पत्रपरीक्षा १९१३
श्रीपरमात्मने नमः । सनातनजैनग्रंथमालायाः प्रथमं खंडं । स्याद्वादविद्यापतिश्रीमद्विद्यानंदस्वामिविरचिता १ आप्तपरीक्षा २ पत्रपरीक्षा च श्रीयुतपंडितगजाधरलालजैनशास्त्रिणा संपादिते ते च उस्मानावादनिवासिस्वर्गीयश्रेष्ठिवर्यकस्तूरचंद्रस्यात्मजबालचंद्रस्य स्मरणार्थं श्रीजैनधर्मप्रचारिणीसभायामंत्रिणा श्रीपन्नालालजैनेन काशीस्थचंद्रप्रभानाम्निमुद्रणयंत्रालये प्रकाशिते । श्रीवीरनिर्वाणसंवत्सरः २४३९ । ख्रिष्टाब्दः १९१३ । प्रथमं संस्करणं] [अस्य खंडस्य मूल्यमेकोरूप्यकः ।१श्रीपरमात्मने नमः । सनातनजैनग्रंथमाला । २ स्याद्वादविद्यापतिश्रीविद्यानंदस्वामिविरचिता ०५पत्रपरीक्षा श्रीवर्द्धमानम् आनुत्य स्याद्वादन्यायनायकं । प्रबुद्धाशेषतत्त्वार्थं पत्रवाक्यं विचा१र्यते ॥ १ ॥ कस्मात् पुनः श्रीवर्द्धमानम् अर्हंतं भगवं तं स्याद्वादन्यायनायकं प्रकर्षेण साक्षाद्बुद्धाशेषद्रव्यपर्यायात्मजीवा- दिपदार्थम् एवानुत्य पत्रवाक्यम् आचार्यपरंपरया विच२रत् विचार्यते । नन्व् अक्षपादाद्येकांतवादिनाम् अन्यतमम् इत्य् अत्रोच्यते । १०नैकांतवादिनां पत्रवाक्यं संभवदर्थकं । त३त्तत्त्वा४धिग५मोपायप्रकाशरहितत्वतः ॥ १ ॥ यत् तु संभवदर्थात्मा न तत् तादृक्षम् ईक्षितं । यथा स्याद्वादभृद्वाक्यं६ तदृक्वेदं न त७त् तथा८ ॥ २ ॥ नन्व् अक्षपादादीनां पत्रवाक्यं तावन् नेत्य् अयुक्तं तस्य प्रसिद्धावयवत्वेन प्रसिद्धत्वात् देवदत्तादिवा९क्यवत् नापि तदसंभवदर्थकं स्वेष्टस्यार्थस्य साधकत्वात् । न चा'साधुगूढपदप्रायम् अपि पत्रम् आसज्यते साधुगूढपदप्रा- यस्यैव निराकुलस्य तस्य तैर् आवेदितत्वात् । तद् उच्यते — १५प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकं । साधुगूढपदप्रायं पत्रम् आहुर् अनाकु१०लं ॥ १ ॥ कथं पुनः प्रसिद्धावयवत्वादिविशेषणविशिष्टं वाक्यं पत्रं नाम तस्य श्रु११तिपथसमधिगम्यपदसमुदाय- विशेषरूपत्वात् पत्रस्य तद्विपरीताकारत्वात् न च यद् यतो ऽन्यत् तत् तेन व्यपदिश्यते ऽतिप्रसंगात् नीलादयो पि हि कंबलादिभ्यो ऽन्ये न ते नीला१२दिव्यपदेशहेतवः तेषां तद्य१३पदेशहेतुतया प्रतीयमानत्वात् किरीटादीनां पुरुषे तद्व्यपदेशहेतुत्ववत् तद्योगात् तत्र मत्वर्थीयविधानात् । नीलादयः संति येषां ते नीलादयः कंबलादय इति २०गुणवचनेभ्यो मत्वर्थीयस्याभावप्रसिद्धेर् इति चेत् उपचरितोपचाराद् इति क्रमः । श्रोत्रपथप्रस्थायिनो हि शब्दा- त्मकस्य पदसमुदायविशेषरूपस्य लिप्याम् उ१४पचारः तत्र तस्य१५ जनैर् आरोप्यमाणत्वात् लिप्युपचरितवाक्यस्यापि पत्रे समुपचर्यमाणत्वात् तत्र लिखितस्य पत्रस्थत्वात् तदुपचरितोपचारात् पत्रव्यपदेशसिद्धेः न च यद् यतो ऽन्यत् तत् तेनोपचाराद् उपचारोपचारात् वा व्यपदेष्टुम् अशक्यं शक्राद् अ१६न्यत्र व्य१७वहर्तृजने शक्राभिप्राये स्फुटम् उपचार- दर्शनात् ततो ऽन्यत्रापि का१८ष्टादाव् उपचारोपचारात् शक्रव्यपदेशसिद्धेः तद् उक्तं — २मुख्यं श१ब्दात्मकं वाक्यं लिप्याम् आरोप्यते जनैः । पत्रस्थत्वात् तु तत् पत्रम् उपचारोपचारतः ॥ १ ॥ अथवा प्रकृतवाक्यस्य मुख्यत एव पत्रव्यपदेश इति निग२दामः पदानि त्रायंते गोप्यंते रक्ष्यंते परेभ्यः प्रतिवादिभ्यः स्वयं विजिगीषुणा यस्मिन् वाक्ये तत् पत्रम् इति पत्रशब्दस्य निर्वचनसिद्धेः । तथा लोके व्यवहर्त्तरि शास्त्रे च गु३रुपर्वक्रमायाते प्रतीतेः न च पदानि विनिश्चितपदस्वरूपतदभिधेयतत्त्वेभ्यः परेभ्य- ०५स् त्रातुम् अशक्यान्य् एव कुतश्चिद् वर्णविपर्यासनादेः प्रकृतिप्रत्ययादिगोपनाद् वा तत्त्राणसंभवात् पदगूढादिकाव्यवत्तद् उक्तं — त्रायंते वा पदान्य् अस्मिन् परेभ्यो विजिगीषुणा । कुतश्चिद् इति पत्रं स्याल् लोके शास्त्रे च रूढितः ॥ २ ॥ न चैवमसाधुपदास्पदमपि वाक्यं पत्रमासज्यतेसुस्पष्टपदमेव वा साधुगूढपदप्रायमितिवचनात्तदुक्तं — नचासाधुपदं वाक्यं प्रस्पष्टपदमेव वा । साधुगूढपदप्रायमिति तस्य विशेषणात् ॥ ३ ॥ पदपादादिगूढकाव्यमेवं पत्रं प्राप्नोति इति चेन्नप्रसिद्धावयवत्वेन विशिष्ट४स्य पत्रत्ववचनात् न हिपदगूढादिकाव्यं १०प्रमाणसिद्धप्रतिज्ञाद्यवयवविशेषणतयाकिंचित्प्रसिद्धं तस्य तथा प्रसिद्धौपत्रव्यपदेशसिद्धेरवाधितत्वात्तदुक्तं — पदगूढादिकाव्यं च नैवं पत्रं प्रसज्यते । प्रसिद्धावयवत्वेन विशिष्टस्याभिधा५नतः ॥ स्व६यमिष्टस्यार्थस्यासाधकमपि तादृ७ग्वाक्यंपत्रमेवमासक्तमिति चेन्न स्वेष्टार्थसाधनस्यैवेहपत्रविचारे पत्रत्व- वचनात् तदप्य८भिहितं — स्वेष्ठार्थासाधनस्यापि नैवं पत्रत्व९मापतेत् । स्वेष्टार्थसाधनस्यैव पत्रत्ववचनादिह ॥ १५ततो नाक्षपादादीनामेकांतवादिनांपत्रवाक्यमसंभवदर्थकं इति केचित्तदसत्यथोक्तलक्षणस्य पत्र- वाक्यस्य तेषांविचार्यमाणस्याव्यवस्थितेः तथा१०हि — नाक्षपादस्यतावद्यथोक्तलक्षणं पत्रवाक्यं संभवति प्रसि- द्धावयवत्वस्य विरहात्सुगतादीनामिव । तदवयवाहिप्रतिज्ञा११दयः पंचाक्षपादेनाभिधीयंतेप्रतिज्ञाहेतूदाहरणोप- नयनिगमनान्यवयवा इतिसूत्रप्रणयनात् । तत्रागमः प्रतिज्ञा विश्वतश्चक्षु१२रितिविश्वतो मु१३खो विश्वतो बा१४हु- रिति विश्व१५तः पात्संबाहु१६भ्यां धमति संपत१७त्त्रैर्द्यावाभूमी जनयन्देवएक इति यथा आगमार्थो वा प्रतिज्ञा २०विवादाध्या१८सितमुपल१९ब्धिमत्कारणकमिति । यथाहेतुरनुमानं तेन प्रतिज्ञातार्थस्यानुमीयमानत्वात् कार्यत्वादिति । यथा उदाहरणं प्रत्यक्षं वादिप्रतिवादिनोर्यत्रबुद्धिसाम्यं तदुदाहरणमिति वचनात् वस्त्रादिवदिति यथा उपनयमुपमानं दृष्टांतः धर्मिसाध्यधर्मिणोः सादृश्यात्, "प्रसिद्धसाधर्म्यात् साध्यसाधनमुपमानमिति" वचनात् यत्कार्यं तदुपलब्धिमत्कारणकं दृष्टं यथा वस्त्रादितथा च विवादाध्यासितमिति । यथासर्वेषा२०मेकविषयत्वप्रद- र्शनफलं निगमनंतस्मा२१दुपलब्धिमत्कारणकमिति यथाआगमानुमानप्रत्यक्षोपमानवत् फलसमुदायरूप- २५त्वात्पंचानामवयवानामिति व्याख्या२२नात् । न चैतेपंचावयवाः प्रमाणतो विचार्यमाणा विपश्चिच्चेतसि सुनिश्चि- ताश्चकासति, पत्रवाक्याभासेऽपि संभवात् तेषांपक्षधर्मत्वसपक्षेसत्वविपक्षासत्वमात्राणामिवत्रयाणामवयवानां सुगतसंमतानां वीतादीनामिवकपिलविकल्पितानां तदभावेऽपि पत्रवाक्यस्य स्वार्थसाधनस्यदर्शनात् साध्याविनाभावनियमनिश्चयलक्षणादेव हेतोःसाध्यप्रसिद्धेः तदुक्तं — न चैवं लक्षणं पत्रमक्षपादस्य युज्यते । प्रसिद्धावयवत्वस्य विरहात्सुगतादिवत् ॥ १ ॥ ३०पत्रस्यावयवाः पंच प्रतिज्ञादय इत्यसत् । पत्राभासेऽपि सद्भावात्तेषां त्रैरूपमात्रवत् ॥ २ ॥ तदभावेऽपि पत्रस्य स्वार्थसाधनतेक्षणात् । हेतोःसाध्याविनाभावनियमात्मकतो यथा ॥ ३ ॥ सत्सत्सदितिसंक्षेपात्साध्यसाधनदर्शनं । व्याप्त्याःसामर्थ्यतः सर्वनामाभावेऽपि निश्चितं ॥ ४ ॥ ननु च यत्कृतकं तदनित्यं दृष्टं यथा घट इत्यादौसति सर्वनामप्रयोगे व्याप्त्या साध्यसाधनवचन- ३मुपलब्धं न पुनरसति यतः स१त्सदित्यत्रसर्वनामप्रयोगाभावेऽपि संक्षेपतस्तत्सिद्ध्येत्धर्मिणश्चावच२नमिहा- युक्तं अग्निर३त्रधूमादित्यादिषुधर्मिवचनदर्शनादिति कश्चित् सोऽप्यनालोचितवचनपथःसामर्थ्याद्गम्यमानस्य सर्वनाम्नो प्रयोगेविरोध४वैधुर्यात् पंचावयववादिनःसाधर्म्यावयवव्याख्यानादर्थतोगम्यमानानां वैधर्म्या- वयवानामिव क्वचिदवश्यं तत्प्रयोगे पंचावय५ववचनेन्यूनता६नुषंगात् अवयववादिनां बौद्धानां त्र्यंशस्य हेतो- ०५र्भाषणात् सामर्थ्यतो गम्यमानानां प्रतिज्ञादीनामिवतत्प्र७योगे स्वयमसाधनांगवचनस्य निग्रहाधिकरणस्य तैरभिधानात् तत एव धर्मिणोऽप्यवचनमितिसंक्षिप्तपत्रवाक्येन विरुद्ध्यते तस्यपरीक्षादक्षैरक्षू८णतयोप- लक्षितत्वात्तदुक्तं — वैधर्म्यावयवा यद्वत्पंचावयववादिनः । साधर्म्यावयवाख्यानाद्गम्यंतेऽर्थादभाषिताः ॥ १ ॥ प्रतिज्ञायाश्च केषांचिद्धेतोस्त्र्यंश९स्य भाषणात् । सामर्थ्याद्गम्यमानत्वान्न प्रयोज्या यथैव तु ॥ २ ॥ १०तथा सामर्थ्यगम्यत्वात्सर्वनाम्नोप्यभाषणं । क्वचिदिष्टं परीक्षायां दक्षैर्द्धर्मिण एव च ॥ ३ ॥ नन्वेवं क्वचिदपि प्रतिज्ञादिप्रयोगे न स्याद्वादिनांयुक्तरूपोभवेत् तस्य सामर्थ्याद्गम्यमानत्वात्सर्व- नामवदिति न मनीषिभिर्मनसि निधेयं तेषांप्रतिपाद्यानुरोधेन प्रयोगोपगमात् यथैव हिकस्यचित्प्रतिबो- ध्यस्यानुरोधेन साधनवाक्येसंधा१०भिधीयते दृष्टां११तादिकमपि न चैवंसाधनस्यैकल१२क्षणत्वं स्व१३यं परीक्षित- मपक्षिप्यते ततोऽन्यांशानां सतामपितल्लक्षणत्वापायात्साधनाभासेपितत्संभवाद१४साधारणताविरहात् त१५थैव १५हिकुमारनंदिभट्टारकैरपि स्ववादन्यायेनिगदितत्वात्तदाह — प्रतिपाद्यानुरोधेन प्रयोगेषु पुनर्यथा । प्रतिज्ञाप्रोच्यते तज्ज्ञैस्तथोदाहरणादिकं ॥ १ ॥ न चैवं साधनस्यैकलक्षणत्वं विरुध्यते । हेतुलक्षणतापायादन्यांशस्य त१६थोदितं ॥ २ ॥ अन्यथानुपपत्त्येकलक्षणं लिंग१७मंग्यते । प्रयोगपरिपाटी तु प्रतिपाद्यानुरोधतः ॥ ३ ॥ ननु चातिसंक्षिप्तपत्रवाक्ये हेतुरेव प्रयोक्तव्यःतावन्मात्रात्साध्यमवबोद्धुं समर्थान् नरान्प्रति साध्या- २०भिधानस्य निरर्थकत्वात् प्रपंचतारतम्यात् साध्यंनिश्चेतुमी१८शान् प्रति द्वौ चावयवौ प्रयोक्तव्यौ पक्षोहेतुश्चेति त्रयश्चावयवाः कां१९श्चन प्रतिपक्षोहेतुर्दृष्टांतश्चेति । चत्वारो वा२० तएवावयवाःसोपनयाः परानुग्रहप्रवणैः सद्भिः प्रयोक्तव्याः । पंच वा२१ प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात् । अ२२न्यथा तत्प्रतिपत्तेरयोगादित्य२३न्ये प्राहुः तदाह — हेतुरेव प्रयोक्तव्यस्तावन्मात्रात्प्रवेदितुं । सम२४र्थान्प्रतिबोध्यान् नॄन् साध्यं संक्षेपतो न२५नु ॥ १ ॥ २५द्वौ च त्रयश्च चत्वारः पंच चावयवाः परे । प्रयोक्तव्याः प्र२६पंचेन सद्भिरित्यपरे विदुः ॥ २ ॥ तेऽप्येवं पृष्टव्याः हेतुस्तावत्केव२७लः प्रयुज्यमानःकथं प्रयुज्यत इति यदि प्रथमांतः सत्सदित्येव तदास्य कुतः साध्यत्वव्य२८वच्छेदःसाध्यलक्षणवैकल्यात् सत्सत्त्वस्य प्रसिद्धत्वात्साध्यस्याप्रसिद्धलक्षणत्वात् किं पुनः सत्सदित्युच्यतेयतस्त२९त्सकलजनप्रसिद्धं साध्यव्यवच्छेदेनसाधनत्वेनैव बुद्ध्यामहे न पुनः साध्यनिर्देश- त्वेन३० शंकामहे स३१त्सदिति चेत् इ३२मे ब्रूमहे स३३दनंसदिति प्रमा य३४तोऽत्रा३५भिप्रेता सर्वैर्गत्यर्थत्वात्गत्यर्थस्य च ४ज्ञानार्थत्वात्सर्वे गत्यर्था ज्ञानार्थे वर्त्तंते इतिवचनात्सती विद्यमाना सा य१स्मिन् तत्सत्सद्विद्यमानप्रमंप्रमेयमिति यावन्न कस्यचित्प्रमाणवादिनःप्रमेयमप्रसिद्धं । संवितमात्रप्रमाणवादिनःतदप्रसिद्धमिति न मंतव्यं तस्यापि संवित्स्वरूपेप्रमेयत्वप्रसिद्धेः स्वरूपस्य स्वतो गतिरितिस्वयमभिधानात्संवृ२त्या तदभिधाने परमार्थतः स्वरू- पादिगतिविरोधात्संविदद्वैतसिद्धेरयोगात् । यदिपुनरुत्पादा३दिस्वभावत्वं सत्वं तदा तत्सत्सत्साध्यमितियुक्तं ०५विद्य४मानोत्पादादिस्वभावत्वस्य सत्सत्त्वस्यकेषांचिदप्रसिद्धत्वात् साध्यलक्षणसंप्रतिपत्तेरित्येवंये ब्रु५वंते तेषां सत्सदित्युक्ते सत्सत्वस्य प्रसिद्धतयासाध्यव्य६वच्छेदसिद्धावपि साधनस्य धर्मिणो व्यवच्छेदःसिद्ध्येत् तस्यापि प्रसिद्धत्वेन संम७तत्वात्प्रसिद्धोधर्मीति वचनात् यदि पु८नर्विदुषांसाध्यसिद्ध्यर्थं धर्मिणो प्रयोज्यत्वात्तस्य साध्याविना९भावाभावादेव व्यवच्छेदसिद्धिरिति मतंतदा हेतुः केवलः कथं तेषां प्रयोज्यः स्यात् स्वेष्टसि- द्ध्यर्थं साध्यस्यानभिधा१०ने तेनतस्याविनाभावाप्रसिद्धेः । प्रस्तावाद्गम्यमानेनसाध्येनानुक्तेनापि हेतोरविना- १०भावस्तावद्विद्भिरवधार्यते इति चेत् नचैतत्परीक्षाक्षमंप्रस्तावस्येष्टानिष्टयोरर्थयोरविशेषात्कतरस्मिन्नर्थेहेतुः प्रयुक्तोयमिति ज्ञातुमशक्तेः किमनित्यः शब्दो नित्योवेत्युभयांशावलंविनि शंसये सति हेतुप्रयोगस्येष्ट- त्वात्"संदिग्धेऽर्थे हेतुवच११नादिति" कैश्चित्स्वयमभिधानात् । अथयदैकमुखएव प्रस्तावस्त्र्यात्म१२कं जगत् कथमेत- दितिकस्यचित्प्रश्ने तदा हेतुस्तत्रैवायमिति ज्ञातुं शक्यत्वात्प्रस्तावाद्गम्यमानेन साध्येन हेतोरविनाभावः सिद्ध्यत्येवेत्यपि न संग१३तं पृष्टविपरीतार्थेहेतोर्वचनसद्भावदर्शनात् अत्र्यात्मकमिदं सर्वमितिस्वयमभीप्सतां १५तत्रैव हेतुप्रयोगोपपत्तेः य१४दिपुनस्तत्र प्रयुक्तस्य हेतोर्विरुद्धत्वनिश्चयात् तथा चत्र्यात्मकस्यैव सिद्धेरत्र्या- त्म१५कत्वस्य साध्यत्वायोगात्न तेन हेतोरविनाभावसिद्धिरिति मतं तदा त्र्यात्मकत्वस्यापिकुतः साध्यत्वं, प्रसिद्धस्य साध्यत्वविरोधात्साधनवत् । कस्यचिद्धेतोरत्र्यात्मकत्वे साध्येविरुद्धतामवबुद्ध्यमानस्य सामर्थ्यात् त्र्यात्मकत्वेसाध्ये सम्यग्धेतुत्वनिर्णयघटनात्त१६त्त्र्यात्मकप्रसिद्धत्वोपपत्तेः यो ह्यनग्नौ साध्येधूमवत्त्वस्य हेतोर्विरुद्धतामवबुध्यते स तस्याग्नौसाध्ये सम्यग्धेतुत्वमपि बुध्यत एव । न चैवंबुध्यमानस्य प्रतिपाद्यता१७ २०घटते प्रतिपादकवत् ततोन तं प्रति हेतुः केवलः प्रयोक्तव्यः स्यात् । अथ यत्पृष्टंप्रतिपा१८द्येन तत्र हेतु- र्यदाचार्येण प्रयुज्यते तदातस्य तेनाविनाभावावगतिर्भवत्येवेति मतं तदपि नसमीचीनं साध्यनिर्द्देशस्यैव समागतेःप्रतिपाद्यकृतप्रश्नविशेषस्यान्य१९था तत्रानुपपत्तेःउत्पादाद्यात्मकं सर्वं कुत एतदिति प्रश्ने प्रमेयत्वा- दिति हेतोर्वचनेऽपि संबंधात्साध्यनिर्द्देशप्रसिद्धेःएकनिर्द्देष्टुरिव भिन्ननिर्द्देष्टुरपि तस्य तेनसंबंधाविशेषात् यथैव ह्येकस्य वक्तुःसाध्य२०निर्देशानंतरं साधनस्य निर्देशे तस्यतेनाविनाभावसंबंधसाध्यसिद्धेः साध्यव्याप्त- २५साधनोपदर्शनं स्फुटमव२१सीयते तथा प्रतिपाद्येनसाध्यप्रश्नवचने कृते प्रतिपादकेन साधनामिधानेऽपि भिन्नवक्तृनिर्दिष्टयोरपिसाध्यसाधनयोरविनाभावाविरोधात्कथमन्यथैकवाक्य२२स्य नानावक्तृभिरुदीर्यमाणस्य संबधता सिद्ध्येत् ततः सर्वेषां वादिनां अविगा२३नेनसिद्धं संक्षेपतः साध्यसाधननिर्देशमात्रं न पुनः केवलं हेतुव२४चनं विदुषामपि तदयोगात् किंवत् सर्वेषां वादिनांअविगानेन संक्षेपतः साध्यसाधनदर्शनं प्रसिद्ध- मितिचेदुच्यते श्रीमदकलंकदेवस्य, प्रत्यक्षं विशदं ज्ञानंप्रमाणमित्यादिवत् । ध२५र्मकीर्तेः प्रत्यक्षं कल्पना- ३०पोढमभ्रांतमित्यादिवत् । योगस्यसदकारणवन्नित्यमित्यादिवत् । सांख्यस्य चैतन्यंपुरुषस्य स्वरूपमित्यादिवत् सत्सत्सदितिपत्रवाक्यमनाकुलमेव संभावयामःस्वसाध्यार्थाविनाभाविसाधनस्याभिधानात् २६यथैव हिविशद- ज्ञानात्मकत्वमंतरेण प्रत्यक्षमनुपपन्नंज्ञानात्मकत्वेन च विना प्रमाणत्वं केषां२७चित्परेषांकल्पनापोढाभ्रांताभ्यां विना प्रत्यक्षत्वं अन्येषांनित्यत्वादृते सदकारणवत्वमितरेषां पुरुषस्वरूपाभावेचैतन्यं तथोत्पादादित्रया- ५त्मकत्वलक्षणसत्वमंतरेण सत्सत्वाख्याप्रमेयतापि नोपपद्यत एव प्रमाणबलतः प्रसिद्धायास्तस्याःअन्यत्र क्वचित्सद्भिर्निश्चयात् । आत्मादिद्रव्यमुत्पादव्ययनिर्मुक्तं प्रमेयं सिद्धंपर्यायश्च ध्रौव्यनिर्मुक्तः प्रमेयोऽस्तीति चायुक्तंद्रव्यपर्याययोर्भेदाभेदै१कांतेऽनवस्थानात् तथाचैत२त्सकलमभ्यधायि । ते३ऽपि प्रयुंजते हेतुं सत्सत्वं यदि केवलं । सत्सदित्येव साध्यत्वव्यवच्छेदोऽस्य तत्कृतः ॥ १ ॥ ०५साध्यलक्षणवैकल्यात्सत्यत्वस्य प्रसिद्धितः । सदनंसत्प्रमा ह्यत्र स४ती सा य५त्र तन्मतं ॥ २ ॥ सत्सत्प्रमेयमेतच्च प्रसिद्धं मानवादिनः । संविन्मात्रेऽपि मा६नस्य स्व७रूपेस्ति प्रमेयता ॥ ३ ॥ उत्पादा८दिस्वभावत्वं सत्त्वं साध्यं तु युज्यते । तस्याप्रसिद्धितः साध्यलक्षणं प्रतिपत्तितः ॥ ४ ॥ एवमाचक्षते येऽपि तेषां स्याद्धर्मिणः कुतः । साधनस्यव्यवच्छेदः प्रसिद्धत्वेन संमतात् ॥ ५ ॥ विदुषामप्रयोज्यत्वाद्धर्मिणः साध्यसिद्धये । तस्यसाध्याविनाभावाभा९वादेवेति त१०न्मतं ॥ ६ ॥ १०हेतुः कथं प्रयोज्यः स्यात्केवलः स्वेष्टसिद्धये । साध्यस्यावचने तेनाविनाभावा११प्रसिद्धितः ॥ ७ ॥ प्रस्तावाद्गम्य१२मानेन हेतोः साध्येन बुद्ध्यते । विद्वद्भिरविनाभावोऽनुक्तेनापीति चेन्न वै ॥ ८ ॥ प्रस्तावस्यार्थयोरिष्टानिष्टयोरविशेषतः । क्वार्थे हेतुःप्रयुक्तोऽयमिति ज्ञातुमशक्तितः ॥ ९ ॥ यद्येकमुखएव स्यात् प्रस्तावस्त्र्यात्मकं जगत् । कथमेतदिति प्रश्ने तदा हेतुः स१३ तत्र चेत् ॥ १० ॥ न पृष्टविपरीतार्थे हेतोर्वचनसंभवात् । अत्र्यात्मकमिदं विश्वामिति स्वयमभीप्स१४तां ॥ ११ ॥ १५तत्र हेतोर्विरुद्धत्वनिश्चयात्साध्यता न चेत् । तथात्र्यात्मकं सिद्धेस्तस्य स्यात्साध्यता कुतः ॥ १२ ॥ यो ह्यग्नौ विरुद्धत्वं धूमवत्त्वस्य बुध्यते । सोऽग्नौसाध्ये कथं तस्य न विद्यात्सत्यहेतुतां ॥ १३ ॥ न चैवं बुध्यमानस्य घटते प्रतिपाद्यता । प्रतिपादकव१५द्येन हेतुस्तं प्रति केवलः ॥ १४ ॥ यत्पृष्टं प्रतिपाद्येन तत्र हेतुः प्रयुज्यते । यदाचार्येण तेनास्याविनाभावगतिस्तथा ॥ १५ ॥ भवत्येवेति चेत्साध्ये निर्द्देशोप्येव१६मागतः । प्रतिपादकृतः प्रश्नविशेषः क्वा१७न्यथास्य१८ स ॥ १६ ॥ २०उत्पादाद्यात्मकं विश्वं कुत एतद्धि निश्चितं । इति प्रश्नेप्रमेयत्वादिति हेतोर्वचस्यपि ॥ १७ ॥ प्रसिद्धः साध्यनिर्देशः संबंधादुपवर्णितः । ए१९तेनैवैकनिर्देष्टुरिव २०भिन्नादपि स्फुटं ॥ १८ ॥ ततः संक्षेपतःसिद्धः स२१र्वेषा२२मविगानतः । साध्यसाधननिर्देशमात्रकं न तु हेतुवाक् ॥ १९ ॥ प्रत्यक्षं विशदं ज्ञानं प्रमाणं ज्ञानमित्यपि । अकलंकवचोयद्वत्साध्यसाधनसूचकं ॥ २० ॥ प्रत्यक्षं कल्पनापोढमभ्रांतमिति कीर्तिवा२३क् । सदकारणवन्नित्यमिति योगवचोऽपि च ॥ २१ ॥ २५चैतन्यं पुरुषस्य स्यात्स्वरूपमिति सांख्यवाक् । एवमादिपरैरिष्टं स्वेष्टसिद्धिनिबंधनं ॥ २२ ॥ सत्सत्सदिति तद्वत्स्यात्पत्रवाक्यमनाकुलं । स्वसाध्यर्थाविनाभाविसाधनस्याभिधानतः ॥ २३ ॥ उत्पादादित्रयात्मत्वमंतरेण प्रमेयता । न हिक्वचित्प्रसिद्धास्ति प्रमाणवलतः सतां ॥ २४ ॥ नोत्पादव्ययनिर्मुक्तमात्मादिद्रव्यमस्ति नः२४ । प्रमेयंनापि पर्यायो ध्रौव्यमुक्तोऽस्ति कश्चन ॥ २५ ॥ द्रव्यपर्याययोर्भेदाभेदैकांतेऽनवस्थितेः । श्रीमत्समंतभद्रार्यैयुक्तिविद्भिस्तथोक्तितः ॥ २६ ॥ ३०द्रव्यपर्याययोरैक्यं२५ तयोरव्य२६तिरेकतः । परिणामविशेषाच्च शा२७क्तिमच्छक्ति२८भावतः ॥ २७ ॥ संज्ञासंख्याविशेषाच्च स्वलक्षणविशेषतः । प्रयोजनादिभेदाच्च त२९न्नानात्वं न सर्वथा ॥ २८ ॥ तत्र द्रव्यं तावदन्व३०यितदेवेदमित्यवाधितप्रत्यभिज्ञासमधिगम्यं पर्यायोव्यावृताकारस्वभावः स भेद- ६प्रत्ययसमधिगम्यःकथंचित्त१योरैक्यमव्यतिरेका२त् ययोस्तु नैक्यं नतयोरव्यतिरेकः यथा हिमवद्विंध्ययोरव्य- तिरेकश्चद्रव्यपर्याययोस्तस्मात्तयोरैक्यमिति केवलव्यतिरेकी हेतुःननु३ चैक्यमव्यतिरेक एव स एव हेतुः कथमु४पपन्नःस्यात्साध्यसमत्वादिति न मंतव्यं क५थंचित्तादात्म्यस्यैक्यस्यसाध्यत्वात् परस्परमशक्यविवेचन- त्वस्याव्यतिरेकस्यसाधनत्वात् तस्या साध्यसमत्वाभावात् परस्परंव्य६तिरेचनंव्यतिरेकः, तदभावस्त्वव्यतिरेकः ०५सचशक्यविवेचनमेवेति कथं साध्यसमत्वं नचैवमसिद्धोहेतुः कस्यचिज्जीवादिद्रव्यस्य स्वपर्यायेभ्यो ज्ञानादिभ्यः परद्रव्यपर्यायांतराणि स्वपर्यायाणांच ज्ञानादीनांद्रव्यांतरं नेतुमशक्यत्वस्यपरस्परमशक्यविवेचनत्वस्य द्रव्यप- र्याययोःसुप्रसिद्धत्वात् अन्यथा ज्ञानादिपर्यायाणां जीवपर्यायत्वायोगात्जीवादिद्रव्यत्वस्य च तद्द्रव्यत्वविरोधात् न७नु सत्यपिद्र८व्ये तत्पर्यायाणामुत्पादात् उत्पन्नानां च विनाशात्कथमशक्यविवेचनत्वं सिद्धमिति तु न शं- कनीयंपर्यायाणामुत्पादविनाशाभावे पर्यायत्वायोगात्तेषामुत्पादव्ययलक्षणत्वात् द्रव्यस्यध्रौव्यलक्षणत्ववत् ॥ १०समुदेति विलयमृच्छति भावो नियमेन पर्ययनयस्यनोदेति नो विनश्यति भावनयालिंगितो नित्यं ॥ इति वचनात् । न च कालाभेदोऽशक्यविवेचनत्वंएककालवर्तिनां नाना९र्थानामतिप्रसंगात् ततः कालाभेदेसत्यपि द्रव्यपर्यायोर्नाशक्यविवेचनत्वं यथोक्तलक्षणंविरुद्ध्यते । देशाभेदोऽशक्यविवेचन- मित्यपि वा१०र्तंवातातपादीनामपि तत्प्रसंगात् शा११स्त्रीयोदेशाभेदोऽशक्यविवेचनत्वमिति चेत्त१२र्हि द्रव्यपर्याययो- स्तत्कथमसिद्धं ॥ न१३नु पर्यायाणां रूपादीनांघटादिद्रव्यदेश१४त्वात् घटादिद्रव्यस्य तुस्वारंभकावयवदेशत्वात् १५तत्प१५दार्थान्तरत्वसिद्धिरिति चेन्न प्रमाणाभावात्गुणगुणिनौ क्रियाक्रियावंतौ जातितद्वंतौ विशेषतद्वंतौ अवयवावायविनौ च परस्परतः पदार्थांतरभूतौभिन्नप्रतिभासत्वात् यौ यौ भिन्नप्रतिभासौ तौ तौपरस्परतः पदार्थांतरभूतौ यथा घटपटौभिन्नप्रतिभासौ तौ इत्यनुमानसद्भावान्न प्रमाणाभाव इतिचेन्न अस्यानुमानस्य विरुद्धत्वात् इष्टविरुद्ध१६स्यकथंचिदार्थांतरस्य साधनात्कथंचिद्भिन्नप्रतिभासत्वस्य कथंचिदार्थांतरेणव्याप्तत्वात् सर्वथा भिन्नप्रतिभासत्वस्य हेतु१७त्वेपुनरसिद्धो हेतुः दृष्टांतश्च साध्यसाधनविकलः प्रतीयतेघटपटयोः सर्वथा- २०र्थांतरत्वस्य साध्यस्यसर्वथाभिन्नप्रतिभासत्वस्य चसाधनधर्मस्याप्रातीतिकत्वात् । स१८द्द्रव्याद्यात्मना तयो रभिन्नत्वादभिन्नप्रतिभासमानत्वाच्च । न१९नु चसद्द्रव्याद्यात्मनोऽपि घटपटाभ्यां भिन्नत्वात् कथं तेनतयो- रभेदः स्यात् । अभिन्नप्रतिभासत्वं वा, सत्वं हिपरसामान्यं सत्स्वभावः द्रव्यत्वं चापरसामान्यंद्रव्यस्वभावः तथा पार्थिवस्वभावोपि इति कथमसौततोनार्थांतरभूत: स्यादिति कश्चित् सोऽपि न युक्तवादीसत्वादर्थी- तरत्वे तयोरसत्वप्र२०संगात्द्रव्यादिस्वभावाच्चात्यं२१तभेदे तयोरद्रव्यादिप्रसक्तेः । सत्तासंबधात् तयोः सत्वं २५द्रव्यत्वसंबंधात्द्रव्यत्वोपपत्तेःपार्थिवत्वादिसंबंधात्पार्थिवत्वादिव्यवस्थानान्नदोषैति चेत् कथम२२सतः स्वयम२३द्रव्यस्यापार्थिवादेश्च । त२४दत्यंतभिन्नसत्वादिसंबंधादपि स२५दादिरूपता युक्तास्वरविषाणादेरपि तत्प्रसं- गात् । प्रागसदादेःसत्तादिसंबंधात् स२६दादिरूपत्वे प्रध्वंसाभावस्यस्वकारणव्यापारात्प्रागभूतस्य तदनंतरं भवतःसत्तादिप्रसंगः । तस्य तदापि सत्तादिसंबंधासंभवात् नतत्प्रसंग इतिचेत्तदिदं जाड्यविजृंभितं, ā२७क्षेपस्यैवपरिहारतया व्य२८वहारात् प्रागसतः सत्तासंबंधात्सत्वेऽपिप्रध्वंसाभावस्य सत्तासंबंधः कस्मान्न ३०भवति, ततःसत्वं चेत्याक्षेपः तस्य सत्तासंबंधासंभवात् इति स एवपरिहारः कथमजडैरभिधीयते साध्य- मेव च साधनंकुतस्तस्य सत्तासंबंधाभावः सत्तासंबंधाभावादिति कुतःसत्तासंबंधलक्षणसत्वाभावः सत्ता- संबंधाभावादितिवा य२९दिः पुनः प्राग३०सत्वादविशेषेऽपि घटपटयोरेवसत्तासंबंधः तन्निमित्तं च सत्त्वं तथा ७प्रतीतेः न पुनः प्रध्वंसाभावस्य तदभावादितिमतं तदा कथंचित्सत्ता१दितादत्म्यात् सत्तादिव्य२वहारो घट- पटयोरिति नैकां३तेन सत्वादि ततो भिन्नं येनसद्द्रव्या४त्मना घटपटयोरभेदःकथंचिदभिन्नप्रतिभासत्वं वा न स्यात्साध्यसाधनवैकल्यं वा दृष्टांतस्य ततो नद्रव्यपर्यायोर्भेदैकांतसाधनं निरवद्यमस्ति यतस्त५योःप६दार्थं- तरत्वसिद्धौशास्त्रीयदेशभेदलक्षणशक्यविवेचनत्वोपपत्तेःअशक्यविवेचनत्वमव्यतिरेको हेतुरसिद्धः श७क्येत ०५नचायमनैकांतिको विरुद्धो वा सर्वदा विपक्षेवृत्त्यभावात् इति सिद्धत्येवातो हेतोःकथंचिद्द्रव्यपर्याययोरैक्यं तथा"द्रव्यपर्याययोरेक्यं परिणा८मविशेषात् ययोस्तु नैक्यं नतयोः परिणामविशेषः, यथा सह्यविंध्ययोः परिणामविशेषश्च द्रव्यपर्याययोःतस्मादैक्यमित्यपि व्यतिरेकीहेतुः न९नु च कोयंपरिणामविशेषोनाम य१०दि पूर्वविनाशादुत्तरोत्पादस्तदा वाद्य११सिद्धःनिरन्वयविनाशात्यंतापूर्वोत्पादयोः स्याद्वादिनामनिष्टत्वात् । अथपूर्वस्य तिरोभावादुत्तरस्याविर्भावस्तदापि वा१२द्यसिद्धःसर्वथासतस्तिरोभावाविर्भावमात्रानभ्युपगमात् ए१३तेनस्वा१४श्रया- १०द्भिन्नस्वभावः समवायात्तत्र वर्तमानःपरिणामविशेष इति वाद्यसिद्धः प्रतिपादितः तेषांतथाप्यनभ्यु१५पगमात् अथपूर्वापरस्वभावत्यागोपादानान्वितस्थितिल१६क्षणस्तदाप्रतिवाद्यसिद्धः सौगतसांख्ययौगानां तथा१७भूत- परिणामविशेषासिद्धेः इति कश्चित्सोपि न युक्तवादीपूर्वापरस्वभावत्या१८गोपादानान्वितस्थितिलक्षणस्य परिणा- मविशेषस्य प्रमाणतः सिद्धत्वात् । तथा हि सर्वं वस्तुयथोक्तपरिणामविशेषभाक् सत्वात् सर्वथाप्य१९परिणामिनि सौग२०तादीष्टपरिणामेन परिणा२१मिनि च सत्वविरोधात्तद्विरोधश्च अर्थक्रियाव्याघातात् तद्व्याघातश्च क्रम- १५यौगपद्यासम्भवात् तदसंभवश्चनिर२२न्वयविनश्वरनिरंशैकांते देशकालकृतक्रमस्यनानाकार्यकरणशक्तिनाना- त्वनिबंधनयौगपद्यस्य चविरोधात् सर्वथा सदात्मककू२३टस्थवत्परस्परतोऽत्यंतभिन्नधर्मधर्मिमात्रवच्च नह्यत्र देशकृतः क्रमः पिपीलिकादिवत् नापि कालकृतो वाबीजांकुरादिवत् संभवत्येक२४स्यानेकदेशकालवर्तिनोर नभ्युपगमात् यो यत्रैव स तत्रैव यो यदैव तदैवसः "न देशकालयोर्व्याप्तिर्भावानामिह विद्यते" इतिवचनात् ननु च क्षणिकैकस्वलक्षणापेक्षया देशकालव्याप्त्यभावात्भावानां माभूत् देशकालकृतः क्रमः सकृदेक- २०स्यानेकस्वभावापेक्षया यौगपद्यवत् संतानापेक्षया तुस्यात् तस्यानेकस२५हकारिकालापापेक्षया अनेककार्यकरण- यौगपद्यवत् इति चेन्न संतानसमुदाययोरेवक्रमयौगपद्याभ्यामर्थक्रियाकारित्वात् वस्तुत्वसिद्धिप्रसंगात्स्व२६लक्ष- णस्यावस्तुतापत्तेः । स्या२७दाकूतंय२८दन्वयव्यतिरेकानुविधानात्क्रमशःकार्योत्पत्तिस्तत्स्वलक्षणं क्रमशः कार्यकारि यथाकस्यचिज्जाग्रद्विज्ञानं क्रमशःस्वप्नज्ञानप्रबोधज्ञानादिकारणं किंचित्तुयुगपत्कार्यका२९रि यदन्वयव्यति- रेकाभ्यां यौगपद्येनकार्योत्पत्तिः यथा प्रदीपस्वलक्षणंतैलशोषणांधकारापनयंकारणं । नचैवमेकस्यानेक- २५स्वभावापत्तिस्त३०स्यता३१दृशैकस्वभावत्वात् इति तदसत् कू३२टस्थस्या३३प्येवंक्रमाक्रमकार्यकारित्वोपपत्तेः शक्यं हि वक्तुं शाश्वतिकोभावः स्वान्वयव्यतिरेकाभ्यां क्रमेणाक्रमेण वानेकं कार्यंप्रादुर्भावयन् त३४था तन्निमित्तं । नचानेकस्वभावत्वंतस्य तथाविधैकस्वभावत्वात् ॥ नित्य३५स्य कथंव्य३६तिरेक इति चेत् क्षणिकस्य क३७थं । सकलकालकलाव्याप्तेरिति चेत् । नित्य३८स्यापिसकलदेशाव्याप्तेर्व्यतिरेकोऽस्तु । न३९नुनित्याद्भिन्नकार्यस्योत्पत्तौ ८देशव्यतिरेकस्यापि न संभवः तदनुत्पत्तौ तुत१द्देशस्यैव कार्यस्य सर्वदोत्पत्तेः प्रतीतिविरोध इति चेत्तर्हि क्षणिकाद्भिन्न२कालस्य कार्योत्पादेव्यतिरेकाभावस्त३दभावएव त४द्भावात्, त५दभिन्नकालस्योत्पादे कार्यत्वविरोधः स६मसमयवर्तित्वात्स्वात्म७वत् । क्षणिकलक्षणे स्वकालेसति भवतः कालांतरेऽपि कार्यस्यान्वयवत् तदा तस्मिन्न- सत्य८भवतो व्यतिरेकः सिद्ध्यतीति चेत् तर्हि नित्येऽपिस्वदेशे सति देशांतरेऽपि भ९वतः कार्यस्यान्वयवत् ०५तत्राप्यसति तस्याभवतो व्यतिरेकः सिद्ध्येत् । नचैवमनभिमतदेशस्यापि कार्यस्य जन्म प्रसज्यतेनित्यवादिनः क्षणिकवादिनोऽपि तदनभिमतकालस्यजन्मप्रसंगात् । ततः स्वयोग्यभिन्नकालस्योत्पत्तौ नित्यादपिस्वयोग्य- भिन्न१०देशस्योत्पत्तेरलं प्र११बंधेन सर्वथाक्षणिकेतरवादिनोः परस्परम१२नतिशयात् क्षणिकैकांतस्यतस्यान्य१३त्र प्रपंचतो निराकरणाच्च नपूर्वापरस्वभावविनाशोत्पादमात्रेण परिणामेन परिणामिसर्वं वस्तु नाप्याविनाभाव- मात्रेण नित्यैकान्तेतदनुपपत्तेः कूटस्थ१४स्याविर्भावतिरोभावोत्प१५त्तौतदवस्थाविरोधात् अनित्यतानुषंगात् १०तदवस्थयोस्तदुपपत्तौ ततस्तयोर्भेदक१६ल्पानतिक्रमात्भेदे नित्यस्यावस्थेति व्यपदेशसिद्धिः संबंधाभावात् । अवस्थावस्थावद्भावएव संबंधैतिचेत् न तस्यभेदैकांते सह्यविंध्यवदघटनात् । एतेन द्रव्यस्यभिन्नेन गुणा- दिना परिणामेन परिणामित्वं प्रत्याख्यातंगुणादिद्रव्ययोः समवायस्यापि भेदैकांतेतद्वदनुपपत्तेरविशेषात् । देशाभेदात्तयोः संबंध इतिचेन्न वातातपयोरात्माकाशयोर्वा तत्प्रसंगात्कालभेदादुभयाभेदाच्च स तयो- रित्यस्याप्यनेनापास्तं । तयोरविश्वग्भावादुपपन्नः संबंधः इति चेत् स यदिदेशकालाभेद एव तदा सएव १५दोषः ततोन्यश्चेत्स्वभावाभेदः, प्रतिभासाभेदो, व्यपदेशाभेदो, वा नतावत्स्वभावाभेदः संभवति द्रव्यस्य गुणादेश्चभिन्नस्वभावत्वोपगमात् । प्रतिभासव्यपदेशाभेदोऽपि नयुक्तः, तस्यासिद्धत्वात् । कथंचिदेकद्रव्य- तादात्म्यमविश्वग्भाव इति चेत् स्याद्वादमतसिद्धिःसैवास्तु गत्यंतराभावात् इति यथोक्तपरिणामेनैव परिणा- मित्वं सत्त्वस्य व्यापकं सिद्धं ततस्तस्यैव साधनमितिसिद्धः परिणामविशेषो हेतुः द्रव्यपर्याययोः कथंचिदैक्यं साधयति । यथैव हि द्रव्यस्य द्रव्यरूपतया स्थितिः, पूर्वापरपर्यायरूपतया तु नाशोत्पादौ परिणामविशेषस्तथा २०पर्यायस्यापि स्वरूपेणात्मलाभो विनाशश्च द्रव्यरूपतया तुस्थितिरिति तल्लक्षणः परिणामविशेषोऽस्त्येव । तथाद्रव्यपर्याययोः कथंचिदैक्यं शक्तिमच्छक्तिभावात् ययोस्तुनैक्यं न तयोः शक्तिमच्छक्तिभावः यथा सह्यविन्ध्ययोःशक्तिमच्छक्तिभावश्च द्रव्यपर्याययोरिति व्यतिरेकीहेतुरन्यथानुपपत्तिलक्षणः साध्यं साधयति । शक्तिमद्धि द्रव्यं शक्तयः पर्यायाः प्रतीताएव तद्भावःशक्तिमच्छक्तिभावः सिद्धोन्यथानुपपत्त्यात्मको हेतुः । नचान्यथानुपपत्तिरसिद्धा कथंचिदैक्यमंतरेणद्रव्यपर्याययोर्भेदैकांते तदभेदैकांते चशक्तिमच्छक्तिभावस्या- २५संभवात् । अशक्यविवेचनलक्षणपरिणामविशेषवत् । तथाद्रव्यपर्याययोः कथंचिन्नानात्वं संज्ञासंख्यालक्षण- प्रयोजनप्रतिभासभेदात्कुटपटवत्शक्रपुरंदरादिसंज्ञाभेदेन कलत्रं दाराइत्यादिसंख्याभेदेन ज्ञानादिस्व- लक्षणभेदेनतापोद्योतादिप्रयोजनभेदेन स्पष्टास्पष्टादिप्रतिभासभेदेनच व्यभिचारी हेतुरितिचेन्न तस्यापि कथंचिद्भेदमंतरेणानुपपद्यमानत्वात्सर्वस्यैकानेकस्वभावताबिनिश्चयात्संज्ञेयसंख्येयस्वलक्ष्यप्रयोज्यप्रतिभास्य स्वभावभेदार्पणायामेवसंज्ञादिभेदव्यवहारसिद्धेरन्यथातिप्रसंगात्ततोऽनवद्यं द्रव्यपर्याययोः कथंचिद्भेदसाधनं ३०कथंचिदैक्यसाधनवत् नचैवंविरोधवैयधिकरण्यादिदूषणं, प्रमाणसिद्धयोःकथंचिद्भेदाभेदयोस्तदगोचरत्वात् क्वचित्सर्वथाभेदाभेदयोरेव विरोधादिविषयतयावसायात् । ननु चद्रव्यपर्याययोर्यमात्मानमाश्रित्य भेदो यंचाश्रि- त्याभेदस्तौ यदि ततो भिन्नौ तदा भेदएव न हिभिन्नादभिन्नमभिन्नंनामनानाभाजनस्थक्षीरादभिन्नक्षीरांतरवत् अथाभिन्नौ तथापि न भेदः तदुक्तं — यावात्मानौ समाश्रित्य भेदाभेदौद्वयोस्तयोः । तावभिन्नौ ततः स्यातां यदि भेदस्तदा न किम् ॥ १ ॥ ३५किं भिन्नौ यदि तौ भेदः सर्वथाकेन वार्यते । भिन्नादभिन्नयोर्भेदा भिन्नार्थादभेदवत् ॥ २ ॥ ९इति स एवमप्युपालंभो वस्तुनि न भवत्येवस्वमिथ्याविकल्पयोरेव तत्संभवात् वस्तुनो द्रव्यपर्याया- त्मनोर्जात्यंतरस्य तदंशयोर्द्रव्यपर्याययोःकथंचिद्भेदाभेदात्मनोः प्रतीतिसिद्धत्वात् नच तथाप्रतीतिः मिथ्या, बाधकस्य तद्विपरीतग्राहिणः प्रमाणस्यकस्यचिदप्यसंभवात् तत्रानवस्थादेरनवतारात् तथा हिद्रव्यपर्याययो- र्यमात्मानं द्रव्यस्वभावमाश्रित्याभेदःस्याद्वादिनां संमतः स एवाभेदो न पुनरन्योत्रायंपर्यायमात्मानमाश्रित्य ०५तयोर्भेदो व्यवह्रियते सएवपर्यायात्मा भेदः ततोनापर इत्याहुरनेकांतवादिनः ततोनैवाभेदैकांतः प्रसज्यते भेदैकांतो वा तथाभ्यधायिइत्येवमप्युपालंभो न संभवति वस्तुनि तथाप्रतीतिसिद्धत्वाद्वाधकस्याप्यसंभवात् । द्रव्यपर्यायोश्चात्र भेदःस्याद्वादिनां मतः । द्रव्यात्मानं यमाश्रित्य स एवाभेदैत्यपि ॥ १ ॥ पर्यायात्मानमाश्रित्य पंचभेदःप्रकीर्त्यते । स एव भेद इत्याहुस्तत्तदेकांतता कुतः ॥ २ ॥ इति तत एव च प्रतीतिसिद्धत्वाद्बाधकाभावादपिशीतोष्णस्पर्शवत् द्रव्यपर्यायोर्विरोधो ध्वस्तः स्यात् १०तद्वद्वैयधिकरण्यं च ध्वस्तं स्यात् तत एवानवस्थाध्वस्ता स्यात् द्रव्यरूपेणाभेदस्यैव पर्यायरूपेण भेदस्यैवो- भयस्वभावे वस्तुनि व्यवस्थितत्वात्सुनयार्पितैकांतावधारणस्यापि अनेकांताप्रतिघातत्वात् । ननु च प्रमाणा- र्पणादनेकांतएवनयार्यणाच्चैकांतएवेत्यप्येकांतएव प्रसक्त इति चेन्नतस्याप्यपरनयप्रमाणविषयतायामेकां- तात्मकत्वातव्यवस्थितानेकांतोपगमात् आकांक्षाक्षयादेवव्यवस्थानसिद्धेरनवस्थादोषाभावात् । संकरश्च- ध्वस्तः स्यात् तयोर्युगपत्प्राप्त्यभावात् । व्यतिरेकश्चपरस्परविषयगमनाभावात् । प्रतिनियतस्वरूपत्वात्संशी- १५तिरपि ध्वस्ता । तथानयोर्नयप्रमाणाभ्यां सुनिश्चितत्वात्तथैवाप्रतिपत्तिरभावश्च ध्वस्तः स्यात् यौगाभिमत- सामान्यविशेषवत् चित्राद्वैतवादिनश्चित्रवेदनवत्, सांख्यस्य सत्वरजस्तमोमयैकप्रधानवत्चित्रपटवच्चापरेषां नैकस्यानेकत्वं विरोधं भजतेनापि वैयधिकरण्यादिदोषमिति प्रतिपत्तव्यं । तदुक्तं — तत एव विरोधोऽत्रविभिन्नाश्रयतापि वा । अनवस्थाद्यपि ध्वस्तंस्यात्सामान्यविरोधवत् ॥ १ ॥ चित्रवेदनवच्चापिसत्वाद्यात्मप्रधानवत् । चित्रवस्त्रवदेकस्यानेकत्वं नविरोधभाक् ॥ २ इति २०एवं च न सत्सत्त्वलक्षणं प्रमेयत्वं नित्यैकांतादिषुक्वचिदपि सर्वथैकांते संभवति प्रमाणेनेव नयैरपि जात्यंतरस्यानेकांतात्मनो वस्तुनः प्रवेदनात् । नित्यत्वाद्येकांतप्रवेदनेतत्प्रतिपक्षाऽनित्यत्वादिधर्माणामनिरा- करणात्तत्र तेषामपि गुणीभूतानां सद्भावात् एतावतैव विपक्षेव्यावृत्तिनिश्चयेन हेतोः प्रकृतस्यान्यथानुप- पन्नताप्रधानलक्षणभूता सिद्धा । ततो युक्तंसाध्यसाधनवचनं संक्षेपतः पत्रवाक्ये केवलस्यहेतोरति संक्षेपतो प्रयोगाप्रयोगात्, सर्वथाविचारासहत्वात्, साध्यनिर्देशसहितस्यैव हेतोःप्रयोगार्हत्वसमर्थनात्, तदुक्तं- २५तथा च न प्रमेयत्वंध्रौव्यैकांतादिषु क्वचित् । नयैरपि गुणीभूतानेकांतस्यप्रवेदनात् ॥ सिद्धा चैतावताहेतोरन्यथानुपपन्नता । प्रधानलक्षणं युक्तासाध्यसाधनबाक् ततः ॥ इति विशेषाश्रयणात्कस्य कस्यावयवस्य वचनं पत्रेप्रयोगयोग्यमिति उदाह्रियते । साध्यधर्मविशिष्टस्य धर्मिणःसाधनस्य च । वचः प्रयुज्यते पत्रे विशेषाश्रयतो यथा ॥ स्वांतभासितभूत्याद्यत्र्यंतात्मतदुभांतभाक् । परांतद्योतितोद्दीप्तमितीतः स्वात्मकत्वतः ॥ इति ३०अंत एव ह्यांतः स्वार्थिकेऽणि भवति वानप्रस्थादिवत्प्रादिपाठायेक्षया सोरांतः स्वांतः — उत् तेन भासिताद्योतिता भूतिरुद्भूतिरित्यर्थः सा आद्या येषां तेस्वांतभासितभूत्याद्यास्तेच ते अंताश्च ते उद्रू- तिविनाशध्रौव्यधर्मा इत्यर्थः, त एवात्मानः तान् तनोतिइति स्वांतभासितभूत्याद्यत्र्यंतात्मतदिति साध्य- धर्मःउभांता वाक् यस्य तदुभांतभाक् विश्वमिति धर्मो तस्यसाध्यधर्मविशिष्टस्य निर्देशः उत्पादादित्रिस्व- भावव्यापिसर्वमिति यावत् । परांतो यस्येति परांतः प्रःसएव द्योतितंद्योतनमुपसर्ग इत्यर्थः तेनोद्दीप्ता सा ३५चासौ मितिश्चतामितः स्वात्मा यस्य तत्परांताद्येतितोद्दीप्तमितीः तत्स्वात्मकंप्रमितिः प्राप्तस्वरूपमिति यावत् तस्य भावस्तत्त्वंप्रमेयत्वं तस्मात्ततः प्रमेयत्वात् इत्यर्थः प्रमाणविषयस्यप्रमेयत्वादिति एतस्य साधनस्य चा- न्यथानुपपन्नत्वनियमनिश्चयलक्षणस्योक्तन्यायेनसमर्पितस्य वचनं यत्रेति विशेषाश्रयेण प्रयुज्यते, दृष्टांतो- पदर्शनाभावेऽपिहेतोर्गमकत्वसमर्थनात् । तथा त्रयश्चत्वारः पंच षडादयोवा पत्रवाक्येऽवयवाःस्युः निय- मस्याव्यवस्थानादित्येतदभिधीयते । १०चित्राद्यदंतराणीयमारेकांतात्मकत्वतः । यदित्थं न तदित्थं न यथा किंचिदिति त्रयः ॥ १ ॥ तथाचेदमिति प्रोक्ताश्चत्वारोऽवयवामताः । तस्मात्तथेति निर्देशे पंच पत्रस्य कस्यचित् ॥ २ ॥ षडादयोऽपि चैवंस्युर्नियमस्याव्यवस्थितेः । साधर्म्येतरदृष्टांताभिधाने चयथा क्वचित् ॥ ३ ॥ चित्रमेकानेकरूपं तदततीतिचित्रातेकानेकरूपव्याप्यनेकातात्मकमित्यर्थः सर्वविश्वयदित्यादिसर्व- ०५नामपाठापेक्षया यदंतो विश्वशब्दः । यदंतोस्येतियदंत इतिवृत्तेः, यदंतेन राणीयं शब्दनीयं विश्वमित्यर्थः तदनेनानेकांतात्मकं विश्वमिति पक्षनिर्देशः कृतः, आरेकासंशयः सांतोस्येत्यारेकांतः प्रमेयः प्रमाणप्रमे- यसंशयेत्यादिपाठापेक्षया स आत्मा स्वभावो यस्यतदारेकांतात्मकं तस्य भावस्तत्त्वं तस्मादितिसाधनधर्मनि- र्देशः यदित्थं न भवति यच्चित्रान्नभवति तदित्थं न भवति आरेकांतात्मकं न भवति यथाकिंचिन्न किंचित् यथाचाकिंचित् सर्वथैकांतात्मकंतत्त्वं पराभ्युपगतमिति त्रयोऽवयवाः पत्रे प्रयुज्यंतेतथा चेदं प्रमेयात्मकं १०चेदं विश्वमितिपक्षधर्मोपसंहारवचने चत्वरोवयवाः प्रयोगेऽमीदृष्टाः तस्मात्तथानेकांतव्यापीति निर्देशे पंचावयवाः । पत्रवाक्यस्य कस्यचित् षडादयोपि चैवंप्रतिपाद्याः प्रतिपाद्याशयवशात् स्युः तेषामियत्त- याचावधारणस्याभावात् तन्न साधर्म्यदृष्टांतस्यवैधर्म्यदृष्टांतस्य च गम्यमानस्यापि वचनेषडवयवाः स्युः । यथानित्यः शब्दः कृतकत्वात्यत्कृतकं तदनित्यं दृष्टं यथा घटः यत्पुनर्नित्यंतदकृतकं दृष्टं यथाकाशं कृत- कश्च शब्दःतस्मादनित्य इति अत्रैव साधर्म्योपनये वैधर्म्योपनये चकृतकः शब्दः, अकृतकस्तु न भव- १५तीति प्रयुज्यमानेसप्तावयवाः स्युः तस्मादनित्यो नित्यस्तु न भवति इतिनिगमनवचनेऽष्टौ, अनित्यः शब्दो न तु नित्यः, इतिप्रतिज्ञाद्वयवचने नवावयवाः स्युःकृतकत्वादकृतकत्वाभावादिति हेतुप्रयोगे दशापि श्रूयंते गम्यमानावयवप्रयोगे पुनरुक्तदोषाभावात्, प्रतिज्ञाद्यवयवप्रयोगवत् पक्षधर्मोपसंहारवद्वादुराशंका- व्यवच्छेदस्य फलस्य सद्भावाविशेषात्, सर्वत्र निष्फलत्वायोगात्, तथाविधप्रतिपाद्याशयविशेषसंभवाच्च, यतश्चैवं तस्मात्साध्याविनाभूतस्य साधनस्योपदर्शनं प्रमाणसिद्धंतदभावे साध्यप्रसिद्धेः, पंचावयवाद्युपदर्शनं तु २०परेषां न प्रमाणसिद्धंबोध्यानुरोधमात्रादेतदुपदर्शनात् एवं च नैकांतवादिनांप्रसिद्धावयवं वाक्यं संभवति यत् पत्राख्यां लभेततदुक्तं — ततःसाध्याविनाभूतसाधनस्योपदर्शनं । प्रमाणासिद्धमेतस्याभावे साध्याप्रसिद्धितः ॥ १ ॥ बोध्यानुरोधमात्रात्तुशेषावयवदर्शनात् । परेषां न प्रमाणेन प्रसिद्धावयवंवच इति ॥ २ ॥ किंच यन्मते वर्णा अपि न व्यवतिष्ठंते पदान्यपि चतस्य वाक्यं कुतः प्रमाणात् सिद्ध्येत् यत् २५पत्रलक्षणेनयथोक्तेन समन्वितं स्यात् । ननु यौगानां वर्णादयोव्यवतिष्ठंत एव आकाशगुणत्वेन शब्दा- नामभ्युपगमात् तद्बाधकाभावादिति न संभाव्यं तथाबाधकसद्भावात् किं तावद्बाधक इति चेदुच्यते नाकाशगुणः शब्दः बाह्येंद्रियज्ञानज्ञानविषयत्वात्य एवं सएवं यथा स्पर्श तथा च शब्दस्तस्मान्नाकाश- गुणः शब्दः इति नान्यथानुपपत्तिशून्यं साधनं । गगनगुणत्वे शब्दस्य तदनुपपत्तेः परमंमहत्वादिवत् । घटाकाशसंयोगादिना व्यभिचारीदं साधनमिति चेन्नबाह्येंद्रियज्ञानविषयत्वासिद्धेः अतींद्रिययोरिवातीं- ३०द्वियेंद्रियकयोरपि संयोगस्य विभागादेश्च वातदघटनात्, अन्यथातिप्रसंगात् तदुक्तं — वर्णा न व्यवतिष्ठंते पदान्यपि चयन्मते । तस्य वाक्यं कुतः सिद्ध्येत् यत्पत्रं लक्षणान्वितं ॥ १ ॥ न शब्दः खगुणोबाह्यकरणज्ञानगत्वतः । स्पर्शवत् खगुणस्यैवंप्रमाणव्याहतत्वतः ॥ २ ॥ इति न च मीमांसकस्यापि सर्वगतामूर्तद्रव्यनित्यैकात्मकोवर्णो युज्यते तस्य बाह्येन्द्रियग्राह्यस्वभावत्वात् घटादिवत् । नाकाशेन हेतोर्व्यभिचारः तस्यबाह्येंद्रियाग्राह्यस्वभावत्वात् कालादिवत्शुषिरस्याप्याकाशस्या- ३५नुमेयत्वात् तत्रमूर्तद्रव्यस्याभावे कस्यचिदमूर्तद्रव्यस्य सिद्धेःतुच्छस्याभावस्याघटनात्, निराश्रयस्य गुणा- देरनुपपत्तेः परिशेषादाकाशस्य साधनात् । शुभ्रमाकाशंश्यामलं चेदमिति प्रत्ययाच्चक्षुर्ग्राह्यमाकाशमिति चेन्नआलोकांधकारयोराकाशत्वोपचारात् तथा प्रत्ययस्य भावान् तत्रघनद्रव्याभावेऽस्य तदुपचारहेतु- त्वात्तयोरेवाकाशद्रव्यत्वोपगमे स्वमतविरोधात् नचान्यत्किंचित्सर्वगतामूर्तनित्यैकात्मकं द्रव्यंबाह्येंद्रियग्रा- ह्यस्वभावं दृष्टं येन व्यभिचारीदंसाधनं स्यात् ततः पटवन्न तथा शब्दः । तदुक्तं — ११न चसर्वगतामूर्तनित्यैकात्मात्र युज्यते । वर्णोबाह्येंद्रियग्राह्यस्वभावत्वाद् घटादिवत् ॥ १ ॥ इति वर्णव्यतिरिक्तं पदं वाक्यं वा स्फोटाख्यमित्यपि नसंभवति ग्राहकाभावात् अर्थप्रतिपत्त्यन्यथानुपप- त्तिग्राहिकेति चेन्न तस्यास्तत्त्वतःकथंचिद्वर्णात्मकपदवाक्यहेतुत्वोपपत्तेःपरोपगतस्फोटस्यानभिव्यक्तस्यार्थ- प्रतिपत्तिहेतुत्वविरोधात्, वर्णैस्तदभिव्यक्तेरपिप्रत्येकमयोगात्, वर्णांतरोच्चारणवैयर्थ्यात्, पौनःपुन्येनवाक्यार्थ ०५बोधनानुषंगात् समुदितैरपितदभिव्यक्तेरसंभवात्, वर्णानां समुदायाघटनात्, पूर्ववर्णश्रवणाहितसंस्कारस्य प्रतिपत्तुरंत्यवर्णश्रवणानंतरं तदभिव्यक्तौतथार्थप्रतिपत्तेरेव सिद्धेः स्फोटपरिकल्पना वैयर्थ्यात्, प्रतीत्यतिलंघ- नाच्च क्रमविशिष्टवर्णविशेषेभ्यएवार्थप्रतीतिसद्भावात् तेषामेव पदवाक्यरूपत्वोपपत्तेः । नचागममात्रात् पद- वाक्यस्फोटप्रतिपत्तिस्तस्यप्रमाण्यसिद्धेः । न चान्यद्ग्राहकमस्ति यतस्तद्व्यवस्थातत्वतः स्यात् तदुक्तं — नर्ते वर्णात्पदं नाम नच वाक्यंपदादृते । स्फोटाख्यं ग्राहकाभावात् परेष्टस्यास्य तत्त्वतः ॥ १ ॥ १०यस्य पुनः स्याद्वादिनः शब्दात्मकं बाह्यं वाक्यंपुद्गलरूपं चिदात्मकं चांतरंगमात्मस्वभावं प्रमाणा- त्सिद्ध्यति तस्य वाक्यं पत्रं भवेत्प्रोक्तलक्षणेनान्वितं, सिद्धे धर्मिणि वाक्येतद्धर्मस्योदितलक्षणस्य परीक्षा- विषयत्वघटनात् । ननु चानेकांतवादिनोऽपि वाक्यस्य ग्राहकं किं प्रमाणंयतस्तत्सिद्धिरिति चेत् चिदात्म- नोंऽतरंगस्यस्वसंवेदनप्रत्यक्षं तदात्मरूपत्वात्वर्णपदवाक्यज्ञानपरिणतो ह्यात्मा भावतो वर्णः पदंवाक्यं च गीयते ततएवार्थप्रतिपत्तिघटनात्लिंगज्ञानात्मकभावलिंगाल्लिंगिप्रतिपत्तिवत्, चक्षुरादिज्ञानाद्रूपादिप्रति- १५पत्तिवच्च, सर्वस्याचेतनस्यार्थप्रतिपत्तिहेतुविरोधात् अन्यत्रोपचारात्तत्कारणत्वात् तत्कार्यत्वाच्च तदुपचा- रसिद्धेः । तथाबाह्यस्येंद्रियप्रत्यक्षं ग्राहकं तत एव तत्पुद्गलात्मकंतदनात्मकस्येंद्रियप्रत्यक्षग्राह्यत्वानुपपत्तेरिति विचारितमन्यत्र प्रपंचेन । तदुक्तं — बाह्यं शब्दात्मकं वाक्यमंतरंगंचिदात्मकं । पुद्गलात्मस्वरूपं तु प्रमाणाद्यस्य सिद्ध्यति ॥ १ ॥ तत्र वाक्यं भवेत् पत्रं तत्त्वतोलक्षणान्वितं । सिद्धे धर्मिणि धर्मस्य परीक्षाविषयत्वतः ॥ २ ॥ इति २०स्वाभ्युपगममात्रात् सर्वथैकांतवादिनां विद्यमानमपिवाक्यं धर्मिणः स्वेष्टार्थसाधनत्वधर्माधिकरणं स्वसाध्यार्थाविनाभाविलिंगस्य कस्यचिदपि अनुपपत्तेःतदभिधानात् सर्वस्य हेतोरसिद्धत्वाच्च । तदुच्यते — वाक्यं सदपि नैकांतपक्षेस्वेष्टार्थसाधनं । स्वासाध्यार्थाविनाभाविलिंगस्यानुपपत्तितः ॥ १ ॥ असिद्धत्वाच्च सर्वस्यहेतोस्तदभिधानतः । क्वार्थसिद्धिस्तथाचोक्तंतत्त्वार्थश्लोकवार्तिके ॥ २ ॥ तत्र स्वरूपतोऽसिद्धो वादिनःशून्यसाधने । सर्वो हेतुर्यथा ब्रह्मतत्त्वोपप्लवसाधने ॥ ३ ॥ २५सत्त्वादिः सर्वथा साध्येशब्दभंगुरतादिके । स्याद्वादिनः कथंचित्तुसर्वथैकांतवादिनः ॥ ४ ॥ शब्दाविनश्वरत्वे तु साध्येकृतकतादयः । हेतवोऽसिद्धतां यांति बौद्धादेःप्रतिवादिनः ॥ ५ ॥ जैनस्य सर्वथैकांतेधूमवत्त्वादयोऽग्निषु । साध्येषु हेतवोऽसिद्धाः पर्वतादौतथा मितः ॥ ६ ॥ शब्दादौ चाक्षुषत्वादिरुभयासिद्धैष्यते । निश्शेषोऽपि तथाशून्यब्रह्माद्वैतप्रवादिनोः ॥ ७ ॥ वाद्यसिद्धोभयासिद्धौ तत्रसाध्याप्रसाधनौ । समर्थनविहीनः स्यादसिद्धःप्रतिवादिनः ॥ ८ ॥ ३०हेतुर्यस्याश्रयो न स्यादाश्रयासिद्धएव सः । स्वसाध्येन विनाभावाभावादगमको मतः ॥ ९ ॥ प्रत्यक्षादेः प्रमाणत्वेसंवादित्वादयो यथा । शून्योपप्लवशब्दाद्यद्वैतवादावलंबिनां ॥ १० ॥ संदेहविषयः सर्वः संदिग्धासिद्धौच्यते । यथागमप्रमाणत्वे रुद्रोक्तत्वादिरास्थितः ॥ ११ ॥ सन्नप्यज्ञायमानोऽत्राज्ञातासिद्धोविभाव्यते । सौगतादेर्यथा सर्वः सत्त्वादिः स्वेष्टसाधने ॥ १२ ॥ न निर्विकल्पकाध्यक्षादस्तिहेतोर्विनिश्चयः । तत्पृष्ठजाद्विकल्पाच्चावस्तुगोचरतः क्वचित् ॥ १३ ॥ ३५अनुमानांतराद्धेतुनिश्चयेवानवस्थितिः । परापरानुमानानां पूर्वपूर्वत्र वृत्तितः ॥ १४ ॥ ज्ञानं ज्ञानांतराध्यक्षंवेदतानेनदर्शितः । सर्वो हेतुरविज्ञातोऽनवस्थानाविशेषतः ॥ १५ ॥ अर्थापत्तिपरिच्छेद्यंपरोक्षज्ञानमादृताः । सर्वे ये तेप्यनेनोक्तास्वाज्ञातासिद्धिहेतवः ॥ १६ ॥ प्रत्यक्षं तु फलज्ञानमात्मानं वास्वसंविदं । प्राहुर्ये करणज्ञानं व्यर्थं तेषां निवेदितं ॥ १७ ॥ १२प्रधानपरिणमित्वादचेतनमितीरितं । ज्ञानंयैस्ते कथं न स्युरज्ञातासिद्धहेतवः ॥ १८ ॥ प्रतिज्ञार्थैकदेशस्तु स्वरूपासिद्धएव नः । शब्दो नाशी विनाशित्वादित्यादिः साध्यसंन्निभः ॥ १९ ॥ यः साध्यविपरीतार्थाव्यभिचारीसुनिश्चितः । स विरुद्धोवबोद्धव्यस्तथैवेष्टविघातकृत् ॥ २० ॥ सत्वादिः क्षणिकत्वादौ यथास्याद्वादिविद्विषां । अनेकांतात्मकत्वस्य नियमात्तेन साधनात् ॥ २१ ॥ ०५पारार्थ्यं चक्षुरादीनां संघातत्वंप्रसाधयेत् । तेषां द्रव्यविवर्तत्वमेवमिष्टविघातकृत् ॥ २२ ॥ विरुद्धान्न च भिन्नोसौस्वयमिष्टाद्विपर्यये । सामर्थ्यस्याविशेषेण भेदेवातिप्रसंगतः ॥ २३ ॥ विवादाध्यासितं धीमद्धेतुकंकृतकत्वतः । यथा शकटमित्यादिविरुद्धोऽनेन दर्शितः ॥ २४ ॥ यथा हि बुद्धिमत्पूर्वं जगदेतप्रसाधयेत् । तथा बुद्धिमतो हेतोरनेकत्वं शरीरितां ॥ २५ ॥ स्वशरीरस्य कर्तात्मा नाशरीरोऽस्तिसर्वथा । कार्मणेन शरीरेणानादिसंबंधसिद्धितः ॥ २६ ॥ १०यतः साध्ये शरीरित्वे धीमतोव्यभिचारितां । जगत्कर्तुः प्रपद्येत तेन हेतुः कुतार्किकःइति ॥ २७ ॥ यतश्चैवमक्षपादादेः सर्वथैकांतवादिनःसाध्यार्थाविनाभाविलिंगं सर्वथा न संभवत्यसिद्धतादिदोष- दूषितत्वात् तस्मान्न तस्य पत्रंसंभवदर्थके प्रतिष्ठापयितुं शक्यं कदाचिज्जैनान् प्रतितदुक्तं — ततो नैवाक्षपादादेः पत्रंसंभवदर्थकं । प्रतिष्ठापयितुं शक्यं जातु स्याद्वादिनःप्रति ॥ १ ॥ कुत इति चेत् १५तत्तत्वाधिगमोपायप्रकाशरहितत्वतः । इत्येतस्य प्रसिद्धत्वाद्धेतोरव्यभिचारतः ॥ १ ॥ कः पुनरसौ तत्त्वस्याधिगमो नामेतिस्वार्थाकारविनिश्चयः सुनिर्वाध इति ब्रूमःनिर्विकल्पकदर्शनस्य- विनिश्चयस्य संशयस्येवतत्त्वाधिगमत्वानुपपत्तेः क्षणक्षयप्रदर्शनवत्स्वाकारमात्रविनिश्चयस्यापि तद्भावा- योगात्वेद्याकारविनिश्चयविरहे स्वाकारविनिश्चयस्याननुभवात्स्वसंवेदनस्यापि वेद्यवेदकाकारात्मनः प्रतीतेः तथार्थाकारमात्रविनिश्चयस्यापितत्त्वाधिगमत्त्वाघटनात्स्वाकारविनिश्चयमंतरेणार्थाकारविनिश्चयविरोधात् । २०स्वार्थाकारविनिश्चयस्यापि कालांतरादौ सबाधस्यतद्विरोधात् मरीचिकाविनिश्चये तोयविनिश्चयवत्, देशकालां- तरापेक्षयापि सुष्ठु निर्बाधस्य तथाभावसिद्धेरितिप्रपंचितत्वादन्यत्र । तदुक्तं — तत्त्वस्याधिगमस्तावत्स्वार्थाकारविनिश्चयः । सुनिर्बाधोन्यथा तस्य व्यवस्थानुपपत्तितः ॥ १ ॥ तर्हि कस्तस्योपाय इति चेत् कथ्यते साकल्येन प्रमाणंदेशतो नयः प्रतिपत्तुस्तत्त्वाधिगमोपायः प्रतीयत एवतस्य शास्त्रे विस्तरतः समर्थितत्वात् नचासौसर्वथैकांतवादिनामक्षपादादीनामुपपत्तिमास्कंदति २५तेषां स्वेष्टस्य दृष्टेष्टबाधितत्वात् इतिचिंतितप्रायंप्रपंचतोऽन्यत्र परीक्षादक्षबुद्धिभिर्लक्षणीयं, त एव हिसंक्षेपे- णाप्युक्तं लक्षयितुं क्षमंते तदुक्तं — तस्योपाय पुनः कार्त्स्येनैकदेशेन वामतः । प्रतिपत्तुः प्रमाणं वा सन्नयो वा प्रतीयते ॥ १ ॥ न चासौसर्वथैकांतवादिनामुपपद्यते । दृष्टेष्टवाधनात्तेषांस्वेष्टस्येत्यपि चिंतितं ॥ २ ॥ लक्ष्यं प्रपंचतोन्यत्रपरीक्षादक्षबुद्धिभिः । संक्षेपतोप्युपक्षिप्तं ते हिलक्षयितुं क्षमाः ॥ ३ ॥ ३०कः पुनस्तत्त्वाधिगमोपायस्य प्रकाश इति चेत् प्रतिपाद्यंप्रति साधुशब्दैस्तस्य स्फुटं प्रदर्शनं प्रकाशः । नचाक्षपादादीनां सर्वथा तद्व्यवस्थास्ति प्रमाणवाक्यासंभवात् । तदप्यभाणि — प्रकाशस्तस्य सद्वाचा प्रतिपाद्यंप्रति स्फुटं । दर्शनं न चैतेषां तद्व्यवस्थास्ति सर्वथा ॥ १ ॥ तदनेनैकांतवादिनां पत्रवाक्यं, न संभवदर्थकं, तत्तत्त्वाधिगमोपायप्रकाशरहितत्वात् इत्यनुमानं समर्थितं प्रतिपत्तव्यं तथा पत्रवाक्यंगूढमन्यच्चार्थगूढादि वादिना त्रिभिरभिहितं सप्तकृत्वोवा तथैकविंशति ३५वा परिषत्प्रतिवादिभ्यामविज्ञातार्थंयदा तदा तदेवाविज्ञातार्थं नाम निग्रहस्थानमायातंतल्लक्षणस्यान्वयात् तत एव चाप्रतिपत्तिनिग्रहस्थानंतत्त्वतो भवेदेतस्य यदा स्वपत्रवाक्यस्यार्थं व्याचष्टेवादिप्रतिवादिपरि- षत्प्रत्यायनाय तदापिवक्तुर्विप्रतिपत्तिर्नाम निग्रहस्थानं तेनमिथ्यार्थप्रतिपादनात् तत्प्रतिपादितार्थस्य विसं- वादित्वसिद्धेरनेकांतेन बाधनात् स्याद्वादिभिःपश्चात्पत्रवाक्यस्यानेकांतार्थस्य साधनेमिथ्यात्वप्रतीतिर्विप्रति- १३पत्तिरिति लक्षणस्यभावात् वाक्छलं वासंभवदर्थपरित्यागेनासंभवतोऽर्थस्य परिकल्पनात्न हि प्रमा- णबलान्नैयायिकादिपरिकल्पितः पत्रवाक्येसंभवन्नर्थः सिद्धः प्रत्यक्षांदिबलादनेकांतस्यैवप्रसिद्धेः प्रत्यंक्षं हि तावत् बहिरंतश्च तत्त्वंभावाभावात्मकं व्यवस्यति सर्वथा विरोधाभावात्बाधकरहितं जातुचित् एकां- तस्यासाक्षात्करणात्तथाभूतानेकधर्माधिष्ठानं भावःविशेषणविशेष्यादिव्यवहारान्यथानुपपत्तेरित्यनुमानाच्च ०५सर्वं भावाभावात्मकं सिद्धं । आगमाच् चसुनिर्बाधकप्रमाणाद् इति प्रपंचतो ‘न्यत्र तत्त्वार्थालंकारेदेवागमे च प्रोक्तम् इह पत्रपरीक्षायां सद्भिर् अवगतंव्यमित्य् अलं प्रपंचेन तद् अप्य् उक्तं । तथा त्रिःसप्तकृत्वोऽपिपत्रवाक्यमुदीरितं । वादिनागूढमन्यच्चाविज्ञातार्थमुपागतं ॥ १ ॥ परिषत्प्रतिवादिभ्यामविज्ञातत्वसद्धितः । ततश्चाप्रतिपत्तिः स्यान्निग्रहस्थानमंजसा ॥ २ ॥ वक्तुर्विप्रतिपत्तिर्वामिथ्यार्थप्रतिपादनात् । विसंवादकतायोगात् तदुक्तार्थस्यतत्त्वतः ॥ ३ ॥ १०स्याद्वादिभिः पुनःपत्रस्यानेकांतसाधने । भवेद्विप्रतिपत्तिर्वाक्छलं वालक्षणान्वयात् ॥ ४ ॥ तद्धि संभवतोऽर्थस्य परित्यागेनकल्पनं । यदसंभवतोर्थस्य प्रमाणबलतश्छलं ॥ ५ ॥ न चेह संभवन्नर्थोयौगादिपरिकल्पितः । प्रत्यक्षादिबलात्सिद्धस्ततोनेकांतसिद्धितः ॥ ६ ॥ भावाभावात्मकं वस्तु बहिरंतश्चतत्वतः । प्रत्यक्षं निश्चिनोत्येव सर्वथा बाधवर्जितं ॥ ७ ॥ वास्तवानेकधर्माधिष्ठानं भावोविशेषतः । विशेषणविशेष्यादिव्यवहारप्रसिद्धितः ॥ ८ ॥ १५सिद्धमित्यनुमानाच्चानंतधर्मसमाश्रितं । समस्तं वस्तु निर्बाधादागमाच्च प्रमाणतः ॥ ९ ॥ इति प्रपंचतःप्रोक्तमन्यत्रेहावगम्यतां । सर्वं पत्रपरीक्षायांसद्भिरित्युपरम्यते ॥ १० ॥ तदेवं पत्रविचारप्रकरणपरिसमाप्तौ विजिगीषोःस्याद्वादिनो वचनं चतुरंगं निराकृताशेषमिध्याप्रवादं प्रसरं श्रियासम्यग्दर्शनादिलक्षणयोपायभूतयोपमेयानंतज्ञानादिलक्षणलक्ष्मीपर्यंततयासदा जयत्विति जय वादेनासंशयति — २०जीयान्निरस्तनिश्शेषसर्वथैकांतशासनं । सदा श्रीवर्द्धमानस्य विद्यानंदस्य शासनं ॥ १ ॥ सूक्ताभासो भवतिभवतस्तावदुत्तारहेतुः स्वस्यान्येषां गुरुतमतमश्छिच्च माध्यस्थभाजां । तन्मत्वैवं विपुलमतिभिस्तत्रयत्नो विधेयो २५नानंदायाखिलखलधियां तं हि कः कर्तुमीशः ॥ २ ॥ इतिश्रीस्याद्वादपतिविद्यानंदस्वामिविरचिता पत्रपरीक्षा समाप्ता । शुभं भूयात्