Vidyānandin's PramāṇaparīkṣāDigitized print edition: Capture of Gajādharalāl's 1914 editionDigital textresource created byH. TrikhaPublished within the Digital Corpus of Vidyānandin's Works at www.dipal.org/dcv under a Creative Commons Attribution-NonCommercial-ShareAlike 4.0 International LicenseOctober 29, 2025Print edition: Samantabhadra-viracitā ... Āptamīmāṃsā Vidyānandasvāmi-viracitā Pramāṇaparīkṣā ca. Gajādharalālajaina-sampādite. (Sanātanajainagranthamālā 9-10). Kāśī 1914. This resource for the text of the Pramāṇaparīkṣā (PrP) is published alongside other digital resources for the work. The resource at hand, PrP-GL‑p, is a resource for the specific text of the edition by Gajādharalāl (GL) in 1914. As a digitized print edition (p) this resource preserves specific editorial features, i.e., page and line breaks, notes, as well as the rendering of text in the center and in bold script, etc. Main steps in the preparation: Diplomatic capture of Gajādharalāl 1914 edition by H. Trikha, May 2012. Transliteration with Lasic' programme „dev2trans“ September 2012.Few Corrections Trikha, September 2012. Creation of the xml resource, September 2017. Application of the conventions of the Text Encoding Initiative, March 2020. Integration into DCV, February 2022H. Trikha created this resource during his occupations at the Institutes for South Asian, Tibetan and Buddhist Studies, University of Vienna, and for the Cultural and Intellectual History of Asia, Austrian Academy of Sciences. Substantial work was done in the project “Perspectivism and intertextuality in Vidyānandin’s works,” funded by the Austrian Science Fund (FWF Schrödinger project J 3880-G24). Metatext is demarcated with the following tags or attributes: reftype=note-block-page-foottype=note-block-containertype=inlineReferences in the left margin pertain to page and line of Gajādharalāl's edition. References indicate page and line of Gajādharalāl's printed edition५१स­ना­त­न­जै­न­ग्रं­थ­मा­ला स्या­द्वा­द­प­ति­श्री­वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता प्र­मा­ण­प­री­क्षा । ०५जयंति नि­र्जि­ता­शे­ष­स­र्व­थै­कां­त­नी­त­यः । स­त्य­वा­क्या­धि­पाः श­श्व­द्वि­द्या­नं­दा जि­ने­श्व­राः ॥ १ ॥ अथ प्रमाण-परीक्षा — तत्र प्र­मा­ण­ल­क्ष­णं प­री­क्ष्य­ते — "­स­म्य­ग्ज्ञा­नं प्रमाणं प्र­मा­ण­त्वा­न्य­था­नु­प­प­त्तेः । स­न्नि­क­र्षा­दि­र­ज्ञा­न­म­पि प्रमाणं स्वा­र्थ­प्र­मि­तौ सा­ध­क­त­म- त्वात् ? इति ना­शं­क­नी­यं । तस्य स्व­प्र­मि­तौ सा­ध­क­त­म­त्वा­सं­भा­वा­त् । न ह्य­चे­त­नो­ऽ­र्थः स्व­प्र­मि­तौ करणं पटा- १०दिवत् । सो­ऽ­र्थ­प्र­मि­तौ क­र­ण­मि­त्य­प्य­ना­लो­चि­त­व­च­नं नै­या­यि­का­नां स्व­प्र­मि­ता­व­सा­ध­क­त­म­स्या­र्थ­प्र­मि­तौ सा­ध­क­त­म­त्वा­नु­प­प­त्तेः । तथाहि — न स­न्नि­क­र्षा­दि­र­र्थ­प्र­मि­तौ सा­ध­क­त­मः स्व­प्र­मि­ता­व­सा­ध­क­त­म­त्वा­त्प­ट- वत् । प्र­दी­पा­दि­भि­र्व्य­भि­चा­रः सा­ध­न­स्य ? इति न मंतव्यं । ते­षा­म­र्थ­प­रि­च्छि­त्ता­व­क­र­ण­त्वा­त् । तत्र न­य­न­म- न­सो­रे­व क­र­ण­त­या स्व­य­म­भि­म­त­त्वा­त् । प्र­दी­पा­दी­नां त­त्स­ह­का­रि­त­यो­प­चा­र­तः क­र­ण­व्य­व­हा­रा­नु­स­र­णा­त् । न चो­प­चा­र­तो­ऽ­र्थ­प्र­का­श­न एव प्र­दी­पा­दिः करणं न पुनः स्व­प्र­का­श­न इति म­न्य­मा­नो नि­र्म­ल­म­ना म­नी­षि­भिः­, १५अ­नु­म­न्य­ते । न­या­ना­देः-अ­र्थ­सं­वे­द­न­मि­व प्र­दी­पा­दि­सं­वे­द­न­म­प्यु­प­ज­न­य­तः प्र­दी­पा­दी­नां स­ह­का­रि­त्वा­वि­शे­षा­त् । ते­षा­म­र्थ­प्र­का­श­न­व­त् स्व­प्र­का­श­ने­ऽ­पि क­र­ण­तो­प­चा­र­व्य­व­स्थि­तेः । न­य­ना­दि­ना-अ­ने­कां­त इत्यपि न म­न­नी­यं त­स्या­प्यु­प­क­र­ण­रू­प­स्या­चे­त­न­स्व­भा­व­स्या­र्थ­प्र­ति­प­त्तौ क­र­ण­तो­प­चा­रा­त् । प­र­मा­र्थ­तो भा­वें­द्रि­य­स्यै­व-अ­र्थ­ग्र­ह­ण­श- क्ति­ल­क्ष­ण­स्य सा­ध­क­त­म­त­या क­र­ण­ता­ध्य­व­स­ना­त् । न चै­त­द­सि­द्धं वि­शु­द्ध­धि­ष­ण­ज­न­म­न­सि यु­क्ति­यु­क्त­त­या प­रि­व­र्त- मा­न­त्वा­त् । तथाहि — २०"­य­द­स­न्नि­धा­ने का­र­कां­त­र­स­न्नि­धा­ने­ऽ­पि य­न्नो­प­प­द्य­ते तत् त­त्क­र­ण­कं । यथा कु­ठा­रा­स­न्नि­धा­ने का­ष्ट­छे­द­न­म- नु­त्प­द्य­मा­नं कु­ठा­र­क­र­ण­कं । नो­त्प­द्य­ते च भा­वें­द्रि­या­स­म­व­धा­ने­ऽ­र्थ­सं­वे­द­न­मु­प­क­र­ण­स­द्भा­वे­ऽ­पि­, इति त­द्भा­वें­द्रि- य­क­र­ण­कं । ब­हिः­क­र­ण­स­न्नि­क­र्षा­धी­न­ता­यां हि प­दा­र्थ­सं­वे­द­न­स्य­, न­य­न­स­न्नि­क­र्षा­त् कलश इव नभसि नायन- सं­वे­द­नो­द­यः कुतो न भवेत् ? । न हि न­य­न­न­भ­सो­र­न्य­त­र­क­र्म­जः संयोगो न विद्यते एवेति वक्तुं युक्तं स­क­ल­मू­र्ति­म­द्द्र­व्य­सं­यो­गा­न्न­भ­सि स­र्व­ग­त­त्व­सा­ध­न­वि­रो­धा­त् । न च न­य­न­म­मू­र्ति­म­दे­व ? तस्य प­रै­र्भौ­ति­क­त­यो- २५प­ग­त­त्वा­त् । पौ­द्ग­लि­क­त­या­स्मा­भि­रु­प­क­र­ण­स्या­भि­म­त­त्वा­त् । ननु नभसि न­य­न­स­न्नि­क­र्ष­स्य यो­ग्य­ता­वि­र­हा­न्न सं­वे­द­न­नि­मि­त्त­ता­? इत्यपि न साधीयः त­द्यो­ग्य­ता­या एव सा­ध­क­त­म­त्वा­नु­षं­गा­त् । का चेयं स­न्नि­क­र्ष­स्य योग्य- ता नाम ? विशिष्टा श­क्ति­रि­ति चेत् ? सा तर्हि स­ह­का­रि­स­न्नि­धि­ल­क्ष­णा अ­नु­मं­त­व्या । ५२"­स­ह­का­रि­सां­नि­ध्यं शक्तिः" इ­त्यु­द्द्यो­त­क­र­व­च­ना­त् । स­ह­का­रि­का­र­णं च द्रव्यं गुणः कर्मा- दि वा स्यात् ? न ता­व­दा­त्म­द्र­व्यं स­ह­का­रि त­त्स­न्नि­धा­न­स्य न­य­न­न­भः­स­न्नि­क­र्षे­ऽ­पि स­मा­न­त्वा­त् । एते- न का­ल­द्र­व्यं दिग्द्रव्यं च स­ह­का­रि नि­रा­कृ­तं त­त्सा­न्नि­ध्य­स्या­पि स­र्व­सा­ध­र­ण­त्वा­त् । म­नो­द्र­व्यं स­ह­का­रि इत्यपि न संगतं त­त्स­न्नि­धे­र­पि स­मा­न­त्वा­त् । क­दा­चि­त्त­द्ग­त­म­न­सः पु­रु­ष­स्या­क्षा­र्थ­स­न्नि­क­र्ष­स्य सं­भ­वा­त् । ०५एतेन आत्मा मनसा यु­ज्य­ते­, मन इं­द्रि­ये­ण­, इं­द्रि­य­म­र्थे­ने­ति च­तु­ष्ट­य­स­न्नि­क­र्षो­ऽ­र्थ­प्र­मि­तौ सा­ध­क­त­म इति सा­मि­ग्रीं­प्र­मा­ण­वा­दो दूषितः — त­त्सा­मि­ग्र्या­श्च नभसि स­द्भा­वा­त् । का­ला­दि­नि­मि­त्त­का­र­ण­सा­मि­ग्री­व­त् । यदि पु­न­स्ते­जो­द्र­व्यं स­ह­का­रि त­त्स­न्नि­धा­ना­त् चा­क्षु­षा­दि­ज्ञा­न­प्र­भ­वा­दि­ति मतं तदापि न विशेषः घ­टा­दा­वि­व ग­ग­ने­ऽ­पि लो­च­न­स­न्नि­क­र्ष­स्या­लो­क­स­न्नि­धि­प्र­सि­द्धेः सं­वे­द­ना­नु­षं­ग­स्य दु­र्नि­वा­र­त्वा­त् । अ­था­दृ­ष्ट­वि­शे­षो गुणः स­ह­का­री त­त्सा­न्नि­ध्यं सं­यु­क्त­स­म­वा­ये­न­, चक्षुषा संयुक्ते पुरुषे त्व­दृ­ष्ट­वि­शे­ष­स्य स­म­वा­या­त् इति मन्यध्वं १०तर्हि क­दा­चि­न्न­भ­सि ना­य­नं­स­वे­द­नो­द­यः कुतो न भवेत् ? । सर्वदा सर्वस्य त­त्रा­दृ­ष्ट­वि­शे­ष­स्य स­ह­का­रि­णो­ऽ­स- न्नि­धा­ना­त् इति चेत्? क­थ­मे­व­मी­श्व­र­स्य नभसि चक्षुषा ज्ञानं श्रो­त्रा­दि­भि­रि­व घटते ? स­मा­धि­वि­शे­षो­प­ज­नि- त­ध­र्म­वि­शे­षा­नु­गृ­ही­ते­न मनसा ग­ग­ना­द्य­शे­ष­प­दा­र्थ­सं­वे­द­नो­द­ये तु म­हे­श्व­र­स्य ब­हिः­क­र­ण­म­न­र्थ­क­ता­मि­या­त् । फ­ला­सं­भ­वा­त् । ब­हिः­क­र­ण­र­हि­त­स्य च नां­तः­क­र­ण­मु­प­प­द्ये­त प­र­नि­र्वृ­त्ता­त्म­व­त् । ततः क­थ­मं­तः­क­र­णे­न धर्मा- दि­ग्र­ह­णं म­न­सो­ऽ­सं­भ­वे च न स­मा­धि­वि­शे­ष­स्त­दु­प­ज­नि­त­ध­र्म­वि­शे­षो वा घ­टा­म­टा­ट्य­ते त­स्या­त्मां­तः­क­र­ण­सं- १५यो­ग­नि­बं­ध­ना­त् । स्यान्मतं शि­शि­र­र­श्मि­शे­ख­र­स्य स­मा­धि­वि­शे­ष­सं­त­ति­र्ध­र्म­वि­शे­ष­सं­त­ति­श्च स­र्वा­र्थ­ज्ञा­न­सं­त­ति­हे­तु­र­ना- द्य­प­र्य­व­सा­ना­, स­त­त­मे­नो­म­लै­र­स्पृ­ष्ट­त्वा­त् । तस्य सं­सा­रि­सा­दि मु­क्ति­वि­ल­क्ष­ण­त्वा­त् सर्वथा मु­क्त­त­यै­व प्रसिद्ध- त्वात् इति त­द­प्य­स­मी­ची­नं ए­व­मी­श्व­र­स्या­पि ए­नो­म­ल­वि­ल­या­दे­रे­वा­र्थ­सं­वे­द­नो­द्भ­व­प्र­स­क्तेः । स­त­त­मे­नो­म­ला- भावो हि यथा स­त­त­म­र्थ­ज्ञा­न­सं­ता­न­हे­तु­रु­र­री­क्रि­य­ते तथा का­द­चि­त्कै­नो­म­ला­भा­वः क­दा­चि­द­र्थ­प्र­मि­ति­नि­मि­त्त- २०यु­क्त­मु­त्प­श्या­मः तस्यैव स­न्नि­क­र्ष­स­ह­का­रि­तो­प­प­त्तेः । त­त्सा­न्नि­ध्य­स्यै­व च स­न्नि­क­र्ष­श­क्ति­रू­प­त्व­सि­द्धेः । त­द्भा­वा­दे­व च न­य­न­स­न्नि­क­र्षे­ऽ­पि नभसि सं­वे­द­ना­नु­त्प­त्ति­घ­ट­ना­त् । तत्र वि­शि­ष्ट­ध­र्मो­ऽ­पि न पा­प­म­ला­पा­या­द­प­रः प्र­ति­प­द्य­ते भा­वां­त­र­स्व­भा­व­त्वा­द­भा­व­स्य­, निः­स्व­भा­व­स्य स­क­ल­प्र­मा­ण­गो­च­रा­ति­क्रां­त­त्वे­न व्य­व­स्था­प­यि­तु­म­श­क्य- त्वात् इति पु­रु­ष­गु­ण­वि­शे­ष­स­द्भा­व एव पा­प­म­ला­भा­वो वि­भा­व्य­ते । स चा­त्म­वि­शु­द्धि­वि­शे­शो ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य- क्ष­यो­प­श­म­भे­दः स्वा­र्थ­प्र­मि­तौ श­क्ति­र्यो­ग्य­ते­ति च स्या­द्वा­द­वे­दि­भि­र­भि­धी­य­ते । प्र­मा­तु­रु­प­ल­ब्धि­ल­क्ष­ण­प्रा­प्त- २५तापि ना­तो­र्थां­त­र­भा­व­म­नु­भ­व­ति पुंसः सं­वे­द­ना­व­र­ण­वी­र्यां­त­रा­य­ल­क्ष­ण­पा­प­म­ला­प­ग­म­वि­र­हे क्व­चि­दु­प­ल­ब्धि­ल­क्ष­ण- प्रा­प्त­ता­नु­प­ल­ब्धेः­, न­य­नो­न्मी­ल­ना­दि­क­र्म­णो दृ­श्या­दृ­श्य­योः सा­धा­र­ण­त्वा­त् प्र­द्यो­ता­दि­क­र­ण­सा­क­ल्य­व­त् । एतेन न­य­नो­न्मी­ल­ना­दि­क­र्म­सा­न्नि­क­र्ष­स­ह­का­रि­वि­ष­य­ग­तं चो­प­ल­भ्य­त्व­सा­मा­न्य­मि­ति प्र­त्या­ख्या­तं त­त्स­न्नि­धा­ने सत्य- पि क्व­चि­त्क­स्य­चि­त् प्र­मि­त्य­नु­प­प­त्तेः का­ला­का­शा­दि­व­त् । न हि त­त्रो­प­ल­भ्य­त्व­सा­मा­न्य­म­सं­भा­व्यं योगिनो- ऽ­प्य­नु­प­ल­ब्धि­प्र­सं­गा­त् । अ­स्मा­दृ­शा­पे­क्ष­यो­प­ल­भ्य­त्व­सा­मा­न्य­म­न्य­दे­व यो­गी­श्व­रा­पे­क्षा­दु­प­ल­भ्य­ता­सा­मा­न्या­दि­ति- ३०चेत् ? त­त्कि­म­न्य­त् ? अन्यत्र यो­ग्य­ता­वि­शे­षा­त् । प्र­ति­पु­रु­षं भे­द­मा­स्ति­घ्नु­वा­ना­दि­ति [? ]स एव प्रमातुः प्रमित्यु- ता­वि­शे­षः स्वा­र्थ­ग्र­ह­ण­श­क्तिः । आत्मनो भा­व­क­र­णं ज्ञा­न­मे­व फ­ल­रू­प­त्वा­त् स्वा­र्थ­ज्ञा­ना­त्क­थं­चि­द­भि­न्न­त्वा­त् स­र्व­था­पि ततो भेदे ना­त्म­स्व­भा­व­त्वो­प­त्तेः । न चै­व­मु­प­गं­तुं युक्तं ? आत्मन ए­वो­भ­य­नि­मि­त्त­व­शा­त्त­था­प­रि­णा- मात् । आत्मनो हि जा­ना­त्य­ने­ने­ति क­र­ण­सा­ध­ना­त् भे­दो­प­व­र्ण­नं कथं चि­द­भि­न्न­क­र्तृ­क­स्य क­र­ण­स्य प्रसिद्धेः अ­ग्नि­रौ­ष्ण्ये­न द­ह­तीं­ध­न­मि­ति यथा । स्वा­तं­त्र्य­वि­व­क्षा­यां तु जा­ना­ती­ति ज्ञा­न­मा­त्मै­व­, क­र्तृ­सा­ध­न­त्वा­त्त­दा­त्म­ज्ञा- ३५न­यो­र­भे­द­प्रा­धा­न्या­त् आत्मन एव स्वा­र्थ­ग्र­ह­ण­प­रि­णा­म­मा­प­न्न­स्य ज्ञा­न­व्य­प­दे­श­सि­द्धेः औ­ष्ण्य­प­रि­णा­म­मा­प- न्न­स्या­ग्ने­रौ­ष्ण्य­व्य­प­दे­श­व­त् । तेन ज्ञानात्मा ज्ञा­ना­त्म­ना ज्ञेयं जानाति इति व्य­व­हा­र­स्य प्र­ती­ति­सि­द्ध­त्वा­त् । यथा च ५३ज्ञा­ना­त्मै­व प्रमाता स्यात्, अ­ज्ञा­ना­त्म­नः खादेः प्र­मा­तृ­त्वा­यो­गा­त् तथा ज्ञा­ना­त्मै­व प्रमाणं स्वा­र्थ­प्र­मि­तौ ज्ञान- क्रि­या­त्मि­का­यां क­र­णा­त्वा­त् । अ­ज्ञा­ना­त्म­न­स्त­त्र सा­ध­क­त­म­त्वा­घ­ट­ना­न्ना­ज्ञा­ने प्र­मा­णं­, अ­न्य­त्रो­प­चा­र­तः । ततो- ना­ज्ञा­ने­न इं­द्रि­य­स­न्नि­क­र्ष­लिं­ग­श­ब्दा­दि­ना सा­ध­न­स्य व्य­भि­चा­रः । नापि व्य­ति­रे­का­सि­द्धिः स­म्य­ग्ज्ञा­न­त्व­स्य साध्यस्य निवृत्तौ प्र­मा­ण­त्व­स्य सा­ध­न­स्य पटादौ वि­नि­वृ­त्ति­वि­नि­श्च­या­त् । के­व­ल­व्य­ति­रे­कि­णो­ऽ­पि सा­ध­न­स्य ०५स­म­र्थ­ना­त् । ततः सूक्तं स­म्य­ग्ज्ञा­न­मे­व प्र­मा­ण­म­ज्ञा­न­स्य प्र­मा­ण­त्वा­यो­गा­न्मि­थ्या­ज्ञा­न­व­दि­ति । किं पुनः स­म्य­ग्ज्ञा­नं ? अ­भि­धी­य­ते­–­स्वा­र्थ­व्य­व­सा­या­त्म­कं स­म्य­ग्ज्ञा­नं स­म्य­ग्ज्ञा­न­त्वा­त् । यत्तु न स्वा­र्थ­व्य­व­सा­या- त्मकं तन्न स­म्य­ग्ज्ञा­नं यथा सं­श­य­वि­प­र्या­सा­न­ध्य­व­सा­याः । स­म्य­ग्ज्ञा­नं च वि­वा­दा­प­न्नं त­स्मा­त्स्वा­र्थ­व्य­व­सा­या­त्म­क­मि­ति सु­नि­श्चि­ता­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य­ल­क्ष­णो हेतुः प्रसिद्ध एव स­म्य­ग­व­बो­धा­दी­नां सा­ध्य­ध­र्मि­णि स­द्भा­वा­त् । स्व- सं­वे­द­नें­द्रि­य­म­नो­यो­गि­प्र­त्य­क्षैः स­म्य­ग्ज्ञा­नैः­–­अ­व्य­व­सा­या­त्म­कै­र्व्य­भि­चा­री हेतुः ? इति स्व­म­नो­र­थ­मा­त्रं सौ­ग­त­स्य तेषां १०स­म्य­ग्ज्ञा­न­त्व­वि­रो­धा­त् । स­म्य­ग्ज्ञा­न­त्वं ह्य­वि­सं­वा­द­क­त्वे­न व्याप्तं त­द­भा­वे त­द­सं­भ­वा­त् । तदपि प्र­व­र्त­क­त्वे­न व्याप्तं त­द­भा­वे त­द­सं­भ­वा­त् । त­द­प्य­र्थ­प्रा­प­क­त्वे­न अ­र्थ­प्रा­प­क­स्या­वि­सं­व­दि­त्वा­त् । नि­र्वि­ष­य­ज्ञा­न­व­त् । तदपि प्रवर्त- कत्वेन व्याप्तं अ­प्र­व­र्त­क­स्या­र्था­प्र­त्या­य­क­त्वा­त् । तद्वत् प्र­व­र्त­क­त्व­म­पि वि­श्व­वि­ष­यो­प­द­र्श­क­त्वे­न व्याप्तं स्व­वि­ष­य­मु- प­द­र्श­य­तः प्र­व­र्त­क­व्य­व­हा­र­वि­ष­य­त्व­सि­द्धेः । न हि पुरुषं हस्ते गृहीत्वा ज्ञानं प्र­व­र्त­य­ति । स्व­वि­ष­यं रूपं द­र्श­य­त् प्र­व­र्त­क­मु­च्य­ते अ­र्थ­प्रा­प­कं च इ­त्य­वि­सं­वा­द­कं स­म्य­ग्वे­द­कं प्रमाणं त­द्वि­प­री­त­स्य मि­थ्या­ज्ञा­न­त्व­प्र­सि­द्धेः संशय- १५वदिति ध­र्मो­त्त­र­म­तं । त­त्रा­व्य­व­सा­या­त्म­क­स्य च­तु­र्वि­ध­स्या­पि स­म­क्ष­स्य स­म्य­ग्वे­द­न­त्वं न व्य­व­ति­ष्ठ­ते तस्य स्व­वि­ष­यो­प­द­र्श­क­त्वा­ऽ­सि­द्धेः । तत्सिद्धौ वा नी­ला­दा­वि­व क्ष­ण­क्ष­या­दा­व­पि त­दु­प­द­र्श­क­त्व­प्र­स­क्तेः । ततो यद- व्य­व­सा­या­त्म­कं ज्ञानं न त­त्स्व­वि­ष­यो­प­द­र्श­कं यथा गच्छतः तृ­ण­स्प­र्श­सं­वे­द­नं । अ­ध्य­व­सा­यि प्र­सि­द्ध­म­व्य­व­सा­या­त्म­कं च सौ­ग­ता­भि­म­त­द­र्श­न­मि­ति व्या­प­का­नु­प­ल­ब्धिः सिद्धा । व्य­व­सा­या­त्म­क­स्य व्या­प­क­स्या­भा­वे त­द्व्या­प्य­त्व­स्य स्व­वि­ष­यो­प­द­र्श­क­त्व­स्या­न­नु­भ­वा­त् । २०स्या­दा­कु­तं — तेन व्य­व­सा­या­त्म­क­त्वे­न स्व­वि­ष­यो­प­द­र्श­क­त्व­स्य व्याप्तिः सि­द्धि­म­धि­व­स­ति तस्य व्यवसा- य­ज­न­क­त्वे­न व्या­प्त­त्वा­त् । नी­ल­ध­व­ला­दौ व्य­व­सा­य­ज­न­ना­द्द­र्श­न­स्य त­दु­प­द­र्श­क­त्व­व्य­व­स्थि­तेः । क्ष­ण­क्ष­य­स्व­र्ग- प्रा­प­ण­श­क्त्या­दौ व्य­व­सा­या­ज­न­क­त्वा­त् त­द­नु­प­द­र्श­क­त्व­व्य­व­स्था­ना­त् । ग­च्छ­त्तृ­ण­स्प­र्श­सं­वे­द­न­स्या­पि तत एव स्व­वि­ष­यो­प­द­र्श­क­त्वा­भा­व­सि­द्धेः मि­थ्या­ज्ञा­न­त्व­व्य­व­हा­रा­त् अ­न्य­था­न­ध्य­व­सा­यि­त्वा­घ­ट­ना­त् इति ? त­दे­त­द­वि- चा­रि­त­र­म­णी­यं ता­था­ग­त­स्य व्य­व­सा­यो हि द­र्श­ज­न्यः । स किं द­र्श­न­वि­ष­य­स्यो­प­द­र्श­को­ऽ­नु­प­द­र्श­को वा ? २५इति वि­चा­र्य­ते­– य­द्यु­प­द­र्श­क­स्त­दा स एव तत्र प्र­व­र्त­कः प्रा­प­क­श्च स्यात् सं­वा­द­क­त्वा­त् स­म्य­क्सं­वे­द­न­व­त् । न तु त­न्नि­मि­त्तं दर्शनं स­न्नि­क­र्षा­दि­व­त् । अ­था­नु­प­द­र्श­कः ? कथं दर्शनं त­ज्ज­न­ना­त् स्व­वि­ष­यो­प­द­र्श­कं ? अ­ति­प्र­सं­गा­त् । सं­श­य­वि­प­र्या­स­का­र­ण­स्या­पि स्व­वि­ष­यो­प­द­र्श­क­त्वा­प­त्तेः । द­र्श­न­वि­ष­य­सा­मा­न्या­ध्य­व­सा­यि­त्वा­द्वि- क­ल्प­त­ज्ज­न­कं दर्शनं स्व­वि­ष­यो­प­द­र्श­क­मि­ति च न चेतसि स्था­प­नी­यं द­र्श­न­वि­ष­य­सा­मा­न्य­स्या­न्या­पो­ह­ल­क्ष­ण- स्या­व­स्तु­त्वा­त् । त­द्वि­ष­य­व्य­व­सा­य­ज­न­क­स्य व­स्तू­प­द­र्श­क­त्व­वि­रो­धा­त् । दृ­श्य­सा­मा­न्य­यो­रे­क­त्वा­ध्य­व­सा­या­द्व­स्तू­प- ३०दर्शक एव व्य­व­सा­य इत्यपि मिथ्या त­यो­रे­क­त्वा­ध्य­व­सा­या­सं­भ­वा­त् । त­दे­क­त्वं हि द­र्श­न­म­ध्य­व­स्य­ति त­त्पृ­ष्ठ­जो- व्य­व­सा­यो वा ज्ञा­नां­त­रं वा ? न ता­व­द्द­र्श­नं तस्य वि­क­ल्पा­वि­ष­य­त्वा­त् । नापि त­त्पृ­ष्ठ­जो व्य­व­सा­यः तस्य दृ­श्या­गो­च­र­त्वा­त् । त­दु­भ­य­वि­ष­यं ज्ञा­नां­त­रं तु नि­र्वि­क­ल्प­कं वि­क­ल्पा­त्म­कं वा ? न ता­व­न्नि­र्वि­क­ल्प­कं तस्य दृश्य वि­क­ल्प्य­द्व­य­वि­ष­य­त्व­वि­रो­धा­त् । नापि वि­क­ल्पा­त्म­कं तत एव । नच तद् द्व­या­वि­ष­यं सं­वे­द­नं त­दु­भ­यै­क­त्व­म­ध्य­व- सातुं समर्थं । त­था­हि­– यद्यन्न विषयी कुरुते न त­त्त­दे­क­त्व­म­ध्य­व­स्य­ति यथा र­स­सं­वे­द­नं स्प­र्श­रू­पो­भ­यं । न ३५विषयी कुरुते च दृ­श्य­वि­क­ल्प्यो­भ­यं किं­चि­त्सं­वे­द­नं­, इति न कु­त­श्चि­द्दृ­श्य­वि­क­ल्प्य­यो­रे­क­त्वा­ध्य­व­सा­यः सिद्ध्येत् ततो न व्य­व­सा­यो व­स्तू­प­द­र्श­कः स्यात् । नापि त­दु­प­ज­न­ना­द्द­र्श­नं स्व­वि­ष­य­व­स्तू­प­द­र्श­कं यो­गि­प्र­त्य­क्ष­स्य विधू- त­क­ल्प­ना­जा­ल­स्य सर्वदा व­स्तु­वि­क­ल्पा­ज­न­क­त्वा­त् त­दु­प­द­र्श­क­त्व­वि­रो­धा­त् । स्व­सं­वे­द­न­म­पि न तस्य स्व­रू­पो­प- ५४ दर्शकं त­द्वि­क­ल्पा­नु­त्पा­द­क­त्वा­त् इति कुतः स्व­रू­प­स्य स्वतो ग­ति­र­व­ति­ष्ठे­त­? । किं च द­र्श­न­पृ­ष्ठ­भा­वि­नो वि­क­ल्प­स्य स्व­सं­वे­द­न­व­ला­त्सि­द्धौ त­त्स्व­सं­वे­द­नं कुतः प्रमाणं स्यात् ? । तद्यदि स्व­रू­पो­प­द­र्श­ना­दे­व प्र­मा­ण­मा- स्थीयते ? तदा स्व­र्ग­प्रा­प­ण­श­क्त्या­दा­व­पि प्र­मा­ण­ता­मा­स्कं­दे­त् । तत् स्व­सं­वि­दा­का­र एव प्रमाणं त­द्व्य­व­सा­य ज­न­ना­त्­–­न पु­न­र­न्य­त्रे­ति प­रि­क­ल्प­ना­यां त­द्व्य­व­सा­य­स्व­सं­वे­द­न­स्या­पि व्य­व­सा­यां­त­रो­प­ज­न­ना­त् स्व­रू­पो­प­द­र्श- ०५नेन भ­वि­त­व्य­मि­त्य­न­व­स्था­ना­त्­, ना­द्य­व्य­व­सा­य­स्व­सं­वे­द­न­स्य प्रामाण्यं । त­द­प्रा­मा­ण्ये च न तत एव व्य­व­सा­य- सिद्धिः । त­द­सि­द्धौ च न त­ज्ज­न­ना­द्द­र्श­न­स्य स्व­वि­ष­यो­प­द­र्श­क­त्वं । त­द­भा­वे च न तस्य प्र­व­र्त­क­त्वं । अ­प्र­व­र्त- कस्य ना­र्थ­प्रा­प्ति­नि­मि­त्त­त्वं । त­द­सं­भ­वे च ना­वि­सं­वा­द­क­त्वं त­द्वि­र­हे च न स­म्य­ग्ज्ञा­न­त्वं स्व­सं­वे­द­नें­द्रि­य­म­नो यो­गि­ज्ञा­ना­ना­मि­ति न तै­र्व्य­भि­चा­रः सा­ध­न­स्य सं­भ­व­ति । स्यान्मतं — अ­र्थ­सा­म­र्थ्या­दु­त्प­त्ति­–­अ­र्थ­सा­रू­प्यं च द­र्श­न­स्य स्व­वि­ष­यो­प­द­र्श­क­त्वं तच्च स­क­ल­स­म­क्ष­वे­द- १०ना­ना­म­व्य­व­सा­या­त्म­क­त्वे­ऽ­पि सं­भ­व­त्प्र­व­र्त­क­त्व­म­र्थ­प्रा­प­क­त्व­म­वि­सं­वा­द­क­त्वं स­म्य­ग्ज्ञा­न­ल­क्ष­ण­मि­ति तैः समीची- नै­र्ज्ञा­नै­र्व्य­भि­चा­र एव हे­तो­रि­ति ? तदपि दु­र्घ­ट­मे­व क्ष­ण­क्ष­या­दा­व­पि त­दु­प­दे­श­क­त्व­प्र­सं­गा­त् । त­त्रा­क्ष­णि­क- त्वा­दि­स­मा­रो­पा­नु­प्र­वे­शा­द­यो­गि­नः प्र­ति­प­त्तु­र्नो­प­दे­श­क­त्व­म­व­ति­ष्ठ­ते । यो­गि­न­स्तु स­मा­रो­पा­सं­भ­वा­त् क्ष­ण­क्ष­या­दा- वपि दर्शनं त­दु­प­दे­श­क­मे­वे­ति स­मा­धा­न­म­पि न धी­म­द्धृ­ति­क­रं नी­ला­दा­व­प्य­यो­गि­न­स्त­द्वि­प­री­त­स­मा­रो­प­प्र­स­क्तेः । क­थ­म­न्य­था वि­रु­द्ध­ध­र्मा­ध्या­सा­त्त­द्द­र्श­न­भे­दो न भा­वे­त्­? न हि –­अ­भि­न्न­मे­क­द­र्श­नं क्व­चि­त्स­मा­रो­पा­क्रां­तं क्व­चि­न्ने­ति १५वक्तुं युक्तं । ततो यद्यत्र वि­प­री­त­स­मा­रो­प­वि­रु­द्धं तत्तत्र नि­श्चा­या­त्म­कं य­था­नु­मे­ये­ऽ­र्थे­ऽ­नु­मा­न­ज्ञा­नं । वि­प­री­त­स­मा­रो- प­वि­रु­द्धं च नीलादौ द­र्श­न­मि­ति व्य­व­सा­या­त्म­क­मे­व बु­द्ध्या­म­हे । नि­श्च­य­हे­तु­त्वा­द्द­र्श­नं नीलादौ वि­प­री­त­स­मा- रो­प­वि­रु­द्धं न पु­न­र्नि­श्च­या­त्म­क­त्वा­त् त­तो­ऽ­न्य­था­नु­प­प­त्तिः सा­ध­न­स्या­नि­श्चि­ते­ति मामंस्थाः यो­गि­प्र­त्य­क्षे­ऽ­स्य वि­प­री­त­स­मा­रो­प­स्य प्र­सं­गा­त् तेन त­स्या­वि­रो­धा­त् । परेषां तु तस्यापि नि­श्च­या­त्म­क­त्वा­त्ते­न विरोधः सिद्ध एव । तथा नि­श्च­य­हे­तु­ना द­र्श­ने­न विरुद्धं प्र­ति­पा­द­य­तः स्व­म­त­वि­रो­धः स्यात् । नि­श्च­या­रो­प­म­न­सो­र्बा­ध्य­बा­ध­क­भा­व इति २०ध­र्म­की­र्ते­र­भि­म­त­त्वा­त् द­र्श­ना­रो­प­यो­र्वि­रो­धा­भा­व­सि­द्धेः । ननु चा­र्थ­द­र्श­न­स्य नि­श्च­या­त्म­क­त्वे साध्ये प्र­त्य­क्ष­वि- रोधः सं­हृ­त­स­क­ल­वि­क­ल्प­द­शा­यां रू­पा­दि­द­र्श­न­स्या­नि­श्च­या­त्म­क­स्या­नु­भ­वा­त् । तदुक्तं — संहृत्य स­र्व­त­श्चिं­तां स्ति­मि­ते­नां­त­रा­त्म­ना । स्थि­तो­ऽ­पि चक्षुषा रू­प­मी­क्ष­ते साक्षजा मतिः ॥ १ ॥ इति । त­था­नु­मा­न­वि­रो­धो­ऽ­पि व्यु­च्छि­त्त­चिं­ता­व­स्था­यां­–­इं­द्रि­या­द­र्थ­ग­तौ क­ल्प­ना­नु­प­ल­ब्धेः । तत्र क­ल्प­ना­स- २५द्भावे पु­न­स्त­त्स्मृ­ति­प्र­सं­गः तदा वि­क­ल्पि­त­क­ल्प­ना­व­त् — त­द­प्यु­क्तं — पु­न­र्वि­क­ल्प­य­न् किं­चि­दा­सी­न्मे क­ल्प­ने­दृ­शी । इति वेत्ति न पू­र्वो­क्ता­व­स्था­या­मिं­द्रि­या­द्ग­तौ ॥ १ ॥ – इति त­दे­त­द­पि ध­र्म­की­र्ते­र­प­री­क्षि­ता­भि­धा­नं प्र­त्य­क्ष­तो नि­र्वि­क­ल्प­द­र्श­ना­प्र­सि­द्ध­त्वा­त् । सं­हृ­त­स­क­ल­वि­क­ल्पा- वस्था ह्यश्वं वि­क­ल्प­य­तो गो­द­र्श­ना­व­स्था । न च तदा गो­द­र्श­न­म­व्य­व­सा­या­त्म­कं पुनः स्म­र­णा­भा­व­प्र­सं­गा­त् । ३०तस्य सं­स्का­र­का­र­ण­त्व­वि­रो­धा­त् क्ष­णि­क­त्वा­दि­व­त् । व्य­व­सा­या­त्म­न एव द­र्श­ना­त् । सं­स्का­र­स्य स्म­र­ण­स्य च सं­भ­वा­त् अ­न्य­त­स्त­द­नु­प­प­त्तेः । ददुक्तं — व्य­व­सा­या­त्म­नो दृष्टेः संस्कारः स्मृ­ति­रे­व वा । दृष्टे दृ­ष्ट­स­जा­ती­ये नान्यथा क्ष­णि­का­दि­व­त् ॥ १ ॥ अथ मतं — अ­भ्या­स­प्र­क­र­ण­बु­द्धि­पा­ट­वा­र्थि­त्वे­भ्यो नि­र्वि­क­ल्प­का­द­पि द­र्श­ना­न्नी­ला­दौ संस्कारः स्मरणं ३५चो­त्प­द्य­ते न पुनः क्ष­णि­का­दौ त­द­भा­वा­त् । व्य­व­सा­या­त्म­नो­ऽ­पि प्र­त्य­क्षा­त्त­त एव सं­स्का­र­स्म­र­णो­प­प­त्तेः । ते­षा­म­भा­वे निश्चिते ऽपि वस्तुनि नि­य­मे­न सं­स्का­रा­दे­र­भा­वा­त् तेषां व्य­व­सा­या­त्म­क­स­म­क्ष­वा­दि­नो­ऽ­पि नि­य­म­तो- ५५ भ्यु­प­ग­म­नी­य­त्वा­त् इति ? तदपि फ­ल्गु­प्रा­यं भू­यो­द­र्श­न­ल­क्ष­ण­स्या­भ्या­स­स्य क्ष­ण­क्ष­या­दौ सुतरां स­द्भा­वा­त् । पु­न­पु­न­र्वि­क­ल्पो­त्पा­द­रू­प­स्य चा­भ्या­स­स्य परं प्र­त्य­सि­द्ध­त्वा­त् तत्रैव वि­व­दा­त् । क्ष­णि­का­क्ष­णि­क­वि­चा­र­णा­यां क्षणि- क­प्र­क­र­ण­स्या­पि भावात् । बु­द्धि­पा­ट­वं तु नीलादौ क्ष­ण­क्ष­या­दौ च समानं त­द्द­र्श­न­स्या­नं­श­त्वा­त् । तत्र पाटवा- पा­ट­व­यो­र्भे­दे त­द्बु­द्धे­र­पि भे­दा­प­त्तेः­, वि­रु­द्ध­ध­र्मा­ध्या­सा­त् । त­था­वि­ध­त­द्वा­स­ना­ख्य­क­र्म­व­शा­द्बु­द्धेः प­ट­वा­पा­ट­वे स्यातां, ०५इ­त्य­प्य­ने­ना­पा­स्तं त­त्क­र्म­स­द्भा­व­यो­र­पि वि­रु­द्ध­ध­र्म­यो­र­नं­श­बु­द्धा­वे­क­स्या­म­सं­भ­वा­त् । य­त्पु­न­र­र्थि­त्वं जि­ज्ञा­सि­त­त्वं त­त्क्ष­णि­क­वा­दि­नः क्ष­णि­क­त्वे­ऽ­स्त्ये­व नी­ला­दि­व­त् । य­त्पु­न­र­भि­ल­षि­तृ­त्व­म­र्थि­त्वं तन्न व्य­व­सा­य­ज­न­न­नि­बं­ध­नं क्व­चि­द­न­भि­ल­षि­ते­ऽ­पि वस्तुनि कस्य चि­दु­दा­सी­न­स्य स्म­र­ण­प्र­ती­तेः — इति ना­भ्या­सा­दि­भ्यः क्व­चि­दे­व संस्कार- जननं — अ­नं­श­ज्ञा­न­ज्ञे­य­वा­दि­नो घटते । परस्य तु ब­हि­रं­त­र­ने­का­त्म­क­त­त्त्व­वा­दि­नो न किं­चि­द­नु­प­प­न्नं सर्वथै- कत्र व्य­व­सा­या­व्य­व­सा­य­योः­, अ­वा­या­न­वा­या­ख्य­योः­, सं­स्का­रा­सं­स्का­र­योः­, धा­र­णे­त­रा­भि­धा­न­योः­, स्म­र­णा­स्म­र­ण- १०यो­श्चा­न­भ्यु­प­ग­मा­त् । त­द्भे­दा­त्क­थं­चि­द्बो­ध­बो­ध्य­यो­र्भे­द­प्र­सि­द्धेः । सौ­ग­त­स्या­पि व्या­वृ­त्ति­भे­दा­द्भे­दो­प­ग­मा­द­दो­षो­यं त­था­हि­–­नी­ल­त्व­म­नी­ल­त्व­व्या­वृ­त्तिः­, क्षा­णि­क­त्व­म­क्ष­णि­क­त्व­व्या- वृ­त्ति­रु­च्य­ते त­त्रा­नी­ल­व्या­वृ­त्तौ नी­ल­व्य­व­सा­य­स्त­द्वा­स­ना­प्र­बो­धा­दु­त्प­न्नो न पु­न­र­क्ष­णि­क­व्या­वृ­त्तौ क्ष­णि­क­व्य­व­सा­य- स्तत्र त­द्वा­स­ना­प्र­बो­धा­भा­वा­त् । न चा­न­यो­र्व्या­वृ­त्त्यो­र­भे­दः सं­भ­व­ति व्या­व­र्त्य­मा­न­यो­र­भे­द­प्र­सं­गा­त् । न च त­द्भे­दा­द्व- स्तुनो भेदः तस्य नि­रं­श­त्वा­त् अन्यथा अ­न­व­स्था­प्र­सं­गा­त् इति परे मन्यंते तेपि न स­त्य­वा­दि­नः स्व­भा­व­भे­दा­भा­ब­वे १५वस्तुनो व्या­वृ­त्ति­भे­दा­सं­भ­वा­त् । नी­ल­स्व­ल­क्ष­णं हि येन स्व­भा­वे­ना­नी­ला­द्व्या­वृ­त्तं तैनैव य­द्य­क्ष­णि­का­द्व्या­व­र्ते­त तदा नी­ला­क्ष­णि­क­यो­रे­क­त्वा­प­त्ते­स्त­द्व्या­वृ­त्त्यो­रे­क­त्व­प्र­सं­गः । स्व­भा­वां­त­रे­ण तत्ततो व्या­वृ­त्त­मि­ति वचने तु सिद्धः स्व­ल­क्ष­स्य स्व­भा­व­भे­दः कथं नि­रा­क्रि­य­ते ? । यदि पुनः स्व­भा­व­भे­दो­ऽ­पि वस्तुनो त­त्स्व­भा­व­व्या­वृ­त्त्या कल्पित एवेति मतं ? तदा प­रि­क­ल्पि­त­स्व­भा­वां­त­र­क­ल्प­ना­या­म­न­व­स्था­नु­ष­ज्ये­त । त­था­हि­–­अ­नी­ल­स्व­भा­वा- न्य­व्या­वृ­त्ति­र­पि स्व­भा­वां­त­रे­ण अ­न्य­व्या­वृ­त्ति­रू­पे­ण वक्तव्या । सापि त­द­न्य­व्या­वृ­त्ति­स्व­भा­वां­त­रे­ण त­था­वि­धे- २०नेति न क्वचिद् व्य­व­ति­ष्ठ­ते । क­श्चि­दा­ह — तत एव स­क­ल­वि­क­ल्प­वा­ग्गो­च­रा­ती­तं वस्तु वि­क­ल्प­श­ब्दा­नां वि­ष­य­स्या­न्य­व्या­वृ­त्ति- रूपस्य अ­ना­द्य­वि­द्यो­प­क­ल्पि­त­स्य सर्वथा विचारा ऽ­स­ह­त्वा­त् । वि­चा­र­स­ह­त्वे वा त­द­व­स्तु­त्व­वि­रो­धा­त् इति सोपि न स­म्य­ग्वा­दी द­र्श­न­वि­ष­य­स्या­प्य­व­स्तु­त्व­प्र­सं­गा­त् तस्यापि श­ब्द­वि­क­ल्प­वि­ष­य­व­त् वि­चा­रा­स­ह­त्वा­वि­रो- धात् । तथाहि — नी­ल­स्व­ल­क्ष­णं सु­ग­ते­त­रं­ज­न­द­र्श­न­वि­ष­य­ता­मु­प­ग­च्छ­त् कि­मे­के­न स्व­भा­वे­न ना­ना­स्व­भा­वे­न २५वा दृश्यं स्यात् ? त­द्य­द्ये­के­न स्व­भा­वे­न तदा यदेव सु­ग­त­दृ­श्य­त्वं त­दे­वे­त­र­ज­न­दृ­श्य­त्व­मि­त्या­या­तं अ­शे­ष­स्य जगतः सु­ग­त­त्वं । य­च्चे­त­र­ज­न­दृ­श्य­त्वं तदेव सु­ग­त­दृ­श्य­त्व­मि­ति स­क­ल­स्य सु­ग­त­स्ये­त­र­ज­न­त्वा­प­त्तेः सुगत- र­हि­त­म­खि­लं स्यात् । अ­थै­त­स्मा­द्दो­षा­द्वि­भ्य­ता ना­ना­स्व­भा­वे­न सु­ग­ते­त­र­ज­न­दृ­श्य­त्वं प्र­ति­पा­द्य­ते तदा नील- स्व­ल­क्ष­ण­स्य दृ­श्य­स्व­भा­व­भे­दः क­थ­म­प­ह्नु­ये­त ? न च दृश्यं रू­प­म­ने­कं क­ल्पि­त­मि­ति शक्यं वक्तुं दृश्यस्य क­ल्पि­त­त्व­वि­रो­धा­त् । अथ मन्येथाः स्व­ल­क्ष­ण­स्य दृश्यत्वं स्वा­का­रा­र्प­क­त्व­व्या­वृ­त्ति­रू­पं ना­ना­दृ­ष्टॄ­व्य­पे­क्ष­या­ऽ­ने­कं ३०घ­टा­म­ट­त्ये­व त­द­भा­वे ना­ना­दृ­ष्ट­द­र्श­न­वि­ष­य­तां स्व­ल­क्ष­णं ना­स्कं­दे­त् । न च प­र­मा­र्थ­तो दर्शनं दृ­श्य­वि­ष­यं स­र्व­ज्ञा­नां स्व­रू­प­मा­त्र­प­र्य­व­सि­त­त्वा­त् । उ­प­चा­रा­दे­व ब­हि­र्वि­ष­य­ता­व्य­व­हा­रा­त् इति त­द­प्य­स­त् वस्तुनः स्वा- का­रा­र्प­क­त्व­स्या­पि पू­र्व­प­र्य­नु­यो­गा­न­ति­क्र­मा­त् । तद्धि स्व­ल­क्ष­णं येन स्व­भा­वे­न सु­ग­त­द­र्श­ना­य स्वा­का­र­म- र्पयति ते­नै­वे­त­र­ज­न­द­र्श­ना­य स्व­भा­वां­त­रे­ण वा ? यदि तेनैव तदा तदेव सु­ग­ते­त­र­ज­न­द­र्श­नै­क­त्व­मा­प­नी­प- द्यते तथा च सर्वस्य सु­ग­त­त्वं इ­त­र­ज­न­त्वं वा दु­र्नि­वा­र­ता­मा­च­नी­स्कं­द्य­ते । स्व­भा­वां­त­रे­ण स्वा­का­रा­र्प­क­त्वे ३५स एव वास्तवः स्व­भा­व­भे­दः स्व­ल­क्ष­ण­स्या­क्षु­ण्ण्त­या कथं प्र­ति­क्षि­प्य­ते ? । यत्पुनः स्वा­का­रा­र्प­क­त्व­म­पि न वस्तुनः प­र­मा­र्थ­प­थ­प्र­स्थां­यि स­म­व­स्था­प्य­ते स्व­रू­प­मा­त्र­वि­ष­य­त्वा­त् स­क­ल­सं­वे­द­ना­ना­मि­ति मतं तदपि ५६ दु­रु­प­पा­द­मे­व तेषां वै­य­र्थ्य­प्र­स­गां­त् । ज्ञानं हि ज्ञे­य­प्र­सि­द्ध्य­र्थं प्रे­क्षा­व­ता­म­न्वि­ष्य­ते प्र­का­श्य­प्र­सि­द्ध्य­र्थं प्रदीपा- दिवत् । न पुनः स्व­रू­प­प्र­सि­द्ध्य­र्थं प्र­दी­प­व­दे­वे­ति । ब­हि­र­र्था­वि­ष­य­त्वे स­क­ल­सं­वे­द­ना­नां क­थ­मि­व वैयर्थ्यं न स्यात् ? नि­र्वि­ष­य­स्व­प्ना­दि­सं­वे­द­ना­ना­म­पि सा­र्थ­क­त्व­प्र­सं­गा­त् स्व­रू­प­प्र­का­श­न­स्य प्र­यो­ज­न­स्य सर्वत्र भावात् । किं च सु­ग­त­सं­वे­द­न­स्या­पि स्व­रू­प­मा­त्र­प­र्य­व­सि­ता­यां क­थ­मि­व सुगतः स­र्व­द­र्शी­ष्य­ते पृ­थ­ग्ज­न­व­त् । ०५पृ­थ­ग्ज­नो वा कथं न स­र्व­द­र्शी सु­ग­त­व­द­नु­म­न्ये­त ? स्व­रू­प­मा­त्र­प­र्य­व­सि­ता­याः त­त्सं­वे­द­ने­ऽ­पि स­द्भा­वा­त् । यदि पु­न­र्वा­स्त­व­त्वं स­क­ल­वे­दि­त्वं ता­था­ग­त­स्यो­र­री­क्रि­य­ते संवृत्त्या तस्य व्य­व­हा­रि­भिः सं­व्य­व­ह­र­णा­त् त­द­व्य­ह­र­णे त­द्व­च­न­स्य स­त्य­ता­व्य­व­हा­रा­नु­प­प­त्तेः स­क­ल­ज्ञा­न­र­हि­त­पु­रु­षो­प­दे­शा­द्वि­प्र­लं­भ­न­शं­क­न­प्र­सं­गा­त् । तदुक्तं — ज्ञा­न­वा­न् मृग्यते क­श्चि­त्त­दु­क्त­प्र­ति­प­त्त­ये । १०अ­ज्ञो­प­दे­श­क­र­णे वि­प्र­लं­भ­न­शां­कि­भिः ॥ १ ॥ इति प्र­ति­प­द्ये­त तथापि सु­ग­ते­त­र­व्य­व­हा­र­सि­द्धिः सु­ग­त­व­दि­त­र­ज­न­स्या­पि संवृत्त्या स­क­ल­वे­दि­त्व­क­ल्प- ना­नु­षं­गा­त् । स­क­ल­प­दा­र्थे­भ्यः सु­ग­त­स्य सं­वे­द­नो­द­या­त् स­क­ला­र्थ­ज्ञ­ता युक्ता क­ल्प­यि­तुं न पु­न­रि­त­र- जनस्य प्र­ति­नि­य­त­प­दा­र्था­दे­व त­द्वे­द­नो­त्प­त्ते­रि­ति चेत् ? न सु­ग­त­ज्ञा­न­स्यां­पि स­क­ल­प­दा­र्थ­ज­न्य­त्वा­सि­द्धेः । स­म­स­म­य­व­र्ति­प­दा­र्थ­ज­न्य­त्वा­सं­भ­वा­त् । यदि पु­न­र­ना­द्य­ती­त­प­दा­र्थे­भ्यो भ­वि­ष्य­द­नं­ता­र्थे­भ्यः सां­प्र­ति­का­र्थे- १५भ्यश्च स­क­ले­भ्यः सु­ग­त­सं­वे­द­न­स्यो­त्प­त्तिः अ­खि­ला­वि­द्या­तृ­ष्णा­वि­ना­शा­दु­प­प­द्य­त एव अ­स्म­दा­दि­सं­वे­द- ना­द्वि­शि­ष्ट­त्वा­त्त­स्ये­ति मतं ? तदा कि­मे­के­न स्व­भा­वे­न का­ल­त्र­य­व­र्ति­प­दा­र्थैः सु­ग­त­वि­ज्ञा­न­मु­त्प­द्य­ते ना­ना­स्व­भा­वै­र्वा ? य­द्ये­के­न स्व­भा­वे­न­, ए­के­ना­र्थे­न सु­ग­त­ज्ञा­न­मु­प­ज­न्य­ते तेनैव स­क­ल­प­दा­र्थैः तदा स­क­ल­प­दा­र्था­ना­मे­क­रू­प­ता­प­त्तिः । सु­ग­त­वि­ज्ञा­न­स्य वा त­दे­क­प­दा­र्थ­ज­न्य­त्व­सि­द्धि­रि­ति ने­त­र­ज­न- सं­वे­द­ना­त्त­स्य विशेषः सिद्ध्येत् । अ­था­न्ये­न स्व­भा­वे­नै­का­र्थः सु­ग­त­ज्ञा­न­मु­प­ज­न­य­ति प­दा­र्थां­त­रा­णि तु स्वभावां- २०त­रै­स्त­दु­प­ज­न­यं­ति इति म­ति­र्भ­व­तां तर्हि सु­ग­त­ज्ञा­न­म­नं­त­स्व­भा­व­मे­क­मा­या­तं । त­द्व­त्स­क­लं वस्तु क­थ­म­नं­ता­त्म- कतां न स्वी­कु­र्या­दि­ति चिं­त­नी­यं । ए­क­स्य­ने­क­स्व­भा­व­त्व­वि­रो­धा­न्नै­क­म­ने­का­त्म­क­मि­ति चेत् ? क­थ­मि­दा­नीं सु­ग­त­वि­ज्ञा­न­मे­क­प­दा­र्थ­ज­न्यं ना­ना­रू­प­तां विभर्ति ? । यदि पु­न­र­त­ज्ज­न्य­रू­प­व्या­वृ­त्त्या त­ज्ज­न्य­रू­प­प­रि­क­ल्प­ना­न्न तत्त्वतः सु­ग­त­सं­वे­द­न­म­ने­क­रू­प­ता­क्रां­त­मि­त्या­कू­तं ? तदा न प­र­मा­र्थ­तः सु­द्धो­द­नि­त­न­य­वि­ज्ञा­न­म­खि­ल­प­दा­र्थ- जन्यं, इति कुतः पृ­थ­ग्ज­न­सं­वे­द­ना­द­स्य विशेषः स­म­व­ति­ष्ठ­ते ? । ततः सु­ग­त­वि­ज्ञा­न­दृ­श्य­ता­मि­त­र­ज­न­वि­ज्ञा­न­वि­ष- २५यतां च एकस्य नी­ला­दि­स्व­ल­क्ष­ण­स्या­ने­का­का­रा­म­पि स्व­य­मु­र­री­कु­र्व­ता नी­ल­स्व­ल­क्ष­ण­का­दि­रू­प­ता­पि दृ­श्या­दृ­श्य- त्व­ल­क्ष­णा स्वी­क­र्त­व्या­, तथा च नीलादौ द­र्श­न­म­न्य­द्व्य­व­सा­या­त्म­कं सं­स्का­र­स्म­र­ण­का­र­णं त­द्वि­प­री­द­र्श­ना­द­व- बो­द्ध­व्यं­, इति न प्र­त्य­क्ष­प्र­सि­द्धं नि­र्व्य­व­सा­या­त्म­क­त्व­म­ध्य­क्ष­ज्ञा­न­स्य । ना­प्य­नु­मा­न­प्र­सि­द्धं गो­द­र्श­न­स­म­ये­ऽ­श्व­क- ल्प­ना­व­त् गो­द­र्श­न­स्या­पि व्य­व­सा­या­त्म­क­त्वो­प­प­त्तेः । पु­न­र्वि­क­ल्प­य­तः त­द­नु­स्म­र­ण­स्या­न्य­था­नु­प­प­त्तेः । तथा हि य­न्नि­र्व्य­व­सा­या­त्म­कं ज्ञानं त­न्नो­त्त­र­का­ल­म­नु­स्म­र­ण­ज­न­न­स­म­र्थं यथा प­रा­भि­म­तं स्व­र्ग­प्रा­प­ण­श­क्त्या­दि- ३०दर्शनं तथा चा­श्व­वि­क­ल्प­का­ले गो­द­र्श­न­मि­ति त­द­नु­स्म­र­ण­ज­न­न­स­म­र्थं न स्यात् भवति च पु­न­र्वि­क­ल्प­य­त- स्त­द­नु­स्म­र­णं त­स्मा­द्व्य­व­सा­या­त्म­क­मि­ति निश्चयः । तदेवं व्य­व­सा­या­त्म­क­त्वे साध्ये स­म्य­ग्ज्ञा­नं साधनं न व्य­भि­च­र­ति कस्य चिदपि स­म्य­ग्ज्ञा­न­स्या­व्य­व­सा­या­त्म­क­त्व­प्र­मा­ण­बा­धि­त­त्वा­दि­ति स्थितं । ये त्वाहुः — स्वा­र्थ­व्य­व­सा­या­त्म­क­त्वे साध्ये स­म्य­ग्ज्ञा­न­स्य हेतोर्न प्र­यो­ज­क­त्वं सर्वस्य स­म्य­ग्ज्ञा­न­स्या- र्थ­व्य­व­सा­य­य­मं­त­र­णै­व स­म्य­ग्ज्ञा­न­त्व­सि­द्धेः । तथा हि — वि­वा­दा­ध्या­सि­तं स­म्य­ग्ज्ञा­नं ना­र्थ­व्य­व­सा­या­त्म­कं ३५ज्ञा­न­त्वा­त्­, स्व­व्य­व­सा­या­त्म­क­त्वा­त् । यद्ज्ञानं स्व­व्य­व­सा­या­त्म­कं वा त­न्ना­र्थ­व्य­व­सा­या­त्म­कं यथा स्व­प्ना­दि­ज्ञा­नं तथा च वि­प­दा­व­न्नं ज्ञानं जि­न­प­ति­म­ता­नु­सा­रि­भः­, अ­भ्य­नु­ज्ञा­तं त­स्मा­न्ना­र्थ­व्य­व­सा­या­त्म­क­मि­ति तेपि न प्रातीति- ५७ का­व­दि­नः जा­गृ­द्द­शा­भा­वि­नः स­मी­ची­न­वि­ज्ञा­न­स्या­र्थ­व्य­व­सा­या­त्म­क­त्व­प्र­ती­तेः । त­स्या­र्था­व्य­व­सा­या­त्म­क­त्वे- त­तो­ऽ­र्थे प्र­वृ­त्त्य­भा­व­प्र­सं­गा­त् । प्र­ती­य­ते च स­म्य­ग्ज्ञा­ना­द­र्थे प्र­वृ­त्ति­र­वि­सं­वा­दि­नी त­स्मा­द­र्थ­व्य­व­सा­या­त्म­कं तदर्थे प्र­वृ­त्त्य­न्य­था­नु­प­प­त्तेः । मि­थ्या­ज्ञा­ना­द­प्य­र्थे प्र­वृ­त्ति­द­र्श­ना­द­ने­कां­तः ? इति चेन्न तस्याः प्र­वृ­त्त्या­भा­स- त्वात्, व्य­व­सि­ता­र्थ­प्रा­प्ति­नि­मि­त्त­त्वा­भा­वा­त् । व्य­व­सि­त­म­र्थं प्रा­प­यि­तुं समर्था हि संयक् प्रवृत्तिः सा च मिथ्या- ०५ज्ञा­ना­न्नो­प­प­द्य­त इति न व्य­भि­चा­रः । य­च्चा­र्थ­व्य­व­सा­या­त्म­क­त्व­नि­रा­क­र­ण­प्र­व­ण­म­नु­मा­नं तत्स्वार्थं व्य­व­स्य­ति वा न वा ? प्र­थ­म­वि­क­ल्पे ते­नै­वा­नै­कां­ति­कं सा­ध­न­मा­प­द्ये­त तस्य ज्ञानत्वे स्व­व्य­व­सा­या­त्म­क­त्वे­ऽ­पि स्व­सा­ध्या­र्थ- व्य­व­सा­या­त्म­क­त्व­सि­द्धेः । द्वि­ती­य­वि­क­ल्पे­ऽ­पि ना­तो­ऽ­नु­मा­ना­दि­ष्ट­सि­द्धिः स्व­सा­ध्या­र्थ­व्य­व­सा­या­त्म­क­त्वा­त् अनु- मा­ना­भा­स­व­त् । ततः किं बहुना सर्वस्य किं­चि­दि­ष्टं सा­ध­य­तः स्व­य­म­नि­ष्टं वा दू­ष­य­तः कु­त­श्चि­त्प्र­मा­णा­त् त­स्या­र्थ­व्य­व­सा­या­त्म­क­त्वा­भ्य­नु­ज्ञा­न­म­व­श्यं­भा­वि त­स्या­र्था­व्य­व­सा­या­त्म­क­त्वे स्वे­ष्टा­नि­ष्ट­सा­ध­न­दू­ष­णा­नु­प­प­त्तेः । पर- १०प्र­सि­द्ध्या­र्थ­व्य­व­सा­यि­नः प्र­मा­ण­स्या­भ्य­नु­ज्ञा­ना­द­दो­ष इति चेत् ? तर्हि परं प्र­ति­पा­द्य­से वा न वा? यदि न प्र­ति­पा­द्य­से कथं प­र­प्रा­सि­द्ध्या क्व­चि­द­भ्यु­नु­ज्ञा­नं ? तं न प्र­ति­पा­द्य­से त­त्प्र­सि­द्ध्या च किं­चि­द­भ्य­नु­जा­ना­सी­ति क­थ­म­नु­न्म­त्तः ? । अथ परं प्र­ति­पा­द्य­से तर्हि यतः प्र­मा­णा­त्त­त्प्र­ति­प­त्तिः त­त्स्व­की­या­र्थ­व्य­व­सा­या­त्म­कं सिद्धं त­स्या­व्य­व­सा­या­त्म­क­त्वे तेन प­र­प्र­ति­प­त्ते­र­यो­गा­त् । यदि पुनः प­रा­भ्यु­प­ग­मां­त­रा­त्प­र­प्र­ति­प­त्ति­रि­ति मतं तदाप्य- निवृत्तः प­र्य­नु­यो­गः तस्यापि प­रा­भ्यु­प­ग­मां­त­र­स्य प्र­ति­प­त्त्य­प्र­ति­प­त्ति­पू­र्व­क­त्वे पू­र्वो­क्त­दू­ष­णा­न­ति­क्र­मा­त् । १५स्यान्मतं न ब­हि­र­र्थाः प­र­मा­र्थ­तः संति त­त्प्र­त्य­या­नां नि­रा­लं­ब­न­त्वा­त् स्व­प्न­प्र­त्य­य­व­त् स­ता­नां­त­र­वि- ज्ञा­ना­ना­म­पि अ­स­त्त्वा­त् । तत्र स्व­रू­प­मा­त्र­व्य­व­सा­या­त्म­क­मे­व वि­ज्ञा­न­मि­ति त­द­प्य­सा­रं तथाहि — स­र्व­प्र­त्य- यानां नि­रा­लं­ब­न­त्वं न ता­व­त्प्र­त्य­क्ष­तः सिद्ध्यति तस्य त­द्वि­ष­य­त्वा­त् । वि­वा­दा­प­न्नाः प्रत्यया नि­रा­लं­ब­ना एव प्र­त्य­य­त्वा­त् स्व­प्नें­द्रि­जा­ला­दि­व­दि­ति अ­नु­मा­ना­न्नि­रा­लं­व­न­त्व­सि­द्धिं­रि­त्य­पि मिथ्या स्व­सं­ता­न­प्र­त्य­ये­न व्य­भि­चा­रा­त् । तस्यापि सं­ता­नां­त­र­प्र­त्य­य­व­त्प­क्षी­क­र­णे कि­मि­द­म­नु­मा­न­ज्ञा­नं स्व­सा­ध्या­र्था­लं­ब­नं नि­रा­लं­ब­नं वा ? प्र­थ­म­प­क्षे तेनैवा- २०नै­कां­ति­क­त्वं प्र­त्य­य­त्वं । द्वि­ती­य­क­ल्प­ना­यां नातो नि­रा­लं­ब­न­त्व­सि­द्धिः । प­र­ब्र­ह्म­स्व­रू­प­सि­द्धि­रे­व स­क­ल­भे­द­प्र­त्य­या­नां नि­रा­लं­ब­न­त्व­सि­द्धिः­? इत्यपि न व्य­व­ति­ष्ठ­ते प­र­ब्र­ह्म­ण ए­वा­प्र­सि­द्धेः । तद्धि स्वतो वा सिद्ध्येत् परतो वा ? न ता­व­त्स्व­त एव वि­प्र­ति­प­त्त्य­भा­व­प्र­सं­गा­त् । प­र­त­श्चे­द­नु­मा­ना­दा­ग­मा­द्वा ? य­द्य­नु­मा­ना­त् कि­म­त्रा­नु­मा­न­मि­त्य­भि- धीयतां । वि­वा­दा­प­न्नो­ऽ­र्थः प्र­ति­भा­सां­तः प्रविष्ट एव प्र­ति­भा­स­मा­न­त्वा­त् । यो यः प्र­ति­भा­स­मा­नः स स प्रति- भासांतः प्रविष्ट एव दृष्टः यथा प्र­ति­भा­स­स्या­त्मा प्र­ति­भा­स­मा­न­श्च स­क­लो­ऽ­र्थ­श्चे­त­ना­चे­त­ना­त्म­को वि­वा­दा­प­न्नः २५त­स्मा­त्प्र­ति­भा­सां­तः­प्र­वि­ष्ठ ए­वे­त्य­नु­मा­नं न सम्यक् धर्मि-हेतु-दृ­ष्टां­ता­नां प्र­ति­भा­सां­तः­प्र­वि­ष्ट­त्वे सा­ध्यां­तः­पा­ति- त्वेन अ­नु­मा­नो­त्था­ना­यो­गा­त् । प्र­ति­भा­सां­तः प्र­वि­ष्ट­त्वा­भा­वे तै­रे­वे­ति हे­तो­र्व्य­भि­चा­रा­त् । यदि पु­न­र­ना­द्य­वि- द्या­वा­स­ना­व­ला­द्ध­र्मि-हेतु-दृष्टांताः प्र­ति­भा­स­ब­हि­र्भू­ता इव नि­श्ची­यं­ते प्र­ति­पा­द्य­प्रा­ति­पा­द­क­स­भ्य­स­भा­प­ति­ज­न­व­त् । त­तो­ऽ­नु­मा­न­म­पि सं­भ­व­त्ये­व स­क­ला­ना­द्य­वि­द्या­वि­ला­स­वि­ल­ये तु प्र­ति­भा­सां­तः­प्र­वि­ष्ट­म­खि­लं प्र­ति­भा­स­मे­वे­ति विप्र- ति­प­त्त्य­सं­भ­वा­त् । प्र­ति­पा­द्य­प्र­ति­पा­द­क­भा­वा­भा­वा­त् सा­ध्य­सा­ध­न­भा­वा­नु­प­प­त्ते­र्न किं­चि­द­नु­मा­नो­प­न्या­स­फ­लं । स्व- ३०य­म­नु­भू­य­मा­ने प­र­ब्र­ह्म­णि प्र­ति­भा­सा­त्म­नि दे­श­का­ला­का­र­व­च्छि­न्न­स्व­रू­पे नि­र्व्य­भि­चा­रे स­क­ल­का­ला­व­स्था­व्या­पि- नि­–­अ­नु­मा­ना­प्र­यो­गा­त् इति स­म­भि­धी­य­ते तदा सा­प्य­ना­द्य­वि­द्या यदि प्र­ति­भा­सां­तः­प्र­वि­ष्टा त­दा­वि­द्यै­वा क­थ­म­सं­तं ध­र्मि­दृ­ष्टां­ता­दि­भे­द­मु­प­द­र्श­ये­त् । अथ प्र­ति­भा­स­ब­हि­र्भू­ता­स्त­दा सा­ऽ­प्र­ति­भा­स­मा­ना प्र­ति­भा­स­मा­ना वा ? न ताव- द­प्र­ति­भा­स­मा­ना भेदे प्र­ति­भा­स­रू­प­त्वा­त् तस्याः । प्र­ति­भा­स­मा­ना चेत् तयैव हे­तो­र्व्य­भि­चा­रः प्र­ति­भा­स- ब­हि­र्भू­त­त्वे­ऽ­पि तस्याः प्र­ति­भा­स­मा­न­त्वा­त् । ३५स्या­दा­कू­तं — न प्र­ति­भा­स­मा­ना ना­प्र­ति­भा­स­मा­ना न प्र­ति­भा­स­ब­हि­र्भू­ता नापि प्र­ति­भा­सां­तः­प्र­वि­ष्टा नैक न­चा­ने­का न नित्या ना­प्य­नि­त्या न व्य­भि­चा­रि­णी ना­प्य­व्य­भि­चा­रि­णी सर्वथा वि­चा­र्य­मा­णा­यो­गा­त् । स­क­ल­वि­चा­रा­ति­क्रां­त­स्व­रू­पै­व रू­पां­त­रा­भा­वा­त् अ­वि­द्य­या नी­रू­प­ता­ल­क्ष­ण­त्वा­त् इति । त­दे­त­द­प्य­वि­द्या­वि- जृं­भि­त­मे­व त­था­वि­ध­नी­रू­प­ता­स्व­भा­वा­याः केन चि­द­वि­द्या­याः क­थं­चि­द­प्र­ति­भा­स­मा­ना­याः व­क्तु­म­श­क्तेः । प्र­ति­मा­स­मा­ना­या­स्तु त­था­व­च­ने क­थ­म­सौ सर्वथा नीरूपा स्यात् ? येन स्व­रू­पे­ण यः प्र­ति­भा­स­ते तस्यैव ५८ त­द्रू­प­त्वा­त् । तथा स­क­ल­वि­चा­रा­ति­क्रां­त­त­या किमसौ वि­चा­र­गो­च­रा अ­वि­चा­र­गो­च­रा वा स्यात् ? प्र­थ­म­क­ल्प- नायां स­क­ल­वि­चा­रा­ति­क्रां­त­त­या वि­चा­रा­न­ति­क्रां­त­त्वा­भ्गु­प­ग­म­व्या­घा­तः । द्वि­ती­य­क­ल्प­ना­यां न स­क­ल­वि­चा­रा- ति­क्रां­त­ता व्य­व­ति­ष्ठ­ते स­क­ल­वि­चा­रा­ति­क्रां­त­ता­या­म­पि त­स्या­स्त­या व्य­व­स्था­ने स­र्व­थै­का­ने­क­रू­प­ता­या अपि व्य­व­स­था­न­प्र­सं­गा­त् । त­स्मा­त्स­त्स्व­भा­वै­वा­वि­द्या­भ्यु­प­गं­त­व्या वि­द्या­व­त् । तथा च वि­द्या­ऽ­वि­द्या­द्वै­त­प्र­सि­द्धेः ०५कुतः प­र­म­ब्र­ह्म­णो­ऽ­नु­मा­ना­त्सि­द्धिः ? । ए­ते­नो­प­नि­ष­द्वा­क्या­त्प­र­म­पु­रु­ष­सि­द्धिः प्र­त्या­ख्या­ता । सर्वं वै खल्विदं ब्र­ह्मे­त्या­दि­वा­क्य­स्य प­र­मा­त्म­नों­ऽ­र्थां­त­र­भा­वे द्वै­त­प्र­स­क्ते­र­वि­शे­षा­त् । त­स्या­ना­द्य­वि­द्या­त्म­क­त्वे­ऽ­पि पू­र्वो­दि­त­दू­ष­ण- प्र­सं­गा­त् ततो न प­र­म­पु­रु­षा­द्वै­त­सि­द्धिः स्वतः परतो वा येन स­म्य­ग्ज्ञा­नं स्व­व्य­व­सा­या­त्म­क­मे­व न पु­न­र­र्थ­व्य- व­सा­या­त्म­कं­–­अ­र्था­भा­वा­दि­ति वदन् अ­व­धे­य­व­च­नः स्यात् । यत्तु स्व­प्न­ज्ञा­नं स्व­व्य­व­सा­या­त्म­क­मे­वे­त्यु­क्तं तदपि न संगतं तस्य सा­क्षा­त्प­रं­प­र­या वा­र्थ­व्य­व­सा­या­त्म- १०क­त्वा­घ­ट­ना­त् । द्विविधो हि स्वाप्नः स­त्यो­ऽ­स­त्य­श्च तत्र सत्यो दे­व­ता­कृ­तः स्यात् ध­र्मा­ध­र्म­कृ­तो वा क­स्य­चि­त्सा- क्षा­द्व्य­व­सा­या­त्म­कः प्रसिद्धः स्व­प्न­द­शा­यां य­द्दे­श­का­ला­का­र­त­या­र्थः प्र­ति­प­न्नः पु­न­र्जा­गृ­द्द­शा­या­म­पि तद्देश- का­ला­का­र­त­यै­व तस्य व्य­व­सी­य­मा­न­त्वा­त् । क­श्चि­त्स­त्यः स्वप्नः प­रं­प­र­या­र्थ­–­व्य­व­सा­यी स्व­प्ना­ध्या­य­नि­ग­दि- ता­र्थ­प्रा­प­क­त्वा­त् । तदुक्तं — यस्तु पश्यति रात्र्यंते राजानं कुजरं हयं । १५सुवर्णं वृषभं गां च कुटंबं तस्य वर्धते ॥ १ ॥ इति कु­टुं­ब­व­र्ध­ना­वि­ना­भा­वि­नः स्वप्ने रा­जा­दि­द­र्श­न­स्य क­थ­म­र्थ­नि­श्चा­य­क­ता न स्यात् ? पा­व­का­वि­ना- भा­वि­धू­म­द­र्श­न­व­त् । दृ­ष्टा­र्था­व्य­व­सा­या­त्म­क­त्वा­न्न स्व­प्न­बो­धो­ऽ­र्थ­व्य­व­सा­यी इति वचने लैं­गि­को­ऽ­पि बो­धो­ऽ­र्थ- व्य­व­सा­यी माभूत । तत तद्वत् । अ­नु­मा­न­बा­धो­ऽ­नु­मि­ता­र्थ­व्य­व­सा­यी सं­भ­व­ती­ति वचने स्व­प्ना­ग­म­ग­म्या- र्थ­व्य­व­सा­यी स्व­प्न­बो­धो­ऽ­पि कथं ना­भ्य­नु­ज्ञा­य­ते ? । क­दा­चि­द्व्य­भि­चा­र­द­र्श­ना­न्नै­व­म­भ्यु­प­ग­मः कर्तुं सुशक्य २०इति चेन्न दे­श­का­ला­का­र­वि­शे­षं य­था­र्था­ग­मो­दि­त­म­पे­क्ष्य­मा­ण­स्य क्व­चि­त्क­दा­चि­त्क­थं­चि­द्व्य­भि­चा­रा­भा­वा­त् । त­द­पे­क्षा­वि­क­ल­स्तु न स­मी­ची­नः स्वप्नः तस्य स्व­प्ना­भा­स­त्वा­त् । प्र­ति­प­त्तु­र­प­रा­धा­च्च व्य­भि­चा­रः सं­भा­व्य­ते न पु­न­र­न­प­रा­धा­त् यथा चाधूमः धू­म­बु­द्ध्या प्र­ति­प­द्य­मा­न­स्य ततः पा­व­का­नु­मा­नं व्य­भि­चा­री­ति प्र­ति­प­त्तु­रे­वा­प­रा­धो न धूमस्य धी­म­द्भि­र­भि­धी­य­ते । त­थै­वा­स्व­प्नं स्व­प्न­बु­द्ध्या­ध्य­व­स्य त­त­स्त­द्वि­ष­या­ध्य­व­सा­यो न व्य­भि­च­र­ती­ति न स्व­प्ना­ग­म­स्या­प­रा­धः प्र­ति­प­त्ते­रे­वा­प­रा­धा­त् । यः पु­न­र­स­त्यः स्वप्नः पि­त्ता­द्यु­द्रे­क­ज­नि­तः स कि­म­र्थ­सा­मा­न्यं २५व्य­भि­च­र­ति अ­र्थ­वि­शे­षं वा ? न ता­व­द­र्थ­सा­मा­न्यं दे­श­का­ला­का­र­वि­शे­षा­णा­मे­व व्य­भि­चा­रा­त् सर्वत्र सर्वदा स­र्व­था­र्थ­सा­मा­न्य­स्य स­द्भा­वा­त् । त­द­भा­वे­ऽ­र्थ­वि­शे­षे­षु सं­श­य­वि­प­र्या­स­स्व­प्ना­य­था­र्थ­ज्ञा­ना­ना­म­नु­त्प­त्तेः न हि किंचिद् ज्ञानं स­त्ता­मा­त्रं व्य­भि­च­र­ति त­स्या­नु­त्प­त्ति­प्र­स­क्तेः त­तो­ऽ­स­त्य­स्व­प्न­स्या­प्य­र्थ­सा­मा­न्य­व्य­व­सा­या­त्म­क­त्व­सि­द्धेः न किंचिद् ज्ञा­न­म­र्था­व्य­व­सा­या­त्म­कं । विशेषं तु यत एव व्य­भि­च­र­ति तत एव असत्यः क­थ­म­न्य­था स­त्ये­त­र­व्य- वस्थितिः स्यात् ? तस्याः स्वा­र्थ­वि­शे­ष­प्रा­प्त्य­प्रा­प्ति­नि­मि­त्त­त्वा­दि­त्य­लं प्र­सं­गे­न स्व­व्य­व­सा­या­त्म­क­त्व­व­त् स­म्य­ग्ज्ञा­न- ३०स्या­र्थ­व्य­व­सा­या­त्म­क­त्व­प्र­सि­द्धेः । अ­त्रा­प­रः प्राह — स­म्य­ग्ज्ञा­न­म­र्थ­व्य­व­सा­या­त्म­क­मे­व न स्व­व्य­व­सा­या­त्म­कं स्वात्मनि क्रि­या­वि­रो­धा­त् एकस्य ज्ञा­न­स्या­ने­का­का­रा­नु­प­प­त्तेः । न हि ज्ञा­न­मे­क­मा­का­रं क­र्म­ता­मा­प­न्नं व्य­व­स्य­ति क­र्मा­त्म­ना­का­रे­णे­ति वक्तुं युक्तं ताभ्यं क­र्म­क­र­णा­का­रा­भ्यां ज्ञा­न­स्या­भे­दे भे­द­प्र­सं­गा­त् । न हि भिन्नाभ्यां ता­भ्या­म­भि­न्न­मे­कं नाम अ­ति­प्र­सं­गा­त् । त­यो­र्वा­का­र­यो­र्ज्ञा­ना­द­भे­दे भे­द­प्र­सं­गा­त् न­ह्य­भि­न्ना­द­भि­न्न­यो­र्भे­दः­सं­भा­व्य­ते अ­ति­प्र­सं­गा­त् । एवं ताभ्यां वि­ज्ञा­न­स्य ३५भे­दो­प­ग­मे न वि­ज्ञा­न­मा­त्म­ना­त्मा­नं व्य­व­स्य­ति प­रा­त्म­ना प­रा­त्म­न एव व्य­व­सा­या­त् तौ चाकारौ यदि ज्ञानस्या- त्मानौ तदा ज्ञानं व्य­व­स्य­ति वा न वा ? प्र­थ­म­प­क्षे कि­मे­के­ना­का­रां­त­रे­ण द्वाभ्यं वा­ऽ­का­रां­त­रा­भ्यां तत्तौ व्य­व­स्ये­त । न ता­व­दे­के­ना­का­रां­त­रे­ण वि­रो­धा­त् । द्वाम्यां व्य­व­स्य­ति इति चेत् त­यो­र­प्या­का­रां­त­र­यो­र्ज्ञा­ना­द­भे­दो भेदो वा स्यात् १ स्वप्नोते इति पा­ठां­त­रं २ अ­र्थ­व्य­व­सा­यः पा­ठा­न्त­रः ५९इ­त्य­नि­वृ­त्तः प­र्य­नु­यो­गः — अ­न­व­स्था च म­ही­य­सी । क­थं­चि­द्भे­दः क­थं­चि­द­भे­दः क­थं­चि­द­भे­दः इ­त्यु­भ­य­प­क्षा­लं­ब­न­म­पि अने- नै­वा­पा­स्तं प­क्ष­द्व­य­नि­क्षि­प्त­दो­षा­नु­षं­गा­त् प­क्षां­त­रा­ऽ­सं­भ­वा­च्चे­ति सोऽपि न न्या­य­कु­श­लः प्र­ती­त्य­ति­लं­घ­ना­त् । लोके हि ज्ञानस्य स्व­व्य­व­सा­यि­न ए­वा­र्थ­व्य­व­सा­यि­त्वे­न प्रतीतिः सिद्धा । नचेयं मिथ्या बा­ध­का­भा­वा­त् । स्वात्मानि क्रि­या­वि­रो­धो बाधक इति चेत् का पु­नः­क्रि­या ? कि­मु­त्प­त्ति­र्ज्ञा­प्ति­र्वा ? य­द्यु­त्प­त्तिः सा स्वात्मनि विरु- ०५ध्यतां । न हि व­य­म­भ्य­नु­जा­नी­म­हे ज्ञा­न­मा­त्मा­न­मु­त्पा­द­य­ति इति । नैकं स्व­स्मा­त्प्र­जा­य­ते इति स­मं­त­भ­द्र­स्वा­मि­भि­र­भि­धा­ना­त् । अथ ज्ञाप्तिः क्रिया सा स्वात्मनि विरुद्धा त­दा­त्म­नै­व ज्ञानस्य स्वका- र­ण­क­ला­पा­दु­त्पा­दा­त् । प्र­का­शा­त्म­नै­व प्र­का­श­स्य प्र­दी­पा­देः । न हि स्व­का­र­ण­सा­मि­ग्री­तः प्र­दी­पा­दि­प्र­का­शः समुप- जा­य­मा­नः स्व­प्र­का­शा­त्म­ना नो­त्पा­द्य­त इति प्रा­ती­ति­कं त­त्स्व­रू­प­प्र­का­शे­न प्र­का­शां­त­रा­पे­क्षा­प्र­सं­गा­त् । नचायं १०प्र­दी­पा­द्या­लो­कः क­ल­शा­दि­ज्ञा­नं स्व­रू­प­ज्ञा­नं च च­क्षु­षो­ज­न­य­तः स­ह­का­रि­त्वं ना­त्म­सा­त्कु­रु­ते येन स्व­प्र­का­श­को न स्यात् । चक्षुषः स­ह­का­रि­त्वं हि प्र­दी­पा­देः प्र­का­श­त्वं तच्च क­ल­शा­दा­वि­व स्वा­त्म­न्य­पि दी­पा­दे­र्वि­द्य­त एवेति सिद्धा स्वात्मनि प्र­का­श­न­क्रि­या । त­द्व­द्वि­ज्ञा­न­स्या­र्थ­प्र­का­श­न­मि­व स्व­प्र­का­श­न­म­प्य­वि­रु­द्ध­म­व­बु­ध्य­तां । एतेन "ज्ञानं न स्व­प्र­का­श­कं­, अ­र्थ­प्र­का­श­क­त्वा­दि­त्य­नु­मा­म­मा­प­स्तं प्र­दी­पा­दि­ना हे­तो­र­ने­कां­ता­त् । प्र­दी­पा­दिः­–­उ­प­चा­रा­त् प्र­का­श­को न प­र­मा­र्थ­त इति ते­ना­व्य­भि­चा­रे च­क्षु­रा­दे­र­पि प­र­मा­र्थ­तो­ऽ­र्था­ऽ­प्र­का­श­क­त्वा­त् सा­ध­न­शू­न्यो दृष्टांतः १५ज्ञा­न­स्यै­व प­र­मा­र्थ­तो­ऽ­र्थ­प्र­का­श­त्वो­प­प­त्तेः । ततो "ज्ञानं स्व­प्र­का­श­कं­, अ­र्थ­प्र­का­श­क­त्वा­त् यत्तु न स्व­प्र­का­श­कं त­न्ना­र्थ­प्र­का­श­कं दृष्टं यथा कु­ड्या­दि­कं । अ­र्थ­प्र­का­श­कं च ज्ञानं त­स्मा­त्स्व­प्र­का­श­क­मि­ति के­व­ल­व्य­ति­रे­क्य­नु­मा­न म­वि­ना­भा­व­नि­य­म­नि­श्च­य­ल­क्ष­णा­द्धे­तो­रु­त्प­द्य­मा­नं नि­र­व­द्य­मे­वे­ति बु­ध्या­म­हे । च­क्षु­रा­दि­भिः प­र­मा­र्थ­तो­ऽ­र्थ­प्र­का­श- क­त्वा­सि­द्धे­स्ते­न सा­ध­न­स्या­ने­कां­ति­क­ता­नु­प­प­त्तेः । कु­ड्या­दे­र­पि स्वा­वि­ना­भा­वि­प­दा­र्थां­त­र­प्र­का­श­क­त्वा­द्धू­मा­दि­व­त् सा­ध­ना­व्य­ति­रे­को दृष्टांत इत्यपि स­मु­त्सा­रि­त­म­ने­न त­स्या­प्यु­प­चा­रा­द­र्थ­प्र­का­श­क­त्व­सि­द्धेः अन्यथा त­ज्ज­नि­त­वि- २०ज्ञा­न­वै­य­र्थ्या­प­त्तेः । य­त्पु­र्ज्ञा­न­मा­त्मा­न­मा­त्म­ना जा­ना­ती­ति क­र्म­क­र­णा­का­र­द्व­य­प­रि­क­ल्प­ना­या­म­न­व­स्था­दि­दो­षा नुषंगो बाधकं इति मतं तदपि न सुं­द­र­त­रं त­था­प्र­ती­ति­सि­द्ध­त्वा­त् । जा­त्यं­त­र­त्वा­दा­का­र­व­तो­र्भे­दा­भे­दं प्रत्यने- कांतात् । क­र्म­क­र­णा­का­र­यो­र्ज्ञा­नां­त् क­थं­चि­द­भे­दः क­थं­चि­द्भे­दः इति नै­कां­ते­न भे­दा­भे­द­प­क्षो­प­क्षि­प्त­दो- षो­प­नि­पा­तः स्या­द्वा­दि­नां सं­ल­क्ष्य­ते । नच क­थं­चि­दि­त्यं­ध­प­द­मा­त्रं ज्ञा­ना­त्म­ना त­द­भे­द­स्य क­थं­चि­द­भे­द­श­ब्दे- ना­भि­धा­ना­त् । क­र्म­क­र­णा­त्म­ना च भेद इति क­थं­चि­द्भे­द­ध्व­नि­ना द­र्शि­त­त्वा­त् । तथा च ज्ञा­ना­त्म­ना तद- २५भेद इति ज्ञा­न­भे­दा­भे­द­स्त­तो भिन्नस्य ज्ञा­ना­त्म­नो­ऽ­प्र­ती­तेः । क­र्म­क­र­णा­का­र­त­या च भेद इति क­र्म­क­र­णा- का­रा­वे­व भेदस्य द्र­व्य­व्य­ति­रि­क्त­स्या­का­र­स्या­प्र­ती­य­मा­न­त्वा­त् इति । ये­ना­त्म­ना ज्ञानात् क­र्म­क­र­णा­का­र­यो­र­भे­दो येन च भेदस्तौ ज्ञा­ना­त्कि­म­भि­न्नौ भिन्नौ वा इति न प­र्य­नु­यो­ग­स्या­व­का­शो­ऽ­स्ति य­या­ऽ­न­व­स्था म­ही­य­सी संप्र- सज्येत । नच भि­न्ना­भ्या­मे­व क­र्म­क­र­णा­भ्यां भ­वि­त­व्य­मि­ति नि­य­मो­ऽ­स्ति क­र­ण­स्य भि­न्न­क­र्तृ­क­स्या­पि द­र्श­ना­त् भि­न्न­क­र्तृ­क­र­ण­व­त् । यथैव हि दे­व­द­त्तः प­र­शु­ना छिनत्ति का­ष्ट­मि­त्य­त्र दे­व­द­त्ता­त्क­र्तु­र्भि­न्नं प­र­शु­ल­क्ष­णं करण- ३०मु­प­ल­भ्य­ते । त­था­ग्नि­र्द­ह­ति द­ह­ना­त्म­ने­त्य­त्रा­ग्नेः क­र्तु­र्द­ह­ना­त्म­ल­क्ष­णं क­र­ण­म­भि­न्न­मु­प­ल­भ्य­त एवं द­ह­ना­त्मा- प्यु­ष्ण­ल­क्ष­णः स चा­ग्ने­र्गु­णि­नो भिन्न एवेति न मंतव्यं सर्वथा त­यो­र्वि­रो­धे गु­ण­गु­णी­भा­व­वि­रो­धा­त् सह्यविं- ध्यवत् । गुणिनि गुणस्य स­म­वा­या­त् त­यो­स्त­द्भा­व इत्यपि न सत्यं स­म­वा­य­स्य क­थं­चि­द­वि­श्व­ग्भा­वा­त् अन्यत्य वि­चा­रा­स­ह­त्वा­त् । स­मि­त्ये­की­भा­वे­ना­वा­य­न­म­व­ग­म­नं हि स­म­वा­यः तच्च स­म­वा­य­नं कर्मस्थं स­म­वे­य­मा­न­त्वं स­म­वा­यि­ता­दा­त्म्यं प्र­ती­य­ते­, कर्तृस्थं पुनः स­म­वा­य­नं स­म­वा­य­क­त्वं प्र­मा­तु­स्ता­दा­त्म्ये­न स­म­वा­यि­नो­र्ग्रा­ह­क­त्वं ३५न चान्या ग­ति­र­स्ति क्रियायाः क­र्तृ­क­र्म­स्थ­त­यै­व प्र­ति­पा­द­ना­त् तत्र — कर्मस्था क्रिया क­र्म­णो­ऽ­न­न्या कर्तृस्था क­र्तु­र­न­न्या इति व­च­ना­त् । ततो ना­भि­न्न­क­र्तृ­कं क­र­ण­म­प्र­सि­द्धं । नापि कर्म तस्यापि भि­न्न­क­र्तृ­क­स्ये­वा­भि­न्न­क­र्तृ- कस्यापि प्रतीतेः । यथैव हि कटं क­रो­ती­त्य­त्र क­र्तु­र्भि­न्न क­र्मा­नु­म­न्य­ते । तथा प्रदीपः प्र­का­श­य­त्या­त्मा­न­मि- ६०त्यत्र क­र्तु­र­भि­न्नं कर्म सं­प्र­ती­य­त एव । न हि प्र­दी­पा­त्मा प्र­दी­पा­द्भि­न्न एव प्र­दी­प­स्या­प्र­दी­प­त्व­प्र­सं­गा­त् घ­ट­व­त् । प्रदीपे प्र­दी­पा­त्म­नो­भि­न्न­स्या­पि स­म­वा­या­त् प्र­दी­प­त्व­सि­द्धि­रि­ति­चे­त्­, न अ­प्र­दी­पे­ऽ­पि घटादौ त­त्स­म­वा­य­प्र­सं- गात् । प्र­त्या­स­त्ति­वि­शे­षा­त्प्र­दी­पा­त्म­नः प्रदीप एव स­म­वा­यो ना­न्य­त्रे­ति चेत् ? स प्र­त्या­स­त्ति­वि­शे­षो­ऽ­त्र कोऽ- न्यत्र क­थं­चि­त्ता­दा­त्म्या­त् ? ततः प्र­दी­पा­द­भि­न्न एव प्र­दी­पा­त्मा कर्मेति सि­द्ध­म­भि­न्न­क­र्तृ­कं कर्म । तथा च ०५ज्ञा­ना­त्मा­त्मा­न­मा­त्म­ना जा­ना­ती­ति न स्वात्मनि ज्ञ­प्ति­ल­क्ष­णा­याः क्रियाया विरोधः सिद्धः, यतः स्व­व्य­व­सा­या- त्मकं ज्ञानं न स्यात् । स्यान्मतं — अ­र्थ­ज्ञा­नं ज्ञा­नां­त­र­वे­द्यं प्र­मे­य­त्वा­त् घ­टा­दि­व­दि­त्य­नु­मा­नं स्वा­र्थ­व्य­व­सा­या­त्म­क­त्व­प्र­ती­ते­र्बा- ध­क­मि­ति तदपि फ­ल्गु­प्रा­यं म­हे­श्व­रा­र्थ­ज्ञा­ने­न हे­तो­र्व्य­भि­चा­रा­त् । तस्य ज्ञा­नां­त­रा­वे­द्य­त्वे­ऽ­पि प्र­मे­य­त्वा­त् । यदि पु­न­री­श्व­रा­र्थ­ज्ञा­न­म­पि ज्ञा­नां­त­र­प्र­त्य­क्षं­–­अ­सं­वे­द्य­त्वा­त् इति मि­ति­स्त­दा त­द­प्य­र्थ­ज्ञा­न­ज्ञा­न­मी­श्व­र­स्य प्रत्य- १०क्ष­म­प्र­त्य­क्षं वा ? यदि प्रत्यक्षं तदा स्वतो ज्ञा­नां­त­रा­द्वा ? । स्व­त­श्चे­त् प्र­थ­म­म­प्य­र्थ­ज्ञा­नं स्वतः प्र­त्य­क्ष­म­स्तु किं वि­ज्ञा­नां­त­रे­ण ? । यदि तु ज्ञा­नां­त­रा­त्प्र­त्य­क्षं त­द­पी­ष्य­ते तदा तदपि ज्ञा­नां­त­रं कि­मी­श्व­र­स्य प्र­त्य­क्ष­म­प्र­त्य­क्षं वेति स एव प­र्य­नु­यो­गो ऽ­न­व­स्था­नं च दुःशक्यं प­रि­ह­र्तुं । यदि पु­न­र­प्र­त्य­क्ष­मे­वे­श्व­रा­र्थ­ज्ञा­न­ज्ञा­नं त­दे­श्व­र­स्य स­र्व­ज्ञ­त्व­वि­रो­धः स्व­ज्ञा­न­स्या­प्र­त्य­क्ष­त्वा­त् । त­द­प्र­त्य­क्ष­त्वे च प्र­थ­मा­र्थ­ज्ञा­न­म­पि न तेन प्रत्यक्षं स्व­य­म­प्र­त्य­क्षे­ण ज्ञा­नां­त­रे­ण त­स्या­र्थ­ज्ञा­न­स्य सा­क्षा­त्क­र­ण­वि­रो­धा­त् । क­थ­म­न्य­था आ­त्मां­त­र­ज्ञा­ने­ना­पि क­स्य­चि­त्सा­क्षा­त्क­र­णं १५न स्यात् । तथा चा­नी­श्व­र­स्या­पि स­क­ल­स्य प्राणिनः स्व­य­म­प्र­त्य­क्षे­णा­पी­श्व­र­ज्ञा­ने­न स­र्व­वि­ष­ये­ण स­र्वा­र्थ­सा­क्षा­त्क- रणं सं­ग­च्छे­त ततः सर्वस्य स­र्वा­र्थ­वे­दि­त्वा­सि­द्धेः­–­ई­श्व­रा­नी­श्व­र­वि­भा­गा­भा­वो भूयते । यदा चा­र्थ­ज्ञा­न­म­पि प्रथम मी­श्व­र­स्या­प्र­त्य­क्ष­मे­व क­क्षी­क्रि­य­ते तदा तेनापि स्व­य­म­प्र­त्य­क्षे­ण म­हे­श्व­र­स्य स­क­लो­ऽ­र्थः प्रत्यक्षं कथं स­म­र्थ्ये­त तेन स­क­ल­प्रा­णि­ग­ण­स्य स­र्वा­र्थ­सा­क्षा­त्क­र­ण­प्र­सं­ग­स्य त­द­व­स्थ­त्वा­त् । त­द­ने­न वादिना म­हे­श्व­र­स्या­पि किंचिज्ज्ञ- त्वं सर्वस्य वा स­र्व­ज्ञ­त्व­म­नु­ज्ञा­त­व्यं न्या­य­व­ला­या­त­त्वा­त् । त­था­भ्य­नु­ज्ञा­ने वा नै­या­यि­क­स्य नै­या­यि­क­त्व- २०विरोधः केनास्य वार्येत । यदि पु­न­री­श्व­र­स्य ज्ञानं स­क­ला­र्थ­व­दा­त्मा­न­म­पि सा­क्षा­त्कु­रु­ते नि­त्यै­क­रू­प­त्व­त्­, क्र­म­भा­व्य­ने­का­नि­त्य­ज्ञा­नो­प­ग­मे म­हे­श्व­र­स्य स­कृ­त्स­र्वा­र्थ­सा­क्षा­त्क­र­ण­वि­धा­ना­त् स­र्व­ज्ञ­त्वा­व्य­व­स्थि­ते­रि­ति मतं तदा क­थ­म­ने­नै­वा­नै­कां­ति­को हेतुर्न स्यात् । स्या­न्म­ति­रे­षा यु­ष्मा­क­म­स्म­दा­दि­ज्ञा­ना­पे­क्ष­या­र्थ­ज्ञा­न­स्य ज्ञा­नां­त­र­वे­द्य­त्वं प्र­मे­य­त्वे­न हेतुना साध्यते ततो ने­श्व­र­ज्ञा­ने­न व्य­भि­चा­रः त­स्या­स्म­दा­दि­ज्ञा­ना­द्वि­शि­ष्ट­त्वा­त् । न हि विशिष्टे दृष्टं धर्म- म­वि­शि­ष्टे­ऽ­पि घ­ट­य­न् प्रे­क्षा­व­त्तां लभते इति सापि न प­री­क्षा­स­हा ज्ञा­नां­त­र­स्या­पि प्र­ज्ञा­ने­न वे­द्य­त्वे­ऽ­न­व­स्था- २५नु­षं­गा­त् । तस्य ज्ञा­नां­त­रे­ण वेद्यत्वे तेनैव हे­तो­र्व्य­भि­चा­रः । न च त­द­प्र­मे­य­मे­व स­र्व­स्ये­ति वक्तुं शक्यं प्र­ति­प­त्तुः प्र­मा­ण­व­ला­त्त­द्व्य­व­स्था­न­वि­रो­धा­त् । स­र्व­ज्ञ­ज्ञा­ने­ना­पि त­स्या­प्र­मे­य­त्वे स­र्व­ज्ञ­स्य स­र्व­ज्ञ­ता­व्या­घा­ता­त् । त­तो­ऽ­स्म­दा­दि­ज्ञा­ना­पे­क्ष­या­पि न ज्ञानं ज्ञा­नां­त­र­प्र­त्य­क्षं प्र­मे­य­त्वा­द्धे­तोः सा­ध­यि­तुं शक्यं, ज्ञानस्य स्वा­र्थ­व्य­व­सा- यात्मनः प्र­त्य­क्ष­सि­द्ध­त्वा­च्च । प्र­त्य­क्ष­ब­धि­त­प­क्ष­त­या हेतोः का­ला­त्य­या­प­दि­ष्ट­त्व­प्र­सं­गा­च्च । ए­ते­ना­र्थ­ज्ञा­ने­न ज्ञा­नां­त­र­वे­द्ये साध्ये का­ल­त्र­य­त्रि­लो­क­व­र्ति­पु­रु­ष­प­रि­ष­त्सं­प्र­यु­क्त­स­क­ल­हे­तु­नि­क­र­स्य का­ला­त्य­या­प­दि­ष्ट­त्वं व्यख्यातं । ३०त­द­ने­न य­दु­क्त­मे­का­त्म­स­म­वे­ता­नं­त­र­वि­ज्ञा­न­ग्रा­ह्य­म­र्थ­ज्ञा­न­मि­ति त­त्स­मु­त्सा­रि­तं । यो­ऽ­प्या­ह न स्वा­र्थ­व्य­व­सा­या­त्म­कं ज्ञानं प­रो­क्ष­त्वा­त् अ­र्थ­स्यै­व प्र­त्य­क्ष­त्वा­त् । अ­प्र­त्य­क्षा नो बुद्धिः प्र­त्य­क्षो­ऽ­र्थः । स हि ब­हि­र्दे­श­सं­ब­द्धः प्र­त्य­क्ष­म­नु­भू­य­ते । ज्ञाते त्वर्थे अ­नु­मा­ना­द­व­ग­च्छ­ति बु­द्धि­रि­ति सा­व­र­भा­ष्ये श्र­व­णा­त् । तथा ज्ञा­न­स्या­र्थ­व­त् प्र­त्य­क्ष­त्वे क­र्म­त्व­प्र­सं­गा­त् ज्ञा­नां­त­र­स्य क­र­ण­स्या­व­श्यं प­रि­क­ल्प­नी­य­त्वा­त् । तस्य चा­प्र­त्य­क्ष­त्वे प्रथमे को­ऽ­प­रि­तो­षः ? । प्र­त्य­क्ष­त्वे तस्यापि पू­र्व­व­त्क­र्म­ता­प­त्तेः क­र­णा­त्म­नो­ऽ­न्य­वि­ज्ञा­न­स्य ३५प­रि­क­ल्प­ना­या­म­न­व­स्था­या दु­र्नि­वा­र­त्वा­त् । त­थै­क­स्य ज्ञानस्य क­र्म­क­र­ण­द्व­या­का­र­प्र­ती­ति­वि­रो­धा­च्च न ज्ञानं प्रत्यक्षं प­री­क्ष­कै­र­नु­मं­त­व्य­मि­ति सोऽपि न य­था­र्थ­मी­मां­स­क­ता­म­नु­स­र्तु­मु­त्स­ह­ते ज्ञा­न­स्या­प्र­त्य­क्ष­त्वे स­र्वा­र्थ­स्य प्र­त्य­क्ष­त्व­वि­रो­धा­त् । सं­ता­नां­त­र­ज्ञा­ने­ना­पि स­र्व­स्या­र्थ­स्य प्र­त्य­क्ष­त्व­प्र­सं­गा­त् । तथा च न क­स्य­चि­त्क­दा­चि­द­र्थ- प्रत्यक्षः स्यात् । ६१स्या­दा­कू­तं भवतां य­स्या­त्म­नो­ऽ­र्थे प­रि­च्छि­त्तिः प्र­दु­र्भ­व­ति तस्य ज्ञानेन सोऽर्थः प्र­ती­य­ते न सर्वस्य ज्ञानेन स­र्वो­ऽ­र्थ प्रत्यक्षः सर्वस्य प्रमातुः स­र्व­त्रा­र्थे प­रि­च्छि­त्ते­र­सं­भ­वा­त् इति तदपि स्व­गृ­ह­मा­न्यं मीमांस- कानां क्व­चि­द­र्थ­प­रि­च्छि­त्तेः प्र­त्य­क्ष­त्वा­प्र­त्य­क्ष­त्व­वि­क­ल्पा­न­ति­क्र­मा­त् । सा हि न ता­व­त्प्र­त्य­क्षा ज्ञा­न­ध­र्म­क­त्वा­त् । क­र्म­त्वे­ना­प्र­ती­ति­श्च क­र­ण­ज्ञा­न­व­त् । तस्याः क­र्म­त्वे­ना­प्र­ती­ता­व­पि क्रि­या­त्वे­न प्रतीतेः । प्र­त्य­क्ष­त्वे करण ०५ज्ञानस्य क­र्म­त्वे­ना­प्र­ती­य­मा­न­स्या­पि क­र­ण­त्वे­न प्र­ती­य­मा­न­त्वा­त् । प्र­त्य­क्ष­त्व­म­स्तु क­र­ण­त्वे­न प्र­ती­य­मा­नं करण- ज्ञानं क­र­ण­मे­व स्यात् । न प्रत्यक्षं क­र्म­ल­क्ष­ण­मि­ति चेत् तर्हि प­दा­र्थ­प­रि­च्छि­त्ति­र­पि क्रि­या­त्वे­न प्र­ति­भा­स­मा­ना क्रियेव स्यात् न प्रत्यक्षा क­र्म­त्वा­भा­दा­दि­ति प्र­ति­प­त्त­व्यं । यदि पु­न­र­र्थ­ध­र्म­त्वा­द­र्थ­प­रि­च्छि­त्तेः प्र­त्य­क्ष­ते­ष्य­ते तदा सा­र्थ­प्रा­क­ट्य­मु­च्य­ते । न चै­त­द­र्थ­ग्र­ह­ण­वि­ज्ञा­न­स्य प्रा­क­ट्या­भा­वे घ­टा­म­ट­ति अ­ति­प्र­सं­गा­त् । न ह्य­प्र­क­टे ऽ­र्थ­ज्ञा­ने सं­ता­नां­त­र­व­र्ति­नि­क­र­स्य चि­द­र्थ­स्य प्राकट्यं घटते प्र­मा­तु­रा­त्म­नः स्वयं प्र­का­श­मा­न­स्य प्र­त्य­क्ष­स्या­र्थ १०प­रि­च्छे­द­क­स्य प्रा­का­ट्या­द­र्थे प्राकट्यं प­रि­च्छि­त्ति­ल­क्ष­णं सं­ल­क्ष्य­ते । प­रि­च्छि­त्तेः प­रि­च्छे­द­क­स्व­रू­पा­याः कर्तृस्थ- याः क्रियाया क­र्तृ­ध­र्म­त्वा­दु­प­चा­रा­द­र्थ­ध­र्म­त्व­व­च­ना­त् प­रि­च्छि­द्य­मा­न­ता­रू­पा­याः प­रि­च्छि­त्तेः क­र्म­स्था­याः क्रियाया एव प­र­मा­र्थ­तो­ऽ­र्थ­ध­र्म­त्व­सि­द्धेः । क­र­ण­ज्ञा­न­ध­र्म­ता­नु­च्छि­त्ते­र्ने­ष्य­ते एव चक्षुषा रूपं पश्यति दे­व­द­त्त इत्यत्र चक्षुषः प्रा­क­ट्या­भा­वे­ऽ­पि अ­र्थ­प्रा­क­ट्यं सु­घ­ट­मे­व लो­के­ऽ­तीं­द्रि­य­स्या­पि क­र­ण­त्व­सि­द्धेः इति केचित् स­म­भ्य­मं­स­त मी­मां­स­काः ते­ऽ­प्यं­ध­स­र्प­वि­ल­प्र­वे­श­न्या­ये­न स्या­द्वा­दि­म­त­मे­वा­नु­प्र­वि­शं­ति­, स्या­द्वा­दि­भि­र­पि १५स्वा­र्थ­प­रि­च्छे­द­क­स्य प्र­त्य­क्ष­स्या­त्म­नः क­र्तृ­सा­ध­न­ज्ञा­न­श­ब्दे­ना­भि­धा­ना­त् । स्वा­र्थ­ज्ञा­न­प­रि­ण­त­स्या­त्म­न एव स्व­तं­त्र­स्य ज्ञा­न­त्वो­प­प­त्तेः­, स हि जा­ना­ती­ति ज्ञा­न­मि­ति व्य­प­दि­श्य­ते । त­द्ध­र्म­स्तु प­रि­च्छि­त्तिः फ­ल­ज्ञा­नं कथंचि- त्प्र­मा­णा­द्भि­न्न­म­भि­धी­य­ते । यत्तु प­रो­क्ष­म­तीं­द्रि­य­त­या क­र­ण­ज्ञा­नं प­रै­रु­क्तं तदपि स्या­द्वा­दि­भि­र्भा­वें­द्रि­य­त­या क­र­ण­मु­प­प­यो­ग­ल­क्ष­णं प्रोच्यते "­ल­ब्ध्यु­प­यो­गौ भा­वें­द्रि­यं­" इति व­च­ना­त् । त­त्रा­र्थ­ग्र­ह­ण­श­क्ति­र्ल­ब्धिः । अ­र्थ­ग्र­ह­ण­व्या­पा­र उ­प­यो­गः इति व्या­ख्या­ना­त् केवलं तस्य क­थं­चि­दा­त्म­नों­ऽ­न­र्थां­त­र­भा­वा­दा­त्म­त­या प्रत्यक्ष- २०त्वो­प­प­त्तेः अ­प्र­त्य­क्ष­तै­कां­तो नि­र­स्य­ते इति प्रा­ती­ति­कं प­री­क्ष­कै­र­नु­मं­ता­व्यं । ये तु मन्यंते नात्मा प्रत्यक्षः कर्म- त्वे­ना­प्र­ती­य­मा­न­त्वा­त् क­र­ण­ज्ञा­न­व­दि­ति तेषां फ­ल­ज्ञा­न­हे­तो­र्व्य­भि­चा­रः क­र्म­त्वे­ना­प्र­ती­य­मा­न­स्या­पि फ­ल­ज्ञा­न­स्य प्रा­भा­क­रैः प्र­त्य­क्ष­त्व­व­च­ना­त् । तस्य क्रि­या­त्वे­न प्र­ति­भा­स­मा­ना­त् प्र­त्य­क्ष­त्वे प्र­मा­तु­र­प्या­त्म­नः क­र्तृ­त्वे­न प्रति भा­स­मा­न­त्वा­त् प्र­त्य­क्ष­त्व­म­स्तु । तच्च फ­ल­ज्ञा­नं­–­आ­त्म­नो­ऽ­र्थां­त­र­भू­त­म­न­र्थां­त­र­भू­त­मु­भ­यं वा ? न तावत्स व­र्था­र्थां­त­र­भू­त­म­न­र्थां­त­र­भू­तं वा म­तां­त­र­प्र­वे­शा­नु­षं­गा­त् । ना­प्यु­भ­यं प­क्ष­द्व­य­नि­ग­दि­त­दू­ष­णा­नु­ष­क्ते । कथं- २५चि­द­न­र्थां­त­र­त्वे तु फ­ल­ज्ञा­ना­दा­त्म­नः क­थं­चि­प्र­त्य­क्ष­त्व­म­नि­वा­र्यं प्र­त्य­क्षा­द­भि­न्न­स्य क­थं­चि­द­प्र­त्य­क्ष­त्वै­कां­त­वि­रो- धात् । ए­ते­ना­प्र­त्य­क्ष ए­वा­त्मे­ति प्र­भा­क­र­म­त­म­पा­स्तं । यस्य तु क­र­ण­ज्ञा­न­व­त्फ­ल­ज्ञा­न­म­पि परोक्षं पुरुषः प्रत्यक्ष इति मतं तस्यापि पु­रु­षा­त्प्र­त्य­क्षा­त् क­थं­चि­द­भि­न्न­स्य फ­ल­ज्ञा­न­स्य क­र­ण­ज्ञा­न­स्य च प्र­त्य­क्ष­ता­प­त्तिः क­थं­चि­त्क- थ­म­प­क्रि­य­ते ? ततो न भ­ट्ट­म­त­म­पि वि­चा­र­णां प्रांचति इति स्व­व्या­व­सा­या­त्म­कं स­म्य­ग्ज्ञा­नं­, अ­र्थ­प­रि­च्छि­त्ति­नि- मि­त्त­त्वा­त् आ­त्म­व­दि­ति व्य­व­ति­ष्ट­ते । ने­त्रा­लो­का­दि­भि­र्व्य­भि­चा­रः सा­ध­न­स्ये­ति न मंतव्यं ते­षा­मु­प­चा­र­तो­ऽ­र्थ ३०प­रि­च्छि­त्ति­नि­मि­त्त­त्व­व­च­ना­त्­, प­र­मा­र्थ­तः प्रमातुः प्र­मा­ण­स्य च त­न्नि­मि­त्त­त्व­घ­ट­ना­त् । अ­त्रा­प­रः क­पि­ल­म­ता­नु­सा­री प्रा­ह­–­न स­म्य­ग्ज्ञा­नं स्व­व्य­व­सा­या­त्म­कं­, अ­चे­त­न­त्वा­त् घ­टा­दि­व­न­त् न तच्चेत न­म­नि­त्य­त्वा­त् । त­द्व­द­नि­त्यं चो­त्प­त्ति­नि­मि­त्त­त्वा­त् वि­द्यु­दा­दि­व­त् । यत्तु स्व­सं­वे­द्यं त­च्चे­त­नं नि­त्य­म­नु­त्प­त्ति­ध­र्म­कं च सिद्धं यथा पु­रु­ष­त­त्त्व­मि­ति सोऽपि न न्या­य­वे­दी व्य­भि­चा­रि­सा­ध­ना­भि­धा­ना­त् । उ­त्प­त्ति­म­त्त्वं हि तावद- नित्यतां व्य­भि­च­र­ति नि­र्वा­ण­स्या­नं­त­स्या­प्यु­त्प­त्ति­म­त्त्वा­त् । त­थै­वा­नि­त्य­त्व­म­चे­त­न­त्वं व्य­भि­च­र­ति पु­रु­ष­भो­ग­स्य ३५का­दा­चि­त्क­त्व­स्य बु­द्ध्य­ध्य­व­सि­ता­र्था­पे­क्ष­स्य चे­त­न­त्वे­ऽ­प्य­नि­त्य­त्व­स­म­र्थ­ना­त् । अ­चे­त­न­त्वं तु स­म्य­ग्ज्ञा­न­स्या­शु­द्ध­मे­व त­स्मा­द­चे­त­ना­द्वि­वे­क­ख्या­ति­वि­रो­धा­त् । चे­त­न­सं­स­र्गा­च्चे­त­नं ज्ञा­न­मि­त्य­पि वार्तं शा­री­रा­दे­र­पि चे­त­न­त्व­सं­गा­त् । ज्ञानस्य चे­त­न­सं­स­र्गो विशिष्ट इति चेत् स कोऽन्यः