५१सनातनजैनग्रंथमाला ९ स्याद्वादपतिश्रीविद्यानंदस्वामिविरचिता प्रमाणपरीक्षा । ०५जयंति निर्जिताशेषसर्वथैकांतनीतयः । सत्यवाक्याधिपाः शश्वद्विद्यानंदा जिनेश्वराः ॥ १ ॥ अथ प्रमाण-परीक्षा — तत्र प्रमाणलक्षणं परीक्ष्यते — "सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः । सन्निकर्षादिरज्ञानमपि प्रमाणं स्वार्थप्रमितौ साधकतम- त्वात् ? इति नाशंकनीयं । तस्य स्वप्रमितौ साधकतमत्वासंभावात् । न ह्यचेतनोऽर्थः स्वप्रमितौ करणं पटा- १०दिवत् । सोऽर्थप्रमितौ करणमित्यप्यनालोचितवचनं नैयायिकानां स्वप्रमितावसाधकतमस्यार्थप्रमितौ साधकतमत्वानुपपत्तेः । तथाहि — न सन्निकर्षादिरर्थप्रमितौ साधकतमः स्वप्रमितावसाधकतमत्वात्पट- वत् । प्रदीपादिभिर्व्यभिचारः साधनस्य ? इति न मंतव्यं । तेषामर्थपरिच्छित्तावकरणत्वात् । तत्र नयनम- नसोरेव करणतया स्वयमभिमतत्वात् । प्रदीपादीनां तत्सहकारितयोपचारतः करणव्यवहारानुसरणात् । न चोपचारतोऽर्थप्रकाशन एव प्रदीपादिः करणं न पुनः स्वप्रकाशन इति मन्यमानो निर्मलमना मनीषिभिः, १५अनुमन्यते । नयानादेः-अर्थसंवेदनमिव प्रदीपादिसंवेदनमप्युपजनयतः प्रदीपादीनां सहकारित्वाविशेषात् । तेषामर्थप्रकाशनवत् स्वप्रकाशनेऽपि करणतोपचारव्यवस्थितेः । नयनादिना-अनेकांत इत्यपि न मननीयं तस्याप्युपकरणरूपस्याचेतनस्वभावस्यार्थप्रतिपत्तौ करणतोपचारात् । परमार्थतो भावेंद्रियस्यैव-अर्थग्रहणश- क्तिलक्षणस्य साधकतमतया करणताध्यवसनात् । न चैतदसिद्धं विशुद्धधिषणजनमनसि युक्तियुक्ततया परिवर्त- मानत्वात् । तथाहि — २०"यदसन्निधाने कारकांतरसन्निधानेऽपि यन्नोपपद्यते तत् तत्करणकं । यथा कुठारासन्निधाने काष्टछेदनम- नुत्पद्यमानं कुठारकरणकं । नोत्पद्यते च भावेंद्रियासमवधानेऽर्थसंवेदनमुपकरणसद्भावेऽपि, इति तद्भावेंद्रि- यकरणकं । बहिःकरणसन्निकर्षाधीनतायां हि पदार्थसंवेदनस्य, नयनसन्निकर्षात् कलश इव नभसि नायन- संवेदनोदयः कुतो न भवेत् ? । न हि नयननभसोरन्यतरकर्मजः संयोगो न विद्यते एवेति वक्तुं युक्तं सकलमूर्तिमद्द्रव्यसंयोगान्नभसि सर्वगतत्वसाधनविरोधात् । न च नयनममूर्तिमदेव ? तस्य परैर्भौतिकतयो- २५पगतत्वात् । पौद्गलिकतयास्माभिरुपकरणस्याभिमतत्वात् । ननु नभसि नयनसन्निकर्षस्य योग्यताविरहान्न संवेदननिमित्तता? इत्यपि न साधीयः तद्योग्यताया एव साधकतमत्वानुषंगात् । का चेयं सन्निकर्षस्य योग्य- ता नाम ? विशिष्टा शक्तिरिति चेत् ? सा तर्हि सहकारिसन्निधिलक्षणा अनुमंतव्या । ५२"सहकारिसांनिध्यं शक्तिः" इत्युद्द्योतकरवचनात् । सहकारिकारणं च द्रव्यं गुणः कर्मा- दि वा स्यात् ? न तावदात्मद्रव्यं सहकारि तत्सन्निधानस्य नयननभःसन्निकर्षेऽपि समानत्वात् । एते- न कालद्रव्यं दिग्द्रव्यं च सहकारि निराकृतं तत्सान्निध्यस्यापि सर्वसाधरणत्वात् । मनोद्रव्यं सहकारि इत्यपि न संगतं तत्सन्निधेरपि समानत्वात् । कदाचित्तद्गतमनसः पुरुषस्याक्षार्थसन्निकर्षस्य संभवात् । ०५एतेन आत्मा मनसा युज्यते, मन इंद्रियेण, इंद्रियमर्थेनेति चतुष्टयसन्निकर्षोऽर्थप्रमितौ साधकतम इति सामिग्रींप्रमाणवादो दूषितः — तत्सामिग्र्याश्च नभसि सद्भावात् । कालादिनिमित्तकारणसामिग्रीवत् । यदि पुनस्तेजोद्रव्यं सहकारि तत्सन्निधानात् चाक्षुषादिज्ञानप्रभवादिति मतं तदापि न विशेषः घटादाविव गगनेऽपि लोचनसन्निकर्षस्यालोकसन्निधिप्रसिद्धेः संवेदनानुषंगस्य दुर्निवारत्वात् । अथादृष्टविशेषो गुणः सहकारी तत्सान्निध्यं संयुक्तसमवायेन, चक्षुषा संयुक्ते पुरुषे त्वदृष्टविशेषस्य समवायात् इति मन्यध्वं १०तर्हि कदाचिन्नभसि नायनंसवेदनोदयः कुतो न भवेत् ? । सर्वदा सर्वस्य तत्रादृष्टविशेषस्य सहकारिणोऽस- न्निधानात् इति चेत्? कथमेवमीश्वरस्य नभसि चक्षुषा ज्ञानं श्रोत्रादिभिरिव घटते ? समाधिविशेषोपजनि- तधर्मविशेषानुगृहीतेन मनसा गगनाद्यशेषपदार्थसंवेदनोदये तु महेश्वरस्य बहिःकरणमनर्थकतामियात् । फलासंभवात् । बहिःकरणरहितस्य च नांतःकरणमुपपद्येत परनिर्वृत्तात्मवत् । ततः कथमंतःकरणेन धर्मा- दिग्रहणं मनसोऽसंभवे च न समाधिविशेषस्तदुपजनितधर्मविशेषो वा घटामटाट्यते तस्यात्मांतःकरणसं- १५योगनिबंधनात् । स्यान्मतं शिशिररश्मिशेखरस्य समाधिविशेषसंततिर्धर्मविशेषसंततिश्च सर्वार्थज्ञानसंततिहेतुरना- द्यपर्यवसाना, सततमेनोमलैरस्पृष्टत्वात् । तस्य संसारिसादि मुक्तिविलक्षणत्वात् सर्वथा मुक्ततयैव प्रसिद्ध- त्वात् इति तदप्यसमीचीनं एवमीश्वरस्यापि एनोमलविलयादेरेवार्थसंवेदनोद्भवप्रसक्तेः । सततमेनोमला- भावो हि यथा सततमर्थज्ञानसंतानहेतुरुररीक्रियते तथा कादचित्कैनोमलाभावः कदाचिदर्थप्रमितिनिमित्त- २०युक्तमुत्पश्यामः तस्यैव सन्निकर्षसहकारितोपपत्तेः । तत्सान्निध्यस्यैव च सन्निकर्षशक्तिरूपत्वसिद्धेः । तद्भावादेव च नयनसन्निकर्षेऽपि नभसि संवेदनानुत्पत्तिघटनात् । तत्र विशिष्टधर्मोऽपि न पापमलापायादपरः प्रतिपद्यते भावांतरस्वभावत्वादभावस्य, निःस्वभावस्य सकलप्रमाणगोचरातिक्रांतत्वेन व्यवस्थापयितुमशक्य- त्वात् इति पुरुषगुणविशेषसद्भाव एव पापमलाभावो विभाव्यते । स चात्मविशुद्धिविशेशो ज्ञानावरणवीर्यांतराय- क्षयोपशमभेदः स्वार्थप्रमितौ शक्तिर्योग्यतेति च स्याद्वादवेदिभिरभिधीयते । प्रमातुरुपलब्धिलक्षणप्राप्त- २५तापि नातोर्थांतरभावमनुभवति पुंसः संवेदनावरणवीर्यांतरायलक्षणपापमलापगमविरहे क्वचिदुपलब्धिलक्षण- प्राप्ततानुपलब्धेः, नयनोन्मीलनादिकर्मणो दृश्यादृश्ययोः साधारणत्वात् प्रद्योतादिकरणसाकल्यवत् । एतेन नयनोन्मीलनादिकर्मसान्निकर्षसहकारिविषयगतं चोपलभ्यत्वसामान्यमिति प्रत्याख्यातं तत्सन्निधाने सत्य- पि क्वचित्कस्यचित् प्रमित्यनुपपत्तेः कालाकाशादिवत् । न हि तत्रोपलभ्यत्वसामान्यमसंभाव्यं योगिनो- ऽप्यनुपलब्धिप्रसंगात् । अस्मादृशापेक्षयोपलभ्यत्वसामान्यमन्यदेव योगीश्वरापेक्षादुपलभ्यतासामान्यादिति- ३०चेत् ? तत्किमन्यत् ? अन्यत्र योग्यताविशेषात् । प्रतिपुरुषं भेदमास्तिघ्नुवानादिति [? ]स एव प्रमातुः प्रमित्यु- ताविशेषः स्वार्थग्रहणशक्तिः । आत्मनो भावकरणं ज्ञानमेव फलरूपत्वात् स्वार्थज्ञानात्कथंचिदभिन्नत्वात् सर्वथापि ततो भेदे नात्मस्वभावत्वोपत्तेः । न चैवमुपगंतुं युक्तं ? आत्मन एवोभयनिमित्तवशात्तथापरिणा- मात् । आत्मनो हि जानात्यनेनेति करणसाधनात् भेदोपवर्णनं कथं चिदभिन्नकर्तृकस्य करणस्य प्रसिद्धेः अग्निरौष्ण्येन दहतींधनमिति यथा । स्वातंत्र्यविवक्षायां तु जानातीति ज्ञानमात्मैव, कर्तृसाधनत्वात्तदात्मज्ञा- ३५नयोरभेदप्राधान्यात् आत्मन एव स्वार्थग्रहणपरिणाममापन्नस्य ज्ञानव्यपदेशसिद्धेः औष्ण्यपरिणाममाप- न्नस्याग्नेरौष्ण्यव्यपदेशवत् । तेन ज्ञानात्मा ज्ञानात्मना ज्ञेयं जानाति इति व्यवहारस्य प्रतीतिसिद्धत्वात् । यथा च ५३ज्ञानात्मैव प्रमाता स्यात्, अज्ञानात्मनः खादेः प्रमातृत्वायोगात् तथा ज्ञानात्मैव प्रमाणं स्वार्थप्रमितौ ज्ञान- क्रियात्मिकायां करणात्वात् । अज्ञानात्मनस्तत्र साधकतमत्वाघटनान्नाज्ञाने प्रमाणं, अन्यत्रोपचारतः । ततो- नाज्ञानेन इंद्रियसन्निकर्षलिंगशब्दादिना साधनस्य व्यभिचारः । नापि व्यतिरेकासिद्धिः सम्यग्ज्ञानत्वस्य साध्यस्य निवृत्तौ प्रमाणत्वस्य साधनस्य पटादौ विनिवृत्तिविनिश्चयात् । केवलव्यतिरेकिणोऽपि साधनस्य ०५समर्थनात् । ततः सूक्तं सम्यग्ज्ञानमेव प्रमाणमज्ञानस्य प्रमाणत्वायोगान्मिथ्याज्ञानवदिति । किं पुनः सम्यग्ज्ञानं ? अभिधीयते–स्वार्थव्यवसायात्मकं सम्यग्ज्ञानं सम्यग्ज्ञानत्वात् । यत्तु न स्वार्थव्यवसाया- त्मकं तन्न सम्यग्ज्ञानं यथा संशयविपर्यासानध्यवसायाः । सम्यग्ज्ञानं च विवादापन्नं तस्मात्स्वार्थव्यवसायात्मकमिति सुनिश्चितान्यथानुपपत्तिनियमनिश्चयलक्षणो हेतुः प्रसिद्ध एव सम्यगवबोधादीनां साध्यधर्मिणि सद्भावात् । स्व- संवेदनेंद्रियमनोयोगिप्रत्यक्षैः सम्यग्ज्ञानैः–अव्यवसायात्मकैर्व्यभिचारी हेतुः ? इति स्वमनोरथमात्रं सौगतस्य तेषां १०सम्यग्ज्ञानत्वविरोधात् । सम्यग्ज्ञानत्वं ह्यविसंवादकत्वेन व्याप्तं तदभावे तदसंभवात् । तदपि प्रवर्तकत्वेन व्याप्तं तदभावे तदसंभवात् । तदप्यर्थप्रापकत्वेन अर्थप्रापकस्याविसंवदित्वात् । निर्विषयज्ञानवत् । तदपि प्रवर्त- कत्वेन व्याप्तं अप्रवर्तकस्यार्थाप्रत्यायकत्वात् । तद्वत् प्रवर्तकत्वमपि विश्वविषयोपदर्शकत्वेन व्याप्तं स्वविषयमु- पदर्शयतः प्रवर्तकव्यवहारविषयत्वसिद्धेः । न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्रवर्तयति । स्वविषयं रूपं दर्शयत् प्रवर्तकमुच्यते अर्थप्रापकं च इत्यविसंवादकं सम्यग्वेदकं प्रमाणं तद्विपरीतस्य मिथ्याज्ञानत्वप्रसिद्धेः संशय- १५वदिति धर्मोत्तरमतं । तत्राव्यवसायात्मकस्य चतुर्विधस्यापि समक्षस्य सम्यग्वेदनत्वं न व्यवतिष्ठते तस्य स्वविषयोपदर्शकत्वाऽसिद्धेः । तत्सिद्धौ वा नीलादाविव क्षणक्षयादावपि तदुपदर्शकत्वप्रसक्तेः । ततो यद- व्यवसायात्मकं ज्ञानं न तत्स्वविषयोपदर्शकं यथा गच्छतः तृणस्पर्शसंवेदनं । अध्यवसायि प्रसिद्धमव्यवसायात्मकं च सौगताभिमतदर्शनमिति व्यापकानुपलब्धिः सिद्धा । व्यवसायात्मकस्य व्यापकस्याभावे तद्व्याप्यत्वस्य स्वविषयोपदर्शकत्वस्याननुभवात् । २०स्यादाकुतं — तेन व्यवसायात्मकत्वेन स्वविषयोपदर्शकत्वस्य व्याप्तिः सिद्धिमधिवसति तस्य व्यवसा- यजनकत्वेन व्याप्तत्वात् । नीलधवलादौ व्यवसायजननाद्दर्शनस्य तदुपदर्शकत्वव्यवस्थितेः । क्षणक्षयस्वर्ग- प्रापणशक्त्यादौ व्यवसायाजनकत्वात् तदनुपदर्शकत्वव्यवस्थानात् । गच्छत्तृणस्पर्शसंवेदनस्यापि तत एव स्वविषयोपदर्शकत्वाभावसिद्धेः मिथ्याज्ञानत्वव्यवहारात् अन्यथानध्यवसायित्वाघटनात् इति ? तदेतदवि- चारितरमणीयं ताथागतस्य व्यवसायो हि दर्शजन्यः । स किं दर्शनविषयस्योपदर्शकोऽनुपदर्शको वा ? २५इति विचार्यते– यद्युपदर्शकस्तदा स एव तत्र प्रवर्तकः प्रापकश्च स्यात् संवादकत्वात् सम्यक्संवेदनवत् । न तु तन्निमित्तं दर्शनं सन्निकर्षादिवत् । अथानुपदर्शकः ? कथं दर्शनं तज्जननात् स्वविषयोपदर्शकं ? अतिप्रसंगात् । संशयविपर्यासकारणस्यापि स्वविषयोपदर्शकत्वापत्तेः । दर्शनविषयसामान्याध्यवसायित्वाद्वि- कल्पतज्जनकं दर्शनं स्वविषयोपदर्शकमिति च न चेतसि स्थापनीयं दर्शनविषयसामान्यस्यान्यापोहलक्षण- स्यावस्तुत्वात् । तद्विषयव्यवसायजनकस्य वस्तूपदर्शकत्वविरोधात् । दृश्यसामान्ययोरेकत्वाध्यवसायाद्वस्तूप- ३०दर्शक एव व्यवसाय इत्यपि मिथ्या तयोरेकत्वाध्यवसायासंभवात् । तदेकत्वं हि दर्शनमध्यवस्यति तत्पृष्ठजो- व्यवसायो वा ज्ञानांतरं वा ? न तावद्दर्शनं तस्य विकल्पाविषयत्वात् । नापि तत्पृष्ठजो व्यवसायः तस्य दृश्यागोचरत्वात् । तदुभयविषयं ज्ञानांतरं तु निर्विकल्पकं विकल्पात्मकं वा ? न तावन्निर्विकल्पकं तस्य दृश्य विकल्प्यद्वयविषयत्वविरोधात् । नापि विकल्पात्मकं तत एव । नच तद् द्वयाविषयं संवेदनं तदुभयैकत्वमध्यव- सातुं समर्थं । तथाहि– यद्यन्न विषयी कुरुते न तत्तदेकत्वमध्यवस्यति यथा रससंवेदनं स्पर्शरूपोभयं । न ३५विषयी कुरुते च दृश्यविकल्प्योभयं किंचित्संवेदनं, इति न कुतश्चिद्दृश्यविकल्प्ययोरेकत्वाध्यवसायः सिद्ध्येत् ततो न व्यवसायो वस्तूपदर्शकः स्यात् । नापि तदुपजननाद्दर्शनं स्वविषयवस्तूपदर्शकं योगिप्रत्यक्षस्य विधू- तकल्पनाजालस्य सर्वदा वस्तुविकल्पाजनकत्वात् तदुपदर्शकत्वविरोधात् । स्वसंवेदनमपि न तस्य स्वरूपोप- ५४ दर्शकं तद्विकल्पानुत्पादकत्वात् इति कुतः स्वरूपस्य स्वतो गतिरवतिष्ठेत? । किं च दर्शनपृष्ठभाविनो विकल्पस्य स्वसंवेदनवलात्सिद्धौ तत्स्वसंवेदनं कुतः प्रमाणं स्यात् ? । तद्यदि स्वरूपोपदर्शनादेव प्रमाणमा- स्थीयते ? तदा स्वर्गप्रापणशक्त्यादावपि प्रमाणतामास्कंदेत् । तत् स्वसंविदाकार एव प्रमाणं तद्व्यवसाय जननात्–न पुनरन्यत्रेति परिकल्पनायां तद्व्यवसायस्वसंवेदनस्यापि व्यवसायांतरोपजननात् स्वरूपोपदर्श- ०५नेन भवितव्यमित्यनवस्थानात्, नाद्यव्यवसायस्वसंवेदनस्य प्रामाण्यं । तदप्रामाण्ये च न तत एव व्यवसाय- सिद्धिः । तदसिद्धौ च न तज्जननाद्दर्शनस्य स्वविषयोपदर्शकत्वं । तदभावे च न तस्य प्रवर्तकत्वं । अप्रवर्त- कस्य नार्थप्राप्तिनिमित्तत्वं । तदसंभवे च नाविसंवादकत्वं तद्विरहे च न सम्यग्ज्ञानत्वं स्वसंवेदनेंद्रियमनो योगिज्ञानानामिति न तैर्व्यभिचारः साधनस्य संभवति । स्यान्मतं — अर्थसामर्थ्यादुत्पत्ति–अर्थसारूप्यं च दर्शनस्य स्वविषयोपदर्शकत्वं तच्च सकलसमक्षवेद- १०नानामव्यवसायात्मकत्वेऽपि संभवत्प्रवर्तकत्वमर्थप्रापकत्वमविसंवादकत्वं सम्यग्ज्ञानलक्षणमिति तैः समीची- नैर्ज्ञानैर्व्यभिचार एव हेतोरिति ? तदपि दुर्घटमेव क्षणक्षयादावपि तदुपदेशकत्वप्रसंगात् । तत्राक्षणिक- त्वादिसमारोपानुप्रवेशादयोगिनः प्रतिपत्तुर्नोपदेशकत्वमवतिष्ठते । योगिनस्तु समारोपासंभवात् क्षणक्षयादा- वपि दर्शनं तदुपदेशकमेवेति समाधानमपि न धीमद्धृतिकरं नीलादावप्ययोगिनस्तद्विपरीतसमारोपप्रसक्तेः । कथमन्यथा विरुद्धधर्माध्यासात्तद्दर्शनभेदो न भावेत्? न हि –अभिन्नमेकदर्शनं क्वचित्समारोपाक्रांतं क्वचिन्नेति १५वक्तुं युक्तं । ततो यद्यत्र विपरीतसमारोपविरुद्धं तत्तत्र निश्चायात्मकं यथानुमेयेऽर्थेऽनुमानज्ञानं । विपरीतसमारो- पविरुद्धं च नीलादौ दर्शनमिति व्यवसायात्मकमेव बुद्ध्यामहे । निश्चयहेतुत्वाद्दर्शनं नीलादौ विपरीतसमा- रोपविरुद्धं न पुनर्निश्चयात्मकत्वात् ततोऽन्यथानुपपत्तिः साधनस्यानिश्चितेति मामंस्थाः योगिप्रत्यक्षेऽस्य विपरीतसमारोपस्य प्रसंगात् तेन तस्याविरोधात् । परेषां तु तस्यापि निश्चयात्मकत्वात्तेन विरोधः सिद्ध एव । तथा निश्चयहेतुना दर्शनेन विरुद्धं प्रतिपादयतः स्वमतविरोधः स्यात् । निश्चयारोपमनसोर्बाध्यबाधकभाव इति २०धर्मकीर्तेरभिमतत्वात् दर्शनारोपयोर्विरोधाभावसिद्धेः । ननु चार्थदर्शनस्य निश्चयात्मकत्वे साध्ये प्रत्यक्षवि- रोधः संहृतसकलविकल्पदशायां रूपादिदर्शनस्यानिश्चयात्मकस्यानुभवात् । तदुक्तं — संहृत्य सर्वतश्चिंतां स्तिमितेनांतरात्मना । स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥ १ ॥ इति । तथानुमानविरोधोऽपि व्युच्छित्तचिंतावस्थायां–इंद्रियादर्थगतौ कल्पनानुपलब्धेः । तत्र कल्पनास- २५द्भावे पुनस्तत्स्मृतिप्रसंगः तदा विकल्पितकल्पनावत् — तदप्युक्तं — पुनर्विकल्पयन् किंचिदासीन्मे कल्पनेदृशी । इति वेत्ति न पूर्वोक्तावस्थायामिंद्रियाद्गतौ ॥ १ ॥ – इति तदेतदपि धर्मकीर्तेरपरीक्षिताभिधानं प्रत्यक्षतो निर्विकल्पदर्शनाप्रसिद्धत्वात् । संहृतसकलविकल्पा- वस्था ह्यश्वं विकल्पयतो गोदर्शनावस्था । न च तदा गोदर्शनमव्यवसायात्मकं पुनः स्मरणाभावप्रसंगात् । ३०तस्य संस्कारकारणत्वविरोधात् क्षणिकत्वादिवत् । व्यवसायात्मन एव दर्शनात् । संस्कारस्य स्मरणस्य च संभवात् अन्यतस्तदनुपपत्तेः । ददुक्तं — व्यवसायात्मनो दृष्टेः संस्कारः स्मृतिरेव वा । दृष्टे दृष्टसजातीये नान्यथा क्षणिकादिवत् ॥ १ ॥ अथ मतं — अभ्यासप्रकरणबुद्धिपाटवार्थित्वेभ्यो निर्विकल्पकादपि दर्शनान्नीलादौ संस्कारः स्मरणं ३५चोत्पद्यते न पुनः क्षणिकादौ तदभावात् । व्यवसायात्मनोऽपि प्रत्यक्षात्तत एव संस्कारस्मरणोपपत्तेः । तेषामभावे निश्चिते ऽपि वस्तुनि नियमेन संस्कारादेरभावात् तेषां व्यवसायात्मकसमक्षवादिनोऽपि नियमतो- ५५ भ्युपगमनीयत्वात् इति ? तदपि फल्गुप्रायं भूयोदर्शनलक्षणस्याभ्यासस्य क्षणक्षयादौ सुतरां सद्भावात् । पुनपुनर्विकल्पोत्पादरूपस्य चाभ्यासस्य परं प्रत्यसिद्धत्वात् तत्रैव विवदात् । क्षणिकाक्षणिकविचारणायां क्षणि- कप्रकरणस्यापि भावात् । बुद्धिपाटवं तु नीलादौ क्षणक्षयादौ च समानं तद्दर्शनस्यानंशत्वात् । तत्र पाटवा- पाटवयोर्भेदे तद्बुद्धेरपि भेदापत्तेः, विरुद्धधर्माध्यासात् । तथाविधतद्वासनाख्यकर्मवशाद्बुद्धेः पटवापाटवे स्यातां, ०५इत्यप्यनेनापास्तं तत्कर्मसद्भावयोरपि विरुद्धधर्मयोरनंशबुद्धावेकस्यामसंभवात् । यत्पुनरर्थित्वं जिज्ञासितत्वं तत्क्षणिकवादिनः क्षणिकत्वेऽस्त्येव नीलादिवत् । यत्पुनरभिलषितृत्वमर्थित्वं तन्न व्यवसायजनननिबंधनं क्वचिदनभिलषितेऽपि वस्तुनि कस्य चिदुदासीनस्य स्मरणप्रतीतेः — इति नाभ्यासादिभ्यः क्वचिदेव संस्कार- जननं — अनंशज्ञानज्ञेयवादिनो घटते । परस्य तु बहिरंतरनेकात्मकतत्त्ववादिनो न किंचिदनुपपन्नं सर्वथै- कत्र व्यवसायाव्यवसाययोः, अवायानवायाख्ययोः, संस्कारासंस्कारयोः, धारणेतराभिधानयोः, स्मरणास्मरण- १०योश्चानभ्युपगमात् । तद्भेदात्कथंचिद्बोधबोध्ययोर्भेदप्रसिद्धेः । सौगतस्यापि व्यावृत्तिभेदाद्भेदोपगमाददोषोयं तथाहि–नीलत्वमनीलत्वव्यावृत्तिः, क्षाणिकत्वमक्षणिकत्वव्या- वृत्तिरुच्यते तत्रानीलव्यावृत्तौ नीलव्यवसायस्तद्वासनाप्रबोधादुत्पन्नो न पुनरक्षणिकव्यावृत्तौ क्षणिकव्यवसाय- स्तत्र तद्वासनाप्रबोधाभावात् । न चानयोर्व्यावृत्त्योरभेदः संभवति व्यावर्त्यमानयोरभेदप्रसंगात् । न च तद्भेदाद्व- स्तुनो भेदः तस्य निरंशत्वात् अन्यथा अनवस्थाप्रसंगात् इति परे मन्यंते तेपि न सत्यवादिनः स्वभावभेदाभाबवे १५वस्तुनो व्यावृत्तिभेदासंभवात् । नीलस्वलक्षणं हि येन स्वभावेनानीलाद्व्यावृत्तं तैनैव यद्यक्षणिकाद्व्यावर्तेत तदा नीलाक्षणिकयोरेकत्वापत्तेस्तद्व्यावृत्त्योरेकत्वप्रसंगः । स्वभावांतरेण तत्ततो व्यावृत्तमिति वचने तु सिद्धः स्वलक्षस्य स्वभावभेदः कथं निराक्रियते ? । यदि पुनः स्वभावभेदोऽपि वस्तुनो तत्स्वभावव्यावृत्त्या कल्पित एवेति मतं ? तदा परिकल्पितस्वभावांतरकल्पनायामनवस्थानुषज्येत । तथाहि–अनीलस्वभावा- न्यव्यावृत्तिरपि स्वभावांतरेण अन्यव्यावृत्तिरूपेण वक्तव्या । सापि तदन्यव्यावृत्तिस्वभावांतरेण तथाविधे- २०नेति न क्वचिद् व्यवतिष्ठते । कश्चिदाह — तत एव सकलविकल्पवाग्गोचरातीतं वस्तु विकल्पशब्दानां विषयस्यान्यव्यावृत्ति- रूपस्य अनाद्यविद्योपकल्पितस्य सर्वथा विचारा ऽसहत्वात् । विचारसहत्वे वा तदवस्तुत्वविरोधात् इति सोपि न सम्यग्वादी दर्शनविषयस्याप्यवस्तुत्वप्रसंगात् तस्यापि शब्दविकल्पविषयवत् विचारासहत्वाविरो- धात् । तथाहि — नीलस्वलक्षणं सुगतेतरंजनदर्शनविषयतामुपगच्छत् किमेकेन स्वभावेन नानास्वभावेन २५वा दृश्यं स्यात् ? तद्यद्येकेन स्वभावेन तदा यदेव सुगतदृश्यत्वं तदेवेतरजनदृश्यत्वमित्यायातं अशेषस्य जगतः सुगतत्वं । यच्चेतरजनदृश्यत्वं तदेव सुगतदृश्यत्वमिति सकलस्य सुगतस्येतरजनत्वापत्तेः सुगत- रहितमखिलं स्यात् । अथैतस्माद्दोषाद्विभ्यता नानास्वभावेन सुगतेतरजनदृश्यत्वं प्रतिपाद्यते तदा नील- स्वलक्षणस्य दृश्यस्वभावभेदः कथमपह्नुयेत ? न च दृश्यं रूपमनेकं कल्पितमिति शक्यं वक्तुं दृश्यस्य कल्पितत्वविरोधात् । अथ मन्येथाः स्वलक्षणस्य दृश्यत्वं स्वाकारार्पकत्वव्यावृत्तिरूपं नानादृष्टॄव्यपेक्षयाऽनेकं ३०घटामटत्येव तदभावे नानादृष्टदर्शनविषयतां स्वलक्षणं नास्कंदेत् । न च परमार्थतो दर्शनं दृश्यविषयं सर्वज्ञानां स्वरूपमात्रपर्यवसितत्वात् । उपचारादेव बहिर्विषयताव्यवहारात् इति तदप्यसत् वस्तुनः स्वा- कारार्पकत्वस्यापि पूर्वपर्यनुयोगानतिक्रमात् । तद्धि स्वलक्षणं येन स्वभावेन सुगतदर्शनाय स्वाकारम- र्पयति तेनैवेतरजनदर्शनाय स्वभावांतरेण वा ? यदि तेनैव तदा तदेव सुगतेतरजनदर्शनैकत्वमापनीप- द्यते तथा च सर्वस्य सुगतत्वं इतरजनत्वं वा दुर्निवारतामाचनीस्कंद्यते । स्वभावांतरेण स्वाकारार्पकत्वे ३५स एव वास्तवः स्वभावभेदः स्वलक्षणस्याक्षुण्ण्तया कथं प्रतिक्षिप्यते ? । यत्पुनः स्वाकारार्पकत्वमपि न वस्तुनः परमार्थपथप्रस्थांयि समवस्थाप्यते स्वरूपमात्रविषयत्वात् सकलसंवेदनानामिति मतं तदपि ५६ दुरुपपादमेव तेषां वैयर्थ्यप्रसगांत् । ज्ञानं हि ज्ञेयप्रसिद्ध्यर्थं प्रेक्षावतामन्विष्यते प्रकाश्यप्रसिद्ध्यर्थं प्रदीपा- दिवत् । न पुनः स्वरूपप्रसिद्ध्यर्थं प्रदीपवदेवेति । बहिरर्थाविषयत्वे सकलसंवेदनानां कथमिव वैयर्थ्यं न स्यात् ? निर्विषयस्वप्नादिसंवेदनानामपि सार्थकत्वप्रसंगात् स्वरूपप्रकाशनस्य प्रयोजनस्य सर्वत्र भावात् । किं च सुगतसंवेदनस्यापि स्वरूपमात्रपर्यवसितायां कथमिव सुगतः सर्वदर्शीष्यते पृथग्जनवत् । ०५पृथग्जनो वा कथं न सर्वदर्शी सुगतवदनुमन्येत ? स्वरूपमात्रपर्यवसितायाः तत्संवेदनेऽपि सद्भावात् । यदि पुनर्वास्तवत्वं सकलवेदित्वं ताथागतस्योररीक्रियते संवृत्त्या तस्य व्यवहारिभिः संव्यवहरणात् तदव्यहरणे तद्वचनस्य सत्यताव्यवहारानुपपत्तेः सकलज्ञानरहितपुरुषोपदेशाद्विप्रलंभनशंकनप्रसंगात् । तदुक्तं — ज्ञानवान् मृग्यते कश्चित्तदुक्तप्रतिपत्तये । १०अज्ञोपदेशकरणे विप्रलंभनशांकिभिः ॥ १ ॥ इति प्रतिपद्येत तथापि सुगतेतरव्यवहारसिद्धिः सुगतवदितरजनस्यापि संवृत्त्या सकलवेदित्वकल्प- नानुषंगात् । सकलपदार्थेभ्यः सुगतस्य संवेदनोदयात् सकलार्थज्ञता युक्ता कल्पयितुं न पुनरितर- जनस्य प्रतिनियतपदार्थादेव तद्वेदनोत्पत्तेरिति चेत् ? न सुगतज्ञानस्यांपि सकलपदार्थजन्यत्वासिद्धेः । समसमयवर्तिपदार्थजन्यत्वासंभवात् । यदि पुनरनाद्यतीतपदार्थेभ्यो भविष्यदनंतार्थेभ्यः सांप्रतिकार्थे- १५भ्यश्च सकलेभ्यः सुगतसंवेदनस्योत्पत्तिः अखिलाविद्यातृष्णाविनाशादुपपद्यत एव अस्मदादिसंवेद- नाद्विशिष्टत्वात्तस्येति मतं ? तदा किमेकेन स्वभावेन कालत्रयवर्तिपदार्थैः सुगतविज्ञानमुत्पद्यते नानास्वभावैर्वा ? यद्येकेन स्वभावेन, एकेनार्थेन सुगतज्ञानमुपजन्यते तेनैव सकलपदार्थैः तदा सकलपदार्थानामेकरूपतापत्तिः । सुगतविज्ञानस्य वा तदेकपदार्थजन्यत्वसिद्धिरिति नेतरजन- संवेदनात्तस्य विशेषः सिद्ध्येत् । अथान्येन स्वभावेनैकार्थः सुगतज्ञानमुपजनयति पदार्थांतराणि तु स्वभावां- २०तरैस्तदुपजनयंति इति मतिर्भवतां तर्हि सुगतज्ञानमनंतस्वभावमेकमायातं । तद्वत्सकलं वस्तु कथमनंतात्म- कतां न स्वीकुर्यादिति चिंतनीयं । एकस्यनेकस्वभावत्वविरोधान्नैकमनेकात्मकमिति चेत् ? कथमिदानीं सुगतविज्ञानमेकपदार्थजन्यं नानारूपतां विभर्ति ? । यदि पुनरतज्जन्यरूपव्यावृत्त्या तज्जन्यरूपपरिकल्पनान्न तत्त्वतः सुगतसंवेदनमनेकरूपताक्रांतमित्याकूतं ? तदा न परमार्थतः सुद्धोदनितनयविज्ञानमखिलपदार्थ- जन्यं, इति कुतः पृथग्जनसंवेदनादस्य विशेषः समवतिष्ठते ? । ततः सुगतविज्ञानदृश्यतामितरजनविज्ञानविष- २५यतां च एकस्य नीलादिस्वलक्षणस्यानेकाकारामपि स्वयमुररीकुर्वता नीलस्वलक्षणकादिरूपतापि दृश्यादृश्य- त्वलक्षणा स्वीकर्तव्या, तथा च नीलादौ दर्शनमन्यद्व्यवसायात्मकं संस्कारस्मरणकारणं तद्विपरीदर्शनादव- बोद्धव्यं, इति न प्रत्यक्षप्रसिद्धं निर्व्यवसायात्मकत्वमध्यक्षज्ञानस्य । नाप्यनुमानप्रसिद्धं गोदर्शनसमयेऽश्वक- ल्पनावत् गोदर्शनस्यापि व्यवसायात्मकत्वोपपत्तेः । पुनर्विकल्पयतः तदनुस्मरणस्यान्यथानुपपत्तेः । तथा हि यन्निर्व्यवसायात्मकं ज्ञानं तन्नोत्तरकालमनुस्मरणजननसमर्थं यथा पराभिमतं स्वर्गप्रापणशक्त्यादि- ३०दर्शनं तथा चाश्वविकल्पकाले गोदर्शनमिति तदनुस्मरणजननसमर्थं न स्यात् भवति च पुनर्विकल्पयत- स्तदनुस्मरणं तस्माद्व्यवसायात्मकमिति निश्चयः । तदेवं व्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानं साधनं न व्यभिचरति कस्य चिदपि सम्यग्ज्ञानस्याव्यवसायात्मकत्वप्रमाणबाधितत्वादिति स्थितं । ये त्वाहुः — स्वार्थव्यवसायात्मकत्वे साध्ये सम्यग्ज्ञानस्य हेतोर्न प्रयोजकत्वं सर्वस्य सम्यग्ज्ञानस्या- र्थव्यवसाययमंतरणैव सम्यग्ज्ञानत्वसिद्धेः । तथा हि — विवादाध्यासितं सम्यग्ज्ञानं नार्थव्यवसायात्मकं ३५ज्ञानत्वात्, स्वव्यवसायात्मकत्वात् । यद्ज्ञानं स्वव्यवसायात्मकं वा तन्नार्थव्यवसायात्मकं यथा स्वप्नादिज्ञानं तथा च विपदावन्नं ज्ञानं जिनपतिमतानुसारिभः, अभ्यनुज्ञातं तस्मान्नार्थव्यवसायात्मकमिति तेपि न प्रातीति- ५७ कावदिनः जागृद्दशाभाविनः समीचीनविज्ञानस्यार्थव्यवसायात्मकत्वप्रतीतेः । तस्यार्थाव्यवसायात्मकत्वे- ततोऽर्थे प्रवृत्त्यभावप्रसंगात् । प्रतीयते च सम्यग्ज्ञानादर्थे प्रवृत्तिरविसंवादिनी तस्मादर्थव्यवसायात्मकं तदर्थे प्रवृत्त्यन्यथानुपपत्तेः । मिथ्याज्ञानादप्यर्थे प्रवृत्तिदर्शनादनेकांतः ? इति चेन्न तस्याः प्रवृत्त्याभास- त्वात्, व्यवसितार्थप्राप्तिनिमित्तत्वाभावात् । व्यवसितमर्थं प्रापयितुं समर्था हि संयक् प्रवृत्तिः सा च मिथ्या- ०५ज्ञानान्नोपपद्यत इति न व्यभिचारः । यच्चार्थव्यवसायात्मकत्वनिराकरणप्रवणमनुमानं तत्स्वार्थं व्यवस्यति वा न वा ? प्रथमविकल्पे तेनैवानैकांतिकं साधनमापद्येत तस्य ज्ञानत्वे स्वव्यवसायात्मकत्वेऽपि स्वसाध्यार्थ- व्यवसायात्मकत्वसिद्धेः । द्वितीयविकल्पेऽपि नातोऽनुमानादिष्टसिद्धिः स्वसाध्यार्थव्यवसायात्मकत्वात् अनु- मानाभासवत् । ततः किं बहुना सर्वस्य किंचिदिष्टं साधयतः स्वयमनिष्टं वा दूषयतः कुतश्चित्प्रमाणात् तस्यार्थव्यवसायात्मकत्वाभ्यनुज्ञानमवश्यंभावि तस्यार्थाव्यवसायात्मकत्वे स्वेष्टानिष्टसाधनदूषणानुपपत्तेः । पर- १०प्रसिद्ध्यार्थव्यवसायिनः प्रमाणस्याभ्यनुज्ञानाददोष इति चेत् ? तर्हि परं प्रतिपाद्यसे वा न वा? यदि न प्रतिपाद्यसे कथं परप्रासिद्ध्या क्वचिदभ्युनुज्ञानं ? तं न प्रतिपाद्यसे तत्प्रसिद्ध्या च किंचिदभ्यनुजानासीति कथमनुन्मत्तः ? । अथ परं प्रतिपाद्यसे तर्हि यतः प्रमाणात्तत्प्रतिपत्तिः तत्स्वकीयार्थव्यवसायात्मकं सिद्धं तस्याव्यवसायात्मकत्वे तेन परप्रतिपत्तेरयोगात् । यदि पुनः पराभ्युपगमांतरात्परप्रतिपत्तिरिति मतं तदाप्य- निवृत्तः पर्यनुयोगः तस्यापि पराभ्युपगमांतरस्य प्रतिपत्त्यप्रतिपत्तिपूर्वकत्वे पूर्वोक्तदूषणानतिक्रमात् । १५स्यान्मतं न बहिरर्थाः परमार्थतः संति तत्प्रत्ययानां निरालंबनत्वात् स्वप्नप्रत्ययवत् सतानांतरवि- ज्ञानानामपि असत्त्वात् । तत्र स्वरूपमात्रव्यवसायात्मकमेव विज्ञानमिति तदप्यसारं तथाहि — सर्वप्रत्य- यानां निरालंबनत्वं न तावत्प्रत्यक्षतः सिद्ध्यति तस्य तद्विषयत्वात् । विवादापन्नाः प्रत्यया निरालंबना एव प्रत्ययत्वात् स्वप्नेंद्रिजालादिवदिति अनुमानान्निरालंवनत्वसिद्धिंरित्यपि मिथ्या स्वसंतानप्रत्ययेन व्यभिचारात् । तस्यापि संतानांतरप्रत्ययवत्पक्षीकरणे किमिदमनुमानज्ञानं स्वसाध्यार्थालंबनं निरालंबनं वा ? प्रथमपक्षे तेनैवा- २०नैकांतिकत्वं प्रत्ययत्वं । द्वितीयकल्पनायां नातो निरालंबनत्वसिद्धिः । परब्रह्मस्वरूपसिद्धिरेव सकलभेदप्रत्ययानां निरालंबनत्वसिद्धिः? इत्यपि न व्यवतिष्ठते परब्रह्मण एवाप्रसिद्धेः । तद्धि स्वतो वा सिद्ध्येत् परतो वा ? न तावत्स्वत एव विप्रतिपत्त्यभावप्रसंगात् । परतश्चेदनुमानादागमाद्वा ? यद्यनुमानात् किमत्रानुमानमित्यभि- धीयतां । विवादापन्नोऽर्थः प्रतिभासांतः प्रविष्ट एव प्रतिभासमानत्वात् । यो यः प्रतिभासमानः स स प्रति- भासांतः प्रविष्ट एव दृष्टः यथा प्रतिभासस्यात्मा प्रतिभासमानश्च सकलोऽर्थश्चेतनाचेतनात्मको विवादापन्नः २५तस्मात्प्रतिभासांतःप्रविष्ठ एवेत्यनुमानं न सम्यक् धर्मि-हेतु-दृष्टांतानां प्रतिभासांतःप्रविष्टत्वे साध्यांतःपाति- त्वेन अनुमानोत्थानायोगात् । प्रतिभासांतः प्रविष्टत्वाभावे तैरेवेति हेतोर्व्यभिचारात् । यदि पुनरनाद्यवि- द्यावासनावलाद्धर्मि-हेतु-दृष्टांताः प्रतिभासबहिर्भूता इव निश्चीयंते प्रतिपाद्यप्रातिपादकसभ्यसभापतिजनवत् । ततोऽनुमानमपि संभवत्येव सकलानाद्यविद्याविलासविलये तु प्रतिभासांतःप्रविष्टमखिलं प्रतिभासमेवेति विप्र- तिपत्त्यसंभवात् । प्रतिपाद्यप्रतिपादकभावाभावात् साध्यसाधनभावानुपपत्तेर्न किंचिदनुमानोपन्यासफलं । स्व- ३०यमनुभूयमाने परब्रह्मणि प्रतिभासात्मनि देशकालाकारवच्छिन्नस्वरूपे निर्व्यभिचारे सकलकालावस्थाव्यापि- नि–अनुमानाप्रयोगात् इति समभिधीयते तदा साप्यनाद्यविद्या यदि प्रतिभासांतःप्रविष्टा तदाविद्यैवा कथमसंतं धर्मिदृष्टांतादिभेदमुपदर्शयेत् । अथ प्रतिभासबहिर्भूतास्तदा साऽप्रतिभासमाना प्रतिभासमाना वा ? न ताव- दप्रतिभासमाना भेदे प्रतिभासरूपत्वात् तस्याः । प्रतिभासमाना चेत् तयैव हेतोर्व्यभिचारः प्रतिभास- बहिर्भूतत्वेऽपि तस्याः प्रतिभासमानत्वात् । ३५स्यादाकूतं — न प्रतिभासमाना नाप्रतिभासमाना न प्रतिभासबहिर्भूता नापि प्रतिभासांतःप्रविष्टा नैक नचानेका न नित्या नाप्यनित्या न व्यभिचारिणी नाप्यव्यभिचारिणी सर्वथा विचार्यमाणायोगात् । सकलविचारातिक्रांतस्वरूपैव रूपांतराभावात् अविद्यया नीरूपतालक्षणत्वात् इति । तदेतदप्यविद्यावि- जृंभितमेव तथाविधनीरूपतास्वभावायाः केन चिदविद्यायाः कथंचिदप्रतिभासमानायाः वक्तुमशक्तेः । प्रतिमासमानायास्तु तथावचने कथमसौ सर्वथा नीरूपा स्यात् ? येन स्वरूपेण यः प्रतिभासते तस्यैव ५८ तद्रूपत्वात् । तथा सकलविचारातिक्रांततया किमसौ विचारगोचरा अविचारगोचरा वा स्यात् ? प्रथमकल्प- नायां सकलविचारातिक्रांततया विचारानतिक्रांतत्वाभ्गुपगमव्याघातः । द्वितीयकल्पनायां न सकलविचारा- तिक्रांतता व्यवतिष्ठते सकलविचारातिक्रांततायामपि तस्यास्तया व्यवस्थाने सर्वथैकानेकरूपताया अपि व्यवसथानप्रसंगात् । तस्मात्सत्स्वभावैवाविद्याभ्युपगंतव्या विद्यावत् । तथा च विद्याऽविद्याद्वैतप्रसिद्धेः ०५कुतः परमब्रह्मणोऽनुमानात्सिद्धिः ? । एतेनोपनिषद्वाक्यात्परमपुरुषसिद्धिः प्रत्याख्याता । सर्वं वै खल्विदं ब्रह्मेत्यादिवाक्यस्य परमात्मनोंऽर्थांतरभावे द्वैतप्रसक्तेरविशेषात् । तस्यानाद्यविद्यात्मकत्वेऽपि पूर्वोदितदूषण- प्रसंगात् ततो न परमपुरुषाद्वैतसिद्धिः स्वतः परतो वा येन सम्यग्ज्ञानं स्वव्यवसायात्मकमेव न पुनरर्थव्य- वसायात्मकं–अर्थाभावादिति वदन् अवधेयवचनः स्यात् । यत्तु स्वप्नज्ञानं स्वव्यवसायात्मकमेवेत्युक्तं तदपि न संगतं तस्य साक्षात्परंपरया वार्थव्यवसायात्म- १०कत्वाघटनात् । द्विविधो हि स्वाप्नः सत्योऽसत्यश्च तत्र सत्यो देवताकृतः स्यात् धर्माधर्मकृतो वा कस्यचित्सा- क्षाद्व्यवसायात्मकः प्रसिद्धः स्वप्नदशायां यद्देशकालाकारतयार्थः प्रतिपन्नः पुनर्जागृद्दशायामपि तद्देश- कालाकारतयैव तस्य व्यवसीयमानत्वात् । कश्चित्सत्यः स्वप्नः परंपरयार्थ–व्यवसायी स्वप्नाध्यायनिगदि- तार्थप्रापकत्वात् । तदुक्तं — यस्तु पश्यति १रात्र्यंते१ राजानं कुजरं हयं । १५सुवर्णं वृषभं गां च कुटंबं तस्य वर्धते ॥ १ ॥ इति कुटुंबवर्धनाविनाभाविनः स्वप्ने राजादिदर्शनस्य कथमर्थनिश्चायकता न स्यात् ? पावकाविना- भाविधूमदर्शनवत् । दृष्टार्थाव्यवसायात्मकत्वान्न स्वप्नबोधोऽर्थव्यवसायी इति वचने लैंगिकोऽपि बोधोऽर्थ- व्यवसायी माभूत । तत तद्वत् । अनुमानबाधोऽनुमितार्थव्यवसायी संभवतीति वचने स्वप्नागमगम्या- र्थव्यवसायी स्वप्नबोधोऽपि कथं नाभ्यनुज्ञायते ? । कदाचिद्व्यभिचारदर्शनान्नैवमभ्युपगमः कर्तुं सुशक्य २०इति चेन्न देशकालाकारविशेषं यथार्थागमोदितमपेक्ष्यमाणस्य क्वचित्कदाचित्कथंचिद्व्यभिचाराभावात् । तदपेक्षाविकलस्तु न समीचीनः स्वप्नः तस्य स्वप्नाभासत्वात् । प्रतिपत्तुरपराधाच्च व्यभिचारः संभाव्यते न पुनरनपराधात् यथा चाधूमः धूमबुद्ध्या प्रतिपद्यमानस्य ततः पावकानुमानं व्यभिचारीति प्रतिपत्तुरेवापराधो न धूमस्य धीमद्भिरभिधीयते । तथैवास्वप्नं स्वप्नबुद्ध्याध्यवस्य ततस्तद्विषयाध्यवसायो न व्यभिचरतीति न स्वप्नागमस्यापराधः प्रतिपत्तेरेवापराधात् । यः पुनरसत्यः स्वप्नः पित्ताद्युद्रेकजनितः स किमर्थसामान्यं २५व्यभिचरति अर्थविशेषं वा ? न तावदर्थसामान्यं देशकालाकारविशेषाणामेव व्यभिचारात् सर्वत्र सर्वदा सर्वथार्थसामान्यस्य सद्भावात् । तदभावेऽर्थविशेषेषु संशयविपर्यासस्वप्नायथार्थज्ञानानामनुत्पत्तेः न हि किंचिद् ज्ञानं सत्तामात्रं व्यभिचरति तस्यानुत्पत्तिप्रसक्तेः ततोऽसत्यस्वप्नस्याप्यर्थसामान्यव्यवसायात्मकत्वसिद्धेः न किंचिद् ज्ञानमर्थाव्यवसायात्मकं । विशेषं तु यत एव व्यभिचरति तत एव असत्यः कथमन्यथा सत्येतरव्य- वस्थितिः स्यात् ? तस्याः स्वार्थविशेषप्राप्त्यप्राप्तिनिमित्तत्वादित्यलं प्रसंगेन स्वव्यवसायात्मकत्ववत् सम्यग्ज्ञान- ३०स्यार्थव्यवसायात्मकत्वप्रसिद्धेः । अत्रापरः प्राह — सम्यग्ज्ञानमर्थव्यवसायात्मकमेव न स्वव्यवसायात्मकं स्वात्मनि क्रियाविरोधात् एकस्य ज्ञानस्यानेकाकारानुपपत्तेः । न हि ज्ञानमेकमाकारं कर्मतामापन्नं व्यवस्यति कर्मात्मनाकारेणेति वक्तुं युक्तं ताभ्यं कर्मकरणाकाराभ्यां ज्ञानस्याभेदे भेदप्रसंगात् । न हि भिन्नाभ्यां ताभ्यामभिन्नमेकं नाम अतिप्रसंगात् । तयोर्वाकारयोर्ज्ञानादभेदे भेदप्रसंगात् नह्यभिन्नादभिन्नयोर्भेदःसंभाव्यते अतिप्रसंगात् । एवं ताभ्यां विज्ञानस्य ३५भेदोपगमे न विज्ञानमात्मनात्मानं व्यवस्यति परात्मना परात्मन एव व्यवसायात् तौ चाकारौ यदि ज्ञानस्या- त्मानौ तदा ज्ञानं व्यवस्यति वा न वा ? प्रथमपक्षे किमेकेनाकारांतरेण द्वाभ्यं वाऽकारांतराभ्यां तत्तौ व्यवस्येत । न तावदेकेनाकारांतरेण विरोधात् । द्वाम्यां व्यवस्यति इति चेत् तयोरप्याकारांतरयोर्ज्ञानादभेदो भेदो वा स्यात् ५९इत्यनिवृत्तः पर्यनुयोगः — अनवस्था च महीयसी । कथंचिद्भेदः कथंचिदभेदः कथंचिदभेदः इत्युभयपक्षालंबनमपि अने- नैवापास्तं पक्षद्वयनिक्षिप्तदोषानुषंगात् पक्षांतराऽसंभवाच्चेति सोऽपि न न्यायकुशलः प्रतीत्यतिलंघनात् । लोके हि ज्ञानस्य स्वव्यवसायिन एवार्थव्यवसायित्वेन प्रतीतिः सिद्धा । नचेयं मिथ्या बाधकाभावात् । स्वात्मानि क्रियाविरोधो बाधक इति चेत् का पुनःक्रिया ? किमुत्पत्तिर्ज्ञाप्तिर्वा ? यद्युत्पत्तिः सा स्वात्मनि विरु- ०५ध्यतां । न हि वयमभ्यनुजानीमहे ज्ञानमात्मानमुत्पादयति इति । नैकं स्वस्मात्प्रजायते इति समंतभद्रस्वामिभिरभिधानात् । अथ ज्ञाप्तिः क्रिया सा स्वात्मनि विरुद्धा तदात्मनैव ज्ञानस्य स्वका- रणकलापादुत्पादात् । प्रकाशात्मनैव प्रकाशस्य प्रदीपादेः । न हि स्वकारणसामिग्रीतः प्रदीपादिप्रकाशः समुप- जायमानः स्वप्रकाशात्मना नोत्पाद्यत इति प्रातीतिकं तत्स्वरूपप्रकाशेन प्रकाशांतरापेक्षाप्रसंगात् । नचायं १०प्रदीपाद्यालोकः कलशादिज्ञानं स्वरूपज्ञानं च चक्षुषोजनयतः सहकारित्वं नात्मसात्कुरुते येन स्वप्रकाशको न स्यात् । चक्षुषः सहकारित्वं हि प्रदीपादेः प्रकाशत्वं तच्च कलशादाविव स्वात्मन्यपि दीपादेर्विद्यत एवेति सिद्धा स्वात्मनि प्रकाशनक्रिया । तद्वद्विज्ञानस्यार्थप्रकाशनमिव स्वप्रकाशनमप्यविरुद्धमवबुध्यतां । एतेन "ज्ञानं न स्वप्रकाशकं, अर्थप्रकाशकत्वादित्यनुमाममापस्तं प्रदीपादिना हेतोरनेकांतात् । प्रदीपादिः–उपचारात् प्रकाशको न परमार्थत इति तेनाव्यभिचारे चक्षुरादेरपि परमार्थतोऽर्थाऽप्रकाशकत्वात् साधनशून्यो दृष्टांतः १५ज्ञानस्यैव परमार्थतोऽर्थप्रकाशत्वोपपत्तेः । ततो "ज्ञानं स्वप्रकाशकं, अर्थप्रकाशकत्वात् यत्तु न स्वप्रकाशकं तन्नार्थप्रकाशकं दृष्टं यथा कुड्यादिकं । अर्थप्रकाशकं च ज्ञानं तस्मात्स्वप्रकाशकमिति केवलव्यतिरेक्यनुमान मविनाभावनियमनिश्चयलक्षणाद्धेतोरुत्पद्यमानं निरवद्यमेवेति बुध्यामहे । चक्षुरादिभिः परमार्थतोऽर्थप्रकाश- कत्वासिद्धेस्तेन साधनस्यानेकांतिकतानुपपत्तेः । कुड्यादेरपि स्वाविनाभाविपदार्थांतरप्रकाशकत्वाद्धूमादिवत् साधनाव्यतिरेको दृष्टांत इत्यपि समुत्सारितमनेन तस्याप्युपचारादर्थप्रकाशकत्वसिद्धेः अन्यथा तज्जनितवि- २०ज्ञानवैयर्थ्यापत्तेः । यत्पुर्ज्ञानमात्मानमात्मना जानातीति कर्मकरणाकारद्वयपरिकल्पनायामनवस्थादिदोषा नुषंगो बाधकं इति मतं तदपि न सुंदरतरं तथाप्रतीतिसिद्धत्वात् । जात्यंतरत्वादाकारवतोर्भेदाभेदं प्रत्यने- कांतात् । कर्मकरणाकारयोर्ज्ञानांत् कथंचिदभेदः कथंचिद्भेदः इति नैकांतेन भेदाभेदपक्षोपक्षिप्तदो- षोपनिपातः स्याद्वादिनां संलक्ष्यते । नच कथंचिदित्यंधपदमात्रं ज्ञानात्मना तदभेदस्य कथंचिदभेदशब्दे- नाभिधानात् । कर्मकरणात्मना च भेद इति कथंचिद्भेदध्वनिना दर्शितत्वात् । तथा च ज्ञानात्मना तद- २५भेद इति ज्ञानभेदाभेदस्ततो भिन्नस्य ज्ञानात्मनोऽप्रतीतेः । कर्मकरणाकारतया च भेद इति कर्मकरणा- कारावेव भेदस्य द्रव्यव्यतिरिक्तस्याकारस्याप्रतीयमानत्वात् इति । येनात्मना ज्ञानात् कर्मकरणाकारयोरभेदो येन च भेदस्तौ ज्ञानात्किमभिन्नौ भिन्नौ वा इति न पर्यनुयोगस्यावकाशोऽस्ति ययाऽनवस्था महीयसी संप्र- सज्येत । नच भिन्नाभ्यामेव कर्मकरणाभ्यां भवितव्यमिति नियमोऽस्ति करणस्य भिन्नकर्तृकस्यापि दर्शनात् भिन्नकर्तृकरणवत् । यथैव हि देवदत्तः परशुना छिनत्ति काष्टमित्यत्र देवदत्तात्कर्तुर्भिन्नं परशुलक्षणं करण- ३०मुपलभ्यते । तथाग्निर्दहति दहनात्मनेत्यत्राग्नेः कर्तुर्दहनात्मलक्षणं करणमभिन्नमुपलभ्यत एवं दहनात्मा- प्युष्णलक्षणः स चाग्नेर्गुणिनो भिन्न एवेति न मंतव्यं सर्वथा तयोर्विरोधे गुणगुणीभावविरोधात् सह्यविं- ध्यवत् । गुणिनि गुणस्य समवायात् तयोस्तद्भाव इत्यपि न सत्यं समवायस्य कथंचिदविश्वग्भावात् अन्यत्य विचारासहत्वात् । समित्येकीभावेनावायनमवगमनं हि समवायः तच्च समवायनं कर्मस्थं समवेयमानत्वं समवायितादात्म्यं प्रतीयते, कर्तृस्थं पुनः समवायनं समवायकत्वं प्रमातुस्तादात्म्येन समवायिनोर्ग्राहकत्वं ३५न चान्या गतिरस्ति क्रियायाः कर्तृकर्मस्थतयैव प्रतिपादनात् तत्र — कर्मस्था क्रिया कर्मणोऽनन्या कर्तृस्था कर्तुरनन्या इति वचनात् । ततो नाभिन्नकर्तृकं करणमप्रसिद्धं । नापि कर्म तस्यापि भिन्नकर्तृकस्येवाभिन्नकर्तृ- कस्यापि प्रतीतेः । यथैव हि कटं करोतीत्यत्र कर्तुर्भिन्न कर्मानुमन्यते । तथा प्रदीपः प्रकाशयत्यात्मानमि- ६०त्यत्र कर्तुरभिन्नं कर्म संप्रतीयत एव । न हि प्रदीपात्मा प्रदीपाद्भिन्न एव प्रदीपस्याप्रदीपत्वप्रसंगात् घटवत् । प्रदीपे प्रदीपात्मनोभिन्नस्यापि समवायात् प्रदीपत्वसिद्धिरितिचेत्, न अप्रदीपेऽपि घटादौ तत्समवायप्रसं- गात् । प्रत्यासत्तिविशेषात्प्रदीपात्मनः प्रदीप एव समवायो नान्यत्रेति चेत् ? स प्रत्यासत्तिविशेषोऽत्र कोऽ- न्यत्र कथंचित्तादात्म्यात् ? ततः प्रदीपादभिन्न एव प्रदीपात्मा कर्मेति सिद्धमभिन्नकर्तृकं कर्म । तथा च ०५ज्ञानात्मात्मानमात्मना जानातीति न स्वात्मनि ज्ञप्तिलक्षणायाः क्रियाया विरोधः सिद्धः, यतः स्वव्यवसाया- त्मकं ज्ञानं न स्यात् । स्यान्मतं — अर्थज्ञानं ज्ञानांतरवेद्यं प्रमेयत्वात् घटादिवदित्यनुमानं स्वार्थव्यवसायात्मकत्वप्रतीतेर्बा- धकमिति तदपि फल्गुप्रायं महेश्वरार्थज्ञानेन हेतोर्व्यभिचारात् । तस्य ज्ञानांतरावेद्यत्वेऽपि प्रमेयत्वात् । यदि पुनरीश्वरार्थज्ञानमपि ज्ञानांतरप्रत्यक्षं–असंवेद्यत्वात् इति मितिस्तदा तदप्यर्थज्ञानज्ञानमीश्वरस्य प्रत्य- १०क्षमप्रत्यक्षं वा ? यदि प्रत्यक्षं तदा स्वतो ज्ञानांतराद्वा ? । स्वतश्चेत् प्रथममप्यर्थज्ञानं स्वतः प्रत्यक्षमस्तु किं विज्ञानांतरेण ? । यदि तु ज्ञानांतरात्प्रत्यक्षं तदपीष्यते तदा तदपि ज्ञानांतरं किमीश्वरस्य प्रत्यक्षमप्रत्यक्षं वेति स एव पर्यनुयोगो ऽनवस्थानं च दुःशक्यं परिहर्तुं । यदि पुनरप्रत्यक्षमेवेश्वरार्थज्ञानज्ञानं तदेश्वरस्य सर्वज्ञत्वविरोधः स्वज्ञानस्याप्रत्यक्षत्वात् । तदप्रत्यक्षत्वे च प्रथमार्थज्ञानमपि न तेन प्रत्यक्षं स्वयमप्रत्यक्षेण ज्ञानांतरेण तस्यार्थज्ञानस्य साक्षात्करणविरोधात् । कथमन्यथा आत्मांतरज्ञानेनापि कस्यचित्साक्षात्करणं १५न स्यात् । तथा चानीश्वरस्यापि सकलस्य प्राणिनः स्वयमप्रत्यक्षेणापीश्वरज्ञानेन सर्वविषयेण सर्वार्थसाक्षात्क- रणं संगच्छेत ततः सर्वस्य सर्वार्थवेदित्वासिद्धेः–ईश्वरानीश्वरविभागाभावो भूयते । यदा चार्थज्ञानमपि प्रथम मीश्वरस्याप्रत्यक्षमेव कक्षीक्रियते तदा तेनापि स्वयमप्रत्यक्षेण महेश्वरस्य सकलोऽर्थः प्रत्यक्षं कथं समर्थ्येत तेन सकलप्राणिगणस्य सर्वार्थसाक्षात्करणप्रसंगस्य तदवस्थत्वात् । तदनेन वादिना महेश्वरस्यापि किंचिज्ज्ञ- त्वं सर्वस्य वा सर्वज्ञत्वमनुज्ञातव्यं न्यायवलायातत्वात् । तथाभ्यनुज्ञाने वा नैयायिकस्य नैयायिकत्व- २०विरोधः केनास्य वार्येत । यदि पुनरीश्वरस्य ज्ञानं सकलार्थवदात्मानमपि साक्षात्कुरुते नित्यैकरूपत्वत्, क्रमभाव्यनेकानित्यज्ञानोपगमे महेश्वरस्य सकृत्सर्वार्थसाक्षात्करणविधानात् सर्वज्ञत्वाव्यवस्थितेरिति मतं तदा कथमनेनैवानैकांतिको हेतुर्न स्यात् । स्यान्मतिरेषा युष्माकमस्मदादिज्ञानापेक्षयार्थज्ञानस्य ज्ञानांतरवेद्यत्वं प्रमेयत्वेन हेतुना साध्यते ततो नेश्वरज्ञानेन व्यभिचारः तस्यास्मदादिज्ञानाद्विशिष्टत्वात् । न हि विशिष्टे दृष्टं धर्म- मविशिष्टेऽपि घटयन् प्रेक्षावत्तां लभते इति सापि न परीक्षासहा ज्ञानांतरस्यापि प्रज्ञानेन वेद्यत्वेऽनवस्था- २५नुषंगात् । तस्य ज्ञानांतरेण वेद्यत्वे तेनैव हेतोर्व्यभिचारः । न च तदप्रमेयमेव सर्वस्येति वक्तुं शक्यं प्रतिपत्तुः प्रमाणवलात्तद्व्यवस्थानविरोधात् । सर्वज्ञज्ञानेनापि तस्याप्रमेयत्वे सर्वज्ञस्य सर्वज्ञताव्याघातात् । ततोऽस्मदादिज्ञानापेक्षयापि न ज्ञानं ज्ञानांतरप्रत्यक्षं प्रमेयत्वाद्धेतोः साधयितुं शक्यं, ज्ञानस्य स्वार्थव्यवसा- यात्मनः प्रत्यक्षसिद्धत्वाच्च । प्रत्यक्षबधितपक्षतया हेतोः कालात्ययापदिष्टत्वप्रसंगाच्च । एतेनार्थज्ञानेन ज्ञानांतरवेद्ये साध्ये कालत्रयत्रिलोकवर्तिपुरुषपरिषत्संप्रयुक्तसकलहेतुनिकरस्य कालात्ययापदिष्टत्वं व्यख्यातं । ३०तदनेन यदुक्तमेकात्मसमवेतानंतरविज्ञानग्राह्यमर्थज्ञानमिति तत्समुत्सारितं । योऽप्याह न स्वार्थव्यवसायात्मकं ज्ञानं परोक्षत्वात् अर्थस्यैव प्रत्यक्षत्वात् । अप्रत्यक्षा नो बुद्धिः प्रत्यक्षोऽर्थः । स हि बहिर्देशसंबद्धः प्रत्यक्षमनुभूयते । ज्ञाते त्वर्थे अनुमानादवगच्छति बुद्धिरिति सावरभाष्ये श्रवणात् । तथा ज्ञानस्यार्थवत् प्रत्यक्षत्वे कर्मत्वप्रसंगात् ज्ञानांतरस्य करणस्यावश्यं परिकल्पनीयत्वात् । तस्य चाप्रत्यक्षत्वे प्रथमे कोऽपरितोषः ? । प्रत्यक्षत्वे तस्यापि पूर्ववत्कर्मतापत्तेः करणात्मनोऽन्यविज्ञानस्य ३५परिकल्पनायामनवस्थाया दुर्निवारत्वात् । तथैकस्य ज्ञानस्य कर्मकरणद्वयाकारप्रतीतिविरोधाच्च न ज्ञानं प्रत्यक्षं परीक्षकैरनुमंतव्यमिति सोऽपि न यथार्थमीमांसकतामनुसर्तुमुत्सहते ज्ञानस्याप्रत्यक्षत्वे सर्वार्थस्य प्रत्यक्षत्वविरोधात् । संतानांतरज्ञानेनापि सर्वस्यार्थस्य प्रत्यक्षत्वप्रसंगात् । तथा च न कस्यचित्कदाचिदर्थ- प्रत्यक्षः स्यात् । ६१स्यादाकूतं भवतां यस्यात्मनोऽर्थे परिच्छित्तिः प्रदुर्भवति तस्य ज्ञानेन सोऽर्थः प्रतीयते न सर्वस्य ज्ञानेन सर्वोऽर्थ प्रत्यक्षः सर्वस्य प्रमातुः सर्वत्रार्थे परिच्छित्तेरसंभवात् इति तदपि स्वगृहमान्यं मीमांस- कानां क्वचिदर्थपरिच्छित्तेः प्रत्यक्षत्वाप्रत्यक्षत्वविकल्पानतिक्रमात् । सा हि न तावत्प्रत्यक्षा ज्ञानधर्मकत्वात् । कर्मत्वेनाप्रतीतिश्च करणज्ञानवत् । तस्याः कर्मत्वेनाप्रतीतावपि क्रियात्वेन प्रतीतेः । प्रत्यक्षत्वे करण ०५ज्ञानस्य कर्मत्वेनाप्रतीयमानस्यापि करणत्वेन प्रतीयमानत्वात् । प्रत्यक्षत्वमस्तु करणत्वेन प्रतीयमानं करण- ज्ञानं करणमेव स्यात् । न प्रत्यक्षं कर्मलक्षणमिति चेत् तर्हि पदार्थपरिच्छित्तिरपि क्रियात्वेन प्रतिभासमाना क्रियेव स्यात् न प्रत्यक्षा कर्मत्वाभादादिति प्रतिपत्तव्यं । यदि पुनरर्थधर्मत्वादर्थपरिच्छित्तेः प्रत्यक्षतेष्यते तदा सार्थप्राकट्यमुच्यते । न चैतदर्थग्रहणविज्ञानस्य प्राकट्याभावे घटामटति अतिप्रसंगात् । न ह्यप्रकटे ऽर्थज्ञाने संतानांतरवर्तिनिकरस्य चिदर्थस्य प्राकट्यं घटते प्रमातुरात्मनः स्वयं प्रकाशमानस्य प्रत्यक्षस्यार्थ १०परिच्छेदकस्य प्राकाट्यादर्थे प्राकट्यं परिच्छित्तिलक्षणं संलक्ष्यते । परिच्छित्तेः परिच्छेदकस्वरूपायाः कर्तृस्थ- याः क्रियाया कर्तृधर्मत्वादुपचारादर्थधर्मत्ववचनात् परिच्छिद्यमानतारूपायाः परिच्छित्तेः कर्मस्थायाः क्रियाया एव परमार्थतोऽर्थधर्मत्वसिद्धेः । करणज्ञानधर्मतानुच्छित्तेर्नेष्यते एव चक्षुषा रूपं पश्यति देवदत्त इत्यत्र चक्षुषः प्राकट्याभावेऽपि अर्थप्राकट्यं सुघटमेव लोकेऽतींद्रियस्यापि करणत्वसिद्धेः इति केचित् समभ्यमंसत मीमांसकाः तेऽप्यंधसर्पविलप्रवेशन्यायेन स्याद्वादिमतमेवानुप्रविशंति, स्याद्वादिभिरपि १५स्वार्थपरिच्छेदकस्य प्रत्यक्षस्यात्मनः कर्तृसाधनज्ञानशब्देनाभिधानात् । स्वार्थज्ञानपरिणतस्यात्मन एव स्वतंत्रस्य ज्ञानत्वोपपत्तेः, स हि जानातीति ज्ञानमिति व्यपदिश्यते । तद्धर्मस्तु परिच्छित्तिः फलज्ञानं कथंचि- त्प्रमाणाद्भिन्नमभिधीयते । यत्तु परोक्षमतींद्रियतया करणज्ञानं परैरुक्तं तदपि स्याद्वादिभिर्भावेंद्रियतया करणमुपपयोगलक्षणं प्रोच्यते "लब्ध्युपयोगौ भावेंद्रियं" इति वचनात् । तत्रार्थग्रहणशक्तिर्लब्धिः । अर्थग्रहणव्यापार उपयोगः इति व्याख्यानात् केवलं तस्य कथंचिदात्मनोंऽनर्थांतरभावादात्मतया प्रत्यक्ष- २०त्वोपपत्तेः अप्रत्यक्षतैकांतो निरस्यते इति प्रातीतिकं परीक्षकैरनुमंताव्यं । ये तु मन्यंते नात्मा प्रत्यक्षः कर्म- त्वेनाप्रतीयमानत्वात् करणज्ञानवदिति तेषां फलज्ञानहेतोर्व्यभिचारः कर्मत्वेनाप्रतीयमानस्यापि फलज्ञानस्य प्राभाकरैः प्रत्यक्षत्ववचनात् । तस्य क्रियात्वेन प्रतिभासमानात् प्रत्यक्षत्वे प्रमातुरप्यात्मनः कर्तृत्वेन प्रति भासमानत्वात् प्रत्यक्षत्वमस्तु । तच्च फलज्ञानं–आत्मनोऽर्थांतरभूतमनर्थांतरभूतमुभयं वा ? न तावत्स वर्थार्थांतरभूतमनर्थांतरभूतं वा मतांतरप्रवेशानुषंगात् । नाप्युभयं पक्षद्वयनिगदितदूषणानुषक्ते । कथं- २५चिदनर्थांतरत्वे तु फलज्ञानादात्मनः कथंचिप्रत्यक्षत्वमनिवार्यं प्रत्यक्षादभिन्नस्य कथंचिदप्रत्यक्षत्वैकांतविरो- धात् । एतेनाप्रत्यक्ष एवात्मेति प्रभाकरमतमपास्तं । यस्य तु करणज्ञानवत्फलज्ञानमपि परोक्षं पुरुषः प्रत्यक्ष इति मतं तस्यापि पुरुषात्प्रत्यक्षात् कथंचिदभिन्नस्य फलज्ञानस्य करणज्ञानस्य च प्रत्यक्षतापत्तिः कथंचित्क- थमपक्रियते ? ततो न भट्टमतमपि विचारणां प्रांचति इति स्वव्यावसायात्मकं सम्यग्ज्ञानं, अर्थपरिच्छित्तिनि- मित्तत्वात् आत्मवदिति व्यवतिष्टते । नेत्रालोकादिभिर्व्यभिचारः साधनस्येति न मंतव्यं तेषामुपचारतोऽर्थ ३०परिच्छित्तिनिमित्तत्ववचनात्, परमार्थतः प्रमातुः प्रमाणस्य च तन्निमित्तत्वघटनात् । अत्रापरः कपिलमतानुसारी प्राह–न सम्यग्ज्ञानं स्वव्यवसायात्मकं, अचेतनत्वात् घटादिवनत् न तच्चेत नमनित्यत्वात् । तद्वदनित्यं चोत्पत्तिनिमित्तत्वात् विद्युदादिवत् । यत्तु स्वसंवेद्यं तच्चेतनं नित्यमनुत्पत्तिधर्मकं च सिद्धं यथा पुरुषतत्त्वमिति सोऽपि न न्यायवेदी व्यभिचारिसाधनाभिधानात् । उत्पत्तिमत्त्वं हि तावद- नित्यतां व्यभिचरति निर्वाणस्यानंतस्याप्युत्पत्तिमत्त्वात् । तथैवानित्यत्वमचेतनत्वं व्यभिचरति पुरुषभोगस्य ३५कादाचित्कत्वस्य बुद्ध्यध्यवसितार्थापेक्षस्य चेतनत्वेऽप्यनित्यत्वसमर्थनात् । अचेतनत्वं तु सम्यग्ज्ञानस्याशुद्धमेव तस्मादचेतनाद्विवेकख्यातिविरोधात् । चेतनसंसर्गाच्चेतनं ज्ञानमित्यपि वार्तं शारीरादेरपि चेतनत्वसंगात् । ज्ञानस्य चेतनसंसर्गो विशिष्ट इति चेत् स कोऽन्यः कथंचित्तादात्म्यात् । ततश्चेतनात्मकमेव ज्ञानमनुमंतव्य- मित्यचेतनमसिद्धं । ६२यदप्यभ्यधायि सांख्यैः–ज्ञानमचेतं प्रधानपरिणामत्वात् महाभूतवदिति तदपि न श्रेयः पक्षस्य स्वसं- वेदनप्रत्यक्षबाधितत्वात् । प्रतिवादिनः कालात्ययापदिष्टत्वाच्च साधनस्य । तथानुमानबाधितः पक्षः परं प्रति चेतनं ज्ञानं स्वसंवेद्यत्वात् पुरुषवत् । यत्तु न चेतनं न तत्स्वसंवेद्यं यथा कलशादीति व्यति- रेकनिश्चयात् नेदमनुमानमगमकं । ज्ञानस्य स्वसंवेद्यत्वमसिद्धं ? इति चेन्न तस्यास्वसंवेद्यत्वे अर्थसंवेदनवि- ०५रोधादित्युक्तप्रायं । एतेन न स्वसंवेद्यं विज्ञानं कायाकारपरिणतभूतपरिणामत्वात् पित्तादिवदिति वदंश्चा- र्वाकः प्रतिक्षिप्तः । न चेदं साधनं सिद्धं भूतविशेषपरिणामत्वासिद्धेः संवेदनस्य बाह्येंद्रियप्रत्यक्षत्वप्रसंगात् गंधादिवत् । सूक्ष्मभूतविशेषपरिणामत्वात् न बाह्येंद्रिपप्रत्यक्षं ज्ञानमिति चेत् स तर्हि सूक्ष्मविशेषः स्पर्शादिभिः परिवर्जितः स्वयमस्पर्शादिमान् संवेदनोपादानहेतुः सर्वदा