद्योतस्थावरसूक्ष्मसाधारणसञ्ज्ञिकानां षोडशानां कर्मप्रकृतीनामनिवृत्तिबादरसा- १०म्परायस्थाने युगपत्क्षयः क्रियते । ततः परं तत्रैव कषायाष्टकं नष्टं क्रियते । नपुंसकवेदः स्त्रीवेदश्च क्रमेण तत्रैव क्षयमुपयाति । नोकषायषट्कं च सहैकेनैव प्रहारेण विनिपातयति । ततः पुंवेदसंज्वलनंक्रोधमानमायाः क्रमेणं तत्रैवात्यन्तिकं ध्वंसमास्कन्दन्ति । लोभसंज्व- लनः सूक्ष्मसाम्परायान्ते यात्यन्तम् । निद्राप्रचले क्षीणकषायवीतरागच्छद्मस्थस्योपान्त्य- ४६७समये प्रलयमुपव्रजतः । पञ्चानां ज्ञानावरणानां चतुर्णां दर्शनावरणानां पञ्चानामन्त- रायाणां च तस्यैवान्त्यसमये प्रक्षयो भवति । अन्यतरवेदनीयदेवगत्यौदारिकवैक्रियिका- हारकतैजसकार्मणशरीरपञ्चबन्धनपञ्चसंघातसंस्थानषट्कौदारिकवैक्रियिकाहारकशरीरा- ङ्गोपाङ्गषट्संहननपञ्चप्रशस्तवर्णपञ्चाप्रशस्तवर्णगन्धद्वयपञ्चप्रशस्तरसपञ्चाप्रशस्तरस- ०५स्पर्शाष्टकदेवगतिप्रायोग्यानुपूर्व्यागुरुलघूपघातपरघातोच्छ्वासप्रशस्ताप्रशस्तविहायोगत्यप- र्याप्तकप्रत्येकशरिरस्थिरास्थिरशुभाशुभदुर्भगसुस्वरदुःस्वरानादेयायशःकीर्तिनिर्माणनामनी- चैर्गोत्राख्या द्वासप्ततिप्रकृतयोऽयोगकेवलिन उपान्त्यसमये विनाशमुपयान्ति । अन्यतरवेद- नीयमनुष्यायुर्मनुष्यगतिपञ्चेन्द्रियजातिमनुष्यगतिप्रायोग्यानुपूर्व्यत्रसबादरपर्याप्तकसुभगा- देययशःकीर्तितीर्थकरनामोच्चैर्गोत्रसंज्ञिकानां त्रयोदशानां प्रकृतीनामयोगकेवलिनश्चरम- १०समये व्युच्छेदो भवति । ४६८आह, किमासां पौद्गलिकीनामेव द्रव्यकर्मप्रकृतीनां निरासान्मोक्षोऽवसीयते उत भावकर्मणोऽपीत्यत्रोच्यते — औपशमिकादिभव्यत्वानां च ॥ ३ ॥ किम् ? ‘मोक्षः’इत्यनुवर्तते । भव्यत्वग्रहणमन्यपारिणामिकनिवृत्त्यर्थम् । तेन पारि- ०५णामिकेषु भव्यत्वस्यौपशमिकादीनां च भावानामभावान्मोक्षो भवतीत्यभ्युपगम्यते । आह, यद्यपवर्गो भावोपरतेः प्रतिज्ञायते ननु औपशमिकादिभावनिवृत्तिवत्सर्वक्षा- यिकभावनिवृत्तिव्यपदेशो मुक्तस्य प्राप्नोतीति ? स्यादेतदेवं यदि विशेषो नोच्येत । अस्त्यत्र विशेष इत्यपवादविधानार्थमिदमुच्यते — अन्यत्र केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यः ॥ ४ ॥ १०अन्यत्रशब्दापेक्षया ‘का’निर्देशः । केवलसम्यक्त्वज्ञानदर्शनसिद्धत्वेभ्यो अन्यत्रान्य- स्मिन्नयं विधिरिति । यदि चत्वार एवावशिष्यन्ते, अनन्तवीर्यादीनां निवृत्तिः प्राप्नोति ? नैष दोषः, ज्ञानदर्शनाविनाभावित्वादनन्तवीर्यादीनामविशेषः; अनन्तसामर्थ्यहीनस्यानन्ता- वबोधवृत्त्यभावाज्ज्ञानमयत्वाच्च सुखस्येति । अनाकारत्वान्मुक्तानामभाव इति चेन्न; ४६९aतीतानन्तरशरीराकारत्वात् । स्यान्मतं, यदि शरीरानुविधायी जीवः, तदभावात्स्वाभाविकलोकाकाशप्रदेशपरिमाण- त्वात्तावद्विसर्पणं प्राप्नोतीति ? नैष दोषः । कुतः ? कारणाभावात् । नामकर्मसम्बन्धो हि संहरणविसर्पणकारणम् । तदभावात्पुनः संहरणविसर्पणाभावः । ०५यदि कारणाभावान्न संहरणं न विसर्पणं तर्हि गमनकारणाभावादूर्ध्वगमनमपि न प्राप्नोति अधस्तिर्यग्गमनाभाववत्, ततो यत्र मुक्तस्तत्रैवावस्थानं प्राप्नोतीति ? अत्रोच्यते — तदनन्तरमूर्ध्वं गच्छत्या लोकान्तात् ॥ ५ ॥ तस्यानन्तरम् । कस्य ? सर्वकर्मविप्रमोक्षस्य । आङ्भिविध्यर्थः । ऊर्ध्वं गच्छत्या लोकान्तात् । १०अनुपदिष्टहेतुकमिदमूर्ध्वगमनं कथमध्यवसातुं शक्यमित्यत्रोच्यते — पूर्वप्रयोगादसङ्गत्वाद् बन्धच्छेदात्तथागतिपरिणामाच्च ॥ ६ ॥ ४७०आह, हेत्वर्थः पुष्कलोऽपि दृष्टान्तसमर्थनमन्तरेणाभिप्रेताथसाधनाय नालमित्य- त्रोच्यते — आविद्धकुलालचक्रवद्व्यपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च ॥ ७ ॥ पूर्वसूत्रे विहितानां हेतूनामत्रोक्तानां दृष्टान्तानां च यथासंख्यमभिसम्बन्धो भवति । ०५तद्यथा — कुलालप्रयोगापादितहस्तदण्डचक्रसंयोगपूर्वकं भ्रमणम् । उपरतेऽपि तस्मिन्पूर्वप्रयो- गादा संस्कारक्षयाद् भ्रमति । एवं भवस्थेनात्मनाऽपवर्गप्राप्तये बहुशो यत्प्रणिधानं तद- भावेऽपि तदावेशपूर्वकं मुक्तस्य गमनमवसीयते । किं च, असङ्गत्वात् । यथा मृत्तिकालेप- जनितगौरवमलाबुद्रव्यं जलेऽधःपतितं जलक्लेदविश्लिष्टमृत्तिकाबन्धनं लघु सदूर्ध्वमेव गच्छति तथा कर्मभाराक्रान्तिवशीकृत आत्मा तदावेशवशात्संसारे अनियमेन गच्छति । १०तत्सङ्गविमुक्तो तूपर्येवोपयाति । किं च, बन्धच्छेदात् । यथा बीजकोशबन्धच्छेदादेरण्ड- बीजस्य गतिर्दृष्टा तथा मनुष्यादिभवप्रापकगतिजातिनामादिसकलकर्मबन्धच्छेदान्मुक्त- स्य ऊर्ध्वगतिरवसीयते । किं च, तथागतिपरिणामात् । यथा तिर्यक्प्लवनस्वभावसमीरण- सम्बन्धनिरुत्सुका प्रदीपशिखा स्वभावादुत्पतति तथा मुक्तात्माऽपि नानागतिविकारकार- ४७१णकर्मनिर्वारणे सत्यूर्ध्वगतिस्वभावादूर्ध्वमेवारोहति । आह, यदि मुक्त ऊर्ध्वगतिस्वभावो लोकान्तादूर्ध्वमपि कस्मान्नोत्पततीत्यत्रोच्यते — धर्मास्तिकायाभावात् ॥ ८ ॥ गत्युपग्रहकारणभूतो धर्मास्तिकायो नोपर्यस्तीत्यलोके गमनाभावः । तदभावे च ०५लोकालोकविभागाभावः प्रसज्यते । आह, अमी परिनिर्वृत्ता गतिजात्यादिभेदकारणाभावादतीतभेदव्यवहारा एवेति ? अस्ति कथञ्चिद् भेदोऽपि । कुतः — क्षेत्रकालगतिलिङ्गतीर्थचारित्रप्रत्येकबुद्धबोधित- ज्ञानावगाहनान्तरसंख्याल्पबहुत्वतः साध्याः ॥ ९ ॥ १०क्षेत्रादिभिर्द्वादशभिरनुयोगैः सिद्धाः साध्या विकल्प्या इत्यर्थः, प्रत्युत्पन्नभूतानुग्रह- तन्त्रनयद्वयविवक्षावशात् । तद्यथा — क्षेत्रेण तावत्कस्मिन् क्षेत्रे सिध्यन्ति ? प्रत्युत्पन्न- ग्राहिनयापेक्षया सिद्धिक्षेत्रे स्वप्रदेशे आकाशप्रदेशे वा सिद्धिर्भवति । भूतग्राहिनयापेक्षया जन्म प्रति पञ्चदशसु कर्मभूमिषु, संहरणं प्रति मानुषक्षेत्रे सिद्धिः । कालेन कस्मिन्काले ४७२सिद्धिः ? प्रत्युत्पन्ननयापेक्षया एकसमये सिद्ध्यन् सिद्धो भवति । भूतप्रज्ञापननयापेक्षया जन्मतोऽविशेषेणोत्सर्पिण्यवसर्पिण्योर्जातः सिध्यति । विशेषेणावसर्पिण्यां