सन्मइतक्क / तत्त्वबोधविधायिनी १९२४-१९३१
सिद्धसेनदिवाकर-प्रणीतं संमतितर्कप्रकरणम् अभयदेव् ...
नत्थि पुढवीविसिट्ठो“घडो”त्ति जं तेण जुज्जइ अणण्णो । जं पुण“घडो”त्ति पुव्वं ण आसि पुढवी तओ अण्णो ॥ ५२ ॥ नास्ति सद्द्रव्यमृत्पृथिवीत्वादिभ्यो विश्लिष्टो भिन्नो घटः सदादिव्यतिरिक्तस्वभावतया तस्यानुपलम्भात् । किञ्च, यदि सत्त्वादयो धर्मा घटाद् एकान्ततो भिन्नाः सोऽपि वा तेभ्यो भिन्नः स्यात् तदा न घटस्य सदादित्वं स्यात् स्वतोऽसदादेरन्यधर्मयोगेऽपि शशशृङ्गादेरिव त१त्तत्वा(तथात्वा) — योगात् सदादेरपि घटाद्याकाराद् अत्यन्तभेदे निराकारतया अत्यन्ता२भावस्येव उपलम्भविषयत्वायो- गाद् ज्ञेयत्व — प्रमेयत्वादिधर्माणामपि सदादिधर्मेभ्यो भेदे असत्त्वम् सदादेस्तु तेभ्यो भेदे अज्ञेयत्वाद् असत्त्वमेव “उपलम्भः सत्ता” इति वचनात् । ततः सदादिरूपतया उपलभ्यमा- नत्वाद् घटस्य तेभ्योऽभिन्नरूपताऽभ्युपगन्तव्या प्रमेयव्यवस्थितेः प्रमाणनिबन्धनत्वात् । यत् पुनः पृथुबुध्रोदराद्याकारतया पूर्वं सदादिर्न आसीत् ततोऽसौ अन्यस्तेभ्यो घटरूपतया प्राक् सदा- देरनुपलम्भात् प्रागपि तद्रूपस्य सदादौ सत्त्वे अनुपलम्भायोगात् दृश्याऽनुपलम्भस्य च अभावाव्य- भिचारित्वात् तदतद्रूपतायां च विरोधाभावात् प्रतीयमानायां तदयोगात् अबाधितप्रत्ययस्य च मिथ्यात्वासंभवाद् बाधाविरहस्य च प्रागेव उपपादितत्वात् ॥ ५२ ॥ [सदाद्येकान्तवत् कालाद्येकान्तेऽपि मिथ्यात्वख्यापनम्] सदाद्येकान्तवादवत् कालाद्येकान्तवा३देऽपि मिथ्यात्वमेव इत्याह — कालो सहाव णियई पुव्वकयं पुरिस कारणेगंता । मिच्छत्तं ते चे४वा(व) समासओ होंति सम्मत्तं ॥ ५३ ॥