बाह्येंद्रियाविषयः कथमात्मैव नामां- तरेण निगदितो न भवेत् । तस्य ततोऽन्यत्वे भूतचतुष्टयविलक्षणत्वात् तत्त्वांतरापत्तिरदृष्टपरिकल्पना च १०प्रसज्येत तथात्मनः प्रमाणसिद्धत्वात् तत्परिणामस्यैव ज्ञानस्य घटनात् । तत इदं व्यवतिष्टते स्वव्यवसा- यात्मकं सम्यग्ज्ञानं चेतनात्मपरिणामत्वे सत्यर्थपरिच्छेदकत्वात् यत्तु न स्वव्यवसायात्मकं न तत्तथा यथा घटः तथा च सम्यग्ज्ञानं तस्मात्स्वव्यवसायात्मकं इति सम्यग्ज्ञानलक्षणं प्रमाणसिद्धं । ननु प्रमाणतत्त्वस्य प्रमेयतत्त्ववदुपप्लुतत्वात् न तत्त्वतः किंचित्प्रमाणं संभवति इति कस्य लक्षणमभि- धीयते लक्ष्यानुवादपूर्वकत्वाल्लक्षणाभिधानस्य । प्रसिद्धं लक्ष्यमनूद्य लक्षणं विधीयत इति लक्ष्यलक्षणभाववादि- १५भिरभ्युपगमात् इति केचिदमंसत तेषां तत्त्वोपप्लवमात्रमिष्टं साधयितुं तदा साधनमभ्युपगंतव्यं । तच्च प्रमा- णमेव भवति तथा चेदमभिधीयते–तत्त्वोपप्लववादिनोऽप्यस्ति प्रमाणं, इष्टसाधनान्यथानुपपत्तेः । प्रमाणा- भावेऽपीष्टसिद्धौ सर्वं सर्वस्य यथेष्टं सिद्ध्येत् इत्यनुपप्लुततत्त्वसिद्धिरपि किं न स्यात् सर्वथा विशेषाभावात् । स्यादाकूतं न स्वेष्टं विधिप्राधान्येन साध्यते येन तत्त्वोपप्लवं साधयतः प्रमाणसिद्धिः प्रसज्येत । किं तर्हि ? पराभ्युपगतप्रमाणादितत्त्वनिराकरणसामर्थ्यात् परीक्षकजनयतस्तत्त्वोपप्लवमनुसरति गत्यंतराभावात् । २०तथाहि — प्रमाणत्वं कस्य चित्किमदुष्टकारणजन्यत्वेन बाधारहितत्वेन वा प्रवृत्तिसामर्थ्येन वा अर्थक्रिया- प्राप्तिनिमित्तत्वेन वा व्यवतिष्टते ? न तावददुष्टजन्यत्वेन तस्य प्रत्यक्षतो गृहीतुमशक्तेः करणकुशलादेरपि प्रमाणकारणत्वात् । तस्य चातींद्रियत्वोपगमात् । न चानुमानमदुष्टं कारणमुन्नेतुं समर्थं तदविनाभाविलिं- गाभावात् । सत्यज्ञानं लिंगमिति चेत् न परस्पराश्रयणात् । सति ज्ञानस्य सत्यत्वे तत्कारणस्यादुष्टत्व- निश्चयात् । तस्मिन्सति ज्ञानस्य सत्यत्वसिद्धेः । यदि पुनर्बाधारहितत्वेन संवेदनस्य प्रामाण्यं साध्यते २५तदा किं कदाचित्क्वचिद्बाधकानुत्पत्त्या तत्सिद्धिराहोस्वित् सर्वत्र सर्वदा सर्वस्य प्रतिपत्तुर्बाधकानुत्प- त्तेरिति पक्षद्वयमवतरति । प्रथमपक्षे मरीचिकाचक्रे सलिलसंवेदनमपि प्रमाणमसज्यते दूरस्थितस्य त- त्संवेदनकाले कस्य चित्प्रतिपत्तुर्बाधकानुत्पत्तेः । द्वितीयपक्षे तु सकलदेशकालपुरुषाणां बोधकानुत्पत्तिः —कथमसर्वविदोऽवबोद्धुं शक्येत तत्तत्प्रतिपत्तुः सर्ववेदित्वप्रसंगात् । यदि पुनः प्रवृत्तिसामर्थ्येन ज्ञानस्य प्रामाण्यमुन्नीयते तदा प्रमाणेनार्थमुपलब्धवतस्तदर्थे प्रवृत्तिर्यदीष्यते तद्देशोपसर्पणलक्षणा तस्याः ३०सामर्थ्यं च फलेनाभिसंबंधः सजातीयज्ञानोत्पत्तिर्वा तदेतराश्रयदोषो दुरुत्तरः स्यात् । सति संवेदनप्रमा- णत्वनिश्चये तेनार्थप्रतिपत्तौ प्रवृत्तेः । तत्सामर्थ्यस्य च घटनात् प्रवृत्तिसामर्थ्यस्य निश्चये च तेनार्थसंवे- दनस्य प्रमाणत्वनिर्णीतेः प्रकारांतरासंभवात् । अथार्थक्रियानिमित्तत्वेन संवेदनं प्रमाणतामास्कंदति तदा कुतस्तस्य तन्निश्चयः स्यात् ? । प्रतिपत्तुरर्थक्रियाज्ञानादिति चेत् कुतस्तस्य प्रमाणत्वसिद्धिः ? । परमार्थ- क्रियाज्ञानांतराच्चेत् कथमनवस्था न भवेत् । अथाद्यसंवेदनादेवार्थक्रियाज्ञानस्य माण्यं मन्यते तदा ३५परस्पराश्रयदोषः । सत्यर्थक्रियाज्ञानस्य प्रमाणत्वनिश्चये तद्बलादाद्यसंवेदनस्यार्थक्रियाप्राप्तिनिमित्तत्वेन प्रामाण्यनिश्चयस्तत्प्रामाण्यनिश्चयाच्च अर्थक्रियासंवेदनस्य प्रमाणतासिद्धिः कारणांतराभावात् । ततो न प्रमाणत्वं विचार्यमाणं वा व्यवतिष्ठते तदवस्थानाभावे च न प्रमेयत्वसिद्धिः इति तदेतत्सकलं प्रलापमात्रं पराभिमतप्रमाणतत्त्वनिराकरणस्य स्वयमिष्टस्य प्रमाणमंतरेण सिद्ध्ययोगात् तस्य स्वयमिष्टत्वे साधनानुपपत्ते परपर्यनुयोगमात्रस्य करणाददोषोऽयं । ६३ परपर्यनुयोगपराणि हि बृहस्पतेः सूत्राणि इति वचनात् सर्वत्र स्वातंत्र्याभावादित्येतदपि यत्किंचन भाषणमेव । किमदुष्टकारणजन्यत्वेन प्रा- माण्यं साध्यते बाधारहितत्वेनेवेत्यादि पक्षाणां क्वचिन्निर्णयाभावे संदेहाभावात् परपर्यनुयोगायोगात् । स्यादाकूतं पराभ्युपगमात् तन्निश्चयसिद्धेः संशयोत्पत्तेर्युक्तः प्रश्नः, तथाहि–मीमांसकाभ्युपगमात् ०५तावददुष्टकारणजन्यत्वं बाधावर्जितत्वं च निर्णीतं निश्चितत्वापूर्वार्थत्वलोकसम्मतत्ववत् । तदुक्तं — तत्रापूर्वार्थविज्ञानं निश्चितं बाधववर्जितं । अदुष्टकारणारब्धं प्रमाणं लोकसम्मतं ॥ १ ॥ इति तथा प्रवृत्तिसामर्थ्यमपि नैयायिकाभ्युपगमान्निर्णीतं — प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणं १०इति वचनात् । तथार्थक्रियाप्राप्तिनिमित्तत्वमविसंवादित्वलक्षणं सौगताभ्युपगमान्निर्णीतमेव प्रमाण- मविसंवादिज्ञानं अर्थक्रियास्थितिः अविसंवादनं शब्दोऽप्यभिप्रायनिवेदनादिति वचनात् । तदिदानीं चार्वाक- मतानुसारेण संदिह्य पर्यनुयुज्यमानं न किंचिदुपालंभमर्हति इति तदेतदपि न व्यवस्थां प्रतिपद्यते पराभ्यु- पगमस्य प्रमाणाप्रमाणपूर्वकत्वे संशयाप्रवृत्तेः तथाहि यदि परेषामभ्युपगमः प्रमाणपूर्वकः तदा कथं संदेहः ? प्रमाणपूर्वकस्य निर्णीतत्वात् । निर्णीतेः संशयविरोधात् । अथाप्रमाणपूर्वकः तथापि न संदेहः प्रवर्तते तस्य १५क्वचित्कदाचित्कथंचित् निर्णयपूर्वकत्वात् । तन्निर्णयस्यापि प्रमाणपूर्वकत्वात् । प्रमाणाभावे प्रमाण्यनिश्चयात् तन्निश्चयनिबंधनस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे सर्वथा तदनुपपत्तेरित्यलं प्रसंगेन सर्वस्येष्टस्य संसिद्धेः प्रमाणप्रसिद्धेरबाधनात् अन्यथातिप्रसंगसमर्थनादिति । एतेन सर्वथा शून्यं संविदद्वैतं पुरुषद्वैतं शब्दाद्वैतं वा समाश्रित्य प्रमाणप्रमेयभागं निराकुर्वाणाः प्रत्याख्याताः स्वयमाश्रितस्य सर्वथा शून्यस्य संविदद्वैतादेर्वा कथंचिदिष्टत्वे प्रमाणसंसिद्धेर्व्यवस्थापनात् । तस्याप्यनिष्टत्वे तद्वादित्वविरोधात् । प्रलापमात्रानुसरणापत्तेः २०परीक्षकत्वव्याघातात् इति । तदेवं प्रमाणतत्त्वनिर्णीतौ प्रमेयतत्त्वसिद्धिर्निर्बाधा व्यवतिष्ठत एव । ननु चैव प्रमाणसिद्धमपि किं स्वतः प्रमाण्यमात्मसात्कुर्वीति परतो वा ? न तावत्स्वतः सर्वत्र सर्वदा सर्वस्य तद्विप्रतिपत्त्यभावप्रसंगात् । नापि परतः–अनवस्थानुषगात् परापरप्रमाणान्वेषणात् क्वचिदवस्थितेरयो- गात् । प्रथमप्रमाणाद्द्वितीयस्य प्रामाण्यसाधने द्वितीयाच्च प्रथमस्य परस्पराश्रयाणापत्तेः प्रकारांतराभावादिति केचित्तेऽप्यसमीक्षितवचसः संलक्ष्यंते स्वयमभ्यस्तविषये प्रमाणस्य स्वतः प्रामाण्यसिद्धेः सकलविप्रतिपत्ती- २५नामपि प्रतिपत्तुरभावात् अन्यथा तस्य प्रमेये निस्संशयं प्रवृत्त्ययोगात् । तथानभ्यस्तविषये परतः प्रमाणस्य प्रामाण्यनिश्चयात् तन्निश्चयनिमित्तस्य च प्रमाणांतरस्याभ्यस्तविषयत्वे स्वतः प्रमाणत्वसिद्धेः अनवस्थाप- रस्पराश्रयणयोरनवकाशात् । तस्याप्यनभ्यस्तविषयत्वे परतः प्रमाणादभ्यस्तविषयात् स्वतःसिद्धप्रामाण्यात् प्रमाणत्वनिश्चयात् सूदरमपि गत्वा कस्यचिदभ्यस्तविषयस्य प्रमाणस्यावश्यंभावित्वात् अन्यथा प्रमाणतदा- भासव्यवस्थानुपपत्तेः तदभावव्यवस्थानुपपत्तिवत् । कुतः पुनः प्रतिपत्तुः क्वचिद्विषयेऽभ्यासः क्वचिदन- ३०भ्यासः स्यात् ? इति चेत् तत्प्रतिबंधकदशाविशेषविगमाभ्यां क्वचिदभ्यासानभ्यासौ स्यातां इति ब्रूमहे परिदृष्टकारणव्यभिचाराददृष्टस्य कारणस्य सिद्धेः तन्नः कर्म ज्ञानावरणवीर्यांतरायाख्यं सिद्धं तस्य क्षयोपशमा- त्कस्य चित् क्वचिदभ्यासज्ञानं तत्क्षयोपशमाभावे वा ऽनभ्यासज्ञानमिति सुव्यवस्थितं प्रमाणस्य प्रमाण्यं सुनिश्चितासंभवद्बाधकप्रमाणत्वात् स्वयमिष्टवस्तुवत् सर्वत्रेष्टसिद्धेस्तन्मात्रनिबंधनत्वादन्यथा सर्वस्य तत्त्व- परीक्षायामनधिकारादिति स्थितमेतत् — ३५प्रामाणादिष्टसंसिद्धिरन्यथातिप्रसंगतः । प्रामाण्यं तु स्वतःसिद्धमभ्यासात्परतोऽन्यथा ॥ १ ॥ इति एवं प्रमाणलक्षणं व्यवसायात्मकं सम्यग्ज्ञानं परीक्षितं तत्प्रत्यक्षं परीक्षं वेति संक्षेपादू द्वितयमेव व्यवतिष्ठते ६४ सकलप्रमाणानामत्रैवांतर्भावादिति विभावनात् । परपरिकल्पितैकद्वित्र्यादिप्रमाणसंखानियमे तदघटनात् । तथाहि–येषां प्रत्यक्षमेकमेव प्रमाणं न तेषामनुमानादिप्रमाणांतरस्यांतर्भावः संभवति तद्विलक्षणत्वात् । प्रत्यक्षपूर्वकत्वादनुमानादेः प्रत्यक्षभावः इत्ययुक्तं प्रत्यक्षस्यापि क्वचिदनुमानपूर्वकत्वादनुमानादिश्वंतर्भावप्रसं- गात् । यथैव हि धर्मिहेतुदृष्टांतप्रत्यक्षपूर्वकमनुमानं श्रोत्रप्रत्ययपूर्वकं च शाब्दं । सादृश्यानन्यथाभावनिषेध्याधार- ०५वस्तुग्राहि प्रत्यक्षपूर्वकाणि चोपमानार्थापत्त्यभावप्रमाणानि तथा–अनुमानेन कृशानुं निश्चित्य तत्र प्रवर्त- मानस्य प्रत्यक्षमनुमानपूर्वकं रूपाद्रसं संप्रतिपद्य रसे रासनसमक्षवत् । शब्दाच्च मृष्टं पानकमवगम्य तत्र प्रवृत्तौ प्रत्यक्षं शाब्दपूर्वकं । क्षीरस्य संतर्पणशक्तिमर्थापत्त्याधिगम्य क्षीरे प्रवृत्तस्य तदात्मके प्रत्यक्षमर्थापत्तिपूर्वकं । गोसादृश्याद्गवयमवसाय तं व्यवहरतः प्रत्यक्षनुमानपूर्वकं । गृहे सर्पाभावमभावप्रमाणाद्विभाव्य प्रविशतः प्रत्यक्षमभावपूर्वकं प्रतीयते एव ततः प्रत्यक्षमेव गौणत्वादप्रमाणं न पुनरनुमानादिकं तस्यागौणत्वादिति १०शुष्के पतिष्यामि इति जातः पातः कर्दमे । स्यादाकूतं न प्रत्यक्षं–अनुमानागमार्थापत्त्युपमानाभावसामग्रीपूर्वंक्वं तदभावेऽपि चक्षुरादिसामग्रीमात्रा- त्तस्य प्रसूतेः प्रसिद्धत्वात् । तदभाव एव अभावनियमादिति तदप्यसत् लैंगिकादीनामपि प्रत्यक्षपूर्वकत्वाभा- वात् । लिंगशब्दानन्यथाभावसादृश्यप्रतियोगिस्मरणादिसामग्रीसद्भाव एव भावात् । सत्यपि प्रत्यक्षे स्वसामि- ग्र्यभावेऽनुमानादीनामभावात् । ततः किं बहुनोक्तेन प्रतिनियतसामग्रीप्रभवतया प्रमाणभेदमभिमन्यमाने १५प्रत्यक्षवदनुमानादीनामपि अगौणत्वमनुमंतव्यं प्रतिनियतस्वविषयव्यवस्थायां परापेक्षाविरहात् । यथैव हि प्रत्यक्षं साक्षात्स्वार्थं परिच्छित्तौ नानुमानाद्यपेक्षं तथानुमानमनुमेयनिर्णीतौ न प्रत्यक्षापेक्षमुत्प्रेक्षते प्रत्यक्षस्य धर्मिहेतुदृष्टांतग्रहणमात्रे पर्यवसितत्वात् । नापि शाब्दं शब्दप्रतिपाद्येऽर्थे प्रत्यक्षमनुमानं चोपेक्षते तयोः शब्द- श्रवणमात्रे शब्दार्थसंबंधानुमात्रे व्यापारात् । नत्वर्थापत्तिः प्रत्यक्षमनुमानमागमं चापेक्षते अभावोपमानवत् । तस्याश्च प्रत्यक्षादिप्रमाणप्रमितार्थाविनाभाविन्यदृष्टेऽर्थे निर्णयनिबंधनत्वात् । प्रत्यक्षादीनामर्थापत्त्युत्थापक २०पदार्थनिश्चयमात्रे व्यावृत्तत्वात् । नचोपमानं प्रत्यक्षादीन्यपेक्षते तस्योपमेयेऽर्थे निश्चयकारणे प्रत्यक्षादि निरपेक्षत्वात् । प्रत्यक्षादेः सादृश्यप्रतिपत्तिमात्रे ऽनधिकारात् । नचाभावप्रमाणं प्रत्यक्षादिसापेक्षं निषेध्या- धारवस्तुग्रहणे तस्य सामर्थ्यात् । परंपरयानुमानादीनां प्रत्यक्षपूर्वकत्वं प्रत्यक्षस्याप्यनुमानादिपूर्वकत्वं दुःशक्यं परिहर्तुं । कथं चायं प्रत्यक्षं प्रमाणं व्यवस्थापयेत् स्वत एवेति चेत् किमात्मसबंधि सर्वसंबंधि वा ? प्रथमकल्पनायां न सकलदेशकालपुरुषपरिषत्प्रत्यक्षं प्रमाणं सिद्ध्येत् । द्वितीयकल्पनायामपि न स्वप्रत्यक्षा- २५त्सकलपरप्रत्यक्षाणां प्रामाण्यं साधयितुमीशः तेषामनींद्रियत्वात् वादिप्रत्यक्षागोचरत्वात् । यदि पुनः सक- लपुरुषप्रत्यक्षाणि स्वस्मिन् स्वस्मिन् विषये स्वतः प्रामाण्यमनुभवंति इति मतं तदा कुतस्तत्सिद्धिः ? । विवादाध्यासितानि सकलदेशकालवर्तिपुरुषप्रत्यक्षाणि स्वतः प्रामाण्यमापद्यंते प्रत्यक्षत्वात् यद्यत्प्रत्यक्षं तत्तत्स्वतः प्रामाण्यमापद्यमानं सिद्धं यथा मत्प्रत्यक्षं प्रत्यक्षाणि च विवादाध्यासितानि तस्मात्स्वतः प्रामा- ण्यमापद्यंते सकलप्रत्यक्षाणां स्वतःप्रामाण्यसाधने सिद्धमनुमानं प्रत्यक्षत्वेन स्वभावहेतुना प्रत्यक्षस्य स्वतः ३०प्रामाण्यसाधनात् । शिंशुपात्वेन वनस्पतेः वृक्षत्वसाधनवत् । प्रतिपद्यबुद्ध्या तथानुमानवचनाददोष इति चेत् ? प्रतिपाद्यबुद्धिं प्रतिपद्य अप्रतिपद्य वा तयानुमानप्रयोगः स्यात् ? न तावदप्रतिपद्य अतिप्रसंगात् । प्रतिपद्य तद्बुद्धितयानुमानप्रयोगे कुतस्तत्प्रपित्तिः ? व्यवहारादिकार्यविशेषादिति चेत् सिद्धं कार्यात्का- रणानुमानं धूमात्पावकानुमानवत् । यदि पुनर्लोकव्यवहारात् प्रतिपद्यत एवानुमानं लौकायतिकैः परलोका- देवानुमानस्य निराकरणात् तस्याभावादिति मतं तदापि कुतः परलोकाद्यभावप्रतिपत्तिः न तावत्प्रत्यक्षात् ३५तस्य तदगोचरत्वात् नास्ति परलोकादिः अनुपलब्धेः खपुष्पवदिति तदभावसाधनेऽनुपलबधिलक्षणमनु- मानमायातं । तदुक्तं धर्मकीर्तिना — । प्रमाणेतरसामान्यस्थितेरन्यधियोगतेः । प्रमाणांतरसद्भावः प्रतिषेधाच्च कस्यचित् ॥ १ ॥ इति६५ततः प्रत्यक्षमनुमानमिति द्वे एव प्रमाणे प्रमेयद्वैविध्यात् । न ह्याभ्यामर्थं परिछिद्य प्रवर्तमानोऽर्थ क्रियायां विसंवाद्यत इति प्रमाणसंख्यानियमं सौगताः प्रतिपद्यंते तेषामागमोपमानादीनां प्रमाणभेदानाम- संग्रह एव तेषां प्रत्यक्षानुमानयोरंतर्भावयितुमशक्तेः । स्यान्मतिरेषा भवतां तदर्थस्य द्वैविध्यात् द्वयोरंतर्भावः स्यात् । द्विविधो ह्यर्थः प्रत्यक्षः परोक्षश्च । तत्र ०५प्रत्यक्षविषयः साक्षात्क्रियमाणः प्रत्यक्षः । परोक्षः पुनरसाक्षात्परिच्छिद्यमानोऽनुमेयत्वादनुमानविषयः स हि पदार्थांतरात्साक्षात्क्रियमाणात् प्रतिपद्यते तच्च पदार्थांतरं तेन परोक्षेणार्थेन सबद्धं प्रत्याययितुं समर्थं नासं- बद्धं गवादेरप्यश्वादेः प्रतीतिप्रसंगात् । संबद्धं चार्थांतरं लिंगमेव शब्दादि तज्जनितं च ज्ञानमनुमानमेव ततो न परोक्षेऽर्थेऽनुमानादन्यत्प्रमाणमस्ति शब्दोपमानादीनामपि तथानुमानत्वसिद्धेः । अन्यथा ततो- ऽर्थप्रतिपत्तौ अतिप्रसंगात् इति तदेतदपि न परीक्षाक्षमं प्रत्यक्षस्यापि तथानुमानत्वप्रसंगात् । प्रत्यक्षमपि १०हि स्वविषये संबद्धं तत्प्रत्यायनसमर्थं । तत्रासंबद्धस्यापि तत्प्रत्यायनसामर्थ्ये सर्वप्रत्यक्षं सर्वस्य नुः सर्वार्थ- प्रत्यायनसमर्थं स्यादिति कथमतिप्रसंगो न स्यात् ? । यदि पुनः संबंधाधीनत्वाविशेषेऽपि प्रत्यक्षपरोक्षार्थ प्रतिपत्तेः साक्षादसाक्षात्प्रतिभासभेदात् भेदोऽभ्युपगम्यते प्रमाणांतरत्वेन तदेंद्रियस्वसंवेदनमानसयोगि- प्रत्यक्षाणामपि प्रमाणांतरत्वानुषंगः प्रतिभासभेदाविशेषात् । न हि यादृशः प्रतिभासो योगिप्रत्यक्षस्य विशदतमस्तादृशोऽक्षज्ञानस्यास्ति स्वसंवेदनस्य मनोविज्ञानस्य वा ? यथाभूतश्च स्वसंवेदनप्रत्यक्षांतर्मुखो वि- १५शदतरः न तथाभूतोऽक्षज्ञानस्य । यादृशश्चाक्षज्ञानस्य बहिर्मुखः स्फुटः प्रतिभासो न तादृशो मनोवि- ज्ञानस्येति कथं प्रमाणांतरता न भवेत् ? अथ प्रतिभासविशेषेऽपि तच्चतुर्विधमपि प्रत्यक्षमेव न प्रमाणांतरं तर्हि प्रत्यक्षानुमानयोः प्रतिभासभेदेपि स्वविषयसंबंधाविशेषात्व प्रमाणांतरत्वं माभूत् । यदि पुनः स्वविषयसंबद्धत्वाविशेषेऽपि प्रत्यक्षानुमानयोः सामग्रीभेदात् प्रमाणांतरत्वमुररीक्रियते तदा शाब्दो- पमानादीनामपि तत एव प्रमाणांतरत्वमुररीक्रियतां । यथैव हि अक्षादिसामग्रीतः प्रत्यक्षं, लिंग- २०सामग्रीतोऽनुमानं प्रभवतीति तयोः सामिग्रीभेदः । तथागमः शब्दसामिग्रीतः प्रभवति । उपमानं सा- दृश्यसामग्रीतः । अर्थापत्तिश्च परोक्षार्थाविनाभूतार्थमात्रसामग्र्याः । प्रतिषेध्याधारवस्तुग्रहणप्रतिषेध्यस्मर- णसामग्र्यश्चाभाव इति प्रसिद्धः शाब्दादीनामपि सामग्रीभेदः । तत एवाक्षज्ञानादिप्रत्यक्षचतुष्टयस्य प्रभेदप्रसिद्धेः नहि तस्यार्थभेदोऽस्ति साक्षात्क्रियमाणस्यार्थस्याविशेषात् तद्वल्लिंगशब्दादिसामग्रीभेदा- त्परोक्षार्थविषयत्वाविशेषेप्यनुमानागमादीनां भेदप्रसिद्धिरिति नानुमानेऽṃतर्भावः संभवति । तथा साध्य- २५साधनसंबंधव्याप्तिप्रतिपत्तौ न प्रत्यक्षं समर्थं । यावान् कश्चिद्धूमः स सर्वः कालांतरे देशांतरे च पावक- जन्मा, अन्यजन्मा वा न भवति इत्येतावतो व्यापारान् कर्तुमसमर्थत्वात् । सन्निहितार्थमात्रादुत्पत्तेरविचारकत्वात् योगिप्रत्यक्षं