क­थं­चि­त्ता­दा­त्म्या­त् । त­त­श्चे­त­ना­त्म­क­मे­व ज्ञा­न­म­नु­मं­त­व्य- मि­त्य­चे­त­न­म­सि­द्धं । ६२य­द­प्य­भ्य­धा­यि सां­ख्यैः­–­ज्ञा­न­म­चे­तं प्र­धा­न­प­रि­णा­म­त्वा­त् म­हा­भू­त­व­दि­ति तदपि न श्रेयः पक्षस्य स्वसं- वे­द­न­प्र­त्य­क्ष­बा­धि­त­त्वा­त् । प्र­ति­वा­दि­नः का­ला­त्य­या­प­दि­ष्ट­त्वा­च्च सा­ध­न­स्य । त­था­नु­मा­न­बा­धि­तः पक्षः परं प्रति चेतनं ज्ञानं स्व­सं­वे­द्य­त्वा­त् पु­रु­ष­व­त् । यत्तु न चेतनं न त­त्स्व­सं­वे­द्यं यथा क­ल­शा­दी­ति व्यति- रे­क­नि­श्च­या­त् ने­द­म­नु­मा­न­म­ग­म­कं । ज्ञानस्य स्व­सं­वे­द्य­त्व­म­सि­द्धं ? इति चेन्न त­स्या­स्व­सं­वे­द्य­त्वे अ­र्थ­सं­वे­द­न­वि- ०५रो­धा­दि­त्यु­क्त­प्रा­यं । एतेन न स्व­सं­वे­द्यं विज्ञानं का­या­का­र­प­रि­ण­त­भू­त­प­रि­णा­म­त्वा­त् पि­त्ता­दि­व­दि­ति वदंश्चा- र्वाकः प्र­ति­क्षि­प्तः । न चेदं साधनं सिद्धं भू­त­वि­शे­ष­प­रि­णा­म­त्वा­सि­द्धेः सं­वे­द­न­स्य बा­ह्यें­द्रि­य­प्र­त्य­क्ष­त्व­प्र­सं­गा­त् गं­धा­दि­व­त् । सू­क्ष्म­भू­त­वि­शे­ष­प­रि­णा­म­त्वा­त् न बा­ह्यें­द्रि­प­प्र­त्य­क्षं ज्ञा­न­मि­ति चेत् स तर्हि सू­क्ष्म­वि­शे­षः स्प­र्शा­दि­भिः प­रि­व­र्जि­तः स्व­य­म­स्प­र्शा­दि­मा­न् सं­वे­द­नो­पा­दा­न­हे­तुः सर्वदा बा­ह्यें­द्रि­या­वि­ष­यः क­थ­मा­त्मै­व नामां- तरेण नि­ग­दि­तो न भवेत् । तस्य त­तो­ऽ­न्य­त्वे भू­त­च­तु­ष्ट­य­वि­ल­क्ष­ण­त्वा­त् त­त्त्वां­त­रा­प­त्ति­र­दृ­ष्ट­प­रि­क­ल्प­ना च १०प्र­स­ज्ये­त त­था­त्म­नः प्र­मा­ण­सि­द्ध­त्वा­त् त­त्प­रि­णा­म­स्यै­व ज्ञानस्य घ­ट­ना­त् । तत इदं व्य­व­ति­ष्ट­ते स्व­व्य­व­सा- यात्मकं स­म्य­ग्ज्ञा­नं चे­त­ना­त्म­प­रि­णा­म­त्वे स­त्य­र्थ­प­रि­च्छे­द­क­त्वा­त् यत्तु न स्व­व्य­व­सा­या­त्म­कं न तत्तथा यथा घटः तथा च स­म्य­ग्ज्ञा­नं त­स्मा­त्स्व­व्य­व­सा­या­त्म­कं इति स­म्य­ग्ज्ञा­न­ल­क्ष­णं प्र­मा­ण­सि­द्धं । ननु प्र­मा­ण­त­त्त्व­स्य प्र­मे­य­त­त्त्व­व­दु­प­प्लु­त­त्वा­त् न तत्त्वतः किं­चि­त्प्र­मा­णं सं­भ­व­ति इति कस्य ल­क्ष­ण­म­भि- धीयते ल­क्ष्या­नु­वा­द­पू­र्व­क­त्वा­ल्ल­क्ष­णा­भि­धा­न­स्य । प्रसिद्धं ल­क्ष्य­म­नू­द्य लक्षणं वि­धी­य­त इति ल­क्ष्य­ल­क्ष­ण­भा­व­वा­दि- १५भि­र­भ्यु­प­ग­मा­त् इति के­चि­द­मं­स­त तेषां त­त्त्वो­प­प्ल­व­मा­त्र­मि­ष्टं सा­ध­यि­तुं तदा सा­ध­न­म­भ्यु­प­गं­त­व्यं । तच्च प्रमा- णमेव भवति तथा चे­द­म­भि­धी­य­ते­–­त­त्त्वो­प­प्ल­व­वा­दि­नो­ऽ­प्य­स्ति प्र­मा­णं­, इ­ष्ट­सा­ध­ना­न्य­था­नु­प­प­त्तेः । प्रमाणा- भा­वे­ऽ­पी­ष्ट­सि­द्धौ सर्वं सर्वस्य यथेष्टं सिद्ध्येत् इ­त्य­नु­प­प्लु­त­त­त्त्व­सि­द्धि­र­पि किं न स्यात् सर्वथा वि­शे­षा­भा­वा­त् । स्या­दा­कू­तं न स्वेष्टं वि­धि­प्रा­धा­न्ये­न साध्यते येन त­त्त्वो­प­प्ल­वं सा­ध­य­तः प्र­मा­ण­सि­द्धिः प्र­स­ज्ये­त । किं तर्हि ? प­रा­भ्यु­प­ग­त­प्र­मा­णा­दि­त­त्त्व­नि­रा­क­र­ण­सा­म­र्थ्या­त् प­री­क्ष­क­ज­न­य­त­स्त­त्त्वो­प­प्ल­व­म­नु­स­र­ति ग­त्यं­त­रा­भा­वा­त् । २०तथाहि — प्र­मा­ण­त्वं कस्य चि­त्कि­म­दु­ष्ट­का­र­ण­ज­न्य­त्वे­न बा­धा­र­हि­त­त्वे­न वा प्र­वृ­त्ति­सा­म­र्थ्ये­न वा अ­र्थ­क्रि­या- प्रा­प्ति­नि­मि­त्त­त्वे­न वा व्य­व­ति­ष्ट­ते ? न ता­व­द­दु­ष्ट­ज­न्य­त्वे­न तस्य प्र­त्य­क्ष­तो गृ­ही­तु­म­श­क्तेः क­र­ण­कु­श­ला­दे­र­पि प्र­मा­ण­का­र­ण­त्वा­त् । तस्य चा­तीं­द्रि­य­त्वो­प­ग­मा­त् । न चा­नु­मा­न­म­दु­ष्टं का­र­ण­मु­न्ने­तुं समर्थं त­द­वि­ना­भा­वि­लिं- गा­भा­वा­त् । स­त्य­ज्ञा­नं लिं­ग­मि­ति चेत् न प­र­स्प­रा­श्र­य­णा­त् । सति ज्ञानस्य सत्यत्वे त­त्का­र­ण­स्या­दु­ष्ट­त्व- नि­श्च­या­त् । त­स्मि­न्स­ति ज्ञानस्य स­त्य­त्व­सि­द्धेः । यदि पु­न­र्बा­धा­र­हि­त­त्वे­न सं­वे­द­न­स्य प्रामाण्यं साध्यते २५तदा किं क­दा­चि­त्क्व­चि­द्बा­ध­का­नु­त्प­त्त्या त­त्सि­द्धि­रा­हो­स्वि­त् सर्वत्र सर्वदा सर्वस्य प्र­ति­प­त्तु­र्बा­ध­का­नु­त्प- त्तेरिति प­क्ष­द्व­य­म­व­त­र­ति । प्र­थ­म­प­क्षे म­री­चि­का­च­क्रे स­लि­ल­सं­वे­द­न­म­पि प्र­मा­ण­म­स­ज्य­ते दू­र­स्थि­त­स्य त- त्सं­वे­द­न­का­ले कस्य चि­त्प्र­ति­प­त्तु­र्बा­ध­का­नु­त्प­त्तेः । द्वि­ती­य­प­क्षे तु स­क­ल­दे­श­का­ल­पु­रु­षा­णां बो­ध­का­नु­त्प­त्तिः­ —क­थ­म­स­र्व­वि­दो­ऽ­व­बो­द्धुं शक्येत त­त्त­त्प्र­ति­प­त्तुः स­र्व­वे­दि­त्व­प्र­सं­गा­त् । यदि पुनः प्र­वृ­त्ति­सा­म­र्थ्ये­न ज्ञानस्य प्रा­मा­ण्य­मु­न्नी­य­ते तदा प्र­मा­णे­ना­र्थ­मु­प­ल­ब्ध­व­त­स्त­द­र्थे प्र­वृ­त्ति­र्य­दी­ष्य­ते त­द्दे­शो­प­स­र्प­ण­ल­क्ष­णा तस्याः ३०सामर्थ्यं च फ­ले­ना­भि­सं­बं­धः स­जा­ती­य­ज्ञा­नो­त्प­त्ति­र्वा त­दे­त­रा­श्र­य­दो­षो दु­रु­त्त­रः स्यात् । सति सं­वे­द­न­प्र­मा- ण­त्व­नि­श्च­ये ते­ना­र्थ­प्र­ति­प­त्तौ प्रवृत्तेः । त­त्सा­म­र्थ्य­स्य च घ­ट­ना­त् प्र­वृ­त्ति­सा­म­र्थ्य­स्य निश्चये च ते­ना­र्थ­सं­वे- दनस्य प्र­मा­ण­त्व­नि­र्णी­तेः प्र­का­रां­त­रा­सं­भ­वा­त् । अ­था­र्थ­क्रि­या­नि­मि­त्त­त्वे­न सं­वे­द­नं प्र­मा­ण­ता­मा­स्कं­द­ति तदा कु­त­स्त­स्य त­न्नि­श्च­यः स्यात् ? । प्र­ति­प­त्तु­र­र्थ­क्रि­या­ज्ञा­ना­दि­ति चेत् कु­त­स्त­स्य प्र­मा­ण­त्व­सि­द्धिः ? । प­र­मा­र्थ- क्रि­या­ज्ञा­नां­त­रा­च्चे­त् क­थ­म­न­व­स्था न भवेत् । अ­था­द्य­सं­वे­द­ना­दे­वा­र्थ­क्रि­या­ज्ञा­न­स्य माण्यं मन्यते तदा ३५प­र­स्प­रा­श्र­य­दो­षः । स­त्य­र्थ­क्रि­या­ज्ञा­न­स्य प्र­मा­ण­त्व­नि­श्च­ये त­द्ब­ला­दा­द्य­सं­वे­द­न­स्या­र्थ­क्रि­या­प्रा­प्ति­नि­मि­त्त­त्वे­न प्रा­मा­ण्य­नि­श्च­य­स्त­त्प्रा­मा­ण्य­नि­श्च­या­च्च अ­र्थ­क्रि­या­सं­वे­द­न­स्य प्र­मा­ण­ता­सि­द्धिः का­र­णां­त­रा­भा­वा­त् । ततो न प्र­मा­ण­त्वं वि­चा­र्य­मा­णं वा व्य­व­ति­ष्ठ­ते त­द­व­स्था­ना­भा­वे च न प्र­मे­य­त्व­सि­द्धिः इति त­दे­त­त्स­क­लं प्र­ला­प­मा­त्रं प­रा­भि­म­त­प्र­मा­ण­त­त्त्व­नि­रा­क­र­ण­स्य स्व­य­मि­ष्ट­स्य प्र­मा­ण­मं­त­रे­ण सि­द्ध्य­यो­गा­त् तस्य स्व­य­मि­ष्ट­त्वे सा­ध­ना­नु­प­प­त्ते प­र­प­र्य­नु­यो­ग­मा­त्र­स्य क­र­णा­द­दो­षो­ऽ­यं । ६३ प­र­प­र्य­नु­यो­ग­प­रा­णि हि बृ­ह­स्प­तेः सूत्राणि इति व­च­ना­त् सर्वत्र स्वा­तं­त्र्या­भा­वा­दि­त्ये­त­द­पि य­त्किं­च­न भा­ष­ण­मे­व । कि­म­दु­ष्ट­का­र­ण­ज­न्य­त्वे­न प्रा- माण्यं साध्यते बा­धा­र­हि­त­त्वे­ने­वे­त्या­दि पक्षाणां क्व­चि­न्नि­र्ण­या­भा­वे सं­दे­हा­भा­वा­त् प­र­प­र्य­नु­यो­गा­यो­गा­त् । स्या­दा­कू­तं प­रा­भ्यु­प­ग­मा­त् त­न्नि­श्च­य­सि­द्धेः सं­श­यो­त्प­त्ते­र्यु­क्तः प्रश्नः, त­था­हि­–­मी­मां­स­का­भ्यु­प­ग­मा­त् ०५ता­व­द­दु­ष्ट­का­र­ण­ज­न्य­त्वं बा­धा­व­र्जि­त­त्वं च निर्णीतं नि­श्चि­त­त्वा­पू­र्वा­र्थ­त्व­लो­क­स­म्म­त­त्व­व­त् । तदुक्तं — त­त्रा­पू­र्वा­र्थ­वि­ज्ञा­नं निश्चितं बा­ध­व­व­र्जि­तं । अ­दु­ष्ट­का­र­णा­र­ब्धं प्रमाणं लो­क­स­म्म­तं ॥ १ ॥ इति तथा प्र­वृ­त्ति­सा­म­र्थ्य­म­पि नै­या­यि­का­भ्यु­प­ग­मा­न्नि­र्णी­तं­ — प्र­मा­ण­तो­ऽ­र्थ­प्र­ति­प­त्तौ प्र­वृ­त्ति­सा­म­र्थ्या­द­र्थ­व­त्प्र­मा­णं १०इति व­च­ना­त् । त­था­र्थ­क्रि­या­प्रा­प्ति­नि­मि­त्त­त्व­म­वि­सं­वा­दि­त्व­ल­क्ष­णं सौ­ग­ता­भ्यु­प­ग­मा­न्नि­र्णी­त­मे­व प्रमाण- म­वि­सं­वा­दि­ज्ञा­नं अ­र्थ­क्रि­या­स्थि­तिः अ­वि­सं­वा­द­नं श­ब्दो­ऽ­प्य­भि­प्रा­य­नि­वे­द­ना­दि­ति व­च­ना­त् । त­दि­दा­नीं चार्वाक- म­ता­नु­सा­रे­ण संदिह्य प­र्य­नु­यु­ज्य­मा­नं न किं­चि­दु­पा­लं­भ­म­र्ह­ति इति त­दे­त­द­पि न व्यवस्थां प्र­ति­प­द्य­ते पराभ्यु- प­ग­म­स्य प्र­मा­णा­प्र­मा­ण­पू­र्व­क­त्वे सं­श­या­प्र­वृ­त्तेः तथाहि यदि प­रे­षा­म­भ्यु­प­ग­मः प्र­मा­ण­पू­र्व­कः तदा कथं संदेहः ? प्र­मा­ण­पू­र्व­क­स्य नि­र्णी­त­त्वा­त् । निर्णीतेः सं­श­य­वि­रो­धा­त् । अ­था­प्र­मा­ण­पू­र्व­कः तथापि न संदेहः प्र­व­र्त­ते तस्य १५क्व­चि­त्क­दा­चि­त्क­थं­चि­त् नि­र्ण­य­पू­र्व­क­त्वा­त् । त­न्नि­र्ण­य­स्या­पि प्र­मा­ण­पू­र्व­क­त्वा­त् । प्र­मा­णा­भा­वे प्र­मा­ण्य­नि­श्च­या­त् त­न्नि­श्च­य­नि­बं­ध­न­स्य च प्र­मा­णां­त­र­स्या­भ्य­स्त­वि­ष­य­त्वे सर्वथा त­द­नु­प­प­त्ते­रि­त्य­लं प्र­सं­गे­न स­र्व­स्ये­ष्ट­स्य संसिद्धेः प्र­मा­ण­प्र­सि­द्धे­र­बा­ध­ना­त् अ­न्य­था­ति­प्र­सं­ग­स­म­र्थ­ना­दि­ति । एतेन सर्वथा शून्यं सं­वि­द­द्वै­तं पु­रु­ष­द्वै­तं श­ब्दा­द्वै­तं वा स­मा­श्रि­त्य प्र­मा­ण­प्र­मे­य­भा­गं नि­रा­कु­र्वा­णाः प्र­त्या­ख्या­ताः स्व­य­मा­श्रि­त­स्य सर्वथा शून्यस्य सं­वि­द­द्वै­ता­दे­र्वा क­थं­चि­दि­ष्ट­त्वे प्र­मा­ण­सं­सि­द्धे­र्व्य­व­स्था­प­ना­त् । त­स्या­प्य­नि­ष्ट­त्वे त­द्वा­दि­त्व­वि­रो­धा­त् । प्र­ला­प­मा­त्रा­नु­स­र­णा­प­त्तेः २०प­री­क्ष­क­त्व­व्या­घा­ता­त् इति । तदेवं प्र­मा­ण­त­त्त्व­नि­र्णी­तौ प्र­मे­य­त­त्त्व­सि­द्धि­र्नि­र्बा­धा व्य­व­ति­ष्ठ­त एव । ननु चैव प्र­मा­ण­सि­द्ध­म­पि किं स्वतः प्र­मा­ण्य­मा­त्म­सा­त्कु­र्वी­ति परतो वा ? न ता­व­त्स्व­तः सर्वत्र सर्वदा सर्वस्य त­द्वि­प्र­ति­प­त्त्य­भा­व­प्र­सं­गा­त् । नापि प­र­तः­–­अ­न­व­स्था­नु­ष­गा­त् प­रा­प­र­प्र­मा­णा­न्वे­ष­णा­त् क्व­चि­द­व­स्थि­ते­र­यो- गात् । प्र­थ­म­प्र­मा­णा­द्द्वि­ती­य­स्य प्रा­मा­ण्य­सा­ध­ने द्वि­ती­या­च्च प्र­थ­म­स्य प­र­स्प­रा­श्र­या­णा­प­त्तेः प्र­का­रां­त­रा­भा­वा­दि­ति के­चि­त्ते­ऽ­प्य­स­मी­क्षि­त­व­च­सः सं­ल­क्ष्यं­ते स्व­य­म­भ्य­स्त­वि­ष­ये प्र­मा­ण­स्य स्वतः प्रा­मा­ण्य­सि­द्धेः स­क­ल­वि­प्र­ति­प­त्ती- २५नामपि प्र­ति­प­त्तु­र­भा­वा­त् अन्यथा तस्य प्रमेये नि­स्सं­श­यं प्र­वृ­त्त्य­यो­गा­त् । त­था­न­भ्य­स्त­वि­ष­ये परतः प्र­मा­ण­स्य प्रा­मा­ण्य­नि­श्च­या­त् त­न्नि­श्च­य­नि­मि­त्त­स्य च प्र­मा­णां­त­र­स्या­भ्य­स्त­वि­ष­य­त्वे स्वतः प्र­मा­ण­त्व­सि­द्धेः अ­न­व­स्था­प- र­स्प­रा­श्र­य­ण­यो­र­न­व­का­शा­त् । त­स्या­प्य­न­भ्य­स्त­वि­ष­य­त्वे परतः प्र­मा­णा­द­भ्य­स्त­वि­ष­या­त् स्व­तः­सि­द्ध­प्रा­मा­ण्या­त् प्र­मा­ण­त्व­नि­श्च­या­त् सू­द­र­म­पि गत्वा क­स्य­चि­द­भ्य­स्त­वि­ष­य­स्य प्र­मा­ण­स्या­व­श्यं­भा­वि­त्वा­त् अन्यथा प्र­मा­ण­त­दा- भा­स­व्य­व­स्था­नु­प­प­त्तेः त­द­भा­व­व्य­व­स्था­नु­प­प­त्ति­व­त् । कुतः पुनः प्र­ति­प­त्तुः क्व­चि­द्वि­ष­ये­ऽ­भ्या­सः क्व­चि­द­न- ३०भ्यासः स्यात् ? इति चेत् त­त्प्र­ति­बं­ध­क­द­शा­वि­शे­ष­वि­ग­मा­भ्यां क्व­चि­द­भ्या­सा­न­भ्या­सौ स्यातां इति ब्रूमहे प­रि­दृ­ष्ट­का­र­ण­व्य­भि­चा­रा­द­दृ­ष्ट­स्य का­र­ण­स्य सिद्धेः तन्नः कर्म ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­या­ख्यं सिद्धं तस्य क्ष­यो­प­श­मा- त्कस्य चित् क्व­चि­द­भ्या­स­ज्ञा­नं त­त्क्ष­यो­प­श­मा­भा­वे वा ऽ­न­भ्या­स­ज्ञा­न­मि­ति सु­व्य­व­स्थि­तं प्र­मा­ण­स्य प्रमाण्यं सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­प्र­मा­ण­त्वा­त् स्व­य­मि­ष्ट­व­स्तु­व­त् स­र्व­त्रे­ष्ट­सि­द्धे­स्त­न्मा­त्र­नि­बं­ध­न­त्वा­द­न्य­था सर्वस्य तत्त्व- प­री­क्षा­या­म­न­धि­का­रा­दि­ति स्थि­त­मे­त­त् — ३५प्रा­मा­णा­दि­ष्ट­सं­सि­द्धि­र­न्य­था­ति­प्र­सं­ग­तः । प्रामाण्यं तु स्व­तः­सि­द्ध­म­भ्या­सा­त्प­र­तो­ऽ­न्य­था ॥ १ ॥ इति एवं प्र­मा­ण­ल­क्ष­णं व्य­व­सा­या­त्म­कं स­म्य­ग्ज्ञा­नं प­री­क्षि­तं त­त्प्र­त्य­क्षं परीक्षं वेति सं­क्षे­पा­दू द्वि­त­य­मे­व व्य­व­ति­ष्ठ­ते ६४ स­क­ल­प्र­मा­णा­ना­म­त्रै­वां­त­र्भा­वा­दि­ति वि­भा­व­ना­त् । प­र­प­रि­क­ल्पि­तै­क­द्वि­त्र्या­दि­प्र­मा­ण­सं­खा­नि­य­मे त­द­घ­ट­ना­त् । त­था­हि­–­ये­षां प्र­त्य­क्ष­मे­क­मे­व प्रमाणं न ते­षा­म­नु­मा­ना­दि­प्र­मा­णां­त­र­स्यां­त­र्भा­वः सं­भ­व­ति त­द्वि­ल­क्ष­ण­त्वा­त् । प्र­त्य­क्ष­पू­र्व­क­त्वा­द­नु­मा­ना­देः प्र­त्य­क्ष­भा­वः इ­त्य­यु­क्तं प्र­त्य­क्ष­स्या­पि क्व­चि­द­नु­मा­न­पू­र्व­क­त्वा­द­नु­मा­ना­दि­श्वं­त­र्भा­व­प्र­सं- गात् । यथैव हि ध­र्मि­हे­तु­दृ­ष्टां­त­प्र­त्य­क्ष­पू­र्व­क­म­नु­मा­नं श्रो­त्र­प्र­त्य­य­पू­र्व­कं च शाब्दं । सा­दृ­श्या­न­न्य­था­भा­व­नि­षे­ध्या­धा­र- ०५व­स्तु­ग्रा­हि प्र­त्य­क्ष­पू­र्व­का­णि चो­प­मा­ना­र्था­प­त्त्य­भा­व­प्र­मा­णा­नि त­था­–­अ­नु­मा­ने­न कृशानुं निश्चित्य तत्र प्रवर्त- मानस्य प्र­त्य­क्ष­म­नु­मा­न­पू­र्व­कं रू­पा­द्र­सं सं­प्र­ति­प­द्य रसे रा­स­न­स­म­क्ष­व­त् । शब्दाच्च मृष्टं पा­न­क­म­व­ग­म्य तत्र प्रवृत्तौ प्रत्यक्षं शा­ब्द­पू­र्व­कं । क्षीरस्य सं­त­र्प­ण­श­क्ति­म­र्था­प­त्त्या­धि­ग­म्य क्षीरे प्र­वृ­त्त­स्य त­दा­त्म­के प्र­त्य­क्ष­म­र्था­प­त्ति­पू­र्व­कं । गो­सा­दृ­श्या­द्ग­व­य­म­व­सा­य तं व्य­व­ह­र­तः प्र­त्य­क्ष­नु­मा­न­पू­र्व­कं । गृहे स­र्पा­भा­व­म­भा­व­प्र­मा­णा­द्वि­भा­व्य प्र­वि­श­तः प्र­त्य­क्ष­म­भा­व­पू­र्व­कं प्र­ती­य­ते एव ततः प्र­त्य­क्ष­मे­व गौ­ण­त्वा­द­प्र­मा­णं न पु­न­र­नु­मा­ना­दि­कं त­स्या­गौ­ण­त्वा­दि­ति १०शुष्के प­ति­ष्या­मि इति जातः पातः कर्दमे । स्या­दा­कू­तं न प्र­त्य­क्षं­–­अ­नु­मा­ना­ग­मा­र्था­प­त्त्यु­प­मा­ना­भा­व­सा­म­ग्री­पू­र्वं­क्वं त­द­भा­वे­ऽ­पि च­क्षु­रा­दि­सा­म­ग्री­मा­त्रा- त्तस्य प्रसूतेः प्र­सि­द्ध­त्वा­त् । त­द­भा­व एव अ­भा­व­नि­य­मा­दि­ति त­द­प्य­स­त् लैं­गि­का­दी­ना­म­पि प्र­त्य­क्ष­पू­र्व­क­त्वा­भा- वात् । लिं­ग­श­ब्दा­न­न्य­था­भा­व­सा­दृ­श्य­प्र­ति­यो­गि­स्म­र­णा­दि­सा­म­ग्री­स­द्भा­व एव भावात् । सत्यपि प्रत्यक्षे स्वसामि- ग्र्य­भा­वे­ऽ­नु­मा­ना­दी­ना­म­भा­वा­त् । ततः किं ब­हु­नो­क्ते­न प्र­ति­नि­य­त­सा­म­ग्री­प्र­भ­व­त­या प्र­मा­ण­भे­द­म­भि­म­न्य­मा­ने १५प्र­त्य­क्ष­व­द­नु­मा­ना­दी­ना­म­पि अ­गौ­ण­त्व­म­नु­मं­त­व्यं प्र­ति­नि­य­त­स्व­वि­ष­य­व्य­व­स्था­यां प­रा­पे­क्षा­वि­र­हा­त् । यथैव हि प्रत्यक्षं सा­क्षा­त्स्वा­र्थं प­रि­च्छि­त्तौ ना­नु­मा­ना­द्य­पे­क्षं त­था­नु­मा­न­म­नु­मे­य­नि­र्णी­तौ न प्र­त्य­क्षा­पे­क्ष­मु­त्प्रे­क्ष­ते प्र­त्य­क्ष­स्य ध­र्मि­हे­तु­दृ­ष्टां­त­ग्र­ह­ण­मा­त्रे प­र्य­व­सि­त­त्वा­त् । नापि शाब्दं श­ब्द­प्र­ति­पा­द्ये­ऽ­र्थे प्र­त्य­क्ष­म­नु­मा­नं चो­पे­क्ष­ते तयोः शब्द- श्र­व­ण­मा­त्रे श­ब्दा­र्थ­सं­बं­धा­नु­मा­त्रे व्या­पा­रा­त् । न­त्व­र्था­प­त्तिः प्र­त्य­क्ष­म­नु­मा­न­मा­ग­मं चा­पे­क्ष­ते अ­भा­वो­प­मा­न­व­त् । तस्याश्च प्र­त्य­क्षा­दि­प्र­मा­ण­प्र­मि­ता­र्था­वि­ना­भा­वि­न्य­दृ­ष्टे­ऽ­र्थे नि­र्ण­य­नि­बं­ध­न­त्वा­त् । प्र­त्य­क्षा­दी­ना­म­र्था­प­त्त्यु­त्था­प­क २०प­दा­र्थ­नि­श्च­य­मा­त्रे व्या­वृ­त्त­त्वा­त् । न­चो­प­मा­नं प्र­त्य­क्षा­दी­न्य­पे­क्ष­ते त­स्यो­प­मे­ये­ऽ­र्थे नि­श्च­य­का­र­णे प्र­त्य­क्षा­दि नि­र­पे­क्ष­त्वा­त् । प्र­त्य­क्षा­देः सा­दृ­श्य­प्र­ति­प­त्ति­मा­त्रे ऽ­न­धि­का­रा­त् । न­चा­भा­व­प्र­मा­णं प्र­त्य­क्षा­दि­सा­पे­क्षं निषेध्या- धा­र­व­स्तु­ग्र­ह­णे तस्य सा­म­र्थ्या­त् । प­रं­प­र­या­नु­मा­ना­दी­नां प्र­त्य­क्ष­पू­र्व­क­त्वं प्र­त्य­क्ष­स्या­प्य­नु­मा­ना­दि­पू­र्व­क­त्वं दुःशक्यं प­रि­ह­र्तुं । कथं चायं प्रत्यक्षं प्रमाणं व्य­व­स्था­प­ये­त् स्वत एवेति चेत् कि­मा­त्म­स­बं­धि स­र्व­सं­बं­धि वा ? प्र­थ­म­क­ल्प­ना­यां न स­क­ल­दे­श­का­ल­पु­रु­ष­प­रि­ष­त्प्र­त्य­क्षं प्रमाणं सिद्ध्येत् । द्वि­ती­य­क­ल्प­ना­या­म­पि न स्व­प्र­त्य­क्षा- २५त्स­क­ल­प­र­प्र­त्य­क्षा­णां प्रामाण्यं सा­ध­यि­तु­मी­शः ते­षा­म­नीं­द्रि­य­त्वा­त् वा­दि­प्र­त्य­क्षा­गो­च­र­त्वा­त् । यदि पुनः सक- ल­पु­रु­ष­प्र­त्य­क्षा­णि स्वस्मिन् स्वस्मिन् विषये स्वतः प्रा­मा­ण्य­म­नु­भ­वं­ति इति मतं तदा कु­त­स्त­त्सि­द्धिः ? । वि­वा­दा­ध्या­सि­ता­नि स­क­ल­दे­श­का­ल­व­र्ति­पु­रु­ष­प्र­त्य­क्षा­णि स्वतः प्रा­मा­ण्य­मा­प­द्यं­ते प्र­त्य­क्ष­त्वा­त् य­द्य­त्प्र­त्य­क्षं त­त्त­त्स्व­तः प्रा­मा­ण्य­मा­प­द्य­मा­नं सिद्धं यथा म­त्प्र­त्य­क्षं प्र­त्य­क्षा­णि च वि­वा­दा­ध्या­सि­ता­नि त­स्मा­त्स्व­तः प्रामा- ण्य­मा­प­द्यं­ते स­क­ल­प्र­त्य­क्षा­णां स्व­तः­प्रा­मा­ण्य­सा­ध­ने सि­द्ध­म­नु­मा­नं प्र­त्य­क्ष­त्वे­न स्व­भा­व­हे­तु­ना प्र­त्य­क्ष­स्य स्वतः ३०प्रा­मा­ण्य­सा­ध­ना­त् । शिं­शु­पा­त्वे­न व­न­स्प­तेः वृ­क्ष­त्व­सा­ध­न­व­त् । प्र­ति­प­द्य­बु­द्ध्या त­था­नु­मा­न­व­च­ना­द­दो­ष इति चेत् ? प्र­ति­पा­द्य­बु­द्धिं प्र­ति­प­द्य अ­प्र­ति­प­द्य वा त­या­नु­मा­न­प्र­यो­गः स्यात् ? न ता­व­द­प्र­ति­प­द्य अ­ति­प्र­सं­गा­त् । प्र­ति­प­द्य त­द्बु­द्धि­त­या­नु­मा­न­प्र­यो­गे कु­त­स्त­त्प्र­पि­त्तिः ? व्य­व­हा­रा­दि­का­र्य­वि­शे­षा­दि­ति चेत् सिद्धं कार्यात्का- र­णा­नु­मा­नं धू­मा­त्पा­व­का­नु­मा­न­व­त् । यदि पु­न­र्लो­क­व्य­व­हा­रा­त् प्र­ति­प­द्य­त ए­वा­नु­मा­नं लौ­का­य­ति­कैः प­र­लो­का- दे­वा­नु­मा­न­स्य नि­रा­क­र­णा­त् त­स्या­भा­वा­दि­ति मतं तदापि कुतः प­र­लो­का­द्य­भा­व­प्र­ति­प­त्तिः न ता­व­त्प्र­त्य­क्षा­त् ३५तस्य त­द­गो­च­र­त्वा­त् नास्ति प­र­लो­का­दिः अ­नु­प­ल­ब्धेः ख­पु­ष्प­व­दि­ति त­द­भा­व­सा­ध­ने­ऽ­नु­प­ल­ब­धि­ल­क्ष­ण­म­नु- मा­न­मा­या­तं । तदुक्तं ध­र्म­की­र्ति­ना — । प्र­मा­णे­त­र­सा­मा­न्य­स्थि­ते­र­न्य­धि­यो­ग­तेः । प्र­मा­णां­त­र­स­द्भा­वः प्र­ति­षे­धा­च्च क­स्य­चि­त् ॥ १ ॥ इति६५ततः प्र­त्य­क्ष­म­नु­मा­न­मि­ति द्वे एव प्रमाणे प्र­मे­य­द्वै­वि­ध्या­त् । न ह्या­भ्या­म­र्थं प­रि­छि­द्य प्र­व­र्त­मा­नो­ऽ­र्थ क्रियायां वि­सं­वा­द्य­त इति प्र­मा­ण­सं­ख्या­नि­य­मं सौगताः प्र­ति­प­द्यं­ते ते­षा­मा­ग­मो­प­मा­ना­दी­नां प्र­मा­ण­भे­दा­ना­म- संग्रह एव तेषां प्र­त्य­क्षा­नु­मा­न­यो­रं­त­र्भा­व­यि­तु­म­श­क्तेः । स्या­न्म­ति­रे­षा भवतां त­द­र्थ­स्य द्वै­वि­ध्या­त् द्व­यो­रं­त­र्भा­वः स्यात् । द्विविधो ह्यर्थः प्रत्यक्षः प­रो­क्ष­श्च । तत्र ०५प्र­त्य­क्ष­वि­ष­यः सा­क्षा­त्क्रि­य­मा­णः प्रत्यक्षः । परोक्षः पु­न­र­सा­क्षा­त्प­रि­च्छि­द्य­मा­नो­ऽ­नु­मे­य­त्वा­द­नु­मा­न­वि­ष­यः स हि प­दा­र्थां­त­रा­त्सा­क्षा­त्क्रि­य­मा­णा­त् प्र­ति­प­द्य­ते तच्च प­दा­र्थां­त­रं तेन प­रो­क्षे­णा­र्थे­न सबद्धं प्र­त्या­य­यि­तुं समर्थं नासं- बद्धं ग­वा­दे­र­प्य­श्वा­देः प्र­ती­ति­प्र­सं­गा­त् । संबद्धं चा­र्थां­त­रं लिं­ग­मे­व शब्दादि त­ज्ज­नि­तं च ज्ञा­न­म­नु­मा­न­मे­व ततो न प­रो­क्षे­ऽ­र्थे­ऽ­नु­मा­ना­द­न्य­त्प्र­मा­ण­म­स्ति श­ब्दो­प­मा­ना­दी­ना­म­पि त­था­नु­मा­न­त्व­सि­द्धेः । अन्यथा ततो- ऽ­र्थ­प्र­ति­प­त्तौ अ­ति­प्र­सं­गा­त् इति त­दे­त­द­पि न प­री­क्षा­क्ष­मं प्र­त्य­क्ष­स्या­पि त­था­नु­मा­न­त्व­प्र­सं­गा­त् । प्र­त्य­क्ष­म­पि १०हि स्व­वि­ष­ये संबद्धं त­त्प्र­त्या­य­न­स­म­र्थं । त­त्रा­सं­ब­द्ध­स्या­पि त­त्प्र­त्या­य­न­सा­म­र्थ्ये स­र्व­प्र­त्य­क्षं सर्वस्य नुः सर्वार्थ- प्र­त्या­य­न­स­म­र्थं स्यादिति क­थ­म­ति­प्र­सं­गो न स्यात् ? । यदि पुनः सं­बं­धा­धी­न­त्वा­वि­शे­षे­ऽ­पि प्र­त्य­क्ष­प­रो­क्षा­र्थ प्र­ति­प­त्तेः सा­क्षा­द­सा­क्षा­त्प्र­ति­भा­स­भे­दा­त् भे­दो­ऽ­भ्यु­प­ग­म्य­ते प्र­मा­णां­त­र­त्वे­न त­दें­द्रि­य­स्व­सं­वे­द­न­मा­न­स­यो­गि- प्र­त्य­क्षा­णा­म­पि प्र­मा­णां­त­र­त्वा­नु­षं­गः प्र­ति­भा­स­भे­दा­वि­शे­षा­त् । न हि यादृशः प्र­ति­भा­सो यो­गि­प्र­त्य­क्ष­स्य वि­श­द­त­म­स्ता­दृ­शो­ऽ­क्ष­ज्ञा­न­स्या­स्ति स्व­सं­वे­द­न­स्य म­नो­वि­ज्ञा­न­स्य वा ? य­था­भू­त­श्च स्व­सं­वे­द­न­प्र­त्य­क्षां­त­र्मु­खो वि- १५श­द­त­रः न त­था­भू­तो­ऽ­क्ष­ज्ञा­न­स्य । या­दृ­श­श्चा­क्ष­ज्ञा­न­स्य ब­हि­र्मु­खः स्फुटः प्र­ति­भा­सो न तादृशो मनोवि- ज्ञा­न­स्ये­ति कथं प्र­मा­णां­त­र­ता न भवेत् ? अथ प्र­ति­भा­स­वि­शे­षे­ऽ­पि त­च्च­तु­र्वि­ध­म­पि प्र­त्य­क्ष­मे­व न प्र­मा­णां­त­रं तर्हि प्र­त्य­क्षा­नु­मा­न­योः प्र­ति­भा­स­भे­दे­पि स्व­वि­ष­य­सं­बं­धा­वि­शे­षा­त्व प्र­मा­णां­त­र­त्वं माभूत् । यदि पुनः स्व­वि­ष­य­सं­ब­द्ध­त्वा­वि­शे­षे­ऽ­पि प्र­त्य­क्षा­नु­मा­न­योः सा­म­ग्री­भे­दा­त् प्र­मा­णां­त­र­त्व­मु­र­री­क्रि­य­ते तदा शाब्दो- प­मा­ना­दी­ना­म­पि तत एव प्र­मा­णां­त­र­त्व­मु­र­री­क्रि­य­तां । यथैव हि अ­क्षा­दि­सा­म­ग्री­तः प्र­त्य­क्षं­, लिंग- २०सा­म­ग्री­तो­ऽ­नु­मा­नं प्र­भ­व­ती­ति तयोः सा­मि­ग्री­भे­दः । त­था­ग­मः श­ब्द­सा­मि­ग्री­तः प्र­भ­व­ति । उ­प­मा­नं सा- दृ­श्य­सा­म­ग्री­तः । अ­र्था­प­त्ति­श्च प­रो­क्षा­र्था­वि­ना­भू­ता­र्थ­मा­त्र­सा­म­ग्र्याः । प्र­ति­षे­ध्या­धा­र­व­स्तु­ग्र­ह­ण­प्र­ति­षे­ध्य­स्म­र- ण­सा­म­ग्र्य­श्चा­भा­व इति प्रसिद्धः शा­ब्दा­दी­ना­म­पि सा­म­ग्री­भे­दः । तत ए­वा­क्ष­ज्ञा­ना­दि­प्र­त्य­क्ष­च­तु­ष्ट­य­स्य प्र­भे­द­प्र­सि­द्धेः नहि त­स्या­र्थ­भे­दो­ऽ­स्ति सा­क्षा­त्क्रि­य­मा­ण­स्या­र्थ­स्या­वि­शे­षा­त् त­द्व­ल्लिं­ग­श­ब्दा­दि­सा­म­ग्री­भे­दा- त्प­रो­क्षा­र्थ­वि­ष­य­त्वा­वि­शे­षे­प्य­नु­मा­ना­ग­मा­दी­नां भे­द­प्र­सि­द्धि­रि­ति ना­नु­मा­ने­ऽ­ṃ­त­र्भा­वः सं­भ­व­ति । तथा साध्य- २५सा­ध­न­सं­बं­ध­व्या­प्ति­प्र­ति­प­त्तौ न प्रत्यक्षं समर्थं । यावान् क­श्चि­द्धू­मः स सर्वः का­लां­त­रे दे­शां­त­रे च पावक- जन्मा, अ­न्य­ज­न्मा वा न भवति इ­त्ये­ता­व­तो व्या­पा­रा­न् क­र्तु­म­स­म­र्थ­त्वा­त् । स­न्नि­हि­ता­र्थ­मा­त्रा­दु­त्प­त्ते­र­वि­चा­र­क­त्वा­त् यो­गि­प्र­त्य­क्षं तत्र स­म­र्थ­मि­ति चेत् न दे­श­का­ल­यो­गि­प्र­त्य­क्ष­द्व­या­न­ति­क्र­मा­त् । दे­श­यो­गि­नः प्रत्यक्षं व्याप्ति- प्र­ति­प­त्तौ स­म­र्थ­मि­त्य­यु­क्तं त­त्रा­नु­म­न­वै­य­र्थ्या­त् । न हि यो­गि­प्र­त्य­क्षे­ण सा­क्षा­त्कृ­ते­षु सा­ध्य­सा­ध­न­वि­शे­षे­षु अ­शे­षे­षु फ­ल­व­द­नु­मा­नं । अथ स­क­ल­यो­गि­प्र­त्य­क्षे­ण व्या­प्ति­प्र­ति­प­त्ता­व­दो­ष इति चेन्न उ­क्त­दो­ष­स्या­त्रा­पि तद्- ३०व­स्थ­त्वा­त् । प­रा­र्थ­फ­ल­व­द­नु­मा­न­मि­ति चेत् ? न तस्य स्वा­र्था­नु­मा­न­पू­र्व­क­त्वा­त् । स्वा­र्था­नु­मा­ना­भा­वे च योगिनः कथं प­रा­र्था­नु­मा­नं नाम । यदि पुनः स­क­ल­यो­गि­नः प­रा­नु­ग्र­हा­य प्र­वृ­त्त­त्वा­त् प­रा­नु­ग्र­ह­स्य च श­ब्दा­त्म­क- प­रा­र्था­नु­मा­न­मं­त­रे­ण क­र्तु­म­श­क्तेः प­रा­र्था­नु­मा­न­सि­द्धिः­, तस्याश्च स्वा­र्था­नु­मा­ना­सं­भ­वे­ऽ­नु­त्प­द्य­मा­न­त्वा­त् स्वा­र्था­नु­मा­न­सि­द्धि­र­पि प­र­प्र­ति­पा­द­न­प्र­वृ­त्त­स्य सं­भा­व्य­त एवेति मतं तदा स योगी स्वा­र्था­नु­मा­ने च­तु­रा­र्य- सत्यानि निश्चित्य प­रा­र्था­नु­मा­ने­न परं प्र­ति­पा­द­य­न् ग्र­ही­त­व्या­प्ति­क­म­गृ­ही­त­व्या­प्ति­कं वा प्र­ति­पा­द­ये­त् ? यदि ३५गृ­ही­त­व्या­प्ति­कं तदा कु­त­स्ते­न गृहीता व्याप्तिः ? न ता­वा­दिं­द्रि­य­स्व­सं­वे­द­न­म­नो­वि­ज्ञा­नै­स्ते­षां त­द­वि­ष­य- त्वात् । यो­गि­प्र­त्य­क्षे­ण गृह्यते व्याप्तिः परेण तस्यापि दे­श­यो­गि­त्वा­त् इति चेत् तर्हि या­व­त­सु सा­ध्य­सा­ध­न- भेदेषु यो­गि­प्र­त्य­क्षं दे­श­यो­गि­न­स्ता­व­त्सु व्य­र्थ­म­नु­मा­नं स्पष्टं प्र­ति­भा­ते­श्व­पि अ­नु­मा­ने स­क­ल­यो­गि­नः सर्वत्रा- नु­मा­न­प्र­सं­गा­त् । स­मा­रो­प­व्य­व­च्छे­दा­र्थ­म­पि न त­त्रा­नु­मा­नं यो­गि­प्र­त्य­क्ष­वि­ष­ये स­मा­रो­पा­न­व­का­शा­त् सुगत- प्र­त्य­क्ष­वि­ष­य­व­त् । ततो न गृ­ही­त­व्या­प्ति­कं परं स­क­ल­यो­गी प्र­ति­पा­द­यि­तु­म­र्ह­ति । ना­प्य­गृ­ही­त­व्या­प्ति­कं ६६ अ­ति­प्र­सं­गा­त् इति प­र­प्र­ति­पा­द­ना­नु­प­प­त्तिः । तस्यां च न प­रा­र्था­नु­मा­नं सं­भ­व­ति त­द­सं­भ­वे चा न स्वार्था- नु­मा­न­म­व­ति­ष्ठ­ते स­क­ल­यो­गि­न­स्त­द­व्य­व­स्था­ने च न स­क­ल­यो­गि­प्र­त्य­क्षे­ण व्या­प्ति­ग्र­ह­णं यु­क्ति­म­धि­व­स­ति । प्र­त्य­क्षा­नु­प­लं­भा­भ्यां सा­ध्य­सा­ध­न­यो­र्व्या­प्ति­प्र­ति­प­त्ति­रि­त्य­प्य­ने­ना­पा­स्तं प्र­त्य­क्षे­ण व्या­प्ति­प्र­ति­प­त्ति­नि­रा­कृ­तौ प्र­त्य­क्षां­त­र­ल­क्ष­णे­ना­नु­प­लं­भे­न त­त्प्र­ति­प­त्ति­नि­रा­कृ­ति­सि­द्धेः । ०५योप्याह का­र­णा­नु­प­लं­भा­त् का­र्य­का­र­ण­भा­व­व्या­प्तिः । व्या­प­का­नु­प­लं­भा­द् व्या­प्य­व्या­प­क­भा­वः साक- ल्येन प्र­ति­प­द्य­त इ­त्य­नु­मा­न­सि­द्धा सा­ध्य­सा­ध­न­व्या­प्तिः । तथाहि यावान् क­श्चि­द्धू­मः स स­र्वो­प्य­ग्नि­ज­न्मा महा- हृ­दा­दि­ष्व­ग्ने­र­नु­प­लं­भा­द्धू­मा­भा­व­सि­द्धे­रि­ति का­र­णा­नु­प­लं­भा­नु­मा­नं । यावंती शिंशपा सा सर्वा वृ­क्ष­स्व­भा­वा । वृ­क्षा­नु­प­ल­ब्धौ शिं­श­पा­त्वा­भा­व­सि­द्धे इति व्या­प­का­नु­प­लं­भो लिंगं, ए­ता­व­ता सा­क­ल्ये­न सा­ध्य­सा­ध­न­व्या­प्ति- सिद्धिः इति सोऽपि न यु­क्त­वा­दी त­था­न­व­स्था­नु­षं­गा­त् । का­र­णा­नु­प­लं­भ­व्या­प­का­नु­प­लं­भ­यो­र­पि हि स्वसा- १०ध्येन व्याप्तिर्न प्र­त्य­क्ष­तः सिद्ध्येत् पू­र्वो­दि­त­दो­षा­स­क्तेः । प­र­स्मा­द­नु­मा­ना­त्त­त्सि­द्धौ क­थ­म­न­व­स्था न स्यात् ? प्रत्य- क्षा­नु­प­लं­भ­पृ­ष्ट­भा­वि­नो वि­क­ल्पा­त् स्व­य­म­प्र­मा­ण­का­त् सा­ध्य­स­धा­न­व्या­प्ति­सि­द्धौ कि­म­का­र­णं प्र­त्य­क्षा­नु­मा­न­प्र­मा- ण­पो­ष­णं क्रियते ? मि­थ्या­ज्ञा­ना­दे­व प्र­त्य­क्षा­नु­मे­या­र्थ­सि­द्धे­र्व्या­प्ति­सि­द्धि­व­त् । त­स्मा­द्य­था प्रत्यक्षं प्र­मा­ण­मि­च्छ­ता सा­म­स्त्ये­न त­त्प्रा­मा­ण्य­सा­ध­न­म­नु­मा­न­मं­त­रे­ण नो­प­प­द्य­ते इ­त्य­नु­मा­न­मि­ष्टं । तथा सा­ध्य­सा­ध­न­व्या­प्ति­ज्ञा­त­प्र­मा- ण­मं­त­रे­ण ना­नु­मा­नो­त्था­न­म­स्ति इति त­द­प्य­नु­ज्ञा­त­व्यं त­च्चो­हा­ख्य­म­वि­सं­वा­द­कं प्र­मा­णां­त­रं सि­द्ध­मि­ति­, न प्रत्य- १५क्षा­नु­मा­ने एव प्रमाणे इति प्र­मा­ण­सं­ख्या­नि­य­मो व्य­व­ति­ष्ठ­ते । एतेन वै­शे­षि­क­प्र­मा­ण­सं­ख्या­नि­य­मो प्र­त्या­ख्या­तः । स्यान्मतं सा­ध्य­सा­ध­न­सा­मा­न्य­योः क्व­चि­द्व्य­क्ति­वि­शे­षे प्र­त्य­क्ष­त एव सं­बं­ध­सि­द्धे­र्न प्र­मा­णां­त­र­म­न्वे- षणीयं यावान् क­श्चि­द्धू­मः स स­र्वो­ऽ­पि अ­ग्नि­ज­न्मा­न­ग्नि­ज­न्मा वा न भवति इ­त्यू­हा­पो­ह­वि­क­ल्प­ज्ञा­न­स्य प्रमाणां तरत्वं सं­बं­ध­ग्रा­हि­स­म­क्ष­प्र­मा­ण­फ­ल­त्वा­त् । क्व­चि­द­नु­मि­ता­नु­मा­ने सा­ध्य­सा­ध­ने आ­दि­त्य­ग­म­न­श­क्ति­र­स्ति ग­ति­म­त्त्वा­त् । आदित्यो ग­ति­मा­न् दे­शा­द्दे­शां­त­र­प्रा­प्तेः दे­व­द­त्त­व­त् सं­बं­ध­बो­ध­नि­बं­ध­ना­नु­मा­नं फ­ल­व­त् ततः २०प्र­त्य­क्ष­म­नु­मा­न­मि­ति प्र­मा­ण­द्व­य­सं­ख्या­नि­य­मः क­ण­च­र­म­ता­नु­सा­रि­णां व्य­व­ति­ष्ठ­त एवेति त­द­प्य­सा­रं सवि- क­ल्प­के­ना­पि प्र­त्य­क्षे­ण सा­क­ल्ये­न सा­ध्य­सा­ध­न­सं­बं­ध­गृ­ही­तु­म­श­क्तेः । साध्यं हि कि­म­ग्नि­सा­मा­न्यं­, अग्निवि- शे­षो­ग्नि­सा­मा­न्य­वि­शे­षो वा ? न ता­व­द­ग्नि­सा­मा­न्यं सि­द्ध­सा­ध्य­ता­प­त्तेः । ना­प्य­ग्नि­वि­शे­ष­स्त­स्या­न­न्व­या­त् । ब­न्हि­सा­मा­न्य­वि­शे­ष­स्य हि साध्यत्वे तेन धूमस्य संबंधः स­क­ले­दे­श­का­ल­व्या­प्य­ध्य­क्ष­तः कथं सिद्ध्येत् ? तथा त­त्सं­बं­धा­सि­द्धौ च यत्र यत्र यदा यदा धू­मो­प­लं­भः तत्र तत्र तदा त­दा­ऽ­ग्नि­सा­मा­न्य­वि­शे­ष­वि­ष­य­म­नु- २५मानं नो­द­य­मा­सा­द­ये­त् । न ह्यन्यथा सं­बं­ध­ग्र­ह्ण­म­न्य­था­नु­मा­नो­त्था­नं ना­मा­ति­प्र­सं­गा­त् ततः सं­बं­ध­ज्ञा­नं प्रमा- णां­त­र­मे­व प्र­त्य­क्षा­नु­मा­न­यो­स्त­द­वि­ष­य­त्वा­त् । यच्चोक्तं प्र­त्य­क्ष­फ­ल­त्वा­दू­हा­पो­ह­वि­ज्ञा­न­स्या­प्र­मा­ण­त्व­मि­ति तदप्य- सम्यक् वि­शे­ष­ण­ज्ञा­न­फ­ल­त्वा­द्वि­शे­ष्य­ज्ञा­न­स्या­प्र­मा­ण­त्वा­नु­षं­गा­त् हा­नो­पा­दा­नो­पे­क्षा­बु­द्धि­फ­ल­का­र­ण­त्वा­द्वि­शे­ष्य- ज्ञानस्य प्र­मा­ण­त्वे तत ए­वो­हा­पो­ह­वि­ज्ञा­न­स्य प्र­मा­ण­त्व­म­स्तु सर्वथा वि­शे­षा­भा­वा­त् । प्र­मा­ण­वि­ष­य­त्व­प­रि­शो­ध­क­त्वा- न्नोहः प्र­मा­ण­मि­त्य­पि वार्तं प्र­मा­ण­वि­ष­य­स्या­प्र­मा­णे­न प­रि­षो­ध­न­वि­रो­धा­त् । तथा तर्कः प्रमाणं प्र­मा­ण­वि­ष­य­प- ३०रि­शो­ध­क­त्वा­त् यस्तु न प्रमाणं स न प्र­मा­ण­वि­ष­य­प­रि­शो­ध­को दृष्टो यथा प्र­मे­यो­ऽ­र्थः प्र­मा­ण­वि­ष­य­प­रि­शो­ध­क­श्च त­र्क­स्त­स्मा­त्प्र­मा­ण­मि­ति के­व­ल­व्य­ति­रे­कि­णा­नु­मा­ने­ना­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य­ल­क्ष­णे­न तर्कस्य प्र­मा­ण­त्व­सि­द्धेः­, न वै­शे­षि­का­णां प्र­मा­ण­द्व­य­सं­ख्या­नि­य­मः सिद्ध्येत् । एतेन द्वि­त्रि­च­तुः­पं­च­ष­ट्प्र­मा­ण­वा­दि­नां प्र­मा­ण­सं­ख्या- नियमः प्र­ति­ध्व­स्तः संख्यानां प्र­त्य­क्षा­नु­मा­ना­भ्या­मि­वा­ग­मा­द­पि सा­ध्य­सा­ध­न­सं­बं­धा­सि­द्धेः तर्कस्य त­त्सि­द्धि­नि- बं­ध­न­स्य प्र­मा­णां­त­र­त्वो­प­प­त्तेः । नै­या­यि­का­नां च प्र­त्य­क्षा­नु­मा­ना­ग­मै­रि­वो­प­मा­ने­ना­पि लिं­ग­लिं­गि­ग्र­ह­णा­सं­भ- ३५वात् । प्र­भा­क­रा­णां च प्र­त्य­क्षा­नु­मा­नो­प­मा­ना­ग­मै­रि­व अ­र्था­प­त्त्या­पि हे­तु­हे­तु­म­त्सं­बं­ध­सि­द्धे­र­सं­भ­वा­त् । भ­ट्ट­म­ता- नु­सा­रि­णा­म­पि प्र­त्य­क्षा­नु­मा­नो­प­मा­ना­ग­मा­र्था­प­त्ति­भि­रि­व अ­भा­व­प्र­मा­णे­ना­पि व्या­प्ति­नि­श्च­या­नु­प­प­त्ते­स्त­न्नि­श्च­य­नि- बं­ध­न­स्यो­ह­ज्ञा­न­स्य प्र­मा­णां­त­र­स्य सि­द्धि­र­व­श्यं­भा­वि­नी दुःशक्या नि­रा­क­र्तुं । ननूहः स्व­वि­ष­ये सं­ब­द्धे­ऽ­सं­ब­द्धो वा न ता­व­द­सं­ब­द्ध­स्तं प्र­त्या­य­यि­तु­मी­शो­ऽ­ति­प्र­सं­गा­त् । सं­ब­द्ध­श्चे­त् कुत- स्त­त्प्र­ति­प­त्तिः । न ता­व­त्प्र­त्य­क्षा­त् तस्य त­द­वि­ष­य­त्वा­त् । ना­प्य­नु­मा­ना­द­न­व­स्था­नु­षं­गा­त् । यदि पु­न­रू­हां­त­रा­त्त- ६७त्सं­बं­ध­सि­द्धिः त­दो­हां­त­र­स्या­पि स्व­वि­ष­य­स­बं­ध­सि­द्भि­पू­र्व­क­त्वा­त् त­स्या­श्चा­प­रो­ह­नि­बं­ध­न­त्वा­त् सै­वा­न­व­स्था । प्रमा- णां­त­रा­त्त­त्सि­द्धौ च स एव प­र्य­नु­यो­गः प­रा­प­र­प्र­मा­णां­त­र­प­रि­क­ल्प­ना­नु­षं­गा­त् क्वेयं प्र­मा­ण­सं­ख्या व्य­व­ति­ष्ठे­ते­ति केचित् ते­षा­म­पि प्रत्यक्षं स्व­वि­ष­यं प्र­ति­बो­ध­य­त् त­त्सं­बं­ध­श्च ना­नु­मा­ना­देः सिद्ध्यति तस्य त­द­वि­ष­य­त्वा­त् । प्र­त्य­क्षां­त­रा­त्त­त्सि­द्धौ तत्रापि प्र­कृ­त­प­र्य­नु­यों­गा­नि­वृ­त्तेः क­थ­म­न­व­स्था न स्यात् यतः प्रत्यक्षं प्र­मा­ण­म­भ्यु­प­ग­म- ०५नी­य­मि­ति प्र­ति­प­द्या­म­हे । स्या­न्म­ति­रे­षा प्रत्यक्षं स्व­वि­ष­य­सं­बं­धा­व­बो­ध­नि­बं­ध­नं प्रा­मा­ण्य­मा­त्म­सा­त्कु­रु­ते तस्य स्व­वि­ष­ये स्व­यो­ग्य­ता- ब­ला­दे­व प्र­मा­ण­त्व­व्य­व­स्थि­तेः अन्यथा क्व­चि­द­पू­र्वा­र्थ­ग्रा­हि­णः प्र­त्य­क्ष­स्या­प्र­मा­ण­त्वा­नु­षं­गा­त् इति सापि न सा­धी­य­सी त­थो­ह­स्या­पि स्व­यो­ग्य­ता­वि­शे­ष­सा­म­र्थ्या­दे­व स्व­वि­ष­य­प्र­त्या­य­न­सि­द्धे­र्भ­व­दु­द्भा­वि­त­दू­ष­ण­वै­य­र्थ्य­व्य­व- स्थानात् । यो­ग्य­ता­वि­शे­षः पुनः प्र­त्य­क्ष­स्ये­व स्व­वि­ष­य­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­वि­शे­ष ए­वो­ह­स्या­पि प्रति- १०पद्यते स­क­ल­बा­ध­क­वै­धु­र्या­त् । यथा च प्र­त्य­क्ष­स्यो­त्प­त्तौ म­नो­ऽ­क्षा­दि­सा­मि­ग्री यो­ग्य­ता­याः स­ह­का­रि­णी बहि- रं­ग­नि­मि­त्त­त्वा­त् त­थो­ह­स्या­पि स­मु­द्भू­तौ भूयः प्र­त्य­क्षा­नु­प­लं­भ­सा­मि­ग्री­ब­हि­रं­ग­नि­मि­त­भू­ता­नु­म­न्य­ते त­द­न्व­य- व्य­ति­रे­का­नु­वि­धा­यि­त्वा­दू­ह­स्ये­ति स­र्व­नि­र­व­द्य­सि­द्धे चा­नु­मा­न­प्र­मा­णा­न्य­था­नु­प­प­त्त्या तर्कस्य प्र­मा­ण­त्वे­–­प्र­त्य­भि- ज्ञानं प्रमाणं त­र्क­प्र­मा­ण­त्वा­न्य­था­नु­प­प­त्तेः न ह्य­प्र­त्य­भि­ज्ञा­ने विषये तर्कः प्र­व­र्त­ते अ­ति­प्र­सं­गा­त् । नच गृहीत- ग्र­ह­णा­त्प्र­त्य­भि­ज्ञा­न­स्या­प्र­मा­ण­त्वं श­क­नी­यं त­द्वि­ष­य­स्या­स्म­र्य­मा­ण­दृ­श्य­मा­न­प­र्या­य­व्या­प्ये­क­द्र­व्य­स्य स्म­र­ण­प्र­त्य- १५क्षा­गो­च­र­त्वा­त् अ­पू­र्वा­र्थ­ग्रा­हि­त्वा­सि­द्धेः । नचेदं प्र­त्य­क्षे­ऽ­ṃ­त­र्भ­व­ति प्र­त्य­क्ष­स्य व­र्त­मा­न­प­र्या­य­वि­ष­य­त्वा­त् । ना­प्य­नु­मा­ने लिं­गा­न­पे­क्ष­त्वा­त् । न शाब्दे श­ब्द­नि­र­पे­क्ष­त्वा­त् । नो­प­मा­ने सा­दृ­श्य­मं­त­रे­णा­पि भावात् । नार्थ- पत्तौ प्र­त्य­क्षा­दि­प्र­मा­ण­ष­ट्क­वि­ज्ञा­ता­र्थ­प्र­ति­प­त्ति­मं­त­रे­णा­पि प्रा­दु­र्भा­वा­त् । नाभावे नि­षे­ध्या­धा­र­व­स्तु­ग्र­ह­णे­न नि­षे­ध्य­स्म­र­णे­न च वि­नै­वो­त्पा­दा­दि­ति स­र्वे­षा­मे­क­द्वि­त्रि­च­तुः­पं­च­ष­ट्प्र­मा­ण­सं­ख्या­नि­य­मं वि­घ­ट­य­ति । एतेन स्मृतिः प्र­मा­नां­त­र­मु­क्तं तस्याश्च प्र­त्य­क्षा­दि­ष्वं­त­र्भा­व­यि­तु­म­श­क्तेः । न चा­सा­व­प्र­मा­ण­मे­व सं­वा­द­क­त्वा­त् कथं- २०चि­द­पू­र्वा­र्थ­ग्रा­हि­त्वा­त् बा­धा­ब­र्जि­त­त्वा­च्चा­नु­मा­न­व­दि­ति । येषां तु स्म­र­ण­म­प्र­मा­णं तेषां पू­र्व­प्र­ति­प­न्न­स्य सा- ध्य­सा­ध­न­सं­बं­ध­स्य वा­च्य­वा­च­क­सं­बं­ध­स्य च स्म­र­ण­सा­म­र्थ्या­द­व्य­वा­स्थि­तेः कु­तो­ऽ­नु­मा­नं शाब्दं वा प्रमाणं सिद्ध्येत् । त­द­प्र­सि­द्धौ च न सं­वा­द­क­त्वा­सं­वा­द­क­त्वा­भ्यां प्र­त्य­क्ष­त­दा­भा­स­व्य­व­स्थि­ति­रि­ति स­क­ल­प्र­मा­ण- वि­लो­पा­प­त्तिः ततः प्र­मा­ण­व्य­व­स्था­म­भ्य­नु­जा­न­ता स्मृ­ति­र­पि प्र­मा­ण­यि­त­व्या इति न परेषां संख्या- नियमः सिद्ध्येत् । स्या­द्वा­दि­नां तु सं­क्षे­पा­त्प्र­त्य­क्ष­प­रो­क्ष­वि­क­ल्पा­त् प्र­मा­ण­द्व­यं सि­द्ध­त्ये­व तत्र स­क­ल­प्र­मा­ण- २५भेदानां सं­ग्र­हा­दि­ति सूक्तं । किं पुनः प्र­त्य­क्ष­मि­त्यु­च्य­ते वि­श­द­ज्ञा­ना­त्म­कं प्रत्यक्षं प्र­त्य­क्ष­त्वा­त् यत्तु न वि­श­द­ज्ञा­ना­त्म­कं तन्न प्रत्यक्षं य­था­नु­मा­ना­दि­ज्ञा­नं प्रत्यक्षं च वि­वा­दा­ध्या­सि­तं त­स्मा­द्वि­श­द­ज्ञा­ना­त्म­कं । न ता­व­द­त्रा­प्र­सि­द्धो धर्मी प्र­त्य­क्ष­ध­र्मि­णि के­व­ल­प्र­त्य­क्ष­वा­दि­ना­म­वि­प्र­ति­प­त्तेः । शू­न्य­सं­वे­द­ना­द्वै­त­वा­दि­ना­म­पि स्व­रू­प­प्र­ति­भा­स­न­स्य प्र­त्य­क्ष­स्या­भी­ष्टेः । प्र­त्य­क्ष­त्व­स्य हे­तो­र­सि­द्ध­ता­पि अनेन स­मु­त्सा­रि­ता प्र­त्य­क्ष­मि­च्छ­द्भिः प्र­त्य­क्ष­त्व­स्य त­द्ध­र्म­स्य ३०स्व­य­मि­ष्ट­त्वा­त् । प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्ध­त्वं सा­ध­न­स्य स्यादिति चेत् का पुनः प्रतिज्ञा त­दे­क­दे­शो वा यस्या- सिद्धत्वं शंक्येत ? ध­र्म­ध­र्मि­स­सु­दा­यः प्रतिज्ञा त­दे­क­दे­शो धर्मी हे­तु­र्य­था नश्वरः शब्दो श­ब्द­त्वा­दि­ति तथा सा­ध्य­ध­र्मः प्र­ति­ज्ञै­क­दे­शो यथा नश्वरः शब्दो न­श्व­र­त्वा­त् सोयं द्विविधो प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्धौ हेतुः स्यादिति चेत् । न धर्मिणो हेतुत्वे कस्य चि­द­सि­द्ध­ता­नु­प­प­त्तेः । यथैव हि प्र­त्य­क्ष­प्र­यो­ग­का­ले वा­दि­प्र­ति­वा­दि प्रसिद्धो धर्मी तथा तस्य हे­तु­त्व­व­च­ने­ऽ­पि नासिद्धिः । सा­ध्य­ध­र्म­स्तु हे­तु­त्वे­नो­पा­दी­य­मा­नो न प्र­ति­ज्ञा­ता­र्थै­क- ३५दे­श­त्वे­ना­सि­द्धो ध­र्मि­णो­ऽ­प्य­सि­द्धि­प्र­सं­गा­त् । किं तर्हि ? स्व­रू­पे­ण वासिद्ध इति न प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्धो नाम हे­त्वा­भा­सः सं­भ­व­ती­ति कथं प्र­कृ­त­हे­तौ प्र­ति­ज्ञा­र्थै­क­दे­शा­सि­द्ध­त्वं स­मु­द्भा­व­य­न् भा­वि­ता­नु­मा­न­स्व­भा­वः ? । धर्मिणो हे­तु­त्वे­ऽ­न­न्व­य­प्र­सं­ग इति चेत् न विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतां दो­षा­सं­भ­वा­त् । प्रत्यक्षं- हि वि­शे­ष­रू­पं धर्मी प्र­त्य­क्ष­सा­मा­न्यं हेतुः स क­थ­म­न­न्व­यः स्यात् स­क­ल­प्र­त्य­क्ष­वि­शे­ष­स्य व्या­पि­त्वा­त् । दृष्टांते क्व­चि­द­भा­वा­त् अ­न­न्व­य इति चेत् न सर्वे भावाः क्षणिकाः सत्त्वात् इ­त्या­दे­र­पि हे­तो­र­न­न्व­य­त्व­प्र­स­क्तेः । ६८अथास्य दृ­ष्टां­ते­न अ­न्व­य­स्या­पि सा­ध्य­ध­र्मि­णि स­र्व­त्रा­न्व­य­सि­द्धे­र्वि­क्षे बा­ध­क­प्र­मा­ण­स­द्भा­वा­च्च नि­र्दो­ष­ता­नु- मन्यते तत एव प्र­त्य­क्ष­त्व­स्य हे­तो­र्नि­दो­ष­ता­स्तु सर्वथा वि­शे­षा­भा­वा­त् के­व­ल­व्य­ति­रे­कि­णो­ऽ­पि हे­तो­र­वि­ना- भा­व­नि­र्ण­या­त् सा­ध्य­सा­ध­न­सा­म­र्थ्या­न्न क­श्चि­दु­पा­लं­भ­स्त­तो नि­र­व­द्यो­ऽ­यं हेतुः प्र­त्य­क्ष­स्य वि­श­द­ज्ञा­ना­त्म­क­त्वं सा­ध­य­त्ये­व । न­चै­त­द­सं­भ­वि सा­ध्य­मा­त्मा­नं प्र­ति­नि­य­त­स्य ज्ञानस्य प्र­त्य­क्ष­श­ब्द­वा­च्य­स्या­र्थ­सा­क्षा­त्का­रि­णः सर्वस्य ०५कार्त्स्न्येन ए­क­दे­शे­न वा वै­श­द्य­सि­द्धे­र्बा­ध­का­भा­वा­त् । अक्ष्णोति व्याप्नोति जा­ना­ती­त्य­क्षो हि — आ­त्मा­न­मे­व क्षी­णा­व­र­णं क्षी­णो­प­शां­ता­व­र­णं वा प्र­ति­नि­य­त­स्य ज्ञानस्य प्र­त्य­क्ष­श­ब्द­वा­च्य­स्य क­थं­चि­द­पि वैशद्यं सभा- व्यमिति सूक्तं वि­श­द­ज्ञा­ना­त्म­कं प्रत्यक्षं । त­त्त्रि­वि­धं — इं­द्रि­या­निं­द्रि­या­तीं­द्रि­य­प्र­त्य­क्ष­वि­क­ल्प­ना­त् । त­त्रें­द्रि­य­प्र­त्य­क्षं सां­व्य­व­हा­रि­कं दे­श­तो­वि­श­द- त्वात् । त­द्व­द­निं­द्रि­य­प्र­त्य­क्षं त­स्यां­त­र्मु­खा­का­र­स्य कथं चि­द्वै­श­द्य­सि­द्धेः । अ­तीं­द्रि­य­प्र­त्य­क्षं तु द्विविधं विकल- १०प्रत्यक्षं स­क­ल­प्र­त्य­क्षं चेति । वि­क­ल­प्र­त्य­क्ष­म­पि द्विविधं — अ­व­धि­ज्ञा­नं म­नः­प­र्य­य­ज्ञा­नं चेति स­क­ल­प्र­त्य­क्षं तु के­व­ल­ज्ञा­नं त­दे­त­त्त्रि­त­य­म­पि मुख्यं प्रत्यक्षं म­नो­ऽ­क्षा­न­पे­क्ष­त्वा­त् अ­ती­त­व्य­व­भि­चा­रि­त्वा­त् सा­का­र­व­स्तु- ग्रा­हि­त्वा­त् सर्वथा स्व­वि­ष­ये­षु वै­श­द्या­च्च । तथा चोक्तं त­त्त्वा­र्थ­वा­र्ति­क­का­रैः । इं­द्रि­या­निं­द्रि­या­न­पे­क्ष­म् अ­ती­त­व्य­भि­चा­रं सा­का­र­ग्र­ह­णं प्र­त्य­क्ष­म् इति त­त्रें­द्रि­या­निं­द्रि­या­न­पे­क्ष­मि­ति व­च­ना­त् सां­व्य­व­हा­रि­क­स्यें­द्रि­य­प्र­त्य­क्ष­स्या­निं­द्रि­य­स्य च देशतो विश- १५दस्य व्य­व­च्छे­द­सि­द्धेः । अ­ती­त­व्य­भि­चा­र­मि­ति व­च­ना­त् वि­भं­ग­ज्ञा­न­स्या­व­धि­प्र­त्य­क्षा­भा­स­स्य निवृत्तेः । सा­का­र­ग्र­ह­ण­मि­ति प्र­ति­पा­द­ना­त् नि­रा­का­र­ग्र­ह­ण­स्य द­र्श­न­स्य प्र­त्य­क्ष­त्व­व्या­व­र्त­ना­त् । सूक्तं मुख्यं प्र­त्य­क्ष­त्र­यं ननु स्व­सं­दे­न­प्र­त्य­क्षं चतुर्थं स्यादिति न मंतव्यं तस्य स­क­ल­ज्ञा­न­सा­ध­र- ण­स्व­रू­प­त्वा­त् । यथैव हीं­द्रि­य­प्र­त्य­क्ष­स्य स्व­रू­प­सं­वे­द­न­मिं­द्रि­य­प्र­त्य­क्ष­मे­व अन्यथा तस्य स्व­प­र­स्व­रू­प­सं­वे­द­क­त्व- वि­रो­धा­त् सं­वे­द­न­द्व­य­प्र­सं­गा­च्च । त­था­नीं­द्रि­य­प्र­त्य­क्ष­स्य मा­न­स­स्य स्व­रू­प­सं­वे­द­न­म­निं­द्रि­य­प्र­त्य­क्ष­मे­व तत एव २०त­द्व­द­तीं­द्रि­य­प्र­त्य­क्ष­त्रि­त­य­मे­वे­ति न त­तो­ऽ­र्थां­त­रं स्व­सं­वे­द­न­प्र­त्य­क्षं । एतेन श्रु­त­ज्ञा­न­स्य स्व­रू­प­सं­वे­द­न­म­निं- द्रि­य­प्र­त्य­क्ष­मु­क्तं प्र­ति­प­त्त­व्यं त­स्या­निं­द्रि­य­नि­मि­त्त­त्वा­त् वि­भ्र­म­ज्ञा­न­स्व­रू­प­सं­वे­द­न­व­त् । तथा च सकलं ज्ञानं स्व­रू­प­सं­वे­द­ना­पे­क्ष­या प्रमाणं सिद्धं भा­व­प्र­मे­या­पे­क्षा­यां प्र­मा­णा­भा­स­नि­न्ह­वः । किं पु­न­रिं­द्रि­य­प्र­त्य­क्षं ? इं­द्रि­य­प्र­धा­न्या­दिं­द्रि­य­व­ला­धा­ना­दु­प­जा­य­मा­नं म­ति­ज्ञा­नं — त­दिं­द्रि­या­निं­द्रि­य­नि­मि­त्तं । २५इति व­च­ना­त् । त­च्च­तु­र्वि­धं — अ­व­ग्र­हे­हा­वा­य­धा­र­णा­वि­क­ल्पा­त् । तत्र वि­ष­य­वि­ष­यि­स­न्नि­पा­ता­नं- त­र­मा­द्य­ग्र­ह­ण­म­व­ग्र­हः । त­द्गृ­ही­त­व­स्तु­वि­शे­षा­कां­क्ष­ण­मी­हा । भ­वि­त­व्य­ता­प्र­त्य­य­रू­पा­त्त­दी­हि­त­वि- शे­ष­नि­श्च­यो­ऽ­वा­यः । सा­व­धा­र­णं ज्ञ नं का­लां­त­रा­वि­स्म­र­ण­का­र­णं धा­र­णा­ज्ञा­नं । त­दे­त­च्च­तु­ष्ट­य­म­पि अ­क्ष­व्या­पा­रा­पे­क्षं अ­क्ष­व्या­पा­रा­भा­वे त­द­नु­द्भ­व­ना­त् । म­नो­ऽ­पे­क्षं च प्र­ति­ह­त­म­न­स­स्त­द­नु­त्प­त्तेः । तत ए­वें­द्रि­य- प्रत्यक्षं देशतो वि­श­द­म­वि­सं­वा­द­कं प्र­ति­प­त्त­व्यं स्प­र्श­ना­दी­न्द्रि­य­नि­मि­त्त­स्य ब­हु­ब­हु­वि­ध­क्षि­प्रा­नि­सृ­ता­नु­क्त­ध्रु­वे­षु ३०त­दि­त­रे­ष्व­र्थे­षु व­र्त­मा­न­स्य प्र­तीं­द्रि­य­म­ष्ट­च­त्वा­रिं­श­द्भे­द­स्य व्यं­ज­ना­व­ग्र­ह­भे­दै­र­ष्ट­च­त्वा­रिं­श­ता स­हि­त­स्य संख्याष्टा- शी­त्यु­त्त­र­द्वि­श­ती प्र­ति­प­त्त­व्या । तथा अ­निं­द्रि­य­प्र­त्य­क्षं ब­ह्वा­दि­द्वा­द­श­प्र­का­रा­र्थ­वि­ष­य­म­व­ग्र­हा­दि­वि­क­ल्प­म­ष्ट­च- त्वा­रिं­श­त्सं­ख्यं प्र­ति­प­त्त­व्यं । य­त्पु­न­र­तीं­द्रि­य­प्र­त्य­क्ष­वि­क­ल्प­म­व­धि­ज्ञा­नं तत् षड्विधं अ­नु­गा­मि-अ­न­नु­गा­मि- व­र्ध­मा­न-ही­य­मा­न-अ­व­स्थि­त-अ­न­व­स्थि­त­वि­क­ल्पा­त् । स­प्र­ति­पा­ता­प्र­ति­पा­त­यो­र­त्रै­वां­त­र्भा­वा­त् । सं­क्षे­प­त­स्तु त्रिविधं दे­शा­व­धि-प­र­मा­व­धि-स­र्वा­व­धि­भे­दा­त् । तत्र दे­शा­व­धि­ज्ञा­नं ष­ड्वि­क­ल्प­म­पि सं­भ­व­ति प­र­मा­व­धि­ज्ञा­नं तु ३५सं­य­म­वि­शे­षै­का­र्थ­स­म­वा­यि­भ­वां­त­रा­पे­क्ष­या­न­नु­गा­मि प्र­ति­पा­तं च प्रत्येयं । त­द्भ­वा­पे­क्ष­या च त­द­नु­गा­म्ये­व ना- न­नु­गा­मि । व­र्ध­मा­न­मे­व न ही­य­मा­नं । अ­व­स्थि­त­मे­व ना­न­व­स्थि­तं । अ­प्र­ति­पा­त­मे­व न­प्र­ति­पा­तं त­था­वि­ध- वि­शु­द्धि­नि­बं­ध­न­त्वा­त् । एतेन स­र्वा­व­भ­धि­ज्ञा­नं व्याख्यातं । केवलं त­द्व­र्ध­मा­न­म­पि न भवति प­र­म­प्र­क­र्ष­प्रा­प्त­त्वा­त् स­क­ला­व­धि­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­व­शा­त्प्र­सू­त­त्वा­त् । अ­ति­सं­क्षे­प­स्तु द्वि­वि­ध­म­व­धि­ज्ञा­नं भ­व­प्र­त्य­यं ६९गु­ण­प्र­त्य­यं चेति । तत्र भ­व­प्र­त्य­यं ब­हि­रं­ग­दे­व­भ­व­ना­र­क­भ­व­प्र­त्य­य­नि­मि­त्त­त्वा­त् । तद्भावे भावात् त­द­भा­वे­ऽ- भावात् तत्तु दे­शा­व­धि­ज्ञा­न­मे­व । गु­ण­प्र­त्य­यं तु स­म्य­ग्द­र्श­न­गु­ण­नि­मि­त्त­म­सं­य­त­स­म्य­ग्दृ­ष्टेः । सं­य­मा­सं­य­म­गु­ण- हेतुकं सं­य­ता­सं­य­त­स्य । सं­य­म­गु­ण­नि­बं­ध­नं सं­य­त­स्य । स­त्यं­त­रं­ग­हे­तौ ब­हि­रं­ग­स्य गु­ण­प्र­त्य­य­स्य भावे भावात् । त­द­भा­वे चा­भा­वा­त् । तथा म­नः­प­र्य­य­ज्ञा­नं वि­क­ल­म­तीं­द्रि­य­प्र­त्य­क्षं द्वेधा ऋ­जु­म­ति­वि­क­ल्पा­त् । त­त्र­र्जु­म­ति- ०५म­नः­प­र्य­य­ज्ञा­नं नि­र्व­र्ति­त­प्र­गु­ण­वा­क्का­य­म­न­स्कृ­ता­र्थ­स्य प­र­म­नो­ग­त­स्य प­रि­च्छे­द­क­त्वा­त्त्रि­वि­धं । वि­पु­ल­म­ति­म­नः प­र्य­य­ज्ञा­नं तु नि­र्व­र्ति­ता­नि­र्व­र्ति­त­प्र­गु­णा­प्र­गु­ण­वा­क्का­य­म­न­स्कृ­ता­र्थ­स्य प­र­म­न­सि स्थितस्य स्फु­ट­त­र­म­व­बो­ध­क­त्वा­त् ष­ट्प्र­का­रं­, त­था­वि­ध­म­नः­प­र्य­य­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­वि­शे­ष­व­ला­त् प्रा­दु­र्भू­त­त्वा­त् । स­क­ल­म­तीं­द्रि­य- प्रत्यक्षं के­व­ल­ज्ञा­नं स­क­ल­मो­ह­क्ष­या­त् स­क­ल­ज्ञा­न­द­र्श­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­या­च्च स­मु­द्भू­त­त्वा­त् स­क­ल­वै­श­द्य स­द्भा­वा­त् स­क­ल­वि­ष­य­त्वा­च्च । तद्वान् क­श्चि­त्पु­रु­ष­वि­शे­षो भ­व­त्ये­व सु­नि­र्णी­ता­सं­भ­द्बा­ध­क­प्र­मा­ण­त्वा­त् । तथा १०शा­स्त्र­ज्ञा­ने­न त­द्वा­नु­भ­य­वा­दि­प्र­सि­द्धः । न­चा­त्रा­सि­द्धं साधनं स­र्वा­तीं­द्रि­य­प्र­त्य­क्ष­व­तः पु­रु­ष­स्य प्र­त्य­क्षा­दि­प्र­मा- णै­र­बा­ध्य­मा­न­स्य स­क­ल­दे­श­का­ल­पु­रु­ष­प­रि­ष­द­पे­क्ष­या­पि सि­द्ध­त्वा­त् सु­खा­दि­सं­वे­द­न­स्या­पि तथैव प्र­मा­ण­त्वो­प­प­त्तेः । अन्यथा क­स्य­चि­दि­ष्ट­सि­द्धे­र­सं­भ­वा­त् । इति सं­क्षे­प­तो विशदं ज्ञानं सां­व्य­व­हा­रि­कं मुख्यं च प्र­रू­पि­तं विस्त- रतस्तु त­त्त्वा­र्था­लं­का­रे प­री­क्षि­त­मि­ह दृष्टव्यं । संप्रति प­रो­क्ष­मु­च्य­ते — प­रो­क्ष­म­वि­श­द­ज्ञा­ना­त्म­कं प­रो­क्ष­त्वा­त् य­न्ना­वि­श­द­ज्ञा­ना­त्म­कं तन्न परोक्षं यथा- १५तीं­द्रि­य­प्र­त्य­क्षं परोक्षं च वि­वा­दा­ध्या­सि­तं ज्ञानं त­स्मा­द­वि­श­द­ज्ञा­ना­त्म­कं । नचास्य प­रो­क्ष­त्व­म­सि­द्धं­–­अ­क्षे­भ्यः प­रा­वृ­त्त­त्वा­त् । त­थो­पा­त्ता­नु­पा­त्त­प­र­प्र­त्य­या­पे­क्षं प­रो­क्ष­मि­ति त­त्त्वा­र्थ­वा­र्ति­क­का­रै­र­भि­धा­ना­त् । उपात्तो हि प्रत्ययः क­र्म­व­शा­दा­त्म­ना क­र­ण­त्वे­न गृहीतः स्प­र्श­ना­दिः । त­तो­ऽ­न्यः पु­न­र्ब­हि­रं­गः स­ह­का­री प्र­त्य­यो­ऽ­नु- पात्तः श­ब्द­लिं­गा­दिः त­द­पे­क्षं ज्ञानं प­रो­क्ष­मि­त्य­भि­धी­य­ते । तदपि सं­क्षे­प­तो द्वेधा म­ति­ज्ञा­नं श्रु­त­ज्ञा­नं चेति आद्ये परोक्षं इति व­च­ना­त् । म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­के­व­ला­नि हि ज्ञानं । तत्राद्ये म­ति­श्रु­ते सू­त्र­पा­ठा­पे- २०क्षया लक्ष्येते ते च प­रा­पे­क्ष­त­या परोक्षे प्र­ति­पा­दि­ते । प­रा­न­पे­क्षा­ण्य­व­धि­म­नः­प­र्य­य­के­व­ला­नि यथा प्रत्यक्षा- णीति । त­त्रा­व­ग्र­हा­दि­धा­र­णा­प­र्यं­तं म­ति­ज्ञा­न­म­पि दे­श­तो­वै­श­द्य­स­द्भा­वा­त्सां­व्य­व­हा­रि­कं­, इं­द्रि­य­प्र­त्य­क्ष­म­तीं­द्रि­य­प्र- त्यक्षं चा­भि­धी­य­मा­नं न वि­रु­ध्य­ते ततः शेषस्य म­ति­ज्ञा­न­स्य स्मृ­ति­सं­ज्ञा­चिं­ता­भि­नि­बो­ध­ल­क्ष­ण­स्य श्रुतस्य च प­रो­क्ष­त्व­व्य­व­स्थि­तेः । त­दु­क्त­म­क­लं­क­दे­वैः — प्रत्यक्षं विशदं ज्ञानं मु­ख्य­सं­व्य­व­हा­र­तः । २५परोक्षं शे­ष­वि­ज्ञा­नं प्र­मा­ण­मि­ति संग्रहः ॥ १ ॥ तत्र त­दि­त्या­का­रा­नु­भू­ता­र्थ­वि­ष­या स्मृतिः अ­निं­द्रि­य­प्र­त्य­क्षं वि­श­द­त्वा­त् सु­खा­दि­सं­वे­द­न­व­दि­त्ये­के तद- सत् । त­स्मा­त्त­त्र वै­श­द्या­सि­द्धेः पु­न­र्भा­व­य­तो वै­ष­द्य­प्र­ती­ते­र्भा­व­ना­ज्ञा­न­त्वा­त् तस्य च भ्रां­त­त्वा­त स्वप्नज्ञा- नवत् । पू­र्वा­नु­भू­ते­ऽ­ती­ते­ऽ­र्थे वै­श­द्या­सं­भ­वा­त् स्मृतिः प­रो­क्ष­मे­व श्रु­ता­नु­मि­त­स्मृ­ति­व­त् इ­त्य­प­रे त­दि­त्यु­ल्ले­ख­स्य सर्वस्यां स्मृतौ स­द्भा­वा­त् । सा च प्र­मा­ण­म­वि­सं­वा­द­क­त्वा­त् प्र­त्य­क्ष­व­त् यत्र तु वि­सं­वा­दः सा स्मृ­त्या­भा­सा ३०प्र­त्य­क्षा­भा­स­व­त् । तथा त­दे­वे­द­मि­त्या­का­रं ज्ञानं संज्ञा प्र­त्य­भि­ज्ञा ता­दृ­श­मे­वे­द­मि­त्या­का­रं वा विज्ञानं सं­ज्ञो­च्य­ते । तस्या ए­क­त्व­सा­दृ­श्य­वि­ष­य­त्वा­द्द्वै­वि­ध्यो­प­प­त्तेः । द्विविधं हि प्र­त्य­भि­ज्ञा­नं त­दे­वे­द­मि­त्ये­क­त्व­नि- बंधनं । ता­दृ­श­मे­वे­द­ति सा­दृ­श्य­नि­बं­ध­नं च । ननु च त­दे­वे­त्य­ती­त­प्र­ति­भा­स­स्य स्म­र­ण­रू­प­त्वा­त् इद- मिति सं­वे­द­न­स्य प्र­त्य­क्ष­रू­प­त्वा­त् सं­वे­द­न­द्वि­त­य­मे­वै­त­त् ता­दृ­श­मे­वे­द­मि­ति स्म­र­ण­प्र­त्य­क्ष­सं­वे­द­न­द्वि­त­य­व­त् ततो नैकं ज्ञानं प्र­त्य­भि­ज्ञा­ख्यां प्र­ति­प­द्य­मा­नं सं­भ­व­ती­ति कश्चित् सोऽपि न सं­वे­द­न­वि­शे­ष­वि­प­श्चि­त् ३५स्म­र­ण­प्र­त्य­क्ष­ज­न्य­स्य पू­र्वो­त्त­र­वि­व­र्त­व­र्त्ये­क­द्र­व्य­वि­ष­य­स्य प्र­त्य­भि­ज्ञा­न­स्यै­क­स्य सु­प्र­ती­त­त्वा­त् । न हि तदिति स्मरणं त­था­वि­ध­द्र­व्य­व्य­व­सा­या­त्म­कं त­स्या­ती­त­वि­व­र्त­मा­त्र­गो­च­र­त्वा­त् । ना­पी­द­मि­ति सं­वे­द­नं तस्य व- र्त­मा­न­वि­व­र्त­मा­त्र­वि­ष­य­त्वा­त् । ता­भ्या­मु­प­ज­न्यं तु स­क­ल­ज्ञा­नं त­द­नु­वा­द­पु­र­स्स­रं द्रव्यं प्र­त्य­व­मृ­श­त् । ततो- १ मी­मां­स­काः २ स्या­द्वा­दि­नः ७०ऽ­न्य­दे­व प्र­त्य­भि­ज्ञा­न­मे­क­त्व­वि­ष­यं त­द­प­ह्न­वे क्व­चि­दे­का­न्व­या­व्य­व­स्था­ना­त् सं­ता­नै­क­त्व­सि­द्धि­र­पि न स्यात् । नचै- त­द­गृ­ही­त­प्र­मा­णा­द­प्र­मा­ण­मि­ति शं­क­नी­यं तस्य क­थं­चि­द­पू­र्वा­र्थ­त्वा­त् । न हि त­द्वि­ष­य­भू­त­मे­कं द्रव्यं स्मृति- प्र­त्य­क्ष­ग्रा­ह्यं येन तत्र प्र­व­र्त­मा­नं प्र­त्य­भि­ज्ञा­नं गृ­ही­त­ग्रा­हि मन्येत त­द्गृ­ही­ता­ती­त­व­र्त­मा­न­वि­व­र्त­ता­दा­त्म्या­त् । द्रव्यस्य क­थं­चि­द­पू­र्वा­र्थ­त्वे­ऽ­पि प्र­त्य­भि­ज्ञा­न­स्य त­द्वि­ष­य­स्य ना­प्र­मा­ण­त्वं लैं­गि­का­दे­र­प्य­प्र­मा­ण­त्व­प्र­सं­गा­त् तस्यापि ०५स­र्व­थै­वा­पू­र्वा­र्थ­त्वा­सि­द्धेः । सं­बं­ध­ग्रा­हि­वि­ज्ञा­न­वि­ष­या­त् सा­ध्या­दि­सा­मा­न्या­त् क­थं­चि­द­भि­न्न­स्या­नु­मे­य­स्य देश- का­ल­वि­शि­ष्ट­स्य त­द्वि­ष­य­त्वा­त् क­थं­चि­द­पू­र्वा­र्थ­त्व­सि­द्धेः बा­ध­क­प्र­मा­णा­न्न प्रमाणं प्र­त्य­भि­ज्ञा­न­मि­ति चायुक्तं तद्बा- ध­क­स्या­सं­भ­वा­त् । नहि प्रत्यक्षं त­द्बा­ध­कं तस्य त­द्वि­ष­ये प्र­वृ­त्त्य­सं­भ­वा­त् । सा­ध­क­त्व­व­द्बा­ध­क­त्व­वि­रो­धा­त् । यथा हि यद्यत्र विषये न प्र­व­र्त­ते न तत्तस्य साधकं बाधकं वा यथा रू­प­ज्ञा­न­स्य र­स­ज्ञा­नं न प्र­व­र्त­ते च प्र­त्य­भि­ज्ञा- नस्य विषये प्रत्यक्षं तस्मान्न त­द्बा­ध­कं । प्रत्यक्षं हि न प्र­त्य­भि­ज्ञा­न­वि­ष­ये पू­र्व­दृ­ष्ट­दृ­श्य­मा­न­प­र्या­य­व्या­पि­नि द्रव्ये १०प्र­व­र्त­ते तस्य दृ­श्य­मा­न­प­र्या­य­वि­ष­य­त्वा­त् इति नासिद्धं साधनं । ए­ते­ना­नु­मा­नं प्र­त्य­भि­ज्ञा­न­स्य बाधकं प्र­त्या­ख्या­तं तस्यापि प्र­त्य­भि­ज्ञा­न­वि­ष­ये प्र­वृ­त्त्य­यो­गा­त्­, क्व­चि­द­नु­मे­य­मा­त्रे प्र­वृ­त्ति­सि­द्धेः । तस्य त­द्वि­ष­ये प्रवृत्तौ वा सर्वथा बा­ध­क­त्व­वि­रो­धा­त् । ततः प्र­त्य­भि­ज्ञा­नं स्व­वि­ष­ये द्रव्ये प्रमाणं स­क­ल­बा­धा­र­हि­त­त्वा­त् प्र­त्य­क्ष­व­त् स्मृ­ति­व­द्वा एतेन सा­दृ­श्य­नि­बं­ध­नं प्र­त्य­भि­ज्ञा­नं प्र­मा­ण­मा­वे­दि­तं बोद्धव्यं तस्यापि स्व­वि­ष­ये बो­धा­का­र­र­हि­त­त्व­सि­द्धेः । यथैव हि प्रत्यक्षं स्व­वि­ष­ये सा­क्षा­त्क्रि­य­मा­णे स्मरणं च स्म­र्य­मा­णे­ऽ­र्थे बा­धा­वि­धु­रं तथा प्र­त्य­भि­ज्ञा­न­मे­क­त्र द्रव्ये १५सादृश्ये च स्व­वि­ष­ये न सं­भ­व­द्बा­ध­क­मि­ति क­थ­म­प्र­मा­ण­म­नु­म­न्ये­म­हि । यत्पुनः स्व­वि­ष­ये बा­ध्य­मा­नं त­त्प्र­त्य­भि- ज्ञा­ना­भा­सं यथा प्र­त्य­क्षा­भा­सं स्म­र­णा­भा­सं वा न च त­स्या­प्र­मा­ण­त्वे सर्वथा प्र­मा­ण­त्वं युक्तं प्र­त्य­क्ष­स्या­प्य­प्र­मा- ण­त्व­प्र­सं­गा­त् । त­स्मा­द्य­था शुक्ले शंखे पी­ता­भा­सं प्रत्यक्षं तत्रैव शु­क्ला­भा­से­न प्र­त्य­क्षां­त­रे­ण बा­ध्य­मा­न­त्वा­त् अ­प्र­मा­णं न पुनः पीते क­न­का­दौ पी­ता­भा­सं प्रत्यक्षं । तथा त­स्मि­न्ने­व स्व­पु­त्रा­दौ ता­दृ­शो­य­मि­ति प्र­त्य­भि­ज्ञा­नं सा­दृ­श्य­नि­बं­धः स ए­वा­य­मि­त्ये­क­त्व­नि­बं­ध­ने­न प्र­त्य­भि­ज्ञा­ने­न बो­ध्य­मा­न­म­प्र­मा­णं सिद्धं न पुनः सादृश्य एव प्रव- २०र्तमानं स्व­पु­त्रा­दि­ना सा­दृ­श्ये­ऽ­न्य­पु­त्रा­दौ ता­दृ­शो­ऽ­य­मि­ति प्र­त्य­भि­ज्ञा­नं त­स्या­बा­ध्य­त्वे­न प्र­मा­ण­त्वा­त् । एवं लूनपु न­र्जा­त­न­ख­के­शा­दि­रि­ति सा­दृ­श्य­प्र­त्य­व­म­र्शि­प्र­त्य­भि­ज्ञा­नं तत्र त­स्या­बा­ध्य­मा­न­त­या प्र­मा­ण­त्व­सि­द्धेः । तथैव पूर्वा- नुभूते हि हि­र­ण्या­दौ प्र­दे­श­वि­शे­ष­वि­शि­ष्टे स्मरणं वि­प­री­त­दे­श­त­या त­त्स्म­र­ण­स्य बा­ध­क­मि­ति न तत्तत्र प्रमाणं । य­था­नु­भू­त­प्र­दे­शे तु तथैव स्मरणं प्र­मा­ण­मि­ति बोद्धव्यं । तत इ­द­म­भि­धी­य­ते यतो यतोर्थं प­रि­च्छि­द्य प्रवर्त- मा­नो­ऽ­र्थ­क्रि­या­यां न वि­सं­वा­द्य­ते त­त्त­त्प्र­मा­णं यथा प्र­त्य­क्ष­म­नु­मा­नं वा । स्म­र­णा­त् प्र­त्य­भि­ज्ञा­ना­च्च अर्थं परि- २५च्छिद्य प्र­व­र्त­मा­नो­ऽ­र्थ­क्रि­या­यां न वि­सं­वा­द्य­ते च त­स्मा­त्प्र­मा­णं स्मरणं प्र­त्य­भि­ज्ञा­नं चेति । तथा प­रो­क्ष­मे­त­द­वि- सं­वा­दि­त्वा­त् । अ­नु­मा­न­व­त् । सा­ध्य­सा­ध­न­सं­बं­ध­ग्रा­हि­त­र्क­व­द्वा वि­श­द­स्य भा­व­ना­ज्ञा­न­त्वा­त् । यावान् क­श्चि­द्धू­मः स सर्वः पा­व­क­ज­न्मै­व अ­पा­व­क­ज­न्मा वा न भ­व­ती­ति स­क­ल­दे­श­का­ल­व्या­प्त­सा­ध्य­सा­ध­न­सं­ब­द्धो­हा­पो­ह­ल­क्ष­णो हि तर्कः प्र­मा­ण­यि­त­व्यः तस्य क­थं­चि­द­पू­र्वा­र्थ­त्वा­त् । प्र­त्य­क्षा­नु­प­लं­भ­गृ­ही­त­प्र­ति­नि­य­त­दे­श­का­ल­सा­ध्य­सा- ध­न­व्य­क्ति­मा­त्र­ग्रा­हि­त्वा­भा­वा­त् गृ­ही­त­ग्र­ह­ण­सं­भ­वा­त् बा­ध­क­व­र्जि­त­त्वा­च्च । नहि तर्कस्य प्रत्यक्षं बाधकं तद्वि- ३०षये त­स्या­प्र­वृ­त्ते­र­नु­मा­न­व­त् प्रवृत्तौ वा सर्वथा त­द्बा­ध­क­त्व­वि­रो­धा­त् क्व­चि­दे­व त­द्बा­ध­को­प­प­त्तेः । यस्य तु त­द्बा­ध­कं स त­र्का­भा­सो न प्र­मा­ण­मि­ती­ष्टं शिष्टैः स्म­र­ण­प्र­त्य­भि­ज्ञा­ना­भा­स­व­त् । प्र­त्य­क्षा­नु­मा­ना­भा­स­व­द्वा तथा प्रमाणं त­र्क­स्त­तो­ऽ­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­न­स्या­र्थ­क्रि­या­यां वि­सं­वा­दा­भा­वा­त् प्र­त्य­क्षा­नु­मा­न­व­दि­ति प्र­ति­प­त्त­व्यं । परोक्षं चेदं त­र्क­ज्ञा­नं अ­वि­सं­वा­द­क­त्वा­त् अ­नु­मा­न­व­त् । किं पु­न­र­नु­मा­नं नाम ? सा­ध­ना­त्सा­ध्य­वि­ज्ञा­न­म् अ­नु­मा­नं । ३५तत्र साधनं सा­ध्या­वि­ना­भा­वि­नि­य­म­नि­श्च­यै­क­ल­क्ष­णं ल­क्ष­णां­त­र­स्य सा­ध­ना­भा­से­ऽ­पि भावात् । स्वलक्ष णस्य सा­ध­न­स्य सा­ध­ना­नु­प­प­त्तेः पं­चा­दि­ल­क्ष­ण­व­त् । नच सपक्षे सत्त्वं प­क्ष­ध­र्म­त्वं विपक्षे चा­स­त्त्व­मा­त्रं साधन- लक्षणं प­श्या­म­स्त­त्पु­त्र­त्वा­दि­त­र­त­त्पु­त्र­व­दि­त्य­त्र सा­ध­ना­भा­से त­त्स­द्भा­व­सि­द्धेः । सपक्षे ही­त­र­त्र तत्पुत्रे त­त्पु­त्र­त्व­स्य सा­ध­न­स्य श्या­म­त्व­व्या­प्त­स्य सत्त्वं प्रसिद्धं । वि­वा­दा­ध्या­सि­ते च तत्पुत्रे प­क्षी­कृ­ते त­त्पु­त्र­त्व­स्य स­द्भा­वा­त् प­क्ष­ध­र्म- त्वं । विपक्षे वा श्यामे क्व­चि­द­न्य­पु­त्रे त­त्पु­त्र­त्व­स्या­भा­वा­त् वि­प­क्षे­ऽ­स­त्त्व­मा­त्रं च । नच तावता सा­ध्य­सा­ध- ७१नत्वं सा­ध­न­स्य । ननु सा­का­ल्ये­न सा­ध्य­नि­वृ­त्तौ सा­ध­न­नि­वृ­त्ते­र­सं­भ­वा­त् परत्र गौ­रे­ऽ­पि तत्पुत्रे त­त्पु­त्र­त्व­स्य भावात् न सम्यक् सा­ध­न­मे­त­त् इति चेत् तर्हि कार्त्स्न्येन सा­ध्य­नि­वृ­त्तौ सा­ध­न­नि­वृ­त्ते­र्नि­श्च­य­ए­वै­कं सा­ध­न­ल­क्ष­णं सएवा- न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­यः स्या­द्वा­दि­भिः सा­ध­न­ल­क्ष­ण­म­भि­धी­य­ते त­त्स­द्भा­वे प­क्ष­ध­र्म­त्वा­द्य­भा­वे­ऽ­पि साधन- स्य स­म्य­क्त्व­प्र­ती­तेः उ­दे­ष्य­ति शकटं कृ­त्ति­को­द­या­दि­त्य­स्य प­क्ष­ध­र्म­त्वा­भा­वे­ऽ­पि प्र­यो­ज­क­त्व­व्य­व­स्थि­तेः । ०५न हि शकटे ध­र्मि­ण्यु­दे­ष्य­त्ता­यां साध्यायां कृ­त्ति­का­या उ­द­यो­ऽ­स्ति तस्य कृ­त्ति­का­ध­र्म­त्वा­त् ततो न पक्ष धर्मत्वं । यदि पु­न­रा­का­शं कालो वा धर्मी त­स्यो­दे­ष्य­च्छ­क­ट­व­त्त्वं साध्यं कृ­त्ति­को­द­य­सा­ध­नं प­क्ष­ध­र्म एवेति मतं तदा ध­रि­त्री­ध­र्मि­णि म­हो­द­ध्या­धा­रा­ग्नि­म­त्त्वं साध्यं म­हा­न­स­धू­म­व­त्त्वं साधनं प­क्ष­ध­र्मो­ऽ­स्तु तथा च महा - न­स­धू­मो म­हो­द­धा­व­ग्निं ग­म­ये­दि­ति न क­श्चि­द­प­क्ष­ध­र्मो हेतुः स्यात् । अ­थे­त्थ­मे­त­स्य सा­ध­न­स्य प­क्ष­ध­र्म­त्व- सि­द्धा­व­पि न सा­ध्य­सा­ध­न­सा­म­र्थ्य­म­वि­ना­भा­वि­नि­य­म­नि­श्च­य­स्या­भा­वा­दि­त्य­भि­धी­य­ते तर्हि स एव सा­ध­न­ल­क्ष- १०ण­म­क्षू­णं प­री­क्षा­द­क्षै­रु­प­ल­क्ष्य­ते । योप्याह श­क­टो­द­यो भा­वि­का­र­णं कृ­त्ति­को­द­य­स्य त­द­न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् सति हि स्वकाले भ­वि­ष्य­ति श­क­टो­द­ये कृ­ति­को­द­य उ­प­ल­भ्य­ते ना­स­ती­त्य­न्व­य­व्य­ति­रे­का­नु­वि­धा­नं सिद्धं भ­वि­ष्य­च्छ­क­ट­कृ­त्ति- को­द­य­योः का­र्य­का­र­ण­भा­वं सा­ध­य­ति वि­न­ष्ट­व­र्त­मा­न­व­दे­व । य­थै­वो­द­गा­द्भ­र­णिः कृ­त्ति­को­दा­दि­त्य­त्रा­ती­तो भर- ण्युदयः का­र­णं­, कृ­त्ति­को­द­य­स्त­त्का­र्यं स्व­का­ले­ऽ­ती­ते सति भ­र­ण्यु­द­ये कृ­त्ति­को­द­य­स्य भा­वा­द­स­त्य­भा­वा­च्च तद- १५न्व­य­व्य­ति­रे­का­नु­वि­धा­ना­त् का­र्य­का­र­ण­भा­वः । तथा भ­वि­ष्य­द्व­र्त­मा­न­यो­र­पि प्र­कृ­त­सा­ध्य­सा­ध­न­यो­र्न्या­य­स्य स­मा­न­त्वा­त् । न­चै­क­स्य कृ­त्ति­को­द­य­स्य भ­वि­ष्य­द­ती­त­का­र­ण­द्वि­ति­यं वि­रु­ध्य­ते भि­न्न­दे­श­यो­रि­व भि­न्न­का­ल­यो- रपि स­ह­का­रि­त्व­वि­रो­धा­त् । स­है­क­स्य कार्यस्य कारणं हि स­ह­का­रि­त्व­नि­बं­ध­नं ना­भि­न्न­का­ल­त्व­म­भि­न्न­दे­श­व­त् । न­चा­ती­ता­ना­ग­तौ भ­र­ण्यु­द­य­श­क­टो­द­यौ कृ­त्ति­को­द­य­स्यो­पा­दा­न­का­र­णं पू­र्व­कृ­त्ति­का­ल­क्ष­ण­स्या­नु­द­य­मा­प­न्न­स्य त­दु­पा­दा­न­का­र­ण­त्व­सं­प्र­ति­प­त्तेः ? इति सोऽपि न प्रा­ती­ति­क­व­च­नः तथा प्र­ती­त्य­भा­वा­त् । का­र्य­का­ल­म­प्रा­प्नु २०व­तो­र्वि­न­ष्टा­ना­ग­त­योः का­र­ण­त्वे हि वि­न­ष्ट­त­मा­ना­ग­त­त­म­यो­र­पि का­र­ण­त्वं कथं वि­नि­वा­र्यं ? प्र­त्या­स­त्ति­वि­शे­षा- भा­वा­दि­ति चेत् तर्हि स एव प्र­त्या­स­त्ति­वि­शे­षः का­र­ण­त्वा­भि­म­त­यो­र­ती­ता­ना­ग­त­योः का­र­ण­त्वे हे­तु­र्व­क्त­व्यः । स चा­ती­त­स्य कार्ये व्या­पा­र­स्ता­व­न्न भवति स­र्व­था­पि का­र्य­का­ले त­द­स­त्त्वा­द­ना­ग­त­व­त् । तद्भावे भा­व­प्र­त्या­स- त्ति­वि­शे­ष इ­त्य­प्य­सा­रं अ­ती­त­स्या­ना­ग­त­स्य चाभाव एव कार्यस्य भावात् भावे चा­भा­वा­त् अन्यथा का­र्य­का­र- ण­यो­रे­क­का­ल­ता­प­त्तेः स­क­ल­सं­ता­ना­ना­मे­क­क्ष­ण­व­र्ति­त्व­प्र­सं­गः । नै­क­क्ष­ण­सं­ता­नो नाम त­स्या­प­रा­मृ­ष्ट­भे­द- २५ना­ना­का­र्य­का­र­ण­ल­क्ष­ण­त्वा­त् । य­द­प्य­भ्य­धा­यि का­र­ण­स्या­ती­त­स्या­ना­ग­त­स्य च स्वकाले भावे कार्यस्य भावात् अभावे चा­भा­वा­त् तद भा­वा­भा­वो­ऽ­न्व­य­व्य­ति­रे­का­नु­वि­धा­न­ल­क्ष­णः प्र­त्या­स­त्ति­वि­शे­षो­ऽ­स्त्ये­व इति त­द­प्य­सं­ग­तं का­र­ण­त्वा­न­भि­म­ता- ती­ता­ना­ग­त­त­म­यो­र­पि तथा त­द्भा­व­प्र­सं­गा­त् । कार्यस्य भि­न्न­दे­श­स्य तु का­र­ण­त्वे यु­क्त­स्त­द्भा­व­भा­वः क­ल­श­कुं- भ­का­रा­दि­व­त् । कुं­भ­का­रा­दि­षु हि भि­न्न­स्व­दे­शे­षु सत्सु क­ल­श­स्य भा­वो­ऽ­स­त्सु चा­भा­व­स्ते­षां तत्र व्या­पा­रा­त् । ३०का­र­ण­त्वा­न­भि­म­त­स्य तु भि­न्न­दे­श­स्य न कार्ये त­द्भा­व­भा­वो तत्र त­स्या­व्या­पा­रा­त् अ­ती­ता­ना­ग­त­व­त् । सतो हि कस्य चि­त्क्व­चि­द्व्या­पा­रः श्रेयान् न पु­न­र­स­तः ख­र­वि­षा­णा­दे­रि­वे­ति युक्तं ततो भि­न्न­दे­श­स्या­पि क­स्य­चि­दे­क­स्य कार्ये व्या­प्रि­य­मा­ण­स्य स­ह­का­रि­का­र­ण­त्वं प्र­ती­ति­म­नु­स­र­ति न पु­न­र्भि­न्न­का­ल­स्य प्र­ती­त्य­ति­लं­घ­ना­त् ततो न कृ­त्ति­को­द­य­श­क­टो­द­य­योः का­र्य­का­र­ण­भा­वः स­म­व­ति­ष्ट­ते व्या­प्य­व्या­प­क­भा­व­व­त् । सत्यपि तयोः का­र्य­का­र­ण­भा­वे न हेतोः प­क्ष­ध­र्म­त्वं युज्यते इति प­क्ष­ध­र्म­मं­त­रे­णा­पि हे­तो­र्ग­म­क­त्व­सि­द्धे­र्न त­ल्ल­क्ष­ण­मु­त्प्रे­क्ष्य­ते । तथा न सपक्ष ३५एव सत्त्वं निश्चितं त­द­भा­वे­ऽ­पि स­र्व­भा­वा­ना­म­नि­त्य­त्वे साध्ये सत्त्वादेः सा­ध­न­स्य स्वयं सा­धु­त्व­स­म­र्थ­ना­त् । विपक्षे पु­न­र­स­त्त्व­मे­व निश्चितं सा­ध्या­वि­ना­भा­वि­नि­य­म­नि­श्च­य­रू­प­मे­वे­ति तदेव हेतोः प्र­धा­न­ल­क्ष­ण­म­स्तु किमत्र ल­क्ष­णां­त­रे­ण ? अथ म­त­मे­त­त्प­क्ष­ध­र्म­त्व­म­सि­द्ध­त्व­म­सि­द्ध­त्व­व्य­व­च्छे­दा­र्थं सा­ध­न­स्य लक्षणं नि­श्ची­य­ते । सपक्ष एव सत्त्वं वि­रु­द्ध­त्व­व्य­व­च्छे­दा­य । विपक्षे चा­स­त्त्वं­–­अ­ने­कां­ति­त्व­व्य­व­च्छि­त्त­ये । त­द­नि­श्च­ये हे­तो­र­सि­द्ध­त्वा­दि­दो­ष­त्र­य­प­रि­हा­रा- ७२सं­भ­वा­त् त्रैरूप्यं त­ल्ल­क्ष­णं स­फ­ल­मे­व । तदुक्तं — हे­तो­स्त्रि­ष्व­पि रूपेषु नि­र्ण­य­स्ते­न वर्णितः । अ­सि­द्ध­वि­प­री­ता­र्थ­व्य­भि­चा­रि­वि­प­क्ष­तः इति ॥ १ ॥ त­द­प्य­प­री­क्षि­ता­भि­धा­नं सौ­ग­त­स्य हे­तो­र­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­या­दे­व दो­ष­त्र­य­प­रि­हा­र­सि­द्धेः स्वयम- ०५सि­द्ध­स्या­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­या­सं­भ­वा­त् । अ­नै­कां­ति­क­वि­प­री­ता­र्थ­व­त् तस्य त­थो­प­प­त्ति­नि­य­म­नि­श्च­य- रू­प­त्वा­त् । तस्य चा­सि­द्ध­व्य­भि­चा­रि­णि विरुद्धे च हे­ता­व­सं­भा­व­नी­य­त्वा­त् । रू­प­त्र­य­स्या­वि­ना­भा­व- नि­य­म­प्र­पं­च­त्वा­त् सा­ध­न­ल­क्ष­ण­त्वे तत एव रू­प­प्र­पं­च­क­स्य सा­ध­न­ल­क्ष­ण­त्व­म­स्तु । प­क्ष­व्या­प­क­त्वा­न्व­य­व्य- ति­रे­का­बा­धि­त­वि­ष­य­त्वा­स­त्प्र­ति­प­क्ष­रू­पा­णि हि पं­चा­प्य­वि­ना­भा­व­नि­य­म­प्र­पं­च एव बा­धि­त­वि­ष­य­स्य सत्प्र- ति­प­क्षि­त­स्य चा­वि­ना­भा­व­नि­य­मा­नि­श्च­या­त् प­क्षा­व्या­प­का­न­न्व­या­व्य­ति­रे­क­व­त् । न प­क्ष­ध­र्म­त्वे सत्येव सा- १०धनस्य सिद्धत्वं ये­ना­सि­द्ध­वि­वे­क­त­स्त­त्त­स्य ल­क्ष­णं­, अ­प­क्ष­ध­र्म­स्या­पि सि­द्ध­त्व­स­म­र्थ­ना­त् । नापि सपक्षे सत्त्वे एव वि­प­री­ता­र्थ­वि­वे­कः स­र्वा­ने­कां­ता­त्म­क­त्व­सा­ध­ने सत्त्वादेः सपक्षे स­त्त्वा­भा­वे­ऽ­पि वि­रु­द्ध­त्वा­भा- वात् परस्य स­र्वा­नि­त्य­त्व­सा­ध­न­व­त् । नच व्य­ति­रे­क­मा­त्रे सत्यपि व्य­भि­चा­रि­वि­वे­के श्यामत्वे साध्ये- त­त्पु­त्र­त्वा­दे­र्व्य­भि­चा­र­सा­ध­ना­त् व्य­ति­रे­क­वि­शे­ष­स्तु त­दे­वा­न्य­था­नु­प­प­न्न­त्व­मि­ति न त्रीणि रू­पा­ण्य­वि­ना भा­व­नि­य­म­प्र­पं­चः तेषु सत्सु हे­तो­र­न्य­था­नु­प­प­त्ति­द­र्श­ना­त् । तेषां त­त्प्र­पं­च­त्वे का­ला­का­शा­दी­ना­म­पि तत्प्र- १५पं­च­त्व­प्र­स­क्ति­स्ते­ष्व­पि सत्सु त­द्द­र्श­ना­त् । तेषां स­र्व­सा­ध­र­ण­त्वा­न्न हे­तु­रू­प­त्व­मि­त्य­पि प­क्ष­ध­र्म­त्वा­दि­षु समानं ते­षा­म­पि सा­धा­र­ण­त्वा­द्धे­त्वा­भा­से­ष्व­पि भावात् । त­तो­ऽ­सा­धा­र­णं ल­क्ष­ण­मा­च­क्षा­णै­र­न्य­था­नु­प­प­न्न­त्व­मे­व नियतं हे­तु­ल­क्ष­णं प­क्षी­क­र्त­व्यं । तथोक्तं — अ­न्य­था­नु­प­प­न्न­त्वं यत्र तत्र त्रयेण किं ना­न्य­था­नु­प­प­न्न­त्वं यत्र तत्र त्रयेण किं ॥ १ ॥ इति २०एतेन पं­च­रू­पा­णि हे­तो­र­वि­ना­भा­व­नि­य­म­प्र­पं­च एव इ­त्ये­त­द­पा­स्तं स­त्य­प्य­बा­धि­त­वि­ष­य­त्वे स­त्प्र­ति­प­क्षे चा­वि­ना­भा­व­नि­य­मा­न­व­लो­का­त् । प­क्ष­व्या­प­क­त्वा­न्य­य­व्य­ति­रे­क­व­त् । स श्या­म­स्त­त्पु­त्र­त्वा­दि­त­र­त­त्पु­त्र­व­त् इत्यत्र त­त्पु­त्र­त्व­स्य हे­तो­र्वि­ष­ये श्यामत्वे बा­ध­क­स्य प्र­त्य­क्षा­दे­र­भा­वा­त् अ­वा­धि­त­वि­ष­य­त्व­सि­द्धा­व­पि अविना- भा­व­नि­य­मा­स­त्त्वा­त् अ­श्या­मे­न त­त्पु­त्रे­ण व्य­भि­चा­रा­त् । तथा तस्य श्या­म­त्व­सा­ध­ना­नु­मा­न­स्य प्र­ति­प­क्ष­स्या­स- त्त्वात् अ­स­त्प्र­ति­प­क्ष­त्वे सत्यपि व्य­भि­चा­रा­त्सा­ध­न­स्य त­द­भा­वः प्र­ति­प­त्त­व्यः । त­द­त्रै­वं वक्तव्यं — २५अ­न्य­था­नु­प­प­न्न­त्वं रूपैः किं पंचभिः कृतं ना­न्य­था­नु­प­प­न्न­त्वं रूपैः किं पंचभिः कृतं ॥ १ ॥ इति त­दे­व­म­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य एवैकं सा­ध­न­स्य लक्षणं प्रधानं त­स्मि­न्स­ति त्रि­ल­क्ष­ण­स्य पंचल- क्षणस्य प्रयोगो नि­वा­र्य­ते एवेति प्र­यो­ग­प­रि­पा­ट्याः प्र­ति­पा­द्या­नु­रो­ध­तः प­रा­नु­ग्र­ह­प्र­वृ­त्तै­र­भ्यु­प­ग­मा­त् । तथा चा- भ्यधायि कु­मा­र­नं­दिभ­ट्टा­र­कैः — ३०अ­न्य­था­नु­प­प­त्त्ये­क­ल­क्ष­णं लिं­ग­मं­ग्य­ते प्र­यो­ग­प­रि­पा­टी तु प्र­ति­पा­द्या­नु­रो­ध­तः ॥ १ ॥ इति तच्च साधनं ए­क­ल­क्ष­णं सा­म­न्या­दे­क­वि­ध­म­पि वि­शे­ष­तो­ऽ­ति­सं­क्षे­पा­द्द्वि­वि­धं वि­धि­सा­ध­नं सं­क्षे­पा­स्त्रि­वि­धं- म­भि­धी­य­ते कार्यं का­र­ण­स्य­, कारणं का­र्य­स्य­, अ­का­र्य­का­र­ण­म­का­र्य­का­र­ण­स्ये­ति प्र­का­रां­त­र­स्या­त्रै­वां­त­र्भा­वा­त् । तत्र कार्यं हेतुः, अ­ग्नि­र­त्र धूमात् इति का­र्य­का­र्या­दे­र­त्रै­वां­त­र्ग­त­त्वा­त् । कारणं हेतुः — अस्त्यत्र छाया छत्रात् ३५इति का­र­ण­का­र­णा­दे­र­त्रा­नु­प्र­वे­शा­न्ना­र्था­त­र­त्वं । न चा­नु­कू­ल­त्व­मा­त्र­म­त्य­क्ष­ण­प्रा­प्तं वा कारणं लिं­ग­मु­च्य­ते येन प्र­ति­बं­ध­वै­क­ल्य­सं­भ­वा­द्व्य­भि­चा­रि स्यात् । द्वि­ती­य­क्ष­णे कार्यस्य प­क्षी­क­र­णा­द­नु­मा­ना­न­र्थ­क­त्वं वा का­र्या­वि­ना- भा­वि­नि­य­म­त­या नि­श्चि­त­स्या­नु­मा­न­का­ल­प्रा­प्त­स्य का­र­ण­स्य वि­शि­ष्ट­स्य लिं­ग­त्वा­त् । अ­का­र्य­का­र­णं च­तु­र्वि­धं — व्याप्यं स­ह­च­रं पू­र्व­च­रं­, उ­त्त­र­च­रं चेति । तत्र व्या­प्य­लिं­गं व्या­प­क­स्य यथा स­र्व­म­ने­कां­ता­त्म­कं स­त्त्वा­दि­ति सत्त्वं हि वस्तुत्वं — ७३उ­त्पा­द­व्य­य­ध्रौ­व्य­यु­क्तं सत् इति व­च­ना­त् । नच त­दे­कां­ते­न सु­न­य­वि­ष­ये­ण व्य­भि­चा­रि तस्य व­स्त्वं­श­त्वा­त् । स­ह­च­रं लिंगं यथा —अस्ति तेजसि स्प­र्श­सा­मा­न्यं (? ) न रू­प­सा­मा­न्य­स्य कार्यं कारणं वा नापि रू­प­सा­मा­न्यं स्प­र्श­सा­मा­न्य­स्य तयोः सर्वत्र सर्वदा स­म­का­ल­त्वा­त् स­ह­च­र­त्व­प्र­सि­द्धेः । एतेन सं­यो­गि­न ए­का­र्थ­स­म­वा­यि­न­श्च सा­ध्य­स­म­का­ल­स्य ०५स­ह­च­र­त्वं नि­वे­दि­त­मे­क­सा­म­ग्र्य­धी­न­स्यै­व प्र­ति­प­त्त­व्यं स­म­वा­यि­नः का­र­ण­त्व­व­त् । पू­र्व­च­रं लिंगं य­थो­दे­ष्य­ति शकटं कृ­त्ति­को­द­या­त् इति पू­र्व­पू­र्व­च­रा­द्य­ने­नै­व सं­गृ­ही­तं । उ­त्त­र­च­र­लिं­गं यथा — उ­द­गा­द्भ­र­णिः कृ­ति­को­द­या­त् इति, उ­त्त­रो­त्त­र­च­र­मे­ते­नै­व सं­गृ­ह्य­ते त­दे­त­त्सा­ध्य­स्य विधौ साधनं ष­ड्वि­ध­मु­क्तं । प्र­ति­षे­धे तु प्र­ति­षे­ध्य­स्य विरुद्धं कार्यं विरुद्धं कारणं वि­रु­द्धा­का­र्य­का­र­णं चेति । तत्र वि­रु­द्ध­का­र्य­लिं­गं-नास्त्यत्र शी­त­स्प­र्शो धूमात् इति शीत स्पर्शेन हि विरुद्धो वन्हिः तस्य कार्यं धूम इति वि­रु­द्ध­का­र­णं । नास्य पुं­सो­ऽ­स­त्य­म­स्ति स­म्य­ग्ज्ञा­ना­त् इति विरुद्धं १०ह्य­स­त्ये­न सत्यं तस्य कारणं स­म्य­ग्ज्ञा­नं य­था­र्थ­ज्ञा­नं रा­ग­द्वे­ष­र­हि­तं त­त्कु­त­श्चि­त्सु­क्ता­भि­धा­ना­देः प्र­सि­द्ध्य­त् सत्यं सा­ध­य­ति । तच्च सि­द्ध्य­द­स­त्यं प्र­ति­षे­ध­य­ति इति । वि­रु­द्धा­का­र्य­का­र­णं च­तु­र्वि­धं­–­वि­रु­द्ध­व्या­प्यं वि­रु­द्ध­स­ह- चरं वि­रु­द्ध­पू­र्व­च­रं वि­रु­द्धो­त्त­र­च­रं चेति तत्र वि­रु­द्ध­व्या­प्यं नास्त्यत्र शी­त­स्प­र्शः­, औष्ण्यात् । औष्ण्यं हि व्या­प्य­म­ग्नेः स च विरुद्धः शी­त­स्प­र्शे­न प्र­ति­षे­ध्ये­ने­ति । वि­रु­द्ध­स­ह­च­रं नास्त्यस्य मि­थ्या­ज्ञा­नं स­म्य­ग्द­र्श­ना­दि­ति मि­थ्या­ज्ञा­ने­न हि स­म्य­ग्ज्ञा­नं विरुद्धं त­त्स­ह­च­रं स­म्य­ग्द­र्श­न­मि­ति । वि­रु­द्ध­पू­र्व­च­रं नो­दे­ष्य­ति मु­हू­र्तां­ते शंकटं १५रे­व­त्यु­द­या­त् । श­क­टो­द­य­वि­रु­द्धो ह्य­श्व­न्यु­द­यः त­त्पू­र्व­च­रो रे­व­त्यु­द­यः । वि­रु­द्धो­त्त­र­च­रं­–­मु­हू­र्ता­त् प्रा­ङ्गो­द­गा­द्भ­र­णिः पु­ष्पो­द­या­दि­ति । भ­र­ण्यु­द­य­वि­रु­द्धो हि पु­न­र्व­सू­द­यः त­दु­त्त­र­च­रः पु­ष्पो­द­य इति । ता­न्ये­ता­नि सा­क्षा­त्प्र­ति­षे­ध्य- वि­रु­द्ध­का­र्या­दी­नि लिंगानि वि­धि­द्वा­रे­ण प्र­ति­षे­ध­सा­ध­ना­नि ष­ड­भि­हि­ता­नि । प­रं­प­र­या तु का­र­ण­वि­रु­द्ध­का­र्यं व्याप- क­वि­रु­द्ध­का­र्यं का­र­ण­व्या­प­क­वि­रु­द्ध­का­र्यं व्या­प­क­का­र­ण­वि­रु­द्ध­का­र्यं का­र­ण­वि­रु­द्ध­का­र­णं व्या­प­क­वि­रु­द्ध­का­र­णं कार- ण­व्या­प­क­वि­रु­द्ध­का­र­णं व्या­प­क­का­र­ण­वि­रु­द्ध­का­र­णं चेति तथा का­र­ण­वि­रु­द्ध­व्या­प्या­दी­नि का­र­ण­वि­रु­द्ध­च­ह­च­रा- २०दीनि च य­था­प्र­ती­ति व­क्त­व्या­नि । तत्र का­र­ण­वि­रु­द्ध­का­र्यं­–­ना­स्त्य­स्य हि­म­ज­नि­त­रो­म­ह­र्षा­दि­वि­शे­शो धूमात् इति प्र­ति­षे­ध्य­स्य हि रो­म­ह­र्षा­दि­वि­शे­ष­स्य कारणं हिमं त­द्वि­रु­द्धो­ऽ­ग्निः तत्कार्यं धूम इति । व्या­प­क­वि­रु­द्ध­का­र्यं नास्त्यत्र शी­त­सा­मा­न्य­व्या­प्तः शी­त­स्प­र्श­वि­शे­षो धूमात् इति शी­त­स्प­र्श­वि­शे­ष­स्य हि नि­षे­ध्य­स्य व्यापकं शी- त­सा­मा­न्यं त­द्वि­रु­द्धो­ऽ­ग्निः तस्य कार्यं धूम इति । का­र­ण­व्या­प­क­वि­रु­द्ध­का­र्यं नास्त्यत्र हि­म­त्व­व्या­प्त­हि­म­वि­शे- ष­ज­नि­त­रो­म­ह­र्षा­दि­वि­शे­षो धूमात् इति रो­म­ह­र्षा­दि­वि­शे­ष­स्य हि कारणं हि­म­वि­शे­ष­स्त­स्य व्यापकं हिमत्वं २५त­द्वि­रु­द्धो­ग्निः तत्कार्यं धूम इति । व्या­प­क­का­र­ण­वि­रु­द्ध­का­र्यं — नास्त्यत्र शी­त­स्प­र्श­वि­शे­ष­स्त­द्व्या­प­क­शी­त­स्प- र्श­मा­त्र­का­र­ण­हि­म­वि­रु­द्धा­ग्नि­का­र्य­धू­मा­दि­ति शी­त­स्प­र्श­वि­शे­ष­स्य हि व्यापकं शी­त­स्प­र्श­मा­त्रं तस्य कारणं हिमं त­द्वि­रु­द्धो­ग्नि­स्त­त्का­र्यं धूम इति । का­र­ण­वि­रु­द्ध­का­र­णं­–­ना­स्त्य­स्य मि­थ्या­च­र­णं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­त् मि- थ्या­च­र­ण­स्य हि कारणं मि­थ्या­ज्ञा­नं त­द्वि­रु­द्धं त­त्त्व­ज्ञा­नं तस्य कारणं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णं । तत्त्वार्थो- प­दे­श­श्र­व­णे सत्यपि कस्य चि­त्त­त्व­ज्ञा­ना­सं­भ­वा­द् ग्र­ह­ण­व­च­नं । त­त्त्वा­र्था­नां श्र­द्धा­न­पू­र्व­कं­–­अ­व­धा­र­णं हि ३०ग्र­ह­ण­मि­ष्टं­, अ­न्य­था­स्य ग्र­ह­णा­भा­स­त्वा­त् । मि­थ्या­च­र­ण­स्य वात्र नास्तिता साध्यते न पु­न­र­ना­च­र­ण­स्य त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­दु­त्प­न्न­त­त्त्व­ज्ञा­न­स्या­प्य­सं­य­त­स­म्य­ग्दृ­ष्टे­श्चा­रि­त्रा­सं­भ­वा­त् — अ­ना­चा­र­स्य प्रसिद्धेः । न तु मि- थ्या­च­र­ण­म­प्य­स्य सं­भ­व­ति त­त्त्व­ज्ञा­न­वि­रो­धा­त् तेन सह त­स्या­न­व­स्था­ना­त् इति । तथा व्या­प­क­वि­रु­द्ध­का­र­णं लिं­गं­–­ना­स्त्य­स्या­त्म­नि मि­थ्या­ज्ञा­नं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­त् इति आत्मनि मि­थ्या­ज्ञा­न­वि­शे­ष­स्य व्यापकं मिथ्या- ज्ञा­न­मा­त्रं त­द्वि­रु­द्धं स­त्य­ज्ञा­नं तस्य कारणं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णं य­था­र्थो­प­व­र्णि­त­मि­ति । का­र­ण­व्या­प­क­वि­रु­द्ध- ३५का­र­णं­–­ना­स्त्य­स्य मि­थ्या­च­र­णं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­दि­ति अत्र मि­थ्या­च­र­ण­स्य कारणं मि­थ्या­ज्ञा­न­वि­शे­षः तस्य व्यापकं मि­थ्या­ज्ञा­न­मा­त्रं त­द्वि­रु­द्धं त­त्त्व­ज्ञा­नं­, तस्य कारणं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­ण­मि­ति प्रत्येयं । व्या­प­क­का­र­ण­वि­रु­द्ध­का­र­णं लिंगं नास्त्यस्य मि­थ्या­च­र­ण­वि­शे­ष­स्त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णा­दि­ति मि­थ्या­च­र­ण विशे- षस्य हि व्यापकं मि­थ्या­च­र­ण­सा­मा­न्यं तस्य कारणं मि­थ्या­ज्ञा­नं त­द्वि­रु­द्धं त­त्त्व­ज्ञा­नं तस्य कारणं त­त्त्वा­र्थो­प­दे- (? ) रू­प­सा­मा­न्या­त् । स्प­र्श­सा­मा­न्यं हि इति शोधितं । ७४श­ग्र­ह­ण­मि­ति तथा का­र­ण­वि­रु­द्ध­व्या­प्यं लिंगं न संति स­र्व­थै­कां­त­वा­दि­नः प्र­श­म­सं­वे­गा­नु­कं­पा­स्ति­क्या­नि वै­प­र्या­सि­क­मि­थ्या­द­र्श­न­वि­शे­षा­त् । प्र­श­मा­दी­नां हि कारणं स­म्य­ग्द­र्श­नं त­द्वि­रु­द्धं मि­थ्या­द­र्श­न­सा­मा­न्यं तेन व्याप्यं मि­थ्या­द­र्श­नं वै­प­र्या­सि­क­वि­शि­ष्ट­मि­ति । व्या­प­क­वि­रु­द्ध­व्या­प्यं­–­न संति स्या­द्वा­दि­नो वै­प­र्या­सि­का­दि­मि- थ्या­द­र्श­न­वि­शे­षाः स­त्य­ज्ञा­न­वि­शे­षा­त् इति वै­प­र्या­सि­का­दि­मि­थ्या­द­र्श­न­वि­शे­षा­णां हि व्यापकं मि­थ्या­द­र्श­न­सा- ०५मान्यं त­द्वि­रु­द्धं त­त्त्व­ज्ञा­न­सा­मा­न्यं तस्य व्या­प्य­स्त­त्त्व­ज्ञा­न­वि­शे­ष इति । का­र­ण­व्या­प­क­वि­रु­द्ध­व्या­प्यं — न संत्यस्य प्र­श­मा­दी­नि मि­थ्या­ज्ञा­न­वि­शे­षा­दि­ति­, प्र­श­मा­दी­नां हि कारणं स­म्य­ग्द­र्श­न­वि­शे­षः तस्य व्यापकं सम्य- ग्द­र्श­न­सा­मा­न्यं त­द्वि­रु­द्धं मि­थ्या­ज्ञा­न­सा­मा­न्यं तेन व्याप्तो मि­थ्या­ज्ञा­न­वि­शे­ष इति । व्या­प­क­का­र­ण­वि­रु­द्ध व्याप्यं लिंगं न संत्यस्य त­त्त्व­ज्ञा­न­वि­शे­षाः मि­थ्या­र्थो­प­दे­श­ग्र­ह­ण­वि­शे­षा­त् । त­त्त्व­ज्ञा­न­वि­शे­षा­णां व्यापकं त­त्त्व­ज्ञा­न­सा­मा­न्यं तस्य कारणं त­त्त्वा­र्थो­प­दे­श­ग्र­ह­णं त­द्वि­रु­द्धं मि­थ्या­र्थो­प­दे­श­ग्र­ह­ण­सा­मा­न्यं तेन व्याप्तो १०मि­थ्या­र्थो­प­दे­श­ग्र­ह­ण­वि­शे­ष इति । एवं का­र­ण­वि­रु­द्ध­स­ह­च­रं लिं­गं­–­सं­त्य­स्य प्र­श­मा­दी­नि मि­थ्या­ज्ञा­ना­दि­ति प्र­श­मा­दी­नां हि कारणं स­म्य­ग्द­र्श­नं त­द्वि­रु­द्धं मि­थ्या­द­र्श­नं त­त्स­ह­च­रं मि­थ्या­ज्ञा­न­मि­ति । व्या­प­क­वि­रु­द्ध- स­ह­च­रं­–­न संत्यस्य मि­थ्या­द­र्श­न­वि­शे­षाः स­म्य­ग्ज्ञा­ना­दि­ति मि­थ्या­द­र्श­न­वि­शे­षा­णां हि व्यापकं मि­थ्या­द­र्श- न­सा­मा­न्यं त­द्वि­रु­द्धं त­त्त्वा­र्थ­श्र­द्धा­नं स­म्य­ग्द­र्श­नं त­त्स­ह­च­रं स­म्य­ग्ज्ञा­न­मि­ति । का­र­ण­व्या­प­क­वि­रु­द्ध­स­ह­च­रं­ —न संत्यस्य प्र­श­मा­दी­नि मि­थ्या­ज्ञा­ना­दि­ति प्र­श­मा­दी­नां हि कारणं स­म्य­ग्द­र्श­न­वि­शे­षा­स्ते­षां व्यापकं सम्य- १५ग्द­र्श­न­सा­मा­न्यं त­द्वि­रु­द्धं मि­थ्या­द­र्श­नं त­त्स­ह­च­रं मि­थ्या­ज्ञा­न­मि­ति । व्या­प­क­का­र­ण­वि­रु­द्ध­स­ह­च­रं न संत्यस्य मि­थ्या­द­र्श­न­वि­शे­षाः स­त्य­ज्ञा­ना­दि­ति मि­थ्या­द­र्श­न­वि­शे­षा­णां हि व्यापकं मि­थ्या­द­र्श­न­सा­मा­न्यं तस्य कारणं द­र्श­न­मो­हो­द­य­स्त­द्वि­रु­द्धं स­म्य­ग्द­र्श­नं त­त्स­ह­च­रं स­म्य­ग्ज्ञा­न­मि­ति । त­दे­त्सा­मा­न्य­तो वि­रो­धि­लिं­गं­, प्र­पं­च­तो द्वा­विं­श­ति­प्र­का­र­म­पि भू­त­म­भू­त­स्य ग­म­क­म­न्य­था­नु­प­प­न्न­त्व­नि­य­म­नि­श्च­य­ल­क्ष­ण­त्वा­त् प्र­ति­प­त्त­व्यं । भूतं भूतस्य प्र­यो­ज­कं कार्यादि ष­ट्प्र­का­रं पू­र्व­मु­क्तं । तदित्थं वि­धि­मु­खे­न वि­धा­य­कं-प्र­ति­षे­ध­मु­खे­न प्र­ति­षे­ध­कं च लिंगम- २०भिधाय सांप्रतं प्र­ति­षे­ध­मु­खे­न वि­धा­य­कं प्र­ति­षे­ध­कं च सा­ध­न­म­भि­धी­य­ते त­त्रा­भू­तं भूतस्य वि­धा­य­कं-यथा —अस्त्यस्य प्राणिनो व्या­धि­वि­शे­षो नि­रा­म­य­चे­ष्टा­नु­प­ल­ब्धे­रि­ति । तथा — अस्ति स­र्व­थै­कां­त­वा­दि­ना­म­ज्ञा­ना­दि- र्दोषः यु­क्ति­शा­स्त्रा­वि­रु­द्ध­व­च­ना­भा­वा­त् इति अस्त्यस्य मु­ने­रा­प्त­त्वं वि­सं­वा­द­क­त्वा­भा­वा­त् । अ­भू­दे­त­स्य ताल- फलस्य प­त­न­क­र्म वृं­त­सं­यो­गा­भा­वा­त् इति वहुधा दृष्टव्यं । त­थै­वा­भू­त­म­भू­त­स्य प्र­ति­षे­ध­स्य प्र­ति­षे­ध­कं यथा —नास्त्यत्र श­व­श­री­रे बु­द्धि­र्व्या­पा­र­व्या­हा­रा­का­र­वि­शे­षा­नु­प­ल­ब्धे­रि­ति का­र्या­नु­प­ल­ब्धिः । न संत्यस्य प्र­श­मा­दी­नि २५त­त्त्वा­र्थ­श्र­द्धा­ना­नु­प­ल­ब्धे­रि­ति का­र­णा­नु­प­ल­ब्धिः । नास्त्यत्र शिंशपा वृ­क्षा­नु­प­ल­ब्धे­रि­ति व्या­प­का­नु­प­ल­ब्धिः । नास्त्यस्य त­त्त्व­ज्ञा­नं स­म्य­ग्द­र्श­ना­भा­वा­त् इति स­ह­च­रा­नु­प­ल­ब्धिः । न भ­वि­ष्य­ति मु­हू­र्तां­ते श­क­टो­द­यः कृत्ति- को­द­या­नु­प­ल­ब्धे­रि­ति पू­र्व­च­रा­नु­प­ल­ब्धिः । नो­द­गा­द्भ­र­णि­र्मु­हू­र्ता­त्प्रा­क्कृ­त्ति­को­द­या­नु­प­ल­ब्धे­रि­ति उ­त्त­र­च­रा­नु­प- लब्धिः । एव प­रं­प­र­या का­र­णा­द्य­नु­प­ल­ब्धिः व्या­प­क­व्या­प­का­नु­प­ल­ब्ध्या­दि­क­म­पि बहुधा प्र­ति­षे­ध­द्वा­रे­ण प्र­ति­षे­ध­सा­ध­न­म­व­धा­र­णी­यं । ३०अत्र सं­ग्र­ह­श्लो­काः — स्यात्कार्यं का­र­ण­व्या­प्यं प्राक् स­हो­त्त­र­चा­रि च लिंगं त­ल्ल­क्ष­ण­व्या­प्ते­र्भू­तं भूतस्य साधकं ॥ १ ॥ षोढा वि­रु­द्ध­का­र्या­दि सा­क्षा­दे­वो­प­व­र्णि­तं लिंगं भू­त­म­भू­त­स्य लिं­ग­ल­क्ष­ण­यो­ग­तः ॥ २ ॥ ३५पा­रं­प­र्या­त्तु कार्यं स्यात् कारणं व्या­प्य­मे­व च स­ह­चा­रि च निर्दिष्टं प्रत्येकं त­च्च­तु­र्वि­धं ॥ ३ ॥ का­र­णा­द्द्वि­ष्ठ­का­र्या­दि­भे­दे­नो­दा­हृ­तं पुरा यथा षो­ड­श­भे­दं स्यात् द्वा­विं­शा­ति­वि­धं ततः ॥ ४ ॥ लिंगं स­मु­दि­तं ज्ञे­य­म­न्य­था­नु­प­प­त्ति­म­त्७५तथा भू­त­म­भू­त­स्या­प्यू­ह्य­म­न्य­द­पी­दृ­शं ॥ ५ ॥ अभूतं भू­त­मु­न्नी­तं भू­त­स्या­ने­क­धा बुधैः तथा ऽ­भू­त­म­भू­त­स्य य­था­यो­ग्य­मु­दा­ह­रे­त् ॥ ६ ॥ ब­हु­धा­प्ये­व­मा­ख्या­तं सं­क्षे­पे­ण च­तु­र्वि­धं ०५अ­ति­सं­क्षे­प­तो द्वे­धो­प­लं­भा­नु­प­लं­भ­भृ­त् ॥ ७ ॥ एतेन का­र्य­स्व­भा­वा­नु­प­लं­भ­वि­क­ल्पा­त् त्रि­वि­ध­मे­व लिं­ग­मि­ति नियमः प्र­त्या­ख्या­तः स­ह­च­रा­दे­र्लिं­गां­त­र­त्वा­त् प्र­त्य­क्ष­पू­र्व­कं त्रि­वि­ध­म­नु­मा­नं-पू­र्व­व­च्छे­ष­व­त्सा­मा­न्य­तो­दृ­ष्ट­मि­त्य­पि । यदि पू­र्व­व­च्छे­ष­व­त् के­व­ला­न्व­यि­, पू­र्व­व­त्सा­मा­न्य- तोदृष्टं के­व­ल­व्य­ति­रे­कि पू­र्व­व­च्छे­ष­व­त्सा­मा­न्य­तो­दृ­ष्ट­म­न्व­य­व्य­ति­रे­कि व्या­ख्या­य­ते त्रि­सू­त्री­क­र­णा­द­स्य सूत्रस्य तदा न किं­चि­द्वि­रु­द्धं नि­ग­दि­त­लिं­ग­प्र­का­रे­षु त्रि­वि­ध­स्या­पि सं­भ­वा­त् । य­थो­प­प­त्ति­नि­य­मा­त्के­व­ला­न्व­यि­नो ग­म­क­त्वा­वि­रो­धा­त् । १०तत्र वै­ध­र्म्य­दृ­ष्टां­ता­भा­वे­ऽ­पि सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­त् । अथ पू­र्व­व­त्का­र­णा­त्का­र्या­नु­मा­नं शे­ष­व­त् कार्या- त्का­र­णा­नु­मा­नं सा­मा­न्य­तो दृष्टं । अ­का­र्य­का­र­णा­द­का­र्य­का­र­णा­नु­मा­नं सा­मा­न्य­तो­ऽ­वि­ना­भा­व­मा­त्रा­दि­ति व्या­ख्या­य­ते तदापि स्या­द्वा­दि­ना­म­भि­म­त­मे­व तथा स­र्व­हे­तु­प्र­का­र­सं­ग्र­ह­स्य सं­क्षे­प­तः प्र­ति­पा­द­ना­त् । यदापि पू­र्व­व­त्पू­र्व­लिं­ग- लिं­गि­सं­बं­ध­स्य क्व­चि­न्नि­श्च­या­द­न्य­त्र पू­र्व­व­द्व­र्त­मा­नं शे­ष­व­त्प­रि­शे­षा­नु­मा­नं प्र­स­क्त­प्र­ति­षे­धे प­रि­शि­ष्ट­स्य प्र­ति­प­त्तेः । सा­मा­न्य­तो दृष्टं वि­शि­ष्ट­व्य­क्तौ सं­बं­धा­ग्र­ह­णा­त्सा­मा­न्ये­न दृष्टं यथा — ग­ति­मा­ना­दि­त्यः दे­शा­द्दे­शां­त­र­प्रा­प्तेः देवद- १५त्त­व­दि­ति व्याख्या वि­धी­य­ते तदापि स्या­द्वा­दि­नां ना­न­व­धे­यं प्र­ति­पा­दि­त­हे­तु­प्र­पं­च­स्यै­व वि­शे­ष­प्र­का­श­ना­त् । सर्वं हि लिंगं पू­र्व­व­दे­व प­रि­शे­षा­नु­मा­न­स्या­पि पू­र्व­व­त्त्व­सि­द्धेः­, प्र­स­क्त­प्र­ति­षे­ध­स्य प­रि­शि­ष्ट­प्र­ति­प­त्त्य­वि­ना­भू­त­स्य पूर्वं क्व­चि­न्नि­श्चि­त­स्य वि­वा­दा­ध्या­सि­त­प­रि­शि­ष्ट­प्र­ति­प­त्तौ सा­ध­न­स्य प्र­यो­गा­त् । सा­मा­न्य­तो­दृ­ष्ट­स्य च पू­र्व­व­त्त्व- प्रतीतेः क्व­चि­द्दे­शां­त­र­प्रा­प्तेः । ग­ति­म­त्य­वि­ना­भा­वि­न्या एव दे­व­द­त्ता­दौ प्र­ति­प­त्ते­र­न्य­था त­द­नु­मा­ना­प्र­वृ­त्तेः । प­रि­शे­षा­नु­मा­न­मे­व वा सर्वं सं­प्र­ती­य­ते पू­र्व­व­तो­ऽ­पि धू­मा­त्पा­व­का­नु­मा­न­स्य प्रसक्तौ पा­व­क­प्र­ति­षे­धा­त् प्र­वृ­त्ति­घ­ट­ना­त् । २०त­द­प्र­ति­प­त्तौ वि­वा­दा­नु­प­प­त्ते­र­नु­मा­न­वै­य­र्थ्या­त् तथा सा­मा­न्य­तो­दृ­ष्ट­स्या­पि दे­शां­त­र­प्रा­प्ते­रा­दि­त्य­ग­त्य­नु­मा­न­स्य त­द­ग­ति­म­त्त्व­स्य प्र­स­क्त­स्य प्र­ति­षे­धा­दु­प­प­त्ते­रि­ति । सकलं सा­मा­न्य­तो­दृ­ष्ट­मे­व वा सर्वत्र सा­मा­न्ये­नै­व लिं­ग­लिं­गि सं­बं­ध­प्र­ति­प­त्ते­र्वि­शे­ष­त­स्त­त्सं­बं­ध­स्य प्र­ति­प­त्तु­म­श­क्तेः । केन चि­द्वि­शे­षे­ण लिं­ग­भे­द­क­ल्प­ना न नि­वा­र्य­ते एव प्र­का­रां­त­र­त­स्त­द्भे­द­क­ल्प­ना­व­त् । के­व­ल­म­न्य­था­नु­प­प­न्न­त्व­नि­य­म­नि­श्च­य एव हेतोः प्र­यो­ज­क­त्व­नि­मि­त्तं तस्मिन् सति हे­तु­प्र­का­र­भे­द­प­रि­क­ल्प­ना­याः प्र­ति­प­त्तु­र­भि­प्रा­य­वै­चि­त्र्या­त् । वैचित्र्यं ना­न्य­थे­ति सु­नि­श्चि­तं न­श्चे­त­सि तथा २५प्र­ती­ते­र­बा­ध्य­मा­न­त्वा­त् । य­दा­पि­–­अ­वी­तं वीतं वी­ता­वी­त­मि­ति लिंगं त्रि­वि­ध­म­नु­म­न्य­ते तदापि ना­न्य­था­नु­प­प­न्न­त्व नि­य­म­नि­श्च­य­ल­क्ष­ण­म­ति­क्र­म्य व्य­व­ति­ष्ठ­ते । नापि प्र­ति­पा­दि­त­हे­तु­प्र­पं­च­ब­हि­र्भू­तं स­म­यां­त­र­भा­ष­या के­व­ला­न्व­य्या­दि त्र­य­स्यै­व त­था­वि­धा­ना­त् । क्व­चि­त्सा­ध्य­सा­ध­न­ध­र्म­योः सा­ह­च­र्य­म­वि­ना­भा­व­नि­य­म­ल­क्ष­ण­मु­प­ल­भ्या­न्य­त्र सा­ध­न­ध­र्म- द­र्श­ना­त् । सा­ध्य­ध­र्म­प्र­ति­प­त्ति­रा­वी­त­मु­च्य­ते यथा गु­णा­गु­णि­नौ प­र­स्प­रं भिन्नौ भि­न्न­प्र­त्य­य­वि­ष­य­त्वा­त् घ­ट­प­ट­व- दीति तच्च के­व­ला­न्व­यी­ष्य­ते क­थं­चि­द्भे­द­ए­व साध्ये ऽ­न्य­था­नु­प­प­न्न­त्व­सि­द्धेः सर्वथा भेदे गु­ण­गु­णि­भा­व­वि­रो­धा­त् ३०ग­म­क­त्वा­सि­द्धेः । तथा क्व­चि­दे­क­स्य धर्मस्य व्यावृत्तौ परस्य धर्मस्य व्यावृत्तिं नि­य­म­व­ती­मु­प­ल­भ्या­न्य­त्र त­द्ध­र्म­स्य नि­श्च­या­त् सा­ध्य­सि­द्धि­र्वी­तं कथ्यते यथा सात्मकं जी­व­च्छ­री­रं प्रा­णा­दि­म­त्त्वा­त् इति तदिदं केवल व्य­ति­रे­की­ष्ठं प­रि­णा­मि­ना­त्म­ना सा­त्म­क­त्व­व्या­वृ­त्तौ भस्मनि प्रा­णा­दि­म­त्त्व­व्या­वृ­त्ति­नि­य­म­नि­श्च­या­त् नि­र­न्व­य क्ष­णि­क­चि­त्त­व­त् कू­ट­स्थे­ना­त्म­ना प्रा­णा­द्य­र्थ­क्रि­या­नि­ष्पा­द­न­वि­रो­धा­त् । वी­ता­वि­तं तु त­दु­भ­य­ल­क्ष­ण­यो­गा­द­न्व- य­व्य­ति­रे­कि धूमादेः पा­व­का­द्य­नु­मा­नं प्र­सि­द्ध­मे­वे­ति न हे­त्वं­त­र­म­स्ति ततः सूक्तं — अ­न्य­था­नु­प­प­त्ति­नि­य­म­नि­श्च­य- ३५लक्षणं साधनं अ­ति­सं­क्षे­प­वि­स्त­र­तो­ऽ­भि­हि­त­स्य स­क­ल­सा­ध­न­वि­शे­ष­स्य तेन व्या­प्त­त्वा­त् । त­था­वि­ध­ल­क्ष­णा­त्सा- धनात् साध्ये सा­ध­यि­तुं शक्ये, अ­भि­प्रे­ते क्व­चि­द­प्र­सि­द्धे च वि­ज्ञा­न­म­नु­मा­न­मि­ति । सा­ध­यि­तु­म­श­क्ये स­र्व­थै­कां­ते सा­ध­न­स्या­प्र­वृ­त्तेः तत्र तस्य वि­रु­द्ध­त्वा­त् स्व­य­म­न­भि­प्रे­ते चा­ति­प्र­सं­गा­त् प्रसिद्धे च वै­य­र्थ्या­त् तस्य सा­ध्या­भा­स­त्त्व प्रसिद्धेः प्र­त्य­क्षा­दि­वि­रु­द्ध­स्या­नि­ष्ट­स्य सु­प्र­सि­द्ध­स्य च सा­ध­ना­वि­ष­य­त्व­नि­श्च­या­त् । १ लिङ्गम् इति प­ठां­त­रं ७६तदुक्तं — अ­क­लं­क­दे­वैः — साध्यं श­क्य­म­भि­प्रे­ते­म­प्र­सि­द्धं त­तो­ऽ­प­रे सा­ध्या­भा­सं वि­रु­द्धा­दि सा­ध­ना­वि­ष­य­त्व­तः ॥ १ ॥ त­दे­त्सा­ध­ना­त् सा­ध्य­वि­ज्ञा­न­म­नु­मा­नं स्वा­र्थ­म­भि­नि­बो­ध­ल­क्ष­णं वि­शि­ष्ट­म­ति­ज्ञा­नं साध्यं प्र­त्य­भि­मु­खा­न्नि­त्थ­मि- ०५ता­त्सा­ध­ना­दु­प­जा­त­बो­ध­स्य त­र्क­फ­ल­स्या­भि­नि­बो­ध इति सं­ज्ञा­प्र­ति­पा­द­ना­त् । प­रा­र्थ­म­नु­मा­न­म­न­क्ष­र­श्रु­त­ज्ञा­नं­ —अ­क्ष­र­श्रु­त­ज्ञा­नं च तस्य श्रो­त्र­म­ति­पू­र्व­क­स्य च त­था­त्वो­प­प­त्तेः ? । श­ब्दा­त्म­कं तु प­रा­र्था­नु­मा­न­म­यु­क्तं शब्दस्य प्र­त्य­व­म­र्शि­नो­ऽ­पि सर्वस्य द्र­व्या­ग­म­रू­प­त्व­प्र­ती­तेः क­थ­म­न्य­था प्र­त्य­क्ष­म­पि श­ब्दा­त्म­कं परार्थं न भवेत् सर्वथा वि­शे­षा­भा­वा­त् प्र­ति­पा­द­क­प्र­ति­पा­द्य­ज­न­योः स्व­प­रा­र्था­नु­मा­न­का­र्य­का­र­ण­त्व­सि­द्धे­रु­प­चा­रा­द­नु­मा­न­प­रा­म­र्शि­नो वाक्यस्य प­रा­र्था­नु­मा­न­त्व­प्र­ति­पा­द­न­म­वि­रु­द्धं ना­न्य­था­ति­प्र­सं­गा­दि­ति बोद्धव्यं । त­दे­त्प­रो­क्षं प्र­मा­ण­म­वि­श­द­त्वा­त् १०श्रु­त­ज्ञा­न­व­त् । किं पुनः श्रु­त­ज्ञा­न­मि­त्ये­त­द­भि­धी­य­ते — श्रु­त­ज्ञा­ना­व­र­ण­वी­र्यां­त­रा­य­क्ष­यो­प­श­म­वि­शे­षां­त­रं­गे कारणे सति ब­हि­रं­गे म­ति­ज्ञा­ने च, अ­निं­द्रि­य­वि­ष­या­लं­ब­नं­, अ­वि­श­दं ज्ञानं श्रु­त­ज्ञा­नं । के­व­ल­ज्ञा­नं ती­र्थ­क­र­त्व­ना­म­पु­ण्या­ति- श­यो­द­य­नि­मि­त्त­क­भ­ग­व­त्ती­र्थ­क­र­ध्व­नि­वि­शे­षा­दु­त्प­न्नं ग­ण­ध­र­दे­व­श्रु­त­ज्ञा­न­मे­व­म­सं­गृ­ही­तं स्यादिति न शं­क­नी­यं तस्यापि श्रो­त्र­म­ति­पू­र्व­क­त्वा­त् । प्र­सि­द्ध­म­ति­श्रु­ता­व­धि­म­नः­प­र्य­य­ज्ञा­ना­नि व­च­न­ज­नि­त­प्र­ति­पा­द्य­ज­न­व­च­न­श्रु­त­ज्ञा- १५नवत् । स­मु­द्र­घो­ष­ज­ल­ध­र­स्व­न­श्रु­ति­ज­नि­त­त­द­वि­ना­भा­वि­प­दा­र्थ­वि­ष­य­श्रु­त­ज्ञा­न­व­द्वा ततो नि­र­व­द्यं श्रु­त­ज्ञा­न­ल­क्ष­णं- अ­व्या­प्त्य­ति­व्या­प्त्य­सं­भ­व­दो­ष­र­हि­त­त्वा­त् । अ­नु­मा­न­ल­क्ष­ण­व­त् । त­दे­वं­वि­धं श्रु­त­ज्ञा­नं प्र­मा­ण­म­वि­सं­वा­द­क­त्वा­त् प्र­त्य­क्षा­नु­मा­न­व­त् । न­चा­सि­द्ध­म­वि­सं­वा­द­क­त्व­म­स्ये­ति शं­कि­त­व्यं त­तो­ऽ­र्थं प­रि­च्छि­द्य प्र­व­र्त­मा­न­स्य वि­सं­वा­दा- भावात् स­र्व­दा­ऽ­र्थ­क्रि­या­यां सं­वा­द­प्र­सि­द्धेः प्र­त्य­क्षा­दि­व­त् । ननु च श्रो­त्र­म­ति­पू­र्व­क­श्रु­त­ज्ञा­ना­द­र्थं प्र­ति­प­द्य व­र्त­मा­न­स्या­र्थ­क्रि­या­या­म­वि­सं­वा­द­क­स्य क्व­चि­द­भा­वा­त् न २०प्रामाण्यं स­र्व­त्रा­ना­श्वा­सा­दि­ति चेत् ? न प्र­त्य­क्षा­दे­र­पि शु­क्ति­का­श­क­लं र­ज­ता­का­र­त­या प­रि­च्छि­द्य तत्र प्रवर्त मा­न­स्या­र्थ­क्रि­या­यां र­ज­त­सा­ध्या­या­म­वि­सं­वा­द­वि­र­हा­त् । सर्वत्र प्र­त्य­क्षे­ऽ­ना­श्वा­सा­द­प्रा­मा­ण्य­प्र­सं­गा­त् । प्र­त्य­क्षा­भा­से वि­सं­वा­द­द­र्श­ना­न्न प्र­त्य­क्षे­ऽ­ना­श्वा­सो­ऽ­नु­मा­न­व­दि­ति चेत्तर्हि श्रु­त­ज्ञा­ना­भा­सा­द्वि­सं­वा­द­प्र­सि­द्धेः स­त्य­श्रु­त­ज्ञा­ने कथम- नाश्वासः ? नच सत्यं श्रु­त­ज्ञा­न­म­सि­द्धं तस्य लोके प्र­सि­द्ध­त्वा­त् सु­यु­क्ति­क­स­द्भा­वा­च्च तथाहि श्रो­त्र­म­ति­पू­र्व­कं श्रु­त­ज्ञा­नं प्रकृतं स­त्य­मे­व अ­दु­ष्ट­का­र­ण­ज­न्य­त्वा­त् प्र­त्य­क्षा­दि­व­त् । त­द्द्वि­वि­धं स­र्व­ज्ञा­स­र्व­ज्ञ­व­च­न­श्र­व­ण­नि­मि­त्त­त्वा­त् । तच्चोभ- २५य­म­दु­ष्ट­का­र­ण­ज­न्यं गु­ण­वा­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्वा­त् । ननु च न­द्या­स्ती­रे मो­द­क­रा­श­यः संतीति प्र­ह­स­ने­न गु­ण­व­द्व­क्तृ­क­श­ब्दा­दु­प­ज­नि­त­स्या­पि श्रु­त­ज्ञा­न­स्या­स- त्य­त्व­सि­द्धे­र्व्य­भि­चा­रि­गु­ण­व­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्व­म­दु­ष्ट­का­र­ण­ज­न्य­त्वे साध्ये ततो न त­त्त­द्ग­म­क­मि­ति न मंतव्यं प्र­ह­स­न­प­र­स्य व­क्तु­र्गु­ण­व­त्त्वा­सि­द्धेः प्र­ह­स­न­स्यै­व दो­ष­त्वा­द­ज्ञा­ना­दि­व­त् । कथं पु­न­र्वि­वा­दा­प­न्न­स्य श्रो­त्र­म­ति­पू­र्व­क श्रु­त­ज्ञा­न­स्थ गु­ण­व­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्वं सिद्धं ? इति चेत् सु­नि­श­चि­ता­सं­भ­व­द्बा­ध­क­त्वा­दि­ति भा­षा­म­हे । ३०प्रत्यक्षे ह्यर्थे प्र­त्य­क्ष­स्या­नु­मे­ये­ऽ­नु­मा­न­स्यां­त्यं­त­प­रो­क्षे चा­ग­म­स्य बा­ध­क­स्या­सं­भ­वा­त् अ­सं­भ­व­द्बा­ध­क­त्वं तस्य सिद्धं । दे­श­का­ल­पु­रु­षां­त­रा­पे­क्ष­या­पि सं­श­या­नु­त्प­त्तेः सु­नि­श्चि­त­त्व­वि­शे­ष­ण­म­पि सा­ध­न­स्ये­ति ना­सि­द्ध­ता­शं­का­व­त­र­ति । ना­प्ये­नै­कां­ति­क­ता विपक्षे क्व­चि­द­सं­भ­वा­त् । न वि­रु­द्ध­ता सु­नि­श्चि­ता­सं­भ­व­द्बा­ध­क­स्य श्रु­त­ज्ञा­न­स्य अ­गु­ण­व­द्व­क्तृ­क श­ब्द­ज­नि­त­स्य वा­दि­प्र­ति­वा­दि­प्र­सि­द्ध­स्या­सं­भा­व्य­मा­न­त्वा­त् । तथा व्या­ह­त­त्वा­च्च । क­थं­चि­द­पौ­रु­षे­य­श­ब्द­ज­नि­त श्रु­त­ज्ञा­न­स्य तु गु­ण­व­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्वे­ना­दु­ष्ट­का­र­ण­ज­न्य­त्वं सिद्ध्येत् । ततश्च स­त्य­त्व­मि­ति स्या­द्वा­दि­नां ३५स­र्व­म­न­व­द्यं प­र्या­या­र्थि­क­न­य­प्रा­धा­न्या­त् द्र­व्या­र्थि­क­न­य­गु­ण­भा­वा­च्च श्रु­त­ज्ञा­न­स्य गु­ण­व­द्व­क्तृ­क­श­ब्द­ज­नि­त­त्व- सिद्धेः द्र­व्या­र्थि­क­प्रा­धा­न्या­त्प­र्या­या­र्थि­क­गु­ण­भा­वा­च्च गु­ण­व­द्व्या­ख्या­तृ­क­श­ब्द­ज­नि­त­त्वो­प­प­त्ते­श्च । नच सर्वथा पौ­रु­षे­यः­श­ब्दो­ऽ­पौ­रु­षे­यो वा प्र­मा­ण­तः सिद्ध्यते । ननु च वि­वा­दा­प­न्नः शब्दः पौ­रु­षे­य एव प्र­य­त्ना­नं­त­री­य­क­त्वा­त् प­टा­दि­व­दि­त्य­नु­मा­ना­त् आ­ग­म­स्य द्वाद- शां­ग­स्यां­ग­बा­ह्य­स्य चा­ने­क­भे­द­स्य पौ­रु­षे­य­त्व­मे­व युक्तं भा­र­ता­दि­व­दि­ति कश्चित् सो­ऽ­प्ये­वं पृष्टः स­न्ना­च­ष्टां­–­किं ७७सर्वथा प्र­य­त्नां­त­री­य­त्व­हे­तुः क­थं­चि­द्वा ? सर्वथा चेत्? अ­प्र­सि­द्धः स्या­द्वा­दि­नो द्र­व्या­र्था­दि­प्र­य­त्नां­नं­त­री­य­क­त्वा­दा- गमस्य । क­थं­चि­च्चे­द्वि­रु­द्धः क­थं­चि­द­पौ­रु­ष­य­त्व­सा­ध­ना­त् । प्र­य­त्ना­नं­त­री­य­क­त्वं हि प्र­व­च­न­स्यो­च्चा­र­क­पु­रु­ष- प्र­य­त्ना­नं­त­रो­प­लं­भा­त् स्यात् उ­त्पा­द­क­पु­रु­ष­प्र­य­त्नां­नं­त­रो­प­लं­भा­द्वा ? प्र­थ­म­क­ल्प­ना­या­मु­च्चा­र­क­पु­रु­षा­पे­क्ष­या पौरु- षे­य­त्व­मे­व तस्य संप्रति पु­रा­ण­पु­रु­षो­त्पा­दि­त­का­व्य­प्र­बं­ध­स्ये­व प्रसक्तं । न पु­न­रु­त्पा­द­क­पु­रु­षा­पे­क्ष­या प्र­व­च­न­स्या­ना- ०५दि­नि­ध­न­स्यो­त्पा­द­क­पु­रु­षा­भा­वा­त् । सर्वज्ञ उ­त्पा­द­क इति चेत् ? व­र्णा­त्म­नः प­द­वा­क्या­त्म­नो वा प्र­व­च­न­स्यो- त्पादकः स स्यात् ? न ता­व­द्व­र्णा­त्म­न­स्त­द्व­र्णा­नां प्रागपि भावात् त­त्स­दृ­शा­नां पूर्वं भावो न पु­न­स्ते­षां घटादी- ना­मि­वे­ति चेत् क­थ­मि­दा­नी­म­नु­वा­द­क­स्ते­षा­मु­त्पा­द­को न स्यात् ? त­द­नु­वा­दा­त् प्रागपि त­त्स­दृ­शा­ना­मे­व स­द्भा­वा­त् ते­षा­म­नू­द्य­मा­ना­नां तदैव स­द्भा­वा­त् । तथाच न क­श्चि­दु­त्पा­द­को वर्णानां स­र्व­स्यो­त्पा­द­क­त्व­सि­द्धेः । यथैव हि कुं­भा­दी­नां कुं­भ­का­रा­दि­रु­त्पा­द­क एव न पु­न­र­नु­का­र­क­स्त­था व­र्णा­ना­म­पी­ति त­द­नु­वा­द­क­व्य­व­हा­र­वि­रो­धः १०पू­र्वो­प­ल­ब्ध­व­र्णा­नां सां­प्र­ति­क­व­र्णा­नां च सा­दृ­श्या­दे­के­त्वो­प­चा­रा­त्प­श्चा­द्वा­द­को­ऽ­नु­वा­द­क एव । अ­सा­वा­ह वर्णान्ना- हमिति स्वा­तं­त्र्य­प­रि­ह­र­णा­त्पा­र­तं­त्र्या­नु­स­र­णा­दि­ति चेत् तर्हि यथा वर्णानां प­ठि­ता­नु­वा­द­कः तथा पा­ठ­यि­ता­पि तस्यापि स्वा­तं­त्र्या­भा­वा­त् सर्वस्य स्वो­पा­ध्या­य­प­र­तं­त्र­त्वा­त् तत एवं वक्तव्यं — नेह व­र्णा­न्न­रः कश्चित् स्वा­तं­त्र्ये­ण प्र­प­द्य­ते य­थै­वा­स्मै प­रै­रु­क्ता­स्त­थै­वै­ता­न्वि­व­क्ष्य­ते ॥ १ ॥ १५प­रे­प्ये­वं वि­व­क्ष्यं­ति त­स्मा­दे­षा­म­ना­दि­ता प्रसिद्धा व्य­व­हा­रे­ण सं­प्र­दा­या­व्य­व­च्छि­दा ॥ २ ॥ तथा च स­र्व­ज्ञो­प्य­नु­वा­द­क एव पू­र्व­पू­र्व­स­र्व­ज्ञो­दि­ता­ना­मे­व च­तुः­ष­ष्टि­व­र्णा­ना­मु­त्त­रो­त्त­र­स­र्व­ज्ञे­ना­नु­वा­दा­त् । तस्य पू­र्व­स­र्व­ज्ञो­दि­त­व­र्णा­नु­प­लं­भे पु­न­र­स­र्व­ज्ञ­त्व­प्र­स­क्तिः । त­दे­व­म­ना­दि­स­र्व­ज्ञ­सं­त­ति­मि­च्छ­तां न क­श्चि­त्स­र्व­ज्ञो व­र्णा­ना­मु­त्पा­द­क­स्त­स्य त­द­नु­वा­द­क­त्वा­त् । प­द­वा­क्या­त्म­नः प्र­व­च­न­स्यो­त्पा­द­कः सर्वज्ञ इ­त्य­प्य­ने­ना­पा­स्तं प्रव- २०च­न­प­द­वा­क्या­ना­म­पि पू­र्व­पू­र्व­स­र्व­ज्ञो­दि­ता­ना­मे­वो­त्त­रो­त्त­र­स­र्व­ज्ञे­ना­नु­वा­दा­त् स­र्व­दां­ग­प्र­वि­ष्टां­ग­बा­ह्य­श्रु­त­स्य शब्दा- त्मनो द्वा­द­श­वि­क­ल्पा­ने­क­वि­क­ल्प­स्या­न्या­दृ­श­व­र्ण­प­द­वा­क्य­त्वा­सं­भ­वा­त् त­स्या­पू­र्व­स्यो­त्पा­द­का­यो­गा­त् । स्यान्मतं — म­हे­श्व­रो­ऽ­ना­दि­रे­कः सर्वज्ञो व­र्णा­ना­मु­त्पा­द­कः प्रथमं सृ­ष्टि­का­ले ज­ग­ता­मि­वो­प­प­न्न­स्त­स्य सर्वदा स्व­तं­त्र­त्वा­त् स­र्व­ज्ञां­त­र­प­र­तं­त्र­ता­पा­या­त् त­द­नु­वा­द­क­त्वा­यो­गा­दि­ति त­द­प्य­स­त्यं त­स्या­ना­दे­रे­क­स्ये­श्व­र­स्या प्त­प­री­क्षा­यां प्र­ति­क्षि­प्त­त्वा­त्­, प­री­क्षा­क्ष­म­त्वा­भा­वा­त् क­पि­ला­दि­व­त् । संभवे वा स­दै­वै­श्व­रः सर्वज्ञो ब्राह्मेण मानेन २५व­र्षा­श­तां­ते व­र्ष­श­तां­ते जगतो सृष्टा पू­र्व­स्मि­न् पू­र्व­स्मि­न् सृ­ष्टि­का­ले स्व­य­मु­त्पा­दि­ता­नां व­र्ण­प­द­वा­क्या­ना­मु­त्त­र- स्मि­न्नु­त्त­र­स्मि­न् सृ­ष्टि­का­ले पु­न­रु­प­दे­ष्टा क­थ­म­नु­वा­द­को न भवेत् ? । न ह्येकः कविः स्व­कृ­त­का­व्य­स्य पुनः पु­न­र्व­क्ता­नु­वा­द­को न स्यात् इति वक्तुं युक्तं, श­ब्दा­र्थ­योः पु­न­र्व­च­नं पु­न­रु­क्त­म् अ­न्य­त्रा­नु­वा­दा­त् इति व­च­न­वि­रो­धा­त् । एकस्य पुनः पु­न­स्त­दे­व व­द­तो­ऽ­नु­वा­दा­सं­भ­वे पु­न­रु­क्त­स्यै­व सिद्धेः ततः कस्य- ३०चित्स्वयं कृतं काव्यं पुनः पु­न­र्व­द­तो­ऽ­नु­वा­द­क­त्वे म­हे­श्व­रः स­र्व­दै­वा­नु­वा­द­कः स्यात् । पू­र्व­पू­र्व­वा­दा­पे­क्ष­यो­त्त­रो- त्त­र­स्या­नु­वा­द­रू­प­त्वा­त् । नच पू­र्व­पू­र्व­व­र्ण­प­द­वा­क्य­वि­ल­क्ष­णा­न्ये­व व­र्ण­प­द­वा­क्या­नि म­हे­श्व­रः करोति इति घटते तेषां कु­त­श्चि­त्प्र­मा­णा­द­प्र­सि­द्धेः प्रसिद्धौ वा तेषां कि­म­ज्ञा­ना­त्त­दा म­हे­श्व­रो­ऽ­प्र­णे­ता स्यात् । अ­था­श­क्ते­रु­त­प्र­यो- ज­ना­भा­वा­दि­ति ? न ता­व­द­ज्ञा­ना­त् स­र्व­ज्ञ­त्व­वि­रो­धा­त् तस्य स­र्व­प्र­का­र­व­र्ण­प­द­वा­क्य­वे­दि­त्य­सि­द्धेः अ­न्य­था­नी- श्व­र­त्व­प्र­सं­गा­त् । ना­प्य­श­क्तेः­–­ई­श्व­र­स्या­नं­त­श­क्ति­त्व­व­च­ना­त् । यदि ह्येकदा कानि चिदेव व­र्णा­दी­नि प्र­णे­तु­मी­श्व- ३५रस्य श­क्ति­र्ना­न्या­नि तदा क­थ­म­नं­त­श­क्तिः स्या­द­नी­श­व­त् । प्र­यो­ज­ना­भा­वा­न्ना­न्या­नि प्र­ण­य­ती­ति चेत् न सक- ल­वा­च­क­प्र­का­श­न­स्यै­व प्र­यो­ज­न­त्वा­त् स­क­ल­वा­च्या­र्थ­प्र­का­श­न­व­त् । स­क­ल­ज­ग­त्का­र­ण­व­द्वा प्र­ति­पा­द्य­ज­ना­नु- रोधात् केषां चिदेव व­र्णा­दी­नां प्र­ण­य­ने ज­ग­दु­प­भो­क्तृ­प्रा­ण्य­नु­रो­धा­त् के­षां­चि­दे­व ज­ग­त्का­र्या­णां करणं स्या- १ गौ­त­मी­यं सूत्रं । ७८न्न सर्वेषां । तथा चे­श्व­र­कृ­तैः कार्यैः का­र्य­त्वा­दि­ति हे­तु­र्व्य­भि­चा­रि­त्वा­न्न स­र्व­का­र्या­णा­मी­श्व­र­नि­मि­त्त­त्वं सा­ध­ये­त् । नच स­क­ल­प्र­का­र­व­र्णा­दि­वा­च­क­प्र­पं­चं जि­ज्ञा­स­मा­नः क­श्चि­त्प्र­ति­पा­द्य एव न सं­भ­व­ती­ति वक्तुं युक्तं स­र्व­ज्ञ­व­च­न स्या­प्र­ति­ग्रा­ह­क­त्व­प्र­सं­गा­त् । त­त्सं­भ­वे च सर्गे सर्गे स­क­ल­व­र्णा­दी­नां प्र­णे­ते­श्व­रो­ऽ­नु­वा­द­क एव स्यात् न पुन- रु­त्पा­द­कः स­र्व­दै­वे­ति सिद्धं त­तो­ऽ­ने­क एव स­र्व­ज्ञो­ऽ­स्तु कि­मे­के­श्व­र­स्य क­ल्प­न­या यथा चैको न­व­मि­ति वदति ०५त­दे­वा­न्यः पु­रा­ण­मि­त्य­ने­क­स­र्व­ज्ञ­क­ल्प­ना­यां व्या­घा­ता­त् व­स्तु­व्य­व­स्था­ना­सं­भ­व­स्त­थै­क­स्या­पी­श्व­र­स्या­ने­क­स­र्ग का­ल­प्र­वृ­त्ता­व­ने­को­प­दे­शा­भ्य­नु­ज्ञा­ना­त् । तत्र पू­र्व­स्मि­न् सर्गे न­व­मि­त्यु­प­दे­शी­श्व­रे­ण त­दे­वो­त्त­र­स्मि­न् सर्गे पुराण- मि­त्यु­प­दि­श्य­ते न पु­न­रे­क­दै­व नवं पूराणं चै­क­मि­ति व्या­घा­ता­सं­भ­वे क­थ­म­ने­क­स्या­पि स­र्व­ज्ञ­स्य का­ल­भे­दे­न नव- मिति पु­रा­ण­मि­त्यु­प­दे­श­त­स्त­त्त्व­व­च­न­व्या­घा­तः ? इ­त्य­ल­म­ना­द्ये­के­श्व­र­क­ल्प­न­या त­त्सा­ध­नो­पा­या­सं­भ­वा­त् । सो­पा­य­सि­द्ध­स्तु स­र्व­ज्ञो­ऽ­ने­कः प्र­मा­ण­सि­द्धः नि­र­त­का­लो­च्छ­न्न­स्य प­र­मा­ग­म­स्य प्र­वं­धे­ना­भि­व्यं­ज­को­ऽ­नु- १०वादक इति प्र­य­त्ना­नं­त­र­म­भि­व्य­क्तेः कथं चि­त्प्र­य­त्ना­नं­त­री­य­क­त्वं क­थं­चि­त्पौ­रु­षे­य­त्वं सा­ध­ये­त्­–­त­था­हि — प­र­मा­ग­म­सं­ता­न­म­ना­दि­नि­ध­न­क्र­मं नो­त्पा­द­ये­त्स्व­यं क­श्चि­त्स­र्व­ज्ञो­ऽ­स­र्व­वे­दि­व­त् ॥ १ ॥ यथैकः स­क­ला­र्थ­ज्ञः स्व­म­हि­म्ना प्र­का­श­ये­त् त­था­न्यो­ऽ­पि तमेव चानादिः स­र्व­ज्ञ­सं­त­तिः ॥ २ ॥ सिद्धा त­त्प्रो­क्त­श­ब्दो­त्थं श्रु­त­ज्ञा­न­म­शे­ष­तः प्रमाणं प्र­ति­प­त्त­व्य­म­दु­ष्टो­पा­य­ज­त्व­तः ॥ ३ ॥ ततो बाह्यं पू­न­र्द्वे­धा पौ­रु­षे­य­प­द­क्र­मा­त् जा­त­मा­र्षा­द­ना­र्षा­च्च स­मा­स­व्या­स­तो­न्वि­ता­त् ॥ ४ ॥ १५त­त्रा­र्ष­मृ­षि­भिः प्रो­क्ता­द­दु­ष्टै­र्व­च­न­क्र­मा­त् स­मु­द्भू­तं श्रु­त­ज्ञा­नं प्रमाणं बा­ध­का­त्य­या­त् ॥ ५ ॥ अनार्षं तु द्वि­धो­द्दि­ष्टं स­म­यां­त­र­सं­ग­तं लौकिकं चेति तन्मिथ्या प्र­वा­दि­व­च­नो­द्भ­वं ॥ ६ ॥ दु­ष्ट­का­र­ण­ज­न्य­त्वा­द­प्र­मा­णं कथं च न स­म्य­ग्दृ­ष्टे­स्त­दे­त­त्स्या­त् प्रमाणं सु­न­या­र्प­णा­त् ॥ ७ ॥ न­न्व­दु­ष्ट­का­र­ण­ज­न्य­त्वे­न श्रु­त­ज्ञा­न­स्य प्र­मा­ण­त्व­सा­ध­ने चो­द­ना­ज्ञा­न­स्य प्रामाण्यं स्यात् पु­रु­ष­दो­ष­र­हि­ता- या­श्चो­द­ना­याः स­र्व­था­प्य­पौ­रु­षे­य­ज­नि­त­त्वा­त् । २०तदुक्तं — चो­द­ना­ज­नि­ता बुद्धिः प्रमाणं दो­ष­व­र्जि­तैः । का­र­णै­र्ज­न्य­मा­न­त्वा­ल्लिं­गा­प्तो­क्त्य­क्ष­बु­द्धि­व­त् ॥ १ ॥ त­दे­त­दु­क्तं — गु­ण­व­त्का­र­ण­ज­न्य­त्व­स्या­दु­ष्ट­का­र­ण­ज­न्य­त्व­श­ब्दे­ना­भि­प्रे­त­त्वा­त् लिं­गा­प्तो­क्त्य­क्ष­बु­द्धि­षु तथैव तस्य प्रति- २५पत्तेः । न हि लिं­ग­स्या­पौ­रु­षे­य­त्व­म­दु­ष्टं सा­ध्या­वि­ना­भा­व­नि­य­म­नि­श्च­या­ख्ये­न गुणेन गु­ण­व­त्त्व­स्या­दु­ष्ट­त्व­स्य प्रती- तेः । त­था­प्रो­क्ते­र­वि­सं­वा­द­क­त्व­गु­णे­न गु­ण­व­त्त्व­स्य त­था­क्षा­णां च­क्षु­रा­दी­नां नै­र्म­ल्या­दि­गु­णे­न गु­ण­व­त्त्व­स्ये­ति । ननु चा­दु­ष्ट­त्वं दो­ष­र­हि­त­त्वं का­र­ण­स्य तच्च क्व­चि­द्दो­ष­वि­रु­द्ध­स्य गुणस्य स­द्भा­वा­त् । तथा म­न्वा­दि­स्मृ- ति­व­च­ने क्व­चि­द्दो­ष­का­र­ण­भा­वा­त् । यथा चो­द­ना­यां तदुक्तं — शब्दे दो­षो­द्भ­व­स्ता­व­द्व­क्त्र­धी­न­मि­ति स्थितं ३०त­द­भा­वः क्व­चि­त्ता­व­द्गु­ण­व­द्व­क्तृ­क­त्व­तः ॥ १ ॥ त­द्गु­णै­र­प­कृ­ष्टा­नां शब्दे सं­क्रां­त्य­सं­भ­वा­त् यद्वा व­क्तु­र­भा­वे­न न स्युर्दोषा नि­रा­श्र­याः ॥ २ ॥ त­द­प्य­स­रं सर्वत्र गु­णा­भा­व­स्यै­व दो­ष­व­त्त्वा­त्­, गु­ण­स­द्भा­व­स्यै­व चा­दो­ष­प्र­ती­ते­र­भा­व­स्य भा­वां­त­र­स्व­भा­व- त्व­सि­द्धेः­, अन्यथा प्र­मा­ण­वि­ष­य­त्व­वि­रो­धा­त् । गु­ण­व­द्व­क्तृ­क­त्व­स्य हि दो­ष­र­हि­त­स्य व­क्तृ­क­त्व­स्य सं­प्र­त्य­यः कथम- ३५न्यथा गु­ण­दो­ष­योः स­हा­न­व­स्था­नं युज्येत ? रा­ग­द्वे­ष­मो­हा­दि­व­क्तु­र्दो­षा­वि­त­था­भि­धा­न­हे­त­वः । त­द्वि­रु­द्धा­श्च वैरा- ग्य­क्ष­मा­त­त्त्वा­व­बो­धा­स्त­द­भा­वा­त्म­काः स­त्या­भि­धा­न­हे­त­वो गुणा इति प­री­क्ष­क­ज­न­म­न­सि वर्तते नच म­न्वा­द­यः स्मृ­ति­शा­स्त्रा­णां प्र­णे­ता­रो गु­ण­वं­त­स्ते­षां ता­दृ­श­गु­णा­भा­वा­त् । नि­र्दो­ष­वे­द­प­रा­धी­न­व­च­न­त्वा­त्ते­षां गु­ण­व­त्त्व­मि­त्य- प्य­सं­भा­व­नी­यं वेदस्य गु­ण­व­त्त्वा­सि­द्धेः पु­रु­ष­स्य गु­णा­श्र­य­स्या­भा­वा­त् । यथैव हि दो­ष­वा­न् वे­दा­न्नि­व­र्त­मा­नो ७९नि­र्दो­ष­ता­म­स्य सा­ध­ये­त् तथासौ गु­ण­वा­न­पि­–­अ­गु­ण­व­त्ता­मि­ति न वेदो गु­ण­वा­न्ना­म । यदि पु­न­र­पौ­रु­षे­य­त्व­मे­व गु­ण­स्त­दा­ना­दि­म्ले­च्छ­व्य­व­हा­र­स्या­पि गु­ण­व­त्त्वं­–­अ­पौ­रु­षे­य­त्वा­वि­शे­षा­त् । तदेवं — नादुष्टा चोदना पुं­सो­ऽ­स­त्त्वा­द्गु­ण­व­तः सदा ०५त­द्व्या­ख्या­तुः प्र­व­क्तु­र्वा म्ले­क्षा­दि­व्य­व­हा­र­व­त् ॥ १ ॥ तया य­ज्ज­नि­तं ज्ञानं त­न्ना­दु­ष्ट­नि­मि­त्त­जं सिद्धं येन प्रमाणं स्यात् प­र­मा­ग­म­बो­ध­व­त् ॥ २ ॥ वेदस्य पो­रु­षे­य­स्यो­च्छि­न्न­स्य चि­र­का­ल­तः स­र्व­ज्ञे­न विना क­श्चि­न्नो­द्ध­र्ता­तीं­द्रि­या­र्थ­दृ­क् ॥ ३ ॥ १०स्या­द्वा­दि­नां तु स­र्व­ज्ञ­सं­ता­नः स्या­त्प्र­का­श­कः प­र­मा­ग­म­सं­ता­न­स्यो­च्छि­न्न­स्य क­थं­च­न ॥ ४ ॥ स­र्व­भा­षा­कु­भा­षा­श्च त­द्व­त्स­र्वा­र्थ­वे­दि­भिः प्र­का­श्य­ते ध्व­नि­स्ते­षां स­र्व­भा­षा­स्व­भा­व­कः ॥ ५ ॥ त­त्प्र­मा­णं श्रु­त­ज्ञा­नं परोक्षं सि­द्ध­मं­ज­सा १५अ­दु­ष्ट­का­र­णो­द्भू­तेः प्र­त्य­क्ष­व­दि­ति स्थितं ॥ ६ ॥ ततः सूक्तं प्रत्यक्षं परोक्षं चेति द्वे एव प्रमाणे प्र­मा­णां­त­रा­णां स­क­ला­ना­म­प्य­त्र सं­ग्र­हा­त् इति संख्या- वि­प्र­ति­प­त्ति­नि­रा­क­र­ण­म­न­व­द्यं स्व­रू­प­वि­प्र­ति­प­त्ति­नि­रा­क­र­ण­व­त् । वि­ष­य­वि­प्र­ति­प­त्ति­नि­रा­क­र­णा­र्थं पु­न­रि­द­म­भि­धी­य­ते — द्र­व्य­प­र्या­या­त्म­कः प्र­मा­णा­वि­ष­यः प्र­मा­ण­वि­ष­य­त्वा­न्य- था­नु­प­प­त्तेः प्र­त्य­क्ष­वि­ष­ये­ण स्व­ल­क्ष­णे­न­, अ­नु­मा­ना­दि­वि­ष­ये­ण च सा­मा­न्ये­न हे­तो­र्व्य­भि­चा­र इति न मंतव्यं २०त­था­प्र­ती­त्य­भा­वा­त् । न हि प्र­त्य­क्ष­तः स्व­ल­क्ष­णं प­र्या­य­मा­त्रं स­न्मा­त्र­मि­वो­प­ल­भा­म­हे । ना­प्य­नु­मा­ना­देः सामा- न्य­द्र­व्य­मा­त्रं वि­शे­ष­मा­त्र­मि­व प्र­ति­प­द्ये­म­हि सा­मा­न्य­वि­शे­षा­त्म­नो द्र­व्य­प­र्या­या­त्म­क­स्य जा­त्यं­त­र­स्यो­प­ल­ब्धेः प्र­व­र्त­मा­न­स्य च तत्प्राप्तेः अ­न्य­था­र्थ­क्रि­या­नु­प­प­त्तेः । न हि स्व­ल­क्ष­ण­म­र्थ­क्रि­या­स­म­र्थं क्र­म­यौ­ग­प­द्य­वि­रो­धा­त् सा­मा­न्य­व­त् । नच तत्र क्र­म­यौ­ग­प­द्ये सं­भ­व­तः प­रि­णा­मा­भा­वा­त् । क्र­मा­क्र­म­योः प­रि­णा­मे­न व्या­प्त­त्वा­त् सर्व- था­प्य­प­रि­णा­मि­नः क्ष­णि­क­स्य नित्यस्य च त­द्वि­रो­ध­सि­द्धेः प्रसिद्धे च सा­मा­न्य­वि­शे­षा­त्म­नि वस्तुनि त­दं­श­मा­त्रे २५विशेषे सामान्ये वा प्र­व­र्त्त­मा­नं कथं प्रमाणं नाम प्र­मा­ण­स्य य­था­व­स्ति­त­व­स्तु­ग्र­ह­ण­ल­क्ष­ण­त्वा­त् त­दे­क­दे­श­ग्रा- हिणः सा­पे­क्ष­स्य सु­न­य­त्वा­न्नि­र­पे­क्ष­स्य दु­र्ण­य­त्वा­त् । तत एव न त­द्वि­ष­ये­णा­ने­कां­तः सा­ध­न­स्य स्यात् । तत्र प्र­मा­ण­वि­ष­य­त्व­स्य हे­तो­र­प्र­वृ­त्तेः । अ­तः­सि­द्धो द्र­व्य­प­र्या­या­त्मा­र्थः प्र­मा­ण­स्ये­ति त­द्वि­प्र­ति­प­त्ति­नि­वृ­त्तिः । फ­ल­वि­प्र­ति­प­त्ति­नि­वृ­त्त्य­र्थं प्र­ति­पा­द्य­ते­–­प्र­मा­णा­त्फ­लं क­थं­चि­द्भि­न्न­म­भि­न्नं च प्र­मा­ण­फ­ल­त्वा­न्य­था­नु­प­प­त्तेः । हा­नो­पा­दो­नो­पे­क्षा­बु­द्धि­रू­पे­ण प्र­मा­ण­फ­ले­ना­ने­कां­त इति न शं­क­नी­यं त­स्या­प्ये­क­प्र­मा­त्रा­त्म­ना प्र­मा­णा­द­भे­द- ३०सिद्धेः प्र­मा­ण­प­रि­ण­त­स्यै­वा­त्म­नः फ­ल­प­रि­णा­म­प्र­ती­तेः­, अन्यथा सं­ता­नां­त­र­व­त्प्र­मा­ण­फ­ल­भा­व­वि­रो­धा­त् । साक्षा- द­ज्ञा­न­नि­वृ­त्ति­ल­क्ष­णे­न प्र­मा­णा­द­भि­न्ने­न प्र­मा­ण­फ­ले­न व्य­भि­चा­र इ­त्य­प्य­प­री­क्षि­ता­भि­धा­नं तस्यापि क­थं­चि­त्प्र- मा­णा­द्भे­द­प्र­सि­द्धेः प्र­मा­ण­फ­ल­यो­र्नि­रु­क्ति­सा­ध­न­वि­रो­धा­त् । क­र­ण­सा­ध­नं हि प्रमाणं स्वा­र्थ­नि­र्णी­तौ सा­ध­क­त­म- त्वात् । स्वा­र्थ­नि­र्णी­ति­र­ज्ञा­न­नि­वृ­त्तिः फलं भा­व­सा­ध­नं त­त्सा­ध्य­त्वा­त् । एतेन क­र्तृ­सा­ध­ना­त् प्र­मा­णा­त्क­थं­चि- द्भेदः प्र­ति­पा­दि­तः तस्य स्वा­र्थ­नि­र्णी­तौ स्व­तं­त्र­त्वा­त् । स्व­तं­त्र­स्य च क­र्तृ­त्वा­त् स्वा­र्थ­नि­र्णी­ते­स्तु अ­ज्ञा­न­नि­वृ­त्ति- ३५स्व­भा­वा­याः क्रि­या­त्वा­त् । नच क्रि­या­क्रि­या­व­तो­ऽ­र्थां­त­र­मे­वा­न­र्थां­त­र­मे­व वा क्रि­या­क्रि­या­व­द्भा­व­वि­रो­धा­त् । भाव- सा­ध­ना­त्प्र­मा­णा­द­ज्ञा­न­नि­वृ­त्ति­र­भि­न्नै­वे­ति­, अयुक्तं प्र­मा­तु­रु­दा­सी­ना­व­स्था­या­म­व्या­प्रि­य­मा­ण­स्य प्र­मा­ण­श­क्ते­र्भा­व­सा­ध­न प्र­मा­ण­स्य व्य­व­स्था­पि­त­त्वा­त् त­स्या­ज्ञा­न­नि­वृ­त्ति­फ­ल­त्वा­सं­भ­वा­त् । स्वा­र्थ­व्य­व­सि­तौ व्या­प्रि­य­मा­णं हि प्र­मा­ण­म- ज्ञा­न­नि­वृ­त्तिं सा­ध­ये­त् नान्यथा अ­ति­प्र­सं­गा­त् । ततः सूक्तं — ८०प्र­मा­णा­त्क­थं­चि­द्भि­न्ना­भि­न्नं फ­ल­मि­ति त­त­स्त­स्य सर्वथा भेदे बा­ध­क­व­च­ना­त् । अ­भे­द­व­त्सं­वृ­त्या प्र­मा­ण­फ­ल­व्य­व­हा­र इ­त्य­प्रा­ती­ति­क­व­च­नं प­र­मा­र्थ­तः स्वे­ष्ट­सि­द्धि­वि­रो­धा­त् ततः पा­र­मा­र्थि­क­प्र­मा­णं फलं चे­ष्ट­सि­द्धि­ल­ण­म­भ्य­नु­ज्ञा­त­व्यं । त­तः­स­र्व­पु­रु­षा­र्थ- सि­द्धि­वि­धा­ना­दि­ति संक्षेपः । ०५इति प्र­मा­ण­स्य परीक्ष्य लक्षणं वि­शे­ष­सं­ख्या­वि­ष­यं फलं ततः प्रबुध्य तत्त्वं दृ­ढ­शु­द्ध­दृ­ष्ट­यः प्रयांतु वि­द्या­फ­ल­मि­ष्ट­मु­च्च­कैः ॥ १ ॥ इति श्री­स्या­द्वा­द­वि­द्या­प­ति­श्री­वि­द्या­नं­द­स्वा­मि­वि­र­चि­ता प्र­मा­ण­प­री­क्षा समाप्ता ।