सुषमदुःषमाया अन्त्ये भागे दुःषमसुषमायां च जातः सिध्यति । न तु दुःषमायां जातो दुःषमायां सिध्यति । अन्यदा नैव सिध्यति । संहरणतः सर्वस्मिन्काले उत्सर्पिण्यामवसर्पिण्यां च सिध्यति । ०५गत्या कस्यां गतौ सिद्धिः ? सिद्धिगतौ मनुष्यगतौ वा । लिङ्गेन केन सिद्धिः ? अवेदत्वेन त्रिभ्यो वा वेदेभ्यः सिद्धिर्भावतो न द्रव्यतः ? द्रव्यतः पुल्लिङ्गेनैव । अथवा निर्ग्रन्थ- लिङ्गेन । सग्रन्थलिङ्गेन वा सिद्धिर्भूतपूर्वनयापेक्षया । तीर्थेन, तीर्थसिद्धिः द्वेधा, तीर्थकरेतर- विकल्पात् । इतरे द्विविधाः सति तीर्थकरे सिद्धा असति चेति । चारित्रेण केन सिध्यति ? अव्यपदेशेनैकचतुःपञ्चविकल्पचारित्रेण वा सिद्धिः । स्वशक्तिपरोपदेशनिमित्तज्ञानभेदात् १०प्रत्येकबुद्धबोधितविकल्पः । ज्ञानेन केन ? एकेन द्वित्रिचतुर्भिश्च ज्ञानविशेषैः सिद्धिः । आत्मप्रदेशव्यापित्वमवगाहनम् । तद् द्विविधम्, उत्कृष्टजघन्यभेदात् । तत्रोत्कृष्टं पञ्च- ४७३धनुःशतानि पञ्चविंशत्युत्तराणि । जघन्यमर्धचतुर्थारत्नयो देशोनाः । मध्ये विकल्पाः । एकस्मिन्नवगाहे सिध्यति । किमन्तरम् ? सिध्यतां सिद्धानामनन्तरं जघन्येन द्वौ समयौ उत्कर्षेणाष्टौ । अन्तरं जघन्येनैकः समयः उत्कर्षेण षण्मासाः । संख्या, जघन्येन एकसमये एकः सिध्यति । उत्कर्षेणाष्टोत्तरशतसंख्याः । क्षेत्रादिभेदभिन्नानां परस्परतः संख्या- ०५विशेषोऽल्पबहुत्वम् । तद्यथा — प्रत्युत्पन्ननयापेक्षया सिद्धिक्षेत्रे सिध्यन्तीति नास्त्यल्प- बहुत्वम् । भूतपूर्वनयापेक्षया तु चिन्त्यते, क्षेत्रसिद्धा द्विविधा — जन्मतः संहरणतश्च । तत्राल्पे संहरणसिद्धाः । जन्मसिद्धाः संख्येयगुणाः । क्षेत्राणां विभागः कर्मभूमिरकर्मभूमिः समुद्रो द्वीप ऊर्ध्वमधर्स्तियगिति । तत्र स्तोका ऊर्ध्वलोकसिद्धाः । अधोलोकसिद्धाः संख्येय- गुणाः । तिर्यग्लोकसिद्धाः संख्येयगुणाः । सर्वतः स्तोकाः समुद्रसिद्धाः । द्वीपसिद्धाः संख्येय- १०गुणाः । एवं तावदविशेषेण । सर्वतः स्तोका लवणोदसिद्धाः । कालोदसिद्धाः संख्येयगुणाः । जम्बृद्वीपसिद्धाः संख्येयगुणाः । धातकीखण्डसिद्धाः संख्येयगुणाः । पुष्करद्वीपार्धसिद्धाः संख्येयगुणाः इति । एवं कालादिविभागेऽपि यथागममल्पबहुत्वं वेदितव्यम् ॥ १० ॥ ४७४स्वर्गापवर्गसुखमाप्तुमनोभिरार्यै र्जैनेन्द्रशासनवरामृतसारभूता । सर्वार्थसिद्धिरिति सद्भिरुपात्तनामा तत्त्वार्थवृत्तिरनिशं मनसा प्रधार्या ॥ १ ॥ ०५तत्त्वार्थवृत्तिमुदितां विदितार्थतत्त्वाः शृण्वन्ति ये परिपठन्ति च धर्मभक्त्या । हस्ते कृतं परमसिद्धिसुखामृतं तै — र्मर्त्यामरेश्वरसुखेषु किमस्ति वाच्यम् ॥ २ ॥ येनेदमप्रतिहतं सकलार्थतत्त्व — १०मुद्द्योतितं विमलकेवललोचनेन । भक्त्या तमद्भुतगुणं प्रणमामि वीर — मारान्नरामरगणार्चितपादपीठम् ॥ ३ ॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसंज्ञिकायां दशमोऽध्यायः समाप्तः । शुभं भवतु सर्वेषाम् ॥