तत्र समर्थमिति चेत् न देशकालयोगिप्रत्यक्षद्वयानतिक्रमात् । देशयोगिनः प्रत्यक्षं व्याप्ति- प्रतिपत्तौ समर्थमित्ययुक्तं तत्रानुमनवैयर्थ्यात् । न हि योगिप्रत्यक्षेण साक्षात्कृतेषु साध्यसाधनविशेषेषु अशेषेषु फलवदनुमानं । अथ सकलयोगिप्रत्यक्षेण व्याप्तिप्रतिपत्तावदोष इति चेन्न उक्तदोषस्यात्रापि तद्- ३०वस्थत्वात् । परार्थफलवदनुमानमिति चेत् ? न तस्य स्वार्थानुमानपूर्वकत्वात् । स्वार्थानुमानाभावे च योगिनः कथं परार्थानुमानं नाम । यदि पुनः सकलयोगिनः परानुग्रहाय प्रवृत्तत्वात् परानुग्रहस्य च शब्दात्मक- परार्थानुमानमंतरेण कर्तुमशक्तेः परार्थानुमानसिद्धिः, तस्याश्च स्वार्थानुमानासंभवेऽनुत्पद्यमानत्वात् स्वार्थानुमानसिद्धिरपि परप्रतिपादनप्रवृत्तस्य संभाव्यत एवेति मतं तदा स योगी स्वार्थानुमाने चतुरार्य- सत्यानि निश्चित्य परार्थानुमानेन परं प्रतिपादयन् ग्रहीतव्याप्तिकमगृहीतव्याप्तिकं वा प्रतिपादयेत् ? यदि ३५गृहीतव्याप्तिकं तदा कुतस्तेन गृहीता व्याप्तिः ? न तावादिंद्रियस्वसंवेदनमनोविज्ञानैस्तेषां तदविषय- त्वात् । योगिप्रत्यक्षेण गृह्यते व्याप्तिः परेण तस्यापि देशयोगित्वात् इति चेत् तर्हि यावतसु साध्यसाधन- भेदेषु योगिप्रत्यक्षं देशयोगिनस्तावत्सु व्यर्थमनुमानं स्पष्टं प्रतिभातेश्वपि अनुमाने सकलयोगिनः सर्वत्रा- नुमानप्रसंगात् । समारोपव्यवच्छेदार्थमपि न तत्रानुमानं योगिप्रत्यक्षविषये समारोपानवकाशात् सुगत- प्रत्यक्षविषयवत् । ततो न गृहीतव्याप्तिकं परं सकलयोगी प्रतिपादयितुमर्हति । नाप्यगृहीतव्याप्तिकं ६६ अतिप्रसंगात् इति परप्रतिपादनानुपपत्तिः । तस्यां च न परार्थानुमानं संभवति तदसंभवे चा न स्वार्था- नुमानमवतिष्ठते सकलयोगिनस्तदव्यवस्थाने च न सकलयोगिप्रत्यक्षेण व्याप्तिग्रहणं युक्तिमधिवसति । प्रत्यक्षानुपलंभाभ्यां साध्यसाधनयोर्व्याप्तिप्रतिपत्तिरित्यप्यनेनापास्तं प्रत्यक्षेण व्याप्तिप्रतिपत्तिनिराकृतौ प्रत्यक्षांतरलक्षणेनानुपलंभेन तत्प्रतिपत्तिनिराकृतिसिद्धेः । ०५योप्याह कारणानुपलंभात् कार्यकारणभावव्याप्तिः । व्यापकानुपलंभाद् व्याप्यव्यापकभावः साक- ल्येन प्रतिपद्यत इत्यनुमानसिद्धा साध्यसाधनव्याप्तिः । तथाहि यावान् कश्चिद्धूमः स सर्वोप्यग्निजन्मा महा- हृदादिष्वग्नेरनुपलंभाद्धूमाभावसिद्धेरिति कारणानुपलंभानुमानं । यावंती शिंशपा सा सर्वा वृक्षस्वभावा । वृक्षानुपलब्धौ शिंशपात्वाभावसिद्धे इति व्यापकानुपलंभो लिंगं, एतावता साकल्येन साध्यसाधनव्याप्ति- सिद्धिः इति सोऽपि न युक्तवादी तथानवस्थानुषंगात् । कारणानुपलंभव्यापकानुपलंभयोरपि हि स्वसा- १०ध्येन व्याप्तिर्न प्रत्यक्षतः सिद्ध्येत् पूर्वोदितदोषासक्तेः । परस्मादनुमानात्तत्सिद्धौ कथमनवस्था न स्यात् ? प्रत्य- क्षानुपलंभपृष्टभाविनो विकल्पात् स्वयमप्रमाणकात् साध्यसधानव्याप्तिसिद्धौ किमकारणं प्रत्यक्षानुमानप्रमा- णपोषणं क्रियते ? मिथ्याज्ञानादेव प्रत्यक्षानुमेयार्थसिद्धेर्व्याप्तिसिद्धिवत् । तस्माद्यथा प्रत्यक्षं प्रमाणमिच्छता सामस्त्येन तत्प्रामाण्यसाधनमनुमानमंतरेण नोपपद्यते इत्यनुमानमिष्टं । तथा साध्यसाधनव्याप्तिज्ञातप्रमा- णमंतरेण नानुमानोत्थानमस्ति इति तदप्यनुज्ञातव्यं तच्चोहाख्यमविसंवादकं प्रमाणांतरं सिद्धमिति, न प्रत्य- १५क्षानुमाने एव प्रमाणे इति प्रमाणसंख्यानियमो व्यवतिष्ठते । एतेन वैशेषिकप्रमाणसंख्यानियमो प्रत्याख्यातः । स्यान्मतं साध्यसाधनसामान्ययोः क्वचिद्व्यक्तिविशेषे प्रत्यक्षत एव संबंधसिद्धेर्न प्रमाणांतरमन्वे- षणीयं यावान् कश्चिद्धूमः स सर्वोऽपि अग्निजन्मानग्निजन्मा वा न भवति इत्यूहापोहविकल्पज्ञानस्य प्रमाणां तरत्वं संबंधग्राहिसमक्षप्रमाणफलत्वात् । क्वचिदनुमितानुमाने साध्यसाधने आदित्यगमनशक्तिरस्ति गतिमत्त्वात् । आदित्यो गतिमान् देशाद्देशांतरप्राप्तेः देवदत्तवत् संबंधबोधनिबंधनानुमानं फलवत् ततः २०प्रत्यक्षमनुमानमिति प्रमाणद्वयसंख्यानियमः कणचरमतानुसारिणां व्यवतिष्ठत एवेति तदप्यसारं सवि- कल्पकेनापि प्रत्यक्षेण साकल्येन साध्यसाधनसंबंधगृहीतुमशक्तेः । साध्यं हि किमग्निसामान्यं, अग्निवि- शेषोग्निसामान्यविशेषो वा ? न तावदग्निसामान्यं सिद्धसाध्यतापत्तेः । नाप्यग्निविशेषस्तस्यानन्वयात् । बन्हिसामान्यविशेषस्य हि साध्यत्वे तेन धूमस्य संबंधः सकलेदेशकालव्याप्यध्यक्षतः कथं सिद्ध्येत् ? तथा तत्संबंधासिद्धौ च यत्र यत्र यदा यदा धूमोपलंभः तत्र तत्र तदा तदाऽग्निसामान्यविशेषविषयमनु- २५मानं नोदयमासादयेत् । न ह्यन्यथा संबंधग्रह्णमन्यथानुमानोत्थानं नामातिप्रसंगात् ततः संबंधज्ञानं प्रमा- णांतरमेव प्रत्यक्षानुमानयोस्तदविषयत्वात् । यच्चोक्तं प्रत्यक्षफलत्वादूहापोहविज्ञानस्याप्रमाणत्वमिति तदप्य- सम्यक् विशेषणज्ञानफलत्वाद्विशेष्यज्ञानस्याप्रमाणत्वानुषंगात् हानोपादानोपेक्षाबुद्धिफलकारणत्वाद्विशेष्य- ज्ञानस्य प्रमाणत्वे तत एवोहापोहविज्ञानस्य प्रमाणत्वमस्तु सर्वथा विशेषाभावात् । प्रमाणविषयत्वपरिशोधकत्वा- न्नोहः प्रमाणमित्यपि वार्तं प्रमाणविषयस्याप्रमाणेन परिषोधनविरोधात् । तथा तर्कः प्रमाणं प्रमाणविषयप- ३०रिशोधकत्वात् यस्तु न प्रमाणं स न प्रमाणविषयपरिशोधको दृष्टो यथा प्रमेयोऽर्थः प्रमाणविषयपरिशोधकश्च तर्कस्तस्मात्प्रमाणमिति केवलव्यतिरेकिणानुमानेनान्यथानुपपत्तिनियमनिश्चयलक्षणेन तर्कस्य प्रमाणत्वसिद्धेः, न वैशेषिकाणां प्रमाणद्वयसंख्यानियमः सिद्ध्येत् । एतेन द्वित्रिचतुःपंचषट्प्रमाणवादिनां प्रमाणसंख्या- नियमः प्रतिध्वस्तः संख्यानां प्रत्यक्षानुमानाभ्यामिवागमादपि साध्यसाधनसंबंधासिद्धेः तर्कस्य तत्सिद्धिनि- बंधनस्य प्रमाणांतरत्वोपपत्तेः । नैयायिकानां च प्रत्यक्षानुमानागमैरिवोपमानेनापि लिंगलिंगिग्रहणासंभ- ३५वात् । प्रभाकराणां च प्रत्यक्षानुमानोपमानागमैरिव अर्थापत्त्यापि हेतुहेतुमत्संबंधसिद्धेरसंभवात् । भट्टमता- नुसारिणामपि प्रत्यक्षानुमानोपमानागमार्थापत्तिभिरिव अभावप्रमाणेनापि व्याप्तिनिश्चयानुपपत्तेस्तन्निश्चयनि- बंधनस्योहज्ञानस्य प्रमाणांतरस्य सिद्धिरवश्यंभाविनी दुःशक्या निराकर्तुं । ननूहः स्वविषये संबद्धेऽसंबद्धो वा न तावदसंबद्धस्तं प्रत्याययितुमीशोऽतिप्रसंगात् । संबद्धश्चेत् कुत- स्तत्प्रतिपत्तिः । न तावत्प्रत्यक्षात् तस्य तदविषयत्वात् । नाप्यनुमानादनवस्थानुषंगात् । यदि पुनरूहांतरात्त- ६७त्संबंधसिद्धिः तदोहांतरस्यापि स्वविषयसबंधसिद्भिपूर्वकत्वात् तस्याश्चापरोहनिबंधनत्वात् सैवानवस्था । प्रमा- णांतरात्तत्सिद्धौ च स एव पर्यनुयोगः परापरप्रमाणांतरपरिकल्पनानुषंगात् क्वेयं प्रमाणसंख्या व्यवतिष्ठेतेति केचित् तेषामपि प्रत्यक्षं स्वविषयं प्रतिबोधयत् तत्संबंधश्च नानुमानादेः सिद्ध्यति तस्य तदविषयत्वात् । प्रत्यक्षांतरात्तत्सिद्धौ तत्रापि प्रकृतपर्यनुयोंगानिवृत्तेः कथमनवस्था न स्यात् यतः प्रत्यक्षं प्रमाणमभ्युपगम- ०५नीयमिति प्रतिपद्यामहे । स्यान्मतिरेषा प्रत्यक्षं स्वविषयसंबंधावबोधनिबंधनं प्रामाण्यमात्मसात्कुरुते तस्य स्वविषये स्वयोग्यता- बलादेव प्रमाणत्वव्यवस्थितेः अन्यथा क्वचिदपूर्वार्थग्राहिणः प्रत्यक्षस्याप्रमाणत्वानुषंगात् इति सापि न साधीयसी तथोहस्यापि स्वयोग्यताविशेषसामर्थ्यादेव स्वविषयप्रत्यायनसिद्धेर्भवदुद्भावितदूषणवैयर्थ्यव्यव- स्थानात् । योग्यताविशेषः पुनः प्रत्यक्षस्येव स्वविषयज्ञानावरणवीर्यांतरायक्षयोपशमविशेष एवोहस्यापि प्रति- १०पद्यते सकलबाधकवैधुर्यात् । यथा च प्रत्यक्षस्योत्पत्तौ मनोऽक्षादिसामिग्री योग्यतायाः सहकारिणी बहि- रंगनिमित्तत्वात् तथोहस्यापि समुद्भूतौ भूयः प्रत्यक्षानुपलंभसामिग्रीबहिरंगनिमितभूतानुमन्यते तदन्वय- व्यतिरेकानुविधायित्वादूहस्येति सर्वनिरवद्यसिद्धे चानुमानप्रमाणान्यथानुपपत्त्या तर्कस्य प्रमाणत्वे–प्रत्यभि- ज्ञानं प्रमाणं तर्कप्रमाणत्वान्यथानुपपत्तेः न ह्यप्रत्यभिज्ञाने विषये तर्कः प्रवर्तते अतिप्रसंगात् । नच गृहीत- ग्रहणात्प्रत्यभिज्ञानस्याप्रमाणत्वं शकनीयं तद्विषयस्यास्मर्यमाणदृश्यमानपर्यायव्याप्येकद्रव्यस्य स्मरणप्रत्य- १५क्षागोचरत्वात् अपूर्वार्थग्राहित्वासिद्धेः । नचेदं प्रत्यक्षेऽṃतर्भवति प्रत्यक्षस्य वर्तमानपर्यायविषयत्वात् । नाप्यनुमाने लिंगानपेक्षत्वात् । न शाब्दे शब्दनिरपेक्षत्वात् । नोपमाने सादृश्यमंतरेणापि भावात् । नार्थ- पत्तौ प्रत्यक्षादिप्रमाणषट्कविज्ञातार्थप्रतिपत्तिमंतरेणापि प्रादुर्भावात् । नाभावे निषेध्याधारवस्तुग्रहणेन निषेध्यस्मरणेन च विनैवोत्पादादिति सर्वेषामेकद्वित्रिचतुःपंचषट्प्रमाणसंख्यानियमं विघटयति । एतेन स्मृतिः प्रमानांतरमुक्तं तस्याश्च प्रत्यक्षादिष्वंतर्भावयितुमशक्तेः । न चासावप्रमाणमेव संवादकत्वात् कथं- २०चिदपूर्वार्थग्राहित्वात् बाधाबर्जितत्वाच्चानुमानवदिति । येषां तु स्मरणमप्रमाणं तेषां पूर्वप्रतिपन्नस्य सा- ध्यसाधनसंबंधस्य वाच्यवाचकसंबंधस्य च स्मरणसामर्थ्यादव्यवास्थितेः कुतोऽनुमानं शाब्दं वा प्रमाणं सिद्ध्येत् । तदप्रसिद्धौ च न संवादकत्वासंवादकत्वाभ्यां प्रत्यक्षतदाभासव्यवस्थितिरिति सकलप्रमाण- विलोपापत्तिः ततः प्रमाणव्यवस्थामभ्यनुजानता स्मृतिरपि प्रमाणयितव्या इति न परेषां संख्या- नियमः सिद्ध्येत् । स्याद्वादिनां तु संक्षेपात्प्रत्यक्षपरोक्षविकल्पात् प्रमाणद्वयं सिद्धत्येव तत्र सकलप्रमाण- २५भेदानां संग्रहादिति सूक्तं । किं पुनः प्रत्यक्षमित्युच्यते विशदज्ञानात्मकं प्रत्यक्षं प्रत्यक्षत्वात् यत्तु न विशदज्ञानात्मकं तन्न प्रत्यक्षं यथानुमानादिज्ञानं प्रत्यक्षं च विवादाध्यासितं तस्माद्विशदज्ञानात्मकं । न तावदत्राप्रसिद्धो धर्मी प्रत्यक्षधर्मिणि केवलप्रत्यक्षवादिनामविप्रतिपत्तेः । शून्यसंवेदनाद्वैतवादिनामपि स्वरूपप्रतिभासनस्य प्रत्यक्षस्याभीष्टेः । प्रत्यक्षत्वस्य हेतोरसिद्धतापि अनेन समुत्सारिता प्रत्यक्षमिच्छद्भिः प्रत्यक्षत्वस्य तद्धर्मस्य ३०स्वयमिष्टत्वात् । प्रतिज्ञार्थैकदेशासिद्धत्वं साधनस्य स्यादिति चेत् का पुनः प्रतिज्ञा तदेकदेशो वा यस्या- सिद्धत्वं शंक्येत ? धर्मधर्मिससुदायः प्रतिज्ञा तदेकदेशो धर्मी हेतुर्यथा नश्वरः शब्दो शब्दत्वादिति तथा साध्यधर्मः प्रतिज्ञैकदेशो यथा नश्वरः शब्दो नश्वरत्वात् सोयं द्विविधो प्रतिज्ञार्थैकदेशासिद्धौ हेतुः स्यादिति चेत् । न धर्मिणो हेतुत्वे कस्य चिदसिद्धतानुपपत्तेः । यथैव हि प्रत्यक्षप्रयोगकाले वादिप्रतिवादि प्रसिद्धो धर्मी तथा तस्य हेतुत्ववचनेऽपि नासिद्धिः । साध्यधर्मस्तु हेतुत्वेनोपादीयमानो न प्रतिज्ञातार्थैक- ३५देशत्वेनासिद्धो धर्मिणोऽप्यसिद्धिप्रसंगात् । किं तर्हि ? स्वरूपेण वासिद्ध इति न प्रतिज्ञार्थैकदेशासिद्धो नाम हेत्वाभासः संभवतीति कथं प्रकृतहेतौ प्रतिज्ञार्थैकदेशासिद्धत्वं समुद्भावयन् भावितानुमानस्वभावः ? । धर्मिणो हेतुत्वेऽनन्वयप्रसंग इति चेत् न विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतां दोषासंभवात् । प्रत्यक्षं- हि विशेषरूपं धर्मी प्रत्यक्षसामान्यं हेतुः स कथमनन्वयः स्यात् सकलप्रत्यक्षविशेषस्य व्यापित्वात् । दृष्टांते क्वचिदभावात् अनन्वय इति चेत् न सर्वे भावाः क्षणिकाः सत्त्वात् इत्यादेरपि हेतोरनन्वयत्वप्रसक्तेः । ६८अथास्य दृष्टांतेन अन्वयस्यापि साध्यधर्मिणि सर्वत्रान्वयसिद्धेर्विक्षे बाधकप्रमाणसद्भावाच्च निर्दोषतानु- मन्यते तत एव प्रत्यक्षत्वस्य हेतोर्निदोषतास्तु सर्वथा विशेषाभावात् केवलव्यतिरेकिणोऽपि हेतोरविना- भावनिर्णयात् साध्यसाधनसामर्थ्यान्न कश्चिदुपालंभस्ततो निरवद्योऽयं हेतुः प्रत्यक्षस्य विशदज्ञानात्मकत्वं साधयत्येव । नचैतदसंभवि साध्यमात्मानं प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्यार्थसाक्षात्कारिणः सर्वस्य ०५कार्त्स्न्येन एकदेशेन वा वैशद्यसिद्धेर्बाधकाभावात् । अक्ष्णोति व्याप्नोति जानातीत्यक्षो हि — आत्मानमेव क्षीणावरणं क्षीणोपशांतावरणं वा प्रतिनियतस्य ज्ञानस्य प्रत्यक्षशब्दवाच्यस्य कथंचिदपि वैशद्यं सभा- व्यमिति सूक्तं विशदज्ञानात्मकं प्रत्यक्षं । तत्त्रिविधं — इंद्रियानिंद्रियातींद्रियप्रत्यक्षविकल्पनात् । तत्रेंद्रियप्रत्यक्षं सांव्यवहारिकं देशतोविशद- त्वात् । तद्वदनिंद्रियप्रत्यक्षं तस्यांतर्मुखाकारस्य कथं चिद्वैशद्यसिद्धेः । अतींद्रियप्रत्यक्षं तु द्विविधं विकल- १०प्रत्यक्षं सकलप्रत्यक्षं चेति । विकलप्रत्यक्षमपि द्विविधं — अवधिज्ञानं मनःपर्ययज्ञानं चेति सकलप्रत्यक्षं तु केवलज्ञानं तदेतत्त्रितयमपि मुख्यं प्रत्यक्षं मनोऽक्षानपेक्षत्वात् अतीतव्यवभिचारित्वात् साकारवस्तु- ग्राहित्वात् सर्वथा स्वविषयेषु वैशद्याच्च । तथा चोक्तं तत्त्वार्थवार्तिककारैः । इंद्रियानिंद्रियानपेक्षम् अतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम् इति तत्रेंद्रियानिंद्रियानपेक्षमिति वचनात् सांव्यवहारिकस्येंद्रियप्रत्यक्षस्यानिंद्रियस्य च देशतो विश- १५दस्य व्यवच्छेदसिद्धेः । अतीतव्यभिचारमिति वचनात् विभंगज्ञानस्यावधिप्रत्यक्षाभासस्य निवृत्तेः । साकारग्रहणमिति प्रतिपादनात् निराकारग्रहणस्य दर्शनस्य प्रत्यक्षत्वव्यावर्तनात् । सूक्तं मुख्यं प्रत्यक्षत्रयं ननु स्वसंदेनप्रत्यक्षं चतुर्थं स्यादिति न मंतव्यं तस्य सकलज्ञानसाधर- णस्वरूपत्वात् । यथैव हींद्रियप्रत्यक्षस्य स्वरूपसंवेदनमिंद्रियप्रत्यक्षमेव अन्यथा तस्य स्वपरस्वरूपसंवेदकत्व- विरोधात् संवेदनद्वयप्रसंगाच्च । तथानींद्रियप्रत्यक्षस्य मानसस्य स्वरूपसंवेदनमनिंद्रियप्रत्यक्षमेव तत एव २०तद्वदतींद्रियप्रत्यक्षत्रितयमेवेति न ततोऽर्थांतरं स्वसंवेदनप्रत्यक्षं । एतेन श्रुतज्ञानस्य स्वरूपसंवेदनमनिं- द्रियप्रत्यक्षमुक्तं प्रतिपत्तव्यं तस्यानिंद्रियनिमित्तत्वात् विभ्रमज्ञानस्वरूपसंवेदनवत् । तथा च सकलं ज्ञानं स्वरूपसंवेदनापेक्षया प्रमाणं सिद्धं भावप्रमेयापेक्षायां प्रमाणाभासनिन्हवः । किं पुनरिंद्रियप्रत्यक्षं ? इंद्रियप्रधान्यादिंद्रियवलाधानादुपजायमानं मतिज्ञानं — तदिंद्रियानिंद्रियनिमित्तं । २५इति वचनात् । तच्चतुर्विधं — अवग्रहेहावायधारणाविकल्पात् । तत्र विषयविषयिसन्निपातानं- तरमाद्यग्रहणमवग्रहः । तद्गृहीतवस्तुविशेषाकांक्षणमीहा । भवितव्यताप्रत्ययरूपात्तदीहितवि- शेषनिश्चयोऽवायः । सावधारणं ज्ञ नं कालांतराविस्मरणकारणं धारणाज्ञानं । तदेतच्चतुष्टयमपि अक्षव्यापारापेक्षं अक्षव्यापाराभावे तदनुद्भवनात् । मनोऽपेक्षं च प्रतिहतमनसस्तदनुत्पत्तेः । तत एवेंद्रिय- प्रत्यक्षं देशतो विशदमविसंवादकं प्रतिपत्तव्यं स्पर्शनादीन्द्रियनिमित्तस्य बहुबहुविधक्षिप्रानिसृतानुक्तध्रुवेषु ३०तदितरेष्वर्थेषु वर्तमानस्य प्रतींद्रियमष्टचत्वारिंशद्भेदस्य व्यंजनावग्रहभेदैरष्टचत्वारिंशता सहितस्य संख्याष्टा- शीत्युत्तरद्विशती प्रतिपत्तव्या । तथा अनिंद्रियप्रत्यक्षं बह्वादिद्वादशप्रकारार्थविषयमवग्रहादिविकल्पमष्टच- त्वारिंशत्संख्यं प्रतिपत्तव्यं । यत्पुनरतींद्रियप्रत्यक्षविकल्पमवधिज्ञानं तत् षड्विधं अनुगामि-अननुगामि- वर्धमान-हीयमान-अवस्थित-अनवस्थितविकल्पात् । सप्रतिपाताप्रतिपातयोरत्रैवांतर्भावात् । संक्षेपतस्तु त्रिविधं देशावधि-परमावधि-सर्वावधिभेदात् । तत्र देशावधिज्ञानं षड्विकल्पमपि संभवति परमावधिज्ञानं तु ३५संयमविशेषैकार्थसमवायिभवांतरापेक्षयाननुगामि प्रतिपातं च प्रत्येयं । तद्भवापेक्षया च तदनुगाम्येव ना- ननुगामि । वर्धमानमेव न हीयमानं । अवस्थितमेव नानवस्थितं । अप्रतिपातमेव नप्रतिपातं तथाविध- विशुद्धिनिबंधनत्वात् । एतेन सर्वावभधिज्ञानं व्याख्यातं । केवलं तद्वर्धमानमपि न भवति परमप्रकर्षप्राप्तत्वात् सकलावधिज्ञानावरणवीर्यांतरायक्षयोपशमवशात्प्रसूतत्वात् । अतिसंक्षेपस्तु द्विविधमवधिज्ञानं भवप्रत्ययं ६९गुणप्रत्ययं चेति । तत्र भवप्रत्ययं बहिरंगदेवभवनारकभवप्रत्ययनिमित्तत्वात् । तद्भावे भावात् तदभावेऽ- भावात् तत्तु देशावधिज्ञानमेव । गुणप्रत्ययं तु सम्यग्दर्शनगुणनिमित्तमसंयतसम्यग्दृष्टेः । संयमासंयमगुण- हेतुकं संयतासंयतस्य । संयमगुणनिबंधनं संयतस्य । सत्यंतरंगहेतौ बहिरंगस्य गुणप्रत्ययस्य भावे भावात् । तदभावे चाभावात् । तथा मनःपर्ययज्ञानं विकलमतींद्रियप्रत्यक्षं द्वेधा ऋजुमतिविकल्पात् । तत्रर्जुमति- ०५मनःपर्ययज्ञानं निर्वर्तितप्रगुणवाक्कायमनस्कृतार्थस्य परमनोगतस्य परिच्छेदकत्वात्त्रिविधं । विपुलमतिमनः पर्ययज्ञानं तु निर्वर्तितानिर्वर्तितप्रगुणाप्रगुणवाक्कायमनस्कृतार्थस्य परमनसि स्थितस्य स्फुटतरमवबोधकत्वात् षट्प्रकारं, तथाविधमनःपर्ययज्ञानावरणवीर्यांतरायक्षयोपशमविशेषवलात् प्रादुर्भूतत्वात् । सकलमतींद्रिय- प्रत्यक्षं केवलज्ञानं सकलमोहक्षयात् सकलज्ञानदर्शनावरणवीर्यांतरायक्षयाच्च समुद्भूतत्वात् सकलवैशद्य सद्भावात् सकलविषयत्वाच्च । तद्वान् कश्चित्पुरुषविशेषो भवत्येव सुनिर्णीतासंभद्बाधकप्रमाणत्वात् । तथा १०शास्त्रज्ञानेन तद्वानुभयवादिप्रसिद्धः । नचात्रासिद्धं साधनं सर्वातींद्रियप्रत्यक्षवतः पुरुषस्य प्रत्यक्षादिप्रमा- णैरबाध्यमानस्य सकलदेशकालपुरुषपरिषदपेक्षयापि सिद्धत्वात् सुखादिसंवेदनस्यापि तथैव प्रमाणत्वोपपत्तेः । अन्यथा कस्यचिदिष्टसिद्धेरसंभवात् । इति संक्षेपतो विशदं ज्ञानं सांव्यवहारिकं मुख्यं च प्ररूपितं विस्त- रतस्तु तत्त्वार्थालंकारे परीक्षितमिह दृष्टव्यं । संप्रति परोक्षमुच्यते — परोक्षमविशदज्ञानात्मकं परोक्षत्वात् यन्नाविशदज्ञानात्मकं तन्न परोक्षं यथा- १५तींद्रियप्रत्यक्षं परोक्षं च विवादाध्यासितं ज्ञानं तस्मादविशदज्ञानात्मकं । नचास्य परोक्षत्वमसिद्धं–अक्षेभ्यः परावृत्तत्वात् । तथोपात्तानुपात्तपरप्रत्ययापेक्षं परोक्षमिति तत्त्वार्थवार्तिककारैरभिधानात् । उपात्तो हि प्रत्ययः कर्मवशादात्मना करणत्वेन गृहीतः स्पर्शनादिः । ततोऽन्यः पुनर्बहिरंगः सहकारी प्रत्ययोऽनु- पात्तः शब्दलिंगादिः तदपेक्षं ज्ञानं परोक्षमित्यभिधीयते । तदपि संक्षेपतो द्वेधा मतिज्ञानं श्रुतज्ञानं चेति आद्ये परोक्षं इति वचनात् । मतिश्रुतावधिमनःपर्ययकेवलानि हि ज्ञानं । तत्राद्ये मतिश्रुते सूत्रपाठापे- २०क्षया लक्ष्येते ते च परापेक्षतया परोक्षे प्रतिपादिते । परानपेक्षाण्यवधिमनःपर्ययकेवलानि यथा प्रत्यक्षा- णीति । तत्रावग्रहादिधारणापर्यंतं मतिज्ञानमपि देशतोवैशद्यसद्भावात्सांव्यवहारिकं, इंद्रियप्रत्यक्षमतींद्रियप्र- त्यक्षं चाभिधीयमानं न विरुध्यते ततः शेषस्य मतिज्ञानस्य स्मृतिसंज्ञाचिंताभिनिबोधलक्षणस्य श्रुतस्य च परोक्षत्वव्यवस्थितेः । तदुक्तमकलंकदेवैः — प्रत्यक्षं विशदं ज्ञानं मुख्यसंव्यवहारतः । २५परोक्षं शेषविज्ञानं प्रमाणमिति संग्रहः ॥ १ ॥ तत्र तदित्याकारानुभूतार्थविषया स्मृतिः अनिंद्रियप्रत्यक्षं विशदत्वात् सुखादिसंवेदनवदित्येके१ तद- सत् । तस्मात्तत्र वैशद्यासिद्धेः पुनर्भावयतो वैषद्यप्रतीतेर्भावनाज्ञानत्वात् तस्य च भ्रांतत्वात स्वप्नज्ञा- नवत् । पूर्वानुभूतेऽतीतेऽर्थे वैशद्यासंभवात् स्मृतिः परोक्षमेव श्रुतानुमितस्मृतिवत् इत्यपरे२ तदित्युल्लेखस्य सर्वस्यां स्मृतौ सद्भावात् । सा च प्रमाणमविसंवादकत्वात् प्रत्यक्षवत् यत्र तु विसंवादः सा स्मृत्याभासा ३०प्रत्यक्षाभासवत् । तथा तदेवेदमित्याकारं ज्ञानं संज्ञा प्रत्यभिज्ञा तादृशमेवेदमित्याकारं वा विज्ञानं संज्ञोच्यते । तस्या एकत्वसादृश्यविषयत्वाद्द्वैविध्योपपत्तेः । द्विविधं हि प्रत्यभिज्ञानं तदेवेदमित्येकत्वनि- बंधनं । तादृशमेवेदति सादृश्यनिबंधनं च । ननु च तदेवेत्यतीतप्रतिभासस्य स्मरणरूपत्वात् इद- मिति संवेदनस्य प्रत्यक्षरूपत्वात् संवेदनद्वितयमेवैतत् तादृशमेवेदमिति स्मरणप्रत्यक्षसंवेदनद्वितयवत् ततो नैकं ज्ञानं प्रत्यभिज्ञाख्यां प्रतिपद्यमानं संभवतीति कश्चित् सोऽपि न संवेदनविशेषविपश्चित् ३५स्मरणप्रत्यक्षजन्यस्य पूर्वोत्तरविवर्तवर्त्येकद्रव्यविषयस्य प्रत्यभिज्ञानस्यैकस्य सुप्रतीतत्वात् । न हि तदिति स्मरणं तथाविधद्रव्यव्यवसायात्मकं तस्यातीतविवर्तमात्रगोचरत्वात् । नापीदमिति संवेदनं तस्य व- र्तमानविवर्तमात्रविषयत्वात् । ताभ्यामुपजन्यं तु सकलज्ञानं तदनुवादपुरस्सरं द्रव्यं प्रत्यवमृशत् । ततो- ७०ऽन्यदेव प्रत्यभिज्ञानमेकत्वविषयं तदपह्नवे क्वचिदेकान्वयाव्यवस्थानात् संतानैकत्वसिद्धिरपि न स्यात् । नचै- तदगृहीतप्रमाणादप्रमाणमिति शंकनीयं तस्य कथंचिदपूर्वार्थत्वात् । न हि तद्विषयभूतमेकं द्रव्यं स्मृति- प्रत्यक्षग्राह्यं येन तत्र प्रवर्तमानं प्रत्यभिज्ञानं गृहीतग्राहि मन्येत तद्गृहीतातीतवर्तमानविवर्ततादात्म्यात् । द्रव्यस्य कथंचिदपूर्वार्थत्वेऽपि प्रत्यभिज्ञानस्य तद्विषयस्य नाप्रमाणत्वं लैंगिकादेरप्यप्रमाणत्वप्रसंगात् तस्यापि ०५सर्वथैवापूर्वार्थत्वासिद्धेः । संबंधग्राहिविज्ञानविषयात् साध्यादिसामान्यात् कथंचिदभिन्नस्यानुमेयस्य देश- कालविशिष्टस्य तद्विषयत्वात् कथंचिदपूर्वार्थत्वसिद्धेः बाधकप्रमाणान्न प्रमाणं प्रत्यभिज्ञानमिति चायुक्तं तद्बा- धकस्यासंभवात् । नहि प्रत्यक्षं तद्बाधकं तस्य तद्विषये प्रवृत्त्यसंभवात् । साधकत्ववद्बाधकत्वविरोधात् । यथा हि यद्यत्र विषये न प्रवर्तते न तत्तस्य साधकं बाधकं वा यथा रूपज्ञानस्य रसज्ञानं न प्रवर्तते च प्रत्यभिज्ञा- नस्य विषये प्रत्यक्षं तस्मान्न तद्बाधकं । प्रत्यक्षं हि न प्रत्यभिज्ञानविषये पूर्वदृष्टदृश्यमानपर्यायव्यापिनि द्रव्ये १०प्रवर्तते तस्य दृश्यमानपर्यायविषयत्वात् इति नासिद्धं साधनं । एतेनानुमानं प्रत्यभिज्ञानस्य बाधकं प्रत्याख्यातं तस्यापि प्रत्यभिज्ञानविषये प्रवृत्त्ययोगात्, क्वचिदनुमेयमात्रे प्रवृत्तिसिद्धेः । तस्य तद्विषये प्रवृत्तौ वा सर्वथा बाधकत्वविरोधात् । ततः प्रत्यभिज्ञानं स्वविषये द्रव्ये प्रमाणं सकलबाधारहितत्वात् प्रत्यक्षवत् स्मृतिवद्वा एतेन सादृश्यनिबंधनं प्रत्यभिज्ञानं प्रमाणमावेदितं बोद्धव्यं तस्यापि स्वविषये बोधाकाररहितत्वसिद्धेः । यथैव हि प्रत्यक्षं स्वविषये साक्षात्क्रियमाणे स्मरणं च स्मर्यमाणेऽर्थे बाधाविधुरं तथा प्रत्यभिज्ञानमेकत्र द्रव्ये १५सादृश्ये च स्वविषये न संभवद्बाधकमिति कथमप्रमाणमनुमन्येमहि । यत्पुनः स्वविषये बाध्यमानं तत्प्रत्यभि- ज्ञानाभासं यथा प्रत्यक्षाभासं स्मरणाभासं वा न च तस्याप्रमाणत्वे सर्वथा प्रमाणत्वं युक्तं प्रत्यक्षस्याप्यप्रमा- णत्वप्रसंगात् । तस्माद्यथा शुक्ले शंखे पीताभासं प्रत्यक्षं तत्रैव शुक्लाभासेन प्रत्यक्षांतरेण बाध्यमानत्वात् अप्रमाणं न पुनः पीते कनकादौ पीताभासं प्रत्यक्षं । तथा तस्मिन्नेव स्वपुत्रादौ तादृशोयमिति प्रत्यभिज्ञानं सादृश्यनिबंधः स एवायमित्येकत्वनिबंधनेन प्रत्यभिज्ञानेन बोध्यमानमप्रमाणं सिद्धं न पुनः सादृश्य एव प्रव- २०र्तमानं स्वपुत्रादिना सादृश्येऽन्यपुत्रादौ तादृशोऽयमिति प्रत्यभिज्ञानं तस्याबाध्यत्वेन प्रमाणत्वात् । एवं लूनपु नर्जातनखकेशादिरिति सादृश्यप्रत्यवमर्शिप्रत्यभिज्ञानं तत्र तस्याबाध्यमानतया प्रमाणत्वसिद्धेः । तथैव पूर्वा- नुभूते हि हिरण्यादौ प्रदेशविशेषविशिष्टे स्मरणं विपरीतदेशतया तत्स्मरणस्य बाधकमिति न तत्तत्र प्रमाणं । यथानुभूतप्रदेशे तु तथैव स्मरणं प्रमाणमिति बोद्धव्यं । तत इदमभिधीयते यतो यतोर्थं परिच्छिद्य प्रवर्त- मानोऽर्थक्रियायां न विसंवाद्यते तत्तत्प्रमाणं यथा प्रत्यक्षमनुमानं वा । स्मरणात् प्रत्यभिज्ञानाच्च अर्थं परि- २५च्छिद्य प्रवर्तमानोऽर्थक्रियायां न विसंवाद्यते च तस्मात्प्रमाणं स्मरणं प्रत्यभिज्ञानं चेति । तथा परोक्षमेतदवि- संवादित्वात् । अनुमानवत् । साध्यसाधनसंबंधग्राहितर्कवद्वा विशदस्य भावनाज्ञानत्वात् । यावान् कश्चिद्धूमः स सर्वः पावकजन्मैव अपावकजन्मा वा न भवतीति सकलदेशकालव्याप्तसाध्यसाधनसंबद्धोहापोहलक्षणो हि तर्कः प्रमाणयितव्यः तस्य कथंचिदपूर्वार्थत्वात् । प्रत्यक्षानुपलंभगृहीतप्रतिनियतदेशकालसाध्यसा- धनव्यक्तिमात्रग्राहित्वाभावात् गृहीतग्रहणसंभवात् बाधकवर्जितत्वाच्च । नहि तर्कस्य प्रत्यक्षं बाधकं तद्वि- ३०षये तस्याप्रवृत्तेरनुमानवत् प्रवृत्तौ वा सर्वथा तद्बाधकत्वविरोधात् क्वचिदेव तद्बाधकोपपत्तेः । यस्य तु तद्बाधकं स तर्काभासो न प्रमाणमितीष्टं शिष्टैः स्मरणप्रत्यभिज्ञानाभासवत् । प्रत्यक्षानुमानाभासवद्वा तथा प्रमाणं तर्कस्ततोऽर्थं परिच्छिद्य प्रवर्तमानस्यार्थक्रियायां विसंवादाभावात् प्रत्यक्षानुमानवदिति प्रतिपत्तव्यं । परोक्षं चेदं तर्कज्ञानं अविसंवादकत्वात् अनुमानवत् । किं पुनरनुमानं नाम ? साधनात्साध्यविज्ञानम् अनुमानं । ३५तत्र साधनं साध्याविनाभाविनियमनिश्चयैकलक्षणं लक्षणांतरस्य साधनाभासेऽपि भावात् । स्वलक्ष णस्य साधनस्य साधनानुपपत्तेः पंचादिलक्षणवत् । नच सपक्षे सत्त्वं पक्षधर्मत्वं विपक्षे चासत्त्वमात्रं साधन- लक्षणं पश्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यत्र साधनाभासे तत्सद्भावसिद्धेः । सपक्षे हीतरत्र तत्पुत्रे तत्पुत्रत्वस्य साधनस्य श्यामत्वव्याप्तस्य सत्त्वं प्रसिद्धं । विवादाध्यासिते च तत्पुत्रे पक्षीकृते तत्पुत्रत्वस्य सद्भावात् पक्षधर्म- त्वं । विपक्षे वा श्यामे क्वचिदन्यपुत्रे तत्पुत्रत्वस्याभावात् विपक्षेऽसत्त्वमात्रं च । नच तावता साध्यसाध- ७१नत्वं साधनस्य । ननु साकाल्येन साध्यनिवृत्तौ साधननिवृत्तेरसंभवात् परत्र गौरेऽपि तत्पुत्रे तत्पुत्रत्वस्य भावात् न सम्यक् साधनमेतत् इति चेत् तर्हि कार्त्स्न्येन साध्यनिवृत्तौ साधननिवृत्तेर्निश्चयएवैकं साधनलक्षणं सएवा- न्यथानुपपत्तिनियमनिश्चयः स्याद्वादिभिः साधनलक्षणमभिधीयते तत्सद्भावे पक्षधर्मत्वाद्यभावेऽपि साधन- स्य सम्यक्त्वप्रतीतेः उदेष्यति शकटं कृत्तिकोदयादित्यस्य पक्षधर्मत्वाभावेऽपि प्रयोजकत्वव्यवस्थितेः । ०५न हि शकटे धर्मिण्युदेष्यत्तायां साध्यायां कृत्तिकाया उदयोऽस्ति तस्य कृत्तिकाधर्मत्वात् ततो न पक्ष धर्मत्वं । यदि पुनराकाशं कालो वा धर्मी तस्योदेष्यच्छकटवत्त्वं साध्यं कृत्तिकोदयसाधनं पक्षधर्म एवेति मतं तदा धरित्रीधर्मिणि महोदध्याधाराग्निमत्त्वं साध्यं महानसधूमवत्त्वं साधनं पक्षधर्मोऽस्तु तथा च महा - नसधूमो महोदधावग्निं गमयेदिति न कश्चिदपक्षधर्मो हेतुः स्यात् । अथेत्थमेतस्य साधनस्य पक्षधर्मत्व- सिद्धावपि न साध्यसाधनसामर्थ्यमविनाभाविनियमनिश्चयस्याभावादित्यभिधीयते तर्हि स एव साधनलक्ष- १०णमक्षूणं परीक्षादक्षैरुपलक्ष्यते । योप्याह शकटोदयो भाविकारणं कृत्तिकोदयस्य तदन्वयव्यतिरेकानुविधानात् सति हि स्वकाले भविष्यति शकटोदये कृतिकोदय उपलभ्यते नासतीत्यन्वयव्यतिरेकानुविधानं सिद्धं भविष्यच्छकटकृत्ति- कोदययोः कार्यकारणभावं साधयति विनष्टवर्तमानवदेव । यथैवोदगाद्भरणिः कृत्तिकोदादित्यत्रातीतो भर- ण्युदयः कारणं, कृत्तिकोदयस्तत्कार्यं स्वकालेऽतीते सति भरण्युदये कृत्तिकोदयस्य भावादसत्यभावाच्च तद- १५न्वयव्यतिरेकानुविधानात् कार्यकारणभावः । तथा भविष्यद्वर्तमानयोरपि प्रकृतसाध्यसाधनयोर्न्यायस्य समानत्वात् । नचैकस्य कृत्तिकोदयस्य भविष्यदतीतकारणद्वितियं विरुध्यते भिन्नदेशयोरिव भिन्नकालयो- रपि सहकारित्वविरोधात् । सहैकस्य कार्यस्य कारणं हि सहकारित्वनिबंधनं नाभिन्नकालत्वमभिन्नदेशवत् । नचातीतानागतौ भरण्युदयशकटोदयौ कृत्तिकोदयस्योपादानकारणं पूर्वकृत्तिकालक्षणस्यानुदयमापन्नस्य तदुपादानकारणत्वसंप्रतिपत्तेः ? इति सोऽपि न प्रातीतिकवचनः तथा प्रतीत्यभावात् । कार्यकालमप्राप्नु २०वतोर्विनष्टानागतयोः कारणत्वे हि विनष्टतमानागततमयोरपि कारणत्वं कथं विनिवार्यं ? प्रत्यासत्तिविशेषा- भावादिति चेत् तर्हि स एव प्रत्यासत्तिविशेषः कारणत्वाभिमतयोरतीतानागतयोः कारणत्वे हेतुर्वक्तव्यः । स चातीतस्य कार्ये व्यापारस्तावन्न भवति सर्वथापि कार्यकाले तदसत्त्वादनागतवत् । तद्भावे भावप्रत्यास- त्तिविशेष इत्यप्यसारं अतीतस्यानागतस्य चाभाव एव कार्यस्य भावात् भावे चाभावात् अन्यथा कार्यकार- णयोरेककालतापत्तेः सकलसंतानानामेकक्षणवर्तित्वप्रसंगः । नैकक्षणसंतानो नाम तस्यापरामृष्टभेद- २५नानाकार्यकारणलक्षणत्वात् । यदप्यभ्यधायि कारणस्यातीतस्यानागतस्य च स्वकाले भावे कार्यस्य भावात् अभावे चाभावात् तद भावाभावोऽन्वयव्यतिरेकानुविधानलक्षणः प्रत्यासत्तिविशेषोऽस्त्येव इति तदप्यसंगतं कारणत्वानभिमता- तीतानागततमयोरपि तथा तद्भावप्रसंगात् । कार्यस्य भिन्नदेशस्य तु कारणत्वे युक्तस्तद्भावभावः कलशकुं- भकारादिवत् । कुंभकारादिषु हि भिन्नस्वदेशेषु सत्सु कलशस्य भावोऽसत्सु चाभावस्तेषां तत्र व्यापारात् । ३०कारणत्वानभिमतस्य तु भिन्नदेशस्य न कार्ये तद्भावभावो तत्र तस्याव्यापारात् अतीतानागतवत् । सतो हि कस्य चित्क्वचिद्व्यापारः श्रेयान् न पुनरसतः खरविषाणादेरिवेति युक्तं ततो भिन्नदेशस्यापि कस्यचिदेकस्य कार्ये व्याप्रियमाणस्य सहकारिकारणत्वं प्रतीतिमनुसरति न पुनर्भिन्नकालस्य प्रतीत्यतिलंघनात् ततो न कृत्तिकोदयशकटोदययोः कार्यकारणभावः समवतिष्टते व्याप्यव्यापकभाववत् । सत्यपि तयोः कार्यकारणभावे न हेतोः पक्षधर्मत्वं युज्यते इति पक्षधर्ममंतरेणापि हेतोर्गमकत्वसिद्धेर्न तल्लक्षणमुत्प्रेक्ष्यते । तथा न सपक्ष ३५एव सत्त्वं निश्चितं तदभावेऽपि सर्वभावानामनित्यत्वे साध्ये सत्त्वादेः साधनस्य स्वयं साधुत्वसमर्थनात् । विपक्षे पुनरसत्त्वमेव निश्चितं साध्याविनाभाविनियमनिश्चयरूपमेवेति तदेव हेतोः प्रधानलक्षणमस्तु किमत्र लक्षणांतरेण ? अथ मतमेतत्पक्षधर्मत्वमसिद्धत्वमसिद्धत्वव्यवच्छेदार्थं साधनस्य लक्षणं निश्चीयते । सपक्ष एव सत्त्वं विरुद्धत्वव्यवच्छेदाय । विपक्षे चासत्त्वं–अनेकांतित्वव्यवच्छित्तये । तदनिश्चये हेतोरसिद्धत्वादिदोषत्रयपरिहारा- ७२संभवात् त्रैरूप्यं तल्लक्षणं सफलमेव । तदुक्तं — हेतोस्त्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः । असिद्धविपरीतार्थव्यभिचारिविपक्षतः इति ॥ १ ॥ तदप्यपरीक्षिताभिधानं सौगतस्य हेतोरन्यथानुपपत्तिनियमनिश्चयादेव दोषत्रयपरिहारसिद्धेः स्वयम- ०५सिद्धस्यान्यथानुपपत्तिनियमनिश्चयासंभवात् । अनैकांतिकविपरीतार्थवत् तस्य तथोपपत्तिनियमनिश्चय- रूपत्वात् । तस्य चासिद्धव्यभिचारिणि विरुद्धे च हेतावसंभावनीयत्वात् । रूपत्रयस्याविनाभाव- नियमप्रपंचत्वात् साधनलक्षणत्वे तत एव रूपप्रपंचकस्य साधनलक्षणत्वमस्तु । पक्षव्यापकत्वान्वयव्य- तिरेकाबाधितविषयत्वासत्प्रतिपक्षरूपाणि हि पंचाप्यविनाभावनियमप्रपंच एव बाधितविषयस्य सत्प्र- तिपक्षितस्य चाविनाभावनियमानिश्चयात् पक्षाव्यापकानन्वयाव्यतिरेकवत् । न पक्षधर्मत्वे सत्येव सा- १०धनस्य सिद्धत्वं येनासिद्धविवेकतस्तत्तस्य लक्षणं, अपक्षधर्मस्यापि सिद्धत्वसमर्थनात् । नापि सपक्षे सत्त्वे एव विपरीतार्थविवेकः सर्वानेकांतात्मकत्वसाधने सत्त्वादेः सपक्षे सत्त्वाभावेऽपि विरुद्धत्वाभा- वात् परस्य सर्वानित्यत्वसाधनवत् । नच व्यतिरेकमात्रे सत्यपि व्यभिचारिविवेके श्यामत्वे साध्ये- तत्पुत्रत्वादेर्व्यभिचारसाधनात् व्यतिरेकविशेषस्तु तदेवान्यथानुपपन्नत्वमिति न त्रीणि रूपाण्यविना भावनियमप्रपंचः तेषु सत्सु हेतोरन्यथानुपपत्तिदर्शनात् । तेषां तत्प्रपंचत्वे कालाकाशादीनामपि तत्प्र- १५पंचत्वप्रसक्तिस्तेष्वपि सत्सु तद्दर्शनात् । तेषां सर्वसाधरणत्वान्न हेतुरूपत्वमित्यपि पक्षधर्मत्वादिषु समानं तेषामपि साधारणत्वाद्धेत्वाभासेष्वपि भावात् । ततोऽसाधारणं लक्षणमाचक्षाणैरन्यथानुपपन्नत्वमेव नियतं हेतुलक्षणं पक्षीकर्तव्यं । तथोक्तं — अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं ॥ १ ॥ इति २०एतेन पंचरूपाणि हेतोरविनाभावनियमप्रपंच एव इत्येतदपास्तं सत्यप्यबाधितविषयत्वे सत्प्रतिपक्षे चाविनाभावनियमानवलोकात् । पक्षव्यापकत्वान्ययव्यतिरेकवत् । स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवत् इत्यत्र तत्पुत्रत्वस्य हेतोर्विषये श्यामत्वे बाधकस्य प्रत्यक्षादेरभावात् अवाधितविषयत्वसिद्धावपि अविना- भावनियमासत्त्वात् अश्यामेन तत्पुत्रेण व्यभिचारात् । तथा तस्य श्यामत्वसाधनानुमानस्य प्रतिपक्षस्यास- त्त्वात् असत्प्रतिपक्षत्वे सत्यपि व्यभिचारात्साधनस्य तदभावः प्रतिपत्तव्यः । तदत्रैवं वक्तव्यं — २५अन्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं नान्यथानुपपन्नत्वं रूपैः किं पंचभिः कृतं ॥ १ ॥ इति तदेवमन्यथानुपपत्तिनियमनिश्चय एवैकं साधनस्य लक्षणं प्रधानं तस्मिन्सति त्रिलक्षणस्य पंचल- क्षणस्य प्रयोगो निवार्यते एवेति प्रयोगपरिपाट्याः प्रतिपाद्यानुरोधतः परानुग्रहप्रवृत्तैरभ्युपगमात् । तथा चा- भ्यधायि कुमारनंदिभट्टारकैः — ३०अन्यथानुपपत्त्येकलक्षणं लिंगमंग्यते प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ॥ १ ॥ इति तच्च साधनं एकलक्षणं सामन्यादेकविधमपि विशेषतोऽतिसंक्षेपाद्द्विविधं विधिसाधनं संक्षेपास्त्रिविधं- मभिधीयते कार्यं कारणस्य, कारणं कार्यस्य, अकार्यकारणमकार्यकारणस्येति प्रकारांतरस्यात्रैवांतर्भावात् । तत्र कार्यं हेतुः, अग्निरत्र धूमात् इति कार्यकार्यादेरत्रैवांतर्गतत्वात् । कारणं हेतुः — अस्त्यत्र छाया छत्रात् ३५इति कारणकारणादेरत्रानुप्रवेशान्नार्थातरत्वं । न चानुकूलत्वमात्रमत्यक्षणप्राप्तं वा कारणं लिंगमुच्यते येन प्रतिबंधवैकल्यसंभवाद्व्यभिचारि स्यात् । द्वितीयक्षणे कार्यस्य पक्षीकरणादनुमानानर्थकत्वं वा कार्याविना- भाविनियमतया निश्चितस्यानुमानकालप्राप्तस्य कारणस्य विशिष्टस्य लिंगत्वात् । अकार्यकारणं चतुर्विधं — व्याप्यं सहचरं पूर्वचरं, उत्तरचरं चेति । तत्र व्याप्यलिंगं व्यापकस्य यथा सर्वमनेकांतात्मकं सत्त्वादिति सत्त्वं हि वस्तुत्वं — ७३उत्पादव्ययध्रौव्ययुक्तं सत् इति वचनात् । नच तदेकांतेन सुनयविषयेण व्यभिचारि तस्य वस्त्वंशत्वात् । सहचरं लिंगं यथा —अस्ति तेजसि स्पर्शसामान्यं (? ) न रूपसामान्यस्य कार्यं कारणं वा नापि रूपसामान्यं स्पर्शसामान्यस्य तयोः सर्वत्र सर्वदा समकालत्वात् सहचरत्वप्रसिद्धेः । एतेन संयोगिन एकार्थसमवायिनश्च साध्यसमकालस्य ०५सहचरत्वं निवेदितमेकसामग्र्यधीनस्यैव प्रतिपत्तव्यं समवायिनः कारणत्ववत् । पूर्वचरं लिंगं यथोदेष्यति शकटं कृत्तिकोदयात् इति पूर्वपूर्वचराद्यनेनैव संगृहीतं । उत्तरचरलिंगं यथा — उदगाद्भरणिः कृतिकोदयात् इति, उत्तरोत्तरचरमेतेनैव संगृह्यते तदेतत्साध्यस्य विधौ साधनं षड्विधमुक्तं । प्रतिषेधे तु प्रतिषेध्यस्य विरुद्धं कार्यं विरुद्धं कारणं विरुद्धाकार्यकारणं चेति । तत्र विरुद्धकार्यलिंगं-नास्त्यत्र शीतस्पर्शो धूमात् इति शीत स्पर्शेन हि विरुद्धो वन्हिः तस्य कार्यं धूम इति विरुद्धकारणं । नास्य पुंसोऽसत्यमस्ति सम्यग्ज्ञानात् इति विरुद्धं १०ह्यसत्येन सत्यं तस्य कारणं सम्यग्ज्ञानं यथार्थज्ञानं रागद्वेषरहितं तत्कुतश्चित्सुक्ताभिधानादेः प्रसिद्ध्यत् सत्यं साधयति । तच्च सिद्ध्यदसत्यं प्रतिषेधयति इति । विरुद्धाकार्यकारणं चतुर्विधं–विरुद्धव्याप्यं विरुद्धसह- चरं विरुद्धपूर्वचरं विरुद्धोत्तरचरं चेति तत्र विरुद्धव्याप्यं नास्त्यत्र शीतस्पर्शः, औष्ण्यात् । औष्ण्यं हि व्याप्यमग्नेः स च विरुद्धः शीतस्पर्शेन प्रतिषेध्येनेति । विरुद्धसहचरं नास्त्यस्य मिथ्याज्ञानं सम्यग्दर्शनादिति मिथ्याज्ञानेन हि सम्यग्ज्ञानं विरुद्धं तत्सहचरं सम्यग्दर्शनमिति । विरुद्धपूर्वचरं नोदेष्यति मुहूर्तांते शंकटं १५रेवत्युदयात् । शकटोदयविरुद्धो ह्यश्वन्युदयः तत्पूर्वचरो रेवत्युदयः । विरुद्धोत्तरचरं–मुहूर्तात् प्राङ्गोदगाद्भरणिः पुष्पोदयादिति । भरण्युदयविरुद्धो हि पुनर्वसूदयः तदुत्तरचरः पुष्पोदय इति । तान्येतानि साक्षात्प्रतिषेध्य- विरुद्धकार्यादीनि लिंगानि विधिद्वारेण प्रतिषेधसाधनानि षडभिहितानि । परंपरया तु कारणविरुद्धकार्यं व्याप- कविरुद्धकार्यं कारणव्यापकविरुद्धकार्यं व्यापककारणविरुद्धकार्यं कारणविरुद्धकारणं व्यापकविरुद्धकारणं कार- णव्यापकविरुद्धकारणं व्यापककारणविरुद्धकारणं चेति तथा कारणविरुद्धव्याप्यादीनि कारणविरुद्धचहचरा- २०दीनि च यथाप्रतीति वक्तव्यानि । तत्र कारणविरुद्धकार्यं–नास्त्यस्य हिमजनितरोमहर्षादिविशेशो धूमात् इति प्रतिषेध्यस्य हि रोमहर्षादिविशेषस्य कारणं हिमं तद्विरुद्धोऽग्निः तत्कार्यं धूम इति । व्यापकविरुद्धकार्यं नास्त्यत्र शीतसामान्यव्याप्तः शीतस्पर्शविशेषो धूमात् इति शीतस्पर्शविशेषस्य हि निषेध्यस्य व्यापकं शी- तसामान्यं तद्विरुद्धोऽग्निः तस्य कार्यं धूम इति । कारणव्यापकविरुद्धकार्यं नास्त्यत्र हिमत्वव्याप्तहिमविशे- षजनितरोमहर्षादिविशेषो धूमात् इति रोमहर्षादिविशेषस्य हि कारणं हिमविशेषस्तस्य व्यापकं हिमत्वं २५तद्विरुद्धोग्निः तत्कार्यं धूम इति । व्यापककारणविरुद्धकार्यं — नास्त्यत्र शीतस्पर्शविशेषस्तद्व्यापकशीतस्प- र्शमात्रकारणहिमविरुद्धाग्निकार्यधूमादिति शीतस्पर्शविशेषस्य हि व्यापकं शीतस्पर्शमात्रं तस्य कारणं हिमं तद्विरुद्धोग्निस्तत्कार्यं धूम इति । कारणविरुद्धकारणं–नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणात् मि- थ्याचरणस्य हि कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं । तत्त्वार्थो- पदेशश्रवणे सत्यपि कस्य चित्तत्वज्ञानासंभवाद् ग्रहणवचनं । तत्त्वार्थानां श्रद्धानपूर्वकं–अवधारणं हि ३०ग्रहणमिष्टं, अन्यथास्य ग्रहणाभासत्वात् । मिथ्याचरणस्य वात्र नास्तिता साध्यते न पुनरनाचरणस्य तत्त्वार्थोपदेशग्रहणादुत्पन्नतत्त्वज्ञानस्याप्यसंयतसम्यग्दृष्टेश्चारित्रासंभवात् — अनाचारस्य प्रसिद्धेः । न तु मि- थ्याचरणमप्यस्य संभवति तत्त्वज्ञानविरोधात् तेन सह तस्यानवस्थानात् इति । तथा व्यापकविरुद्धकारणं लिंगं–नास्त्यस्यात्मनि मिथ्याज्ञानं तत्त्वार्थोपदेशग्रहणात् इति आत्मनि मिथ्याज्ञानविशेषस्य व्यापकं मिथ्या- ज्ञानमात्रं तद्विरुद्धं सत्यज्ञानं तस्य कारणं तत्त्वार्थोपदेशग्रहणं यथार्थोपवर्णितमिति । कारणव्यापकविरुद्ध- ३५कारणं–नास्त्यस्य मिथ्याचरणं तत्त्वार्थोपदेशग्रहणादिति अत्र मिथ्याचरणस्य कारणं मिथ्याज्ञानविशेषः तस्य व्यापकं मिथ्याज्ञानमात्रं तद्विरुद्धं तत्त्वज्ञानं, तस्य कारणं तत्त्वार्थोपदेशग्रहणमिति प्रत्येयं । व्यापककारणविरुद्धकारणं लिंगं नास्त्यस्य मिथ्याचरणविशेषस्तत्त्वार्थोपदेशग्रहणादिति मिथ्याचरण विशे- षस्य हि व्यापकं मिथ्याचरणसामान्यं तस्य कारणं मिथ्याज्ञानं तद्विरुद्धं तत्त्वज्ञानं तस्य कारणं तत्त्वार्थोपदे- ७४शग्रहणमिति तथा कारणविरुद्धव्याप्यं लिंगं न संति सर्वथैकांतवादिनः प्रशमसंवेगानुकंपास्तिक्यानि वैपर्यासिकमिथ्यादर्शनविशेषात् । प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनसामान्यं तेन व्याप्यं मिथ्यादर्शनं वैपर्यासिकविशिष्टमिति । व्यापकविरुद्धव्याप्यं–न संति स्याद्वादिनो वैपर्यासिकादिमि- थ्यादर्शनविशेषाः सत्यज्ञानविशेषात् इति वैपर्यासिकादिमिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसा- ०५मान्यं तद्विरुद्धं तत्त्वज्ञानसामान्यं तस्य व्याप्यस्तत्त्वज्ञानविशेष इति । कारणव्यापकविरुद्धव्याप्यं — न संत्यस्य प्रशमादीनि मिथ्याज्ञानविशेषादिति, प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषः तस्य व्यापकं सम्य- ग्दर्शनसामान्यं तद्विरुद्धं मिथ्याज्ञानसामान्यं तेन व्याप्तो मिथ्याज्ञानविशेष इति । व्यापककारणविरुद्ध व्याप्यं लिंगं न संत्यस्य तत्त्वज्ञानविशेषाः मिथ्यार्थोपदेशग्रहणविशेषात् । तत्त्वज्ञानविशेषाणां व्यापकं तत्त्वज्ञानसामान्यं तस्य कारणं तत्त्वार्थोपदेशग्रहणं तद्विरुद्धं मिथ्यार्थोपदेशग्रहणसामान्यं तेन व्याप्तो १०मिथ्यार्थोपदेशग्रहणविशेष इति । एवं कारणविरुद्धसहचरं लिंगं–संत्यस्य प्रशमादीनि मिथ्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापकविरुद्ध- सहचरं–न संत्यस्य मिथ्यादर्शनविशेषाः सम्यग्ज्ञानादिति मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्श- नसामान्यं तद्विरुद्धं तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । कारणव्यापकविरुद्धसहचरं —न संत्यस्य प्रशमादीनि मिथ्याज्ञानादिति प्रशमादीनां हि कारणं सम्यग्दर्शनविशेषास्तेषां व्यापकं सम्य- १५ग्दर्शनसामान्यं तद्विरुद्धं मिथ्यादर्शनं तत्सहचरं मिथ्याज्ञानमिति । व्यापककारणविरुद्धसहचरं न संत्यस्य मिथ्यादर्शनविशेषाः सत्यज्ञानादिति मिथ्यादर्शनविशेषाणां हि व्यापकं मिथ्यादर्शनसामान्यं तस्य कारणं दर्शनमोहोदयस्तद्विरुद्धं सम्यग्दर्शनं तत्सहचरं सम्यग्ज्ञानमिति । तदेत्सामान्यतो विरोधिलिंगं, प्रपंचतो द्वाविंशतिप्रकारमपि भूतमभूतस्य गमकमन्यथानुपपन्नत्वनियमनिश्चयलक्षणत्वात् प्रतिपत्तव्यं । भूतं भूतस्य प्रयोजकं कार्यादि षट्प्रकारं पूर्वमुक्तं । तदित्थं विधिमुखेन विधायकं-प्रतिषेधमुखेन प्रतिषेधकं च लिंगम- २०भिधाय सांप्रतं प्रतिषेधमुखेन विधायकं प्रतिषेधकं च साधनमभिधीयते तत्राभूतं भूतस्य विधायकं-यथा —अस्त्यस्य प्राणिनो व्याधिविशेषो निरामयचेष्टानुपलब्धेरिति । तथा — अस्ति सर्वथैकांतवादिनामज्ञानादि- र्दोषः युक्तिशास्त्राविरुद्धवचनाभावात् इति अस्त्यस्य मुनेराप्तत्वं विसंवादकत्वाभावात् । अभूदेतस्य ताल- फलस्य पतनकर्म वृंतसंयोगाभावात् इति वहुधा दृष्टव्यं । तथैवाभूतमभूतस्य प्रतिषेधस्य प्रतिषेधकं यथा —नास्त्यत्र शवशरीरे बुद्धिर्व्यापारव्याहाराकारविशेषानुपलब्धेरिति कार्यानुपलब्धिः । न संत्यस्य प्रशमादीनि २५तत्त्वार्थश्रद्धानानुपलब्धेरिति कारणानुपलब्धिः । नास्त्यत्र शिंशपा वृक्षानुपलब्धेरिति व्यापकानुपलब्धिः । नास्त्यस्य तत्त्वज्ञानं सम्यग्दर्शनाभावात् इति सहचरानुपलब्धिः । न भविष्यति मुहूर्तांते शकटोदयः कृत्ति- कोदयानुपलब्धेरिति पूर्वचरानुपलब्धिः । नोदगाद्भरणिर्मुहूर्तात्प्राक्कृत्तिकोदयानुपलब्धेरिति उत्तरचरानुप- लब्धिः । एव परंपरया कारणाद्यनुपलब्धिः व्यापकव्यापकानुपलब्ध्यादिकमपि बहुधा प्रतिषेधद्वारेण प्रतिषेधसाधनमवधारणीयं । ३०अत्र संग्रहश्लोकाः — स्यात्कार्यं कारणव्याप्यं प्राक् सहोत्तरचारि च लिंगं तल्लक्षणव्याप्तेर्भूतं भूतस्य साधकं ॥ १ ॥ षोढा विरुद्धकार्यादि साक्षादेवोपवर्णितं लिंगं भूतमभूतस्य लिंगलक्षणयोगतः ॥ २ ॥ ३५पारंपर्यात्तु कार्यं स्यात् कारणं व्याप्यमेव च सहचारि च निर्दिष्टं प्रत्येकं तच्चतुर्विधं ॥ ३ ॥ कारणाद्द्विष्ठकार्यादिभेदेनोदाहृतं पुरा यथा षोडशभेदं स्यात् द्वाविंशातिविधं ततः ॥ ४ ॥ लिंगं समुदितं ज्ञेयमन्यथानुपपत्तिमत्७५तथा भूतमभूतस्याप्यूह्यमन्यदपीदृशं ॥ ५ ॥ अभूतं भूतमुन्नीतं भूतस्यानेकधा बुधैः तथा१ ऽभूतमभूतस्य यथायोग्यमुदाहरेत् ॥ ६ ॥ बहुधाप्येवमाख्यातं संक्षेपेण चतुर्विधं ०५अतिसंक्षेपतो द्वेधोपलंभानुपलंभभृत् ॥ ७ ॥ एतेन कार्यस्वभावानुपलंभविकल्पात् त्रिविधमेव लिंगमिति नियमः प्रत्याख्यातः सहचरादेर्लिंगांतरत्वात् प्रत्यक्षपूर्वकं त्रिविधमनुमानं-पूर्ववच्छेषवत्सामान्यतोदृष्टमित्यपि । यदि पूर्ववच्छेषवत् केवलान्वयि, पूर्ववत्सामान्य- तोदृष्टं केवलव्यतिरेकि पूर्ववच्छेषवत्सामान्यतोदृष्टमन्वयव्यतिरेकि व्याख्यायते त्रिसूत्रीकरणादस्य सूत्रस्य तदा न किंचिद्विरुद्धं निगदितलिंगप्रकारेषु त्रिविधस्यापि संभवात् । यथोपपत्तिनियमात्केवलान्वयिनो गमकत्वाविरोधात् । १०तत्र वैधर्म्यदृष्टांताभावेऽपि साध्याविनाभावनियमनिश्चयात् । अथ पूर्ववत्कारणात्कार्यानुमानं शेषवत् कार्या- त्कारणानुमानं सामान्यतो दृष्टं । अकार्यकारणादकार्यकारणानुमानं सामान्यतोऽविनाभावमात्रादिति व्याख्यायते तदापि स्याद्वादिनामभिमतमेव तथा सर्वहेतुप्रकारसंग्रहस्य संक्षेपतः प्रतिपादनात् । यदापि पूर्ववत्पूर्वलिंग- लिंगिसंबंधस्य क्वचिन्निश्चयादन्यत्र पूर्ववद्वर्तमानं शेषवत्परिशेषानुमानं प्रसक्तप्रतिषेधे परिशिष्टस्य प्रतिपत्तेः । सामान्यतो दृष्टं विशिष्टव्यक्तौ संबंधाग्रहणात्सामान्येन दृष्टं यथा — गतिमानादित्यः देशाद्देशांतरप्राप्तेः देवद- १५त्तवदिति व्याख्या विधीयते तदापि स्याद्वादिनां नानवधेयं प्रतिपादितहेतुप्रपंचस्यैव विशेषप्रकाशनात् । सर्वं हि लिंगं पूर्ववदेव परिशेषानुमानस्यापि पूर्ववत्त्वसिद्धेः, प्रसक्तप्रतिषेधस्य परिशिष्टप्रतिपत्त्यविनाभूतस्य पूर्वं क्वचिन्निश्चितस्य विवादाध्यासितपरिशिष्टप्रतिपत्तौ साधनस्य प्रयोगात् । सामान्यतोदृष्टस्य च पूर्ववत्त्व- प्रतीतेः क्वचिद्देशांतरप्राप्तेः । गतिमत्यविनाभाविन्या एव देवदत्तादौ प्रतिपत्तेरन्यथा तदनुमानाप्रवृत्तेः । परिशेषानुमानमेव वा सर्वं संप्रतीयते पूर्ववतोऽपि धूमात्पावकानुमानस्य प्रसक्तौ पावकप्रतिषेधात् प्रवृत्तिघटनात् । २०तदप्रतिपत्तौ विवादानुपपत्तेरनुमानवैयर्थ्यात् तथा सामान्यतोदृष्टस्यापि देशांतरप्राप्तेरादित्यगत्यनुमानस्य तदगतिमत्त्वस्य प्रसक्तस्य प्रतिषेधादुपपत्तेरिति । सकलं सामान्यतोदृष्टमेव वा सर्वत्र सामान्येनैव लिंगलिंगि संबंधप्रतिपत्तेर्विशेषतस्तत्संबंधस्य प्रतिपत्तुमशक्तेः । केन चिद्विशेषेण लिंगभेदकल्पना न निवार्यते एव प्रकारांतरतस्तद्भेदकल्पनावत् । केवलमन्यथानुपपन्नत्वनियमनिश्चय एव हेतोः प्रयोजकत्वनिमित्तं तस्मिन् सति हेतुप्रकारभेदपरिकल्पनायाः प्रतिपत्तुरभिप्रायवैचित्र्यात् । वैचित्र्यं नान्यथेति सुनिश्चितं नश्चेतसि तथा २५प्रतीतेरबाध्यमानत्वात् । यदापि–अवीतं वीतं वीतावीतमिति लिंगं त्रिविधमनुमन्यते तदापि नान्यथानुपपन्नत्व नियमनिश्चयलक्षणमतिक्रम्य व्यवतिष्ठते । नापि प्रतिपादितहेतुप्रपंचबहिर्भूतं समयांतरभाषया केवलान्वय्यादि त्रयस्यैव तथाविधानात् । क्वचित्साध्यसाधनधर्मयोः साहचर्यमविनाभावनियमलक्षणमुपलभ्यान्यत्र साधनधर्म- दर्शनात् । साध्यधर्मप्रतिपत्तिरावीतमुच्यते यथा गुणागुणिनौ परस्परं भिन्नौ भिन्नप्रत्ययविषयत्वात् घटपटव- दीति तच्च केवलान्वयीष्यते कथंचिद्भेदएव साध्ये ऽन्यथानुपपन्नत्वसिद्धेः सर्वथा भेदे गुणगुणिभावविरोधात् ३०गमकत्वासिद्धेः । तथा क्वचिदेकस्य धर्मस्य व्यावृत्तौ परस्य धर्मस्य व्यावृत्तिं नियमवतीमुपलभ्यान्यत्र तद्धर्मस्य निश्चयात् साध्यसिद्धिर्वीतं कथ्यते यथा सात्मकं जीवच्छरीरं प्राणादिमत्त्वात् इति तदिदं केवल व्यतिरेकीष्ठं परिणामिनात्मना सात्मकत्वव्यावृत्तौ भस्मनि प्राणादिमत्त्वव्यावृत्तिनियमनिश्चयात् निरन्वय क्षणिकचित्तवत् कूटस्थेनात्मना प्राणाद्यर्थक्रियानिष्पादनविरोधात् । वीतावितं तु तदुभयलक्षणयोगादन्व- यव्यतिरेकि धूमादेः पावकाद्यनुमानं प्रसिद्धमेवेति न हेत्वंतरमस्ति ततः सूक्तं — अन्यथानुपपत्तिनियमनिश्चय- ३५लक्षणं साधनं अतिसंक्षेपविस्तरतोऽभिहितस्य सकलसाधनविशेषस्य तेन व्याप्तत्वात् । तथाविधलक्षणात्सा- धनात् साध्ये साधयितुं शक्ये, अभिप्रेते क्वचिदप्रसिद्धे च विज्ञानमनुमानमिति । साधयितुमशक्ये सर्वथैकांते साधनस्याप्रवृत्तेः तत्र तस्य विरुद्धत्वात् स्वयमनभिप्रेते चातिप्रसंगात् प्रसिद्धे च वैयर्थ्यात् तस्य साध्याभासत्त्व प्रसिद्धेः प्रत्यक्षादिविरुद्धस्यानिष्टस्य सुप्रसिद्धस्य च साधनाविषयत्वनिश्चयात् । ७६तदुक्तं — अकलंकदेवैः — साध्यं शक्यमभिप्रेतेमप्रसिद्धं ततोऽपरे साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥ १ ॥ तदेत्साधनात् साध्यविज्ञानमनुमानं स्वार्थमभिनिबोधलक्षणं विशिष्टमतिज्ञानं साध्यं प्रत्यभिमुखान्नित्थमि- ०५तात्साधनादुपजातबोधस्य तर्कफलस्याभिनिबोध इति संज्ञाप्रतिपादनात् । परार्थमनुमानमनक्षरश्रुतज्ञानं —अक्षरश्रुतज्ञानं च तस्य श्रोत्रमतिपूर्वकस्य च तथात्वोपपत्तेः ? । शब्दात्मकं तु परार्थानुमानमयुक्तं शब्दस्य प्रत्यवमर्शिनोऽपि सर्वस्य द्रव्यागमरूपत्वप्रतीतेः कथमन्यथा प्रत्यक्षमपि शब्दात्मकं परार्थं न भवेत् सर्वथा विशेषाभावात् प्रतिपादकप्रतिपाद्यजनयोः स्वपरार्थानुमानकार्यकारणत्वसिद्धेरुपचारादनुमानपरामर्शिनो वाक्यस्य परार्थानुमानत्वप्रतिपादनमविरुद्धं नान्यथातिप्रसंगादिति बोद्धव्यं । तदेत्परोक्षं प्रमाणमविशदत्वात् १०श्रुतज्ञानवत् । किं पुनः श्रुतज्ञानमित्येतदभिधीयते — श्रुतज्ञानावरणवीर्यांतरायक्षयोपशमविशेषांतरंगे कारणे सति बहिरंगे मतिज्ञाने च, अनिंद्रियविषयालंबनं, अविशदं ज्ञानं श्रुतज्ञानं । केवलज्ञानं तीर्थकरत्वनामपुण्याति- शयोदयनिमित्तकभगवत्तीर्थकरध्वनिविशेषादुत्पन्नं गणधरदेवश्रुतज्ञानमेवमसंगृहीतं स्यादिति न शंकनीयं तस्यापि श्रोत्रमतिपूर्वकत्वात् । प्रसिद्धमतिश्रुतावधिमनःपर्ययज्ञानानि वचनजनितप्रतिपाद्यजनवचनश्रुतज्ञा- १५नवत् । समुद्रघोषजलधरस्वनश्रुतिजनिततदविनाभाविपदार्थविषयश्रुतज्ञानवद्वा ततो निरवद्यं श्रुतज्ञानलक्षणं- अव्याप्त्यतिव्याप्त्यसंभवदोषरहितत्वात् । अनुमानलक्षणवत् । तदेवंविधं श्रुतज्ञानं प्रमाणमविसंवादकत्वात् प्रत्यक्षानुमानवत् । नचासिद्धमविसंवादकत्वमस्येति शंकितव्यं ततोऽर्थं परिच्छिद्य प्रवर्तमानस्य विसंवादा- भावात् सर्वदाऽर्थक्रियायां संवादप्रसिद्धेः प्रत्यक्षादिवत् । ननु च श्रोत्रमतिपूर्वकश्रुतज्ञानादर्थं प्रतिपद्य वर्तमानस्यार्थक्रियायामविसंवादकस्य क्वचिदभावात् न २०प्रामाण्यं सर्वत्रानाश्वासादिति चेत् ? न प्रत्यक्षादेरपि शुक्तिकाशकलं रजताकारतया परिच्छिद्य तत्र प्रवर्त मानस्यार्थक्रियायां रजतसाध्यायामविसंवादविरहात् । सर्वत्र प्रत्यक्षेऽनाश्वासादप्रामाण्यप्रसंगात् । प्रत्यक्षाभासे विसंवाददर्शनान्न प्रत्यक्षेऽनाश्वासोऽनुमानवदिति चेत्तर्हि श्रुतज्ञानाभासाद्विसंवादप्रसिद्धेः सत्यश्रुतज्ञाने कथम- नाश्वासः ? नच सत्यं श्रुतज्ञानमसिद्धं तस्य लोके प्रसिद्धत्वात् सुयुक्तिकसद्भावाच्च तथाहि श्रोत्रमतिपूर्वकं श्रुतज्ञानं प्रकृतं सत्यमेव अदुष्टकारणजन्यत्वात् प्रत्यक्षादिवत् । तद्द्विविधं सर्वज्ञासर्वज्ञवचनश्रवणनिमित्तत्वात् । तच्चोभ- २५यमदुष्टकारणजन्यं गुणवाद्वक्तृकशब्दजनितत्वात् । ननु च नद्यास्तीरे मोदकराशयः संतीति प्रहसनेन गुणवद्वक्तृकशब्दादुपजनितस्यापि श्रुतज्ञानस्यास- त्यत्वसिद्धेर्व्यभिचारिगुणवद्वक्तृकशब्दजनितत्वमदुष्टकारणजन्यत्वे साध्ये ततो न तत्तद्गमकमिति न मंतव्यं प्रहसनपरस्य वक्तुर्गुणवत्त्वासिद्धेः प्रहसनस्यैव दोषत्वादज्ञानादिवत् । कथं पुनर्विवादापन्नस्य श्रोत्रमतिपूर्वक श्रुतज्ञानस्थ गुणवद्वक्तृकशब्दजनितत्वं सिद्धं ? इति चेत् सुनिशचितासंभवद्बाधकत्वादिति भाषामहे । ३०प्रत्यक्षे ह्यर्थे प्रत्यक्षस्यानुमेयेऽनुमानस्यांत्यंतपरोक्षे चागमस्य बाधकस्यासंभवात् असंभवद्बाधकत्वं तस्य सिद्धं । देशकालपुरुषांतरापेक्षयापि संशयानुत्पत्तेः सुनिश्चितत्वविशेषणमपि साधनस्येति नासिद्धताशंकावतरति । नाप्येनैकांतिकता विपक्षे क्वचिदसंभवात् । न विरुद्धता सुनिश्चितासंभवद्बाधकस्य श्रुतज्ञानस्य अगुणवद्वक्तृक शब्दजनितस्य वादिप्रतिवादिप्रसिद्धस्यासंभाव्यमानत्वात् । तथा व्याहतत्वाच्च । कथंचिदपौरुषेयशब्दजनित श्रुतज्ञानस्य तु गुणवद्वक्तृकशब्दजनितत्वेनादुष्टकारणजन्यत्वं सिद्ध्येत् । ततश्च सत्यत्वमिति स्याद्वादिनां ३५सर्वमनवद्यं पर्यायार्थिकनयप्राधान्यात् द्रव्यार्थिकनयगुणभावाच्च श्रुतज्ञानस्य गुणवद्वक्तृकशब्दजनितत्व- सिद्धेः द्रव्यार्थिकप्राधान्यात्पर्यायार्थिकगुणभावाच्च गुणवद्व्याख्यातृकशब्दजनितत्वोपपत्तेश्च । नच सर्वथा पौरुषेयःशब्दोऽपौरुषेयो वा प्रमाणतः सिद्ध्यते । ननु च विवादापन्नः शब्दः पौरुषेय एव प्रयत्नानंतरीयकत्वात् पटादिवदित्यनुमानात् आगमस्य द्वाद- शांगस्यांगबाह्यस्य चानेकभेदस्य पौरुषेयत्वमेव युक्तं भारतादिवदिति कश्चित् सोऽप्येवं पृष्टः सन्नाचष्टां–किं ७७सर्वथा प्रयत्नांतरीयत्वहेतुः कथंचिद्वा ? सर्वथा चेत्? अप्रसिद्धः स्याद्वादिनो द्रव्यार्थादिप्रयत्नांनंतरीयकत्वादा- गमस्य । कथंचिच्चेद्विरुद्धः कथंचिदपौरुषयत्वसाधनात् । प्रयत्नानंतरीयकत्वं हि प्रवचनस्योच्चारकपुरुष- प्रयत्नानंतरोपलंभात् स्यात् उत्पादकपुरुषप्रयत्नांनंतरोपलंभाद्वा ? प्रथमकल्पनायामुच्चारकपुरुषापेक्षया पौरु- षेयत्वमेव तस्य संप्रति पुराणपुरुषोत्पादितकाव्यप्रबंधस्येव प्रसक्तं । न पुनरुत्पादकपुरुषापेक्षया प्रवचनस्याना- ०५दिनिधनस्योत्पादकपुरुषाभावात् । सर्वज्ञ उत्पादक इति चेत् ? वर्णात्मनः पदवाक्यात्मनो वा प्रवचनस्यो- त्पादकः स स्यात् ? न तावद्वर्णात्मनस्तद्वर्णानां प्रागपि भावात् तत्सदृशानां पूर्वं भावो न पुनस्तेषां घटादी- नामिवेति चेत् कथमिदानीमनुवादकस्तेषामुत्पादको न स्यात् ? तदनुवादात् प्रागपि तत्सदृशानामेव सद्भावात् तेषामनूद्यमानानां तदैव सद्भावात् । तथाच न कश्चिदुत्पादको वर्णानां सर्वस्योत्पादकत्वसिद्धेः । यथैव हि कुंभादीनां कुंभकारादिरुत्पादक एव न पुनरनुकारकस्तथा वर्णानामपीति तदनुवादकव्यवहारविरोधः १०पूर्वोपलब्धवर्णानां सांप्रतिकवर्णानां च सादृश्यादेकेत्वोपचारात्पश्चाद्वादकोऽनुवादक एव । असावाह वर्णान्ना- हमिति स्वातंत्र्यपरिहरणात्पारतंत्र्यानुसरणादिति चेत् तर्हि यथा वर्णानां पठितानुवादकः तथा पाठयितापि तस्यापि स्वातंत्र्याभावात् सर्वस्य स्वोपाध्यायपरतंत्रत्वात् तत एवं वक्तव्यं — नेह वर्णान्नरः कश्चित् स्वातंत्र्येण प्रपद्यते यथैवास्मै परैरुक्तास्तथैवैतान्विवक्ष्यते ॥ १ ॥ १५परेप्येवं विवक्ष्यंति तस्मादेषामनादिता प्रसिद्धा व्यवहारेण संप्रदायाव्यवच्छिदा ॥ २ ॥ तथा च सर्वज्ञोप्यनुवादक एव पूर्वपूर्वसर्वज्ञोदितानामेव चतुःषष्टिवर्णानामुत्तरोत्तरसर्वज्ञेनानुवादात् । तस्य पूर्वसर्वज्ञोदितवर्णानुपलंभे पुनरसर्वज्ञत्वप्रसक्तिः । तदेवमनादिसर्वज्ञसंततिमिच्छतां न कश्चित्सर्वज्ञो वर्णानामुत्पादकस्तस्य तदनुवादकत्वात् । पदवाक्यात्मनः प्रवचनस्योत्पादकः सर्वज्ञ इत्यप्यनेनापास्तं प्रव- २०चनपदवाक्यानामपि पूर्वपूर्वसर्वज्ञोदितानामेवोत्तरोत्तरसर्वज्ञेनानुवादात् सर्वदांगप्रविष्टांगबाह्यश्रुतस्य शब्दा- त्मनो द्वादशविकल्पानेकविकल्पस्यान्यादृशवर्णपदवाक्यत्वासंभवात् तस्यापूर्वस्योत्पादकायोगात् । स्यान्मतं — महेश्वरोऽनादिरेकः सर्वज्ञो वर्णानामुत्पादकः प्रथमं सृष्टिकाले जगतामिवोपपन्नस्तस्य सर्वदा स्वतंत्रत्वात् सर्वज्ञांतरपरतंत्रतापायात् तदनुवादकत्वायोगादिति तदप्यसत्यं तस्यानादेरेकस्येश्वरस्या प्तपरीक्षायां प्रतिक्षिप्तत्वात्, परीक्षाक्षमत्वाभावात् कपिलादिवत् । संभवे वा सदैवैश्वरः सर्वज्ञो ब्राह्मेण मानेन २५वर्षाशतांते वर्षशतांते जगतो सृष्टा पूर्वस्मिन् पूर्वस्मिन् सृष्टिकाले स्वयमुत्पादितानां वर्णपदवाक्यानामुत्तर- स्मिन्नुत्तरस्मिन् सृष्टिकाले पुनरुपदेष्टा कथमनुवादको न भवेत् ? । न ह्येकः कविः स्वकृतकाव्यस्य पुनः पुनर्वक्तानुवादको न स्यात् इति वक्तुं युक्तं, १शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्रानुवादात् इति वचनविरोधात् । एकस्य पुनः पुनस्तदेव वदतोऽनुवादासंभवे पुनरुक्तस्यैव सिद्धेः ततः कस्य- ३०चित्स्वयं कृतं काव्यं पुनः पुनर्वदतोऽनुवादकत्वे महेश्वरः सर्वदैवानुवादकः स्यात् । पूर्वपूर्ववादापेक्षयोत्तरो- त्तरस्यानुवादरूपत्वात् । नच पूर्वपूर्ववर्णपदवाक्यविलक्षणान्येव वर्णपदवाक्यानि महेश्वरः करोति इति घटते तेषां कुतश्चित्प्रमाणादप्रसिद्धेः प्रसिद्धौ वा तेषां किमज्ञानात्तदा महेश्वरोऽप्रणेता स्यात् । अथाशक्तेरुतप्रयो- जनाभावादिति ? न तावदज्ञानात् सर्वज्ञत्वविरोधात् तस्य सर्वप्रकारवर्णपदवाक्यवेदित्यसिद्धेः अन्यथानी- श्वरत्वप्रसंगात् । नाप्यशक्तेः–ईश्वरस्यानंतशक्तित्ववचनात् । यदि ह्येकदा कानि चिदेव वर्णादीनि प्रणेतुमीश्व- ३५रस्य शक्तिर्नान्यानि तदा कथमनंतशक्तिः स्यादनीशवत् । प्रयोजनाभावान्नान्यानि प्रणयतीति चेत् न सक- लवाचकप्रकाशनस्यैव प्रयोजनत्वात् सकलवाच्यार्थप्रकाशनवत् । सकलजगत्कारणवद्वा प्रतिपाद्यजनानु- रोधात् केषां चिदेव वर्णादीनां प्रणयने जगदुपभोक्तृप्राण्यनुरोधात् केषांचिदेव जगत्कार्याणां करणं स्या- ७८न्न सर्वेषां । तथा चेश्वरकृतैः कार्यैः कार्यत्वादिति हेतुर्व्यभिचारित्वान्न सर्वकार्याणामीश्वरनिमित्तत्वं साधयेत् । नच सकलप्रकारवर्णादिवाचकप्रपंचं जिज्ञासमानः कश्चित्प्रतिपाद्य एव न संभवतीति वक्तुं युक्तं सर्वज्ञवचन स्याप्रतिग्राहकत्वप्रसंगात् । तत्संभवे च सर्गे सर्गे सकलवर्णादीनां प्रणेतेश्वरोऽनुवादक एव स्यात् न पुन- रुत्पादकः सर्वदैवेति सिद्धं ततोऽनेक एव सर्वज्ञोऽस्तु किमेकेश्वरस्य कल्पनया यथा चैको नवमिति वदति ०५तदेवान्यः पुराणमित्यनेकसर्वज्ञकल्पनायां व्याघातात् वस्तुव्यवस्थानासंभवस्तथैकस्यापीश्वरस्यानेकसर्ग कालप्रवृत्तावनेकोपदेशाभ्यनुज्ञानात् । तत्र पूर्वस्मिन् सर्गे नवमित्युपदेशीश्वरेण तदेवोत्तरस्मिन् सर्गे पुराण- मित्युपदिश्यते न पुनरेकदैव नवं पूराणं चैकमिति व्याघातासंभवे कथमनेकस्यापि सर्वज्ञस्य कालभेदेन नव- मिति पुराणमित्युपदेशतस्तत्त्ववचनव्याघातः ? इत्यलमनाद्येकेश्वरकल्पनया तत्साधनोपायासंभवात् । सोपायसिद्धस्तु सर्वज्ञोऽनेकः प्रमाणसिद्धः निरतकालोच्छन्नस्य परमागमस्य प्रवंधेनाभिव्यंजकोऽनु- १०वादक इति प्रयत्नानंतरमभिव्यक्तेः कथं चित्प्रयत्नानंतरीयकत्वं कथंचित्पौरुषेयत्वं साधयेत्–तथाहि — परमागमसंतानमनादिनिधनक्रमं नोत्पादयेत्स्वयं कश्चित्सर्वज्ञोऽसर्ववेदिवत् ॥ १ ॥ यथैकः सकलार्थज्ञः स्वमहिम्ना प्रकाशयेत् तथान्योऽपि तमेव चानादिः सर्वज्ञसंततिः ॥ २ ॥ सिद्धा तत्प्रोक्तशब्दोत्थं श्रुतज्ञानमशेषतः प्रमाणं प्रतिपत्तव्यमदुष्टोपायजत्वतः ॥ ३ ॥ ततो बाह्यं पूनर्द्वेधा पौरुषेयपदक्रमात् जातमार्षादनार्षाच्च समासव्यासतोन्वितात् ॥ ४ ॥ १५तत्रार्षमृषिभिः प्रोक्ताददुष्टैर्वचनक्रमात् समुद्भूतं श्रुतज्ञानं प्रमाणं बाधकात्ययात् ॥ ५ ॥ अनार्षं तु द्विधोद्दिष्टं समयांतरसंगतं लौकिकं चेति तन्मिथ्या प्रवादिवचनोद्भवं ॥ ६ ॥ दुष्टकारणजन्यत्वादप्रमाणं कथं च न सम्यग्दृष्टेस्तदेतत्स्यात् प्रमाणं सुनयार्पणात् ॥ ७ ॥ नन्वदुष्टकारणजन्यत्वेन श्रुतज्ञानस्य प्रमाणत्वसाधने चोदनाज्ञानस्य प्रामाण्यं स्यात् पुरुषदोषरहिता- याश्चोदनायाः सर्वथाप्यपौरुषेयजनितत्वात् । २०तदुक्तं — चोदनाजनिता बुद्धिः प्रमाणं दोषवर्जितैः । कारणैर्जन्यमानत्वाल्लिंगाप्तोक्त्यक्षबुद्धिवत् ॥ १ ॥ तदेतदुक्तं — गुणवत्कारणजन्यत्वस्यादुष्टकारणजन्यत्वशब्देनाभिप्रेतत्वात् लिंगाप्तोक्त्यक्षबुद्धिषु तथैव तस्य प्रति- २५पत्तेः । न हि लिंगस्यापौरुषेयत्वमदुष्टं साध्याविनाभावनियमनिश्चयाख्येन गुणेन गुणवत्त्वस्यादुष्टत्वस्य प्रती- तेः । तथाप्रोक्तेरविसंवादकत्वगुणेन गुणवत्त्वस्य तथाक्षाणां चक्षुरादीनां नैर्मल्यादिगुणेन गुणवत्त्वस्येति । ननु चादुष्टत्वं दोषरहितत्वं कारणस्य तच्च क्वचिद्दोषविरुद्धस्य गुणस्य सद्भावात् । तथा मन्वादिस्मृ- तिवचने क्वचिद्दोषकारणभावात् । यथा चोदनायां तदुक्तं — शब्दे दोषोद्भवस्तावद्वक्त्रधीनमिति स्थितं ३०तदभावः क्वचित्तावद्गुणवद्वक्तृकत्वतः ॥ १ ॥ तद्गुणैरपकृष्टानां शब्दे संक्रांत्यसंभवात् यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥ २ ॥ तदप्यसरं सर्वत्र गुणाभावस्यैव दोषवत्त्वात्, गुणसद्भावस्यैव चादोषप्रतीतेरभावस्य भावांतरस्वभाव- त्वसिद्धेः, अन्यथा प्रमाणविषयत्वविरोधात् । गुणवद्वक्तृकत्वस्य हि दोषरहितस्य वक्तृकत्वस्य संप्रत्ययः कथम- ३५न्यथा गुणदोषयोः सहानवस्थानं युज्येत ? रागद्वेषमोहादिवक्तुर्दोषावितथाभिधानहेतवः । तद्विरुद्धाश्च वैरा- ग्यक्षमातत्त्वावबोधास्तदभावात्मकाः सत्याभिधानहेतवो गुणा इति परीक्षकजनमनसि वर्तते नच मन्वादयः स्मृतिशास्त्राणां प्रणेतारो गुणवंतस्तेषां तादृशगुणाभावात् । निर्दोषवेदपराधीनवचनत्वात्तेषां गुणवत्त्वमित्य- प्यसंभावनीयं वेदस्य गुणवत्त्वासिद्धेः पुरुषस्य गुणाश्रयस्याभावात् । यथैव हि दोषवान् वेदान्निवर्तमानो ७९निर्दोषतामस्य साधयेत् तथासौ गुणवानपि–अगुणवत्तामिति न वेदो गुणवान्नाम । यदि पुनरपौरुषेयत्वमेव गुणस्तदानादिम्लेच्छव्यवहारस्यापि गुणवत्त्वं–अपौरुषेयत्वाविशेषात् । तदेवं — नादुष्टा चोदना पुंसोऽसत्त्वाद्गुणवतः सदा ०५तद्व्याख्यातुः प्रवक्तुर्वा म्लेक्षादिव्यवहारवत् ॥ १ ॥ तया यज्जनितं ज्ञानं तन्नादुष्टनिमित्तजं सिद्धं येन प्रमाणं स्यात् परमागमबोधवत् ॥ २ ॥ वेदस्य पोरुषेयस्योच्छिन्नस्य चिरकालतः सर्वज्ञेन विना कश्चिन्नोद्धर्तातींद्रियार्थदृक् ॥ ३ ॥ १०स्याद्वादिनां तु सर्वज्ञसंतानः स्यात्प्रकाशकः परमागमसंतानस्योच्छिन्नस्य कथंचन ॥ ४ ॥ सर्वभाषाकुभाषाश्च तद्वत्सर्वार्थवेदिभिः प्रकाश्यते ध्वनिस्तेषां सर्वभाषास्वभावकः ॥ ५ ॥ तत्प्रमाणं श्रुतज्ञानं परोक्षं सिद्धमंजसा १५अदुष्टकारणोद्भूतेः प्रत्यक्षवदिति स्थितं ॥ ६ ॥ ततः सूक्तं प्रत्यक्षं परोक्षं चेति द्वे एव प्रमाणे प्रमाणांतराणां सकलानामप्यत्र संग्रहात् इति संख्या- विप्रतिपत्तिनिराकरणमनवद्यं स्वरूपविप्रतिपत्तिनिराकरणवत् । विषयविप्रतिपत्तिनिराकरणार्थं पुनरिदमभिधीयते — द्रव्यपर्यायात्मकः प्रमाणाविषयः प्रमाणविषयत्वान्य- थानुपपत्तेः प्रत्यक्षविषयेण स्वलक्षणेन, अनुमानादिविषयेण च सामान्येन हेतोर्व्यभिचार इति न मंतव्यं २०तथाप्रतीत्यभावात् । न हि प्रत्यक्षतः स्वलक्षणं पर्यायमात्रं सन्मात्रमिवोपलभामहे । नाप्यनुमानादेः सामा- न्यद्रव्यमात्रं विशेषमात्रमिव प्रतिपद्येमहि सामान्यविशेषात्मनो द्रव्यपर्यायात्मकस्य जात्यंतरस्योपलब्धेः प्रवर्तमानस्य च तत्प्राप्तेः अन्यथार्थक्रियानुपपत्तेः । न हि स्वलक्षणमर्थक्रियासमर्थं क्रमयौगपद्यविरोधात् सामान्यवत् । नच तत्र क्रमयौगपद्ये संभवतः परिणामाभावात् । क्रमाक्रमयोः परिणामेन व्याप्तत्वात् सर्व- थाप्यपरिणामिनः क्षणिकस्य नित्यस्य च तद्विरोधसिद्धेः प्रसिद्धे च सामान्यविशेषात्मनि वस्तुनि तदंशमात्रे २५विशेषे सामान्ये वा प्रवर्त्तमानं कथं प्रमाणं नाम प्रमाणस्य यथावस्तितवस्तुग्रहणलक्षणत्वात् तदेकदेशग्रा- हिणः सापेक्षस्य सुनयत्वान्निरपेक्षस्य दुर्णयत्वात् । तत एव न तद्विषयेणानेकांतः साधनस्य स्यात् । तत्र प्रमाणविषयत्वस्य हेतोरप्रवृत्तेः । अतःसिद्धो द्रव्यपर्यायात्मार्थः प्रमाणस्येति तद्विप्रतिपत्तिनिवृत्तिः । फलविप्रतिपत्तिनिवृत्त्यर्थं प्रतिपाद्यते–प्रमाणात्फलं कथंचिद्भिन्नमभिन्नं च प्रमाणफलत्वान्यथानुपपत्तेः । हानोपादोनोपेक्षाबुद्धिरूपेण प्रमाणफलेनानेकांत इति न शंकनीयं तस्याप्येकप्रमात्रात्मना प्रमाणादभेद- ३०सिद्धेः प्रमाणपरिणतस्यैवात्मनः फलपरिणामप्रतीतेः, अन्यथा संतानांतरवत्प्रमाणफलभावविरोधात् । साक्षा- दज्ञाननिवृत्तिलक्षणेन प्रमाणादभिन्नेन प्रमाणफलेन व्यभिचार इत्यप्यपरीक्षिताभिधानं तस्यापि कथंचित्प्र- माणाद्भेदप्रसिद्धेः प्रमाणफलयोर्निरुक्तिसाधनविरोधात् । करणसाधनं हि प्रमाणं स्वार्थनिर्णीतौ साधकतम- त्वात् । स्वार्थनिर्णीतिरज्ञाननिवृत्तिः फलं भावसाधनं तत्साध्यत्वात् । एतेन कर्तृसाधनात् प्रमाणात्कथंचि- द्भेदः प्रतिपादितः तस्य स्वार्थनिर्णीतौ स्वतंत्रत्वात् । स्वतंत्रस्य च कर्तृत्वात् स्वार्थनिर्णीतेस्तु अज्ञाननिवृत्ति- ३५स्वभावायाः क्रियात्वात् । नच क्रियाक्रियावतोऽर्थांतरमेवानर्थांतरमेव वा क्रियाक्रियावद्भावविरोधात् । भाव- साधनात्प्रमाणादज्ञाननिवृत्तिरभिन्नैवेति, अयुक्तं प्रमातुरुदासीनावस्थायामव्याप्रियमाणस्य प्रमाणशक्तेर्भावसाधन प्रमाणस्य व्यवस्थापितत्वात् तस्याज्ञाननिवृत्तिफलत्वासंभवात् । स्वार्थव्यवसितौ व्याप्रियमाणं हि प्रमाणम- ज्ञाननिवृत्तिं साधयेत् नान्यथा अतिप्रसंगात् । ततः सूक्तं — ८०प्रमाणात्कथंचिद्भिन्नाभिन्नं फलमिति ततस्तस्य सर्वथा भेदे बाधकवचनात् । अभेदवत्संवृत्या प्रमाणफलव्यवहार इत्यप्रातीतिकवचनं परमार्थतः स्वेष्टसिद्धिविरोधात् ततः पारमार्थिकप्रमाणं फलं चेष्टसिद्धिलणमभ्यनुज्ञातव्यं । ततःसर्वपुरुषार्थ- सिद्धिविधानादिति संक्षेपः । ०५इति प्रमाणस्य परीक्ष्य लक्षणं विशेषसंख्याविषयं फलं ततः प्रबुध्य तत्त्वं दृढशुद्धदृष्टयः प्रयांतु विद्याफलमिष्टमुच्चकैः ॥ १ ॥ इति श्रीस्याद्वादविद्यापतिश्रीविद्यानंदस्वामिविरचिता प्रमाणपरीक्षा समाप्ता ।