आप्तपरीक्षा / आप्तपरीक्षाटीका १९१३
+ Identification
+ Original line breaks
− References to notes
श्रीपरमात्मने नमः । सनातनजैनग्रंथमालायाः प्रथमं खंडं । स्याद्वादविद्यापतिश्रीमद्विद्यानंदस्वामिविरचिता १ आप्तपरीक्षा २ पत्रपरीक्षा च श्रीयुत पंडितगजाधरलालजैनशास्त्रिणा संपादिते ते च उस्मानावादनिवासिस्वर्गीयश्रेष्ठिवर्यकस्तूरचंद्रस्यात्मजबालचंद्रस्यस्मरणार्थं श्रीजैनधर्मप्रचारिणीसभाया मंत्रिणा श्रीपन्नालालजैनेन काशीस्थचंद्रप्रभानाम्नि मुद्रणयंत्रालये प्रकाशिते । श्रीवीरनिर्वाणसंवत्सरः २४३९ । ख्रिष्टाब्दः १९१३ । प्रथमं संस्करणं] [अस्य खंडस्य मूल्यम् एकोरूप्यकः । १ओं नमः सिद्धेभ्यः । सनातनजैनग्रंथमाला । १ ०५आचार्यप्रवरश्रीविद्यानंदिस्वामिविरचिता आप्तपरीक्षा । प्रबुद्धाशेषतत्त्वार्थबोधदीधितिमालिने । नमः श्रीजिनचंद्राय मोहध्वांतप्रभेदिने ॥ १ ॥ कस्मात् पुनः परमेष्ठिनः स्तोत्रं शास्त्रादौ शास्त्रकाराःप्राहुर् इत्य् अभिधीयते — १०श्रेयोमार्गस्य संसिद्धिः प्रसादात् परमेष्ठिनः । इत्य् आहुस् तद्गुणस्तोत्रं शास्त्रादौ मुनिपुंगवाः ॥ २ ॥ श्रेयो निःश्रेयसं परमपरं च । तत्र परंसकलकर्मविप्रमोक्षलक्षणं बंधहेत्वभावनिर्जराभ्यां कृत्स्त्नकर्मविप्रमोक्षो मोक्ष इति वचनात् । ततो ऽपरमार्हेत्यलक्षणं घातिकर्मक्षयाद् अनंतचतुष्टयस्वरूपला- भस्यापरनिःश्रेयसत्वात् । न चाऽत्रकस्य चिदात्मविशेषस्यकृत्स्त्नकर्मविप्रमोक्षो ऽसिद्धः साधकप्रमाण- १५सद्भावात् । तथा हि । कश्चिद् आत्मविशेषः कृत्स्त्नकर्मभिर्विप्रम् उच्यते कृत्स्त्नबंधहेत्वभावनिर्जरावत्त्वात् । यस् तु न कृत्स्त्नकर्मभिर् विप्रम् उच्यते स नकृत्स्त्नबंधहेत्वभावानिर्जरावान् यथा संसारीकृत्स्त्नबंधहेत्वभावनिर्ज- रावांश् च कश्चिद् आत्मविशेषस् तस्मात् कृत्स्त्नकर्मभिर् विप्रमुच्यते । ननु बंध एवात्मनो ऽसिद्धस् तद्धेतुश् चेति कुतो बंधहेत्वभाववत्त्वं, प्रतिषेधस्य विधिपूर्वकत्वात् । बंधाभावे च कस्य निर्जरा, बंधफलानुभवनं हिनिर्जरा बंधाभावे तु कुतस् तत्फलावनुभवनम् अतःकृत्स्त्नकर्मनिर्जरावत्त्वम् अप्य् असिद्धं । न चासिद्धंसाधनं साध्यसाध- २०नायालम् इति कश्चित्, सो ऽप्य् अनालोचिततत्त्वः प्रमाणतोबंधस्य प्रसिद्धेः । तथा हि । विवादाध्यासितः संसारी बंधवान् परतंत्रत्वाद् आलानस्तंभागतहस्तिवत् । परतंत्रो ऽसौ हीनस्थानपरिग्रहवत्त्वात् कामोद्रे- कपरतंत्रवेश्यागृहपरिग्रहवच् छ्rओत्रियब्राह्मणवत् । हीनस्थानं हि शरीरंतत्परिग्रहवांश् च संसारी प्रसिद्ध एव । कथं पुनः शरीरं हीनस्थानम् आत्मन इत्य् उच्यते । हीनस्थानं शरीरम् आत्मनो दुःखहेतुत्वात् कस्य चित्कारागृहवत् । ननु देवशरीरस्य दुःखहेतुत्वाभावात्पक्षाव्यापको हेतुर् इति चेत् न । तस्यापि २५मरणे दुःखहेतुत्वसिद्धेः पक्षव्यापकत्वव्यवस्थानात् । तद् एवं संक्षेपतो बंधस्य प्रसिद्धौ तद्धेतुर् अपि सिद्धस्त- स्याहेतुकत्वे नित्यत्वप्रसंगात् । सतो हेतुरहितस्यनित्यत्वव्यवस्थितेः ऽसदकारणवन् नित्यम् इतिऽ परैर् अ- भिधानात् । तद्धेतुश् चमिथ्यादर्शनाविरतिप्रमादकषाययोगविकल्पात् पंचविधःस्यात् । बंधो हि संक्षेप- तो द्वेधा भावबंधो द्रव्यबंधश् चेति । तत्रभावबंधः क्रोधाद्यात्मकस् तस्य हेतुर् मिथ्यादर्शनं, तद्भावे भावाद् अभावे चाभावात् । क्वचिद् अक्रोधादिविषये हिक्रोधादिविषयत्वश्रद्धानं मिथ्यादर्शनं तस्यविपरीताभिनिवेश- २लक्षणस्य सकलास्तिकप्रसिद्धत्वात् तस्य च सद्भावेबहिरंगस्य सत्यंतरंगे द्रव्यक्रोधादिबंधे भावबंधस्य सद्भावः तदभावे चासद्भावः सिद्ध एवेतिमिथ्यादर्शनहेतुको भावबंधः । तद्वदविरतिहेतुकश् चसमुत्पन्न- सम्यग्दर्शनस्याऽपि कस्यचिद् अप्रकृष्टो भावबंधः सत्यामविरतौ प्रतीयते एव ततो ऽप्य् अप्रकृष्टो भावबंधः । प्रमादहेतुकः स्याद् अविरत्यभावे ऽपि, कस्यचिद् विरतस्यसति प्रमादे तदुपलब्धेः ततो ऽप्य् अप्रकृष्टः । कषायहे- ०५तुकः सम्यग्दृष्टेर् विरतस्याऽप्रमत्तस्याऽपि कषायसद्भावेभावात् । ततो ऽप्य् अप्रकृष्टवपुरज्ञानलक्षणो भावबंधो योगहेतुकः क्षीणकषायस्याऽपि योगसद्भावे तत्सद्भावात् । केवलिनस् तु योगसद्भावे ऽपि न भावबंधः, तस्य जीवन्मुक्तत्वान् मोक्षप्रसिद्धेः । न चैवमेकैकहेतुक एव बंधः पूर्वस्मिन् पूर्वस्मिन्न् उत्तरस्योत्तरस्य बंधहेतोः सद्भावात् । कषायहेतुको हि बंधो योगहेतुकोऽपि प्रमादहेतुकश् च योगकषायहेतुको ऽपि । अविरतिहेतुकश् च योगकषायप्रमादहेतुकः प्रतीयते । मिथ्यादर्शनहेतुकश् च योगकषायप्रमादाविरतिहेतुकः १०सिद्ध इति मिथ्यादर्शनादिपंचविधप्रत्ययसामर्थ्यान् मिथ्याज्ञानस्य बंधहेतोः प्रसिद्धेः षट्प्रत्ययो ऽपि बंधो ऽभिधीयते । न चायं भावबंधो द्रव्यबंधमंतरेण भवति, मुक्तस्यापि तत्प्रसंगाद् इति द्रव्यबंधः सिद्धः । सो ऽपि मिथ्यादर्शनाविरतिप्रमादकषाययोगहेतुकएव बंधत्वाद् भावबंधवद् इति मिथ्यादर्शनादि- बंधहेतुः सिद्धः । तदभावः कुतः सिद्धयेद् इति चेत्तत्प्रतिपक्षभूतसम्यग्दर्शनादिसात्मीभावात् । सति हि सम्यग्दर्शने मिथ्यादर्शनं निवर्तते तद्विरुद्धत्वात् । यथोष्णस्पर्शे सति शीतस्पर्श इति प्रतीतं । तथैवा- १५ऽविरतिर् विरत्यां सत्याम् अपैति । प्रमादश्चाप्रमादपरिणतौ कषायो ऽकषायतायां योगश् चायोगतायामिति बंधेहत्वभावः सिद्धो ऽपूर्वकर्मणां आस्रवनिरोधःसंवर, इति वचनात् । ननु च स गुप्तिसमितिधर्मा- नुप्रेक्षापरीषहजयचारित्रेभ्यो भवतीति सूत्रकारमतं नपुनः सम्यग्दर्शनादिभ्य इति न मंतव्यं । गुप्त्यादीनां सम्यग्दर्शनाद्यात्मकत्वात् । न हिसम्यग्दर्शनरहिता गुप्त्यादयः संति सम्यग्ज्ञानरहिता वा तेषाम् अपि विरत्यादिरूपत्वात् । चारित्रभेदा ह्य् एतेप्रमादरहिताः कषायरहिताश् चायोगताम् अपि लभंते । २०ततो न कश्चिद् दोषः । कथम् आत्मनः पूर्वोपात्तकर्मणां निर्जरा सिद्धयेद् इत्य् अभिधीयते । क्वचिद् आत्मनि कार्त्स्य्नतः पूर्वोपात्तानि कर्माणि निर्जीर्यंते तेषां विपाकांतत्वात् । यानितु न निर्जीर्यंते तानि न विपाकांतानि यथा कालादीनि, विपाकांतानि च कर्माणि तस्मान् निर्जीर्यंते । विपाकांतत्वं नासिद्धं कर्मणां । तथा हि विपकांतानि कर्माणि फलावसानत्वाद् व्रीह्यादिवत् । तेषामन्यथा नित्यत्वानुषंगात् । न च नित्यानि कर्माणि नित्यं तत्फलानुभवनप्रसंगात् । यत्रचात्मविशेषे अनागतकर्मबंधहेत्वभावादपूर्वकर्मानुत्पत्तिस् तत्र २५पूर्वोपात्तकर्मणां यथाकालम् उपक्रमाच् च फलदानात्कार्त्स्न्येन निर्जरा प्रसिद्धैव । ततःकृत्स्त्नबंधहेत्वभाव- निर्जरावत्त्वं साधनं प्रसिद्धं कृत्स्त्नकर्मविप्रमोक्षंसाधयत्य् एव । ततस् तल्लक्षणं परं निःश्रेयसंव्यवतिष्ठते । तथाऽर्हेत्य् अलक्षणम् अपरंसुनिश्चितासंभवद्बाधकप्रमाणत्वात् सुखादिवद् इतिसर्वज्ञत्वसिद्धौ निर्णेष्यते । श्रेयसो मार्गः श्रेयोमार्गो निःश्रेयंसोपायो वक्ष्यमाणलक्षणस्तस्य संसिद्धिः संप्राप्तिः सम्यग्ज्ञप्तिर् वा सा हि परमेष्ठिनः प्रसादाद् भवति मुनिपुंगवानां यस्मात्तस्मात् ते मुनिपुंगवाः सूत्रकारादयः शास्त्रस्यादौ तस्य ३०परमेष्ठिनो गुणस्तोत्रम् आहुर् इति संबंधः । परमेष्ठीहि भगवान् परमो ऽर्हन् तत्प्रसादात् परमागमार्थनिर्णयो- परस्य परमेष्ठिनो गणधरदेवादेः संपद्यते तस्माच्चापरपरमेष्ठिनः परमागमशब्दसंदर्भो द्वादशांग इति । परापरपरमेष्ठिभ्यां परमागमार्थशब्दशरीरसंसिद्धिस्तद्विनेयमुख्यानां तेभ्यश् च स्वशिष्याणाम् इति गुरुपूर्व- क्रमात् सूत्रकाराणां परमेष्ठिनः प्रसादात्प्रधानभूतपरमार्थस्य श्रेयोमार्गस्य संसिद्धिरभिधीयते । प्रसादः पुनः परमेष्ठिनस् तद्विनयानां प्रसन्नमनोविषयत्वम् एववीतरागाणां तुष्टिलक्षणप्रसादासंभवात् कोपासंभववत् । ३५तदाराधकजनैस् तु प्रसन्नेन मनसोपास्यमानो भगवान्प्रसन्न इत्य् अभिधीयते रसायवत् । यथैव हि प्रसन्नेन मनसा रसायनम् आसेव्य तत्फलम् अवाप्रुवंतःसंतो रसायनप्रसादाद् इदम् अस्माकम् आरोग्यादिफलं समुत्पन्नम् इति प्रतिपद्यंते तथा प्रसन्नेन मनसाभगवंतं परमोष्ठिनम् उपास्य तदुपासनफलं श्रेयोमार्गाधि- ३गमलक्षणं प्रतिपद्यमानास् तद्विनेयजनाभगवत्परमेष्ठिनः प्रसादाद् अस्माकं श्रेयोमार्गाधिगमःसम्पन्न इति समनुमन्यंते । ततः परमेष्ठिनः प्रसादात् सूत्रकाराणांश्रेयोमार्गस्य संसिद्धेर् युक्तं शास्त्रादौ परमेष्ठिगुण- स्तोत्रं । मंगलार्थं तद् इत्य् एके । ते ऽप्य् एवं प्रष्टव्याः । किं साक्षान् मंगलार्थं परमेष्ठिगुणस्तोत्रं परंपरया वा । न तावत् साक्षात् तदनंतरम् एव मंगलप्रसंगात् । कस्यचिदपि मंगलानवाप्त्ययोगात् । परंपरया चेत् न ०५किंचिद् अनिष्टं । परमेष्ठिगुणस्तोत्राद् आत्मविशुद्धिविशेषःप्रादुर्भवन् धर्मविशेषं स्तोतुः साधयत्य् एवाऽधर्म- प्रध्वसं च । ततो मंगं सुखं समुत्पद्यत इतितद्गुणस्तोत्रं मंगलं मंगं लातीति मंगलम् इति व्युत्पत्तेः । मलं गालयतीति मंगलम् इति वा । मलस्याधर्मलक्षणस्य परंपरया तेन प्रध्वंसनात् । केवलं सत्पात्र- दानजिनेंद्रार्चनादिकम् अप्य् एवं मंगलम् इति नतद्गुणस्तोत्रम् एव मंगलम् इति नियमः सिद्ध्यति । स्यान्मतं मंगं श्रेयोमार्गसंप्राप्तिजनितं प्रशमसुखं तल् लात्यस्मात् परमेष्ठिगुणस्तोत्रात् तदराधक इति मंगलंपरमेष्ठि- १०गुणस्तोत्रं । मलं वा श्रेयोमार्गसंसिद्धौ विघ्ननिमित्तंपापं गालयतीति मंगलं तद् इति । तद् एतदनुकूलं नः परमेष्ठिगुणस्तोत्रस्य परममंगलत्वप्रतिज्ञानात् । तद् उक्तं — "आदौ मध्ये ऽवसाने च मंगलं भाषितं बुधैः । तज्जिनेंद्रगुणस्तोत्रं तदविघ्नप्रसिद्धये" ॥ ननु चैवं भगवद्गुणस्तोत्रं स्वयं मंगलं न तुमंगलार्थम् इति न मंतव्यं । स्वयं मंगलस्यापि मंगलार्थत्वोपपत्तेः । यदा हि मलगालनलक्षणंमंगंलं तदा सुखादानलक्षणमंगलाय तद्भवतीतिसिद्धं १५मंगलार्थं । यदापि सुखादानलक्षणं तन्मंगलं तदापापगालनलक्षणमंगलाय प्रभवतीति कथं न मंग- लार्थं । यदाप्य् एतद् उभयलक्षणं मंगलं तदा तुमंगलांतरापेक्षया मंगलार्थं तद् उपपद्यत एवआनिःश्रेयस- प्राप्तेः परापरंमंगलसंततिप्रसिद्धेर् इत्य् अलं विस्तरेण । शिष्टाचारपरिपालनार्थं नास्तिकतापरिहारार्थं निर्विघ्नतः शास्त्रपरिसमाप्त्यर्थं चपरमेष्ठिगुणस्तोत्रम् इत्य् अन्ये । ते ऽपि तद् एव तथेतिनियमयितुम् असमर्था एव । तपश्चरणादेर् अपि तथात्वप्रसिद्धेः । न हितपश्चरणादिः शिष्टाचारपरिपालनाद्यर्थं न भवतीति २०शक्यं वक्तुं । यदि पुनर् अनियमेन भगवद्गुणसंस्तवनंशिष्टाचारपरिपालनाद्यर्थम् अभिधीयते तदा तद् एव शास्त्रादौ शास्त्रकारैः कर्तव्यम् इति नियमो न सिद्ध्यति । न च क्वचितन् न क्रियते इति वाच्यं । तस्य शास्त्रे निबद्धस्यानिबद्धस्य वा वाचिकस्य मानसस्य वाविस्तरतः संक्षेपतो वा शास्त्रकारैर् अवश्यं करणात् । तदकरणे तेषां तत्कृतोपकारविस्मरणादसाधुत्वप्रसंगात् । साधूनां कृतस्योपकारस्याविस्म- रणप्रसिद्धेः । ऽन हि कृतम् उपकारं साधवो विस्मरंतिऽइति वचनात् । यदि पुनः स्वगुरोः संस्मरणपूर्वकं २५शास्त्रकरणम् एवोपकारस् तद्विनेयानाम् इति मतं । तदासिद्धं परमेष्ठिगुणस्तोत्रं स्वगुरोर् एव परमेष्ठित्वात् । तस्य गुरुत्वेन संस्मरणस्यैव तद्गुणस्तोत्रत्वसिद्धेर् इत्यलं विवादेन । किं पुनस् तत्परमेष्ठिनो गुणस्तोत्रं शास्त्रादौ सूत्रकाराः प्राहुर् इति निगद्यते — मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां । ज्ञातारं विश्वतत्त्वानां वंदे तद्गुणलब्धये ॥ १ ॥ अत्र मोक्षमार्गादिपदानाम् अर्थः पुरस्ताद् वक्ष्यते । वाक्यार्थस् तूच्यते । मोक्षमार्गस्य नेतारं कर्मभू- ३०भृतां भेत्तारं विश्वतत्त्वानां ज्ञातारम् अहं वंदेतद्गुणलब्ध्यर्थित्वात् । यो यद् गुणलब्ध्यर्थी स तं वंदमानो दृष्टः । यथा शास्त्रविद्यादिगुणलब्ध्यर्थी । शास्त्रविद्यादिविदं तत्प्रणेतारं च । तथा चाहं मोक्ष- मार्गप्रणेतृत्वकर्मभूभृद्भेतृत्वविश्वतत्त्वज्ञातृत्वगुणलबध्यर्थी । तस्मान् मोक्षमार्गस्य नेतारं कर्मभूभृतां भेत्तारं विश्वतत्त्वानां ज्ञातारं वंदे इति शास्त्रकारःशास्त्रप्रारंभे श्रोता तस्य व्याख्याता वा भगवंतं परमेष्ठिनं परमपरं च मोक्षमार्गप्रणेतृत्वादिभिर्गुणैः संस्तौति । तत्प्रसादाच् छ्रेयोमार्गस्य संसिद्धेःसमर्थ- ३५नात् । किमर्थ पुनर् इदं भगवतो ऽसाधारणं विशेषणंमोक्षमार्गप्रणेतृत्वं कर्मभूभृद्भेतृत्वं विश्वतत्त्वज्ञा- तृत्वं चात्र प्रोक्तं भगवद्भिर् इत्य् आह —४इत्य् असाधारणं प्रोक्तं विशेषणम् अशेषतः । परसंकल्पिताप्तानां व्यवच्छेदप्रसिद्धये ॥ ३ ॥ परैर् वैशोषिकादिभिः संकल्पिताः परसंकल्पितास् ते च तेआप्ताश् च परसंकल्पिताप्ता महेश्वरादयः तेषाम् अशेषतो व्यवच्छेदप्रसिद्ध्यर्थं यथोक्तमसाधारणं विशेषणम् आचार्यैः प्रोक्तम् इति वाक्योर्थः । न ०५हीदम् ईश्वरकपिलसुगतादिषु संभवतिबाधकप्रमाणसद्भावात् । भगवत्य् अर्हत्य् एवतत्सद्भावसाधनाच् चा- साधारणविशेषणम् इति वक्ष्यामः । ननु चेश्वरादीनाम् अप्याप्तत्वे किं दूषणं येन तद्व्यवच्छेदार्थम् असाधा- रणं विशेषणं प्रोच्यते किं वान्ययोगव्यवच्छेदान् महात्मानिपरमेष्ठिनि निश्चिते प्रतिष्ठितं स्याद् इत्य् आरे- कायाम् इदम् आह — अन्ययोगव्यवच्छेदान् निश्चिते हि महात्मनि । १०तस्योपदेशसामर्थ्याद् अनुष्ठानं प्रतिष्ठितं ॥ ४ ॥ भवेद् इति क्रियाध्याहारः । ननु चात्रान्येषाम् अन्ययोगव्यवच्छेदाभावे ऽपि भगवतः परमेष्टिन- स् तत्त्वोपदेशाद् अनुष्ठानं प्रतिष्ठाम् इयर्त्य् एव तेषाम् अविरुद्धभाषित्वाद् इति चेत् न । परस्पराविरुद्धसमयप्रणयनात् तत्त्वनिश्चयायोगात् तदन्यतमस्याप्य् उपदेशप्रामाण्यानिश्चयादनुष्ठानप्रतिष्ठानुपपत्तेः । ननु मोक्षो- पायानुष्ठानोपदेशमात्रे नेश्वरादयो विप्रपद्यंते ततोऽर्हदुपदेशाद् इवेश्वराद्युपदेशाद् अपि नानुष्ठानप्रतिष्ठानु- १५पपन्ना यतस् तद्व्यवच्छेदेन परमेष्ठी निश्चीयत इति कश्चित् । सो ऽपि न विशेषज्ञः सम्यग्मिथ्योपदेश- विशेषाभावप्रसंगात् । स्यान् मतं । वैशेषिकैरभिमतस्याप्तस्य निःश्रेयसोपायानुष्ठानोपदेशस् तावत् समीचीन एव बाधकप्रमाणाभावात् । श्रद्धाविशेषोपगृहीतं हि सम्यग्ज्ञानं वैराग्यनिमित्तं परां काष्ठाम् आपन्नम् अंत्य- निःश्रेयसहेतुर् इत्य् उपदेशः । तत्र श्रद्धाविशेषस् तावदुपादेयेषूपादेयतया हेयेषु हेयतयैव श्रद्धानं । सम्य- ग्ज्ञानं पुनर् यथावस्थितार्थाधिगमलक्षणं, तद्धेतुकंच वैराग्यं रागद्वेषप्रक्षयः एतदनुष्ठानं च तद्भावना- २०भ्यासस् तस्यैतस्य निःश्रेयसोपायानुष्ठानस्योपदेशो नप्रत्यक्षेण बाध्यते । जीवन्मुक्तेस् तत एव प्रत्यक्षतः कश्चित् (केषांचित्) स्वयं संवेदनात् । परैः संहर्षायासविमुक्तेर् अनुमीयमानत्वात् । जीवन्न् एव हि विद्वान् संहर्षायासाभ्याम् ताभ्यां विमुच्यत इत्य् उपदेशाच् चनानुमानागमाभ्यां बाध्यते जीवन्मुक्तिवत् । परममुक्तेर् अप्यत एवानुष्ठानात् संभावनोपपत्तेः । न चान्यत् प्रमाणंबाधकं तदुपदेशस्य तद्विपरीतार्थव्यवस्थापकत्वाभावा- द् इति । तद् अपि न विचारक्षमं । श्रद्धादिविशेषविषयाणांपदार्थानां यथावस्थितार्थत्वासंभवात् । द्रव्यादयो २५हि षट्पदार्थास् तावद् उपादेयाः सदात्मानः प्रागभावादयश्चासदात्मानस् ते च यथा वैशेषिकैर् व्यावर्ण्यते तथा न यथार्थतया व्यवतिष्ठंते तद्ग्राहकप्रमाणाभावात् । द्रव्यं हि गुणादिभ्यो भिन्नम् एकं, गुणश् चेतरेभ्यो भिन्न एकः, कर्म चैकम् इतरेभ्यो भिन्नं, सामान्यंचैकं, विशेषश् चैकः पदार्थः समवायवत् यद्य् अभ्युपग- म्यते तदा द्रव्यादयः षट्पदार्थाः सिद्ध्येयुः । न चद्रव्यपदस्यैको ऽर्थः परैर् इष्यते गुणपदस्य कर्मपदस्य सामान्यपदस्य विशेषपदस्य च, यथा समवायपदस्यैकःसमवायो ऽर्थः इति कथं षट्पदार्थव्यवस्थितिः । ३०स्यान् मतं । पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि नवद्रव्याणि द्रव्यपदस्यार्थ इति कथम् एको द्रव्य- पदार्थः ? सामान्यसंज्ञाभिधानाद् इति चेत् न । सामान्यसंज्ञायाः सामान्यवद्विषयत्वात् । तदर्थस्य सामा- न्यपदार्थत्वे ततो विशेषेष्व् अप्रवृत्तिप्रसंगात् । *द्रव्यपदार्थस्यैकस्यासिद्धेश् च । पृथिव्यादिषु हि द्रव्याम् इति संज्ञा द्रव्यत्वसामान्यसंबंधनिमित्ता । तत्र द्रव्यत्वमेकं न द्रव्यं किंचिद् एकम् अस्ति । द्रव्यलक्षणम् एकम् इति चेत् तत् किम् इदानीं द्रव्यपदार्थो ऽस्तु न चैतद् युक्तंलक्ष्यस्य द्रव्यस्याभावे तल्लक्षणानुपपत्तेः । पृथिव्यादीनि ५लक्ष्याणि क्रियावद्गुणवत्समवायिकारणम् इतिद्रव्यलक्षणं यदि प्रतिज्ञायते । तदानेकत्र लक्ष्येलक्षणं कथम् एकम् एव प्रयुज्यते तस्य प्रतिव्यक्तिभेदात् । न हियद् एव पृथिव्यां द्रव्यलक्षणं तद् एवोदकादिष्व् अस्ति तस्यासाधारणरूपत्वात् । यदि पुनर् द्रव्यलक्षणंपृथिव्यादीनां गुणादिभ्यो व्यवच्छेदकतया तावद् असा- धारणो धर्मः पृथिव्यादिषु नवस्वपि सद्भावात्साधारणः कथम् अन्यथातिव्याप्त्यव्याप्ती लक्षणस्यनिराक्रि- ०५येते सकललक्ष्यवस्तुषु हि व्यापकस्यलक्षणस्याव्याप्तिपरिहारस् तदलक्ष्येभ्यश् चव्यावृत्तस्यातिव्याप्तिपरि- हारः । सकलैर् लक्ष्यलक्षणज्ञैर् अभिधीयते नान्यथेतिमतिः । तदापि नैको द्रव्यपदार्थः सिद्ध्यति । द्रव्यल- क्षणाद् अन्यस्य लक्ष्यस्य द्रव्यस्यैकस्यासंभवात् । नवापिपृथिव्यादीनि द्रव्याण्य् एकलक्षणयोगाद् एको द्रव्य- पदार्थ इति चेत् न । तथोपचारमात्रप्रसंगात् । पुरुषोयष्टिर् इति यथा यष्टिसाहचर्याद् धि पुरुषो यष्टिर् इति कथ्यते न पुनः स्वयं यष्टिर् इत्य् उपचारः प्रसिद्ध एवतथा पृथिव्यादिर् अनेको ऽपि स्वयम् एकलक्षणयोगाद् एक १०उपचर्यते न तु स्वयम् एक इत्य् आयातं । न च लक्षणम् अप्येकं पृथिव्यादिषु पंचसु क्रियावत्स्व् एव क्रियावद्गुण- वत्समवायिकारणम् इति द्रव्यलक्षणस्य भावात् निःक्रियेष्वाकाशकालदिगात्मसु क्रियावत्त्वस्याभावात् । गुणवत्समवायिकारणम् इत्य् एतावन्मात्रस्य ततो ऽन्यस्यद्रव्यलक्षणस्य सद्भावात् लक्षणद्वयस्य प्रसिद्धेः । तथा च द्रव्यलक्षणद्वययोगात् द्वाव् एव द्रव्यपदार्थौस्यातां । यदि पुनर् द्वयोर् अपि द्रव्यलक्षणयोर् द्रव्यलक्ष- णत्वाविशेषाद् एकं द्रव्यलक्षणम् इत्य् उच्यते तदापि किंतद्द्रव्यलक्षणयोर् द्रव्यलक्षणत्वम् एकं न तावत् सामान्यं १५तस्य द्रंव्यगुणकर्माश्रयत्वात् । न चैते द्रव्यलक्षणे । द्रव्ये स्वेष्टविघातात् । नापि गुणौ । द्रव्याश्रयी अगुण- वान् संयोगविभागेष्व् अप्य् अकारणम् अनपेक्ष इतिगुणलक्षणाभावात् । प्रत्ययात्मकत्वात् तयोर् गुणत्वमिति चेत् न । प्रत्ययात्मनोर् लक्षणयोः पृथिव्यादिष्व् असंभवात् । तयोस् तदसाधारणधर्मत्वासंभवाद् एतेनाभिधानात् मनोर् द्र- व्यलक्षणयोर् गुणत्वं प्रत्याख्यातं । नापि ते कर्मणी । परिस्पंदात्मकत्वासंभवाद् एकद्रव्यम् अगुणं संयोगविभा- गेष्व् अनपेक्षकारणम् इति कर्मलक्षणस्याभावाच् च । तयोरेकद्रव्यत्वे नवविधत्वप्रसंगाद् द्रव्यलक्षणस्य कुतो २०द्वित्वम् एकत्वं वा व्यवतिष्ठते । यतो द्वव्यलक्षणत्वमेकं तत्र प्रवर्तमानम् एकत्वं व्यवस्थापयेत्तथोपचरितोपचार- प्रसंगश् च द्रव्यलक्षणत्वेनैकेन योगाद् द्रव्यलक्षणयोरेकत्वाद् एकं द्रव्यलक्षणं तेन चोपचरितेनद्रव्यलक्षणेनैकेन योगात् पृथिव्यादीन्य् एको द्रव्यपदार्थ इति कुतःपारमार्थिको द्रव्यपदार्थः कश्चिद् एकः सिद्धयेत् । यद् अप्य- भ्यधायि वैशेषिकैः पृथिव्यादीनां नवानांद्रव्यत्वेनैकेनाभिसंबंधाद् एकत्वम् इति द्रव्यं नामैकःपदार्थ इति तद् अपि न युक्तं । परमार्थतोद्रव्यपदार्थस्यैकस्यासिद्धेः तस्योपचाराद् एव प्रसिद्धेः । एतेन चतुर्विंशति- २५गुणानां गुणत्वेनैकेनाभिसंबंधाद् एको गुणपदार्थः, पंचानां च कर्मणां कर्मत्वेनैकेनाभिसंबंधाद् एकःकर्म- पदार्थ इत्य् एतत् प्रत्याख्यातं । तथावास्तवगुणकर्मपदार्थाव्यवस्थितेः कथं चैवंसामान्यपदार्थ एकः सिद्धयेद् विशेषपदार्थो वा समवायपदार्थो वा । परापरसामान्ययोः सामान्यांतरेणैकेनाभिसंबंधायोगाद् विशे- षाणां चेति समवाय एवैकः पदार्थः स्यात् । यदि पुनर्यथेहेदम् इति प्रत्ययाविशेषाद् विशेषप्रत्ययाभावाद् एकः समवायः तथा द्रव्यम् इति प्रत्ययाविशेषाद् एकोद्रव्यपदार्थः स्यात् गुण इति प्रत्ययाविशेषाद् गुणपदार्थः ३०कर्मेति प्रत्ययाविशेषात् कर्मपदार्थः सामान्यम् इतिप्रत्ययाविशेषात् सामान्यपदार्थः विशेष इति प्रत्यया- विशेषाद् विशेषपदार्थ इत्य् अभिधीयते, तथापिवैशेषिकतंत्रव्याघातो दुःशक्यः परिहर्तुंस्याद्वादिमतस्यैवं प्रसिद्धेः । स्याद्वादिनां हि शुद्धसंग्रहनयात्सत्प्रत्ययाविशेषाद् विशेषलिंगाभावाद् एकं सन्मात्रं तत्त्वंशुद्धं द्रव्य- म् इति मतं । तथैवाशुद्धसंग्रहनयाद् एकं द्रव्यम् एकोगुणादिर् इति, व्यवहारनयात् तु यत् सत् तद् द्रव्यं पर्यायो वेति भेदः । यद् द्रव्यं तज् जीवद्रव्यम् अजीवद्रव्यं चयश् च पर्यायः सो ऽपि परिस्पंदात्मको ऽपरिस्पंदात्मकश् चेति ३५सो ऽपि सामान्यात्मको विशेषात्मकश् चेति । स च द्रव्यादविष्वग्भूतो विष्वग्भूतो वेति यथा प्रतीतिर् नि- श्चीयते सर्वथा बाधकाभावात् । वैशेषिकाणां तुतथाऽभ्युपगमो व्याहत एव तंत्रविरोधात् । न हि तत्तंत्रे सन्मात्रम् एव तत्त्वं सकलपदार्थानां तत्रैवांतर्भावादिति नयो ऽस्ति । स्यान् मतं । द्रव्यपदेन सकलद्वव्य- ६व्यक्तिभेदप्रभेदानां संग्रहाद् एको द्रव्यपदार्थःगुण इत्य् आदिपदेन चैकेन गुणादिभेदप्रभेदानां संग्रहाद्गुणा- दिर् अप्य् एकैकपदार्थो व्यवतिष्ठते "विस्तरेणोपदिष्टानामर्थानां तत्त्वसिद्ध्ये । समासेनाभिधानं यत् संग्रहं तं विदुर्बुधाः" इति ॥ पदार्थधर्मसंग्रहः प्रवक्ष्यतैत्य् अत्र पदार्थसंग्रहस्य धर्मसंग्रहस्य चैवं व्याख्या- नाद् अस्त्य् एव तथाऽभिप्रायो वैशेषिकाणाम् इति । तद् अप्यविचारितरभ्यं । परमार्थतस् तथैकैकस्य द्रव्यादिपदा- ०५र्थस्य प्रतिष्ठानुपपत्तेः । तस्यैकपदविषयत्वेनैकत्वोपचारात् । नचोपचरितपदार्थसंख्याव्यवस्थायां पार- मार्थिकी पदार्थसंख्या समवतिष्ठते ऽतिप्रसंनात् । नचैकपदवाच्यत्वेन तात्त्विकम् एकत्वं सिद्ध्यति व्य- भिचारात् सेनावनादिपदेन हस्त्यादिधवादिपदार्थस्यानेकस्यवाच्यस्य प्रतीतेः । ननु सेनापदवाच्य एक एवार्थः प्रत्यासत्तिविशेषः संयुक्तसंयोगाल्पीयस् त्वलक्षणो हस्त्यादीनां प्रतीयते, वनशब्देन च धवादीनां तादृअशप्रत्यासत्तिविशेष इत्य् एकपदवाच्यत्वं नतात्त्विकीम् एकतां व्यभिचरति । तथा चैवम् उच्य- १०ते द्रव्यम् इत्य् एकः पदार्थः एकपदवाच्यत्वात् यद्यदेकपदवाच्यं तत्तद् एकपदार्थो यथा सेना वनादिस् तथा च द्रव्यम् एकपदवाच्यं तस्माद् एकः पदार्थः । एतेनगुणादिर् अप्य् एकः पदार्थः प्रसिद्धोदाहरणसाधर्म्यात् सा- धितो वेदितव्य इति कश्चित् सो ऽपि न विपश्चित् । सेनाशब्दादनेकत्र हस्त्याद्यर्थे प्रतीतिप्रवृत्तिप्राप्ति- सिद्धेः । वनशब्दाच् च धवखदिरपलाशादाव् अनेकत्रार्थे । यत्र हि शब्दात् प्रतीतिप्रवृत्तिप्राप्तयः समधिगम्यते स शब्दस्यार्थः प्रसिद्धस् तथा वृद्धव्यवहारारात् । न चसेनावनादिशब्दात् प्रत्यासत्तिविशेषे प्रतीतिप्रवृत्तिप्रा- १५प्तयो ऽनुभूयंते येन स तस्यार्थः स्यात् । प्रत्यासत्तिविशिष्टा हस्त्यादयो धवादयो वासेनावनादिशब्दा- नाम् अर्थ इति चेत् सिद्धस् तर्ह्य् एकपदवाच्यो ऽनेको 'र्थः । तेन च कथम् एकपदवाच्यत्वं न व्यभिचरेत् । तथा गौर् इति पदेनैकेन पश्वादेर्दशप्रकारस्यैकादशप्रकारस्य वा वाच्यस्य दर्शनाच् चव्यभिचारी हेतुः । कश्चि- द् आह न गौर् इत्य् एकम् एव पदं पश्वादेर् अनेकस्यार्थस्यवाचकं तस्य प्रतिवाच्यभेदाद् अन्य एव हि गौर् इति शब्दः पशोर् वाचको ऽन्यश् च दिगादेः अर्थभेदाच्छब्दभेदव्यवस्थितेः । अन्यया सकलपदार्थस्यैकपदवा- २०च्यत्वप्रसंगाद् इति । तस्याप्य् अनिष्टानुषंगः स्यात् । द्रव्यमिति पदस्याप्य् अनेकत्वप्रसंगात् । पृथिव्याद्यने- कार्थवाचकत्वात् अन्यद् एव हि पृथिव्यां द्रव्यम् इति पदंप्रवर्तते । अन्यद् एवाप्सु तेजसि वाय्वाकाशे काले दिश्यात्मनि मनसि चेत्य् एकपदवाच्यत्वंद्रव्यपदार्थस्यासिद्धं स्यात् । ननु द्रव्यत्वाभिसंबंध एको द्रव्यपदस्यार्थो नानेकः पृथिव्यादिः तस्यपृथिव्यादिशब्दावाच्यत्वात् । तत एकम् एव द्रव्यपदंनानेक- म् इति चेत् । किम् इदानीं द्रव्यत्वाभिसंबंधो द्रव्यपदार्थःस्यात् ? न चासौ द्रव्यपदार्थस्तस्य द्रव्यत्वोप- २५लक्षितसमवायपदार्थत्वात् । एतेन गुणत्वाभिसंबंधोगुणपदस्यार्थः कर्मत्वाभिसंबंधः कर्मपदस्येत्य् एत- त् प्रतिव्यूढं गुणत्वाभिसंबंधस्यगुणत्वोपलक्षितसमवायपदार्थत्वात्कर्मत्वाभिसंबंधस्य च कर्मत्वोपल- क्षितसमवायपदार्थस्य कथनात् । न चैवंसामान्यादिपदार्थः सिद्ध्यति । सामान्यादिषु सामान्यांतरा- भिसंबंधस्यासंभवाद् इत्य् उक्तं प्राक् । एतेनपृथिवीत्वाद्यभिसंबंधात् पृथिवीत्य् आदिशब्दार्थस्यव्याख्यानं प्रत्या- ख्यातं । न हि पृथिवीत्वाभिसंबंधः पृथिवीशब्दवाच्यः । पृथिवीत्वोपलक्षितस्य समवायस्य पृथिवीत्वाभि- ३०संबंधंस्य पृथिवीशब्देनावचनात् । द्रव्यविशेषस्यपृथिवीशब्देनाभिधानाद् अदोष इति चेत् । कः पुनर् असौ वृक्षक्षुपादिपृथिवीभेदव्यतिरिक्तः पृथिवीद्रव्यविशेषः । पृथिवीति पदेन संगृह्यमाण इति चेत् । कथं पुनः पृथिवीपदेनैकेनानेकार्थः संगृह्यते ? द्रव्यादिपदेनैवेतिदुःखबोधं । कश् चायं संग्रहो नाम ? शब्दात्मकः प्रत्ययात्मको ऽर्थात्मको वा । न तावच् छब्दात्मकःशब्देनानंतानां द्रव्यादिभेदप्रभेदानां वा संग्रहीतुम् अश- क्यत्वात् । तत्र संकेतस्य कर्तुम् अशक्यत्वाद् अस्मदादेस्तदप्रत्यक्षत्वात् । क्रमेण युगपद् वा अननुमेयत्वाच् च । न ३५चाप्रत्यक्षे ऽननुमेये वा सर्वथाप्य् अप्रतिपन्ने ऽर्थेसंकेतः शक्यक्रियो ऽस्ति । सर्वज्ञस् तत्र संकेतयितुं सम- र्थो ऽपि नाऽसर्वज्ञान् संकेतं ग्राहयितुम् अलम् इति कुतःसंकेतः । न चासंकेतिते ऽर्थे शब्दः प्रवर्तते यतः ७संगृह्यते ऽनंताः पदार्थाः येन शब्देन स शब्दात्मासंग्रहः सिद्ध्यत्य् एव । मा भूच् छब्दात्मकः संग्रहः प्रत्ययात्मकस् त्व् अस्तु । संगृह्यते अर्था येन प्रत्ययेन ससंग्रह इति व्याख्यानात् तेन तेषां संग्रहीतुं शक्यत्वा- द् इति चेत् । कुतः पुनर् असौ प्रत्ययः प्रत्यक्षाद् अनुमानादागमाद् वा ? न तावद् अस्मदादिप्रत्यक्षात् । तस्यानंत- द्रव्यादिभेदप्रभेदागोचरत्वात् । नापि योगिप्रत्यक्षात् । योगिन एव तत्संग्रहप्रसंगाद् अस्मदादीनां तदयो- ०५गात् । न हि योगिप्रत्यक्षाद् अस्मदादयः संप्रतियंतियोगित्वप्रसंगात् । नाप्य् अनुमानाद् अनंतद्रव्यादिभेद- प्रभेदप्रतिबद्धानाम् एकशो ऽनंतलिंगानाम् अप्रतिपत्तेरस्मदाद्यप्रत्यक्षाद् अनुमानांतरात् तल्लिंगप्रतिपत्तावनवस्थानुषं- गात् प्रकृतानुमानोदयायोगात् । यदि पुनर् आगमात्संग्रहात्मकः प्रत्ययः स्यात् तदा युक्त्यानुगृहीतात् तया- ऽननुगृहीताद् वा । न तावद् आद्यः पक्षस् तत्र युक्तेरेवासंभवात् । नापि द्वितीयो युक्त्याऽननुगृहीतस्यागमस्य प्रामाण्यानिष्टेस् तदिष्टौ वाऽतिप्रसंगात् । न चाप्रमाणकःप्रत्ययः संग्रहस् तेन संगृहीतानाम् असंगृहीतकल्प- १०नात् । यदि पुनर् अर्थात्मकः संग्रहो ऽभिधीयते तदासंग्रह्यत इति संग्रहः संग्रह्यमाणः सकलो ऽर्थः स्यात् । स चासिद्ध एव तद्व्यस्थापकप्रमाणाभावाद् इति कथं तस्य व्याख्यानं युज्यते यतः पदार्थधर्मसंग्रहः प्रवक्ष्यत इति प्रतिज्ञासाधीयसीष्यते । संग्रहाभावे चकस्य महोदयत्वं साध्यते ऽसिद्धस्य स्वयमन्यसा- धनत्वोपपत्तेः । एतेन पदार्थधर्मसंग्रहःसम्यग्ज्ञानम् इति व्याख्यानं प्रतिव्यूढं । तदभावस्यसमर्थनान् म- हतो निःश्रेयसस्याभ्युदयस्य चोदयो ऽस्माद् इति महोदय इत्येतद्व्याख्यानं बंध्यासुतसौभाग्यादिव्यावर्णन- १५म् इव प्रेक्षावताम् उपहासास्पदम् आभासते । तद् एवं द्रव्यादिपदार्थानां यथावस्थितार्थत्वाभावान् न तद्विषयं सम्यग्ज्ञानं नापि हेयोपादेयव्यवस्था । येनोपादेयेषूपादेयत्वेन हेयेषु च हेयत्वेन श्रद्धानंश्रद्धाविशेष- स् तत्पूर्वकं च वैराग्यं तदभ्यासभावनानुष्ठानंनिःश्रयसकारणं सिद्ध्येत् । तदसिद्धौ च कथम् अर्हदुप- देशाद् इवेश्वरोपदेशाद् अप्य् अनुष्ठानं प्रतिष्ठितं स्यात् । ततस् तद्व्यवच्छेदाद् एव महात्मा निश्चेतव्यः । कपि- लसुगतव्यवच्छेदाद् इवेति सूक्तम् इदम् अन्ययोगव्यवच्छेदान्महात्मनि निश्चितं तदुपदेशसामर्थ्याद् अनुष्ठानं २०प्रतिष्ठितं स्याद् इति । एतेन ऽप्रणम्यहेतुम् ईश्वरं मुनिंकणादम् अन्वतःऽ इति परापरगुरुनमस्कारकरण- म् अपास्तम् ईश्वरकणादयोर् आप्तत्वव्यच्छेदात् । तयोर्यथाव्यवस्थितार्थज्ञानाभावात् तदुपदेशाप्रामाण्याद् इत्य् अलं विस्तरेण । विश्वतत्त्वानो ज्ञातुः कर्मभूभृतां भेत्तुर् एवमोक्षमार्गप्रणयनोपपत्तेर् आप्तत्वनिश्चयात् ॥ ४ ॥ तत्रासिद्धं मुनींद्रस्य भेत्तृत्वं कर्मभूभृतां । ये वदंति विपर्यासात् तान् प्रत्येवं प्रचक्ष्महे ॥ ५ ॥ २५तत्र तेषुमोक्षमार्गप्रणेतृत्वकर्मभूभृद्भेत्तृत्वविश्वतत्त्वज्ञातृत्वेषुकर्मभूभृतां भेत्तृत्वम् असिद्धं । मुनीं- द्रस्य विपर्यासात् तदभेत्तृत्वात् कर्मभूभृदसंभवात्सदाशिवस्य ये वदंति योगास् तान् प्रत्येवं वक्ष्यमाणप्रका- रेण प्रवक्ष्महे प्रवदाम इत्य् अर्थः ॥ ५ ॥ प्रसिद्धः सर्वतत्त्वज्ञस् तेषां तावत् प्रमाणतः । सदाविध्वस्तनिःशेषबाधकात् स्वसुखादिवत् ॥ ६ ॥ ३०यदि नाम विश्वतत्त्वज्ञः प्रमाणात् सर्वदाविध्वस्तबाधकाद् आत्मसुखादिवत्प्रसिद्धो योगानां तथापि किम् इष्टं भवतां सिद्धं भवेद् इत्य् आह — ज्ञाता यो विश्वतत्त्वानां स भेत्तां कर्मभूभृतां । भवत्य् एवान्यथा तस्य विश्वतत्त्वज्ञता कुतः ॥ ७ ॥ इति । ८स्याद्वादिनाम् अस्माकं कर्मभूभृद्भेत्तृत्वंमुनीन्द्रस्येष्टं सिद्धं भवतीति वाक्यार्थः । तथा हि–भग- वान् परमात्मा कर्मभूभृतां भेत्ता भवत्य् एवविश्वतत्त्वानां ज्ञातृत्वात् । यस् तु न कर्मभूभृतां भेत्तास न विश्वतत्त्वानां ज्ञाता यथा रथ्यापुरुषः । विश्वतत्त्वानांज्ञाता च भगवान् निर्बाधबोधसिद्धः । तस्मात् कर्मभूभृतां भेत्ता भवत्य् एवेति केवलव्यतिरेकी हेतुःसाध्याऽव्यभिचारात् । न तावद् अयम् असिद्धः ०५प्रतिवादिनो वादिनो वा । ताभ्याम् उभाभ्यां परमात्मनःसर्वज्ञत्वसाधनात् । नाप्य् अनेकांतिकः कार्त्स्न्यतो देशतो वा विपक्षे वृत्त्यभावात् । तत एवं न विरुद्धः । नत्वयं कालात्ययापदिष्टस् तदागमबाधितपक्षनि- र्देशानंतरं प्रयुक्तत्वात् । सदैव मुक्तः सदैवेश्वरःपूर्वस्याः कोटेर् मुक्तात्मनाम् इवाभावाद् इत्य् आगमान् महे- श्वरस्य सर्वदा कर्मणाम् अभावप्रसिद्धेस् तद्भेत्तृत्वस्यबाधप्रसिद्धेः । सतां हि कर्मणां कश्चिद् भेत्ता स्यान् नपुन- र् असताम् इत्य् अपरः । सो ऽपि न परीक्षाद् अक्षमानसः । तथा तद्bआधकागमस्याप्रमाणत्वात् तदनुग्राहकानुमा- १०नाभावात् । ननु च नेश्वराख्यः सर्वज्ञः कर्मभूभृतांभेत्ता सदा कर्ममलैर् अस्पृष्टत्वात् । यस् तु कर्मभूभृतां भेत्ता स न कर्ममलैः शश्वदस् पृष्टो यथेश्वराद् अन्यांमुक्तात्मा शश्वदस् पृष्टश् च कर्ममलैर् भगवान् महेश्वरस्तस्मान् न कर्मभूभृतां भत्तेत्य् अनुमानंप्रकृतपक्षबाधकागमानुग्राहकं । नचात्रासिद्धसाधनं । तथा हि-शश्वत्कर्मंमलैः अस्पृष्टः परमात्माऽनुपायसिद्धत्वात् । यस् तु न तथा सनानुपायसिद्धो यथा सादिर् मुक्तात्मा । अनु- पायसिद्धश् च सर्वज्ञो भगवान् तस्मात् कर्ममलैःशश्वदस्पृष्ट इत्य् अतो ऽनुमानांतरात् तत्सिद्धेर् इति वदंतंप्रत्याह — १५नास्पृष्टः कर्मभिः शश्वद्विश्वदृश्वास्ति कश्चन । तस्यानुपायसिद्धस्य सर्वथाऽनुपपत्तितः ॥ ८ ॥ न ह्य् अनुपायसिद्धत्वे कुतश्चित् प्रमाणाद् अप्रसिद्धेतद्बलात् कर्मभिः शश्वदस्पृष्टत्वसाधनं सिद्धिम् अध्यास्ते । तदसिद्धौ च न कर्मभूभृद्भेत्तृत्वाभावस् ततः सिध्यति । येनेदम् अनुमानं प्रस्तुतपक्षबाधकागमस्यानुग्राहकं सिद्ध्येत् तत्प्रामाण्यं साधयेत् । न चाप्रमाणभूतेनागमेनप्रकृतः पक्षो बाध्यते हेतुश् च कालात्ययापदिष्टः २०स्यात् । नन्व् ईश्वरस्यानुपायसिद्धत्वम् अनादित्वात् साध्यते । तदनादित्वं च तनुकरणभुवनादौ निमित्तकारण- त्वाद् ईश्वरस्य । न चैतद् असिद्धं । तथाहि–तनुभुवनकरणादिकं विवादापन्नं बुद्धिम् अन्निमित्तकंकार्यत्वात् । यत् कार्यं तद् बुद्धिम न्निमित्तकं दृष्टं यथा वस्त्रादि । कार्यं चेदं प्रकृतं तस्माद् बुद्धिम् अन्निमित्तकं । यो ऽसौ बुद्धिमांस् तद्धेतुः स ईश्वर इति प्रसिद्धंसाधनं तदनादित्वं साधयत्य् एव । तस्य सादित्वे ततः पूर्वे तन्वाद्युत्पत्तिविरोधात् । तदुत्पत्तौ वा तद्बुद्धिमन्निमित्तत्वाभावप्रसंगात् । यदि पुनस् ततः पूर्व- २५मन्यबुद्धिम् अन्निमित्तकत्वम् इष्यते तदा ततो ऽपिपूर्वमन्यद्बुद्धिनिमित्तकत्वम् इष्यते तदा ततो ऽपि पूर्वम- न्यबुद्धिम् अन्निमित्तकत्वम् इत्य् अनादीश्वरसंततिः सिद्ध्येत् । न चैषा युक्तिमती । पूर्वेश्वरस्यानंतस्य सिद्धाव् उ- त्तरसकलेश्वरकल्पना वैयर्थ्यात् । तेनैवतन्वादिकार्यपरम्परायाः सकलाय निर्माणात् । ततो ऽपि पूर्व स्यानंतस्य महेश्वरस्य सिद्धौ तस्य वैयर्थ्याद् अन्यथापरस्परम् इच्छाव्याघातप्रसंगाद् अनेकेश्वरकारणत्वा- पत्तेश् च जगतः । सुदूरम् अपि गत्वाऽनादिर् एक एवेश्वरोऽनुमंतव्यः । स पूर्वेषाम् अपि गुरुः कालेनाविच्छेदा- ३०द् इति तस्य जगन्निमित्तत्वसिद्धेर् अनादित्वमंतरेणानुपपत्तेर् इत्य् अनादित्वासिद्धिः । ततो नकर्मभूभृतां भेत्ता मुनींद्रः शश्वत्कर्मभिर् अस्पृष्टत्वात् । यस् तुकर्मभूभृतां भेत्ता स न शश्वत्कर्मभिर् अस्पृष्टः । यथोपा- यान् मुक्तः । शश्वत्कर्मभिर् अस्पृष्टश् च भगवांस् तस्मान् नकर्मभूभृतां भेत्ता शश्वत्कर्मभिर् अस्पृष्टो ऽसाव् अनुपायसि- द्धत्वात् । यस् तु न तथा स नानुपायसिद्धः । यथासोपायमुक्तात्मा अनुपायसिद्धश् चायं तस्मात् सदा कर्मभिर् अस्पृष्टः । अनुपायसिद्धो ऽयम् अनादित्वात् । यस् तुन तथा स नानादिः । यथेतरो मुक्तात्मा । ३५अनादिश् चायं तस्माद् अनुपायसिद्धः । अनादिर् अयंतनुकरणभुवनादिनिमित्तत्वात् । यस् तु नानादिः स न त- ९नुकरणभुवनादिनिमित्तकः । यथाऽपरोमुक्तत्मा । तनु करणभुवनादिनिमित्तं च भगवांस् तस्माद् अना- दिः । तनुकरणभुवनादिनिमित्तं तु तस्य तन्वादेर्बुद्धिमान् निमित्तत्वसाधनात् । तन्वादयो बुद्धिवन् निमि- त्तकाः कार्यत्वात् । यत् कार्यं तद् बुद्धिम् अन्निमित्तकंदृष्टं । यथा वस्त्रादि । कार्यं च तन्वादयोविवादापन्नास् त- स्माद् बुद्धिम् अन्निमित्तका इत्य् अनुमानमालाऽमला । कर्मभूभृतां भेत्तारम् अपास्यत्य् एव । न चेदं कार्यत्वम- ०५सिद्धं तन्वादेर् वादिप्रतिवादिनोः कार्यत्वाभ्यनुज्ञानात् । नाप्य् अनेकांतिकं, कस्यचित् कार्यस्याबुद्धिम् अन्निमि- त्तस्यासंभवाद् विप१क्षे वृत्त्यभावात् । न चेश्वरशरीरेणव्यभिचारस् तदसिद्धेर् ईश्वरस्याशरीरत्वात् । नापी- श्वरज्ञानेन । तस्य नित्यत्वात् कार्यत्वासिद्धेः । नचेश्वरेच्छया । तस्येच्छशक्तेर् अपि नित्यत्वात् क्रियाश- क्तिवत् । तत एव न विरुद्धं साधनं सर्वथा विपक्षेसंभवाभावात् । नचायं कालत्ययापदिष्टो हेतुः पक्षस्य प्रत्यक्षादिप्रमाणेनाbआधित्वात् । न हितन्वादेर् बुद्धिम् अन्निमित्तत्वं प्रत्यक्षेण bआध्यते १०तस्यातींद्रियतया तदविषयत्वात् । नाप्य् अनुमानेन तस्य तद्विपरीतसाधनस्यासंभवात् । ननु तनुभुवनकरणादयो न बुद्धिम् अन्निमित्तकादृष्टकर्तृकप्रसादादिविलक्षणत्वाद् आकाशादिवद् इत्यनुमानं पक्षस्य बाधकम् इति चेत् न । असिद्धत्वात् । सन्निवेशादिविशिष्टत्वेनदृष्टकर्तृकप्रसादाद्यविलक्षणत्वात् तन्वादीनां यदि पुनर् अगृहीतसमयस्य कृतबुद्ध्युत्पादकत्वाभावात्तन्वादीनां दृष्टकर्तृकविलक्षणत्वम् इष्यते तदा कृत्रि- माणाम् अपि मुक्ताफलादीनाम् अगृहीतसमयस्यकृतबुद्ध्यनुत्पादकत्वाबुद्धिम् अन्निमित्तकत्वप्रसंगः । नच १५दृष्टकर्तृकत्वादृष्टकर्तृकत्वाभ्यां बुद्धिमन्निमित्तत्वेतरत्वसिद्धिः साधीयसी तदविनाभावाभावात् । नह्य् अदृष्ट- कर्तृकत्वम् अबुद्धिम् अन्निमित्तत्वेन व्याप्तं जीर्णप्रसादादेरदृष्टकर्तृकस्यापि बुद्धिम् अन्निमित्तत्वसिद्धेर् इति न दृष्ट- कर्तृकविलक्षणत्वम् अबुद्धिम् अन्निमित्तत्वं साधयेत् यतोऽनुमानवाधितः पक्षः स्यात् कालात्ययापदिष्टं च साधनम् अभिधीयेत । नाप्य् आगमेन प्रकृतः पक्षो बाध्यतेतत्साधकस्यैवागमस्य प्रसिद्धेः । तथा हि "विश्व- तश् च२क्षुरुत विश्वतोमु३खो, विश्वतो बा४हुरुत विश्वतःपा५त्, सं६बाहुभ्यां धमति संप७तत्रैर् द्यावाभूमी जन, २०यन् देव एक" श्रुतेः सद्भावात् । तथा व्यासवचनं च । "अज्ञो जंतुरनीशो ऽयम् आत्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव वा" इतिपक्षस्यानुग्राहकम् एव न तु बाधकं । ततो नकालात्ययापदिष्टो हेतुर् अबाधितपक्षनिर्देशानंतरं प्रयुक्तत्वात् । तत एवन सत्प्रतिपक्षः बाधकानुमानाभावाद् इत्य् अनवद्यं कार्य- त्वसाधनं तन्वादीनां बुद्धिम् अन्निमित्तत्वं साधयत्य् एव । यद् अप्य् उच्यते कैश्चिद् बुद्धिमन्निमित्तत्वसामान्ये साध्ये तन्वादीनां सिद्धसाधनमनेकतदुपभोक्तृबुद्धिमन्निमित्तत्वसिद्धेः । तेषांतददृष्टनिमित्तत्वात् तददृष्टस्य २५चेतनारूपत्वात् चेतनायाश् च बुद्धित्वाद् बुद्धिमन्निमित्तत्वसिद्धेर् इति । तद् अप्य् असारं । तन्वाद्युपभोक्तृप्राणि- नामदृष्टस्य धर्माधर्मसंज्ञकस्य चेतनत्वासिद्धेरबुद्धित्वात् । अर्थग्रहणं हि बुद्धिश् चेतना न च धर्मोऽर्थग्र- हणम् अधर्मो वा तयोर् बुद्धेर् अन्यत्वात् प्रयत्नादिवद् इतिनानेकबुद्धिम् अन्निमित्तत्वं तन्वादीनां सिद्ध्यति यतः सिद्धसाधनं बुद्दिमन्निमित्तसामान्ये साध्ये ऽभिधार्यते । ननु च वस्त्रादि सशरीरेणासर्वज्ञेन च बुद्धिमता कुबिंदादिना क्रियमाणं दृष्टम् इति तन्वादिकार्यमपि सशरीरासर्वज्ञबुद्धिमन्निमित्तं सिद्ध्येद् इ- ३०तीष्टविरुद्धसाधनाद् विरुद्धं साधनं । सर्वज्ञेनाशरीरेण क्रियमाणस्य कस्यचिद्वस्त्रादिकार्यस्यासिद्धेश् च साध्य विकलम् उदाहरणम् इति कश्चित् । सो ऽपि न युक्तवादीतथा सर्वानुमानोच्छेदप्रसंगात् । तथा हि साग्निरयं पर्वतो धूमवत्त्वान् महानसवद् इत्य् अत्रापिपर्वतादौ महानसपरिदृष्टस्यैव खादिरपालाशाद्यग्निना- ग्निम् आवस्य सिद्धेर् विरुद्धसाधनाद् विरुद्धं साधनं स्यात् । तार्णाद्यग्निनाग्निमत्वस्य पर्वतादौ साध्यस्य महान- सादावभावात् साध्यविकलम् उदाहरणम् अप्य् अनुषज्येत । यदिपुनर् अग्निमत्वसामान्यं देशादिविशिष्टं पर्वतादौ ३५साध्यत इति नेष्टविरुद्धं साधनं । नापि साध्यविकलमुदाहरणं महानसादाव् अपि देशादिविशिष्टस्याग्नि- १०मत्त्वस्य सद्भावाद् इति मतं तदा तन्वादिषु बुद्धिमत्रिमित्तत्वसामान्यं तन्वादिस्वकार्यविनिर्माणशक्ति विशिष्टं साध्यत इति नेष्टविरुद्ध साधनो हेतुः । नापिसाध्यविकलो दृष्टांतः स्वकार्यविनिर्माणशक्ति विशिष्टस्य बुद्धिमन्निमित्तत्वसामान्यस्य साध्यस्य तत्रसद्भावात् । सिद्धे च बुद्धिमन्निमित्तत्वसामान्ये किम् अयं बुद्धिमान् हेतुः सशरीरो ऽशरीरो वेति विप्रतिपत्तौतस्याशरीरत्वं साध्यते सशरीरत्वे बाधक- ०५सद्भावात् । तच्छरीरं हि न तावन् नियमनादि सावयवत्वादस्मदादिशरीरवत् । नाप्य् अनित्यं सादि तदु- त्पत्तेः पूर्वम् ईश्वरस्याशरीत्वसिद्धेः शरीरांतरेणसशरीरत्वे ऽनवस्थाप्रसंगात् । तथा किम् असौ सर्वज्ञो ऽस- र्वज्ञो वेति विवादे सर्वज्ञत्वं साध्यते तस्यासर्वज्ञत्वेसमस्तकारकप्रयोक्तृत्वानुपपत्तेः तन्वादिकारणत्वाभा- वप्रसंगात् । तन्वादि सकलकारकाणां परिज्ञानाभावे ऽपिप्रयोक्तृत्वे तन्वादिकार्यव्याघातप्रसंगात् । कुविंदादेर् वस्त्रादिकारकस्यापरिज्ञाने तद्व्याघातवत् । नचेश्वरकार्यस्य तनुकरणभुवनादेः कदाचिद् व्याघातः १०संभवति महेश्वरसमीहितकार्यस्य यथाकारकसंपा१तंविचित्रस्यादृष्टादेर् अव्याघातदर्शनात् । यद् अप्य् अभ्य- धायि तनुकरणभुवनादिकं नैकस्वभावेश्वरकारणकृतं विचित्रकार्यत्वात् । यद् विचित्रं कार्यं तन् नैकस्वभा- वकारणकृतं दृष्टं यथा घटपटमुकुटशकटादि, विचित्रकार्यं च प्रकृतं तस्मान् नैकस्वभावेश्वराख्यका- रणकृतम् इति तद् अप्य् असम्यक् सिद्धसाध्यतापत्तेः । न ह्येकस्वभावम् ईश्वराख्यं तन्वादेर् निमित्तकारणम् इ- ष्यते तस्य ज्ञानशक्तीच्छाशक्तिक्रियाशक्तित्रयस्वभावत्वात् । तनुकरणभुवनाद्युपभोक्तृप्राणिगणा- १५दृष्टविशेषवैचित्र्यसहकारित्वाच् च विचित्रस्वभावोपपत्तेःघटपटमुकुटदिकार्यस्यापि तन्निदर्शनस्य तदुत्पादनविज्ञानेच्छाक्रियाशक्तिविचित्रतदुपकरणसचिवेनैकेनपुरुषेण समुत्पादनसंभवात् साध्यविकल- तानुषंगात् तद् एवं कार्यत्वं हेतुस् तनुकरणभुवनादेर्बुद्धिमन्निमित्तत्वं साधयत्य् एव सकलदोषरहितत्वाद् इति वैशेषिकाः समभ्यमंसत ते ऽपि न समंजसवाचः । तनुकरणभुवनादयो बुद्धिमन्निमित्तका इति पक्षस्य व्यापकानुपलंभेन बाधितत्वात् कार्यत्वादिहेतोःकालात्ययापदिष्टत्वाच् च । तथा हि तन्वादयो न बुद्धि- २०मन्निमित्तकास् तदन्वयव्यतिरेकानुपलंभात् । यत्र यदन्वयव्यतिरेकानुपलंभस् तत्र न तन्निमित्तकत्वं दृष्टं यथा घटघटीशरावोदंचनादिषुकुविंदाद्यन्वयव्यतिरेकाऽननुविधायिषु नकुविंदादिनिमित्तकत्वं । बुद्धिमदन्वयव्यतिरेकाऽनुपलंभश् च तन्वादिषु, तस्मान् नबुद्धिमन्निमित्तकत्वम् इति व्यापकानुपलंभः तत्कार- णकत्वस्थ तदन्वयव्यतिरेकोपलंभेन व्याप्तत्वात्कुलालकारणकस्य घटादेः कुलालान्वयव्यतिरेकोपलंभ- प्रसिद्धेः सर्वत्र बाधकाभावात् । तस्यतद्व्यापकत्वव्यवस्यानात् । न चायम् असिद्धस् तन्वादीनामीश्वरव्य- २५तिरेकानुपलंभस्य प्रमाणसिद्धत्वात् । स हि न तावत्कालव्यतिरेकः शाश्वतिकत्वादीश्वरस्य कदाचिद् अ- भावासंभवात् । नापि देशव्यतिरेकः तस्य विभुत्वेन कचिदभावानुपपत्तेर् ईश्वराभावे कदाचित् क्वचित् त- न्वादिकार्याभावानिश्चयात् । स्यान् मतंमहेश्वरासिसृक्षानिमित्तत्वात् तन्वादिकार्यस्यायम् अदोष इति । तद् अप्य् असत्यं । तदिच्छाया नित्यानित्यविकल्पद्वयानतिवृत्तेः । तस्यानित्यत्वे व्यतिरेकासिद्धिः । सर्वदा- सद्भावात् तन्वादिकार्योत्पत्तिप्रसंगात् । नन्वीश्वरेच्छायानित्यत्वे ऽप्य् असर्वगतत्वात् व्यतिरेकः सिद्धएव ३०क्वचिन् महेश्वरसिसृक्षापाये तन्वादिकार्यानुत्पत्तिसंभवादिति चेन् न । तद्देशे व्यतिरेकाभावसिद्धेः । देशांतरे सर्वदा तदनुपपत्तेः कार्यानुदयप्रसंगात् । अन्यथा तदनित्यत्वापत्तेः अनित्यैवेच्छास् त्व् इति चेत् सा तर्हि सिसृक्षा महेश्वरस्योत्पद्यमाना सिसृक्षांतरपूर्विकायदीष्यते तदाऽनवस्थाप्रसंगः परापर- सिसृक्षोत्पत्ताव् एव महेश्वरस्योपक्षीणशक्तिकत्वात् प्रकृततन्वादिकार्यानुदय एव स्यात् यदि पुनः प्रकृत- तन्वादिकार्योत्पत्तौ महेश्वरस्य सिसृक्षोत्पद्यते सापि तत्पूर्वसिसृक्षात इत्य् अनादिसिसृक्षासंततिर् नानवस्था- ३५दोषम् आस्कंदति सर्वत्रकार्यकारणसंतानस्यानादित्वसिद्धेर्बीजांकुरादिवद् इत्य् अभिधीयते तदा युगपन् नानादे- शेषु तन्वादिकार्यस्योत्पादो नोपपद्येत यत्र यत्कार्योत्पत्तये महेश्वरसिसृक्षा तत्र तस्यैव कार्यस्योत्पत्ति- ११घटनात् । न च यावत्सु देशेषु यावंति कार्याणिसंभूष्णूनि तावंत्यः सिसृक्षास् तस्येश्वरस्य सकृदुपजायंत इति वक्तुं शक्यं युगपद् अनेकेच्छाप्रादुर्भावविरोधादस्मदादिवत् । यदि पुनर् एकैव महेश्वरसिसृक्षा युगपन् नानादेशकार्ये जननाय प्रजायत इतीष्यते तदाक्रमतो ऽनेकतन्वादिकार्योत्पत्तिविरोधस् तदिच्छायाः शश्वदभावात् । अथ मतम् एतत् यत्र यदा यथा यत् कार्यमुत्पित्सु तत्र तदा तथा तद् उत्पादनेच्छा महे- ०५श्वरस्यैकैव तादृशी समुत्पद्यते ततो नानादेशेष्व् एकदेशेच क्रमेण युगपच् च तादृशम् अन्यादृशं च तन्वादि- कार्यं प्रादुर्भवन् न विरुध्यत इति तद् अप्य् असंभाव्यंक्वचिद् एकत्र प्रदेशे समुत्पन्नायाः सिसृक्षाया दविष्टदेशेषु विभिन्नेषु नानाविधेषु नानाकार्यजनकत्वविरोधात् अन्यथातदसर्वगतत्वे ऽपि देशव्यतिरेकानुपपत्तेः । यदि हि यद् देशा सिसृक्षा तद् देशम् एव कार्यजन्मनाऽन्यदेशम् इति व्यवस्था स्यात् तदा देशव्यतिरेकः सिद्ध्ये- न् नान्यथेति सिसृक्षाया न व्यतिरेकोपलंभो महेश्वरवत् । व्यतिरेकाभावे च नान्वयनिश्चयः शक्यः १०कर्तुं सतीश्वरे तन्वादिकार्याणां जन्मेत्य् अन्वयो हिपुरुषांतरेष्व् अपि समानः । तेष्व् अपि सत्सु तन्वादिकार्यो- त्पत्तिसिद्धेः । न च तेषां सर्वकार्योत्पत्तौनिमित्तकारणत्वं दिक्कालाकाशानाम् इव संमतं । परेषांसिद्धांत विरोधान् महेश्वरनिमित्तकारणत्ववैयर्थ्याच् च । यदिपुनस् तेषु पुरुषांतरेषु सत्स्व् अपि कदाचित् तन्वादिकार्या- नुत्पत्तिदर्शनान् न तन्निमित्तकारणत्वं तदन्वयाभावश्चेति मतं तदेश्वरे सत्य् अपि कदाचित् तन्वादिकार्यानुत्प- त्तेर् ईश्वरस्यापि तन्निमित्तकारणत्वं मा भूत् । तदन्वयासिद्धिश् च तद्वद् आयाता । एतेनेश्वरसिसृक्षायां नित्यायां १५सत्याम् अपि तन्वादिकार्याजन्मदर्शनाद् अन्वयाभावः साधितः । कालादीनां च तेषु सत्स्व् अपि सर्वकार्यानु- त्पत्तेः । स्यान् मतं सामग्रीजनिका कार्यस्य नैकं कारणंततस् तदन्वयव्यतिरेकाव् एव कार्यस्यान्वेषणीयौ नैकेश्वरान्वयव्यतिरेकौ सामग्री च तन्वादिकार्योत्पत्तौतत्समवायिकारणम् असमवायिकारणं निमि- त्तकारणं चेति । तेषु सत्सु कार्योत्पत्तिदर्शनाद् असत्सुचादर्शनाद् इति सत्यम् एतत् । केवलं यथा संमवाय्य- समवायिकारणानाम् अनित्यानां धर्मादीनां च निमित्तकारणानामन्वयव्यतिरेकौ प्रसिद्धौ कार्यजन्मनि २०तथा नेश्वरस्य नित्यसर्वगतस्य तदिच्छाया वानित्यैकस्वभावाया इति तदन्वयव्यतिरेकानुपलंभः प्रसि- द्ध एव । न हि सामग्र्येकदेशस्यान्वयव्यतिरेकसिद्धौकार्यजन्मनि सर्वसामग्र्यास् तदन्वव्यतिरेकसि- द्धिर् इति शक्यं वक्तुं । प्रत्येकं सामग्र्याकदेशानांकार्योत्पत्ताव् अन्वयव्यतिरेकनिश्चयस्य प्रेक्षापूर्वकारि- भिर् अन्वेषणात् । पटाद्युत्पत्तौ कुविंदादिसामग्र्येकदेशवत् । यथैव हि तंतुतुरीवेमशलाकादीनाम् अन्वय- व्यतिरेकाभ्यां पटस्योत्पत्तिर् दृष्टा तथाकुविंदान्वयव्यतिरेकाभ्याम् अपि । तदुपभोक्तृजनादृष्टान्वयव्यति- २५रेकाभ्याम् इवेति सुप्रतीतं । ननु सर्वकार्योत्पत्तौदिक्कालाकाशादिसामग्र्यन्वयव्यतिरेकानुविधानवदी- श्वरादिसामग्र्यन्वयव्यतिरेकानुविधानस्य सिद्धेर् नव्यापकानुपलंभः सिद्ध इति चेत् न दिक्कालाका- शादीनाम् अपि नित्यसर्वगतनिरवयवत्वे क्वचिदन्वयव्यतिरेकानुविधानायोगाद् उदाहरणवैषम्यात् तेषाम् अपि हि परिणामित्वे सप्रदेशत्वे च परमार्थतः स्वकार्योत्पत्तौनिमित्तत्वसिद्धेः ॥ नन्व् एवम् ईश्वरस्यापि बुद्ध्या- दिपरिमणामैः स्वतो ऽर्थांतरभूतैः परिणामित्वात् सकृत्सर्वमूर्तिम् अद्द्रव्यसंयोगनिबंधनप्रदेशसिद्धेश् च तन्वा- ३०दिकार्योत्पत्तौ निमित्तकारणत्वं युक्तंतदन्वयव्यतिरेकानुविधानस्य तन्वादेर् उपषन्नत्वात् । स्वतो ऽनर्थांतरभूतैर् एव हि ज्ञानादिपरिणामैर् ईश्वरस्यपरिणामित्वं नेष्यते स्वारंभकावयवैश् च सावयवत्वं निरा- क्रियते । न पुनर् अन्यथा, विरोधाभावान् न चैवमनिष्टप्रसंगः द्रव्यांतरपरिणामैर् अपिपरिणामित्वाप्रसंगात् तेषां तत्रासमवायात् । ये हि यत्र समवायंति परिणामास्तैर् एव तस्य परिणामित्वं । परमाणोश् च स्वा- रंभकावयवाभावे ऽपि सप्रदेशत्वप्रसंगां नानिष्टापत्तयेनैयायिकानां । परमाण्वंतरसंयोगनिबंधनस्यैकस्य ३५प्रदेशस्य परमाणोर् अपीष्टत्वात् । नचोपचरितप्रदेशप्रतिज्ञा आत्मादिष्व् एवं विरुद्ध्यतेस्वारंभकावयवलक्ष- णानां प्रदेशानां तत्रोपचरितत्वप्रतिज्ञानात् । मूर्तिमद्द्रव्यसंयोगनिवंधनानां तु तेषां पारमार्थिकत्वात् अन्यथा सर्वमूर्तिमद्द्रव्यसंयोगानां युगपद्भाविनामुपचरितत्वप्रसगात् विभुद्रव्याणां सर्वगतत्वम् अप्य् उ- १२पचरितं स्यात् । परमाणोश् चपरमाण्वंतरसंयोगस्य पारमार्थिकासिद्धेर्द्व्यणुकादिकार्यद्रव्यम् अपारमार्थि- कम् आसज्येत । कारणस्योचरितत्वे कार्यस्यानुपचरितत्वायोगाद् इति केचित् प्रचक्ष्यते । ते ऽपिस्याद्वादिम- तम् अंधसर्पविलप्रवेशन्यायेनानुसरंतो ऽपि नेश्वरस्यनिमित्तकारणत्वं तन्वादिकार्योत्पत्तौ समर्थयितु- म् ईशते । तथापि तदन्वयव्यतिरेकानुविधानस्य साधयितुमशक्यत्वाद् आत्मांतरान्वयव्यतिरेकानुविधान- ०५वत् । यथैव ह्य् आत्मांतराणि तन्वादिकार्योत्पत्तौ ननिमित्तकारणानि तेषु सत्सु भावाद् अन्वयसिद्धाव् अपि तच्छून्ये च देशे क्वचिद् अपि तन्वादिकार्यानुत्पत्तेर्व्यतिरेकसिद्धाव् अपि च । तथेश्वरे सत्येव तन्वादिका- र्योत्पत्तेस् तच्छून्ये प्रदेशे क्वचिद् अपि तदनुत्पत्तेस्तच्छून्यस्य प्रदेशस्यैवाभावाद् अन्ययव्यतिरेकसिद्धावपीश्व- रो निमित्तकारणं मा भूत् सर्वथा विशेषाभावात् । स्यान् मतंमहेश्वरस्य बुद्धिमत्त्वात् समस्तकारकपरि- ज्ञानयोगात् तत्प्रयोक्तृत्वलक्षणं निमित्तकारणत्वंतन्वादिकार्योत्पत्तौ व्यवतिष्ठते । न पुनर् आत्मांतराणाम् अ- १०ज्ञत्वात् तल्लक्षणनिमित्तकारणत्वाघटनाद् इति । तद् अपि नसमीचीनं सर्वज्ञस्य समस्तकारकप्रयोक्तृत्वा- सिद्धेः योग्यंतरवत् । न हि योग्यंतराणां सर्वज्ञत्वे ऽपिसमस्तकारकप्रयोक्तृत्वम् इष्यते । ननु तेषां समस्तपदार्थज्ञानस्यांत्यस्य योगाभ्यासविशेषजन्मनःसद्भावे सकलमिथ्याज्ञानदोषप्रवृत्तिजन्मदुःख- परिक्षयात् परमनिःश्रेयससिद्धेःसमस्तकारकप्रयोक्तृत्वासिद्धिः । न पुनर् ईश्वरस्य तस्यसदा मुक्तत्वात् सदैवेश्वरत्वाच् च संसारिमुक्तविलक्षणत्वात् । न हिसंसारिवदज्ञो महेश्वरः प्रतिज्ञायते नापि मुक्तवत् १५समस्तज्ञानैश्वर्यरहित इति तस्यैवंसमस्तकारकप्रयोक्तृत्वलक्षणं निमित्तकारणत्वंकायादिकार्योत्पत्तौ संभाव्यत इति केचित् । ते ऽपि न विचारचतुरचेतसः । कायादिकार्यस्य महेश्वराभावे क्वचिद् अभा- वासिद्धेर् व्यतिरेकासंभवस्य प्रतिपादितत्वात् । निश्चितान्वयस्याप्य् अभावात् । ननु च यत्र यदा यथा महेश्वरसिसृक्षा संभवति तत्र तदा तथा कायादिकार्यमुत्पद्यते । अन्यत्रान्यदाऽन्यथा तदभावान् नो- त्पद्यत इत्य् अन्वयव्यतिरेकौ महेश्वरसिसृक्षायाःकायादिकार्यम् अनुविधत्ते कुंभादिकार्यवत् कुलालादि- २०सिसृक्षायाः । ततो नान्वयव्यतिरेकयोर् व्यापकयोर् अनुपलंभोऽस्ति यतो व्यापकानुलंभः पक्षस्य बाधकः स्याद् इति चेन् न । तस्या महेश्वरसिसृक्षायाःकायादिकार्योत्पत्तौ नित्यानित्यत्वविकल्पद्वये ऽपि निमित्त- कारणत्वनिराकरणात् । तदन्वयव्यतिरेकानुविधानस्यासिद्धेर्व्यापकानुपलंभः प्रसिद्ध एव पक्षस्य बाधक इत्य् अनुमानबाधितपक्षत्वात् कालत्ययापदिष्टहेतुत्वाच्च न बुद्धिमन्निमित्तत्वसाधनं साधीयः सिद्धं यतो ऽनुपायासिद्धः सर्वज्ञो ऽनादिः कर्मभिरस्पृष्टः सर्वदा सिद्ध्येद् इति सूक्तं"तस्यानुपायसिद्धस्य २५सर्वथाऽनुपपत्तित" इति । यो 'प्य् आहमोक्षमार्गप्रणीतिर् अनादिसिद्धसर्वज्ञम् अंतरेणनोपपद्यते सोपायसिद्धस्य सर्वज्ञस्यानवस्थानात् मोक्षमार्गप्रणीतेर् असंभवातवस्थाने वा तस्य समुत्पन्नतत्त्वज्ञानस्यापि साक्षा- न् न तत्त्वज्ञानं मोक्षस्य कारणं तद्भावभावित्वाभावात्तत्वज्ञानात् पूर्वं मोक्षमार्गस्य प्रणयेन तदुपदेशस्य प्रामाण्यायोगाद् अतत्त्वज्ञवचनाद् रथ्यापुरुषवचनवत् । नापिप्रादुर् भूतसाक्षात्तत्त्वज्ञानस्यापि परमवैरा- ग्योत्पत्तेः पूर्वमवस्थानसंभवान् मोक्षमार्गप्रणीतिर् युक्ता । साक्षात् सकलतत्त्वज्ञानस्यैव परमवैराग्यस्वभाव- ३०त्वात् । एतेनसम्यग्दर्शनज्ञानचारित्रप्रकर्षपर्यंतप्राप्तौनिःश्रेयसम् इति वदतो ऽपि न मोक्षमार्ग प्रणयनसिद्धिर् इति प्रतिपादितं बोद्धं । केवलज्ञानोत्पत्तौ क्षायिकसम्यग्दर्शनस्य क्षायिकचारित्रस्य च परमप्रकर्षपरिप्राप्तस्य सद्भावात् सम्यग्दर्शनादित्रयप्रकर्षपर्यंतप्राप्तौ परममुक्तिप्रसंगाद् अवस्थाना- योगान् मोक्षमार्गोपदेशासंभवात् तदाप्य् अवस्थाने सर्वज्ञस्यन तावन्मात्रकारणत्वं मोक्षस्य स्यात् तद्भावभावित्वाभावाद् एव ज्ञानमात्रवद् इति तन् मतम् अप्यनूद्य विचारयन्न् आह — ३५प्रणीतिर् मोक्षमार्गस्य न विनाऽनादिसिद्धतः । सर्वज्ञाद् इति तत्सिर्द्धिर् न परीक्षा सहा स हि ॥ ९ ॥ १३प्रणेता मोक्षमार्गस्य नाशरीरो ऽन्यमुक्तवत् । सशरीरस् तु नाऽकर्मा संभवत्य् अज्ञजंतुवत् ॥ १० ॥ यस्माद् अनादिसिद्धात् सर्वज्ञान् मोक्षमार्गप्रणीतिःसादिसर्वज्ञान् मोक्षमार्गप्रणयनासंभवभयाद् अभ्यनु- ज्ञायते । सो ऽशरीरो वा स्यात् सशरीरो वा गत्यंतराभावात् । न तावद् अशरीरो मोक्षमार्गस्य प्रणेता ०५संभवति तद् अन्यमुक्तवद् वाक्प्रवृत्तेर् अयोगात् । नापिसशरीरः सकर्मकत्वप्रसंगाद् अज्ञप्राणिवत् । ततो न अनादिसिद्धस्य सर्वज्ञस्य मोक्षमार्गप्रणीतिः परीक्षांसहते यतो ऽसौ व्यवस्थाप्यते । ननु चाशरीरत्व- सशरीरत्वयोर् मोक्षमार्गप्रणीतिं प्रत्यनंगत्वात्तत्त्वज्ञानेच्छाप्रयत्ननिमित्तत्वात् तस्याः कायादिकार्योत्पादन- वत् । तन्मात्रनिबंधनत्वोपलब्धेः कार्योत्पादनस्य । तथाहि कुंभकारः कुंभादिकार्यं कुर्वन् न सशरी- रत्वेन कुर्वीत सर्वस्य सशरीरस्य कूविंदादेर् अपिकुंभादिकरणप्रसंगात् । नाप्य् अशरीरत्वेन कश्चित् कुंभादि- १०कार्यं कुरुते मुक्तस्य तत्करणप्रसंगात् । किं तर्हिकुंभादिकार्योत्पादनज्ञानेच्छाप्रयत्नैः कुंभकारः कुंभादिकार्यं कुर्वन्न् उपलभ्यते तदन्यतमापाये ऽपितदनुपपत्तेः ज्ञानापाये कस्यचिद् इच्छतो ऽपि कार्यो- त्पादनादर्शनात् । कार्योत्पादनेच्छापाये च ज्ञानवतो ऽपितदनुपलब्धेः । पत्र प्रयत्नापाये च कार्यो- त्पादनज्ञानेच्छावतो ऽपि तदसंभवात् । ज्ञानादित्रयसद्भावे च कार्योत्पत्तिदर्शनात्तत्त्वज्ञानेच्छा- प्रयत्ने निबंधनम् एव कार्यकरणम् अनुमंतव्यं । तदस्ति च महेश्वरज्ञानेच्छाप्रयत्नत्रयं । ततो ऽसौमोक्षमार्ग- १५प्रणयनं कायादिकार्यवत् करोत्य् एव विरोधाभावाद् इतिकश्चित् सो ऽपि न युक्तवादी विचारासहत्वात् । सदा कर्मभिर् अस्पृष्टस्य क्वचिद् इच्छाप्रयत्नयोर् अयोगात् तदाह — न चेच्छा शक्तिर् ईशस्य कर्माभावे ऽपि युज्यते । तदिच्छा वाऽनभिव्यक्ता क्रियाहेतुः कुतो ऽज्ञवत् ॥ ११ ॥ न हि कुंभकारस्येच्छाप्रयत्नौ कुंभाद्युत्पत्तौनिःकर्मणःप्रतीतौ सकर्मण एव तस्य तत्प्रसिद्धेः । २०यदि पुनः संसारिणः कुंभकारस्य कर्मनिमित्तेच्छा सिद्धासदामुक्तस्य तु कर्मांभावे ऽपीच्छाशक्तिः । संभवति सोपायमुक्तस्येच्छापायात् न च तद्वदीश्वरस्यतदसंभव इति मतं । तदा सा महेश्वरेच्छाशक्ति- र् अभिव्यक्तानाभिव्यक्ता वा । न तावद् अभिव्यक्तातदाभिव्यंजकाभावात् तज्ज्ञानम् एव तदभिव्यंजकम् इति- चेत् न तस्य शश्वत्सद्भावाद् ईश्वरस्यसदेच्छाभिव्यक्तिप्रसंगात् । न चैवं तस्याः कादाचित्कत्वात् । अन्यथा वर्षशतांते वर्षशतांते महेश्वरेच्छोत्पद्यते इतिसिद्धांताविरोधात् । यदि पुनस् तन्वाद्युपभोक्तृ- २५प्राणिगणादृष्टं तदभिव्यंजकम् इति मतिः तदा तददृष्टमीश्वरेच्छानिमित्तकम् अन्यनिमित्तकं वा । प्रथम- पक्षे परस्पराश्रयदोषः सत्याम् ईश्वरेच्छाभिव्यक्तौप्राणिनामदृष्टं सति च तददृष्ठे महेश्वरेच्छाभिव्यक्ति- र् इति । स्यान् मतं प्राणिनाम् अदृष्टं पूर्वेश्वरेच्छानिमित्तकंतदभिव्यक्तिश् च तत्पूर्वप्राण्यदृष्टनिमित्तात् तद् अ- पि तददृष्टं पूर्वेश्वरेच्छानिमित्तकाम् इत्य् अनादिर् इयंकार्यकारणभावेन प्राणिगणादृष्टेश्वरेच्छाभिव्यक्त्योः संततिः । ततो न परस्पराश्रयदोषो बीजांकुरसंततिवद् इति । तद् अनुपपन्नं । एकानेकप्राण्यदृष्टनिमित्त- ३०त्वविकल्पद्वयानतिक्रमात् । सा हीश्वरेच्छाभिव्यक्तिर् यद्येकप्राण्यदृष्टिनिमित्ता तदा तद्भोग्यकायादि- कार्योत्पत्ताव् एव निमित्तं स्यात् नसकलप्राण्युभोग्यकायादिकार्योत्पत्तौ, तथा चसकृदनेकप्राण्युप- भोग्य कायादिकार्योपलब्धिर् न स्यात् । यदि पुनरनेकप्राण्यदृष्टनिमित्ता तदा तस्या नानास्वभावप्रसंगो नानाकायादिकार्यकरणात् । न ह्येकप्राण्युपभोग्यकायादिनिमित्तेनैकेनस्वभावेनेश्वरेच्छाभिव्यक्ता, नानाप्राण्युपभोग्यकायादिकार्यकरणा समर्था, अतिप्रसंगात् । यदि पुनस् तादृश एवैकस्वभावो नाना- ३५प्राण्यदृष्टनिमित्तो येन नानाप्राण्युपभोग्यकायादिकार्याणांनानाप्रकाराणाम् ईश्वरेच्छा निमित्तकारणं १४भवतीति मतं तदा न किंचिद् अनेकस्वभावं वस्तुसिद्ध्येत विचित्रकार्यकरणैकस्वभावाद् एव भावाद् विचित्र- कार्योत्पत्तिघटनात् । तथा च घटादिर् अपिरूपरसगंधस्पर्शाद्यनेकस्वभावाभावे ऽपि रूपादिज्ञानमनेकं कार्यं कुर्वीत, शक्यं हि वक्तुं तादृगेकस्वभावो घटादेर्येन चक्षुराद्यनेकसामग्री सन्निधानाद् अनेकरूपादिज्ञा- नजनननिमित्तं भवेद् इति । कुतः पदार्थनानात्वव्यवस्था । प्रत्ययनानात्वस्यापि पदार्थैकत्वे ऽपि भावा- ०५विरोधात् । न हि द्रव्यम् एकः पदार्थःनानागुणादिप्रत्ययविशेषजननैकस्वाभावो विरुध्यते । यदि पुनः प्रत्ययविशेषादिकार्यभेदाद्द्रव्यगुणादिपदार्थनानात्व व्यवस्थाप्यते तदामहेश्वरेच्छायाः सकृ- द् अनेकप्राण्युपभोगयोग्यकायादिकार्यनानात्वान्नानास्वभावत्वं कथम् इव न सिध्येत । यदि पुनरीश्व- रेच्छाया नानासहकारिण एव नानास्वभावास् तद्व्यतिरेकेणभावस्य स्वभावायोगाद् इति मतं तदा स्वभावतद्वतोर् भेदैकांताभ्युपगमः स्यात् तस्मिंश् चस्वभाव तद्भावविरोधः सह्यविंध्यवद् आपनीपद्येत प्रत्या- १०सत्तिविशेषान् नैवम् इति चेत् कः पुनर् असौप्रत्यासत्तिविशेषः समवायिनां सहकारिणां समवायोऽसमवा- यिनां कार्यैकार्थसमवायः कार्यकारणैकार्थसमवायो वानिमित्तकारणानां तु कार्योत्पत्ताव् अपेक्षा कर्तृ- समवायिनी कर्मसमवायिनी वाऽपेक्षमाणता प्रत्यासत्तिर् इतिचेत् ईश्वरोदिक्कालाकाशादीनि च सर्व- कार्याणाम् उत्पादककारणस्वभावत्वं प्रतिपद्येरन् तस्यतेषां च तदुत्पत्तौ निमित्तकारणत्वात् । तथा सकलप्राण्यदृष्टानां कार्यादिकार्यसमवाय्यसमवायिकारणानांच महेश्वरस्वभावत्वं दुर्निवारं काया- १५दिकार्य्योत्पत्तौ तत्सहकारित्वसिद्धेर् इतिसर्वमसमंजसमासज्येत नानास्वभावैकेश्वरतत्त्वसिद्धेःतथा च परमब्रम्हेश्वर इति नाममात्रं भिद्येत परमब्रह्मणएवैकस्य नानास्वभावस्य व्यवस्थितेः । स्यान् मतं कथ- म् एकं ब्रह्म नानास्वभावायोगि भावांतराभावे भवेत्, भावांतराणाम् एव प्रत्यासत्तिविशिष्टानां स्वभावत्वाद् इति । तद् अप्य् अपेशलं । भावांतराणां स्वभावत्वे कस्यचिद् एकेनस्वभावेन प्रत्यासत्तिविशेषेण प्रतिज्ञायमाने नाना- त्वविरोधात् । प्रत्यासत्तिविशेषैर् नानास्वभावैस् तेषांस्वभावत्वान् नानात्वे ते ऽपि प्रत्यासत्तिविशेषाः स्वभा- २०वास् तद्वतो ऽपरैः प्रत्यासत्तिविशेषाख्यैः स्वभावैर्भवेयुर् इत्य् अनवस्थाप्रसंगात् सुदूरम् अपि गत्वा स्वभाववतः स्वभावानां स्वभावांतरनिरपेक्षत्वे प्रथमे ऽपि स्वभावाःस्वभावांतरनिरपेक्षाः प्रसज्येरन् । तथा च सर्वे सर्वस्य स्वभावा इति स्वभावसंकरप्रसंगः तंपरिजिहीर्षता न स्वभावतद्वतोर् भेदैकांतो ऽभ्युपंगतव्यः तदभेदैकांते च स्वभावानां तद्वति सर्वात्मनानुप्रवेशात्तद् एवैकं तत्त्वं परमब्रह्मेति निगद्यमानं न प्रमाण- विरुद्धं स्यात् तद् अप्य् अनिच्छता स्वभावतद्वतोः कथंचित्तादात्म्यम् एषितव्यं । तथा चेश्वरेच्छायाः नाना- २५स्वभावाः कथंचित् तादात्म्यम् अनुभवंतो ऽनेकांतात्मिकामीश्वरेच्छां साधयेयुः । ताम् अप्य् अनिच्छतैकस्वभावे- श्वरेच्छा प्रतिपत्तव्या, साचैकेन प्राण्यदृष्टेनाभिव्यक्तांतदेकप्राण्युपभोगयोग्यम् एव कायादिकार्यं कुर्यात् ततो न सकृद् अनेककायादिकार्योत्पत्तिर् इति नप्राण्यदृष्टनिमित्तेश्वरेच्छाऽभिव्यक्तिः सिध्येत् । एतेन पदार्थांतरनिमित्ताऽपीश्वरेच्छाऽभिव्यक्तिर् अपास्ता । स्यान् मतं महेश्वरेच्छाऽनभिव्यक्तैव कार्यजन्मनि निमित्तं, कर्मनिबंधनाया एवेच्छायाः क्वचिद् अभिव्यक्तायानिमित्वदर्शनात् तदिच्छायाः कर्मनिमित्तत्वा- ३०भावाद् इति । तद् अप्य् असंबद्धं । कस्याश्चिद् इच्छायाःसर्वथाऽनभिव्यक्तायाः क्वचित् कार्ये क्रियाहेतुत्वासिद्धेर् अज्ञ- जंतुवत् । कर्माभावे चेच्छायाः सर्वथाऽनुपपत्तेः । तथाहि विवादाध्यासितः पुरुषविशेषो नेच्छावान् निःकर्मत्वात् यो यो निःकर्मा स स नेच्छावान् यथामुक्तात्मानिःकर्माचायं तस्मान् नेच्छावान् इति नेश्वरस्येच्छासंभवः तदभावे च न प्रयत्नः स्यात्तस्येच्छापूर्वकत्वात् तदभावे भावाविरोधात् इति बुद्धीच्छाप्रयत्नमात्रादीश्वरो निमित्तं कायादिकार्योत्पत्तौकुंभाद्युत्पत्तौ कुंभकारवद् इति व व्यवतिष्ठते । ३५स्याद् आकूतं ते विवादापन्नः पुरुषविशेषः प्रकृष्टज्ञानयोगीसदैवैश्वर्ययोगित्वात् यस् तु न प्रकृष्टज्ञानयोगी नासौ सदैवैश्वर्ययोगी यथा संसारी । मुक्तश् चसदैवैश्वर्ययोगी च भगवान् तस्मात् प्रकृष्टज्ञानयोगी सिद्धः । स च प्राणिनां भोगभूतये कायादिकार्योत्पत्तौसिसृक्षावान् प्रकृष्टज्ञानयोगित्वात् यस् तु न १५तथा स न प्रकृष्टज्ञानयोगी यथा संसारी । मुक्तश्च प्रकृष्टज्ञानयोगीचायं तस्मात् तथेति तस्येच्छा- वत्वसिद्धिः । तथा च प्रयत्नवान् असौ सिसृक्षावत्वात् । योयत्र सिसृक्षावान् स तत्र प्रयत्नवान् दृष्टः यथा घटोत्पत्तौ कुलालः । सिसृक्षावांश् चतनुकरणभुवनादौ भगवान् तस्मात् प्रयत्नवान् इतिज्ञानेच्छा- प्रयत्नत्वसिद्धेः । निःकर्मणो ऽपि सदाशिवस्याशरीरस्यापितन्वादिकार्योत्पत्तौ निमित्तकारणत्वसिद्धे- ०५र् मोक्षमार्गप्रणीताव् अपि तत्कारणत्वसिद्धिः बाधकाभावादिति । तद् एतद् अप्य् असमंजसं । सर्वथा निःकर्मणः कस्यचिद् ऐश्वर्यविरोधात् । तथा हि विवादाध्यासितः पुरुषोनैश्वर्ययोगी निःकर्मकत्वात् यो यो निःकर्मा स स नैश्वर्ययोगी यथा मुक्तात्मा । निःकर्माचायं तस्मान्नैश्वर्ययोगी । नन्व् एनोमलैर् एवास्पृष्टत्वाद् अनादि योगजधर्मेण योगादीश्वरस्य निःकर्मत्वम् असिद्धाम् इति चेत्न तर्हि सदामुक्तो ऽसौ धर्माधर्मक्षयाद् एव मुक्ति प्रसिद्धेः शश्वत्क्लेशकर्मविपाकाशयैर् अपरामृष्टत्वादनादियोगजधर्मसंबंधे ऽपि जीवन् मुक्तेर् अविरोध एव १०वैराग्येश्वर्यज्ञानसंबंधे ऽपि तदविरोधवद् इति चेत्तर्हि परमार्थतो मुक्तामुक्तस्वभावता महेश्वरस्याभ्युप- गता स्यात् तथाचानेकांतसिद्धिर् दुर्न्निवारा । एतेनानादिबुद्धिमान् निमित्तत्वयोगाद् ईस्वरस्य धर्मज्ञान- वैराग्यैश्वर्ययोगात् शश्वत्क्लेशकर्मविपाकाशयैरपरामृष्टत्वाच् च सदैवं मुक्तत्वं सदैवेश्वरत्वंब्रुवाणो नैकां- तम् अभ्यनुजानातीति निवेदितं प्रतिपत्तव्यं । कथंचिन्मुक्तत्वस्य कथंचिद् अमुक्तत्वस्य च प्रसिद्धेः । ततो ऽनेकांतात्मकत्वप्रसंगपरिजिहीर्षुणा सर्वथा मुक्तएवेश्वरः प्रवक्तव्यः तथा च सर्वथा निःकर्मत्वं १५तस्योररीकर्तव्यम् इति नासिद्धं साधनं । नाप्यनैकांतिकं विपक्षे वृत्त्यसिद्धेः । क्वचिद् ऐश्वर्ययोगिनि त्रिदशेश्वरेत्यादौ सर्वथा निःकर्मत्वस्य वृत्त्यसिद्धेःतत एव न विरुद्धं । नापि कालात्ययापदिष्टं पक्षस्य प्रमाणेनाबाधनात् । न हि प्रत्यक्षतो ऽस्मदादिभिरैश्वर्ययोगी कश्चिन् निःकर्मोपलभ्यते यतः प्रात्यक्षबाधितः पक्षः स्यात् । नाप्य् अनुमानतस् तत्र सर्वस्यानुमानस्यव्यापकानुपलंभेन बाधितपक्षस्य कालात्ययापदिष्ट- त्वसाधनात् । नाप्य् आगमतस् तस्योपलंभस् तत्र तस्ययुक्त्याननुगृहीतस्य प्रामाण्यविरोधात् । तदनुग्रा- २०हिकाया युक्तेर् असंभवाद् एव युक्त्यनुगृहीतस्यापि नतत्रागमस्य संभावना यतः प्रामाण्येनाबाध्यमानः पक्षो न सिद्ध्येत् हेतोश् चकालात्ययापदिष्टत्वं परिहारो नभवेत् । एतेन सप्रतिपक्षत्वं साधनस्य निरस्तं । प्रतिपक्षानुमानस्य निरवद्यस्यसंभवाभावसाधनात् । तद् एवम् अस्माद् अनुमानादैश्वर्यविरहसा- धने महेश्वरस्येच्छाप्रयत्नविरहो ऽपि साधितः स्यात्धर्मविरहवत् । यथैव हि निःकर्मत्वम् ऐश्वर्यविरहं साधयति तथेच्छाप्रयत्नम् अपि तस्य तेन व्याप्तिसिद्धेः । कस्यचिद् इच्छावतः प्रयत्नवतश् च परमैश्वर्य २५योगिनो ऽपींद्रादेर् निःकर्मत्वविरोधसिद्धेः । ज्ञानशक्तिस् तुनिःकर्मणो ऽपि कस्यचिन् न विरुध्यते चेतनात्म- वादिभिः कैश्चिद् वैशेषिकसिद्धांतम् अभ्युगच्छद्भिर्मुक्तात्मन्य् अपि चेतनायाः प्रतिज्ञानात् । चेतना च ज्ञान- शक्तिर् एव न पुनस् तद्व्यतिरिक्ता चिच्छक्तिर् अपरिणामिन्यप्रतिसंक्रमाऽदर्शितविषया शुद्धा चाऽनंता च यथा कापिलैर् उपवर्ण्यते तस्याः प्रमाणविरोधात् तथा चमहेश्वरस्य कर्मभिर् अस्पृष्टस्यापि ज्ञानशक्तिर् अ- शरीरस्यापि च मुक्तात्मन इव प्रसिद्धा तत्प्रसिद्धौ च । ३०ज्ञानशक्त्यैव निःशेषकार्योत्पत्तौ प्रभुः किल । सदेश्वर इति ख्यानेऽनुमानम् अनिदर्शनं ॥ १२ ॥ न हि कश्चित् कस्यचित् कार्योत्पत्तौ ज्ञानशक्त्येव प्रभुरुपलब्धा यतोविवादाध्यासितः पुरुषो ज्ञान- शक्त्यैव सर्वकार्याण्युत्पादयति प्रभुत्वाद् इत्य् अनुमानमनुदाहरणं न भवेत् । ननु साधर्म्योदाहरणाभावे ऽपि वैधर्म्योदहरणसंभवान् नाऽनुदाहरणम् इदम् अनुमानं । तथा हि यस् तु ज्ञानशक्त्यैव न कार्यम् उत्पादयति ३५स न प्रभुः यथा संसारी कर्मपरतंत्र इतिवैधर्म्येण निदर्शनं संभवत्य् एवेति न मंतव्यं । साधर्म्यो- दाहरणविरहे ऽन्वयनिर्णयाभावाद् व्यतिरेकनिर्णयस्यविरोधात् । तथा शक्रादेर् ज्ञानेच्छाप्रयत्नविशेषैr१६स्वकार्यं कुर्वतः प्रभुत्वेन व्यभिचाराच् च नहींद्रोज्ञानशक्त्यैव स्वकार्यं कुरुते तस्येच्छाप्रयत्नयोरपि भावात् नचास्य प्रभुत्वम् असिद्धं प्रभुत्वसामान्यस्यसकलामरविषयस्य स्वातंत्रलक्षणस्यापि सद्भावात् ॥ प्रति- वादि प्रसिद्धम् अपि निदर्शनम् अनूद्य निराकुर्वन्न् आह — समीहाम् अंतरेणापि यथावक्ति जिनेश्वरः । ०५तथेश्वरो ऽपि कार्याणि कुर्याद् इत्य् अप्य् अपेशलं ॥ १३ ॥ सति धर्मविशेषे हि तीर्थकृत्त्वसमाह्वये । ब्रूयाज् जिनेश्वरो मार्गं न ज्ञानाद् एव केवलात् ॥ १४ ॥ सिद्धस्यापास्तनिःशेषकर्मणे वागसंभवात् । विना तीर्थकरत्त्वेन नाम्ना नार्थोपदेशना ॥ १५ ॥ १०महेश्वरः समीहामंतरेणापि प्रयत्नं च ज्ञानशक्त्यैवमोक्षमार्गप्रणयनं तन्वादिकार्यं च कुर्वीत महे- श्वरत्वात् यथा प्रतिवादिप्रसिद्धो जिनेश्वरःप्रवचनोपदेशम् इति प्रतिवादिप्रसिद्धम् अपि निदर्शनम् अनुमा- नस्य नोपपद्यते स्याद्वादिभिः प्रतिज्ञायमानस्यजिनेश्वरस्य ज्ञानशक्त्यैव प्रवचनलक्षणकार्यकारणासिद्धेः सत्य् एव तीर्थकरत्वनामपुण्यातिशयेदर्शनविशुद्ध्यादिभावनाविशेषनिबंधनेसमुत्पन्नकेवलज्ञानस्योदय- प्राप्ते प्रवचनाख्यतीर्थकरणप्रसिद्धेः । प्रक्षीणाशेषकर्मणः सिद्धस्य वाक्प्रवृत्तेर् असंभवात्तीर्थं करत्वनामपु- १५ण्यातिशयापाये केवलिनो ऽपि वाक्प्रसिद्ध्यसंभववत् ? इतिधर्मविशेषविशिष्ट एवोत्तमसंहननशरीरः केवली प्रवचनाख्यतीर्थस्य कर्ता प्रसिद्ध इति कथमसौ निदर्शनं महेश्वरस्यापि ॥ १६ ॥ तथा धर्मविशेषो ऽस्य योगश् च यदि शाश्वतः । तदेश्वरस्य देहो ऽस्तु योग्यंतरवद् उत्तमः ॥ १६ ॥ यस्य हि धर्मविशेषो योगविशेषश् च महर्षियोगिनःप्रसिद्धः तस्य देहो ऽप्य् उत्तम एवायोगिजन- २०देहाद्विशिष्टः प्रसिद्धस् तथा महेश्वरस्यापिदेहेनोत्तमेन भवितव्यं तम् अंतरेण धर्मविशेषस्ययोगविशेषस्य वाऽनुपपत्तिर् ऐश्वर्यायोगाद् वैराग्यायोगवत् । कुतोजगन्निमित्तकरणत्वं सिद्धयंदज्ञजंतुवन् मुक्तात्मवच् च मतांतरम् आशंक्य निराकुर्वन्न् आह । निग्रहानुग्रहौ देहं स्वं निर्मायान्यदेहिनां । करोतीश्वर इत्य् एतन् नपरीक्षाक्षमं वचः ॥ १७ ॥ २५कस्यचिद् दुष्टस्य निग्रहं शिष्टस्य चानुग्रहंकरातीश्वरः प्रभुत्वात् लोकप्रसिद्धप्रभुवत् । न चैवं नानैश्वरसिद्धिः नानाप्रभूणामेकमहाप्रभुतंत्रत्वदर्शनात् । तथा हि विवादाध्यासितानानाप्रभव एक महाप्रभुतंत्रा एव नानाप्रभुत्वात् ये ये नानाप्रभवस् तेते अत्रैकमहाप्रभुतंत्रा दृष्टाः यथा सामंत मांडलिकादय एकचक्रवर्तितंत्राः प्रभवश् चैतेनानाचक्रवर्तींद्रादयः तस्माद् एकमहाप्रभुतंत्रा एव योऽसौ महाप्रभुः स महेश्वर इत्य् एकेश्वरसिद्धिः । स चस्वदेहनिर्माणकरो ऽन्यदेहिनां निग्रहानुग्रहकरत्वात् यो ३०यो ऽन्यदेहिनां निग्रहानुग्रहकरः स स्वदेह निर्माणकरोदृष्टो यथा राजा । तथा चायम् अन्यदेहिनां निग्र- हानुग्रहकरः तस्मात् स्वदेहनिर्माणकर इति सिद्धं । तथासति स्वं देहं निर्मायान्यदेहिनां निग्रहानुग्र- हौ करोतीश्वर इति केषांचित् वचः तच् च न परीक्षाक्षमंमहेश्वरस्याशरीरस्य स्वदेहनिर्माणानुपपत्तेः तथा हि । १७देहांतराद् विना तावत् स्वदेहं जनयेद् यदि । तदा प्रकृतकार्ये ऽपि देहाधानम् अनर्थकं ॥ १८ ॥ देहांतरात् स्वदेहस्य विधाने चानवस्थितिः । तथा च प्रकृतं कार्यं कुर्याद् ईशो न जातुचित् ॥ १९ ॥ ०५यदि हीश्वरो देहांतराद् विनाऽपि स्वदेहम् अ१नुध्यानमात्रादुत्पादयेत् तदाऽन्यदेहिनां निग्रहानुग्रहलक्षणं कार्यम् अपि प्रकृतं तथैव जनयेद् इति तज्जननेदेहाधानम् अनर्थकं स्यात् । यदि पुनर् देहांतराद् एवस्वदेहं विदधीत तदा तद् अपि देहांतरम् अन्यस्माद् देहाद् इत्य् अनवस्थितिःस्यात्, तथा चापरापरदेहनिर्माण एवोपक्षीणशक्तिकत्वात् न कदाचित् प्रकृतं कार्यं कुर्याद् ईश्वरः यथैव हिप्रकृतकार्यजननायापूर्वं शरीरम् ईश्वरो निष्पादयतितथैव तच्छरीरनिष्पादनायापूर्वं शरीरांतरं निष्पादयेद् इतिकथम् अनवस्था विनिवार्येत, न हि केषांचित् प्राणिनां १०निग्रहानुग्रहकरणात् पूर्वं शरीरम् ईश्वरस्य प्रयुज्यतेततो ऽपि पूर्वं शरीरांतरप्रसंगात् । अनादिशरीरसंतति सिद्धेर् अशरीरत्वविरोधात् । न चैकेन निर्माणशरीरेणनानादिग्देशवर्तिप्राणिविशेषनिग्रहानुग्रह- विधानम् ईश्वरस्य घटते, यतो युगपन् नानानिर्माणशरीराणितस्य न स्युः तदभ्युपगमे च तन्निर्माणाय नानाशरीरांतराणि भवेयुर् इत्य् अनादिनानाशरीरसंततयःकथम् ईश्वरस्य न प्रसज्येरन् । यदि पुनर् एकेन शरीरेण नाना स्वशरीराणि कुर्वीत युगपत्क्रमेण वातदैकेनैव देहेन नानादिग्देशवर्तिप्राणिगणनिग्रहा- १५नुग्रहाव् अपि तथैव कुर्वीत । तथा चकणादगजासुराद्यनुग्रहनिग्रहविधानायोलूकादितदनुरूपशरीर- नानात्वकथनं न युक्तिपथप्रस्थायि स्यात् । यदि पुनर् नदेहांतराद् विना स्वदेहं जनयेत्, नापि देहांतरात्, स्वयम् ईश्वरस्य सवर्था देहाविधानाद् इति मतं तद् अपिदूषयन्न् आह — स्वयं देहाविधाने तु तेनैव व्यभिचारिता । कार्यत्वादेः प्रयुक्तस्य हेतोर् ईश्वरसाधने ॥ २० ॥ २०यदि हीश्वरो न स्वयं स्वदेहं विधत्तं तदाऽसौतद्देहः किं नित्यः स्याद् अनित्यो वा न तावन् नित्यः सावयवत्वात् । यत् सावयवं तद् अनित्यं दृष्टं यथाघटादि । सावयवश् चेश्वरदेहस् तस्मान् न नित्य इति बाधकस- द्भावात् । यदि पुनर् अनित्यः तदा कार्यो ऽसौ कुतः प्रादुर्भवेत् । महेश्वरधर्मविशेषाद् एवेति चेत् तर्हि सर्व- प्राणिनां शुभाशुभशरीरादिकार्यं तद्धर्माधर्मेभ्य एवप्रादुर् भवेद् इति, किं कृतम् ईश्वरेण निमित्तकारणतया परिकल्पितेन । तथा च विवादापन्नं तनुकरणभुवनादिकंबुद्धिमन्निंमित्तकं कार्यत्वात् स्वारंभकावयव- २५सन्निवेशविशिष्टत्वाद् अचेतनोपादानत्वाद् इत्यादेर् हेतोरीश्वरसाधनाय प्रयुक्तस्येश्वरदेहेन व्यभिचारिता स्यात् तस्यानीश्वरनिमित्तत्वे ऽपि कार्यत्वादिसिद्धेर् इति ततोनेश्वरसिद्धिः संभाव्यते । सांप्रतं शंकरमतम् आ- शंक्य दूषयन्न् आह — यथाऽनीशः स्वदेहस्य कर्ता देहांतरान् मतः । पूर्वस्माद् इत्य् अनादित्वान् नानवस्था प्रसज्यते ॥ २१ ॥ ३०तथेशस्यापि पूर्वस्माद् देहाद् देहांतरोद्भवात् । नानवस्थेति यो ब्रूयात् तस्याऽनीशत्वम् ईशितुः ॥ २२ ॥ अनीशः कर्मदेहेनाऽनादिसंतानवर्तिता । यथैव हि सकर्मानस् तद्वन् न कथम् ईश्वरः ॥ २३ ॥ १८न ह्यनीशः१ स्वशरीरस्य शरीरांतरेण विना कर्ताप्र२तिवादिनः सिद्धो यम् उदाहरणीकृत्याशरीरस्या- पीशस्य स्वशरीरनिर्माणाय सामर्थ्यं समर्थ्यते अनवस्थाचापाद्यमाना निषिध्यते । पूर्वपूर्वशरीरापेक्ष- यापि तदुत्तरोत्तरशरीरकरणे । किं तर्हि कार्मणशरीरेणसशरीर एवानीशः शरीरांतरम् उपभोगयोग्यं निष्पादयतीति परस्य सिद्धांतः तथा यदीशःपूर्वकर्मदेहेन स्वदेहम् उत्तरं निष्पादयेत् तदा सकर्मैवस्यात् न ०५शश्वत्कर्मभिर् अस्पृष्टः सिद्ध्येत् तस्यानीशवदनादिसंतानवर्तिना कर्मशरीरेण संबंधसिद्धेः । सकलकमर्णो ऽप्य् अ- पाये स्वशरीरकरणायोगान् मुक्तवत् सर्वथानिःकर्मणोबुद्धीच्छाद् वेषप्रयत्नासंभवस्यापि साधनात् ॥ ततो नेशस्य देहो ऽस्ति प्रोक्तदोषानुषंगतः । नापि धर्मविशेषो ऽस्य देहाभावे विरोधतः ॥ २४ ॥ येनेच्छाम् अंतरेणापि तस्य कार्ये प्रवर्तनं । १०जिनेंद्रवद् घटेतेति नोदाहरणसंभवः ॥ २५ ॥ इत्य् उपसंहारश्लोकौ । सांप्रतम् अशरीरस्य सदाशिवस्ययैर् ज्ञानम् अभ्युपगतं त एव प्रष्टव्याः किम् ईशस्य ज्ञानं नित्यम् अनित्यं चेति पक्षद्वये ऽपि दूषणम् आह — ज्ञानम् ईशस्य नित्यं चेद् अशरीरस्य न क्रमः । कार्याणाम् अक्रमाद् धेतोः कार्यक्रमविरोधतः ॥ २६ ॥ १५ननु च ज्ञानस्य महेश्वरस्य नित्यत्वे ऽपि नाक्रमत्वंनिरन्वयक्षणिकस्यैवाक्रमत्वात् कालांतर देशांतरप्राप्तिविरोधात् कालापेक्षस्य देशापेक्षस्य चक्रमस्यासंभवात् । संतानस्याप्य् अवस्तुत्वात् परमा- र्थतः क्रमवत्त्वानुपपत्तेः कूटस्थनित्यवत् न हि यथासांख्याः कूटस्थं पुरुषम् आमनंति तथा वयम् ईश्वर- ज्ञानं मन्यामहे तस्य सातिशयनित्यत्वात् क्रमोपपत्तेःनिरतिशयं हि पुरुषतत्त्वं प्रतिसमयं स्वरूपेणैवा- स्तीति शब्दज्ञानानुपातिना विकल्पेन वस्तुशून्येन पूर्वम् आसीदिदानीम् अस्ति पश्चाद् भविष्यतीति क्रमवद् इ- २०व लोकैर् व्यवहारपदवीमानीयत इति न परमार्थतःक्रमवत्त्वं तस्य सांख्यैर् अभिधीयते न च क्रमेणानेक- कार्यकारित्वं तस्याकर्तृत्वात् सदोदासीनतयाऽव३स्थितत्वात् । न च क्रमेणाक्रमेण चार्थक्रियापाये तस्या- वस्तुत्वम् इति केषां४चिद् दूषणम् अवकाशं लभते । वस्तुनोऽर्थक्रियाकारित्वलक्षणाप्रतिष्ठानात् । अन्यथोदा५- सीनस्य किंचिद् अकुर्वतो वस्तुत्वाभाव प्रसंगात् । सत्तायाएव वस्तुलक्षणोपपत्तेर् अभावास्यापि वस्त्वंतर- स्वभावस्य पुरुषतत्त्वस्य इव स्वसत्तानतिक्रमाद्वस्तुत्वाविरोधात् सामान्यादेर् अपि स्वरूपसत्त्वस्य वस्तुल- २५क्षणस्याभ्युपगमात् । न किंचिद् वस्तु सत्तालक्षणंव्यभिचरतीति कापिलानां दर्शनं । न पुनर् वैशेषिकाणां ईश्वरज्ञानस्योदासीनस्य कल्पनेतत्कल्पनावैयर्थ्यप्रसंगात् कार्यकारिणैव तेनभवितव्यं यच् च कार्यकारि तत् सातिशयम् एव युक्तं । न चैवंपरिणामिनित्यता ज्ञानस्य सांख्यपरिकल्पितप्रधानवत्प्रसज्यते, तदतिशयानां क्रमभुवां ततो भिन्नत्वात्, तदभेदेऽतिशयानाम् इवेश्वरज्ञानस्यापि नाशोत्पादप्रसंगात् । ईश्वरज्ञानवद् वा तदतिशयानामनुत्पादविनाशधर्मकत्वप्रसंगात् । तद् एवम् ईश्वरज्ञानंक्रमेणानेकातिशय ३०संपाते क्रमवद् एव । क्रमवतश् चेश्वरज्ञानात् कार्याणांक्रमो न विरुध्यत एव, सर्वथाप्य् अक्रमाद् एव हेतोः कार्य- क्रमविरोधसिद्धेः । एतेन सांख्यैः परिकल्प्यमानस्यपुरुषस्य निरतिशयस्य सर्वदोदासीनस्य वैयर्थ्यम् आ- पादितम् इति बोद्धव्यं । वैशेषिकाणाम् आत्मादिवस्तुनोनित्यस्याप्य् अर्थांतरभूतैर् अतिशयैः सातिशयत्वोपगमा- त् सर्वदोदासीनस्य कस्यचिद् अप्रतिज्ञानाद् इति केचिद् आचक्षते । ते ऽप्य् एवं प्रष्टव्याः कथम् ईश्वरस्य ज्ञानस्य ततो ऽर्थांतरभूतानाम् अतिशयानां क्रमवत्त्वे वास्तवंक्रमवत्त्वं सिद्ध्येत, तेषां तत्र समवायाद् इति चेत् समानः ३५पर्यनुयोगः कथम् अर्थांतरभूतानाम् अतिशयानामीश्वरज्ञान एव समवायो न पुनर् अन्यत्रेति तत्रैवेहेदमिति प्रत्ययविशेषोत्पत्तेर् इति चेत् ननु स एवेहेदम् इतिप्रत्ययविशेषः कुतो ऽन्यत्रापि न स्यात् सर्वथा १९विशेषाभावात् । यथैव हि, इह महेश्वरज्ञानेऽतिशया इति ततो ऽर्थांतरभाविनो ऽपि प्रतीयंते तथेह घटे ते ऽतिशयाः प्रतीयंतां । तत्रैव तेषां समवायादिहेदम् इति प्रत्ययविशेषो न पुनर् अन्यत्रेति चेत् सोय- म् अन्योन्यसंश्रयः । सतीहेदम् इति प्रत्ययविशेषे ऽतिशयानामीश्वरज्ञान एव समवायः सिद्ध्येत् तत्रैव तेषां समवायाद् इहेदम् इति प्रत्ययविशेषो नियम्यत इतिनैकस्यापि प्रसिद्धिः । भवतु वा तेषां तत्र ०५समवायः, स तु क्रमेण युगपद् वा, क्रमेण चेत् कथमक्रमम् ईश्वरज्ञानं क्रमभाव्यनेकातिशयसमवाय- क्रमेण प्रतिपद्यत इति दुरवबोधं, क्रमवर्तिभिरतिशयांतरैरीश्वरज्ञानस्य क्रमवत्वसिद्धेर् अदोषो ऽयम् इति चेत् ननु तान्य् अप्य् अन्यान्य् अतिशयांतराणीश्वरज्ञानादर्थांतरभूतानि कथं तस्य क्रमवत् तां साधयेयुर् अति- प्रसंगात् । तेषां तत्र समवायाद् इति चेत् स तर्हितत्समवायः क्रमेण युगपद् वेत्य् अनिवृत्तः पर्यनुयोगो ऽनव- स्था च । यदि पुनर् युगपद् ईश्वरज्ञाने ऽतिशयानांसमवायस् तदा तन्निबंधनो ऽपि तस्य क्रमो । दूरोत्सारित १०एव तेषाम् अक्रमत्वाद् इतिसातिशयस्यापीश्वरज्ञानस्याक्रमत्वसिद्धिः । तथाचाक्रमाद् ईश्वरज्ञानात् कार्याणां क्रमो न स्याद् इति सूक्तं दूषणं । किं च तदीश्वरज्ञानंप्रमाणं स्यात् फलं वा पक्षद्वये ऽपि दोषम् आदर्शयन्नाह — तद्बोधस्य प्रमाणत्वे फलाभावः प्रसज्यते । ततः फलावबोधस्यानित्यस्येष्टौ मतक्षतिः ॥ २७ ॥ फलत्वे तस्य नित्यत्वं न स्यान् मानात् समुद्भवात् । १५ततो ऽनुद्भवने तस्य फलत्वं प्रतिहन्यते ॥ २८ ॥ नेश्वरज्ञानं नित्यं प्रमाणं सिद्ध्येत् तस्य फलाभावात् । फलज्ञानस्यानित्यस्य परिकल्पने च महेश्व- रस्य नित्यानित्यज्ञानद्वयपरिकल्पनायां सिद्धांतविरोधात् । फलत्वेवेश्वरज्ञानस्य नित्यत्वं न स्यात् प्रमाणतस् तस्य समुद्भवात् । ततो ऽनुद्भवे तस्यफलत्वविरोधान् न नित्यम् ईश्वरज्ञानम् अभ्युपगमनीयं तस्यनिग- दितदोषानुषंगेण निरस्तत्वात् । किं तर्ह्य् अनित्यम् एवेश्वरज्ञानम् इत्य् अपरे । तन्मतम् अनूद्य निराकुर्वन्न् आह — २०अनित्यत्वे तु तज्ज्ञानस्यानेन व्यभिचारिता । कार्यत्वादेर् महेशेनाकरणे ऽस्य स्वबुद्धितः ॥ २९ ॥ बुध्द्यंतरेण तद्बुद्धेः करणे चानवस्थितिः । नानादिसंततिर् युक्ता कर्मसंतानतो विना ॥ ३० ॥ अनित्यं हीश्वरज्ञानम् ईश्वरबुद्धिकार्यं यदि नेष्यतेतदा तेनैव कार्यत्वादिहेतुस् तनुकरणभुवनादेर् बु- २५द्धिमत्कारणत्वे साध्ये ऽनैकांतिकः स्यात् । यदि पुनर्बुद्ध्यंतरेण स्वबुद्धिम् ईश्वरः कुर्वीत तदा परापरबुद्धि- प्रतीक्षायाम् एवोपक्षीणत्वाद् ईश्वरस्य प्रकृतबुद्धेः करणंन स्याद् अनवस्थानात् । स्यान् मतं प्रकृतबुद्धेः करणे ना- ऽपूर्वबुद्ध्यंतरं प्रतीक्षते महेशः । किं तर्हिपूर्वोत्पन्नां बुद्धिम् आश्रित्य प्रकृतां बुद्धिं कुरुतं ताम् अपितत्पूर्व- बुद्धिम् इत्य् अनादिर् बुद्धिसंततिर् ईश्वरस्य ततोनानवस्थेति । तद् अप्य् असत् । तथा बुद्धिसंतानस्यकर्मसंतानापाये ऽसंभवात् । क्रमजन्मा हि बुद्धिः परापरतद्धेतोरदृष्टविशेषस्य क्रमाद् उत्पद्यते नान्यथा । यदि पुनर्योग- ३०जधर्मसंततेर् अनादेर् ईश्वरस्य सद्भावाद् अयम१नुपालंभः पूर्वस्मात् समाधिविशेषाद्धर्मस्यादृष्टविशेषस्योत्पादा- त् ततो बुद्धिविशेषस्य प्रादुर्भावाददृष्टसंताननिबंधनाया एव बुद्धिसंततेरभ्युपगमाद् इति मतं तदापि कथम् ईश्वरस्य सकर्मता न सिद्ध्येत् । तत्सिद्धौ चसशरीरताऽपि कथम् अस्य न स्यात् तस्यां च सत्यां न सदा मुक्तिस् तस्य सिद्ध्येत् । स२देहमुक्तेः स३दासिद्धौत४द्देहेन च कार्यत्वादेः साधनस्य तन्वादेर् बुद्धिम- त्कारणत्वे साध्ये कथम् अनैकांतिकता परिहर्तुं शक्येतितस्य बुद्धिमत्कारणत्वासंभवात् । संभवे चान- ३५वस्थानुषंगाद् इति प्राग् एवोक्तं । किं चेदं विचार्यते किमीश्वरज्ञानम् अव्यापि किं वा व्यापीति प्रथमपक्षे दूषणम् आह । २०अव्यापि न यदि ज्ञानम् ईश्वरस्य तदा कथं । सकृत्सर्वत्र कार्याणाम् उत्पत्तिर् घटते ततः ॥ ३१ ॥ यद्य् एकत्र स्थितं देशे ज्ञानं सर्वत्र कार्यकृत् । तदा सर्वत्र कार्याणां सकृत् किं न समुद्भवः ॥ ३२ ॥ ०५कारणांतरवैकल्यात् तथाऽनुत्पत्तिर् इत्य् अपि । कार्याणाम् ईश्वरज्ञानाहेतुकत्वं प्रसाधयेत् ॥ ३३ ॥ सर्वत्र सर्वदा तस्य व्यतिरेकाप्रसिद्धितः । अन्वयस्यापि संदेहात् कार्यं तद्धेतुकं कथं ॥ ३४ ॥ तदीश्वरज्ञानं तावद् अव्यापीष्टं प्रादेशिकत्वात् सुखादिवत् । प्रादेशिकम् ईश्वरज्ञानं विभुद्रव्यविशेष- १०गुणत्वात् यद् इत्थं तद् इत्थं यथा सुखादि तथाचेश्वरज्ञानं तस्मात् प्रादेशिकम् इति नासिद्धं प्रादेशिकत्वंसाधनं, न च तत्साधनस्य हेतोः सामान्यगुणेन संयोगादिनाव्यभिचारो, विशेषग्रहणात् । तथापि विशेषगुणेन- रूपादिनाऽनैकांतिक इति न मंतव्यं विभुद्रव्यग्रहणात् । तथापीष्टविरुद्धस्यानित्यत्वस्य साधनात् विरु- द्धो हेतुः विभुद्रव्यविशेषगुणत्वस्यानित्यत्वेन व्याप्तत्वात्, यथा हीदं विभुद्रव्यविशेषगुणत्वं प्रादेशिकत्व- म् ईश्वरज्ञानस्य साधयेत् तद्वद् अनित्यत्वम् अपितदव्यभिचारात् न हि, कश्चिद् विभुद्रव्यविशेषगुणो नित्योदृष्ट १५इत्य् अपि नाशंकनीयं महेश्वरस्यास्मद्विशिष्टत्वात्तद्विज्ञानस्यास्मद्विलक्षणत्वात् । न ह्य् अस्मदादिविज्ञाने यो धर्मो दृष्टः स महेश्वरविज्ञाने ऽप्य् आपादयितुं युक्तोऽतिप्रसंगात् । तस्यास्मदादिविज्ञानवत् समस्तार्थपरि- च्छेदकत्वाभावप्रसक्तेः सर्वत्रास्मदादिबुद्ध्यानामेवानित्यत्वेन व्याप्तस्य विभुद्रव्यविशेषगुणत्वस्य प्रसिद्धेः विभुद्रव्यस्य वा महेश्वरस्यैवाभिप्रेतत्वात्, तेन यद् उक्तं भवति महेश्वरविशेषगुणत्वात् तद् उक्तं भवति विभुद्रव्यविशेषगुणत्वाद् इति ततोनेष्टविरुद्धसाधनो हेतुर् यतो विरुद्धः स्यात् । न चैवमुदाहरणा- २०नुपपत्तिर् ईश्वरसुखादेर् एवोदाहरणत्वात् तस्यापिप्रादेशिकत्वात् साध्यवैकल्याभावात् महेश्वरविशेष- गुणत्वाच् च साधनवैकल्यासंभवात् ततो ऽस्माद्धेतोरीश्वरज्ञानस्य सिद्धं प्रादेशिकत्वं । ततश् चाव्यापि तदिष्टं यदि वैशेषिकैस् तदा कथं सकृत् सर्वत्र तन्वादिकार्याणामुत्पत्तिर् ईश्वरज्ञानाद् घटते तद् धि निमित्तकारणं सर्वकार्योत्पत्तौ सर्वत्रासन्निहितम् अपि कथम् उपपद्यतेकालदेर् व्यापिन एव युगपन् सर्वत्र कार्योत्पत्तौ निमित्तकारणत्वप्रसिद्धेः । विभोर् ईश्वरस्यनिमित्तकारणत्वप्रसिद्धेः विभोर् ईश्वरस्यनिमित्तकारणत्व- २५वचनाद् अदोष इति चेन् न तस्य यत्र प्रदेशेषु बुद्धिस्तत्रैव निमित्तकारणत्वोपपत्तेर् बुद्धिशून्ये ऽपि प्रदेशांतरे तस्य निमित्तकारणत्वेन तत्र कार्याणां बुद्धिमन्निमित्तत्वंसिद्ध्येत् तथा च व्यर्थं बुद्धिमन्निमित्तत्वसाधनं सर्वत्र कार्याणां बुद्धिमदभावे ऽपि भावापत्तेः । नचैवं कार्यत्वादयो हेतवो गमकाः स्युर् बुद्धिशून्येश्वर- प्रदेशवर्तिभिर् अबुद्धिमन्निमित्तैः कार्यादिभिर् व्यभिचारात् । ततस् तेषां बुद्धिमन्निमित्तत्वासिद्धेः । स्यान् मतं प्रदेशवर्तिनाऽपि ज्ञानेन महेश्वरस्ययुगपत्समस्तकारकपरिच्छेदसिद्धेः सर्वकार्योत्पत्तौयुगपत्सकलका- ३०रकप्रयोक्तृत्वव्यवस्थितेः निखिलतन्वादिकाया२णां बुद्धिमन्निनित्तत्वोपपत्तेः नोक्तदोषो ऽनुप्रसज्यत इति । तद् अप्य् असम्यक् । क्रमेणानेकतन्वादिकार्यजन्मनि तस्यनिमित्तकारणत्वायोगात् । ज्ञानं हीश्वरस्य यद्य् एकत्र प्रदेशें वर्तमानं समस्तकारकशक्तिसाक्षात्करणात्समस्तकारकप्रयोक्तृत्वसाधनात् सर्वत्र परंपरया कार्यकारीष्यते तदा युगपत्सर्वकार्याणां सर्वत्र किं नसमुद्भवः प्रसज्यते, यतो महेश्वरस्य प्राक् पश्चाच् च कार्योत्पत्तौ निमित्तकारणत्वाभावो न सिद्ध्येत् । समर्थेऽपि सति निमित्तकारणे कार्यानुत्पादविरोधात् । ३५स्यान् मतं न निमित्तकारणमात्रात् तन्वादिकार्याणाम् उत्पत्तिःसमवाय्यसमवायिनिमित्तकारणांतराणाम् अपि २१सद्भावे कार्योत्पत्तिदर्शनात् न च सर्वकार्याणांयुगपत्समवाय्यसमवायिनिमित्तकारणसद्भावः क्रमेणैव तत्प्रसिद्धेः । ततः कारणांतराणां वैकल्यात् तथा युगपत्सर्वत्र कार्याणाम् अनुत्पत्तिर् इति । तद् अपि कार्याणां नेश्वरज्ञानहेतुकत्वं साधयेत् । तदन्वयव्यतिरेकासिद्धेःसत्य् अपीश्वरज्ञाने केषांचित् कार्याणां कारणांतराभावे ऽनुत्पत्तेः कारणांतरसद्भाव एवोत्पत्तेःकारणांतरान्वयव्यतिरेकानुविधानस्यैव सिद्धेःतत्कार्यत्वस्यैव ०५व्यवस्थानात् । ननु च सत्य् एव ज्ञानवति महेश्वरेतन्वादिकार्याणाम् उत्पत्तेर् अन्वयो ऽस्त्य् एव । व्यतिरेको ऽपि विशिष्टावस्थापेक्षया महेश्वरस्य विद्यत एवकार्योत्पादनसमर्थकारणांतरासन्निधानविशिष्टेश्वरे ऽसति कार्याणाम् अनुत्पत्तेः व्यतिरेकनिश्चयात् । सर्वत्रावस्थापेक्षयैवावस्थावतो ऽन्वयव्यतिरेकप्रतीतेः । अन्यथा तदसंप्रत्ययात् । न ह्य् अवस्थांतरे सति कार्योत्पत्तिर् इतिवक्तुं शक्यं सर्वावस्थासु तस्मिन् सति तदुत्पत्तिप्रसं- गात् । नाप्य् अवस्थावतो ऽसंभवे कार्ये ऽस्यासंभवः सुशक्तोवक्तुं तस्य नित्यत्वाद् अभावानुपपत्तेः । द्रव्यावस्था- १०विशेषाभावे तु तत्साध्यकार्यविशेषानुत्पत्तेः सिद्धोव्यतिरेको ऽन्वयवत् । न चावस्थावतो द्रव्यस्यानाद्यनं- तस्योत्पत्तिविनाशशून्यस्यापन्हवो युक्तःतस्याबाधितान्वयज्ञानसिद्धत्वात् तदपह्नवेसौगतमतप्रवेशानु- षंगात् । कुतः स्याद्वादिनाम् इष्टसिद्धिर् इति कश्चिद्वैशेषिकमतम् अनुमन्यमानः समाभिधत्ते । सो ऽप्य् एवंप्रष्टव्यः किम् अवस्थावतो ऽवस्था पदार्थांतरभूता किं वा नेति । प्रथमकल्पनायां कथम् अवस्थापेक्षयाऽन्वयव्यतिरेका- नुविधानं तन्वादिकार्याणाम् ईश्वरान्वयव्यतिरेकानुविधानंयुज्यते, धूमस्य पावकान्वयव्यतिरेकानुविधाने १५पर्वताद्यन्वयव्यतिरेकानुविधानप्रसंगात् । पदार्थांतरत्वाविशेषात् यथैव हि पर्वतादेः पावकस्यपदार्थां- तरत्वं तथेश्वरात्कारणांतरसन्निधानस्यावस्थाविशेषस्यापि सर्वथाविशेषाभावात् । यदि पुनर् ईश्वरस्या- वस्थातो भेदे ऽपि तेन संबंधसद्भावात्तदन्वयव्यतिरेकानुविधानं कार्याणामीश्वरान्वयव्यतिरेकानुविधान- म् एवेति मन्यते तदा पर्वतादेः पावकेन संबंधात्पावकान्वयव्यतिरेकानुविधानम् अपि धूमस्यपर्वताद्यन्वयव्य- तिरेकानुविधानम् अनुमन्यतांपावकविशिष्टपर्वताद्यन्वयव्यतिरेकानुकरणंधूमस्यानुमन्यते एव तद्वदव- २०स्थाविशिष्टेश्वरान्वयव्यतिरेकानुकरणं तन्वादिकार्याणांयुक्तम् अनुमंतुम् इति चेन् न पर्वतादिवद् ईश्वरस्य भेदप्रसंगात् । यथैव हि पावकविशिष्टपर्वतादेर् अन्यःपावकाविशिष्टपर्वतादिः सिद्धः तद्वत् कारणांतर- सन्निधानलक्षणावस्थाविशिष्टादीश्वरात् पूर्वेतदविशिष्टेश्वरो ऽन्यः कथं न प्रसिद्ध्येत् । स्यान् मंतद्रव्याद्य- नेकविशेषणविशिष्टस्यापि सत्तासामान्यस्य यथा न भेदःसमवायस्य वाऽनेकसमवायिविशेषण- विशिष्टस्याप्य् एकत्वम् एवतद्वदनेकावस्थाविशिष्टस्यापीश्वरस्य न भेदःसिद्ध्येत् तद् एकत्वस्यैव प्रमाणतः २५सिद्धेर् इति तद् एतत्स्वगृहमान्यं । सत्तासामान्यसमवाययोरपि स्वविशेषणभेदाद्भेदप्रसिद्धेर् व्यतिलंघयितु- म् अशक्तेः । तस्यैकानेकस्वभावतयैवप्रमाणगोचरचारित्वात् । तद् एतेननानामूर्त्तिमद्द्रव्यसंयोगविशिष्टस्य व्योमात्मादिविभुद्रव्यस्याभेदः प्रत्याख्यातःस्वविशेषणभेदाद्भेदसंप्रत्ययादेकानेकस्वभावत्वव्यवस्थानात् । यो ऽप्य् अव्यवस्थावतो ऽवस्थां पदार्थांतरभूतांनानुमन्यते तस्यापि कथम् अवस्थाभेदाद् अवस्थावतो भेदो नस्याद् अव- स्थानां वा कथम् अभेदो न भवेत् तदर्थांतरत्वाभावात् । स्याद् आकूतं अवस्थानाम् अवस्थावतः पदार्थांतरत्वा- ३०भावे ऽपि न तदभेदः तासां तद्धर्मत्वात् न च धर्मोधर्मिणो ऽनर्थांतरम् एव धर्मधर्मिव्यवहारभेदविरोधात् भेदे तु न धर्माणां भेदाद्धर्मिणो भेदः प्रत्येतुंशक्येत यतो ऽवस्थाभेदादीश्वरस्य भेदः संपाद्यत इति । तद् अपि स्वमनोरथमात्रं धर्माणां सर्वथा धर्मिणो भेदेधर्मधर्मिभावविरोधात् सह्यविंध्यादिवत् । ननु धर्मधर्मिणोः सर्वथाभेदे ऽपि निर्बाधप्रत्ययविषयत्वात्न धर्मधर्मिभावविरोधः । सह्यविंध्यादीनां तु निर्बाधधर्मधर्मिसंप्रत्ययविषयत्वाभावान् नधर्मधर्मिभावव्यवस्था । न हि वयं भेदम् एवधर्मधर्मिव्यवस्था- ३५निबंधनम् अभिदध्महे येन भेदे धर्मधर्मिभावोविरुध्यते सर्वथैवाभेद इव प्रत्ययविशेषात्तद्व्यवस्थाभिधानात् । सर्वत्राबाधितप्रत्ययोपायत्वाद् वैशेषिकाणां तद्विरोधाद् एवविरोधसिद्धेर् इति कश्चित् । सो ऽपि स्वदर्शनानुरा- गांधीकृत एव बाधकम् अवलोकयन्न् अपि नावधारयति । धर्मधर्मिप्रत्ययविशेषस्यैव धर्मधर्मिणोर् भेदैकांतेऽनुप- पत्तेः सह्यविंध्यादिवत् प्रतिपादनात् । यदि पुनःप्रत्यासत्तिविशेषादीश्वरतदवस्थयोर् भेदे ऽपि धर्मधर्मि- संप्रत्ययविशेषः स्यात् न तु सह्यविंध्यादीनां तदभावादिति मतं तदाऽसौ प्रत्यासत्तिर् धर्मधर्मिभ्यां भिन्ना २२कथं च धर्मधर्मिणोर् इति व्यपदिश्यते । न पुनःसह्यविंध्ययोर् इति विशेषहेतुर् वक्तव्यः प्रत्यासत्त्यंतरंतद्धेतु- र् इति चेत् तद् अपि यदि प्रत्यासत्तित१द्वद्भ्यो भिन्नं तदात२द्व्यपदेशनियमनिवंधनं प्रत्यासत्त्यंतरम् अभिधानीयं तथा चानवस्थानात् कुतः प्रकृतप्रत्यासत्तिनियमव्यवस्था । प्रत्ययविशेषाद् एवेति चेत् । ननु स एव विचार्यो वर्तते प्रत्ययविशेषः किं प्रत्यासत्तेस् तत्तद् वद्भ्यांसर्वथा भेदे सतीश्वरतदवस्थयोः प्रत्यासत्तिर् इतिप्रादुर्भ- ०५वति किं वाऽनर्थांतरभाव एव कथंचित् तादात्म्ये वा । तत्र सर्वथा भेदाभेदयोर् बाधकसद्भावात् कथंचि- त् तादात्म्यम् अनुभवतोर् एव तथा प्रत्ययेन भवितव्यंतत्र बाधकानुदयात् । ननु चैकानेकयोः कथंचित् ता- दात्म्यम् एव धर्मधर्मिणोः प्रत्यासत्तिः स्याद्वादिभिरभिधीयते तच् च यदि ताभ्यां भिन्नं तदा न तयोर् व्यप- दिश्यते तदभिन्नं चेत् किं केन व्यपदेश्यं । यदि पुनस्ताभ्यां कथंचित् तादात्म्यस्यापि परं कथंचित् ता- दात्म्यम् इष्यते तदा प्रकृतपर्यनुयोगास्यानिवृतेः परापरकथंचित् तादात्म्यपरिकल्पनायाम् अनवस्था स्यात् । १०सैव कथंचित् तादात्म्यपक्षस्य बाधिकेति कथम् अयं पक्षः क्षेमकरः प्रेक्षावताम् अक्षूणम् आलक्ष्यते । यदिपुनः कथंचित् तादात्म्यं धर्मधर्मिणोर् भिन्नम् एवाभ्यनुज्ञायतेताभ्याम् अनवस्थापरिजिहीर्षयाऽनेकांतवादिना तदा धर्मधर्मिणोर् एव भेदो ऽनुज्ञायतां सुदूरम् अपि गत्वातस्याश्रयणीयत्वात् । तदनाश्रयेण भेदव्यवहारविरोधा- द् इत्य् अपरः सो ऽप्य् अनवबोधाकुलितांतः करण एव । कथंचित् तादात्म्यं हि धर्मधर्मिणोः संबंधः स चावि- ष्वग्भाव एव तयोर् जात्यंतरत्वेन संप्रत्ययाद्व्यवस्थाप्यते । धर्मधर्मिणोर् अविsṣवग्भाव इतिव्यवहारस् तु न १५संबंधांतरनिबंधनो यतः कथंचित् तादात्म्यांतरंसंबंधांतरम् अनवस्थाकारि परिकल्प्यते तत एव कथंचि- त् तादात्म्याद् धर्मधर्मिणोः कथंचित् तादात्म्यम् इतिप्रत्ययविशेषस्य करणात् । कथंचित् तादात्म्यस्य कथंचिद्भेद- स्वीकारत्वात् कथंचिद् भेदाभेदौ हि कथंचित् तादात्म्यं । तत्र कथंचिद् भेदाश्रयणाद् धर्मधर्मिणोः कथंचित् ता- दात्म्यम् इति भेदविभक्तिसद्भावात् भेदव्यवहारसिद्धिः । कथंचिद् अभेदाश्रयणात् तु धर्मधर्मिणाव् एव कथं- चित् तादात्म्यम् इत्य् अभेदव्यवहारः प्रवर्ततेधर्मधर्मिव्यतिरेकेण कथंचिद् भेदाभेदयोर् अभावात्कथंचिद् भेदो हि २०धर्म एव कथंचिद् अभेदस् तु धर्म्य् एव कथंचिद्भेदाभेदौ तु धर्मधर्मिणाव् एव एवं सिद्धौ ताव् एव चकथंचित् तादा- त्म्यं वस्तुनो ऽभिधीयते । तच्छब्देन वस्तुनः परामर्शात् । तस्य वस्तुनः आत्मानौ तदात्मानौ तयोर् भाव- स् तादात्म्यं । भेदाभेदस्वभावत्वं कथंचिद् इतिविशेषणेन सर्वथा भेदाभेदयोः परस्परनिरपेक्षयोःप्रति- क्षेपात् तत्पक्षे निक्षिप्तदोषपरिहारः । परस्परसापेक्षयोश्च परिग्रहात् जात्यंतरवस्तुव्यवस्थापनात् सर्वथा शून्यवादप्रतिक्षेपसिद्धिर् इति कथंचिद् भेदाभेदात्मकंकथंचिद् धर्मधर्म्यात्मकं कथंचिद् द्रव्यपयार्र्यायात्मकमिति २५प्रतिपाद्यते स्याद्वादन्यायनिष्ठैस् तथैव तस्यप्रतिष्ठितत्वात् । सामान्यविशेषवन् मेचकज्ञानवच् च । तत्र विरोधवैय्यधिकरण्यादिदूषणम् अनेनैवापसारितम् इति किं नश् चिंतया । नन्व् एवं स्याद्वादिनाम् अपि द्रव्यस्य नित्यत्वात् तदन्वयव्यतिरेकानुविधानं कार्याणां न स्यादीश्वरान्वयव्यतिरेकानुविधानवत् पर्यायाणां च क्षणिकत्वात् तदन्वयव्यतिरेकानुविधानम् अपि न घटतेनष्टे पूर्वपर्याये स्वयम् असत्य् एवोत्तरकार्यस्योत्पत्तेः सति चानुत्पत्तेर् अन्यथैकक्षणवृत्तित्वप्रसंगात् । सर्वपर्यायाणां इति तद्भावभावित्वानुपपात्तिः । यदि पुन- ३०र् द्रव्ये सत्य् एव कार्याणां प्रसृतेस् तदन्वयसिद्धिस्तन्निमित्तपर्यायाणाम् अभावे वानुत्पत्तेर् व्यतिरेकसिद्धिर् इति तदन्वयव्यतिरेकानुविधानम् इष्यते तदेश्वरस्यतदिच्छाविज्ञानयोश् च नित्यत्वे ऽपि तन्वादिकार्याणां तद्भाव एव भावात् तदन्वयस् तत्सहकारिकारणावस्थापाये च तेषामनुत्पत्तेर् व्यतिरेक इति तदन्वयव्यतिरेकानु- विधानम् इष्यतां विशेषाभावात् ततः सर्वकार्याणांबुद्धिमत्कारणत्वसिद्धिर् इति परे प्रत्यवतिष्ठंते ते ऽपि न कार्यकारणभावविदः । स्याद्वादिनां द्रव्यस्यपर्यायानिरपेक्षस्य पर्यायस्य वा द्रव्यनिरपेक्षस्य द्रव्य- ३५पर्याययोर् वा परस्परनिरपेक्षयोःकार्यकारित्वानभ्युपगमात् तथा प्रतीत्यभावात्द्रव्यपर्यायात्मकस्यैव जात्यंतरवस्तुनः कार्यकारित्वेन संप्रत्ययात्कार्यकरणभावस्य तथैव प्रसिद्धेः वस्तुनिद्रव्यरूपेणान्व- यप्रत्ययविषये सत्य् एव कार्यस्य प्रादुर्भावात्तन्निबंधनपर्यायाविशेषाभावे च कार्यास्याप्रादुर्भावात्तदन्वय- व्यतिरेकानुकरणात् कार्यकारणभावो व्यवतिष्ठते । न चद्रव्यरूपेणापि वस्तुनो नित्यत्वम् अवधार्यते तस्य २३पर्यायेभ्यो भंगुरेभ्यः कथंचिदनर्थांतरभावात् कथंचिद् अनित्यत्वसिद्धेर् महेश्वरस्यतु वैशेषिकैः सर्वथा नित्यत्वप्रतिज्ञानात् तदन्वयव्यतिरेकानुकरणासंभवात्कार्याणाम् उत्पत्तेर् अयोगात् । पर्यायाणां च द्रव्यरूपेण नित्यत्वसिद्धेः कथंचिन् नित्यत्वात् सवर्थानित्यत्वानवधारणात् विशिष्टपर्यायसद्भावे कार्यस्योदयात् तदभावे चानुदयात् कार्यस्य तदन्वयव्यतिरेकानुकरणसिद्धेः । निरन्वयक्षणिकपर्यायाणाम् एव तदघटनात् तत्र ०५कार्यकारणभावाव्यवस्थितेः । पर्यायार्थिकनयप्राधान्यादविरोधात् द्रव्यार्थिकनयप्राधान्येन तदविरो- धवत् । प्रमाणार्पणया तु द्रव्यपर्यायात्मनि वस्तुनि सतिकार्यस्य प्रसवनाद् असति वाऽप्रसवनात् तदन्वय- व्यतिरेकानुविधानं सकलजनसाक्षिकं कार्यकारणभावंव्यवस्थापयेत् सर्वथैकांतकल्पनायां तदभावं विभावयतीति कृतम् अतिप्रसंगिन्या कथया । महेश्वरज्ञानस्य नित्यस्याव्यापिनो ऽपि सर्वत्रकार्यकरणस- मर्थस्य सर्वेषु देशेषु सर्वास्मिन् काले व्यतिरेकाप्रसिद्धेरन्वयस्यापि नियतस्य निश्चेतुम् अशक्तेस् तन्वादिकार्यं १०तद्धेतुकं कारणंतरापेक्षयापि न सिध्यत्य् एवेति स्थितं । कस्यचिन् नित्यव्यपीश्वरज्ञाना भ्युपगमे ऽपि दूषणम् अतिदिशन्न् आह — एतेनैवेश्वरज्ञानं व्यापिनित्यम् अपाकृतं । तस्येशवत् सदा कार्यक्रमहेतुत्वहानितः ॥ ३५ ॥ एतेन व्यतिरेकाभावान्वयसंदेहव्यवस्थापकवचनेनव्यापिनित्यम् ईश्वरज्ञानं तन्वादिकार्योत्पत्ति- १५निमित्तम् अपाकृतं वेदितव्यं तस्येश्वरवत् सर्वगतत्वेनक्वचिद् देशे नित्यत्वेन कदाचित् काले व्यतिरेका भावनिश्चयात् तदन्वयमात्रस्य चात्मांतरवन् निश्चेतुमशक्तेः तस्मिन् सति समर्थे युगपत् सर्वकार्याणाम् उत्प- त्तिप्रसंगात् । सर्वदा कार्यक्रमहेतुत्वहानेःकालदेशकृतक्रमाभावात् ऽ सर्वथा स्वयं क्रमाभावात् ऽ क्रमवत्वे नित्यत्वसर्वगतत्वविरोधात् पावकादिवत् । स्यान्मतं प्रतिनियतदेशकालसहकारिकारण- क्रमम् आपेक्ष्य कार्यक्रमहेतुत्वं महेश्वरस्य चतद्विज्ञानस्यापि न विरुध्यते इति । तद् अप्य् अशक्यप्रतिष्ठंसह- २०कारिकारणेषु क्रमवत्सु सत्सु तन्वादिकार्याणां प्रादुर्भवतांतेष्व् असत्सु चानुत्पद्यमनानां तदन्वयव्यतिरे- कानुविधानात् सद्धेतुकत्वस्यैव प्रसिद्धेर्महेश्वरज्ञानहेतुकत्वं दुर्ज्पपादम् आपनीपद्येत । यदिपुनः सकल- सहकारिकारणानाम् अनित्यानां क्रमजन्मनाम् अपिचेतनत्वाभावाच् चेतनेनाधिष्ठितानां कार्यनिष्पादनाय प्रवृत्तेर् अनुत्पत्तेस् तुरीतंतुवेमशलाकादीनांकुविंदेनानधिष्ठितानां पटोत्पादनायाऽप्रवृत्तिवच् चेतनस्तदधि- ष्ठाता साध्यते । तथा हि विवादाध्यासितानि कारणांतराणिक्रमवर्तीन्यकमाणि च चेतनाधिष्ठितान्य् एव २५तन्वादिकार्याणि कुर्वंति स्वयम् अचेतनत्वात् यानि यानिअचेतनानि तानि तानि चेतनाधिष्ठितान्य् एव स्वकार्यं कुर्वाणानि दृष्टानि यथा तुरीतंत्वादीनि पटकार्यं, स्वयमचेतनानि च कारणांतराणि तस्माच् चेतनाधिष्ठि- तान्य् एव तन्वादिकार्याणि कुर्वंति यो ऽसौ तेषाम् अधिष्ठाता समहेश्वरः पुरुषविशेषः क्लेशकर्मविपाकाशयै- रपरामृष्टः समस्तकारकशक्तिपरिज्ञानभाक्सिसृक्षाप्रयत्नविशेषवांश् च प्रभुर् विभाव्यतेतद्विपरीतस्य समस्तकारकाधिष्टातृत्वविरोधात् बहूनाम् अपिसमस्तकारकाधिष्ठायिनां पुरुषविशेषाणां प्रतिनियतज्ञाना- ३०दिशक्तिनाम् एकेन महाप्रभुणाऽधिष्ठितानाम् एवप्रवृत्तिघटनात् सामंतमहासामंतमंडलीकादीनाम् एकं चक्रवर्त्याधिष्ठितानां प्रवृत्तिवद् इतिमहेश्वरसिद्धिः । तत्राचेतनत्वाद् इति हेतोर्वत्सविवृद्धिनिमित्तं प्रवर्त्त- मानेन गोक्षीरेणानैकांतिकत्वम् इति न शंकनीयं । तस्यापिचेतनेन वत्सेनादृष्टविशेषसहकारिणाधिष्ठि- तस्यैव प्रवृत्तेः । अन्यथा मृते वत्से गोभक्तेनैवतस्य प्रवृत्तिविरोधात् । न च वत्सादृष्टविशेषवशात् प्रवृ- त्ताव् अपि समानो ऽयं दोष इति शक्यःतत्क्षीरोपभोक्तृजनादृष्टविशेषसहकारिणापिचेतनेनाधिष्ठितस्य ३५प्रवृत्तिघटनात् सहकारिणाम् अप्रतिनियमात् । यद् अपि कश्चिद् उच्यते महेश्वरो ऽपि चेतनांतराधिष्ठितः प्रवर्तते चेतनत्वाद् विशिष्टकर्मकरादिवद् इति । तद् अपि न सत्यंतदधिष्ठापकस्यैव महेश्वरत्वात् । यो ह्य् अंत्यो ऽधिष्टाता स्वतन्त्रः स महेश्वरस् ततो ऽन्यस्यमहेश्वरत्वानुपपत्तेन चांत्यो ऽधिष्ठाता न व्यवतिष्ठतेतन्वादिकार्याणाम् उ- त्पत्तिव्यवस्थानाम् अभावप्रसंगात् । परापरमहेश्वरप्रतीक्षायाम् एवोपक्षीणशक्तित्वात् ततोनिरवद्यम् इदं २४साधनम् इति कैश्चित् । ते ऽपि न हेतुसामर्थ्यवेदिनः । अचेतनत्वस्य हेतोः संसारिजनज्ञानेषु स्वयं चेतन- स्वभावात् पक्षाव्यापकत्वात् । ननु च न चेतनत्वप्रतिषेधोऽचेतनत्वं किं तर्हि चेतनासमवायप्रतिषेधः स च ज्ञानेष्व् अस्ति तेषां स्वयं चेतनत्वात्तत्रापरचेतनासमवायाभावात् ततो ऽचेतनत्वं साधनं न पक्षाव्यापकं ज्ञानेष्व् अपि सद्भावाद् इति न मंतव्यं । संसार्यात्मसु चेतनासमवायात् चेतनत्वप्रसिद्धेर् अचेतन- ०५त्वस्य हेतोर् अभावात् पक्षाव्यापकत्वस्य तदवस्थत्वात् । यदि तु संसार्यात्मनां स्वतो ऽचेतनत्वाद् अचेतनत्वस्य हेतोस् तत्र सद्भावान् नपक्षाव्यापकत्वम् इति मतिः । तदामहेश्वरस्याप्य् अचेतनत्वप्रसंगाः । तस्यापि स्वतो ऽचेतन- त्वात् तथा च दृष्टादृष्टकारणांतरवद् ईश्वरस्यापिहेतुकर्तुश् चेतनांतराधिष्ठितत्वं साधनीयं तथाचानवस्था सुदूरम् अपि गत्वा कस्यचित् स्वतश् चेतनत्वानभ्युपगमात् । महेश्वरस्य स्वतो ऽचेतनस्यापि चेतनांतराधिष्ठित- त्वाभावे तेनैव हेतोर् अनेकांतिकत्वम् इति कुतःसकलकारकाणां चेतनाधिष्ठितत्वसिद्धिः यत इदं शोभते १०"अज्ञो जंतुर् अनीशो ऽयम् आत्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत् स्वर्गं वा श्वभ्रम् एव चेति" । स्यादाकूतं चेतनाज्ञानं तदाधिष्ठितत्वं सकलकारकांतराणामचेतनत्वेन हेतुना साध्यते तच् च ज्ञानं समस्तकारकश- क्तिपरिच्छेदकं नित्यं गुणत्वाद् आश्रयम् अंतरेणासंभावात्स्वाश्रयम् आत्मांतरं साधयति स नो महेश्वर इति । तद् अप्य् अयुक्तं । संसार्यात्मनां ज्ञानैर् अपि स्वयंचेतनास्वभावैर् अधिष्ठितस्य शुभाशुभकर्मकलापस्यतत्सहकारि- कदंबकस्य च तन्वादिकार्योत्पत्तौ व्यापारसिद्धेरीश्वरज्ञानाधिष्ठानपरिकल्पनावैयर्थ्यप्रसंगात् । तदन्वय- १५व्यतिरेकाभ्याम् एव तद्व्यवस्थापनात् । अथ मतम् एतत्संसार्यात्मनां विज्ञानानि विप्रकृष्टार्थाविषयत्वान् न धर्माधर्मपरमाणुकालाद्यतींद्रियकारकविशेषसाक्षात्करणसमर्थानि । न च तदसाक्षात्करणे ततः प्रयोजकत्वं तेषाम् अवतिष्ठते तदप्रयोजकत्वे च न तदधिष्ठितानामेव धर्मादीनां तन्वादिकार्यजन्मनिप्रवृत्तिः सिध्येत् ततो ऽतींद्रियार्थसाक्षात्कारिणा ज्ञानेनाधिष्ठितानाम् एवस्वकार्य्ये व्यापारेण भवितव्यं तच् च महेश्वरज्ञान- म् इति । तद् अप्य् अनालोचितयुक्तिकंसकलातींद्रियार्थसाक्षात्कारिण एव ज्ञानस्यकारकाधिष्ठायकत्वेन २०प्रसिद्धस्य दृष्टांततयोपादीयमानस्यासंभवात्तदधिष्ठितत्वसाधने हेतोर् अन्वयत्वप्रसक्तेः । न हिकुंभकारादेः कुंभाद्युत्पत्तौ तत्कारकसाक्षात्कारि ज्ञानं विद्यतेदंडचक्रादिदृष्टकारकसंदोहस्य तेन साक्षात्कारणे ऽपि तन्निमित्तादृष्टविशेषकालादेर् असाक्षात्करणात् । ननुलिंगविशेषात् तत्परिच्छित्तिनिमित्तस्य लैंगिकस्य ज्ञानस्य सद्भावात् तथा स्वादृष्टविशेषाः कुंभकारादयःकुंभादिकार्याणि कुर्वंति नेतरे तेषां तथाविधादृष्ट- विशेषाभावाद् इत्य् आगमज्ञानस्यापि तत्परिच्छेदनिबंधनस्यसद्भावात् सिद्धम् एव कुंभकारादिज्ञानस्य कुंभा- २५दिकारकपरिच्छेदकत्वं तत्प्रयोक्तृत्वेनतदधिष्ठाननिबंधनत्वं ततस् तस्यदृष्टांततयोपादानान् न हेतोर् अन्वयत्वा- पत्तिर् इति चेत् तर्हि सर्वसंसारिणां यथास्वंतन्वादिकार्यजन्मनि प्रत्यक्षतो ऽनुमानाद् आगमाच् चतन्निमित्तदृ- ष्टादृष्टकारकविषयपरिज्ञानसिद्धेः कथम् अज्ञत्वंयेनात्मनः सुखदुःखोत्पत्तौ हेतुत्वं न भवेत् यतश् चसर्वसं- सारीश्वरप्रेरित एव स्वर्गं वा श्वभ्रं वा गच्छेद् इतिसमंजसमालक्ष्यते । ततः किम् ईश्वरपरिकल्पनया दृष्टादृष्टकारकांतराणाम् एव क्रमाक्रमजन्मनामन्वयव्यतिरेकानुविधातात् क्रमाक्रमजन्मानि तन्वादिकार्याणि ३०भवंतु तदुपभोक्तृजनस्यैव ज्ञानवतःतदधिष्ठायकस्य प्रमाणोपपन्नस्य व्यवस्थापनात् । सांप्रतम् अभ्युप- गम्यापि महेश्वरज्ञानं अस्वसंविदितं स्वसंविदितं वेतिकल्पनाद् वितयसंभवे प्रथमकल्पनायां दूषणम् आह — अस्वसंविदितं ज्ञानम् ईश्वरस्य यदीष्यते । तदा सर्वज्ञता न स्यात् स्वज्ञानस्याप्रवेदनात् ॥ ३६ ॥ ज्ञानांतरेण तद्वित्तौ तस्याप्य् अन्येन वेदनं । ३५वेदनेन भवेद् एवम् अनवस्था महीयसी ॥ ३७ ॥ गत्वा सुदूरम् अप्य् एवं स्वसंविदितवेदने । इष्यमाणे महेशस्य प्रथमं तादृग् अस्तु वः ॥ ३८ ॥ २५महेश्वरस्य हि विज्ञानं यदि स्वं न वेदयतेस्वात्मनि क्रियाविरोधात् तदा समस्तकारकशक्तिनिकरम् अपि कथं संवेदयेत् । तथा हि । नेश्वरज्ञानंसकलकारकशक्तिनिकरसंवेदकं स्वासंवेदकत्वात् । यद् यत्स्वासं- वेदकं तत् तन् न सकलकारकशक्तिनिकरसंवेदकं यथाचक्षुः, तथा चेश्वरज्ञानं तस्मान् न तथेति कुतः समस्तका- रकाधिष्ठायकं यतस् तदाश्रयस्येश्वरस्यनिखिलकार्योत्पत्तौ निमित्तकारणत्वं सिध्येत् असर्वज्ञतायाएव ०५तस्यैव प्रसिद्धेः । अथवा यदीश्वरस्य ज्ञानं स्वयमीश्वरेण न संवेद्यत इत्य् अस्वसंविदितम् इष्यते तदा तस्य सर्वज्ञता न स्यात् स्वज्ञानप्रवेदनाभावात् । ननु च सर्वंज्ञेयम् एव जानन् सर्वज्ञः कथ्यते न पुनर् ज्ञानं तस्या- ज्ञेयत्वात् । न च तदज्ञाने ज्ञेयपरिच्छित्तिर् न भवेत्चक्षुरपरिज्ञाने तत्परिच्छेद्यरूपापरिज्ञानप्रसंगात् । करणापरिज्ञाने ऽपि विषयपरिच्छित्तेर् अविरोधाद् इत्य् अपिनानुमंतव्यं । सर्वग्रहणेन ज्ञानज्ञेयज्ञातृज्ञाप्तिलक्ष- णस्य तत्त्वचतुष्टयस्य प्रतिज्ञानात् ऽप्रमाणं प्रमाताप्रमेयं प्रमितिर् इति चतसृषु चैवं विधासु तत्त्वं परि- १०समाप्यतऽ इति वचनात् । तदन्यतमापरिज्ञाने ऽपिसकलतत्त्वपरिज्ञनानुपपत्तेः कुतः सर्वज्ञतेश्वरस्य सिध्येत् । ज्ञानांतरेण स्वज्ञानस्यापि वेदनान्नाऽस्यासर्वज्ञातेति चेत् तर्हि तद् अपि ज्ञानांतरं परेणज्ञानेन ज्ञातव्यम् इत्य् अभ्युपगम्यमाने ऽनवस्था महीयसी स्यात् । सुदूरम् अप्य् अनुसृत्य कस्यचिद् विज्ञानस्य स्वार्थाव् अभासन- स्वभावत्वे प्रथमस्यैव सहस्रकिरणवत्स्वार्थावभासनस्वभावत्वम् उररीक्रियताम् अलमस्वसविदितज्ञानकल्प- नया, स्वार्थव्यवसायात्मकज्ञानाभ्युपगमे च युष्माकं तस्यमहेश्वराद्भेदे पर्यनुयोगम् आह — १५तत्स्वार्थव्यवसायात्मज्ञानं भिन्नं महेश्वरात् । कथं तस्येति निर्देश्यम् आकाशादिवद् अंजसा ॥ ३९ ॥ समवायेन तस्यापि तद्भिन्नस्य कुतो मतिः । इहेदम् इति विज्ञानाद् अबाध्याद् व्यभिचारि तत् ॥ ४० ॥ इह कुंडे दधीत्य् आदि विज्ञानेनास्तविद्विषा । २०साध्ये संबंधमात्रे तु परेषां सिद्धसाधनं ॥ ४१ ॥ यदि स्वार्थव्यवसायात्मकं ज्ञानम् ईश्वरस्याभ्यनुज्ञायतेतस्यास्मदादिविशिष्टत्वात् तदा तदीश्वरा- द् भिन्नम् अभ्युपगंतव्यं । अभेदे सिद्धांतविरोधात् । तथा चाकाशादेर् इव कथं तस्येति व्यपदेश्यम् इति पर्यनु- युज्महे । स्यान् मतं भिन्नम् अपि विज्ञानं महेश्वरात् तस्येतिव्यपदिश्यते तत्र समवायात्, नाकाशादेर् इति निर्द्दि- श्यते तत्र तस्यासमवायाद् इति । तद् अप्य् अयुक्तं । ताभ्यामीश्वरज्ञानाभ्यां भिन्नस्य समवायस्यापि कुतः प्रति- २५पत्तिर् इति पर्यनुयोगस्य तदवस्थत्वात् । इहेदम् इतिप्रत्ययविशेषाद् बाधकराहितात् समवायस्य प्रतिपत्तिः तथाहि, इदम् इहेश्वरे ज्ञानम् इतीहेदं प्रत्ययोविशिष्टपदार्थहेतुकः सकलबाधकरहितत्वे सतीहेदमिति प्रत्यय- विशेषत्वात् यो यः सकलबाधकरहितत्वे सतिप्रत्ययविशेषः स स विशिष्टपदार्थहेतुको दृष्टः यथा द्रव्येषु द्रव्यम् इत्य् अन्वयप्रत्ययविशेषःसामान्यपदार्थहेतुकः सकलपदार्थबाधकरहितत्वे सतिप्रत्ययविशेष- श् चेहेदम् इति प्रत्ययविशेषः तस्माद् विशिष्टपदार्थहेतुकैत्य् अनुमीयते । यो ऽसौ विशिष्टः पदाथस् तद्धेतुः स ३०समवायः, पदार्थांतरस्य तद्धेतोर् असंभवात्तद्धेतुकत्वायोगाच् च, न हीह तंतुषु पट इति प्रत्ययस्तंतुहेतुकः, तंतुषु तंतव इति प्रत्ययस्योत्पत्तेः नापि पटहेतुकः पटात्पटैति प्रत्ययस्योदयात् । नापि वासनाविशेषहेतुकः तस्याः कारणरहितायाः संभवाभावात् । पूर्वंतथाविधज्ञानस्य तत्कारणत्वे तद् अपि कुतो हेतोर् इतिचिन्त्य- म् एतत् पूर्वतद्वासनात् इति चेन् न । अनवस्थाप्रसंगात् । ज्ञानवासनयोर् अनादिसंतानपरिकल्पनायां कुतो बहिरर्थसिद्धिर् अनादिवासनाबलाद् एव नीलादिप्रत्ययानाम् अपिभावात् । न चैवं विज्ञानसंताननानात्व- ३५सिद्धिः संतानांतरग्राहिणो विज्ञानस्यापिसंतानांतरमंतरेण वासनाविशेषाद् एवतथाप्रत्ययप्रसूतेः स्वप्न- संतानांतरप्रत्ययवत् । नानासंतानानभ्युपगमेचैकज्ञानसंतानसिद्धिर् अपि कुतः स्यात् । स्वसंतानाभावे ऽपि २६तद्ग्राहिणः प्रत्ययस्य भावात् स्वसंतानस्याप्यनिष्टौ संविद् अद्वैतं कुतः साधयेत् स्वतःप्रतिभासनादिति चेन् न । तथा वासनाविशेषाद् एव स्वतःप्रतिभासस्यापि भावात् । शक्यं हि वक्तुं स्वतःप्रतिभासवासनावशाद् एव स्वतःप्रतिभासः संवेदनस्य न पुनः परमार्थत इति नकिंचित् पारमार्थिकं संवेदनं सिध्येत् । तथा च स्वरूपस्य स्वतोगतिर् इति रिक्ता वाचोयुक्तिः । तद् अनेनकुतश्चित् किंचित् परमार्थतः साधयता दूषयता वा ०५साधनज्ञानं दूषणज्ञानं वाऽभ्रांतं सालंबनमभ्युपगंतव्यं । तद्वत् सर्वम् अबाधितं ज्ञानं सालंबनमिति कथम् इहेदम् इति प्रत्ययस्याबाधितस्य निरालंबनता येनवासनामात्र हेतुर् अयं स्यात् । नापि निर्हेतुकः कदा- चित्कत्वात् । ततो ऽस्य विशिष्टः पदार्थो हेतुरभ्युपगंतव्य इति वैशेषिकाः ते ऽप्य् एवं प्रष्टव्याः । कोऽसौ विशिष्टः पदार्थः समवायः संबंधमात्रं वा । न तावत्समवायः, तद्धेतुकत्वे साध्ये ऽस्येहेदम् इति प्रत्ययस्येह कुंडे दधीत्य् आदिना निरस्तसमस्तबाधकेन प्रत्ययेनव्यभिचारित्वात्, तद् अपीहेदम् इति विज्ञानम् अबाधं भव- १०त्य् एव । न च समवायहेतुकं तस्य संयोगहेतुकत्वात् । संबंधमात्रे तु तन्निबंधने साध्ये परेषां सिद्धसाधन- म् एव, स्याद्वादिनां सर्वत्रेहेदं प्रत्ययस्याबाधितस्यसंबंधमात्रनिबंधनत्वेन सिद्धत्वात् । स्यान् मतं । वैशेषि- काणाम् अबाधितेहेदं प्रत्ययाल् लिंगात् सामान्यतः संबंधेसिद्धे विशेषणावयवावयविनोर् गुणगुणिनोः क्रिया- क्रियावतोः सामान्यतद्वतोर् विशेषतद्वतोश् च यः संबंधंइहेदं प्रत्ययलिंगः स समवाय एव भविष्यति लक्ष- णविशेषसंभवात् । तथा हि "अयुतसिद्धानामाधार्याधारभूतानाम् इहेदं प्रत्ययलिंगो यः संबंधःस सम- १५वाय इति प्रशस्तकरः" । तत्र इहेदं प्रत्ययलिंगःसमवाय इत्य् उच्यमाने ऽṃतरालाभावनिबंधनेन इह ग्रामेवृक्ष इति इहेदं प्रत्ययेन, व्यभिचारात् संबंध इति वचनं । संबंधो हि इहेदं प्रत्ययलिंगो यः स एव समवाय इष्यते न चांतरालाभावो ग्रामवृक्षाणां संबंध इति न तेनव्यभिचारः । तथापि इहाकाशे शकुनिर् इति इहेदं प्रत्ययेन संयोगसंबंधमात्रनिबंधनेन व्यभिचार इत्याधाराधेयभूतानाम् इति निग्रद्यते । न हि यथाऽव- यवावयव्यादीनाम् आधाराधेयभूतत्वम् उभयोः प्रसिद्धंतथा शकुन्याकाशयोर् औत्तराधर्यायोगात् आकाशस्य २०सर्वगतत्वेन शकुनेर् उपर्य् अपि भावाद् अधस्ताद् इवेति नतत्रेहेदं प्रत्ययेन व्यभिचारः । नन्व् आकाशस्यातींद्रि- यत्वात् तद् अस्मदादीनाम् इहेदं प्रत्ययस्यासंभवात् कथंतेन व्यभिचारचोदना साधीयसीति न मंतव्यं । कुतश्चिल् लिंगाद् अनुमिते ऽप्य् आकाशे श्रुतिप्रसिद्धेर् वाकस्यचिद् इहेदम् इति प्रत्ययाविरोधात् तत्र, भ्रांतेन वा केषां- चिद् इहेदम् इति प्रत्ययेन व्यभिचारचोदनायाःन्यायप्राप्तत्वात् तत्परिहारार्थम् आधाराधेयभूतानाम् इति वचनस्योपपत्तेः । नन्व् एवम् अपीह कुंडे दधीतिप्रत्ययेनानेकांतस्तस्य संयोगनिबंधनत्वेन समवायाहेतु- २५त्वाद् इति न शंकनीयम् अयुतसिद्धनाम् इति प्रतिपादनात् । नहि यथावयवावयव्यादयो ऽयुतसिद्धास् तथा दधिकुंडादयः तेषां युतसिद्धत्वात् । तर्ह्य् अयुतसिद्धानाम् एवेति वक्तव्यम् आधाराधेयभूतानाम् इतिवचनस्या- भावे ऽपि व्यभिचाराभावाद् इति न चेतसि विधेयं । वाच्यवाचकभावेनाकाशाकाशशब्दयोर् व्यभिचा- रात् ॥ इहाकाशे वाच्ये वाचक आकाशशब्द इति इहेदंप्रत्ययलिंगस्यायुतसिद्धसंबंधस्य वाच्यवाचक- भावप्रसिद्धेः तेन व्यभिचारोपपत्तेर् आधाराधेयभूतानामिति वचनस्योपपत्तेः । नन्व् आधाराधेयभूतानाम् अ- ३०युतसिद्धानाम् अपि संबंधस्य विषयविषयिभावस्य सिद्धेःकुतः समवायसिद्धिः । न ह्य् आत्मनि–इच्छादीनां ज्ञानम् अयुतसिद्धं न वभति । तथाहम् इतिज्ञानम् आधाराधेयभावस्याप्य् अत्र भावात् न चाहम् इतिप्रत्ययस्यात्मविष- यस्यायुतसिद्धस्यात्माधारस्य विषयविषयिभावो ऽसिद्ध इति कुतस् तयोः समवाय एव सिध्येद् इति न वक्तव्यं । आधाराधेयभूतानाम् एवायुतसिद्धानाम् एवेति चावधारणात् । वाच्यवाचकभावो हि यु१तसिद्धानाम् अनाधा- राधेयभूतानां च प्रतीयते विषयविषयिभाववत् । ततोऽनेनावधारितविषयेण न व्यभिचारः ३५संभाव्यते । नन्व् एवम् अयुतसिद्धानाम् एवेत्य् अवधारणाद्व्यभिचाराभावाद् आधाराधेयभूतानाम् इति वचन- म् अनर्थकं स्यात् आधाराधेयभूतानाम् एवेत्य् अवधारणे सत्ययुतसिद्धानाम् इति वचनवत् ॥ विषयविषयिभावस्य वाच्यवाचकभावस्य च युतसिद्धानाम् अप्यनाधार्याधारभूतानाम् इव संभवात् तेनव्यभिचाराभावाद् इति च २७न मननीयं । घटाद्येकद्रव्यसमवायिनांरूपसादीनाम् अयुतसिद्धानाम् एव परस्परं समवायाभावादेकार्थसम- वायेन संबंधेन व्यभिचारात् । न ह्य् अयं युतसिद्धानामपि संभवति विषयविषयिभाववद् वाच्यवाचकभाव- वद् वा ततो ऽयुतसिद्धानाम् एवेत्य् अवधारणे ऽपिव्यभिचारनिवृत्यर्थम् आधार्याधारभूतानाम् इति वचनं । तथा- ऽऽधार्याधारभूतानाम् एवेति वचने ऽप्याधाराधेयभावेन संयोगविशेषेणसर्वथाऽनाधार्याधारभूतानाम् असं- ०५भवताव्यभिचारः संभाव्यत एव तन्निवृत्यर्थमयुतसिद्धानाम् एवेति वचनम् अर्थवद् एवेति निरवद्यम् अयुतसि- द्धत्वाधार्याधारभूतत्वलक्षणं संयोगादिभ्योव्यवच्छेदकं संबंधस्येहेदं प्रत्ययलिंगेनव्यवस्थापितस्य सम- वायस्वभावत्वं साधयत्य् एव । अतः संबंधमात्रे ऽपिसाध्ये न सिद्धसाधनम् इति वैशेषिकाः संचक्षते तेषाम् अयुतसिद्धानाम् इति वचनं तावद् विचार्यते । किमिदम् अयुतसिद्धत्वं नामविशेषणं, वैशेषिकशास्त्रापेक्षया लोकापेक्षया वा स्यात् ॥ उभयथापि न साध्व् इत्य् आह ॥ १०सत्याम् अयुतसिद्धौ चेन् नेदं साधुविशेषणं । शास्त्रीयायुतसिद्धत्वविरहात् समवायिनोः ॥ ४२ ॥ द्रव्यं स्वावयवाघारं गुणो द्रव्यश्रयो यतः लौकिक्ययुतसिद्धिस् तु भवेद् दुग्धांभसोर् अपि ॥ ४३ ॥ इह तंतुषु पट इत्य् आदिर् इहेदं प्रत्ययःसमवायसंबंधनिबंधन एव, निर्बाधत्वेसत्ययुतसिद्धेहेदं प्रत्य- १५यत्वात् । यस् तु न समवायसंबंधनिबंधनः स नैवंयथेहसमवायिषु समवाय इति वाध्यमानेहेदं प्रत्ययः । इह कुंडे दधीति युतसिद्धेहेदं प्रत्ययश् च । निर्बाधत्वेसत्ययुतसिद्धेहेदं प्रत्ययश् चायाम् इह तंतुषु पट इत्य् आदिः, तस्मा- त् समवायसंबंधनिबंधन इति केवलव्यतिरेकी हेतुरसिद्धत्वादिदोषरहितत्वात् स्वसाध्या विनाभावी सम- वायसबंधं साधयतीति परैर् अभिधीयते सत्यामयुतसिद्धाव् इति वचनसामर्थ्यात् । तत्रेदम् अयुतसिद्धत्वं यदि शास्त्रीयं हेतोर् विशेषणं तदा न साधु प्रतिभासतेसमवायिनोर् अवयवावयविनोर् गुणगुणिनोः क्रिया २०क्रियावतोः सामान्यतद्वतोर् विशेषतद्वतोश् चशास्त्रीयस्यायुतसिद्धत्वस्य विरहात् वैशेषिकशास्त्रे हिप्रसिद्धम् ऽअपृथगाश्रयवृत्तित्वम् अयुतसिद्धत्वंऽ । तच् चेह नास्त्येव यतः कारणाद् द्रव्यं तंतुलक्षणं स्वावयवांशेषु वर्ततेकार्यद्रव्यं च पटलक्षणं स्वावयवेषु तंतुषु वर्तत इतिस्वावयवाधाराम् इत्य् अनेनावयवावयविनोःपृथगाश्रयवृत्तित्वसिद्धेर् अ- पृथगाश्रयवृत्तित्वम् असद् एवेति प्रतिपादितं यतश् च गुणःकार्यद्रव्याश्रयो रूपादि । कार्यद्रव्यं तु स्वावयवाधारं प्रतीयते तेन गुणगुणिनोर् अपृथगाश्रयवृत्तित्वमसंभाव्यमानं निवेदितं । एतेन क्रियायाःकार्यद्रव्यवर्तनात् कार्य २५द्रव्यस्य च स्वाववयवेषु, क्रियाक्रियावतोरपृथगाश्रयवृत्तित्वाभावः कथितः । तथा सामान्यस्यद्रव्यत्वादे- र् द्रव्यादिषु वृत्तेर् द्रव्यादीनां च स्वाश्रयेषु, सामान्यतद्वतोः पृथगाश्रयवृत्तित्वं ख्यापितंतथैवापरविशेषस्य कार्यद्रव्येषु प्रवृत्तेः कार्यद्रव्याणां च स्वावयवेषुविशेषतद्वतोर् अपृथगाश्रयवृत्तित्वं निरस्तं वेदितव्यं । ततो न शास्त्रीयायुतसिद्धिः समवायिनोर् अस्ति या तु लौकिकीलोकप्रसिद्धैकभाजनवृत्तिः सा दुग्धांभसोर् अपि युतसिद्धयोर् अस्तीति तयापि नायुतसिद्धत्वं सत्यासमवायिनोः साधीय इति प्रतिपत्तव्यं । ३०पृथगाश्रयवृत्तित्वं युतसिद्धिर् न चानयोः । सास्तीशस्य विभुत्वेन परद्रव्याश्रितिच्युतेः ॥ ४४ ॥ ज्ञानस्यापीश्वराद् अन्यद्रव्यवृत्तित्वहानितः । इति ये ऽपि समादध्युस् तांश्च पर्यनुयुंज्महे ॥ ४५ ॥ विभुद्रव्यविशेषाणाम् अन्याश्रयविवेकतः । ३५युतसिद्धिः कथं तु स्याद् एकद्रव्यगुणादिषु ॥ ४६ ॥ २८समवायः प्रसज्येतायुतसिद्धौ परस्परं । तेषां तद्द्वितयासत्वे स्याद् व्याघातो दुरुत्तरः ॥ ४७ ॥ ननु च पृथगाश्रयवृत्तित्वं युतसिद्धिः ऽपृथगाश्रयाश्रयित्वं युतसिद्धिः ऽ इति वचनात् । पृथगा श्रयसमवायो युतसिद्धिर् इति वदतां समवायस्यविवादाध्यासितत्वाल् लक्षणासिद्धिप्रसंगात् । लक्षणस्या- ०५कारकत्वेन ज्ञापकत्वे ऽपि तेन सिद्धेन भवितव्यं । असिद्धस्य विवादाध्यासितस्य संदिग्धत्वात् तल्लक्षण- त्वायोगात् । सिद्धं हि कस्यचिद् भेदकं लक्षणम् उपपद्यतेनान्यथेति लक्ष्यलक्षणभावविदो विभावयंति । तत्र युतसिद्धत्वम् ईश्वरज्ञानयोर् नास्त्य् एव महेश्वरस्यविभुत्वान् नित्यत्वाच् चान्यद्रव्यवृत्तित्वाभावान् महेश्वराद् अ- न्यत्र तद्विज्ञानत्वस्याप्रवृत्तेः पृथगाश्रयवृतित्वाभावात् । कुंडस्य हि कुंडावयवेषु वृत्तिर् दध्नश् च दध्यवयवेष्व् इ- ति कुंडावयवद् अध्यवयवाख्यौ पृथग्भुतावाश्रयौ तयोश्च कुंडस्य दध्नश् च वृत्तिर् इति पृथगाश्रयवृतित्वं तयो- १०र् अभिधीयते । न चैवं विधं पृथगाश्चयाश्रयित्वंसमवायिनोः संभवति तंतूनां स्वावयवेष्व् अंशुषु यथावृत्तिः न तथा पटस्य तंतुव्यतिरिक्ते क्वचिद् आश्रये न ह्य् अत्रचत्वारो ऽर्थाः प्रतीयंते । द्वाव् आश्रयौ पृथग्भूतौ द्वौ चाश्रीयणाव् इति तंतोर् एव स्वावयवापेक्षयाश्रयित्वात्पटापेक्षया वाश्रयत्वात् त्रयाणाम् एवार्थानां प्रसिद्धेः पृथ- गाश्रयाश्रयित्वस्य युतसिद्धिलक्षणस्याभावाद् अयुतसिद्धत्वं शास्त्रीयं समवायिनोः सिद्धम् एव ततो ऽयुतसिद्ध- त्वविशेषणं साध्व् एवासिद्धत्वाभावात् । लौकिक्ययुतसिद्धत्वं तु प्रतीतिबाधितं नाभ्युपगम्यत एवंततः सवि- १५शेषणाद् धेतोः समवायसिद्धिर् इति ये ऽपि समादधतेविदग्धवैशेषिकास् तांश् च पर्यनुयुंज्महे । विभुद्रव्यविशे- षाणाम् आत्माकाशादीनां कथं तु युतसिद्धिः परिकल्पतेभवद्भिस् तेषाम् अन्याश्रयविरहात् । पृथगाश्रयाश्रयित्वा- संभवात् । नित्यानां च पृथग्गतिमत्वं युतसिद्धिर् इत्य् अपिन विभुद्रव्येषु संभवति तद् धि पृथग्गतिमत्वं द्विधाभिधीयते कैश्चित् । अन्यतरपृथग्गतिमत्वंउभयपृथग्गतिमत्वं चेति । तत्र परमाणविभुद्रव्ययोर् अ- न्यतरपृथग्गतिमत्वं परमाणोर् एव गतिमत्वात् । विभुद्रव्यस्य तु निःक्रियत्वेन गतिमत्वाभा- २०वात्, परभाणूनां तु परस्परम् उभयपृथग्गतिमत्वमुभयोर् अपि परमाण्वोः पृथक् पृथग्गतिमत्वसंभवात् । तचैतद् द्वितयम् अपि परस्परं विभुद्रव्यविशेषाणांसंभवति । तथैकद्रव्याश्रयाणां गुणकर्मसामान्यानां चपर- स्परं पृथगाश्रयवृत्तेर् अभावात् युतसिद्धिः कथं नु स्यादिति वितर्कयंतु भवंतः । तेषां युतसिध्द्यभावे चायुत- सिद्धौ सत्यां समवायो ऽन्योन्यं प्रसज्येत स च नेष्टःतेषाम् आश्रयाश्रयिभावाभावात् । अत्र केचिद् विभुद्रव्य- विशेषाणाम् अन्योन्यं नित्यसंयोगम् आसंचक्षते तस्य कुतश्चिद् अजातत्वात् । न ह्य् अयम् अन्यतरकर्मजो यथा स्थाणोः २५श्येनेन । विभूनां च मूर्तैः, नाप्य् उभयकर्मजो यथामेषयोर् मल्लयोर् वा । न च संयोगजो यथा द्वितंतुक- वीरणयोः शरीराराकाशयोर् वा । स्वावयवसंयोगपूर्वको ह्यवयविनः केनाचित् संयोगः प्रसिद्धः । न चाकाशादीनाम् अवयवाः संति निरवयवत्वात् ततो नतत्संयोगपूर्वकः परस्परं संयोगो यतः संयोगजः स्यात् प्राप्तिस् तु तेषां सर्वदाऽस्तीति तल्लक्षणसंयोगः, अजएवाभ्युपगतव्यः । तत्सिद्धेश् च युतसिद्धिस् तेषां प्रतिज्ञा- तव्या । युतसिद्धानाम् एव संयोगस्य निश्चयात् । नच् चैवंये ये युतसिद्धास् तेषां स ह्य् अहिमवदादीनाम् अपि ३०संयोगः प्रसज्यते तथाव्याप्तेर् अभावात् संयोगेन हियुतसिद्धत्वं व्याप्तं न युवसिद्धत्वेन संयोगः ततो यत्र यत्र संयोगस् तेषां तत्र तत्र युतसिद्धिर् इत्य् अनुमीयतेकुंडबदरादिवत् । एवं चैकद्रव्याश्रयाणां गुणादीनां संयोगस्यासंभ्रवान् न युतसिद्धिः तस्य गुणत्वेनद्रव्याश्रयत्वात् तदभावान् न युतसिद्धिः नाप्य् अयुतसिद्धिरस्तीति समवायः प्राप्नुयात् तस्येहेदं प्रत्ययलिंगत्वादाधार्याधारभूतपदार्थविषयत्वाच् च । न चैतेपरस्परम् आधार्याधा- रभूताः स्वाश्रयेण द्रव्येण सहाधार्याधारभावात् । नचैहेदम् इति प्रत्ययस् तत्राबाधितः संभवति यल्लिंगः ३५संबंधः समवायो व्यवस्थाप्यते । न हीह रसे रूपंकर्मेति चाबाधितः प्रत्ययो ऽस्ति नापीह सामान्ये कर्म- गुणो वेति न ततः समवायः स्यात् न हि यत्रयत्रायुतसिद्धिस् तत्र तत्र समवाय इति व्याप्तिर् अस्ति यत्रयत्र समवायस् तत्र तत्रायुतसिद्धिर् इति व्याप्तेः संप्रत्ययादिति सर्वं निरवद्यं परोक्तदूषणानवकाशात् इति त एवं वदतः शंकरादयो ऽपि पर्यनुयोज्याः कथंपृथगाश्रयाश्रयित्वं युतसिद्धिः नित्यानां चपृथग्गतिमत्वम् इति २९युतसिद्धेर् लक्षणद्वयम् अव्यापि न स्यात् तस्यविभुद्रव्येष्व् अजसंयोगेनानुमितायां युतसिद्धाव् अभावात् । यदिपुन- र् एतल्लक्षणद्वयव्यतिक्रमेण संयोगहेतुर् युतसिद्धिर् इतिलणांतरम् उररीक्रियते तदा कुंडबदरादिषु परमाण्वा- काशादिषु परमाणुष्व् आत्ममनस्सू विभुद्रव्येषु च परस्परंयुतसिद्धेर् भावाल् लक्षणस्याव्याप्त्यतिव्याप्त्वसंभवदोष- परिहारे ऽपि कर्मापि युतसिद्धिं प्राप्नोवि तस्यापि संयोगेहेतुत्वा । ददृष्टेश्वरकालादेर् इवेति दुःशक्यातिव्याप्तिः ०५परिहर्तुं । संयोगस्यैव हेतुर् इत्य् अवधारणाद् अदोषो ऽयमिति चेन् न । एवम् अपि हिमवद्विंध्यदिनां युतसिद्धेः संयो- गाहेतोर् अपि प्रसिद्धेर् लक्षणस्याव्याप्तिप्रसङ्गात् । हेतुर् एवसंयोगस्येत्य् अवधारणाद् अयम् अपि न दोष इति चेन् न । एवम् अपि संयोगहेतोर् युतासिद्धेः प्रसंगात् ॥ संयोगस्यैव हेतुर् युतसिद्धिर् इत्य् अवधारणे ऽपिविभागहेतुर् युत- सिद्धिः कथम् इव व्यवस्थाप्यते ॥ न च युतसिद्धानांसंयोग एव विभागस्यापि भावात् संयोगोविभा- गहेतुर् इत्य् अपि वार्तं । तस्य तद्विरोधिगुणत्वात्तद्विनाशहेतुणत्वात् ॥ संयुक्तविषयत्वाद् विभागस्यसंयोगोहेतुर् इति १०चेन् न तर्हि विभक्तविषयत्वात् संयोगस्य विभागो हेतुरस्तु । कयोश्चित् विभक्तयोर् अप्य् उभयकर्मणो ऽन्यतरकर्म- णो ऽवयवसंयोगस्य चापाये संयोगापायान् न विभागःसंयोगहेतुर् इति चेत् तर्हि संयुक्तयोर् अप्य् उभयकर्मणोऽन्य- तरकर्मणो ऽवयवविभागस्य चापाये विभागस्याभावात्संयोगो विभागस्यापि हेतुर् मा भूत् । कथं च शश्वदवि- भक्तानां विभुद्रव्यविशेषाणाम् अजः संयोगःसिध्यन्विभागहेतुको व्यवस्थाप्यते । तत्र युतसिद्धिर्विभाग- हेतुर् इति कथम् अवस्थाप्यते इति चेत् सर्वस्य हेतोःकार्योत्पादनानियमद् इति ब्रूमः । समर्थो हि हेतुः स्वकार्य- १५म् उत्पादयति नासमर्थः सहकारिकारणानपेक्षो ऽतिप्रसंगात् ॥ तेन यथा हिमवद्विṃध्यादीनां युतसिद्धि- र् विद्यमानापि न संयोगम् उपजनयति सहकारिकारणस्यकर्मादेर् अभावात् तथा विभुद्रव्यविशेषाणां शाश्वतिका युतसिद्धिः सत्य् अपि न विभागं, सहकरिकारणस्याऽन्यतरकर्मादेर् अभावाद् इति संयोगहेतुंयुतसिद्धि- म् अभ्यनुजानंतो विभागहेतुम् अपि ताम् अभ्यनुजानंतुसर्वथाविशेषाभावात् तथा च संयोगस्यैव हेतुर् युतसिद्धिर् इ- त्य् अपि लक्षणं न व्यवतिष्ठत एव लक्षणभावे च नयुतसिद्धिः नापि युतसिद्ध्यभावलक्षणास्यादयुतसिद्धि- २०र् इति युतसिद्ध्ययुतसिद्धिद्वितयापाये व्याघातो दुरुत्तरःस्यात् सर्वत्र संयोगसमवाययोर् अभावात् संस- र्गहाने; सकलार्थहानिः स्याद् इत्य् आभिप्रायः । संयोगापायेतावद् आत्मातः करणसंयोगाद् बुद्ध्यादिगुणोत्प- त्तिर् न भवेत् तदभावे च आत्मनो व्यवस्थापनोपायापायादात्मतत्वहानिः ॥ एतेन भेरीदंडाद्याकाशसंयोगा- भावाच् छब्दस्यानुत्पत्तेर् आकाशव्यवस्थापनोपायासत्वादाकाशहानिर् उक्ता सर्वत्रावयवसंयोगाभावात् तद्वि- भागस्याप्य् अनुपपत्तेस् तन्निमित्तस्यापि शब्दस्याभावात् । एतेन परमाणुसंयोगाभावाद् व्यणुकादिप्रक्रमेणा- २५वयविनो ऽनुत्पत्तेस् तत्र परापरादिप्रत्ययापायात् इदम् अतःपूर्वेणेत्य् आदिप्रत्ययापायाच् च न कालो दिक् च व्यवतिष्ठत इत्य् उक्तं । तथा समवायासत्वेसकलसमवायिनाम् अभावान् न मनःपरमाणवो ऽपि संभाव्यंते इति सकलद्रव्यपदार्थहानेस्तदाश्रयगुणकर्मसामान्यविशेषपदार्थहानिर् अपीतिसकलपदार्थव्याघातात् दुरुत्तरो वैशेषिकमतस्य व्याघातः स्यात् तं परिजिहीर्षतायुतसिद्धिः कुतश्चिद् व्यवस्थापनीया ॥ तत्र — युतप्रत्ययहेतुत्वाद् अयुतीसिद्धिर् इतीरणे ३०विभुद्रव्यगुणादीनां युतसिद्धिः समागता ॥ ४८ ॥ यथैव हि कुंडबदरादिषु युतप्रत्यय उत्पद्यतेकुंडादिभ्यो बदरादयो युता इति तथा विभुद्रव्यविशेषु प्रकृतेषु गुणगुणिषु क्रियाक्रियावत्सु सामान्यतद्वत्सुविशेषतद्वत्सु चावयवावयविषु च युतप्रत्ययो भवत्येवेति वुतसिद्धिः समागता सर्वत्रायुतप्रत्ययस्याभावात् । देशभेदाभावात् तत्र न युतप्रत्यय इति चेन् न । वाताऽ- ऽतपादिषु युतप्रत्ययानुत्पत्तिप्रसंगात् ॥ तेषांस्वावयवेषु भिन्नेषु देशेषु वृत्तेस् तत्र युतप्रत्यय इतिचेत् कि- ३५म् एवं तंतुपटादिषु पटरुपादिषु च युतप्रत्ययःप्रतिषिध्यते स्वाश्रयेषु भिन्नेषु वृत्तेर् अविशेषात् तथा च न तेषाम् अयुतसिद्धिः । ततो न युतप्रत्ययहेतुत्वेनयुतसिद्धिर् व्यवतिष्ठते । तदव्यवस्थानाच् च किं स्याद् इत्याह ॥ यतो नायुतसिद्धिः स्याद् इत्य् असिद्धं विशेषणं । हेतोर् विपक्षतस् तावद्व्यवच्छेदं न साधेयत् ॥ ४९ ॥ ३०सिद्धे ऽपि समवायस्य समवायिषु दर्शनात् । इहेदम् इति संवित्तेः साधनं व्यभिचारि तत् ॥ ५० ॥ तद् एवम् अयुतसिद्धेर् असंभवे सत्याम् अयुतसिद्धाव् इतिविशेषणं तावद् असिद्धविपक्षाद् असमवायात् संयोगा- देर् व्यवच्छेदं न साधयेत् संयोगादिनाव्यभिचारस्याबाधितेहेदं प्रत्ययस्य हेतोर् दुःपरिहारत्वात्केवल- ०५म् अभ्युपगम्यायुतसिद्धत्वं विशेषणं हेतोर् अनैकातिकत्वमुच्यते । सिद्धे ऽपि विशेषणे साधनस्येह समवायिषु समवाय इत्य् अयुतासिद्धबाधितेहेदं प्रत्येन साधनम् एतत्व्यभिचारि कथ्यते । न ह्य् अयम् अयुतसिद्धबाधितेहेदं प्रत्ययः समवायहेतुक इति । नन्व् अबाधितत्वविशेषणमसिद्धम् इति परमतमाशंक्याह ॥ समवायां 'न्तराद् वृत्तौ समवायस्य तत्वतः । समवायिषु तस्यापि परस्माद् इत्य् अनिष्ठितिः ॥ ५१ ॥ १०तद्बाधाऽस्तीत्य् अबाधत्वं नाम नेह विशेषणं । हेतोः सिद्धम् अनेकांतो यतो ऽनेनेति ये विदुः ॥ ५२ ॥ तेषाम् इहेति विज्ञानाद् विशेषणविशेष्यता । समवायस्य तद्वत्सु तत एव न सिध्यति ॥ ५३ ॥ विशेषणविशेष्यत्वसंबंधो ऽप्य् अन्यतो यदि । १५स्वसंबंधिषु वर्तेत तदा बाधाऽनवस्थितिः ॥ ५४ ॥ इह समवायिषु समवाय इति समवायसमवायिनोरयुतसिद्धत्वे समवायस्य पृथगाश्रयाभावा- त् प्रसिद्धे सतीहेदम् इति संवित्तेरबाधितत्वविशेषणस्याभावात् न तया साधनंव्यभिचरेत् तत्रान- वस्थाया बाधिकायाः सद्भावात् तथा हि समवायिषुसमवयस्य वृत्तिः समवायांतराद् यदीष्यते तदा तस्यापि समवायांतरस्य समवायसमवायिषु स्वसंबंधिषुवृत्तिर् अपरापरसमवायरूपैषितव्यां २०तथा चापरापरसमवायपरिकल्पनायाम् अनिष्ठितिःस्यात्तथैक एव समवायस् तत्वं भावेन व्याख्याताम् इति सिद्धांतस्य चानिष्ठितिः सैवेहेदम् इति प्रत्ययस्य बाधाततो नाबाधत्वं नाम विशेषणं हेतोर् येनाऽनेकांतः स्याद् इ- ति ये वंदति तेषां विशेषणविशेष्यत्वसंबंधोऽपि समवायिषु समवाय इति प्रत्ययान् न सिध्येद् अनवस्थायाः सद्भावात् विशेषणविशेष्यभावो हि समवायसमवयिनां परैरिष्टः समवायस्य विशेषणत्वात् समवा- यिनां विशेष्यत्वात् अन्यथा समवायप्रतिनियमानुपपत्तेः ॥ स च समवायसमवायिभ्यो ऽर्थांतरम् एव न २५पुनर् अनर्थांतरं समवायस्यापि समवायिभ्योऽनर्थांतरापत्तेः स चार्थांतरभूतोविशेषणविशेष्यभावः संबंधः स्वसंबंधिषु परस्माद् एव विशेषणविशेष्यभावात्प्रतिनियतः स्यात् नान्यथा तथा चापरापरविशे- षणविशेष्यभावपरिकल्पनायाम् अनवस्था वाधा तदवस्थैवततस् तया सबाधाद् इहेदम् इति प्रत्ययाद्विशेषण- विशेष्यभावो ऽपि न सिध्येद् इति कुतःसमवायप्रतिनियमः क्वचिद् एव समवयिषु परेषां स्यात् ॥ विशेषणविशेष्यत्वप्रत्यायाद् अवगम्यते । ३०विशेषणविशेष्यत्वम् इत्य् अप्य् एतेन दूषितं ॥ ५५ ॥ यथेह समवायिषु समवाय इतीहेदं प्रत्ययाद् अनवस्थया बाध्यमानात् समवायवद्विशेषणाविशे- ष्यभावो न सिध्येद् इति तथाविशेषणविशेष्यत्वप्रत्ययादप्यनवस्थयाबाध्यमानत्वाविशेषात् ततो ऽ- नेनेहेदं प्रत्ययं दूषणेन विशेषणविशेष्यत्वप्रत्ययो ऽपिदूषित एव तेनैव च तद्दूषणेन विशेषणविशे- ष्यत्वं सर्वत्र दूषितम् अवगम्यतां ॥ अत्रानवस्थापरिहारं परेषाम् आशंक्य निराचष्टे ॥ ३१तस्यानंत्यात् प्रतॄणाम् आकाक्षाक्षयतो ऽपि वा । न दोष इति चेद् एवं समवायादिनापि किं ॥ ५६ ॥ गुणादिद्रव्ययोर् भिन्नद्रव्ययोश् च परस्परं । विशेषणविशेष्यत्वसंबंधो ऽस्तु निरंकुशः ॥ ५७ ॥ ०५संयोगः समवायो वा तद्विशेषो ऽस्त्व् अनेकधा । स्वातंत्र्ये समवायस्य सर्वथैक्ये च दोषतः ॥ ५८ ॥ तस्य विशेषणविशेष्य भावस्यानंत्यात् समवायवदेकत्वानभ्युपगमात् नानवस्था दोषो यदि परैः कथ्यते प्रपतॄणाम् आकांक्षाक्षयतो ऽपि वा यत्र यस्यपतिपत्तुर् व्यवहारपरिसमाप्तेर् आकांक्षायः स्यात् तत्रापरविश्वेषणाविशेष्यभावानन्वेषणाद् अनवस्थानुपपत्तेःतदा समवायादिनापि परिकल्पितेन न १०किंचित् फलम् उपलभाम्हे समवायिनोर् अपिविशेषणविशेष्यभावस्यैवाभ्युपगमनीयत्वात्संयोगिनोर् अपि विशेषणविशेष्य भावानतिक्रमात् । गुणद्रव्ययोःक्रियाद्रव्ययोः द्रव्यत्वद्रव्ययोः गुणत्वगुणयोः कर्म- स्वकर्मणोः गुणत्वद्रव्ययोः कर्मत्वद्रव्ययोःविशेषद्रव्ययोश् च द्रव्ययोर् इव विशेषणविशेष्यत्वस्य साक्षात् परंपरया वा प्रतीयमानस्य बाधकाभावात् । यथैव हि गुणिद्रव्यं क्रियावद्द्रव्यं द्रव्यत्ववद्द्रव्यं विशेषवद्द्रव्यं गुणत्ववान् गुणः कर्मत्ववत् कर्मेत्य् अत्रसाक्षाद् विशेषणविशेष्यभावः प्रतिभासते दंडिकुंड- १५लिवत् तथा परंपरया गुणत्ववत् द्रव्यम् इत्य् अत्र गुणस्यद्रव्यविशेषणत्वात् गुणत्वस्य च गुणविशेषण- त्वात् विशेषणाविशेष्यभावो ऽपि तथा कर्मत्ववद् द्रव्याम् इत्यत्रापि कर्मत्वस्य कर्मविशेषणत्वात् कर्मणो द्रव्यविशेषणत्वात् विशेषणविशेष्यभाव एव निरंकुशो ऽस्तु ॥ ननु च दंडपुरुषादीनाम् अवयवा- वयव्यादीनां च संयोगः समवायश् चविशेषणविशेष्यभावहेतुः संप्रतीयते तस्य तद्भावएव भावाद् इति न मंतव्यं । तदभावे ऽपि विशेषणविशेष्य भावस्यसद्भावात् धर्मधर्मिवत् भावाभाववद् वा । न हि धर्म- २०धर्मिणोः संयोगः तस्य द्रव्यनिष्ठत्वात् । नापि समवायःपरैरिष्यते । समवायतदस्तित्वयोः समवा- यांतरप्रसंगात् ॥ तथा च भावाभावयोः संयोगःसमवायो वा परैर् इष्टः सिद्धांतविरोधात् तयो- र् विशेषणं विशेष्यभावस् तु तैर् इष्टो दुष्टश् चेति नसंयोगसमवायाभ्यां विशेषणविशेष्यभावो व्याप्तः, तेन तयोर् व्याप्तत्वसिद्धिः न हि विशेषणाविशेष्यभावास्याभावेकयोश्चित् संयोगः समवायो वा व्यवतिष्ठ- ते ॥ क्वचिद् विशेषणविशेष्यभावाव् इव क्षायां तुसंयोगसमवायव्यवहारो न विशेषणविशेष्यभावस्या- २५व्यापकत्वं व्यवस्थापयितुम् अलं । सतो ऽप्य् अनर्थित्वादेर्विवक्षानुपपत्तेर् व्यापकत्वप्रसिद्धेः । ततः संयोगः समवायो वा अन्यो वाऽविनाभावादिः संबंधस् तस्यैवविशेषणविशेष्यभावस्य विशेषोस् तु ॥ ननु च समवायस्य स्वतंत्रत्वाद् एकत्वाच् च कथम् असौ तद्विशेषःस्थाप्यत इति चेन् न समवायस्य स्वतंत्रत्वे सर्वथै- कत्वे च दोष सद्भावात् ॥ तथा हि — स्वतंत्रस्य कथं तावद् आश्रितत्वं स्वयं मतं । ३०तस्याश्रितत्वे वचने स्वातंत्र्यं प्रतिहन्यते ॥ ५९ ॥ समवायिषु सत्स्व् एव समवायस्य वेदनात् । आश्रितत्वे दिगादीनां मूर्तद्रव्याश्रितिर् न किं ॥ ६० ॥ कथं चानाश्रितः सिध्येत् संबंधः सर्वथा क्वचित् । स्वसंबाधिषु येनातः संभवेन् नियतस्थितिः ॥ ६१ ॥ ३२एक एव च सर्वत्र समवायो यदीष्यते । तदा मेहश्वरे ज्ञानं समवैति न खे कथं ॥ ६२ ॥ इहेति प्रत्ययो ऽप्य् एष शंकरे न तु खादिषु । इति भेदः कथं सिध्येन् नियामकम् अपश्यतः ॥ ६३ ॥ ०५न चाचेतनता तत्र संभाव्येत नियामिका । शंभाव् अपि तदास्थानात् खादेस् तदविशेषतः ॥ ६४ ॥ नेशो ज्ञाता न चाज्ञाता स्वयं ज्ञानस्य केवलं । समवायात् सदा ज्ञाता यद्य् आत्मैव स किं स्वतः ॥ ६५ ॥ नायम् आत्मा च चानात्मा स्वात्मत्वसमवायतः । १०सदात्मैवेति चेद् एवं द्रव्यम् एव स्वतो ऽसिधत् ॥ ६६ ॥ नेशो द्रव्यं न चाद्रव्यं द्रव्यत्वसमवायतः । सर्वदा द्रव्यम् एवेति यदि सन्न् एव स स्वतः ॥ ६७ ॥ न स्वतः सन्नसन् नापि सत्वेन समवायतः । सन्न् एव शश्वद् इत्य् उक्तौ व्याघातः केन वार्यते ॥ ६८ ॥ १५स्वरूपेणासतः सत्वसमवाये च खांबुजे । स स्यात् किं न विशेषस्याभावात् तस्य ततो ऽṃजसा ॥ ६९ ॥ स्वरूपेण सतः सत्वसमवायेपि सर्वदा । सामान्यदौ भवेत् सत्वसमवायो ऽविशेषतः ॥ ७० ॥ स्वतः सतो यथा सत्त्वसमवायस् तथास्तु सः । २०द्रव्यत्वात्मत्वबोद्धृत्वसमवायो ऽपि तत्त्वतः ॥ ७१ ॥ द्रव्यस्यैवात्मनो बोद्धुः स्वयं सिद्धस्य सर्वदा । न हि स्वतो तथाभृतस् तथात्वसमवायभाक् ॥ ७२ ॥ स्वयं ज्ञत्वे च सिद्धे ऽस्य महेशस्य निरर्थकं । ज्ञानस्य समवायेन ज्ञत्वस्य परिकल्पनं ॥ ७३ ॥ २५तत्स्वार्थव्यवसायात्मज्ञानतादात्म्यमृच्छतः । कथं चिदीश्वरस्याऽस्ति जिनेशत्वम् असंशयं ॥ ७४ ॥ स एव मोक्षमार्गस्य प्रणेता व्यवतिष्ठते । सदेहः सर्वविनष्टमोहो धर्मविशेषभाक् ॥ ७५ ॥ ३३ज्ञानाद् अन्यस् तु निर्देहः सदेहो वा न युज्यते । शिवः कर्तोपदेशस्य सो ऽभेत्ता कर्मभूभृतां ॥ ७६ ॥ स्वतंत्रत्वे हि समवायस्य षण्णामाश्रितत्वम् "अन्यत्रनित्यद्रव्येभ्य" इति कथम् आश्रितत्वं स्वयं वै- शेषिकैर् इष्ठाम् इति तंत्राविरोधो दोषः । तस्याश्रितत्वप्रतिपादने स्वतंत्रत्वविरोधात् । पराश्रितत्वंहि पार- ०५तंत्र्यं तेन स्वातंत्र्यं कथं न प्रतिहन्यते । स्यान्मतं परमार्थतः समवायस्याश्रित्वं धर्मः कथ्यते यतस् तंत्रविरोधः स्यात् किंतूपचारात् निमित्तंतूपचारस्यसमवायिषु सत्सु समवायज्ञानं समवायिशून्ये देशे समवायज्ञानासंभवात् परमार्थतस् तस्याश्रितत्वेस्वाश्रयनाशात् विनाशप्रसंगात् गुणादिवद् इति । तद् असत् । दिगादीनाम् अप्य् एवम् आश्रितत्वप्रसंगात् । मूर्तद्रव्येषु सत्सूपलब्धिलक्षणप्राप्तेषु दिग्लिंगस्येदम् अतः पूर्वेणैत्यादिप्रत्ययस्य काललिंगस्य चपरत्वापरत्वादिप्रत्ययस्य सद्भावात्मूर्तद्रव्याश्रितत्वोपचारप्रसं- १०गात् । तथाचान्यत्र नित्यद्रव्येभ्य इति व्याघातःनित्यद्रव्यस्यापि दिगादेर् उपचाराद् आश्रितत्वसिद्धेः । सामान्यस्यापि परमार्थतो ऽनाश्रितत्वम् अनुषज्यतेस्वाश्रयविनाशे ऽपि विनाशाभावात् समवायवत् तद् इदं स्वाभ्युपगमविरुद्धं वैशेषिकाणां, उपचारतो ऽपिसमवायस्याश्रितत्वं स्वातंत्र्यं वा । किं च समवायो न संबंधः सर्वथाऽनाश्रितत्वात् यो यः सर्वथाऽनाश्रितः सस न संबंधो यथा दिगादिः, सर्वथाऽना- श्रितश् च समवायः तस्मान् न संबंध इति इहेदंप्रत्ययलिंगो यः स समवायो न स्यात् अयुतसिद्धाना- १५म् आधार्याधारभूतानाम् अपि संबंधांतरेणाश्रितेनभवितव्यं संयोगादेर् असंभवात् । समवायस्याप्य् अनाश्रितस्य संबंधत्वविरोधात् । स्याद् आकूतं । समवायस्य धर्मिणोऽप्रतिपत्तौ हेतोर् आश्रयासिद्धत्वं । प्रतिपत्तौ धर्मि- ग्राहकप्रमाणबाधितः पक्षो हेतुश् च कालात्ययापादिष्टःप्रसज्येत । समवायो हि यतः प्रमाणात् प्रतिपन्न- स् तत एवायुतसिद्धसंबंधत्वं प्रतिपन्नम् अयुतसिद्धानामेव संबंधस्य समवायव्यपदेशसिद्धेर् इति । तद् अपि न साधीयः । सगवायिग्राहिणा प्रमाणेनाश्रितस्यैवसमवायस्याविष्वग्भावलक्षणस्य प्रतिपत्तेस्तस्याना- २०श्रितत्वाभ्युपगमे चासंबंधत्वस्य प्रसंगेन ४ साधनात् । साध्यसाधनयोर् व्याप्यव्यापकभावसिद्धौ परस्य व्याप्याभ्युपगमे तन्नांतरीयकस्य व्यापकाभ्युपगमस्यप्रतिपादनात् । न ह्य् अनाश्रितत्वमसंबंधत्वेन व्याप्तं दिगादिष्व् असिद्धं । नाप्य् अनैकांतिकम् अनाश्रितस्य कस्यचित्संबंधत्वाप्रसिद्धेः विपक्षे वृत्यभावात् तत एव न विरुद्धं । नापि सत्प्रतिपक्षं तस्यानाश्रितस्यापिसंबंधत्वव्यवस्थापकानुमानाभावाद् इति न परेषां समवायः संबंधोऽस्ति यतः प्रतिनियमः कस्यचित् क्वचित्समवायिनि व्यवस्थाप्यते । भवतु वा सम- २५वायः । किम् एको ऽनेको वा । यदि सर्वत्रैक एव समवायोऽभ्युपगम्यते तदा महेश्वरे ज्ञानं समवैति न पुनर् एवं दिगादौ वेति कथम् अवबुध्यते । इहेति प्रत्ययादिति चेन् न तस्येह शंकरे ज्ञानम् इति प्रत्ययस्यैक- समवायहेतुकस्य खादिव्यवच्छेदेन शंकर एवज्ञानसमवायसाधनासमर्थत्वात् । नियमकादर्शनाद् भे- दस्य व्यवस्थापयितुम् अशक्तेः । ननु च विशेषणभेद एवनियामकः सत्तावत् सत्ता हि द्रव्यादिविशे- षणभेदाद् एकापि भिद्यमाना दृष्टाप्रतिनियतद्रव्यादिसत्वव्यवस्थापिका द्रव्यं सत् गुणः सन्कर्म ३०सद् इति, द्रव्यादिविशेषणविशिष्टस्य सत्प्रत्ययस्यद्रव्यादिविशिष्टसत्ताव्यवस्थापकत्वात् तद्वत्समवा- यिविशेषणविशिष्टेहेदं गत्ययाद्विशिष्टसमवायिविशेषणस्यसमवायस्य व्यवस्थितेः । समवायो हि यद् उपलक्षितो विशिष्टप्रत्ययात् सिध्यते तत्प्रतिनियमहेतुरेवाभिधीयत यथेह तंतुषु पट इति तंतुपटविशिष्टे- हेदं प्रत्ययात् तंतुष्व् एव पटस्य समवायो नियम्यते नवीरणादिषु नचायं विशिष्टेहेदंप्रत्ययः सर्वस्य प्रतिपत्तुः प्रतिनियतविषयः समनुभूयमानः पर्यनुयोगार्हः किम् इतिभवन् तत्रैव प्रतिनियतो ऽनुभूयते न पुनर् अ- ३५न्यत्रेति । तथा तस्य पर्यनुयोगे कस्यचित्स्वेष्टतत्त्वव्यस्थानुपपत्तेः । तद्व्यवस्थापकप्रत्ययस्यापि पर्यनु- योग्यत्वानिवृत्तेः । सुदूरम् अपि गत्वा यदि कस्याचित्प्रत्ययविशेषस्यानुभूयमानस्य पर्यनुयोगाविषयत्वात् । ततस् तत्वव्यवस्थितिर् अभ्युपगम्यते तदेह शंकरे ज्ञानमिति विशिष्टहेदंप्रत्ययात् प्रमाणोपपन्नात् तत्रैव ज्ञान- समवायो व्यवतिष्ठते न खादिषु । विशेषणभेदात्समवायस्य भेदप्रसिद्धेर् इति केचिद् व्युत्पन्नवैशेषिकाः ३४समनुमन्यंतो ऽपि न यथार्थवादिनः । समवायस्यसर्वथैकत्वे नानासमवायिविशेषणत्वायौगात् सत्तादृष्टां तस्यापि साध्यत्वात् नहि सर्वथैका सत्ताकुतश्चित् प्रमाणात् सिद्धा । ननु सत्प्रत्ययाविशेषा- द् विशेषलिंगाभावाद् एका सत्ता प्रसिद्धैवेति चेन् न । सर्वथा सत्प्रत्ययाविशेषस्यासिद्धत्वाद् विशिष्ठलिंगाभावस्य च कथंचित् सत्प्रत्यययाविशेषस् तु कथंचिद् एवैकत्वंसत्तायाः साधयेत् यथैव हि सत्सामान्यादेशात् सत्स- ०५द् इति प्रत्ययस्याविशेषस् तथा सद्विशेषादेशात्सत्प्रत्ययविशषो ऽपि घटः सन् पटः सन्नित्यादिः समनु- भूयते । घटादिपदार्थ एव तत्र विशिष्टो न सत्तेति चेन्न । एवं घटादीनाम् अपि सर्वथैकत्वप्रसंगात् । शक्यो हि वक्तुं घटप्रत्ययाविशेषाद् एकोघटः तद्धर्मा एवविशिष्टप्रत्ययहेतवो विशिष्टा इति । घटस्यैकत्वे क्वचिद् घटस्य विनाशे प्रादुर्भावे वा सर्वत्र विनाशःप्रादुर्भावो वा स्यात् । तथा च परस्परव्याघातः सकृद्घटविनाशप्रादुर्भावयोः प्रसज्यते इति चेन् न । सत्ताया अपि सर्वथैकत्वे कस्यचित् प्रागसतः १०सत्तायाः संबंधे सर्वस्य सकृत्सत्तासंबंधप्रसंगात् । तदसंबंधे वा सर्वस्यासंबंध इति परस्परव्याघातः सत्तासंबंधासंबंधयोः सकृत्तद्दुः परिहारः स्यात् । प्रागसतः कस्यचिद् उत्पादककारणसन्निधानाद् उत्पद्यमानस्य संबंधः परस्य तदभावात् संबंधाभाव इतिप्रागुक्तदोषाऽप्रसंगे घटस्यापि क्वचिदुत्पादककारणभावाद् उ- त्पादस्य धर्मस्य सद्भावे घटेन संबंधः क्वचित् तुविनाशहेतूपादानाद् विनाशस्य भावो घटस्य तेनासंबंध इति कुतः परोक्तदोषप्रसंगः । सर्वथैकत्वे ऽपि घटस्यतद्धर्माणाम् उत्पादादीनां स्वकारणनियमाद् देशका- १५लाकारनियमोपपत्तेः । न ह्य् उत्पादादयो धर्मा घटादनर्थांतरभूता एव सत्ताधर्माणाम् अपितदनर्थांतरत्वप्रसं- गात् । तेषां ततो ऽर्थांतरत्वे घटाद् उत्पादादीनामर्थांतरत्वं प्रतिपत्तव्यं । तथा च त एव विशिष्टा नघट इति कथं न घटैकत्वम् आपद्यते । ननु घटस्य नित्यत्वेकथम् उत्पादादयो धर्मा नित्यस्यानुत्पादाविनाश- धर्मकत्वाद् इति चेत् तर्हि सत्ताया नित्यत्वे कथमुत्पद्यमानैर् अर्थैः संबंधः प्रभज्यमानैश् चेतिचिंत्यतां । स्वकारणवशाद् उत्पद्यमाना भज्यमानाश् चार्थाःशश्वदवस्थितया सत्तया संबंध्यंते । न पुनःशश्वदवस्थि- २०तेन घटेन स्वकारणसामर्थ्याद् उत्पादादयो धर्माःसंबंध्यंत इति स्वदर्शनपक्षपातमात्रं । घटस्यसर्वगतत्वे पदार्थांतराणाम् अभावापत्तेर् उत्पादादिधर्मकारणानाम् अप्यसंभवात् कथम् उत्पादादयो धर्माः स्युर् इति चेत् सत्तायाः सर्वगतत्वे ऽपि प्रागभावादीनां क्वचिद् अनुपपत्तेःकथम् उत्पाद्यमानैः प्रभज्यमानैश् चार्थैः संबंधः सिध्येत् । प्रागभावाभावे हि कथं प्रागसतःप्रादुर्भवतः सत्तया संबंधः प्रध्वंसाभावाभावे हिकथं विनश्यतः पश्चाद् असतः सत्तायाः संबंधाभाव इति सर्वेदुरवबोधं । स्यान् मतं सत्तायाः स्वाश्रयवृत्तित्वा- २५त् स्वाश्रयापेक्षया सर्वगतत्वं न सकलपदार्थापेक्षयासामान्यादिषु प्रागभावादिषु च तद्वत्यभावात् तत्रा बाधितस्य सत्प्रत्ययस्याभावाद् द्रव्यादिष्व् एव तदनुभवादिति । तद् अपि स्वगृहमान्यं । घटस्याप्य् एवम् अबाधित- घटप्रत्ययोत्पत्तिहेतुष्व् एव स्वाश्रयेषु भावात् नसर्वपदार्थव्यापित्वं पदार्थांतरेषुघटप्रत्ययोत्पत्त्यहेतुषु तदभावाद् इति वक्तुं शक्यत्वात् । नन्व् एको घटः कथमंतरालवर्तिपटाद्यर्थान् परिहृत्य नानाप्रदेशेषु दवि- ष्टेषु भिन्नेषु वर्तते युगपद् इति चेत् कथम् एका सत्तासामान्यविशेषसमवायान् प्रागभावादींश् च परिहृत्य- ३०द्रव्यादिपदार्थान् सकलान् सकृद् व्याप्नोतीति समानःपर्यनुयोगः तस्याः स्वयम् अमूर्तत्वात् केनचित् प्रतिघा- ताभावाद् अदोष इति चेत् तर्हि घटस्याप्य् अनभिव्यक्तिमूर्तेःकेनचित् प्रतिबंधाभावात् सर्वगतत्वे को दोषः सर्वत्र घटप्रत्ययप्रसंग इति चेत् सत्तायाः सर्वगतत्वेसर्वत्र सत्प्रत्ययः किं न स्यात् । प्रागभावादिषु तस्यास् तु तिरोधानान् न सत्प्रत्ययहेतुत्वम् इति चेत्घटस्यापि पदार्थांतरेषुतत्तिरोधानाद्धटप्रत्ययहेतुत्वं मा भूत् । न चैवं सर्वं सर्वत्र विद्यते इति वदतःसांख्यस्य किंचिद् विरुद्धं बाधकाभावात् तिरोधानावि- ३५र्भावाभ्यां स्वप्रत्ययाविधानस्य क्वचित्स्वप्रत्ययविधानस्याविरोधात् । किं च घटादिसामान्यस्यघटादि- व्यक्तिष्व् अभिव्यक्तस्य तदंतराले चानभिव्यक्तस्यघटप्रत्ययहेतुत्वाहेतुत्वे स्वयम् उररीकुर्वाणः कथं नघटस्य स्वव्यंजकदेशे ऽभिव्यक्तस्यान्यत्र चानभिव्यक्तस्यघटप्रत्ययहेतुत्वाहेतुत्वे नाभ्युपगच्छतीति स्वेच्छाकारी । स्यान् मतं नाना घटः सकृद्भिन्नदेशतयोपलभ्यमानत्वात्पटकटमुकुटादिपदार्थांतरवद् इति तर्हि नाना सत्ता युगपद्बाधकाभावे सतिभिन्नदेशद्रव्यादिषूपलभ्यमानत्वात् तद्वद् इतिदर्शनांतरम् आयातं न्यायस्य ३५समानत्वात् । न हि विभिन्नदेशेषु घटपटादिषुयुगपत्सत्वोपलंभो ऽसिद्धः संतो ऽमी घटादय इति प्रती- तेर् अबाधितत्वात् । व्योम्नानैकांतिको ऽयं हेतुर् इति चेन् न । तस्य प्रत्यक्षतोभिन्नदेशतयाऽतींद्रियस्य युगपदुप- लंभाभावात् । परेषांयुगपद्भिन्नदेशाकाशलिंगशब्दोपलंभासंभवाच् चनानुमानतो ऽपि भिन्नदेशतया युग- पदुपलंभो ऽस्ति यतस् तेनानैकांतिकत्वं हेतोर् अभिधीयते । नानादेशाकाशलिंगशब्दानां नानादेशस्थपुरुषैः ०५श्रवणाद् आकाशस्यानुमानात् युगपद्भिन्नदेशतयोपलंभस्यप्रसिद्धाव् अपि न तेन व्यभिचारः साधनस्य तस्य प्रदेशभेदान् नानात्वसिद्धेः । निःप्रदेशस्ययुगपद्भिन्नदेशकालसकलमूर्तिमद्द्रव्यसंयोगानामनुपपत्तेर् एकपर- माणुवन् न चेयं सत्ता स्वतंत्रः पदार्थः सिद्धःपदार्थधर्मत्वेन प्रतीयमानत्वाद् असत्त्ववत् । यथैव हिघटस्या- सत्त्वं पटस्यासत्त्वम् इति पदार्थधर्मतयाप्रतीयमानत्वान् नासत्त्वं स्वतंत्रः पदार्थः तथाघटस्य सत्त्वं पटस्य सत्त्वम् इति पदार्थधर्मत्वेनोपलभ्यमानत्वात् सत्त्वम् अपिसर्वथा विशेषाभावात् सर्वत्र घटः सन् पटः सन् इति १०प्रत्ययस्याविशेषाद् एकं सत्त्वं पदार्थधर्मत्वे ऽपीति चेत्तर्हि सर्वत्रासद् इति प्रत्ययस्याविशेषाद् भावपरतंत्रत्वे ऽप्य् एकम् असत्वम् अभ्युपगम्यतां प्राग् असत् पश्चाद् असदितरत्रेतरद् असद् अत्यंतम् असद् इति प्रत्ययविशेषात्प्रागसत्त्वपश्चा- द् असत्त्वेतरेतरासत्त्वात्यंतासत्त्वभेदसिद्धेर् नैकमसत्वम् इति चेत् । नन्व् एवं विनाशात् पूर्वं सत्त्वं प्राक्सत्त्वं स्वरूपलाभाद् उत्तरं सत्त्वं पश्चात् सत्त्वं समानजातीययोःकेनचिद् रूपेणेतरेतरत्रसत्त्वम् इतरेतरसत्त्वं कालत्रये ऽप्य् अनाद्यनंतस्य सत्त्वम् अत्यंतसत्त्वाम् इति सत्त्वभेदःकिं नानुमन्यते सत्प्रत्ययस्यापि प्राक्कालादितया विशेष- १५सिद्धेर् बाधकाभावात् यथा चासत्त्वस्य सर्वथैकत्वेक्वचित् कार्योत्पत्तौ प्रागभावविनाशे सर्वत्राभावविना- शप्रसंगात् । न किंचित् प्राग् असद् इति सर्वकार्यम् अनादि स्यात् । न किंचित् पश्चाद् असद् इति तदनंतं स्यात् न क्वचित् किंचिद् असद् इति सर्वं सर्वात्मकं स्यान् न क्वचिदत्यंतम् असद् इति सर्वं सर्वत्र सर्वदा प्रसज्येतेति बाधक- म् अपि तथा सत्त्वैकत्वे समानम् उपलभामहे कस्यचित्प्रध्वंसे सत्त्वाभावे सर्वत्र सत्त्वाभावप्रसंगात् न किंचित् कुतश्चित् प्राक् सत् पश्चात् सद् वा नापीतरत्रेतरत् सत्स्यात् अत्यंतसद् वेति सर्वशून्यतापत्तिर् दुःशक्या- २०परिहर्तुं । तां परिजिहीर्षता सत्त्वस्य भेदोऽभ्युपगंतव्य इति नैका सत्ता सवर्थासिध्येद् असत्तावत्तदनंत- पर्यायतोपपत्तेः । स्यान् मतिर् एषा ते कस्यचित् कार्यस्यप्रध्वंसे ऽपि न सत्तायाः प्रध्वंसस् तस्यानित्यत्वात् पदार्थांतरेषु सत्प्रत्ययहेतुत्वात् प्राक्कालादिविशेषणभेदेऽप्य् अभिन्नत्वात् सर्वथा शून्यतां परिहरतो ऽपि सत्तानंतपर्यायतानुपपत्तिर् इति सापि न साधीयसी कस्यचित्कार्यस्योत्पादे ऽपि प्रागभावस्याभावानुप- पत्तिप्रसंगात् तस्य नित्यत्वात् । पदार्थांतराणाम् उत्पत्तेःपूर्वं प्रागभावस्य स्वप्रत्ययहेतोः सद्भावसिद्धेः २५समुत्पन्नैककार्यविशेषणतया विनाशव्यवहारो ऽपिप्रागभावस्याविनाशिनो नानानुत्पन्नकार्यापेक्षया विशेषणभेदे ऽपि भेदासंभवाद् एकत्वाविरोधात् । न ह्युत्पत्तेः पूर्वं घटस्य प्रागभावः पटस्य प्रागभाव इत्य् आदि विशेषणभेदे ऽप्य् अभावो भिद्यते घटस्य सत्तापटस्य सत्तेत्य् आदिविशेषणभेदे ऽपि सत्तावत् । ननु प्रागभावस्य नित्यत्वे कार्योत्पत्तिर् न स्यात् तस्यतत्प्रतिबंधकत्वात् तदप्रतिबंधकत्वे प्राग् अपिकार्योत्पत्तेः कार्यस्या- नादित्वप्रसंग इति चेत् तर्हि सत्ताया नित्यत्वे कार्यस्यप्रध्वंसो न स्यात् तस्यास् तत्प्रतिबंधकत्वात् ३०तदप्रतिबंधकत्वे प्रध्वंसात् प्राग् अपिप्रध्वंसप्रसंगात् । कार्यस्य स्थितिर् एव न स्यात्कार्यसत्ता हि प्रध्वं- सात् प्राक् प्रध्वंसस्य प्रतिघातिकेति कार्यस्य स्थितिःसिध्येन् नान्यथा । यदि पुनर् बलवत्प्रध्वंसकारणस- न्निपाते कार्यस्य सत्तो न प्रध्वंसं प्रतिबध्नाति ततःपूर्वं तु बलवद्विनाशकारणाभावात् प्रध्वंसं प्रतिबध्ना- त्य् एव ततो न प्राग् अपि प्रध्वंसप्रसंग इति मतं तदाबलवदुत्पादककारणोपधानात् कार्यस्योत्पादं प्रागभावः सन्न् अपि न विरुणद्धि कार्योत्पादनात् पूर्वंतदुत्पादकारणाभावात् तं विरुणद्धि ततो न प्राग् अपिकार्योत्प- ३५त्तिर् येन कार्यस्यानादित्वप्रसंग इति प्रागभावस्य सर्वदासद्भावो मन्यतां सत्तावत् । तथा चैक एव सर्वत्र प्रागभावो व्यतिष्ठते । प्रध्वंसाभावश् च न प्रागभावादर्थांतरभूतः स्यात् कार्यविनाशविशिष्टस्य तस्यैव प्रध्वंसाभाव इत्य् अभिधानात्तस्यैवेतरेतरव्यावृत्तिविशिष्टस्येतरेतराभावाभिधानवत् ॥ ननु च कार्यस्य विनाश एव प्रध्वंसाभावो न पुनस् ततो ऽन्यः । येनविनाशविशिष्टः प्रध्वंसाभाव इत्य् अभिधीयते । नापी- तरेतरव्यावृत्तिर् इतरेतराभावाद् अन्या येन तथाविशिष्टस्येतरेतराभावाभिधानाम् इति चेत् तर्हीदानींकार्य- ३६स्योत्पाद एव प्रागभावाभावस् ततोऽर्थांतरस्यासंभवात् कथं तेन कार्यस्य प्रतिबंधःसिध्येत् कार्योत्पादा- त् प्रागभावाभावस्यार्थांतरत्वे प्राग् एव कार्योत्पादः स्यात्शश्वदभावाभावे शश्वत्सद्भाववत् । न ह्य् अन्यदैवा- भावस्याभावो ऽन्यदैव भावस्य सद्भाव इतिअभावाभावसद्भावयोः कालभेदो युक्तः सर्वत्राभावाभा- वस्यैव भावसद्भावप्रसिद्धेःभावाभावस्याभावप्रसिद्धिवत् तथा च कार्यसद्भाव एवतदभावाभावः ०५कार्याभाव एव न तद्भावस्याभाव इत्य् अभावविनाशवद्भावविनाशप्रसिद्धेः न भावाभावौ परस्परम् अतिश- याते यतस् तयोर् अन्यतरस्यैवैकत्वनित्यत्वेनानात्वानित्यत्वे वा व्यवतिष्ठते ॥ तदनेनासत्वस्यनानात्वम् अ- नित्यत्वं च प्रतिजानता सत्त्वस्यापि तत्प्रतिज्ञातव्यम् इतिकथंचित् सत्तैका सद् इति प्रत्ययाविशेषात् । कथंचिद् अनेका प्राक्सदित्यादि सत्प्रत्ययभेदात् । कथंचिन् नित्या सैंवं यसत्ततिप्रत्यभिज्ञानात् कथंचिद् अनित्या कालभेदात् पूर्वं सत्ता पश्चात् सत्तेति सत्प्रत्ययभेदात् सकलबाधकाभावाद् अनुमंतव्या तत्प्रतिपक्षभूताऽस- १०त्तावत् । ततः समवायिविशेषणविशिष्टेहेदं प्रत्ययहेतुत्वात्समवायः समवायिविशेषप्रतिनियमहेतु- र् द्रव्यादिविशेषणविशिष्टसत्प्रत्यहेतुत्वाद्द्रव्यादिविशेषप्रतिनियमहेतुः सत्तावद् इति विषमौपन्यासः सत्ताया नानात्वसाधानात् तद्वत्समवायस्य नानात्वसिद्धेः सोऽपि हि कथंचिद् एक एव इहेदं प्रप्रत्यया- विशेषात् । कथंचिद् अनेक एव नानासमवायिविशिष्टेहेदंप्रत्ययभेदात् । कथंचिन् नित्य एव प्रत्यभिज्ञाय- मानत्वात् । कथंचिद् अनित्य एव कालभेदेन प्रतीयमानत्वात् । न चैकत्राधिकरणे परस्परम् एकत्वानेकत्वे १५नित्यत्वानित्यत्वे वा विरुद्धे सकलबाधकरहितत्वे सत्युपलभ्यमानत्वात् कथंचित् सत्वासत्ववत् । यद् अप्य् अ- भ्यधायि सत्त्वासत्त्वे नैकत्र वस्तुनि सकृत्संभवतस्तयोः विधिप्रतिषेधरूपत्वात् । ययोर् विधिप्रतिषेधरू- पत्वं ते नैकत्र वस्तुनि सकृत्संभवतो यथाशीतत्वाशीतत्वे । विधिप्रतिषेधरूपे च सत्त्वासत्त्वेतस्मान् नैकत्र वस्तुनि सकृत्संभवत इति । तद् अप्य् अनुपपन्नं वस्तुन्येकत्राभिधेयत्वानभिधेयत्वाभ्यां सकृत्संभवद्भ्यां व्यभिचारात् कस्याचित् स्वाभिधायकाभिधानापेक्षयाअभिधेयत्वम् अन्याभिधायकाभिधानापेक्षया चानभि- २०धेयत्वं सकृदुपलभ्यमानम् अबाधितमेकत्राभिधेयत्वानभिधेयत्वयोः सकृत्संभवं साधयतीत्यभ्यनुज्ञाने स्वरू- पाद्यपेक्षया सत्त्वं पररूपाद्यपेक्षया चासत्वं निर्बाधमनुभूयमानम् एकत्र वस्तुनि सत्वासत्वयोः सकृत्संभवं किं न साधयेत् विधिप्रतिषेधरूपत्वाविशेषात् । कथंचिदुपलभ्यमानयोर् विरोधानवकाशात् येनैव स्वरूपेण सत्त्रं तेनैवा सत्वम् इति सर्वथाऽर्पितयोर् एवसत्वासत्वयोर् युगपद् एकत्र विरोधसिद्धेः । कथंचित्सत्वासत्व- योर् एकत्र वस्तुनि सकृत्प्रसिद्धौ च तद्वदेकत्वानेकत्वयोर्नित्यत्वानित्यत्वयोश् च सकृद् एकत्र निर्णयान् न किं- २५चिद् विप्रतिषिद्धं समवायस्यापि तथा प्रतितेर् अबाधितत्वात् । सर्वथैकत्वे महेश्वर एव ज्ञानस्य समवाया- द् वृत्तिर् न पुनर् आकाशादिस्विति प्रतिनियमस्य नियामकमपश्यतो निश्चयासंभवात् । न चाकाशादीना- म् अचेतनता नियामिका चेतनात्मगुणस्य ज्ञानस्य चेतनात्मन्येव महेश्वरे समवायोपपत्तेर् अचेतनद्रव्यगगना- दौ तदयोगात् ज्ञानस्य तद्गुणत्वाभावाद् इति वक्तु युक्तं । शंभोर् अपि स्वतो ऽचेतनत्वप्रतिज्ञानात् स्वादि- भ्यस्तस्य विशेषासिद्धेः । स्याद् आकूतं नेश्वरः स्वतश्चेतनो ऽचेतनो वा चेतनसमवायात् तु चेतयिता स्वाद्- ३०यस् तु न चेतनासमवायाच् चेतयितारः कदाचिद् अतो ऽस्तितेभ्यस् तस्य विशेष इति । तद् अप्य् असत् । स्वतो महे- श्वरस्य स्वरूपानवधारणान् निःस्वरूपतापत्तेः । स्वयंतस्यात्मरूपत्वान् न स्वरूपहानिर् इति चेन् न । आत्मनाऽप्य् आ- त्मत्वयोगाद् आत्मत्वेन व्यवहारोपगमात् स्वतो ऽनात्मत्वादात्मरूपस्याप्य् असिद्धेः । यदि पुनः स्वयं नात्मा- महेशो नाप्य् अनात्मा केवलम् आत्मत्वयोदात्मेति मतं । तदास्वतः किम् असौ स्यात् ? द्रव्यम् इति चेन् न । द्रव्य- त्वयोगाद् द्रव्यव्यवहारवचनात् । सतो द्रव्यस्वरूपेणापिमहेश्वरस्याव्यवस्थितेः । यदि तु न स्वतो ऽसौ ३५द्रव्यं नाप्य् अद्रव्यं द्रव्यत्वयोगाद् द्रव्यम् इतिप्रतिपाद्यते । तदा न स्वयं द्रव्यं स्वरूपस्याप्य् अभावात् किंस्वरूपः शंभुर् भवेद् इति वक्तव्यं । सन्न् एव स्वयम् असाव् इति चेन्न । सत्वयोगात् सन्न् इति व्यवहारसाधनात् स्वतः सद्रूपस्याप्रसिद्धेः । अथ न स्वतः सन्नचासन् सत्वसमवायात् तु सन्न् इत्य् अभिधीयते तदा व्याघातो दुरु- त्तरः स्यात् सत्वासत्वयोर् अन्योन्यव्यवच्छेदरूपयोरेकतरस्य प्रतिषेधे ऽन्यतरस्य विधानप्रसंगात् उभय प्रतिषेधस्यासंभवात् । कथम् एवं सर्वथा सत्त्वोसत्वयाःस्याद्वादिभिः प्रतिषेधे तेषां व्यघातो न भवेद् इति चेन् न ३७तैः कथंचित् सत्त्वासत्त्वयोर् विधानात् । सर्वथासत्त्वासत्त्वे हि कथंचित्सत्त्वासत्त्वव्यवच्छेदेनाभ्युपगम्येते सर्वथा सत्त्वस्य कथंचित् सत्त्वस्य व्यवच्छेदेनव्यवस्थानात् । असत्त्वस्य च कथंचिद् असत्त्वव्यवच्छेदेने- ति सर्वथा सत्त्वस्य प्रतिषेधे कथंचित् ससत्वस्यविधानात् । सर्वथा चासत्वस्य निषेधे कथंचित् सत्वस्यविधि- र् इति कथं सर्वथा सत्त्वासत्वप्रतिषेधे स्याद्वादिनांव्याघातो दुरुत्तरः स्यात् सर्वथैकांतवादिनाम् एव तस्य ०५दुरुत्तरत्वात् ॥ एतेन द्रव्यत्वाद्रव्यत्वयोरात्मत्वानात्वयोश् चेतनत्वाचेतनत्वयोश् चपरस्परव्यवच्छेदरूप- योर् युगपत् प्रतिषेधे व्याघातो दुरुत्तरः प्रतिपादितः । तदेकतरप्रतिषेधे ऽन्यतरस्य विधेर् अवश्यं भावात् उभयप्रतिषेधस्यासंभवात् । कथंचित् सत्वासत्वयोर्वैशेषिकैर् अनभ्युपगमात् किं च स्वरूपेणासति महेश्वर- सत्वसमवाये प्रतिज्ञायमाने खांबुजे सत्वसमवायःपरमार्थतः किं न भवेत् स्वरूपेणासत्वाविशेषात् । खांबुजस्याभावान् न तत्र समवायः पारमार्थिक सद्वर्गेद्रव्यगुणकर्मलक्षणे सत्वसमवायसिद्धेः । महेश्वर १०एवात्मद्रव्यविशेषसत्वसमवाय इति च स्वमनोरथमात्रंस्वरूपेणासतः कस्यचित् सद्वर्गत्वासिद्धेः ॥ स्वरूपेण सति महेश्वरे सत्वसमवायोपगमे सामान्यादाव् अपिसत्वसमवायप्रसंगः स्वरूपेण सत्वाविशेषात् । यथैव हि महेश्वरस्य स्वरूपत सत्वं वृद्धवैशेषिकैरिष्यते तदा पृथिव्यादिद्रव्याणां रूपादिगुणानाम् उत्क्षे- पणादिकर्मणां सामान्यविशेषसमवायानां च प्रागभावादीनामपीष्यत एव तथापि क्वचिद् एव सत्वस- मवायसिद्धौ नियमहेतुर् वक्तव्यः सत्सद् इति ज्ञानमबाधितं नियमहेतुर् इति चेन् न । तस्य सामान्यादिष्व् अपि १५भावात् । यथैव हि द्रव्यं सत् गुणः सत् कर्म सद् इतिज्ञानम् अबाधितम् उत्पद्यते तथा सामान्यम् अस्ति विशेषो ऽस्ति समवायो ऽस्ति प्रागभावादयः संतीति ज्ञानम् अप्यबाधितम् एव । सामान्यादिप्रागभावादितत्त्वास्ति- त्वं । अन्यथा तद्वादिभिः कथम् अभ्युपगम्यते । तत्रास्तित्वधर्मसद्भावाद् अस्तीति ज्ञानं न पुनःसत्तासंबंधा- द् अनवस्थाप्रसंगात् ॥ सामान्यकल्पनात् । विशेषेषु चसामान्योपगमे सामान्यज्ञानात् विशेषानुपलंभा- द् उभयतद्विशेषस्मरणाच् च कस्यचिद् अवश्यं भाविनिसंशये तद्व्यवच्छेदार्थ विशेषांतरकल्पनानुषंगः । पुन- २०स् तत्रापि सामन्यकल्पने ऽवश्यं भावी सशंयः सति तस्मिंस्तद्व्यवच्छेदाय तद्विशेषांतरकल्पनायाम् अन- वस्थाप्रसंगात् । परापरविशेषसामान्यकल्पनस्यानिवृत्तेःसुदूरम् अपि गत्वा विशेषेषु सामान्यानभ्युपगमे सिद्धाः सामान्यरहिता विशेषाः समवाये चसमान्यस्यासंभवः प्रसिद्ध एव तस्यकत्वात् संभवेचान- वस्थानुषंगात् समवाये सामान्यस्य समवायांतरकल्पनाद् इतिन सामान्यादिषु सद् इति ज्ञानं सत्ता- निबंधनं बाध्यमानत्वात् । तथा प्रागभावादिष्व् अपि सत्तासमवाये प्रागभावादित्वविरोधात् न सत्तानिबंधन- २५म् अस्तीति ज्ञानं । ततो ऽस्तित्वधर्मविशेषणसामर्थ्याद् एवतत्रास्तीति ज्ञानम् अभ्युपगंतव्यं । अन्यथाऽस्तीति व्यवहारोयोगाद् इति केचिद् वैशेषिकाः समभ्यमंसत तांश् चपरे प्रतिक्षिपंति । सामान्यादिषूपचरितसत्वाभ्यु- पगमात् मुख्यसत्वे बाधकसद्भावान् न पारमार्थिकसत्वं, सत्तासबंधादि वाऽस्तित्वधर्मविशेषणबलाद् अपि संभाव्यते, सत्ताव्यतिरेकेणास्तित्वधर्मग्राहकप्रमाणाभावात्ऽअन्यथास्तित्वं धर्मेष्व् अस्तीति प्रत्ययाद् अस्ति- त्वांतरपरिकल्पनायाम् अनवस्थानुषंगात् । तत्रोपचारितस्यास्तित्वस्य प्रतिज्ञाने सामान्यादिष्व् अपितदुपचरि- ३०तम् अस्तु मुख्ये बाधकसद्भावात् सर्वत्रोपचारस्यमुख्यबाधकसद्भावाद् एवोपपत्तेः । प्रागभावादिष्व् अपि मुख्यास्तित्वबाधकोपपत्तेर् उपचारतएवास्तित्वव्यवहारसिद्धेर् इति तेषां द्रव्यादिष्व् अपि सद् इतिज्ञानं सत्ता- निबंधनं कुतः सिध्येत् तस्यापि बाधकसद्वावात् । तेषांस्वरूपतो ऽसत्वे सत्वे वा सत्तासंबंधानुपपत्तेः । स्वरूपेणासत्सु द्रव्यादिषु सत्तासंबंधेति प्रसंगस्यबाधकस्य प्रतिपादनात् । स्वरूपतः सत्सु सत्तासंबधे अनवस्था तस्य बाधकस्योपनिपातत् सत्ता संबंधेनापिसत्सु सत्वं पुनः सत्तासंबन्धपरिकल्पनप्रसंगात् ३५तस्य वैयर्थ्यात् अपरिकल्पने स्वरूपतः सत्स्व् अपि तत एवसत्तासंबंधपरिकल्पनं मा भूत् स्वरूपतः सत्वा- द् असाधारणात् सत्सद् इत्य् अनुवृत्तिप्रत्ययस्यानुपपत्तेः । द्रव्यादिषु तन्निबंधनस्य साधारणसत्तासंबंधस्य परिकल्पनं न व्यर्थम् इति चेन् न । स्वरूपसत्वाद् एवसदृशात् सद् इति प्रत्ययस्योपपत्तेः । सदृशेतरे परिणाम- सामर्थ्याद् एव द्रव्यादीनांसाधारणासाधारणसत्वनिबंधनस्य सत्प्रत्ययस्यघटनात् । सवर्थाऽर्थांतरभूत- सत्तासंबंधसामर्थ्यात् सद् इति प्रत्ययस्यसाधारणस्यायोगात् । सत्तावद् द्रव्यं सत्तावान् गुणः सत्तावत् कर्मेति ३८सत्तासंबंधस्य प्रत्ययस्य प्रसंगात् ॥ न पुनः सद्द्रव्यं सन् गुणः सत्कर्मेति प्रत्ययः स्यात् । न हि घंटा संबंधाद् गवि घंटेति ज्ञानम् अनुभूयते घंटावान्न् इतिज्ञानस्य तत्र प्रतीतेः । यष्टिसंबंधात् पुरुषो यष्टिर् इतिप्रत्यय- दर्शनात् तु सत्तासंबधाद् द्रव्यादिषु सत्तेति प्रत्ययः स्यातभेदे भेदोपचारात् । न पुनः सद् इदि प्रत्ययस् तथा चोपचारात् द्रव्यादीनां सत्ताव्यपदेशो न पुनः परमार्थतःसिध्येत् । स्यान् मतं सत्तासामान्यवाचक- ०५स्यासत्ताशब्दस्येव सच्छब्दस्यापि सद्भावात् संबधंधात्संति द्रव्यगुणकर्माणीति व्यपदिश्यंते भावस्य भाववदभिधायिनापि शब्देनाभिधानप्रसिद्धेः । विषाणीककुद्मान् प्रांतेवालधिर् इति गोत्वलिंगम् इत्य् आदि- वत् विषाण्यादिवाचिना शब्देन विषाणित्वादेर् भावस्याभिधानादिति । तद् अप्य् अनुपपन्नं । तथोपचाराद् एव सत्प्रत्ययप्रसंगात् ॥ पुरुषे यष्टिसंबंधाद् यष्टिर् इतिप्रत्ययवत् ॥ यदि पुनर् यष्टिपुरुषयोः संयोगात् पुरुषो यष्टिर् इति ज्ञानम् उपचरितं युक्तं । न पुनर् द्रव्यादौ सदिति ज्ञानं तत्र सत्वस्य समवायाद् इति मतं तद् ऽवय- १०वेष्व् अवयविनः समवायाद् अवयविठ्यपदेशः स्यात् न पुनरवयविव्यपदेशः । द्रव्ये च गुणस्य समवाया- द् गुणव्यपदेशो ऽस्तु क्रियासमवायात् क्रियाव्यपदेशस् तथा चन कदाचिद् अवयविष्व् अवयवप्रत्ययः गुणिनि गुणि- प्रत्ययः क्रियावति क्रियावत्प्रत्ययश् चोपपद्येतेति महान्व्याघातः पदार्थांतरभूतसत्तासमवायवादिनाम् अनु- षज्येत तद् एवं स्वतः सत एवेश्वरस्य स्वसमवायोऽभ्युपगंतव्यः कथंचित् सदात्मतया परिणतस्यैव सत्व- समवायस्योपपत्तेः । अन्यथा प्रमाणेन बाधनात् स्वयंसतः सत्वसमवाये ऽस्य च प्रमाणप्रसिद्धेः । स्वयं १५द्रव्यात्मना परिणतस्य द्रव्यत्वसमवायः । स्वयंज्ञानात्मना परिणतस्य महेश्वरस्य ज्ञानसमवाय इति युक्तम् उत्पश्यामः स्वयं नीलात्मनीलसमवायवत् ॥ नहि कश्चिद् अतथा परिणतस् तथात्वसमवाय- भाग् उपलभ्यते ऽतिप्रसंगात् । ततः प्रमाणवलान्महेश्वरस्य सत्वद्रव्यत्वात्मत्ववत् स्वयं ज्ञत्वप्रसिद्धे- र् ज्ञानस्य समवायात् तस्य ज्ञत्वपरिकल्पनं न कंचिदर्थं पुष्णाति । ज्ञव्यवहारं पुष्णातीति चेन् न । ज्ञे प्रसिद्धे ज्ञव्यवहारस्यापि स्वतः प्रसिद्धेः । यस्य हि योऽर्थः प्रसिद्धः स तत्र तद्व्यवहारं प्रवर्तयन्न् उप- २०लब्धो यथा प्रसिद्धाकाशात्मा । आकाशे तद्व्यवहारप्रसिद्धेज्ञश् चः कश्चित् तस्मात् ज्ञे तद्व्यवहारं प्रवर्त- यति । यदि तु प्रसिद्धे ऽपि ज्ञे ज्ञत्वसमवायपरिकल्पनमज्ञव्यवच्छेदार्थाम् इष्यते तदा प्रसिद्धे ऽप्य् आका- शे ऽनाकाशव्यवच्छेदार्थम् आकाशत्वसमवायपरिकल्पनमिष्यतां तस्यैकत्वाद् आकाशत्वासंभवात् स्वरूपानिश्चया- द् एवाकाशव्यवहारप्रवृत्तौ ज्ञे ऽपीश्वरे स्वरूपनिश्चयाद् एवज्ञव्यवहारो ऽस्तु किं तत्र ज्ञानसमवायपरिक- ल्पनया ज्ञानपरिणामपरिणतो हि ज्ञः प्रतिपादयितुं शक्योनार्थांतरभूतः ज्ञानसमवायेन ततो ज्ञान- २५समवायवान् एवेह सिध्येत् न पुनर् ज्ञाता । न ह्यर्थांतरभूते ज्ञाने समुत्पन्ने ज्ञाता, स्मरणे स्मर्ता, भोगे च भोक्तेति तत्प्रतीतिकं दर्शनं तदात्मना परिणतस्यैवतथा व्यपदेशप्रसिद्धेः । प्रतीतिबलाद् धि तत्त्वं व्यवस्थापयंतो यद्य् अथा निर्बाधं प्रतीतियंति तथैवव्यवहरंतीति प्रेक्षापूर्वकारिणः स्युर् नान्यथा । ततो महे- श्वरो ऽपि ज्ञाता व्यवर्हर्तव्यो ज्ञातृस्वरूपेण प्रमाणतःप्रतीयमानत्वात् । यद् येन स्वरूपेण प्रमाणतः प्रती- यमानं तत् तथा व्यवहर्तव्यं यथा सामान्यादिस्वरूपतयाज्ञातृस्वरूपेण प्रमाणतः प्रतीयमानश् च महेश्वर- ३०स् ततो ज्ञातेति व्यवहर्तव्य इति । तद् अर्थमर्थांतरभूतज्ञानसमवायपरिकल्पनम् अनर्थकम् एव तदेवं प्रमाण- बलात् स्वार्थव्यवसायात्मके ज्ञाने प्रसिद्धे महेश्वरस्यततो भेदैकांतनिराकरणे च कथंचित् स्वार्थव्यव- सायात्मकज्ञानाद् अभेदो ऽभ्युपगंतव्यः कथंचित्तादात्म्यस्यैव समवायस्य व्यवस्थापनात् । तथा च नाम्नि विवादो नार्थे जिनेश्वरस्यैव महेश्वर इति नामकरणात्कथंचित् सार्थव्यवसायात्मज्ञानं तादात्म्यमृच्छतः पुरुषविशेषस्य जिनेश्वरत्वनिश्चयात् । तथा च स एव हिमोक्षमार्गस्य प्रणेता व्यवतिष्ठते सदेहत्वे ३५धर्मविशेषत्वे च सति सर्वविन्नष्टमोहत्वात् यस् तु नमोक्षमार्गस्य मुख्यः प्रणेता स न सदेहो यथा मुक्ता- त्मा धर्मविशेषभाग् वा यथाऽṃतकृत्केवली । नापिसर्वविन्नष्टमोहो यथा रथ्यापुरुषः । सदेहत्वे धर्मवि- शेषत्वे च सति सर्वविन्नष्टमोहश् च जिनेश्वरस् तस्मान्मोक्षमार्गस्य प्रणेता व्यवतिष्ठत एव स्वार्थव्यवसाया- त्मकज्ञानात् । सर्वथाऽर्थांतरभूतस् तु शिवः सदेहोनिर्देहो वा न मोक्षमार्गोपदेशस्य कर्ता युज्यते कर्मभूभृताम् अभेतृत्वात् । यो यः कर्मभूभृताम् अभेत्ता सस न सर्वविन्नष्टमोहो यथाऽऽकाशादिर् अभव्यो ३९वा संसारी चात्मा, कर्मभूभृताम् अभेत्ता च शिवःपरैर् उपेयते तस्मान् न सर्वाविन्नष्टमोह इति साक्षान् मो- क्षमार्गोपदेशस्य कर्ता न भवेत् निरस्तं च पूर्वंविस्तरतस् तस्य शश्वत्कर्मभिर् अस्पृष्टत्वं पुरुषविशेषस्येत्यलं विस्तरेण प्रागुक्तार्धस्यैवात्रोपसंहारात् । यथा चेश्वरस्य मोक्षमार्गोपदेशित्वं न प्रतिष्ठाम् इयर्ति तथा कपिलस्यापीत्य् अतिदिश्यते । ०५एतेनैव प्रतिव्यूढः कपिलो ऽप्य् उपदेशकः । ज्ञानाद् अर्थांतरत्वस्याऽविशेषात् सर्वथा स्वतः ॥ ७७ ॥ ज्ञानसंसर्गतो ज्ञत्वम् अज्ञस्यापि न तत्त्वतः । व्योमवच् चेतनस्यापि नोपपद्येत मुक्तवत् ॥ ७८ ॥ कपिल एव मोक्षमार्गस्योपदेशकः क्लेशकर्मविपाकाशयानांभेत्ता रजस्तमसोस् तिरस्करणात् । सम- १०स् ततत्त्वज्ञानवैराग्यसंपन्नो धर्मविशेषैश्वर्ययोगी चप्रकृष्टसत्त्वस्याविर्भावात् विशिष्टदेहत्वाच् च । न पुन- र् ईश्वरस्, तस्याकाशस्यवाऽशरीरस्यज्ञानेच्छाक्रियाशक्त्यसंभवात् मुक्तात्मवत् । सदेहस्यापिसदा क्लेशकर्मविपाकाशयैर् अपरामृष्टत्वविरोधात् । धर्मविशेषसद्भावे च तस्य तत्साधनसमाधिविशेषस्या- वश्यंभावात् तन्निमित्तस्यापिध्यानधारणाप्रत्ययाहारप्राणायामासनयमनियमलक्षणस्य योगांगस्या- भ्युपगमनीयत्वात् । अन्यथा समाधिविशेषासिद्धेर्धर्मविशेषानुत्पत्तेर् ज्ञानाद्यतिशयलक्षणैश्वर्यायोगाद् अ- १५नीश्वरत्वप्रसंगात् । सत्त्वप्रकर्षयोगित्वे च कस्यचित्सदामुक्तस्यानुपायसिद्धस्य साधकप्रमाणाभावाद् इति निरीश्वरसांख्यवादिनः प्रचक्षते । तेषां कपिलो ऽपितीर्थकरत्वेनाभिप्रेतः प्रकृतेनैवेश्वरस्य मोक्षमार्गो- पदेशित्वनिराकरणेनैव प्रतिव्यूढः प्रतिपत्तव्यः स्वतस्तस्यापि ज्ञानाद् अर्थांतरत्वाविशेषात् सर्वज्ञत्वायोगात् सर्वार्थज्ञानसंसर्गात् तस्य सर्वज्ञत्वपरिकल्पनम् अपि नयुक्तम् आकाशादेर् अपि सर्वज्ञत्वप्रसंगात् । तथाविध- ज्ञानपरिणामाश्रयप्रधानसंसर्गस्याविशेषात् । तदविशेषेऽपि कपिल एव सर्वज्ञश् चेतनत्वान् न पुनर् आका- २०शादिर् इत्य् अपि न युज्यते । तेषां (कपिलानां मते)मुक्तात्मनश् चेतनत्वे ऽपि ज्ञानसंसर्गतः सर्वज्ञत्वानभ्यु- पगमात् । सबीजसमाधिसंप्रज्ञातयोगकाले ऽपिसर्वज्ञत्वविरोधात् । स्यान् मतं, न मुक्तस्य ज्ञानसंसर्गः संभवति तस्य संप्रज्ञातयोगकाले एव विनाशात् । "तदाद्रष्टुः (पुरुषस्य) स्वरूपे ऽवस्थानम् इति" वच- नात् । मुक्तस्य तु संस्कारविशेषस्यापि विनाशात् । असंप्रज्ञातस्यैव संस्कारविशेषतावचनात् । चरिता- र्थेन ज्ञानादिपरिणामशून्येन प्रधानेन संसर्गमात्रे ऽपितन्मुक्तात्मानं प्रति तस्य नष्टत्वात् । संसार्यात्मा- २५नम् एव प्रत्यनष्टत्ववचनात् न कपिलस्य चेतनस्यस्वरूपस्य ज्ञानसंसर्गात् सर्वज्ञत्वाभावसाधने मुक्तात्मो- दाहरणं तत्र ज्ञानसंसर्गस्यासंभवाद् इति । तद् अप्यसारं । प्रधानस्य सर्वगतस्यानंतस्य संसर्गविशेषानुप- पत्तेः । कपिलेन सह तस्य संसर्गे सर्वात्मनासंसर्गप्रसंगात् । कस्यचिन् मुक्तिविरोधान् मुक्तात्मनो वा प्रधानेनासंसर्गे कपिलस्यापि तेनासंसर्गप्रसक्तेः । अन्यथा विरुद्धधर्माध्यासात् प्रधानभेदोपपत्तेः । ननु च प्रधानम् एकं निरवयवं सर्वगतं न केनचिद् आत्मनासंस्पृष्टम् अपरेणासंस्पृष्टम् इति विरुद्धधर्माऽध्यासीष्यते ३०येन तद्भेदोपपत्तेः । किं तर्हि ? सर्वदा सर्वात्मसंसर्गिकेवलं मुक्तात्मानं प्रतिनष्टम् अपीतरात्मानं प्रत्यनष्टं निवृत्ताधिकारत्वात् प्रवृत्ताधिकारत्वाच् चेति चेन् नविरुद्धधर्माध्यासस्य तदवस्थत्वात् । प्रधानस्यभेदानिवृत्तेः न ह्य् एकम् एव निवृत्ताधिकारित्वप्रवृत्तादिकारत्वयोर्युगपदाधिकरणं युक्तं नष्टत्वानष्टत्वयोर् इव विरोधात् । विषयभेदान् न तयोर् विरोधः कश्चित् क्वचित्पितृत्वपुत्रत्वधर्मवत् तयोर् एकविषययोर् एव विरोधात् । निवृत्ताधि- कारत्वं हि मुक्तपुरुषविषयं प्रवृत्तादिकारत्वं पुनरमुक्तपुरुषविषयम् इति । भिन्न पुरुषापेक्षया भिन्नविषयत्वं । ३५नष्टत्वानष्टत्वधर्मयोर् अपि मुक्तात्मानम् एव प्रतिविरोधःस्याद् अमुक्तात्मानं प्रत्येव वा । न चैवं मुक्तात्मापेक्ष- या प्रधानस्य नष्टधर्मत्ववचनात् अमुक्तापेक्षयाचानष्टत्वप्रतिज्ञानाद् इति कश्चित् सो ऽपि न विरुद्धधर्मा- यासान् मुच्यते प्रधानस्यैकरूपत्वात् येनैव हि रूपेणप्रधानं मुक्तात्मानं प्रतिचरिताधिकारं नष्टं च ४०प्रतिज्ञायते तेनैवानवसिताधिकारम् अनष्टममुक्तात्मानं प्रतीति कथं न विरोधः प्रसिध्येत् । यदि पुना रूपांतरेण तथेष्यते तदा न प्रधानम् एकरूपं स्यात्रूपद्वयस्य सिद्धेः । तथा चैकम् अनैकरूपं प्रधानंसिध्येत् सर्वम् अनेकांतात्मकं वस्तु साधयेत् । स्याद् आकूतं नपरमार्थतः प्रधानं विरुद्धयोर् धर्मयोर् अधिकरणंतयोः शब्दज्ञानानुपातिना वस्तुशून्येन विकल्पेनाध्यारोपितत्वात्पारमार्थिकत्वे धर्मयोर् अपि धर्मांतरपरिकल्प- ०५नायाम् अनवस्थानात् । सुदूरम् अपि गत्वा कस्यचिदारोपितधर्माभ्युपगमे प्रधानस्याप्य् आरोपितावेव नष्टत्वा- नष्टत्वधर्मौ स्याताम् अवसितानवसिताधिकारत्वधर्मौ चतदपेक्षानिमित्तं स्वरूपद्वयं च ततो नैकम् अनेकरूपं प्रधानं सिध्येत् । यतः सर्वं वस्त्वेकानेकात्मकं साधयेदिति । तद् अपि न विचारसहं । मुक्तामुक्तत्वयो- र् अपि पुंसाम् अपारमार्थिकत्वप्रसंगात् । सत्यम् एततत् । नतत्त्वतः पुरुषस्य मुक्तत्वं संसारित्वं वा धर्मो ऽस्ति प्रधानस्यैव संसारित्वप्रसिद्धेः । तस्यैव चमुक्तिकारणतत्त्वज्ञानवैराग्यपरिणामान् मुक्तित्वोपपत्तेः । १०तद् एवं मुक्तेः पूर्वं निःश्रेयसमार्गस्योपदेशकं प्रधानमिति परमतम् अनूद्य दूषयन्न् आह । प्रधानं ज्ञत्वतो मोक्षमार्गस्याऽस्तूपदेशकं । तस्यैव विश्ववेदित्वाद्भेतृत्वात् कर्मभूभृतां ॥ ७९ ॥ इत्य् असंभाव्यम् एवास्याऽचेतनत्वात् पटादिवत् । तदसंभवतो नूनम् अन्यथा निष्फलः पुमान् ॥ ८० ॥ १५भोक्ताऽऽत्मा चेत् स एवास्तु कर्ता तदविरोधतः । विरोधे तु तयोर् भोक्तुः स्याद् भुजौ कर्तृता कथं ॥ ८१ ॥ प्रधानं मोक्षमार्गस्य प्रणेतृ स्तूयते पुमान् । मुमुक्षुभिर् इति ब्रूयात् को ऽन्यो ऽकिंचित्करात्मनः ॥ ८२ ॥ प्रधानम् एवास्तु मोक्षमार्गस्योपदेशकं ज्ञत्वात् । यस् तुन मोक्षमार्गस्योपदेशकः स न ज्ञो दृष्टो २०यथा घटादिः मुक्तात्मा च, ज्ञं च प्रधानं तस्मान्मोक्षमार्गस्योपदेशकं । न च कपिलादिपुरुषसंसर्ग्गभाजः प्रधानस्य ज्ञत्वम् असिद्धं विश्ववेदित्वात् । यस् तु न ज्ञःस न विश्ववेदी यथा घटादिः । विश्ववेदि च प्रधानं ततो ज्ञम् एव च विश्ववेदि च तत्सिद्धंसकलकर्मभूभृद्भेतृत्वात् । तथा हि-कपिलात्मना संस्पृष्टं प्रधानं विश्ववेदि कर्मराशिविनाशित्वात् । यत् तु नविश्ववेदि तन् न कर्मराशिविनाशीष्टं दृष्टं वा यथा व्योमादि । कर्मराशिविनाशि च प्रधानं तस्माद्विश्ववेदि । न वाऽस्य कर्मराशिविनाशित्वम् असिद्धं २५रजस्तमोविवर्ताशुद्धकर्मनिकरस्य संप्रज्ञातयोगबलात्प्रध्वंससिद्धेः सत्त्वप्रकर्षाच् च संप्रज्ञातयोगघटनात् । तत्र सर्वज्ञवादिनां विवादाभावात् इति सांख्यानां दर्शनं । तद् अप्य् असंभाव्यम् एव । स्वयम् एव प्रधानस्याचेत- नत्वाभ्युपगमात् । तथा हि न प्रधानं कर्मराशिविनाशिस्वयम् अचेतनत्वात् । यत् स्वयम् अचेतनं तन् न कर्म- राशिविनाशि दृष्टं यथा वस्त्रादि । स्वयम् अचेतनं चप्रधानं तस्मान् न कर्मराशिविनाशि । चेतनसंसर्गा- त् प्रधानस्य चेतनत्वोपगमाद् असिद्धसाधनम् इति चेन् न । स्वयम् इति विशेषणात् । स्वयं हि प्रधानम् अचेतनम् एव ३०चेतनसंसर्गात् तूपचाराद् एव तच्चेतनम् उच्यते स्वरूपतःपुरुषस्यैव चेतनत्वोपगमात् "चैतन्यं पुरुषस्य स्व- रूपम् इति" वचनात् । ततः सिद्धम् एवेदं साधनंकर्मराशिविनाशित्वाभावं साधयति तस्माच् च विश्ववेदि- त्वाभावः कर्मराशिविनाशित्वाभावे कस्यचिद्विश्ववेदित्वविरोधात् । ततश् च न प्रधानस्य ज्ञत्वं स्वयमचे- तनस्य ज्ञत्वानुपलब्धेः । न चाज्ञस्यमोक्षमार्गस्योपदेशकत्वं संभाव्यत इति । प्रधानस्यसर्वम् असंभाव्य- म् एव स्वयम् अचेतनस्य संप्रज्ञातसमाधेर् अपि दुर्घटत्वात् । बुद्धिसत्त्वप्रकर्षस्यासंभवाद् रजस्तमोमलावरण- ३५विगमस्यापि दुरुपपादत्वात् । यदि पुनर् अचेतनस्यापिप्रधानस्य विपर्ययाद् बंधसिद्धेः संसारित्वं तत्त्व- ४१ज्ञानात् कर्ममलावरणविगमे सति समाधिविशेषाद्विवेकख्यातेः सर्वज्ञत्वं मोक्षमार्गोपदेशित्वं जीवन्मुक्त- दशायां विवेकख्यातेर् अपि निरोधे निर्बीजसमाधेर् मुक्तत्वामिति कापिला मन्यंते तदाऽयं पुरुषः परिक- ल्प्यमानो निष्फल एव स्यात् प्रधानेनैवंसंसारमोक्षतत्कारणपरिणामतापर्याप्तत्वात् । ननु चसिद्धे ऽपि प्रधाने संसारादिपरिणामानां कर्तरि भोग्ये, भोक्तापुरुषः कल्पनीय एव भोग्यस्य भोक्तारम् अंतरेणा- ०५नुपपत्तेर् इति न मंतव्यं । तस्यैव भोक्तुर् आत्मनःकर्तृत्वसिद्धेः प्रधानस्य कर्तुः परिकल्पनानर्थक्यात् । नहि कर्तृत्वभोक्तृत्वयोः कश्चिद् विरोधो ऽस्ति भोक्तुर्भुजिक्रियायाम् अपि कर्तृत्वविरोधानुषंगात् । तथा च कर्तरि भोक्तृत्वानुपपत्तेर् भोक्तेति न व्यपदिश्यते । स्यान्मतं भोक्तेति कर्तरि शब्दयोगात् पुरुषस्य न वास्तवं कर्तृत्वं शब्दज्ञानानुपातिनः कर्तृत्वविकल्पस्यवस्तुशून्यत्वाद् इति । तद् अप्य् असंबंद्धं । भोक्तृत्वादिधर्माणा- म् अपि पुरुषस्यावास्तवत्वापत्तेः । तथोपगमाच् चेतयत इतिचेतनः पुरुषो न वस्तुतः सिद्ध्येत् । चेतन- १०शब्दज्ञानानुपातिनो विकल्पस्य वस्तुशून्यत्वात्कर्तृत्वभोक्तृत्वादिशब्दज्ञानानुपातिविकल्पवत् । सकल- शब्दविकल्पगोचरातिक्रांतत्वाच् चितिशक्तेःपुरुषस्यावक्तव्यत्वम् इति चेन् न । तस्यावक्तव्यशब्देनापिवच- नविरोधात् । तथाप्य् अवचने कथं परप्रत्यायनम् इतिसंप्रधार्यं कायप्रज्ञप्तेर् अपि शब्दाविषयत्वेन प्रवृत्त्य- योगात् । स्वयं च तथाविधं पुरुषं सकलवाग्गोचरातीतमकिंचित्करं कुतः प्रतिपद्येत । स्वसंवेदना- द् इति चेन् न । तस्य ज्ञानशून्ये पुंस्यसंभवात् स्वरूपस्यच स्वयं संचेतनायां पुरुषेण प्रतिज्ञायमानायां १५बुद्ध्यवसितम् अर्थं पुरुषश् चेतयते इति व्याहन्यतेस्वरूपस्य बुद्ध्यनवसितस्यापि तेन संवेदनात् । यथा च बुद्ध्यनवसितम् आत्मानम् आत्मा संचेतयते तथा बहिरर्थम् अपि संचेतयतां किम् अनया बुद्ध्या निष्कारण- म् उपकल्पितया । स्वार्थसंवेदकेन पुरुषेण तत्कृत्यस्यकृतत्वात् । यदि पुनर् अर्थसंवेदनस्य कादाचित्कत्वा- द् बुद्ध्यवसायस् तत्रापेक्ष्यते तस्यस्वकारणबुद्धिकादाचित्कतया कादाचित्कस्यार्थसंवेदनस्यकादाचित्क- ताहेतुत्वसिद्धेः । बुद्ध्यध्यवसायानपेक्षायां पुंसोऽर्थसंवेदने शश्वद् अर्थसंवेदनप्रसंगाद् इति मन्यध्वंतदा- २०र्थसंवेदिनः पुरुषस्यापि संचेतना कादाचित्का किम् अपेक्षास्यात् अर्थसंवेदनापेक्षयेति चेत् किम् इदानीम् अ- र्थसंवेदनं पुरुषाद् अन्यद् अभिधीयते ? तथाभिधानेस्वरूपसंवेदनम् अपि पुंसो ऽन्यत्प्राप्तं तस्य कादाचित्कतया शाश्वतिकत्वाभावात् तादृशस्वर्uūपसंवेदनाद् आत्मनोऽनन्यत्वे ज्ञानाद् एवानन्यत्वम् इष्यतां । ज्ञानास्यानि- त्यत्वात् ततो ऽनन्यत्वे पुरुषस्यानित्यत्वप्रसंग इति चेत् । स्वर्uūपसंवेदनाद् अप्य् अनित्यत्वाद् आत्मनो ऽनन्यत्वे कथंचिद् अनित्यत्वप्रसंगो दुःपरिहार एव । स्वर्uūपसंवेदनस्य नित्यत्वे ऽर्थसंवेदनस्यापि नित्यता स्यादेव २५परापेक्षातस् तस्यानित्यत्वे स्वर्uūपसंवेदनस्याप्यनित्यत्वम् अस्तु न चात्मनः कथंचिद् अनित्यत्वम् अयुक्तं । सर्वथा नित्यत्वे प्रमाणविरोधात् सो 'यं सांख्यःपुरुषं कादाचित् कार्थसंचेतनात् मकम् अपि निरतिशयं नित्य- म् आचक्षाणो ज्ञानात् कादाचित्काद् अनन्यत्वम् अनित्यत्वभयान् नप्रतिपद्यत इति किम् अपि महाद्भुतं । प्रधा- नस्य चानित्यत्वाद् व्यक्ताद् अनर्थांतरभूतस्य नित्यतांप्रतीयन् पुरुषस्यापि ज्ञानाद् अशाश्वताद् अनर्थांतरभूतस्य नित्यत्वम् उपैतु सर्वथा विशेषाभावात् केवलंज्ञानपरिणामाश्रयस्य प्रधानस्यादृष्टस्यापिपरिकल्पनायां ३०ज्ञानात्मकस्य च पुरुषस्य स्वार्थव्यवसायिनो दृष्टस्य हानिःपापीयसी स्यात् । दृष्टहानिर् अदृष्टपरिकल्पना च पापीयसीति सकलप्रेक्षावताम् अभ्युपगमनीयत्वात् । ततस्तां परिजिहीर्षता पुरुष एव ज्ञानर्दशनो- पयोगलक्षणः कश्चित् प्रक्षीणकर्मा सकलतत्त्वसाक्षात्कारीमोक्षमार्गस्य प्रणेता पुण्यशरीरः पुण्याति शयोदये सति सन्निहितोक्तपरिग्राहकविनेयमुख्यःप्रतिपत्तव्यस् तस्यैव मुमुक्षुभिः प्रेक्षावद्भिः स्तुत्य- तोपपत्तेः । प्रधानं तु मोक्षमार्गस्य प्रणेतृ ततोऽर्थांतरभूत एवात्मा मुमुक्षुभिः स्तूयते इत्य् अकिंचित्करा- ३५त्मवाद्य् एव ब्रूयान् न ततो ऽन्य इत्य् अलं प्रसंगेन । यो ऽप्य् आह मा भूत् कपिलो निर्वाणस्य प्रणेता महेश्वरवत् तस्य विचार्यमाणस्य तथा व्यवस्थापयितुम् अशक्तेः सुगतस् तु निर्वाणभागोपदेशको ऽस्तु सकलबाधक- प्रमाणाभावाद् इति तम् अपि निराकर्तुम् उपक्रमते ॥ ४२सुगतो ऽपि न निर्वाणमार्गस्य प्रतिपादकः । विश्वतत्त्वज्ञतापायात् तत्त्वतः कपिलादिवत् ॥ ७४ ॥ यो यस् तत्वतो विश्वतत्त्वज्ञताऽपेतः स स ननिर्वाणमार्गस्य प्रतिपादको यथाकपिलादिस्तथा च सुगत इत्य् एवं नासिद्धं साधनं तत्त्वतोविश्वतत्त्वज्ञतापेतत्वस्य सुगते धर्मिणि सद्भावात् । स हिविश्वत- ०५त्त्वान्यतीतानागतवर्तमानानि साक्षात् कुर्वंस् तद्धेतुकोऽभ्युपगंतव्यः तेषां सुगतज्ञानहेतुत्वाभावे सुगतज्ञान विषयत्वविरोधात् । नाकारणं विषय इति स्वयम् अभिधानात् । तथाऽतीतानां तत्कारणत्वे ऽपि न वर्त- मानानाम् अर्थानां सुगतज्ञानकारणत्वं समसमयभाविनांकार्यकारणभावाभावाद् अन्वयव्यतिरेकानुविधाना- योगात् । न ह्य् अननुकृतान्वयव्यतिरेको ऽर्थः कस्यचित्कारणम् इति युक्तं वक्तुं । नाननुकृतान्वयव्यतिरेकं कारणम् इति प्रतीतेः । तथा भविष्यतां चार्थानां नसुगतज्ञानकरणता युक्ता यतस् तद्विषयं सुगतज्ञानं १०स्याद् इति विश्वतत्त्वज्ञतापेतत्वं सुगतस्य सिद्धम् एवतथा परमार्थतः स्वरूपमात्रावलंबित्वात् सर्वविज्ञा- नानां सुगतज्ञानस्यापि स्वरूपमात्रविषयत्वमेवोररीकर्तव्यं तस्य बहिर् अर्थविषयत्वेस्वार्थसंवेदकत्वात् सर्वाचित्तचैत्ता१नाम् आत्मसंवेदनं प्रत्यक्षम् इति वचनंविरोधम् अध्यासीत । बहिर् अर्थाकारतयोत्पद्यमानत्वात् सुगतज्ञानस्य बहिर् अर्थविषयत्वोपचारकल्पनायां नपरमार्थतो बहिर् अर्थविषयं सुगतज्ञानमतस् तत्त्वत इति विशेषणम् अपि नासिद्धं साधनस्य । नापि विरुद्धंविपक्ष एव वृत्तेर् अभावात् कपिलादौ सपक्षे ऽपि १५सद्भावात् । ननु तत्त्वतो विश्वतत्त्वज्ञतापेतेनमोक्षमार्गस्य प्रतिपादकेन दिग्नागाचार्यादिना साधनस्य व्यभिचार इति चेन् न । तस्यापि पक्षीकृतत्वात् । सुगतग्रहणेन सुगतमतानुसारिणां सर्वेषां गृहीत- त्वात् । तर्हि स्याद्वादिनाऽनुत्पन्नकेवलज्ञानेन तत्त्वतोविश्वतत्त्वज्ञतापेतेन सूत्रकारादिना निर्वाणमार्गस्यो- पदेशकेनानैकांतिकं साधनम् इति चेन् न । तस्यापि सर्वंज्ञप्रतिपादितनिर्वाणमार्गोपदेशित्वेन तदनुवाद- कत्वात् प्रतिपादकत्वसिद्धेः । साक्षात् तत्त्वतोविश्वतत्त्वज्ञ एव हि निर्वाणमार्गस्य प्रवक्ता, गणधरदेवाद् अय- २०स् तु सूत्रकारपर्यंतास् तदनुवक्तार एवगुरुपर्वक्रमाविच्छेदाद् इति स्याद्वादिनां दर्शनं ततो न तैरनेकांतिको हेतुर् यतः सुगतस्य निर्वाणमार्गस्योपदेशित्वाभावं नसाधयेत् । स्यान् मतं न सुगतज्ञानं विश्वतत्त्वेभ्यः समुत्पन्नं तदाकारतां चापन्नं तदध्यवसायि च तत्सक्षात् कारि सौगतैर् अभिधीयते । "भिन्नकालं कथं ग्राह्यम् इति चेद् ग्राह्यतां विदुः । हेतुत्वम् एव युक्तिज्ञास्तदाकारार्पणक्षमम्" इत्य् अनेन तदुत्पत्तिताद् रूप्ययो- ग्राह्यत्वलक्षणत्वेन व्यवहारिणः प्रत्यभिधानात् "यत्रैवजनयेदेनां२ तत्रैवास्य प्रमाणते" त्य् अनेनच तदध्य- २५वसायित्वस्य प्रत्यक्षलक्षणत्वेन वचनम् अपि नसुगतप्रत्यक्षापेक्षया व्यवहारजनापेक्षयैव तस्य व्याख्यानात् सुगतप्रत्यक्षे स्वसंवेदनप्रत्यक्ष इवतल्लक्षणस्यासंभवात् । यथैव हिस्वसंवेदनप्रत्यक्षं स्वस्माद् अनुत्पद्य- मानम् अपि स्वाकारम ननुकुर्वाणं स्वस्मिन् व्यवसायम् अजनयत्प्रत्यक्षम् इष्यते कल्पनापोढाभ्रांतत्वलक्षणसद्भा- वात् तथा योगिप्रत्यक्षम् अपि वर्तमानातीतानागततत्त्वेभ्यःस्वयम् अनुत्पद्यमानं तदाकारम् अननुकुर्वत् तदव्य- वसायम् अजनयत् प्रत्यक्षं तल्लक्षणयोगित्वात् प्रतिपद्यते । कथम् अन्यथा सकलार्थविषयं विधूतकल्पनाजालं च ३०सुगतप्रत्यक्षं सिद्ध्येत् तस्य भावनाप्रकर्षपर्यंतजत्वाच् च । न समस्तार्थजत्वं युक्तंऽभावना प्रकर्षपर्यंतजं च योगिज्ञानम्ऽ इति वचनात् । भावना हि द्विविधा श्रुतमयीचिंतामयी च । तत्र श्रुतमयी श्रूयमा- णेभ्यः परार्थानुमानवाक्येभ्यः समुत्पद्यमानेनश्रुतशब्दवाच्यताम् आस्कंदता निर्वृत्ता, परं प्रकर्ष प्रति- पद्यमाना स्वार्थानुमानलक्षणया चिंतया निर्वृत्तांचिंतामयीं भावनामारभेत सा च प्रकृष्यमाणा परं प्रकर्षपर्यंतं संप्राप्ता योगिप्रत्यक्षं जनयति ततस्तत्वतो विश्वतत्वज्ञतासिद्धेः सुगतस्य न तदपेतत्वंसिद्ध्यति ३५यतो निर्वाणमार्गस्य प्रतिपादकः सुगतो न भवेद् इति । तदपि न विचारक्षमं । भावनाया विकल्पात्मि- कायाः श्रुतमय्याश् चिंतामय्याश् चावस्तुविषयाया वस्तुविषयस्ययोगिज्ञानस्य जन्मविरोधात् कुतश्चिद् अतत्त्व- ४३विषयाद् अविकल्पज्ञानात्तत्त्वविषयस्यज्ञानस्यानुपलब्धेः । कामशोकभयोन्मादचोरस्वप्नाद्युपप्लुतज्ञानेभ्यः कामिनीम् ऋतेष्टजनशत्रुसंघातानियतार्थगोचराणां पुरतोऽवस्थितानाम् इव दर्शनस्याप्य् अभूतार्थविषयतया तत्त्वविषयत्वाभावात् । तथा चाभ्यधायि"कामशोकभयोन्मादचोरस्वप्नाद्युपप्लुताः । अभूतान् अपि पश्यंति पुरतो ऽवस्थितानि वे" ति ॥ ननु चकामादिभावनाज्ञानाद् अभूतानाम् अपि कामिन्यादीनां पुरतो ०५ऽवस्थितनाम् इव स्पष्टं साक्षाद् दर्शनम् उपलभ्यते किमंग पुनः श्रुतानुमानभावनाज्ञानात् परमप्रकर्षप्राप्ता- च् च१तुरार्यसत्यानां परमार्थसतांदुःखसमुदयनिरोधमार्गाणां योगिनः साक्षाद् दर्शनं नभवतीत्य् अयम् अर्थो ऽस्य श्लोकस्य सौगतैर् विवक्षितः । स्पष्टज्ञानस्य भावनाप्रकर्षोत्पत्तौ कामिन्यादिषु भावनाप्रकर्षस्य तद्विषय- स्पष्टज्ञानजनकस्य दृष्टांततया प्रतिपादनात् । न चश्रुतानुमानभावना ज्ञातम् अतत्त्वविषयं ततस् तत्वस्य प्राप्यत्वात् । श्रुतं हि परार्थानुमानंत्रिरूपलिंगप्रकाशकं वचनं चिंता च स्वार्थानुमानं साध्याविनाभावि- १०त्रिरूपलिंगज्ञानं तस्य विषयो द्वेधा प्राप्यश् चालंबनियश्च तत्रालंब्यमानस्य साध्यसामान्यस्य तद्विषयस्या- वस्तुत्वाद् अतत्वविषयत्वे ऽपि प्राप्यस्वलक्षणापेक्षयातत्वविषयत्वं व्यववस्थाप्यते वस्तुविषयं प्रामाण्यं द्वयोर् ऽपि प्रत्यक्षानुमानयोर् इति वचनात् । यथैव हिप्रत्यक्षाद् अर्थं परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायां न विसंवाद्यत इत्य् अर्थक्रियाकारि स्वलक्षणवस्तुविषयंप्रत्यक्षं प्रतीयते तथा परार्थानुमानात् स्वार्थानुमाना- च् चार्थं परिच्छिद्य प्रवर्तमानो ऽर्थक्रियायां नविसंवाद्यत इत्य् अर्थाक्रियाकारि चतुरार्यसत्यवस्तुविषयमनुमान- १५म् आस्थीयत इत्य् उभयोः प्राप्यवस्तुविषयं प्रमाण्यं सिद्धंप्रात्यक्षस्येवानुमानस्यार्थासंभवे संभवाभाव साधनात् । तद् उक्तं । "अर्थस्यासंभवे ऽभावात् प्रत्यक्षेऽपि प्रमाणता । प्रतिबद्धस्वभावस्य तद्धेतुत्वे समं द्वयम्" इति ॥ तद् एवं श्रुतानुमानभावनाज्ञानात्प्रकर्षपर्यंतप्राप्ताच् चतुरार्यसत्यज्ञानस्य स्पष्टतम- स्योत्पत्तेर् अविरोधात् । सुगतस्य विश्वतत्वज्ञताप्रसिद्धैव परमवैतृष्ण्यवत् । संपूर्णं गतः सुगत इतिनि- र्वचनात् सुकलशवत् । सुशब्दस्य संपूर्णवाचित्वात् संपूर्णंहि साक्षाच् चतुरार्यसत्यज्ञानं संप्राप्तः सुगत २०इष्यते । तथा शोभनं गतः सुगत इति सुशब्दस्यशोभनार्थत्वात् सुरूपकन्यावत् निरुच्यते । शोभनो ह्य् अविद्यातृष्णाशून्यो ज्ञानसंतानस्तस्याशोभनाभ्यामविद्यातृष्णाभ्यां व्यावृतत्वात् संप्राप्तः सुगत इति निराश्रवचित्तसंतानस्य सुगतत्ववर्णनात् । तथा सुष्ठुगतः सुगत इति पुनर् अनावृत्यागत इत्य् उच्यते । सुशब्दस्य पुनर् अनावृत्यर्थत्वात् सुनष्टज्वरवत् । पुनरविद्यातृष्णाक्रांतचित्तसंतानावृत्तेर् अभावात् निराश्रव चित्तसंतानसद्भावाच् च "तिष्ठंत्य् एव पराधीना येषां तु महती कृपेति" वचनात् ॥ कृपा हि त्रिविधा २५सत्त्वालंबना पुत्रकलत्रादिषु । धर्मालबना संघादिषु । निरालंबना संपुटसंदष्टमंडूकोद्धरणादिषु । तत्र महती निरालंबना कृपा सुगतानांसत्त्वधर्मानपेक्षत्वाद् इति ते तिष्ठंत्य् एव न कदाचिन्निर्वांति धर्मदेशनया जगद् उपकारनिरतत्वाज् जगतश् चानंतत्वात् ऽबुद्धो भवेयंजगते हितायेऽ ति भावनया बुद्धत्व संवर्तकस्य धर्म- विशेषस्योत्पत्तेर् धर्मदेशनाविरोधाभावाद् विवक्षामंतरेणापि विधूतकल्पनाजालस्य बुद्धस्यमोक्षमार्गोपदेशिन्या वाचो धर्मविशेषाद् एव प्रवृत्तेः स एव निर्वाणमार्गस्यप्रतिपादकः समवतिष्ठते विश्वतत्त्वज्ञत्त्वात् कार्त्स्न्यतो ३०वितृष्णत्वाच् चेति । केचिद् आचक्षते सौत्रांतिकमतानुसारिणःसौगतास् तेषां तत्त्वव्यवस्थाम् एव न संभावयामः । किं पुनर् विश्वतत्त्वज्ञः सुगतः स च निर्वाणमार्गस्यप्रतिपादक इत्य् असंभाव्यमानं प्रमाणविरुद्धं प्रतिपद्येम- हि । तथाहि प्रतिक्षणविनश्वरा वहिरर्थाः परमाणवः प्रत्यक्षतो नानु भूता नानु भूयंते स्थिर् अस्थूलसाधारणा- कारस्य प्रत्यक्षबुद्धौ घटादेर् अर्थस्य प्रतिभासनात्यदि पुनर् अस्यासन्नाऽसंस्पृष्टरूपां परमाणवःप्रत्यक्षबुद्धौ प्रतिभासंते प्रत्यक्षपृष्टभाविनी तु कल्पना संवृत्तिःस्थिर् अस्थूलसाधारणाकारम् आत्मन्य् अविद्यमानम् आरोपयतीति ३५सांवृतालंबनाः पंचविज्ञा१नकाया इति निगद्यंते । तदानिरंशानां क्षणिकपरमाणूनां का नामाऽत्या- सन्नतेति विचार्यं । व्यवधानाभाव इति चेत् तर्हिसजातीयस्य विजातीयस्य च व्यवधायकस्याभावात् तेषां व्यवधानाभावः संसर्ग एवोक्तः स्यात् स च सर्वात्मना नसंभवत्य् एवैकपरमाणुमात्रप्रचयप्रसंगात् । ४४नाप्य् एकदेशेने दिग्भागभेदेन षड्भि परमाणुभिरेकस्य परमाणोः संसृष्टमानस्य षडंशतापत्तेः तत एवा संसृष्टाः परमाणवः प्रत्यक्षेणालंब्यंत इति चेत् कथमत्यासन्नास् ते विरोधाद् दविष्टदेशव्यवधानाभावाद् अ- त्यासन्नास्त इति चेन् न । समीपदेशव्यवधानोपगमप्रसंगात् । तथा च समीपदेशव्यवधायकं वस्तु व्यवधी- यमानपरमाणुभ्यां संसृष्टं व्यवहितं वा स्यात्गत्यंतराभावात् । न तावत् संसृष्टं तत्संसर्गस्यसर्वात्मनै- ०५कदेशेन वा विरोधात् । नापि व्यवहितंव्यवधायकांतरपरिकल्पनानुषंगात् व्यवधायकांतरम् अपि व्यवधीयमानाभ्यां संसृष्टं व्यवहितं चेति पुनःपर्यनुयोगे ऽनवस्थानाद् इति क्वात्यासन्नाऽसंसृष्टरूपाः परमाणवो बहिः संभवेयुः । ये प्रत्यक्षविषयाः स्युस्तेषां प्रत्यक्षाविषयत्वे न कार्यलिंगं स्वभावलिंगं वा परमाण्वात्मकं प्रत्यक्षतः सिध्येत् परमाण्वात्मकसाध्यवत्क्वचित् तदसिद्धौ च न कार्यकारणयोर् व्याप्य- व्यापकयोर् वा तद्भावः सिध्येत्प्रत्यक्षानुपलंभव्यतिरेकेण तत्साधनासंभवात्तदसिद्धौ च न स्वार्थानुमान- १०मुदियात् । तस्य लिंगदर्शनसंबंधस्मरणाभ्यामेवोदयप्रसिद्धैः । तदभावे तदनुपपत्तेः । स्वार्थानुमानानुपपत्तौ च न परार्थानुमानरूपं श्रुतम् इति क्व श्रुतमयी चिंतामयीच भावना स्यात् यतस् तत्प्रकर्षपर्यंतजं योगिप्रत्यक्ष- म् उररीक्रियते ततो न विश्वतत्त्वज्ञता सुगतस्य तत्त्वतोऽस्ति येन संपूर्णं गतः सुगतः शोभनं गतः सुगतः सुष्ठु गत इति सुशब्दस्य संपूर्णाद्यर्थत्रयम् उदाहृत्यसुगतशब्दस्य निर्वचनत्रयम् उपवर्ण्यते । सकलाविद्यातृष्णा- प्रहाणाच् च सर्वार्थज्ञानवैतृष्ण्यसिद्धेः सुगतस्यजगद्धितैषिणः प्रमाणभूतस्य सर्वदावस्थितस्य विधूत- १५कल्पनाजालस्यापि धर्मविशेषाद्विनेयजनसंमततत्त्वोपदेशप्रणयनं संभाव्यतेसौत्रांतिकमते विचार्य माणस्य परमार्थतो ऽर्थस्य व्यवस्थापनायोगाद् इति सूक्तंसुगतो ऽपि निर्वाणमार्गस्य न प्रतिपादक- स्तत्त्वतो विश्वतत्त्वज्ञतापायात् कपिलादिवद् इति । ये ऽपिज्ञानपरमाणव एव प्रतिक्षणविशरारवः परमार्थ- संतो न बहिरर्त्थपरमाणवः प्रमाणाभावाद् अवयव्यादिवदिति योगाचारमतानुसारिणः प्रतिपद्यंते तेषा- म् अपि न संवित्परमाणवः स्वसंवेदनप्रत्यक्षतःप्रसिद्धास् तत्र तेषाम् अनवभासनाद् अंतरात्मन एव सुख २०दुःखाद्यनेकविवर्तव्यापिनः प्रतिभासनात् तथापरप्रतिभासो ऽनाद्यविद्यावासनाबलात् समुपजायमानो भ्रांत एवेति चेन् न । बाधकप्रमाणभावात् । नन्व् एकःपुरुषः क्रमभुवः सुखादिपर्यायान् सहभुवश् च गुणान् किम् एकेन स्वभावेन व्याप्नोत्य् अनेकेन वा । न तावद् एकेन तेषाम् एकरूपतापत्तेः । नाप्य् अनेकेन तस्याप्य् अनेक- स्वभावत्वात् भेदप्रसंगाद् एकत्वविरोधाद् इत्य् अपि न वाधकं वेद्यवेदकाकारैकज्ञानेन तस्यापसारितत्वात् संवेदनं ह्य् एकं वेद्यवेदकाकारौ स्वसंवित्स्वभावेनैकेन व्याप्नोति न च तयोर् एकरूपता, संविद्रूपेणैकरूपतै- २५वेति चेत् तर्ह्य् आत्मा सुखदुःखज्ञानादीन्स्वभावेनैकेनात्मत्वेन व्याप्नोति तेषामात्मरूपतयैकत्वाविरोधात् कथम् एवं सुखादिभिन्नाकारः प्रतिभास इति चेद् वेद्यादिभिन्नाकारः प्रतिभासः कथम् एकत्र संवेदने स्याद् इति समः पर्यनुयोगः । वेद्यादिवासनाभेदाद् इति चेत्सुखादिपर्यायपरिणामभेदाद् एकत्रात्मनि सुखादिभिन्ना- कारः प्रतिभासः किं न भवेत् । वेद्याद्याकारप्रतिभासभेदे ऽप्य् एकं संवेदनमशक्यविंवचनत्वाद् इति वदन्न् अ- पि सुखाद्यनेकाकारप्रतिभासे ऽप्य् एक एवात्माशश्वदशक्यविवेचनात्वाद् इति वदंतं कथं प्रत्याचक्षीत ३०यथैव हि संवेदनस्यैकस्य वेद्याद्याकाराः संवेदनांतरंनेतुम् अशक्यत्वाद् अशक्यविवेचनाः संवेदनम् एकं तथा- त्मनः सुखाद्याकाराः शश्वदात्मांतरं नेतुम् अशक्यत्वादशक्यविवेचनाः कथम् एक एवात्मा न भवेत् । यद्य् अथा- प्रतिभासते तत्तथैव व्यवहर्तव्यं यथावेद्याद्याकारात्मकैकसंवेदनरूपतया प्रतिभासमानंसंवेदनं तथा च सुखज्ञानाद्यनेकाकारैकात्मरूपतया प्रतिभासमानश्चात्मा तस्मात् तथा व्यवहर्तव्य इति नातः सुखाद्यनेकाकारात्मा प्रतिभासमानो निराकर्तुं शक्यते । यदितु वेद्यवेदकाकारयोर् भ्रांतत्वात् तद्विविक्त- ३५म् एव संवेदनमात्रं परमार्थसद् इति निगद्यते तदातत्प्रचयरूपम् एकपरमाणुरूपं वा । न तावत् प्रचय- रूपं बहिर् अर्थपरमाणूनाम् इव संवेदनपरमाणूनाम् अपिप्रचयस्य विचार्यमाणस्यासंभवात् ॥ नाप्य् एक- परमाणुरूपं सकृद् अपि तस्य प्रतिभासाभावाद्बहिरर्थैकपरमाणुवत् । ततो ऽपि न संवित् परमाणुरूपो ऽपि सुगतः सकलसंतानसंवित्परमाणुरूपाणि चतुरार्यसत्यानिदुःखादीनि परमार्थतः संवेदयते वेद्य- वेदकभावप्रसंगाद् इति न तत्त्वतो विश्वतत्त्वज्ञः स्यात्, येनासौ निर्वाणमार्गस्य प्रतिपादकः समनुम- ४५न्यते ॥ स्यान् मतं संवृत्त्या वेद्यवेदकभावस्यसद्भावात् सुगतो विश्वतत्त्वानां ज्ञाता श्रेयोमार्गस्य चोपदेष्टा स्तूयते तत्त्वतस् तदसंभवाद् इति तद् अप्यज्ञचेष्टितम् इति निवेदयति — "संवृत्त्या विश्वतत्त्वज्ञः श्रेयोमार्गोपदेश्य् अपि । बुद्धो वन्द्यो न तु स्वप्नस् तादृग् इत्य् अज्ञचेष्टितं" ॥ ७५ ॥ ०५ननु च संवृतत्वाविशेषे ऽपि सुगतस्वप्नसंवेदनयोःसुगत एव वंद्यस् तस्य भूतस्वभावत्वाद् विपर्ययैर् अ- बाध्यमानत्वाद् अर्थक्रियाहेतुत्वाच् च । न तुस्वप्नसंवेदनं वंद्यं तस्य संवृत्त्यापि बाध्यमानत्वात्भूतार्थ- त्वाभावाद् अर्थक्रियाहेतुत्वाभावाच् चेति चेन् नभूतत्वसांवृतत्वयोर् विप्रतिषेधात् । भूतं हि सत्यंसांवृतम् असत्यं तयोः कथम् एकत्र सकृत्संभवः । संवृतिः सत्यं भूतमिति चेन् न । तस्य विपर्ययैर् अबाध्यमानत्वायोगात् स्वप्नसंवेदनाद् अविशेषात् । ननु च संवृतिर् अपि द्वेधासादिर् अनादिश् च । सादिः स्वप्नसंवेदनादिः । १०सा वाध्यते सुगतसंवेदनाऽनादिः सा न बाध्यतेसंवृतित्वाविशेषे ऽपीति चेन् न । संसारस्याबाध्यत्वप्रस- ङ्गात् स ह्य् अनादिर् एवानाद्यविद्यावासनाहेतुत्वात् प्रवाध्यतेमुक्तिकारणसामर्थ्यात् । अन्यथा कस्यचित् संसाराभावाप्रसिद्धेः । संवृत्या सुगतस्य बंद्यत्वे चपरमार्थतः किं नाम वंद्यं स्यात् संवेदनाद्वैतम् इति चेन् न तस्य स्वतो ऽन्यतो वा प्रतिपत्त्यभावाद् इत्य् आह — यत् तु संवेदनाद्वैतं पुरुषाद्वैतवन् न तत् । १५सिद्ध्येत् स्वतो ऽन्यतो वापि प्रमाणात् स्वेष्टहानितः ॥ ८६ ॥ तद् धि संवेदनाद्वैतं न तावत्स्वतः सिध्यतिपुरुषाद्वैतवत् । स्वरूपस्य स्वतोगतेर् अभावात् । अन्य- था कस्यचित् तत्र विप्रतिपत्तेर् अयोगात् पुरुषाद्वैतस्यापिप्रसिद्धेर् इष्टहानिप्रसंगाच् च । ननु च पुरुषाद्वैतं न स्वतो ऽवसीयते तस्य नित्यस्य सकलकालकलापव्यापितयासर्वगतस्य च सकलदेशप्रतिष्टित- तया वाऽनुभवाभावाद् इति चेन् न । संवेदनाद्वैतस्यापिक्षणिकस्यैकक्षणस्थायितया निरंशस्यैकपर- २०माणुरूपतया सकृद् अप्य् अनुभवाभावाविशेषात् । यदि पुनरन्यतः प्रमाणात् संवेदनाद्वैतसिद्धिः स्यात् तदापि स्वेष्टहानिर् अवश्यंभाविनी साध्यसाधनयोरभ्युपगमे द्वैतसिद्धिप्रसंगात् । यथा चानुमाना- त् संवेदनाद्वैतं साध्यते । यत् संवेद्यते तत् संवेदनमेव । यथा संवेदनस्वरूपं संवेद्यन्ते च नीलसुखादीनि । तथा पुरुषाद्वैतम् अपि वेदांतवादिभिः साध्यते । प्रतिभास एवेदं सर्वं प्रतिभासमानत्वात्, यद् यत् प्र- तिभासमानं तत् तत् प्रतिभास एव यथा प्रतिभासस्वरूपंप्रतिभासमानं चेदं जगत् तस्मात् प्रतिभास एवे- २५त्य् अनुमानात् । न ह्य् अत्र जगतः प्रतिभासमानत्वम् असिद्धंसाक्षाद् असाक्षाच् च तस्याऽप्रतिभासमानत्वे सकल- शब्दविकल्पवाग्गोचरातिक्रांततया वक्तुम् अशक्तेः प्रतिभासश्च चिद्रूप एव अचिद्रूपस्य प्रतिभासत्व- विरोधात् । चिन्मात्रं च पुरुषाद्वैतं तस्य चदेशकालाकारतो विच्छेदानुपलक्षणत्वात् । नित्यत्वं सर्वगतत्वं निराकारत्वं च व्यवतिष्ठते । न हि सकश्चित् कालो ऽस्ति यश् चिन्मात्रप्रतिभासशून्यःप्रतिभास- विशेषस्यैव विच्छेदान् नीलसुखादिप्रतिभासविशेषवत् । सह्य् एकदा प्रतिभासमानो ऽन्यदा न प्रतिभासते ३०प्रतिभासांतरेण विच्छेदात् प्रतिभासमात्रं तुसकलप्रतिभासविशेषकाले ऽप्य् अस्तीति न कालतो विच्छिन्नं नापि देशतः क्वचिद् देशे प्रतिभासविशेषस्यदेशांतरप्रतिभासविशेषेण विच्छेदे ऽपिप्रतिभासमात्रस्या- विच्छेदाद् इति न देशविच्छन्नं प्रतिभासमात्रं नाप्याकारविच्छिन्नं केनचिद् आकारेण प्रतिभासविशेषस्यै- वाकारांतरप्रतिभासविशेषेण विच्छेदोपलब्धेःप्रतिभासमात्रस्य सर्वाकारप्रतिभासविशेषेषु सद्भावाद् आ- कारेणाप्य् अविच्छिन्नं तत्, प्रतिभासविशेषाश् चदेशकालाकारैर् विच्छिद्यमानाः यदि न प्रतिभासंते तदा न ३५तद्व्यवस्थाऽतिप्रसंगात् प्रतिभासन्ते चेत्प्रतिभासमात्रांतः प्रविष्टा एव प्रतिभासस्वरूपवत् । नहि प्रतिभासमानं किंचित् प्रतिभासमात्रांतः प्रविष्टंनोपलब्धं येनानैकांतिकं प्रतिभासमानत्वं स्यात् तथा देशकालाकारभेदाश् च परैर् अभ्युपगम्यमाना यदि नप्रतिभासंते कथम् अभ्युपगमार्हाः स्वयम् अप्रति- ४६भासमानस्यापि कस्यचिद् अभ्युपगमेऽतिप्रसंगानिवृत्तेः प्रतिभासमानास् तु ते ऽपिप्रतिभासमात्रांतः प्रविष्टा एवेति कथं तैः प्रतिभासमात्रस्य विच्छेदःस्वरुपेणास्वरुपेण स्वस्य विच्छेदानुपपत्तेः सन्न् अपिदेशकाला- कारैर् विच्छेदः प्रतिभासमात्रस्य प्रतिभासते न वा ? प्रतिभासते चेत् प्रतिभासस्वरूपम् एव तस्य च विच्छेद इति नामकरणे न किंचिद् अनिष्ठं । न प्रतिभासतेचेत् कथम् अस्ति न प्रतिभासते चास्ति वेति वि- ०५प्रतिषेधात् । ननु च देशकालस्वभावविप्रकृष्टाः कछंचिदप्रतिभासमाना अपि संतः सद्भिर् बाधका- भावाद् इष्यंत एवेति चेन् न । तेषाम् अपिशब्दज्ञानेनानुमानज्ञानेन वा प्रतिभासमानत्वात् । तत्राप्य् अप्रति भासमानानां सर्वथाऽस्तित्वव्यवस्थानुपपत्तेः ॥ नन्वेवं शब्दविकल्पज्ञाने प्रतिभासमानाः परस्परविरु- द्धार्थप्रवादाः शशविषाणादयश् च नष्टानुत्पनाश् च रावणशंखचक्रवर्त्यादयः कथम् अपाक्रियंतो तेषामनपाकरणे कथं पुरुषाद्वैतसिद्धिर् इति चेन् न । तेषाम् अपिप्रतिभासमात्रांतः प्रविष्टत्वसाधनात् । एतेन यद् उच्यते १०कैश्चित् "अद्वैतैकांतपक्षे ऽपि दृष्टो भेदो विरुध्यते । कारकाणां क्रियायाश् च नैकं स्वस्मात् प्रजायते । कर्मद्वैतं फलद्वैतं लोकद्वैतं च नो भवेत । विद्याविद्याद्वयं नस्याद् वंधमोक्षद्वयं तथेति" । तद् अपि प्रत्याख्यातं क्रियाणां कारकाणां च दृष्टस्य भेदस्य प्रतिभासमानस्यपुण्यपापकर्मद्वैतस्य तत्फलद्वैतस्य च सुखदुःख- लक्षणस्य लोकद्वैतस्यैह परलोकविकल्पस्यविद्याविद्याद्वैतस्य च सत्येतरज्ञानभेदस्यबंधमोक्षद्वयस्य च पारतंत्र्यस्वभावस्य प्रतिभासमात्रांतः प्रविष्टत्वाद्विरोधकत्वासिद्धेः स्वयम् अप्रतिभासमानस्य च १५विरोधकत्वं दुरुपपादं स्वेष्टतत्त्वस्यापि सर्वेषामप्रतिभासमानेन विरोधकेन विरोधापत्तेर् न किंचित् त- त्त्वम् अविरुद्धं स्यात् । यद् अप्य् अभ्यधायि "हेतोरद्वैतसिद्धिश् चैद्द्वैतं स्याद् धेतुसाध्ययोः । हेतुना चेद्विना सिद्धिर् द्वैतं वाङ्मात्रतो न किं" इति । तद् अपि नपुरुषाद्वैतवादिनः प्रतिक्षेपकं (प्रतिभासमानत्वस्यहेतोः सर्वस्य प्रतिभासमात्रांतः प्रविष्टत्वसाधनस्य स्वयंप्रतिभासप्रतिभासमात्रांतः प्रविष्टत्वसिद्धेर् द्वैतसिद्धि- निबंधनत्वाभावात् । हेतुना विना चोपनिषद्वाक्यमात्रात्पुरुषाद्वैतसिद्धौ न वाङ्मात्राद् अद्वैतसिद्धिः २०प्रसज्यते न चोपनिषद्वाक्यम् अपि परमपुरुषाद् अन्यद् एवतस्य प्रतिभासमानस्य परमपुरुषस्वभावत्वसिद्धैः) यद् अपि कैश्चिन् निगद्यते पुरुषाद्वैतस्यानुमानात् प्रसिद्धौपक्षहेतुदृष्टांतानाम् अवश्यं भावात् तैर् विनाऽनुमान- स्यानुदयात् कुतः पुरुषाद्वैतं सिध्येत् ? पक्षादिभेदस्यसिद्धेर् इति तद् अपि न युक्तिमत् । पक्षादीनाम् अपि प्रतिभासमानानां प्रतिभासांतःप्रतिष्टानांप्रतिभासमात्राबाधकत्वाद् अनुमानवत् । तेषाम् अप्रतिभास- मानानां तु सद्भावाप्रसिद्धेः कुतः पुरुषाद्वैतविरोधित्वं । यद् अप्य् उच्यते कैश्चित् पुरुषाद्वैतं तत्त्वं परेण प्रमा- २५णेन प्रतीयमानं प्रमेयं तत्त्वं तत्परिच्छित्तिश् चप्रमितिः प्रमाता च यदि विद्यते तदा कथं पुरुषाद्वैतं प्रमाणप्रमेयप्रमातृप्रमितीनां तात्त्विकीनां सद्भावात्तत्त्वचतुष्टयप्रसिद्धिर् इति । तद् अपि न विचारक्षमं । प्रमाणादिचतुष्टयस्यापि प्रतिभासमानस्यप्रतिभासमात्रात्मनः परमब्रह्मणो बहिर्भावाभावात् । तद्बहिर्भूर्तस्य द्वितीयत्वायोगात् । एतेनषोडशपदार्थप्रतीत्या प्रागभावादिप्रतीत्या च पुरुषा- द्वैतं वाध्यत इति वदन्न् इवारितः । तैर् अपिप्रतिभासमानैर् द्रव्यादिपदार्थैर् इव प्रतिभासमात्राद्बहिर्भूतैः ३०पुरुषाद्वैतस्य बाधनायोगात् । स्वयम् अप्रतिभासमानैस् तुसद्भावव्यवस्थाम् अप्रतिपद्यमानैस् तस्य बाधने शशविषाणादिभिर् अपि स्वेष्टपदार्थनियमस्यबाधनप्रसंगात् ॥ एतेन सांख्यादिपरिकल्पितैर् अपि प्रकृत्यादितत्त्वैः पुरुषाद्वैतं न बाध्यते इति निगदितं बोद्धव्यं । न चात्रं पुरुषद्वैते यमनियमासनप्राणा- याम् अप्रत्याहारधारणाध्यानसमाधयो ऽष्टौ योगांगानि योगो वा संप्रज्ञातो ऽसंप्रज्ञातश् च योगफलं च विभूतिकैवल्यलक्षणं विरुध्यते प्रतिभासमात्रात् तद्बहिर्भावाभावात् प्रतिभासमानत्वेन तथा भाव- ३५प्रसिद्धेः । ये ऽप्य् आहुः प्रतिभासमानस्यापि वस्तुनःप्रतिभासाद् भेदप्रसिद्धेः न प्रतिभासांतःप्रविष्टत्वं प्रतिभासो हि ज्ञानं स्वयं न प्रतिभासते स्वात्मनिक्रियाविरोधात् तस्य ज्ञानांतरवेद्यत्वसिद्धेर् नापि तद्विषयभूतं वस्तु स्वयं प्रतिभासमानं तस्य ज्ञेयत्वात् । ज्ञानेनैव प्रतिभासत्वसिद्धेर् इति स्वयं प्रतिभास- मानत्वं साधनम् असिद्धं न कस्यचित्प्रतिभासांतःप्रविष्टत्वं साधयेत् । परतःप्रतिभासमानत्वं तु विरुद्धं प्रतिभासबहिर्भावसाधनत्वाद् इति ते ऽपिस्वदर्शनपक्षपातिन एव ज्ञानस्य स्वयम् अप्रतिभासनेज्ञानांत- ४७राद् अपि प्रतिभासनविरोधात् प्रतिभासत इतिप्रतिभासैकतया स्वातंत्रेण प्रतीतिविरोधात् प्रतिभास्यत इत्य् एवं प्रत्ययप्रसंगात् ॥ तस्य परेण ज्ञानेनप्रतिभासमानत्वात् परस्य ज्ञानस्य च ज्ञानांतराप्रतिभासने प्रतिभासत इति संप्रत्ययो न स्यात् ॥ संवेदनांतरेणप्रतिभास्यत्वात् । तथा चानवस्थानान् न किंचित्सं- वेदनं व्यवतिष्ठते ॥ न च ज्ञानं प्रतिभासत इतिप्रतीतिर् भ्रांता बाधकाभावात् । स्वात्मनि क्रिया विरोधो ०५बाधक इति चेत् का पुनः स्वात्मनि क्रिया विरुध्यते ज्ञप्तिरुत्पत्तिर् वा ? न तावत् प्रथमकल्पना स्वात्मनि ज्ञप्तेर् विरोधाभावात् स्वयं प्रकाशनं हि ज्ञप्तिः । तच् चसूर्य्यालोकनादौ स्वात्मनि प्रतीयत एव, सूर्यालोकः प्रकाशतेऽ ऽप्रदीपः प्रकाशतेऽ इति प्रतीतेः । द्वितीयकल्पना तु न वाधकारिणी, स्वात्मन्य् उत्पत्तिलक्ष- णायाः क्रियायाः परैर् अनभ्युपगमात् । न हि किंचित् स्वस्मादुत्पद्यते इति प्रेक्षावंतो ऽनुमन्यंते । संवेदनं स्वस्माद् उत्पद्यत इति तु दूरात् सारितम् एव । ततः कथंस्वात्मनि क्रियाविरोधो बाधकः स्यात् ? न च सर्वा १०क्रिया वस्तुनः स्वात्मनि विरुध्यत इति प्रतीतिर् अस्तितिष्ठत्य् आस्तेभवतीति धात्वर्थलक्षणायाः क्रियायाः स्वात्मन्य् एव प्रतीतेः । तिष्ठत्यादेर् धातोर् अकर्मकत्वात्कर्मणि क्रियानुत्पत्तेः । स्वात्मन्य् एव कर्तरि स्थानादि- क्रियेति चेत् तर्हि भासते तद्धातोर् अकर्मकत्वात् कर्मणिक्रियाविरोधात् कर्तर्य् एव प्रतिभासनक्रियाऽस्तु ज्ञानं प्रतिभासत इति प्रतीतेः । सिद्धे च ज्ञानस्य स्वयंप्रतिभासमानत्वे सकलस्य वस्तुनः स्वतः प्रतिभासमानत्वं सिद्धम् एव । सुखं प्रतिभासते रूपंप्रतिभासत इत्य् अंतर्बहिर्वस्तुनः स्वातंत्र्येण कर्तृताम् अनु- १५भवतः प्रतिभासनक्रियाधिकरणस्य प्रतिभासमानस्यनिराकर्तुम् अशक्तेः ॥ ततो नासिद्धं साधनं यतः पुरुषाद्वैतं न साधयेत् । नापि विरुद्धं परतःप्रतिभासमानत्वाप्रतीतेः, कस्यचित् प्रतिभासाद् बर्हिर्भाव- साधनात् । एतेन परोक्षज्ञानवादिनः संवेदनस्य स्वय प्रतिभासमानत्वम् असिद्धम् आचक्षाणाः सकल- ज्ञेयस्य ज्ञानस्य च ज्ञानात् प्रतिभासमानत्वात् साधनस्यविरुद्धताम् अभिदधानाः प्रतिध्वस्ताः ज्ञानं प्रकाशते बहिर् वस्तु प्रकाशत इति प्रतीत्या स्वयंप्रतिभासमानत्वस्य साधनस्य व्यवस्थापनात् । ये त्व् आत्मास्वयं २०प्रकाशत फलज्ञान चेत्य् आवेदयंति तेषाम् आत्मनि फलज्ञानेवा स्वयं प्रतिभासमानत्वं सिद्धं सर्वस्य वस्तुनः प्रतिभासमानत्वं साधयत्य् एव । तथा हिविवादाध्यासितं वस्तु स्वयं प्रतिभासते प्रतिभास- मानत्वात् । यद् यत् प्रतिभासमानं तत् तत् स्वयंप्रतिभासते यथा भट्टमतानुसारिणाम् आत्मा प्रभाकरमतानु- सारिणां वा फलज्ञानं । प्रतिभासमानं चांतर्बहिर्वस्तुज्ञानज्ञेयरूपं विवादाध्यासितं तस्मात् स्वयं प्रतिभा- सते । न तावद् अत्र प्रतिभासमानत्वम् असिद्धं सर्वस्यवस्तुनः सर्वथाऽप्य् अप्रतिभासमानस्य सद्भावविरो- २५धात् । साक्षाद् असाक्षाच् च प्रतिभासमानस्य तु सिद्धंप्रतिभासमानत्वं ततो भवत्य् एव साध्यसिद्धिः । साध्याविनाभावनियमनिश्चयाद् इति निरवद्यंपुरुषाद्वैतसाधनं संवेदनाद्वैतवादिनो ऽभीष्टहानये भवत्य् एव न हिकार्यकारणग्राह्यग्राहकवाच्यवाचकसाध्यसाधकबाध्यबाधकविशेषणविशेष्यभाव- निराकरणात् संवेदनाद्वैतं व्यवस्थापयितुं शक्यंकार्यकारणभावादीनां प्रतिभासमानत्वात् । प्रतिभासमात्रांतःप्रविष्टानां निराकर्तुम् अशक्तेः स्वयमप्रतिभासमानानां तु संभवाभावात् संवृत्यापि ३०व्यहारविरोधात् सकलविकल्पवाग्गोचरातिक्रांततापत्तेः । संवेदनमात्रं चैकक्षणस्थायि यदि किंचित् कार्यं न कुर्यात् तदा वस्त्व् एव न स्यात् । वस्तुनोऽर्थक्रियाकारित्वलक्षणत्वात् । करोति चेत् कार्य- कारणभावः सिध्येत् । तस्य हेतुमत्वे च सएवाकार्यकारणभावः कारणरहितत्वे तु नित्यतापत्तिः । संवेदनस्य सतो ऽकारणवतो नित्यत्वप्रसिद्धेर् इतिप्रतिभासमानात्मनः पुरुषत्वस्यैव सिद्धिः स्यात् ॥ किं च क्षणिकसंवेदनमात्रस्य ग्राह्यग्राह्यकवैधुर्यंयदि केनचित् प्रमाणेन गृह्यते । तदा ग्राह्यग्राहकभावः ३५कथं निराक्रियेत । न गृह्यते चेत् कुतोग्राह्यग्राहकवैधुर्यसिद्धिः ? स्वरूपपसंवेदनाद् एवेति चेत्तर्हि संवे- दनाद्वैतस्य स्वरूपसंवेदनं ग्राहकंग्राह्यग्राहकवैधुर्यं तु ग्राह्यम् इति स एवग्राह्यग्राहकभावः ॥ स्या- न् मतं "नान्यो ऽनुभाव्यो बुध्द्याऽस्ति तस्यानानुभवो ऽपरःग्राह्यग्राहकवैधुर्यात् स्वयं सैव प्रकाशत" इति वचनान् न बुद्धेः किंच्aiद् ग्राह्यम् अस्ति नापि बुद्धिःकस्यचिद् ग्राह्या स्वरूपे ऽपि ग्राह्यग्राहकभावाभावात् ऽस्वरूपस्य स्वतो गतिर्ऽ इत्य् एतस्यापि संवृत्याभिधानात्परमार्थतस् तु बुद्धिः स्वयं प्रकाशते चकास्ती- ४८त्य् एवोच्यते न पुनः स्वरूपं गृह्णातिग्राह्यग्राहकवैधुर्यं च स्वरूपाद् अव्यतिरिक्तं गृह्णातिजानातीत्य् अ- भिधीयते । निरंशसंवेदनाद्वैते तथाभिधानविरोधादिति । तद् अपि न पुरुषाद्वैतवादिनः प्रतिकूलं स्वयं प्रकाशमानस्य संवेदनस्यैव परमपुरुषत्वात् ॥ न हि तत्संवेदनं पूर्वापरकालव्यवच्छिन्नं संता- नांतरबहिरर्थव्यावृत्तं च प्रतिभासते यतःपूर्वापरक्षणसंतानांतरबहिरर्थानाम् अभावः सिद्ध्येत्तेषां ०५संवेदनेनाग्रहणाद् अभाव इति चेत् स्वसंवेदनस्यापिसंवेदनांतरेणाग्रहणाद् अभावो ऽस्तु तस्य स्वयं प्रकाश- नान् नाभाव इति चेत् पूर्वोत्तरस्वसंवित्क्षणानांसंतानांतरसंवेदनानां च बहिरर्थानाम् इव स्वयंप्रकाश- मानानां कथम् अभावः साध्यते कथं तेषां स्वयंप्रकाशमानत्वं ज्ञायत इति चेत् स्वयम् अप्रकाशमानत्वंतेषां कथं साध्यत इति समानः पर्यनुयोगः ॥ स्वसंदेनस्वरूपस्य प्रकाशमानत्वम् एव तेषामप्रकाशमानत्व- म् इति चेत् तर्हि तेषां प्रकाशमानत्वम् एवस्वसंवेदनस्यैवाप्रकाशमानत्वं किं न स्यात् ? स्वसंवेदनस्य स्वय- १०म् अप्रकाशमानत्वे परैः प्रकाशमानत्वाभावः साधयितुमशक्यः प्रतिषेधस्य विधेर् विषयत्वात् सर्वत्र सर्वदा सर्वथाऽप्य् असतः प्रतिषेधविरोधात् इति चेत् तर्हिस्वसंवेदनात् परेषां प्रकाशमानत्वाभावे कथं तत्प्रति- षेधः साध्यत इति समानश् चर्चः । विकल्पप्रतिभाषिणांतेषां स्वसंवेदनावभासित्वं प्रतिषिध्यत इति चेन् न विकल्पावभासित्वाद् एव स्वयं प्रकाशमानत्वासिद्धेः । तथाहि यद्य् अद्विकल्पप्रतिभासि तत् तत् स्वयं प्रकाशते यथा विकल्पस्वरूपं तथा च स्वसंवेदनपूर्वोत्तरक्षणाःसंतानांतरसंवेदनानि बहिरर्थाश् चेति स्वयं प्रकाश- १५मानत्वसिद्धिः शशविषाणादिभिर् विनष्टानुत्पन्नैश् च भावैर्विकल्पावभासिभिर् व्यभिचार इति चेन् न तेषाम् अपि प्रतिभासमात्रांतर्भूतानां स्वयं प्रकाशमानत्वसिद्धेःअन्यथा विकल्पावभासित्वायोगात् । सो ऽयं सौगतः सकलदेशकालविप्रकृष्टान् अप्य् अर्थान् विकल्पबुद्धौप्रतिभासमानात् स्वयम् अभ्युपगमयन् स्वयं प्रकाशमानत्वं नाभ्युपैतीति किम् अपि महाद्भुतं ? तथाभ्युपगमे च सर्वस्य प्रतिभासमात्रांतः प्रविष्टत्व- सिद्धेः पुरुषाद्वैतसिद्धिर् एव स्यात् न पुनस्तद्बहिर्भूतसंवेदनाद्वैतसिद्धिः । मा भून्निरंशसंवेदनाद्वैतं चित्राद्वैतं २०चित्राद्वैतस्य व्यवस्थापनात् । कालत्रयत्रिलोकवर्तिपदार्थाकारासंविच्चित्राप्य् एका शश्वदशक्यविवेच- नत्वात् सर्वस्य वादिनस् तत एव क्वचिद् एकत्वव्यवस्थापनातन्यथा कस्यचिद् एकत्वेनाभिमतस्याप्य् एकत्वा- सिद्धिर् इति चेन् न एवम् अपि परमब्रह्मण एव प्रसिद्धेःसकलदेशकालाकारव्यापिनः संविन् मात्रस्यैव परम- ब्रह्मत्ववचनात् । न चैकक्षणस्थायिनी चित्रा संवित्चित्राद्वैतम् इति साधयितुं शक्यते तस्याः कार्यका- रणभूतचित्रसंविन् नांतरीयत्वच्चित्राद्वैतप्रसंगात्-तत्कार्यकारणचित्रसंविदो ऽनभ्युपगमे सदहेतुकत्वा- २५न् नित्यत्वसिद्धेः कथं न चित्राद्वैततमैव ब्रह्माद्वैतमिति न संवेदनाद्वैतवच् चित्राद्वैतम् अपि सौगतस्यव्यवतिष्ठते सर्वथा शून्यं तु तत्वम् असंवेद्यमानं न व्यवतिष्ठते ॥ संवेद्यमानं तु सर्वत्र सर्वथा सर्वदा परमब्रह्मणो नातिरिच्यते तत्राक्षेपसमाधानानांपरमब्रह्मसाधनानुकूलत्वात् । ततो न सुगतस् तत्वतःसंवृत्या वा विश्वतत्वज्ञः संभवतीति न निर्वाणमार्गस्य प्रतिपादकःस्यात् ॥ परमपुरुष एव विश्वतत्वज्ञः श्रेयोमार्गस्य प्रणेताव्ववतिष्ठतां तस्योक्तन्या येन साधनात् इत्य् अ- ३०परः सो ऽपि न विचारसहः । पुरुषोत्तमस्यापि यथाप्रतिपादनं विचार्यमाणस्यायोगात् । प्रतिभास- मात्रं चिद्रूपं परमब्रह्मोक्तं तश् च यथा परमार्थिकंदेशकालाकाराणां भेदे ऽपि व्यभिचाराभावात् तत्प्र- तिभासविशेषाणाम् एव व्यभिचाराद् अव्यभिचारित्वलक्षणत्वात्तस्येति तच् च विचार्यते । यद् एतत्प्रतिभासमात्रं तत् सकलप्रतिभासविशेषरहितं तत् सहितं वा स्यात् ? प्रथमपक्षे तद् असिद्धम् एव सकलप्रतिभासविशेष- रहितस्य प्रतिभासमात्रस्यानुभवाभावात् । केनचित्प्रतिभासविशेषेण सहितस्यैव तस्य प्रतिभासना- ३५त् क्वचित् प्रचिभासविशेषस्याभावे ऽपि पुनर् अन्यत्र भावात्कदाचिद् अभावे ऽपि चान्यदा सद्भावात् केनचिद् आकार- विशेषेण तदसंभवे ऽपि चाकारांतरेण संभवाद् देशकालाकारविशेषापेक्षत्वात् तत्प्रतिभासविशेषाणां तथा व्यभिचाराभावाद् अव्यभिचारित्वासिद्धेःतत्वलक्षणानतिक्रमान् न तत्वबहिर्भावो युक्तः । तथाहि यद्य् अ- थैवाव्यभिचारि तत्तथैव तत्वं यथा प्रतिभासमात्रंप्रतिभासमात्रतयैव व्यभिचारि तथैव तत्वं । अनियतदेशकालाकारतयैवाव्यभिचारी च प्रतिभासविशेष इतिप्ररिआभासमात्रवत् प्रतिभासविशेष- ४९स्यापि वस्तुत्वसिद्धेः । न हि यो यद्देशतयाप्रतिभासविशेषः स तद्देशतां व्यभिचरति । अन्यथा भ्रांतत्वप्रसंगात् । शाखादेशतया चंद्रप्रतिभासवत् ॥ नापि यो यत्कालतया प्रतिभासविशेषः स तत्कालतां व्यभिचरति । तव्द्यभिचारिणोऽसत्यत्वव्यवस्थानान् निशि मध्यंदिनतयास्वप्नप्रतिभासविशेष- वत् ॥ नापि यो यदाकारतया प्रतिभासविशेषः सतदाकारतां विसंवदति तद्विसंवादिनो मिथ्याज्ञानत्व- ०५सिद्धेः । कामलाद्युपहतचक्षुषः शुक्ले शंखेपीताकारताप्रतिभासविशेषवत् ॥ न च वितथैर् देशकाला- कारव्यभिचारिभिः प्रतिभासविशेषैः सदृशा एवदेशकालाकाराव्यभिचारिणः प्रतिभासविशेषाः प्रतिलक्षयितुं युज्यंते यत इदं वेदांतवादिनां वचनंशोभेत "आदावंते च यन् नास्ति वर्तमाने ऽपि तत् तथा । वितथैः सदृशाः संतो ऽवितथा एव लक्षिताः" इति तेषामवितथानाम् आदावंते चासत्वे ऽपि वर्तमाने सत्त्वप्रसिद्धेर् बाधकप्रमाणाभावात् ॥ न हि यथास्वप्नादिभ्रांतप्रतिभासविशेषेषु तत्काले ऽपि बाधकं १०प्रमाणमुदेति तथा जाग्रद्दशायाम् अभ्रांतप्रतिभासविशेषेषुतत्र साधकप्रमाणस्यैव सद्भावात् । सम्य- ङ्मया तदा दृष्टो ऽर्थो ऽर्थक्रियाकारित्वात् तस्य मिथ्यात्वेऽर्थक्रियाकारित्वविरोधात् इंद्रजालादिपरि- दृष्टार्थवद् इति न च भ्रांतेतरव्यवस्थायां चांडालादयोऽपि विप्रतिपद्यंते तथा चोक्तम् अकलंकदेवैः "इंद्र- जालादिषु भ्रांतम् ईरयंति न चापरं । अपिचांडालगोपालबाललोलविलोचना" इति ॥ किंच तत्प्रतिभासमात्रं सामान्यरूपं द्रव्यरूपं वा ? प्रथमपक्षे सत्तामात्रम् एव स्यात् तस्यैव परसामान्यरूप- १५तया प्रतिष्ठानात् तस्य स्वयं प्रतिभासमानत्वेप्रतिभासमात्रम् एव तत्त्वम् अन्यथा तदव्यवस्थितेर् इति चेन्न सत् सद् इत्य् अन्वयज्ञानाविषयत्वात् सत्तासामान्यस्यव्यवस्थितेः स्वयं प्रतिभासमानत्वासिद्धेः । सत्ता प्रतिभासत इति तु विषये विषयिधर्मस्योपचारात्प्रतिभासमानं हि विषयिणो ज्ञानस्य धर्मः स विषये सत्तासामान्ये ऽध्यारोप्यते तदध्यारोपनिमित्तं तुप्रतिभासमानं क्रियाधिकरणत्वं । यथैव हि संवि- त्प्रतिभासते इति कर्तृस्था प्रतिभासनक्रिया तथातद्विषयस्थाप्य् उपचर्य्यते सकर्मकस्य घातोःकर्तृकर्मस्थ- २०क्रियार्थत्वात् यथौदनं पचतीति पचनक्रिया पाचकस्थापाच्यमानस्था च प्रतीयते तद्वदकर्मकस्य धातोः कर्तृस्थक्रियामात्रार्थत्वात् परमार्थतःकर्मस्थक्रियाऽसंभवात् कर्तृस्था क्रिया कर्मण्य् उपचर्य्यते ॥ ननु च सति मुख्ये स्वयं प्रतिभासमाने कस्यचित् प्रमाणतः सिद्धेपरत्र तद्विषये तदुपचारकल्पना युक्ता यथा- ऽग्नौ दाहपाकाद्यर्थक्रियाकारिणि तद्धर्मदर्शनान् माणवकेतदुपचारकल्पनाऽग्निर् माणवक इति । न च किंचित् संवेदनं स्वयं प्रतिभासनं सिद्धंसंवेदनांतरसंवेद्यत्वात् । संवेदनस्य क्वचिदवस्थानाभावात् । २५सुदूरम् अपि गत्वा कस्यचित् संवेदनस्य स्वयंप्रतिभासमानस्यानभ्युपगमात् कथं तद्धर्मस्योपचारस्तद्विषये घटेतेति कश्चित् । सो ऽपि ज्ञानांतरवेद्यज्ञानवादिनमुपालभतां परोक्षज्ञानवादिनं वा ॥ ननु च परोक्ष- ज्ञानवादी भट्टस् तावन् नोपलंभार्हः स्वयंप्रतिभासनानस्यात्मनस् तेनाभ्युपगमात् तद्धर्मस्यप्रतिभासमानस्य विषयेषूपचारघटनात् ॥ घटः प्रतिभासते, घटादयःप्रतिभांसत इति घटपटादिप्रतिभासनान् यथानुप- पत्या च करणभूतस्य परोक्षस्यापि ज्ञानस्य प्रतिपत्तेरविरोधात् रूपप्रतिभासनाच् चक्षुः प्रतिपत्तिवत् ॥ ३०तथा करणज्ञानम् आत्मानं चाप्रत्यक्षं वदन् प्राभाकरो ऽपिनोपालंभम् अर्हति फलज्ञानस्य स्वयं प्रतिभासमानस्य तेन प्रतिज्ञानात् तद्धर्मस्य विषयेषूपचारस्य सिद्धेः । फलज्ञानं च कर्तृकरणाभ्यां विना नोपपद्यत इति । तद् एव कर्तारं करणज्ञानं चाप्रत्यक्षम् अपि व्यवस्थापयति यथा रूपे प्रतिभासनक्रिया फलरूपाचक्षुष्मंतं चक्षुश् च प्रत्यापयतीति केचिन् मन्यंते तेषाम् अपिभट्टमतानुसारिणाम् आत्मनः स्वरूपपरिच्छेदेऽर्थपरिच्छेद- स्यापि सिद्धेः । स्वार्थपरिच्छेदकपुरुषप्रसिद्धौ ततोऽन्यस्य परोक्षज्ञानस्य कल्पना न किंचिद् अर्थं पुष्णाति । ३५प्रभाकरमतानुसारिणां फलज्ञानस्यस्वार्थपरिच्छित्तिरूपस्य प्रसिद्धौ करणज्ञानकल्पनावत् । कर्तुः करणम् अंत- रेण क्रियायां व्यापारानुपपत्तेः परोक्षज्ञानस्य करणस्यकल्पनानानार्थिकेति चेन् न मनसश् चक्षुरादेश् चांतर्बहिः- परिच्छित्तौ करणस्य सद्भावात् ततो बहिर्भूतस्यकरणांतरस्य कल्पनायाम् अनवस्थाप्रसंगात् ततःस्वार्थ- परिच्छेदकस्य पुंसः फलज्ञानस्य वास्वार्थपरिच्छित्तिस्वभावस्य प्रसिद्धौ स्याद्वादिदर्शनस्यैवप्रसिद्धैः । स्वयं प्रतिभासमानस्यात्मनो ज्ञानस्य वा धर्मः क्वचित्तद्विषये कथंचिद् उपचर्य्यत इति सत्तासामान्यं प्रति- ५०भासते प्रतिभासविषयो भवतीत्य् उच्यते न चैवंप्रतिभासमात्रे तस्यानुप्रवेशः सिध्येत् परमार्थतः संवे- दनस्यैव स्वयं प्रतिभासमानत्वात् ॥ स्यान् मतं नसत्तासामान्यं प्रतिभासमात्रं तस्य द्रव्यादिमात्रव्यापक- त्वात् सामान्यादिषु प्रागभावादिषु चाभावात् किं तर्हिसकलभावाभावव्यापकं प्रतिभाससामान्यं प्रति- भासमात्रमभिधीयते इति । तद् अपि न सम्यक्प्रतिभाससामान्यस्य प्रतिभासविशेषनांतरीयकत्वात्प्रतिभा- ०५साद्वैतविरोधात् संतो ऽपि प्रतिभासविशेषाः सत्यतां नप्रतिपद्यंते संवादकत्वाभावात् स्वप्नादिप्रतिभासविशे- षवद् इति चेन् न प्रतिभाससामान्यस्याप्य् असत्यत्वप्रसंगात्शक्यं हि वक्तुं प्रतिभाससामान्यम् असत्यं विसंवाद- कत्वात् स्वप्नादिप्रतिभाससामान्यवद् इति ॥ न हिस्वप्नादिप्रतिभासविशेषा एव विसंवादिनो न पुनः प्रति- भाससामान्यं तद्व्यापकम् इति वक्तुं युक्तंशशविषाणगगनकुसुमकूर्मरोमादीनाम् असत्वे ऽपितद्व्यापक- सामान्यस्य सत्त्वप्रसंगात् । कथम् असतां व्यापकंकिंचित् सत् स्याद् इति चेत् कथम् असत्यानां प्रतिभासविशे- १०षाणां व्यापकं प्रतिभाससामान्यं सत्यम् इति समो वितर्कः । तस्य सर्वत्र सर्वदा वा विच्छेदात् सत्यं तद् इति चेन् न एवं देशकालाकारविशिष्टस्यैव तस्यसत्यत्वसिद्धेः । सर्वदेशविशेषरहितस्य सर्वकाल- विशेषरहितस्य च सर्वाकारविशेषरहितस्यैव सर्वत्रसर्वथा सर्वदेति विशेषयितुम् अशक्तेः । तथा च प्रतिभाससामान्यं सकलदेशकालाकारविशेषविशिष्टमभ्युपगच्छन्न् एव वेदांतवादी स्वयम् एकद्रव्यम् अनंत- पर्यायं पारमार्थिकम् इति प्रतिपत्तुम् अर्हतिप्रमाणबलायातत्वात् तद् एवास्तु परमपुरुषस्यैवबोधमयप्रकाश- १५विशदस्य मोहान्धकारापहस्यांर्यामिनः सुनिर्णीतत्वात् तत्रसंशयानां प्रतिघातात् सकललोकोद्योतनस- मर्त्थस्य तेजोनिधेर् अंशुमालिनो ऽपि तस्मिन् सत्येवप्रतिभासनात्, असति चाप्रतिभासनादिति कश्चित् तद् उक्तं "यो लोकान् ज्वलयत्य् अनल्पमहिमा सोऽप्य् एष तेजोनिधिर् यस्मिन् सत्य् अवभाति नासति पुनर् देवो ऽṃशु- माली स्वयं । तस्मिन् बोधमयप्रकाशविशदे मोहांधकारापहेये ऽṃतर्यामिनि पूरुषे प्रतिंहताः संशेरते ते हताः" इति । तद् अपि नपुरुषाद्वैतव्यवस्थापनपरमाभासते तस्याऽṃतर्यामिनःपुरुषस्य बोधमयप्रकाश- २०विशदस्यैव बोध्यमयप्रकाश्यस्यासंभवानुपपत्तेः । यदिपुनः सर्वं बोध्यं बोधमयम् एव प्रकाशमानत्वा- द् बोधस् वात्मवद् इति मन्यते तदा बोधस्यापिबोध्यमयत्वापत्तिर् इति पुरुषाद्वैतम् इच्छतोबोध्याद्वैतसिद्धिः । बोधाभावे कथं बोध्यसिद्धिर् इति चेद् बोध्याभावे ऽपिबोधसिद्धिः कथं ? बोध्यनांतरीयकत्वाद् बोधस्य । स्वप्नेद्रजालादिषु बोध्याभावे ऽपि बोधसिद्धेर् नबोध्यनांतरीयकोबोध इति चेन् न तत्रापिबोध्यसामान्यसद्भाव एव बोधोपपत्तेः । न हि संशयस्वप्नादिबोधो ऽपिबोध्यसामन्यं व्यभिचरति बोध्यविशेषेस्व् एव तस्य २५व्यभिचाराद् भ्रांतत्वसिद्धेः ॥ न च सर्वस्य बोध्यस्यस्वयं प्रकाशमात्रं सिद्धं स्वयं प्रकाशमानबोधविषय- तया तस्य तथोपचारात् स्वयंप्रकाशमानांशुमालिप्रभाभारविषयभूतानां लोकानांप्रकाशमानोपचार- वत् ततो यथा लोकानां प्रकाश्यानाम् अभावे न तान् अंशुमालीज्वलयितुम् अलं तथा बोध्यानां नीलसुखादीनाम् अ- भावे न बोधमयप्रकाशविशदो ऽṃतर्यामी तान् प्रकाशयितुमीश इति प्रतिपत्तव्यं । तथा चांतः प्रकाश- मानान् अंतपर्यायैकपुरुषद्रव्यवत्, बहिःप्रकाश्यानंतपर्यायैकाचेतनद्रव्यम् अपिप्रतिज्ञातव्यम् इति चेतनाचेतन- ३०द्रव्यद्वैतसिद्धिः । न पुरुषाद्वैतसिद्धिःसंवेदनाद्वैतसिद्धिवत् । चेतनद्रव्यस्य च सामान्यादेशादेकत्वे ऽपि विशेषादेशाद् अनेकत्वं संसारिमुक्तविकल्पात् । सर्वथैकत्वेसकृत्तद्विरोधात् । अचेतनद्रव्यस्य सर्वथैकत्वे मूर्तामूर्तद्रव्यविरोधवत् । मूर्तिमदचेतनद्रव्यं हिपुद्गलद्रव्यम् अनेकभेदं परमाणुस्कंधविकल्पात् पृथिव्या- दिविकल्पाच् च धर्माधर्माकाशकालविकल्पम् अमूर्तिम् अद्द्रव्यंचतुर्धा चतुर्विधकार्यविशेषानुमेयम् इति द्रव्यस्य षङ्विधस्य प्रमाणबलात् तत्वार्थालंकारैः समर्थनात् । तत्पर्यायाणां चातीतान् आगतवर्तमानान् अंतार्थव्यंजन- ३५विकल्पानां सामान्यतः सुनिश्चितासंभवद्बाधकप्रमाणात्परमागमात् प्रसिद्धेः । साक्षात् केवलज्ञानविषय- त्वाच् च न द्रव्यैकांतसिद्धिः पर्यायैकांतसिद्धिर् वा । नचैतेषां सर्वद्रव्यपर्यायाणां केवलज्ञाने प्रतिभासमा- नानाम् अपि प्रतिभासमात्रांतः प्रवेशः सिध्येत्विषयविषयिभेदाभावे सर्वाभावप्रसंगात् निर्विषयस्य प्रतिभासस्यासंभवान् निःप्रतिभासस्य विषयस्यवाऽव्यवस्थानात् । ततश् चाद्वैतैकांते कारकाणां कर्मादीनां क्रियाणां परिस्पंदलक्षणानां धात्वर्थलक्षणानां च दृष्टोभेदो विरुध्यत एव तस्य प्रतिभासमानस्यापि ५१प्रतिभासमात्रांतः प्रवेशाभावत् । स्वयंप्रतिभासमानज्ञानविषयतया प्रतिभासमानतोपचारात् स्वयं- प्रतिभास्यमानत्वेन व्यवस्थानात् । न च प्रतिभासमात्रमेव तद्भेदं प्रतिभासं जनयति तस्य तदंतः प्रविष्टस्य जन्यत्वविरोधात् । प्रतिभासमात्रस्य चजनकत्वायोगात् । नैकं स्वस्मात् प्रजायत इत्य् अपि सूक्तं । तथा कर्मद्वैतस्य फलद्वैतस्य लोकद्वैतस्यच विद्याविद्याद्वयवद् बंधमोक्षद्वयवच् च प्रतिभासमान- ०५प्रमाणविषयतया व्यवस्थितेः प्रतिभासमानस्यापिप्रमेयतया व्यवस्थितेः प्रतिभासमात्रांतः प्रवेशानु- पपत्तेर् अभावापादनं वेदांतवादिनाम् अनिष्टं । सूक्तम् एवसमंतभद्रस्वामिभिः तथा, हेतोर् अद्वैतसिद्धिः यदि प्रतिभासमात्रव्यतिरेकिणः प्रतिभासमानाद् अपि यदीष्यतेतदा हेतुसाध्ययोर् द्वैतं स्याद् इत्य् अपि सूक्तम् एव पक्षहेतुदृष्टांतानां कुतश्चित् प्रतिभासमानानाम् अपिप्रतिभासमात्रानुप्रवेशासंभवात् । एतेन हेतुना विनो- पनिषद्वाक्यविशेषात् पुरुषाद्वैतसिद्धौ वाङ्मात्रात्कर्मकांडप्रतिपादकवाक्याद्वैतसिद्धिर् अपि किं न भवेत् । १०तस्योपनिषद्वाक्यस्य परमब्रह्मणो ऽṃतःप्रवेशासिद्धेः । एतेन वैशेषिकादिभिः प्रतिज्ञातपदार्थभेदप्रतीत्या पुरुषाद्वैतं बाध्यत एव तद्भेदस्य प्रत्ययविशेषात्प्रतिभासमानस्यापि प्रतिभासमात्रात्मकत्वासिद्धेः । कुतः परमपुरुष एव विश्वतत्त्वानां ज्ञाना मोक्षमार्गस्य प्रणेताव्यवतिष्ठते । तद् एवम् ईश्वरकपिलसुगतब्रह्मणां विश्वतत्वज्ञतापायान् निर्वाणमार्गप्रणयनानुपपत्तेर् यस्यविश्वतत्त्वज्ञता कर्मभूभृतां भेत्तृता मोक्षमार्गप्रणेतृता च प्रमाणबलात् सिद्धा । १५सो ऽर्हन्न् एव मुनींद्राणां वंद्यः समवतिष्ठते । तत्सद्भावे प्रमाणस्य निर्बाध्यस्य विनिश्चयात् ॥ ८७ ॥ किं पुनस् तत्प्रमाणम् इत्य् आह — ततो ऽṃतरिततत्त्वानि प्रत्यक्षाण्य् अर्हतो ऽṃजसा । प्रमेयत्वाद् यथास्मादृक् प्रत्यक्षार्थाः सुनिश्चिताः ॥ ८८ ॥ २०कानि पुनरंतरिततत्त्वानि देशाद्यंतरिततत्त्वानां सत्त्वेप्रमाणाभावान् ॥ न ह्य् अस्मदादिप्रत्यक्षं तत्र प्रमाणं देशकालस्वभावाव्यबहितवस्तुविषयत्वात् । सत्संप्रयोगे पुरुषस्येंद्रियाणां यद् बुद्धिजन्म तत् प्र- त्यक्षम् इति वचनात् ॥ नाप्य् अनुमानं तत्र प्रमाणंतदविनाभाविनो लिंगस्याभावात् ॥ नाप्य् आगमस् तदस्ति- त्वे प्रमाणं तस्यापौरुषेयस्य स्वरूपे प्रामाण्यसंभवात् । पौरुषेयस्यासर्वज्ञप्रणीतस्य प्रामाण्यासंभवात् । पौरुषेयस्य सर्वज्ञप्रणीतस्य तु सर्वज्ञसाधनात् पूर्वमसिद्धेः ॥ नाप्य् अर्थापत्तिः देशाद्यंतरिततत्वैर्विनाऽनुपपद्यमा- २५नस्य कस्यचिद् अर्थस्य प्रमाणषट्कप्रसिद्धस्यासंभवात् ॥ न चोपमानम् अंतरिततत्त्वास्तित्वे प्रमाणं तत्सदृशस्य कस्यचिद् उपमानभूतस्यार्थस्यासिद्धेरुपमेयभूतांतरिततत्त्ववत् । तदुपलंभकप्रमाणपंचकाभावे च कुतो ऽṃत- रिततत्त्वानि सिध्येयुर् यतो धर्म्यसिद्धिर् न भवेत् ? धर्मिणश् चासिद्धौ हेतुर् आश्रयासिद्ध इति केचित् ते ऽत्र न परीक्षकाः । केषांचित् स्फटिकाद्यंतरितार्थानामस्मदादिप्रत्यक्षतो ऽस्तित्वसिद्धेः परेषां कुड्यादिदेशव्यवहि- तानाम् अग्न्यादीनां तदविनाभाविनो धूमादिलिंगाद् अनुमानात्कालांतरितानाम् अपि भविष्यतां वृष्ट्यादीनां ३०विशिष्टमेघोन्नतिदर्शनाद् अस्तित्वसिद्धेः । अतीतानांपावकादीनां भस्मादिविशेषदर्शनात् प्रसिद्धेः । स्वभा- वांतरितानां तु करणशक्त्यदीनाम् अर्थापत्त्यास्तित्वसिद्धेः । धर्मिणाम् अंतरिततत्त्वानां प्रसिद्धत्वाद् धेतो- श् चाश्रयासिद्धत्वानुपपत्तेः ॥ नन्व् एवं धर्मिसिद्धाव् अपिहेतोश् चाश्रयासिद्धत्वाभावे ऽपि पक्षो ऽप्रसिद्धविशे- षणः स्यात् ॥ अर्हप्रत्यक्षत्वस्य साध्यधर्मस्य क्वचिदप्रसिद्धेर् इति न मंतव्यं पुरुषविशेषस्यार्हतः संबद्धव- र्तमानार्थेषु प्रत्यक्षत्वप्रवृत्तेर् अविरोधादर्हत्प्रत्यक्षस्य विशेषणस्य सिद्धौ विरोधाभावात् । तद्विरोधे क्वचि- ३५ज् जैमिन्यादिप्रत्यक्षविरोधापत्तेः ॥ ननु चसंवृत्त्यांतरिततत्वान्य् अर्हतः प्रत्यक्षाणीति साधनेसिद्धसाधन- म् एव निपुणप्रज्ञे तथोपचारप्रवृत्तेर् अनिवारणाद् इत्य् अपिनाशंकनीयम् अंजसेति वचनात् । परमार्थतो ह्य् अंतरित- ५२तत्त्वानि प्रत्यक्षाण्य् अर्हतः साध्यंते न पुनरुपचारतो यतः सिद्धसाधनम् अनुमन्यते ॥ तथापि हतोर्विपक्ष- वृत्तेर् अनैकांतिकत्वम् इत्य् आशंकायाम् इदम् आह — हेतोर् न व्यभिचारो ऽत्र दूरार्थैर् मंदरादिभिः । सूक्ष्मैर् वा परमाण्वाद्यैस् तेषां पक्षीकृतत्वतः ॥ ८९ ॥ ०५न हि कानिचिद् देशांतरितानि कालांतरितानि वा तत्वानिपक्षबहिर्भूतानि संति यतस् तत्र वर्तमानः प्रमेयत्वाद् इति हेतुर् व्यभिचारी स्यात् तादृशां सर्वेषांपक्षीकरणात् । तथा हि — तत्त्वान्यंतरितानीह देशकालस्वभावतः । धर्मादीनि हि साध्यंते प्रत्यक्षाणि जिनेशिनः ॥ ९० ॥ यथैव हि धर्माधर्मतत्त्वानि कानिचिद् देशांतरितानिदेशांतरितपुरुषाश्रयत्वात् । कानिचित् कालां- १०तरितानि कालांतरितप्राणिगणादिकरणत्वात् । कानिचित्स्वभावांतानि देशकालाव्यवहितानाम् अपि तेषां स्वभावतो ऽतींद्रियत्वात् । तथाहिमवन्मंदरमकराकरादीन्य् अपि देशांतरितानिनष्टानुत्पन्नानंतपर्याय- तत्त्वानि च कालांतरितानि, स्वभावांतरितानि चपरमाण्वादीनि, जिनेश्वरस्य प्रत्यक्षाणि साध्यंते न च पक्षीकृतैर् एव व्यभिचारोद्भावनं युक्तं सर्वस्यानुमानस्यव्यभिचारित्वप्रसंगात् ॥ ननु मा भूद् व्यभिचारी हेतुः दृष्टांतस् तु साध्यविकल इत्य् आशंकाम् अपहर्तुमाह — १५न चास्मादृक्समक्षाणाम् एवम् अर्हत्समक्षता । न सिध्येद् इति मंतव्यम् अविवादाद् द्वयोर् अपि ॥ ९१ ॥ ये ह्य् अस्मादृशां प्रत्यक्षाः संबद्धां वर्तमानाश् चार्थास्ते कथम् अर्हतः पुरुषविशेषस्य प्रत्यक्षाः न स्युस् तद्देश- कालवर्तिनः पुरुषांतरस्यापि तदप्रत्यक्षत्वप्रसंगात् ततो न स्याद्वादिन इव सर्वज्ञाभाववादिनो ऽप्य् अत्र वि- वदंते । वादिप्रतिवादिनोर् अविवादाच् चसाध्यसाधनधर्मयोर् दृष्टांतेन च न साध्यवैकल्यंसाधनवैकल्यं २०वा यतो ऽनन्वयहेतुः स्यात् ॥ नन्व् अतींद्रियप्रत्यक्षतोऽṃतरिततत्त्वानि प्रत्यक्षाण्यर्हतः साध्यतें किंचेंद्रिय- प्रत्यक्षत इति संप्रधार्यं । प्रथमपक्षे साध्यविकलोदृष्टांतः स्यात् । अस्मादृक्प्रत्यक्षाणाम् अर्थानाम् अतींद्रिय- प्रत्यक्षतो ऽर्हत्प्रत्यक्षत्वासिद्धेः । द्वितीयपक्षेप्रमाणबाधितः पक्षः इंद्रियप्रत्यक्षतो धर्माधर्मादीनामंतरित- तत्त्वानाम् अर्हत्प्रत्यक्षत्वस्य प्रमाणबाधितत्वात् । तथा हिनार्हदिंद्रियप्रत्यक्षं धर्मादीन्य् अंतरिततत्वानि साक्षात् कर्तुं समर्थम् इंद्रियप्रत्यक्षत्वादस्मदादींद्रियप्रत्यक्षवत् इत्य् अनुमानं पक्षस्य बाधकंन चात्र हेतोः २५सांजनचक्षुःप्रत्यक्षेणानैकांतिकत्वं । तस्यापिधर्माधर्मादिसाक्षात्कारित्वाभावात् नापीश्वरेंद्रियप्रत्यक्षेण तस्यासिद्धत्वात् स्याद्वादिनाम् इव मीमांसकानाम् अपितदप्रसिद्धेर् इति च न चोद्यं । प्रत्यक्षसामान्यतो ऽर्हत् प्र- यक्षत्वसाधनात् । सिद्धे वांतरितत्वानां सामान्यतो 'र्हत्प्रत्यक्षत्वे धर्मादिसाक्षात्कारिणः प्रत्यक्षस्य साम- र्थ्याद् अतींद्रियप्रत्यक्षत्वसिद्धेः । तथा दृष्टांतस्यसाध्यवैकल्यदोषानवकाशात् कथम् अन्यथाभिप्रेतानुमानेऽ प्य् अयं दोषो न भवेत् । तथा हि नित्यः शब्दःप्रत्यभिज्ञायमानत्वात् पुरुषवद् इति । अत्र कूटस्थनित्यत्वंसाध्यते ३०कालांतरस्थायिनित्यत्वं वा ? प्रथमकल्पनायामप्रसिद्धविशेषणः पक्षः कूटस्थनित्यत्वस्य क्वचिदन्यत्राप्र- सिद्धेस् तत्र प्रत्यभिज्ञानस्यैवासंभवात्पूर्वापरपरिणामशून्यत्वाप्रत्यभिज्ञानस्यपूर्वोत्तरपरिणामव्यापिन्य् एक- त्र वस्तुनि सद्भावात् । पुरुषे च कूटस्थनित्यत्वस्यसाध्यस्याभावात् तस्य सातिशयत्वात् साध्यशून्यो दृष्टांतः द्वितीयकल्पनायां तु स्वमतविरोधः । शब्देकालांतरस्थायिनित्यत्वस्यानभ्युपगमात् । यदि पुनर्नित्यत्व- सामान्यं साध्यते सातिशयेतरनित्यत्वविशेषस्य साधयितुमनुपक्रांतत्वाद् इति मतं तदांतरिततत्त्वानां ३५प्रत्यक्षसामान्यतो ऽर्हत् प्रत्यक्षतायां साध्यायां न किंचिद्दोषम् उत्पश्यामः इति नाप्रसिद्धविशेषणः पक्षः साध्यशून्यो वा दृष्टांतः प्रसज्यते । सांप्रतं हेतोःस्वरूपासिद्धत्वं प्रतिषेधयन्न् आह —५३न चासिद्धं प्रमेयत्वं कार्त्स्न्यतो भागतो ऽपिवा । सर्वथाप्य् अप्रमेयस्य पदार्थस्याव्यवस्थितेः ॥ ९२ ॥ यदि षङ्भिः प्रमाणः स्यात् सर्वज्ञः केन वार्यते । इति ब्रुवन्न् अशेषार्थप्रमेयत्वम् इहेच्छति ॥ ९३ ॥ ०५चोदनातश् च निःशेषपदार्थज्ञानसंभवे । सिद्धम् अंतरितार्थानां प्रमेयत्वं समक्षवत् ॥ ९४ ॥ सो ऽयं मीमांसकः प्रमाणवलात् सर्वस्यार्थस्यव्यवस्थाम् अभ्युपयन् षङ्भि प्रमाणैः समस्तार्थज्ञानं वा निवारयन् चोदनातो हि भूतं भवंतं भविष्यंतंसूक्ष्मं व्यवहितं विप्रकृष्टम् इत्य् एवं जातीयकम् अर्थमवगम- यितुम् अलम् इति स्वयं प्रतिपाद्यमानःसूक्ष्मांतरितदूरार्थानां प्रमेयत्वमस्मत्प्रत्यक्षार्थानाम् इव कथम् अपह्नुवीत १०यतः साकल्येन प्रमेयत्वं पक्षव्यापकम् असिद्धं ब्रूयात् । ननु च प्रमातर्य् आत्मनि, करणे च ज्ञाने, फले च प्रमितिक्रियालक्षणे, प्रमेयत्वासंभवात् कर्मतामापन्नेष्वेवार्थेषु प्रमेयेषु भावाद् भागासिद्धं साधनं पक्षा- व्यापकत्वाद् इति चेन् नैतद् एव प्रमातुर् आत्मनः सर्वथाप्यप्रमेयत्वे प्रत्यक्षत इवानुमानाद् अपि प्रमीयमाणत्वा- भावप्रसंगात् प्रत्यक्षेण हि कर्मतयाऽऽत्मा न प्रतीयतेइति प्रभाकरदर्शनं । न पुनः सर्वेणापि प्रमाणेन, तद्व्यवस्थापनविरोधात् । करणज्ञानं च प्रत्यक्षतःकर्मत्वेनाप्रतीयमानम् अपि घटाद्यर्थपरिच्छित्त्यन्यथा- १५नुपपत्यानुमीयमानं न सर्वथाप्य् अप्रमेयं ज्ञातेत्यनुमानाद् अवगच्छति बुद्धिम् इतिभाष्यकारसंवरवचनविरोधात् फलज्ञानं च प्रमितिलक्षणं स्वसंवेदनप्रत्यक्षमिच्छतः कार्यानुमेयं च कथम् अप्रमेयं सिद्धयेत् । एतेन करणज्ञानस्य फलज्ञानस्य च परोक्षत्वम् इच्छतो ऽपिभट्ठस्यानुमेयत्वं सिद्धं बोद्धव्यं । घटाद्यर्थप्राकट्ये- नानुमीयमानस्य सर्वस्य ज्ञानस्य कथंचित्प्रमेयत्वसिद्धेः । ततो नांतरिततत्त्वेषु धर्मिषुप्रमेयत्वं साध- नम् असिद्धं । वादिन इव प्रतिवादिनो ऽपि कथंचित् तत्रप्रमेयत्वप्रसिद्धेः संदिग्धव्यतिरेकम् अप्य् एतन् न भवतीत्याह- २०यन् नार्हतः समक्षं तन् नप्रमेयं बहिर्गतः । मिथ्यैकांतो यथेत्य् एवं व्यतिरेको ऽपि निश्चितः ॥ ९५ ॥ मिथ्यैकांतज्ञानानि हि निःशेषाण्य् अपिपरमागमानुमानाभ्याम् अस्मदादीनां प्रमेयाणि च प्रत्यक्षाणि चार्हत इति न विपक्षतां भजंते तद्विषयास् तु परैरभिमन्यमानाः सर्वथैकांता निरन्वयक्षणिकत्वादयो नार्हत्प्रत्यक्षा इति ते विपक्षा एव न च ते कुतश्चित्प्रमाणात् प्रमीयंत इति न प्रमेयास् तेषाम् असत्त्वात् । ततो २५ये नार्हतः प्रत्यक्षास् ते न प्रमेया यथासर्वथैकांतज्ञानविषया इति साध्यव्यावृत्तौसाधनव्यावृत्तिनिश्चया- न् निश्चितव्यतिरेकं प्रमेयत्वं साधनं निश्चितान्वयं चप्रमेयत्वं समर्थितं ततो भवत्य् एव साध्यसिद्धिर् इत्याह — सुनिश्चितान्वयाद् धेतोः प्रसिद्धव्यतिरेकतः । ज्ञातार्हन् विश्वतत्त्वानाम् एवं सिध्येद् अबाधितः ॥ ९६ ॥ ननु च सूक्ष्मांतरितदूरार्थानां विश्वतत्त्वानांसाक्षात्कर्ताऽर्हन् न सिद्ध्यत्य् एवास्माद् अनुमानात् पक्षस्य ३०प्रमाणबाधितत्वाद् धेतोश् च बाधितविषयत्वात् । तथा हि देशकालस्वभावांतरितार्था धर्माधर्मादयो ऽर्हतःप्रत्यक्षा इति पक्षः स चानुमानेन बाध्यते धर्मादयो न कस्यचित्प्रत्यक्षाः शश्वदत्यंतपरोक्षत्वात् ये तु कस्यचि- त् प्रत्यक्षास् ते नात्यंतपरोक्षाः यथा घटादयो ऽर्थाःअत्यंतपरोक्षाश् च धर्मादयस् तरस्मान् न कस्यचित् प्रत्यक्षा इति । न तावद् अत्यंतपरोक्षत्वं धर्मादीनाम् असिद्धंकदाचित् क्वचित् कथञ्चित् कस्यचित् प्रत्यक्षत्वासिद्धेः सर्व- स्य प्रत्यक्षस्य तद्विषयत्वाभावात् । तथा हिविवादाध्यासितं प्रत्यक्षं न धर्माद्यर्थविषयंप्रत्यक्षशब्दवाच्य- ५४त्वाद् यद् इत्थं तद् इत्थं यथास्मदादिप्रत्यक्षंप्रत्यक्षशब्दवाच्यं च विवदाध्यासितं तत्प्रत्यक्षं तस्मान् नधर्माद्यर्थ- विषयं इत्य् अनुमानेन धर्माद्यर्थविषयस्य प्रत्यक्षस्यनिराकरणात् न चेदम् अस्मदादिप्रत्यक्षागोचरविप्रकृष्टार्थ- ग्राहि गृद्ध्रवराहपिपीलिकादिचक्षुःश्रोत्रघ्राणप्रत्यक्षैर्व्यभिचारि साधनं तेषाम् अपि धर्मादिसूक्ष्माद्यर्थाविषय- त्वाद् अस्मदादिप्रत्यक्षविषयसजातीयार्थग्रहणानतिक्रमात्स्वविषयस्यैवेंद्रियेण ग्रहणाद् इंद्रियांतरविषयस्यापरि- ०५च्छित्तेः । ननु चप्रज्ञामेघास्मृतिश्रुत्यूहापोहप्रबोधशक्तीनांप्रतिपुरुषम् अतिशयदर्शनात् कस्याचित् सातिशयं प्रत्यक्षं सिध्यत्परां काष्ठाम् आपद्यमानंधर्मादिसूक्ष्माद्यर्थसाक्षात्कारि संभाव्यत एव । इत्य् अपिन मंतव्यं । प्रज्ञामेधादिभिः पुरुषाणां स्तोकस्तोकांतरत्वेनसातिशयत्वदर्शनात् । कस्यचिदतींद्रियार्थदर्शनानुपलब्धेः । तद् उक्तं भट्टेन "ये ऽपि सातिशया दृष्टाः प्रज्ञामेघादिभिर्नराः । स्तोकस्तोकांतरत्वेन न त्व् अतींद्रियदर्शना- द् इति" । ननु च कश्चित् प्रज्ञावान् पुरुषः शास्त्रविषयान्सूक्ष्मानर्थानुपलब्धुं प्रभुर् उपलभ्यते तद्वत्प्रत्यक्ष- १०तो ऽपि धर्मादिसूक्ष्मानर्थान् साक्षात् कर्तुं क्षमः किम् इति नसंभाव्यते ? ज्ञानातिशयानां नियमयितुम् अ- शक्तेर् इत्य् अपि न चेतसि निधेयं । तस्यस्वजात्यनतिक्रमेणैव निरतिशयोपपत्तेः । न हि सातिशयंव्याक- रणम् अतिदूरम् अपि जानानोनक्षत्रग्रहचक्रातिचारादिनिर्णयेन ज्योतिःशास्त्रविदोऽतिशेते तद्बुद्धेः शब्दाप- शब्दयोर् एव प्रकर्षोपपत्तेः । वैयाकरणांतरातिशायनस्यैव संभवात् । ज्योतिर्विदोऽपि चंद्रार्कग्रहणादिषु निर्णयेन प्रकर्षं प्रतिपद्यमानस्यापि न भवत्यादिशब्दसाधुत्वज्ञानातिशयेन वैयाकरणातिशायित्वमुत्प्रेक्षते १५तथा वेदेतिहासादिज्ञानातिशयवतो ऽपि कस्यचिन् नस्वर्गदेवताधर्माधर्मसाक्षात्करणम् उपपद्यते एतदभ्य- धायि "एकशास्त्रपरिज्ञाने दृश्यते ऽतिशयो महान् । ननुशास्त्रांतरज्ञानं तन्मात्रेणैव लभ्यते । ज्ञात्वा व्याकरणं दूरं बुद्धिः शब्दापशब्दयोः । प्रकृष्यते ननक्षत्रतिथिग्रहणनिर्णये । ज्योर्तिविच् च प्रकृष्टो ऽपि चंद्रार्कग्रहणादिषु । न भवत्य् आदिशब्दानां साधुत्वंज्ञातुम् अर्हति । तथा वेदेतिहासादिज्ञानातिशयवान् अपि । न स्वर्गदेवताऽपूर्वप्रत्यक्षीकरणे क्षम" इति । एतेन यदुक्तं सर्वज्ञवादिना ज्ञानं क्वचित् पररं काष्ठां प्रति- २०पद्यते प्रकृष्यमाणत्वात् यद् यत् प्रकृष्यमाणं तत् तत्क्वचित् परांकाष्टां प्रतिपद्यमानं दृष्टं यथा परिमाणमापर- माणोः प्रकृष्यमाणं नभसि, प्रकृष्यमाणं च ज्ञानं तस्मात्क्वचित् परां काष्ठां प्रतिपद्यत इति । तद् अपि प्रत्या- ख्यातं ज्ञानं हि धर्मित्वेनोपादीयमानं प्रत्यक्षज्ञानं, शास्त्रार्थज्ञानम् अनुमानादिज्ञानं, वा भवेद् गत्यंतराभावात् तत्रेंद्रियप्रत्यक्षं प्रतिप्राणिविशेषं प्रकृष्यमाणम् अपिस्वविषयानतिक्रमेणैव परां काष्टा प्रतिपद्यते गृद्ध्रवराहा- दींद्रियप्रत्यक्षज्ञानवत् । न पुनरतींद्रियार्थविषयत्वेनेति प्रतिपादनात् । शास्त्रार्थज्ञानम् अपि व्याकरणादि- २५विषयं प्रकृष्यमाणं परां काष्ठाम् उपव्रजन् नशास्त्रांतरविषयतया धर्मादिसाक्षात्कारितया वातामास्तिध्नुते तथाऽनुमानादिज्ञानम् अपि प्रकृष्यमाणम् अनुमेयादिविषयतयापरां काष्ठाम् आस्कंदेत् । न पुनस् तद्विषयसक्षा- त्कारितया । एतेन ज्ञानसामान्यं धर्मि क्वचित् परमप्रकर्षम् इयर्ति प्रकृष्यमाणत्वात् परमाणुवद् इति वदन्न् अपि निरस्तः । प्रत्यक्षादिज्ञानव्यक्तिष्वन्यतमज्ञानव्यक्तेर् एव परमप्रकर्षगमनसिद्धेस्तद्व्यतिरेकेण ज्ञान- सामान्यस्य प्रकर्षगमनानुपपत्तेस् तस्य निरतिशयत्वात् । यद्य् अपि केनचिद् अभिधीयते श्रुतज्ञानम् अनुमान- ३०ज्ञानं वाऽभ्यस्यमानम् अभ्यासस् आत्मीभावेतदर्थसाक्षात्कारितया परां दशाम् आसदयति तद् अपिस्वकीयमनोरथ- मात्रं क्वचिद् अभ्याससहस्रेणापि ज्ञानस्यस्वविषयपरिच्छित्तौ विषयांतरपरच्छित्तेर् अनुपपत्तेर्नाहि गगन- तलोत्प्लवनम् अभ्यस्यतो ऽपि कस्यचित् पुरुषस्ययोजनशतसहस्रोत्प्लवनं लोकांतोत्प्लवनं वा संभाव्यतेतस्य दशहस्तांतरोत्प्लवनमात्रदर्शनात् तद् अप्य् उक्तं "दशहस्तांतरं व्योम्नि योनामोस्लुत्य गच्छति न योजनमसौ गन्तुं शक्तो ऽभ्यासशतैर् अपि" इत्य् अत्राभिधीयते यत् तावदुक्तं विवादाध्यासितं च प्रत्यक्षं न धर्म्मादि- ३५सूक्ष्माद्यर्थविषयं प्रत्यक्षशब्दवाच्यत्वादस्मदादिप्रत्यक्षवद् इति तत्र किम् इदं प्रत्यक्षं, सत्संप्रयोगे पुरुष- स्येंद्रियाणां बुद्धिजन्मप्रत्यक्षम् इति चेत् तर्हिविवादाध्यासितस्य प्रत्यक्षस्यैतत्प्रत्यक्षविलक्षणत्वात्प्रत्यक्ष- शब्दवाच्यत्वे ऽपि न धर्मादिसूक्ष्माद्यर्थविषयत्वाभावःसिध्यति यादृशं हींद्रियप्रत्यक्षं प्रत्यक्षशब्दवाच्यं धर्माद्यर्थासाक्षात्कारि दृष्टं तादृशम् एव देशांतरेकालांतरे च विवादाध्यासितं प्रत्यक्षं तथा साधयितुंयुक्तं तथाविधप्रत्यक्षस्यैव धर्माद्यविषयत्वस्य साधनेप्रत्यक्षशब्दवाच्यस्य हेतोर् गमकत्वोपपत्तेः ॥ तस्य ५५तेनाविनाभावनियम् अनिश्चयात् न पुनस्तद्विलक्षणस्यार्हत्प्रत्यक्षस्यधर्मादिसूक्ष्माद्यर्थाविषयत्वाभावः साधयितुं शक्यस् तस्य तदगमकत्वाद् अविनाभावनियमनिश्चयानुपपत्तेः शब्दसाम्ये ऽप्य् अर्थभेदात् कथम् अ- न्यथा विषाणिनी वाग् गोशब्दवाच्यत्वात् पशुवद् इत्य् अनुमानंगमकं न स्यात् । यदि पुनर् गोशब्दवाच्यत्व- स्याविशेषो ऽपि पशोर् एव विषाणिस्वं ततः सिध्यति तत्रैवतत्साधने तस्य गमकत्वान् न पुनर् वागादौ तस्य ०५तद्विलक्षणत्वाद् इति मतं तदा प्रत्यक्षशब्दवाच्यत्वाविशेषेऽपि नार्हत्प्रत्यक्षस्य सूक्ष्माद्यर्थविषयत्वासिद्धि- र् अर्थभेदात् । अक्ष्णोति व्याप्नोति जानातीत्य् अक्षः आत्मा तम् एवप्रतिगतं प्रत्यक्षम् इति हि भिन्नार्थम् एवेंद्रिय- प्रत्यक्षात् तस्याशेषार्थगोचरत्वात् मुख्यप्रत्यक्षत्वसिद्धेः । तथा हि विवादाध्यसितम् अर्हत्प्रत्यक्षं मुख्यं निःशेषद्रव्यपर्यायविषयत्वात् यत् तु न मुख्यं तन् नतथा यथाऽस्मदादिप्रत्यक्षं, सर्वद्रव्यपर्यायविषयं चार्हत्प्रत्यक्षं तस्मान् मुख्यं । न चेदम् असिद्धं साधनं । तथा हि सर्वद्रव्यपर्यायविषयम् अर्हत्प्रत्यक्षंक्रमातिक्रांत- १०त्वात् क्रमातिक्रांतं तन्मनोक्षानपेक्षत्वान् मनोक्षानपेक्षंतत्सकलकलं कविकलत्वात् सकलाप्रशमाज्ञाना- दर्शनावीर्यलक्षणकलं कविकलं तत्, प्रक्षीणकारणमोहज्ञानादर्शनावरणवीर्यांतरायत्वात् । यन् नेत्थं तन् नैवं यथाऽस्मदादिप्रत्यक्षं । इत्थं च तत् तस्माद् एवम् इतिहेतुसिद्धिः । ननु च प्रक्षीणमोहादिचतुष्टयत्वं कुतो ऽर्हतः सिद्धं ? तत्कारणप्रतिपक्षप्रकर्षदर्शनात् । तथा हि मोहादिचतुष्टयं क्वचिद् अत्यंतं प्रक्षीयते तत्का- रणप्रतिपक्षप्रकर्षसद्भावात् । यत्र यत्कारणप्रतिपक्षप्रकर्षसद्भावस् तत्र तद् अत्यंतंप्रक्षीयमाणं दृष्टं यथा १५चक्षुषि तिमिरं तथा च केवलिनि मोहादिचतुष्टयस्यकारणप्रतिपक्षप्रकर्षसद्भावः तस्माद् अत्यंतं प्रक्षीयते । किं पुनः कारणं मोहादिचतुष्टयस्येति चेद् उच्यते । मिथ्यादर्शनमिथ्याज्ञानमिथ्याचारित्रत्रयं तस्य तद्भाव एव भावात् यस्य यद्भाव एव भावस्तस्यतत्कारणं यथा श्लेष्मविशेषस् तिमिरस्य, मिथ्यादर्शना- दित्रयसद्भाव एव भावश् च मोहादिचतुष्टयस्य तस्मात्तत्कारणं । कः पुनस् तस्य प्रतिपक्ष इति चेत् सम्य- ग्दर्शनादित्रयं तत्त्प्रकर्षे तदपकर्षदर्शनात । यस्यप्रकर्षे यद् अपकर्षस् तस्य स प्रतिपक्षो यथा शीतस्याग्निः । २०सम्यग्दर्शनादित्रयप्रकर्षे ऽपकर्षश् चमिथ्यादर्शनादित्रयस्य तस्मात् तस्य प्रतिपक्षः । कुतःपुनस् तत्प्रतिपक्षस्य सम्यग्दर्शनादित्रयस्य प्रकर्षपर्यंतगमनंप्रकृष्यमाणत्वात् यत् प्रकृष्यमाणं तत् क्वचित्प्रकर्षपर्यंतं गच्छति यथा परिमाणम् आपरमाणोः प्रकृष्यमाणं नभसि, प्रकृष्यमाणं च सम्यग्दर्शनादित्रयं तस्मात्क्वचित्प्रकर्ष- पर्यंतं गच्छति यत्र यत् प्रकर्षगमनं तत्र तत्प्रतिपक्षमिथ्यादर्शनादित्रयम् अत्यंतं प्रक्षीयते यत्र यत्प्रक्षयः, तत्र तत्कार्यस्य मोहादिकर्मचतुष्टयात्यंतिकः क्षय इतितत् कार्याप्रशमादिकलंकचतुष्टयवैकल्यात् सिद्धं २५सकलकलंकविकलत्वम् अर्हत्प्रत्यक्षस्यमनोक्षनिरपेक्षत्वं साधयति । तच् चाक्रमवत्वं तद् अपिसर्वद्रव्यपर्याय- विषयत्वं ततो मुख्यं तत्प्रत्यक्षं प्रसिद्धं । सांव्यवहारिकं तु मनोक्षापेक्षं वैशद्यस्य देशतःसद्भावात् इति न प्रत्यक्षशब्दवाच्यत्वसाधर्म्यमात्रात्धर्मादिसूक्ष्माद्यर्थाविषयत्वं विवादाध्यासितस्यप्रत्यक्षस्य सिध्यति यतः पक्षस्यानुमानबाधितत्वात् कालात्ययापादिशष्टोहेतुः स्यात् तद् एवं निरवद्याद् धेतोर् विश्वतत्त्वानां ज्ञाताऽर्हन्न् एवावतिष्ठते सकलबाधकप्रमाणरहितत्वाच् चतथा हि । ३०प्रत्यक्षम् अपरिच्छिंदत्त्त्रिकालं भुवनत्रयं । रहितं विश्वत्वज्ञैर् न हि तद्बाधकं भवेत् ॥ ९७ ॥ नानुमानोपमानार्थापत्त्यागमबलाद् अपि । विश्वज्ञाभावसंसिद्धिस् तेषां सद्विषयत्वतः ॥ ९८ ॥ नार्हन् निःशेषतत्वज्ञो वक्तृत्वपुरुषत्वतः । ३५ब्रह्मादिवद् इति प्रोक्तम् अनुमानं न बाधकं ॥ ९९ ॥ ५६हेतोर् अस्य विपक्षेण विरोधाभावनिश्चयात् । वक्तृत्वादेः प्रकर्षे ऽपि ज्ञानानिर्ह्राससिद्धितः ॥ १०० ॥ नोपमानम् अशेषाणां नृणाम् अनुपलंभतः । उपमानोपमेयानां तद्बाधकम् असंभवात् ॥ १०१ ॥ ०५नार्थापत्तिर् असर्वज्ञं जगत् साधयितुं क्षमा । क्षीणत्वाद् अन्यथाभावाभावात् तत् तद् अबाधिका ॥ १०२ ॥ नागमो ऽपौरुषेयो ऽस्ति सर्वज्ञाभावसाधनः । तस्य कार्ये प्रमाणत्वाद् अन्यथाऽनिष्टसिद्धितः ॥ १०३ ॥ पौरुषेयो ऽप्य् असर्वज्ञप्रणीतो नास्य बाधकः । १०तत्र तस्याप्रमाणत्वाद् धर्मादाव् इव तत्त्वतः ॥ १०४ ॥ अभावो ऽपि प्रमाणं ते निषेध्याधारवेदने । निषेध्यस्मरणे च स्यान् नास्तिता ज्ञानम् अंजसा ॥ १०५ ॥ नचाशेषजगज्ज्ञानं कुतश्चिद् उपपद्यते । नापि सर्वज्ञसंवित्तिः पूर्वं तत्स्मरणं कुतः ॥ १०६ ॥ १५येनाशेषजगत् यस्य सर्वज्ञस्य निषेधनं । परोपगमतस् तस्य निषेधे स्वेष्टबाधनं ॥ १०७ ॥ मिथ्यैकांतनिषेधस् तु युक्तो ऽनेकांतसिद्धितः । नासर्वज्ञजगत्सिद्धेः सर्वज्ञप्रतिषेधनं ॥ १०८ ॥ एवं सिद्धः सुनिर्णेतासंभवद्बाधकत्वतः । २०सुखवद्विश्वतत्त्वज्ञः सो ऽर्हन्न् एव भवान् इह ॥ १०९ ॥ स कर्मभूभृतां भेत्ता तद्विपक्षप्रकर्षतः । यथा शीतस्य भेत्तेह कश्चिद् उष्णप्रकर्षतः ॥ ११० ॥ यस्य धर्मादिसूक्ष्माद्यर्थाः प्रत्यक्षा भगवतो ऽर्हतःसर्वज्ञस्यानुमानसामर्थ्यात् तस्य बाधकं प्रमाणं प्रत्यक्षादीनाम् अन्यतमं भवेत् गत्यंतराभावात् तत्र नतावद् अस्मदादिभिः प्रत्यक्षं सर्वत्र सर्वदा सर्वज्ञस्य २५बाधकं तेन त्रिकालभुवनत्रयस्यसर्वज्ञरहितस्यापरिच्छेदात् तत्परिच्छेदेतस्यास्मदादिप्रत्यक्षत्वविरोधात् नापि योगिप्रत्यक्षं तद्बाधकं तस्य तत्साधकत्वात्सर्वतज्ञभाववादिनां तदनभ्युपगमाच् च । नाप्य् अनुमानो- पमानार्थापत्त्यागमानां सामर्थ्यात्सर्वज्ञस्याभावसिद्धिःतेषां सद्विषयत्वात् प्रत्यक्षवत् । स्यान् मतं नार्हन्निः- शेषतत्त्ववेदी वक्तृत्वात् पुरुषत्वात्ब्रह्मादिवदित्याद्यनुमानात् सर्वज्ञत्वनिराकृतिः सिध्यत्य् एवसर्वज्ञविरु- द्धस्यासर्वज्ञस्य कार्यं वचन हि तदभ्युपगम्यमानंस्वकारणं किंचिज् ज्ञत्वं साधयति तच् च सिध्यत्स्वविरुद्धं ३०निःशेषज्ञानं निवर्तयतीति विरुद्धकार्योपलब्धिः शीताभावेसाध्ये धूमवद्विरुद्धव्याप्तोपलब्धिर् वा सर्व- ५७ज्ञत्वेन हि विरुद्धमसर्वज्ञत्वं तेन च व्याप्तंवक्तृत्वम् इति । एतेन पुरुषत्वोपलब्धिर्विरुद्धव्याप्तोपलब्धि- र् उक्ता सर्वज्ञत्वेन हि विरुद्धम् असर्वज्ञत्वं तेन चव्याप्तं पुरुषत्वम् इति । तथा च सर्वज्ञो यदि वक्ताऽभ्युप- गम्यते यदि वा पुरुषस् तथापि वक्तृत्वपुरुषत्वाभ्यांतदभावः सिध्यतीति केचिद् आचक्षते ? तद् एतद् अप्य् अनुमा- नद्वितयं त्रितयं वा परैः प्रोक्तं न सर्वज्ञस्यबाधकम् अविनाभावनियमनिश्चयस्यासंभवात् । हेतोर् विपक्षे ०५बाधकप्रमाणाभावाद् असर्वज्ञे हि साध्ये तद्विपक्षःसर्वज्ञ एव तत्र च प्रकृतस्य हेतोर् न बाधकम् अस्ति । विरोधो बाधक इति चेन् न सर्वज्ञस्य वक्तृत्वेनविरोधासिद्धेः । तस्य तेन विरोधो हि सामान्यतो विशे- षतो वा स्यात् । न तावत् सामान्यतो वक्तृत्वेन सर्वज्ञत्वंविरुध्यते, ज्ञानप्रकर्षे वक्तृत्वस्यापकर्षप्रसंगात् । यद् धि येन विरुद्धं तत्प्रकर्षे तस्यापकर्षो दृष्टो यथापावकस्य प्रकर्षे तद्विरोधिनो हिमस्य । न च ज्ञान- प्रकर्षे वक्तृत्वस्यापकर्षो दृष्टस् तस्मान् न तत् तद्विरुद्धं वक्ता च स्यात् सर्वज्ञश् च स्याद् इतिसंदिग्धविपक्षव्या- १०वृत्तिको हेतुर् न सर्वज्ञाभावं साधयेत् । यदि पुनर्वक्तृत्वविशेषेण सर्वज्ञस्य विरोधो ऽभिधीयते, तदा हेतुर् असिद्ध एव न हि परमात्त्मनो युक्तिशास्त्रविरुद्धोवक्तृत्वविशेषः संभवति यः सर्वज्ञविरोधी तस्य युक्तिशास्त्राविरुद्धार्थवक्तृत्वनिश्चयात् । न चयुक्तिशास्त्राविरोधि वक्तृत्वं ज्ञानातिशयम् अंतरेण दृष्टंततः सकलार्थविषयं वक्तृत्वं युक्तिशास्त्राविरोधिसिद्ध्यत्सकलार्थवेदित्वम् एव साधयेत् इति वक्तृत्वविशेषो विरुद्धो हेतुः साध्यविपरीतसाधनात् । तथा पुरुषत्वम् अपिसामान्यतः सर्वज्ञाभावसाधनायोपादीय- १५मानं संदिग्धविपक्षव्यावृत्तिकम् एव साध्यं न साधयेत्विपक्षेण विरोधासिद्धेः पुरुषश् च स्यात् काश्चित् स- र्वज्ञश् चेति । नहि ज्ञानातिशयेन तत्त्पुरुषत्वं विरुध्यतेकस्यचित् सातिशयज्ञानस्य महापुरुषत्वसिद्धेः । पुरुषत्व- विशेषो हेतुश् चेत् स यद्य् अज्ञानादिदोषदूषितपुरुषत्वम् उच्यतेतदा हेतुर् असिद्धः परमेष्ठिनि तथाविधपुरुष- त्वासंभवात् । अथ निर्दोषपुरुषत्वविशेषो हेतुस् तदाविरुद्धः साध्यविपर्ययसाधनात् सकलाज्ञानादिदोष- विकलपुरुषत्वं हि परमात्मनि सिध्यत्सकलज्ञानादिगुणप्रकर्षपर्यंतगमनम् एव साधयेत्तस्य तेन २०व्याप्तत्वाद् इति नानुमानं सर्वज्ञस्य बाधकं बुध्यामहे । नाप्य् उपमानं तस्योपमानोपमेयग्रहणपूर्वकत्वात् प्रसिद्धे हि गोगवययोर् उपमानोपमेयभूतयोः सादृश्येदृश्यमानाद् गोर् गवये विज्ञानाम् उपमानं सादृश्योपा- ध्युपमेयविषयत्वात् । तथोक्तम् । "दृश्यमानाद् यद् अन्यत्रविज्ञानम् उपजायते । सादृश्योपाधितः कैश्चि- द् उपमानम् इति स्मृतं" । न चोपमानभूतानाम् अस्मदादीनामुपमेयभूतानां चासर्वज्ञत्वेन साध्यानां पुरुष- विशेषाणां साक्षात्करणं संभवति । न च तेष्वसाक्षात्करणेषु तत्सादृश्यं प्रसिध्यति । नचाप्रसिद्धत- २५त्सादृश्यः सर्वज्ञाभाववादि सर्वे ऽप्य् असर्वज्ञाः पुरुषाःकालांतरदेशांतरवर्तिनो यथास्मद् आदय इत्य् उपमानं कर्तुम् उत्सहते जात्यंध इव दुग्धस्य बकोपमानं तत्साक्षात्करणे वा स एव सर्वज्ञ इति । कथम् उपमानं तदभावसाधनायालं । तथार्थापत्तिर् अपि नसर्वज्ञरहितं जगत् सर्वदा साधयितुं क्षमा क्षीणत्वात्तस्याः साध्याविनाभावनियमाभावात् सर्वज्ञेन रहितं जगत्तत्कृतधर्माद्युपदेशासंभवान्यथानुपपत्तेर् इत्यर्थापत्तिर् अपि न साधीयसीसर्वज्ञकृतधर्माद्युपदेशासंभवस्यार्थापत्त्युत्थापकस्यार्थस्यप्रत्यक्षाद्यन्यतमप्रमाणेन विज्ञातुम् अ- ३०शक्तेः । नन्व् अपौरुषाद् वेदाद् एव धर्माद्युपदेशसिद्धेः । धर्मे चोदनैव प्रमाणाम् इति वचनान् न धर्मादिसाक्षात्करी कश्चित् पुरुषः संभवति यतो ऽसौ धर्माद्युपदेशकारी स्यात् । ततः सिद्ध एव सर्वज्ञकृतधर्माद्युपदेशासंभव इति चेन् न । वेदाद् अपौरुषेयाद् धर्माद्युपदेशनिश्चयायोगात् सहिवेदः केनचिद् व्याख्यातो धर्मस्य प्रतिपादकः स्याद् अव्याख्यातो वा ? प्रथमपक्षे तद्व्याख्याता रागादिमान्विरोगा वा ? रागादिमांश् चेन् न तद्व्याख्याना- द् वेदार्थनिश्चयस् तदसत्यत्वस्य संभवात् । व्याख्याता हिरागाद् द्वेषाद् अज्ञानाद् वा वितथार्थम् अपि व्याचक्षाणो ३५दृष्ट इति वेदार्थं वितथम् अपि व्याचक्षीत, अवितथम् अपिव्याचक्षीत नियामकाभावात् । गुरुपर्वक्रामायात- वेदार्थवेदी महाजनो नियामक इति चेन् न तस्यापिरागादिमत्वे यथार्थवेदित्वानिर्णयानुपपत्तेः गुरुपर्वक्र- मायात् अस्य वितथार्थस्यापि वेदे संभाव्यमानत्वाद् उपनिषद्वाक्यार्थवद् ईश्वराद्यर्थवद् वा न हि सगुरुपर्वक्रमा- यातो न भवति वेदार्थो वा न चावितथः प्रतिपद्यतेमीमांसकैस् तद्वदग्निष्टोमेन यजेत स्वर्गकाम इत्य् आदि वेदवाक्यस्याप्य् अर्थः कथं वितथः पुरुषव्याख्यानान् नशक्येत वक्तुं । यदि पुनर् वीतरागद्वेषमोहो वेदस्य व्या- ५८ख्याता प्रतिज्ञायते तदा स एव पुरुषविशेषःसर्वज्ञः किम् इति न क्षम्यते वेदार्थानुष्ठानपरायण एव वीतरागद्वेषः पुरुषो ऽभ्युपगम्यते वेदार्थव्याख्यानविषयएव रागद्वेषाभावात् न पुनर् वीतसकलविषय- रागद्वेषः कश्चित् कस्यचित् क्वचिद् विषयवीतरागद्वेषस्यापिविषयांतरे रागद्वेषदर्शनात् तथावेदार्थविषय एव वीतमोहपुरषस् तद्व्याख्याताऽभ्यनुज्ञायते न सकलविषयेकस्यचित् क्वचित् सातिशयज्ञानसद्भावे ऽपि विष- ०५यांतुरेषु अज्ञानदर्शनात् न च सकलविषयरागद्वेषप्रक्षयोज्ञानप्रकर्षो वा वेदार्थं व्याचक्षाणस्योपयोगी यो हि यद्व्याचष्टे तस्य तद्विषयरागद्वेषाज्ञानाभावःप्रेक्षावद्भिर् अन्विष्यते रागादिमतो विप्रलंभसंभवात् न पुनः सर्वविषये कस्यचिच् छास्त्रांतरेयथार्थव्याख्याननिर्णयविगेधात् तथापि तदन्वेषणे चसर्वज्ञवीतराग एव सर्वस्य शास्त्रस्य व्याख्याताभ्युपगंतव्य इत्यसर्वज्ञशास्त्रव्याख्यानव्यवहारो निखिलजनप्रसिद्धो ऽपि न भवेत् । न चैदं युगीनशास्त्रव्याख्याता कश्चित्प्रक्षीणाशेषरागद्वेषः सर्वज्ञः प्रतीयते इतिनियतविषय- १०शास्त्रार्थपरिज्ञानं तद्विषयरागद्वेषरहितत्वं चयथार्थव्याख्याननिबंधनं तद्व्याख्यातुर् अभ्युपगंतव्यंतच् च वेदार्थव्याचक्षाणस्यापिब्रह्मप्रजापतिमनुप्रमुखजैनिन्यादेर् विद्यते एव तस्यवेदार्थविषयाज्ञानरागद्वेष- विकलत्वाद् अन्यथा तद्व्याख्यानस्य शिष्टपरम्परयापरिग्रहविरोधात् ततो वेदस्य व्याख्याता तदर्थज्ञ एव न पुनः सर्वज्ञः तद्विषयरागद्वेषरहित एव न पुनःसकलविषयरागद्वेषशून्यो यतः सर्वज्ञो वीतरागश् च पुरुषविशेषः क्षम्यते इति केचित् ते ऽपि न मीमांसका, सकलसमयव्याख्यानस्य यथार्थभावानुषंगात् । १५स्यान् मतं समयांतराणां व्याख्यानं न यथार्थंबाधकप्रमाणसद्भावात् प्रसिद्धमिथ्योपदेशव्याख्यानवत् इति तद् अपि न विचारक्षमं वेदव्याख्यानस्यापिबाधकसद्भावात् यथैव हि सुगतकपिलादिसमयांतराणां परस्परविरुद्धार्थाभिधायित्वं बाधकं तथा भाव१नानि२योग३विधिधात्वर्थादिवेदवाक्यार्थव्याख्यानाना- म् अपि तत्प्रसिद्धम् एव । न चैचेषां मध्ये भावनामात्रस्यनियोगमात्रस्य वा वेदवाक्यार्थस्यान्ययोगव्यवच्छे- देन निर्णयः कर्तुं शक्यते सर्वथा विशेषाभावात्तत्राक्षेपसमाधानानां समानत्वाद् इति देवागमालंकृतौ २०तत्त्वार्थालंकारे विद्यानन्दमहोदये च विस्तरतो निर्णीतंप्रतिपत्तव्यं ततो न केनचित् पुरुषेण व्याख्याता- द् वेदाद् धर्माद्युपदेशः समवतिष्ठते, नाप्य् अव्याख्यातात्, तस्य स्वयं स्वार्थप्रतिपादकत्वेनतदर्थविप्रतिपत्त्यभाव- प्रंसगात् । दृश्यते च तदर्थविप्रतिपत्तिर् वेदवादिनाम् इतिन वेदाद् धर्माद्युपदेशस्य संभवः । पुरुषविशेषाद् एव सर्वज्ञवीतरागात् तस्य संभवात् ततो नधर्माद्युपदेशासंभवः पुरुषविशेषस्य सिद्धेः यःसर्वज्ञरहितं जग- त् साधयेद् इति कुतो ऽर्थापत्तिः सर्वज्ञस्य बाधिका । यदिपुनर् आगमः सर्वज्ञस्य बाधकः तदाप्य् असावपौरुषेयः २५पौरुषेयो वा, न तावद् अपौरुषेयस् तस्य कार्याद् अर्थादन्यत्र परैः प्रमाण्यानिष्टेर् अन्यथानिष्टासिद्धिप्रसंगात्, नापि पौरुषेयस् तस्यासर्वज्ञपुरुषप्रणीतस्य प्रमाण्यानुपपत्तेःसर्वज्ञप्रणीतस्य तु परेषाम् असिद्धेर् अन्यथा सर्वज्ञसिद्धेः ततस् तदभावायोगाद् इति न प्रभाकरमतानुसारिणांप्रत्यक्षादिप्रमाणानाम् अन्यतमम् अपि प्रमाणं सर्वज्ञाभा- वासाधनायालं यतः सर्वज्ञबाधकम् अभिधीयते । भट्टमतानुसारिणाम् अपि सर्वज्ञस्याभावसाधनम् अभाव- प्रमाणं नोपपद्यत एव तद् धिसदुपलंभप्रमाणपंचकनिवृत्तिरूपं सा चसर्वज्ञविषयसदुपलंभक- ३०प्रमाणपंचकनिवृत्तिर् आत्मनः परिणामो वा विज्ञानंवान्यवस्तुनि स्याद् गत्यंतराभावात् । न ताव- त् सर्वज्ञविषयप्रत्यक्षादिप्रमाणरूपेणात्मनः परिणामःसर्वज्ञस्याभावसाधकः सत्य् अपि सर्वज्ञे तत्संभवात् तद्विषयस्य ज्ञानस्यासंभवात् तस्यातींद्रियत्वात्परचेतोवृत्तिविशेषवत् । नापि निषेध्यात् सर्वज्ञाद् अन्यवस्तुनि विज्ञानं, तदेकज्ञानसंसर्गिणः कस्यचिद् वस्तुनो ऽभावात्घटैकज्ञानसंसर्गिभूतलवत् न हि यथा घट- भूतलयोश् चाक्षुषैकज्ञानसंसर्गात् केवलभूतलेप्रतिषेध्याद् घटाद् अन्यत्र वस्तुनि विज्ञानंघटाभावव्यव- ३५हारं साधयति तथा प्रतिषेध्यात् सर्वज्ञाद् अन्यत्र वस्तुनिविज्ञानं न तदभावसाधनसमर्थं संभवति सर्वज्ञस्यातींद्रियत्वात् तद्विषयज्ञानस्यासंभवात्तदेकज्ञानसंसर्गिणो ऽस्मदादिप्रत्यक्षस्य कस्यचिद् वस्तुनोऽभ्यु- पगमाद् अनुमानाद्येकज्ञानेन सर्वज्ञतदन्यवस्तुनोःसंसर्गात् सर्वज्ञैकज्ञानसंसर्गिणि क्वचिद् अनुमेये ऽर्थेऽनु- ५९मानज्ञानं संभवत्य् एवेति चेत्र तथा क्वचित्सर्वज्ञस्य सिद्धिप्रसंगात् सर्वत्र सर्वदा सर्वस्यसर्वज्ञस्याभावे कस्यचिद् वस्तुनस् तेनैकज्ञानसंसर्गायोगात्तदन्यवस्तुविज्ञानलक्षणाद् अभावप्रमाणात्सर्वज्ञाभावसाधनविरोधात् । किं च गृहीत्वा निषेध्याधारवस्तुसद्भावं स्मृत्वा चतत्प्रतियोगिनं निषेध्यम् अर्थं नास्तीति ज्ञानं मानसम् अक्षानपेक्षं जायत इति येषां दर्शनं तेषांनिषेध्यसर्वज्ञाधारभूतं त्रिकालं भुवनत्रयं च ०५कुतश्चित् प्रमाणाद् ग्राह्यं तत्प्रतियोगी च प्रतिषेध्यःसर्वज्ञः स्मर्त्तव्य एवान्यथा तत्र नास्तिताज्ञानस्य मानसस्यानुपपत्तेर् न चनिषेध्याधारत्रिकालजगत्रयसद्भावग्रहणं कुतश्चित्प्रमाणान् मीमांसकस्यास्ति नापि प्रतिषेध्यसर्वज्ञस्य स्मरणं तस्यप्रागननुभूतत्वात् पूर्वं तदनुभवे वा क्वचित् सर्वत्रसर्वदा सर्वज्ञा- भावसाधनविरोधात्, ननु च पराभ्युपगमात् सर्वज्ञःसिद्धस् तदाधारभूतं च त्रिकालं भुवनत्रयं सिद्धं, तत्र श्रुतसर्वज्ञस्मरणनिमित्तं तदाधारवस्तुग्रहणनिमित्तंच सर्वज्ञे नास्तिताज्ञानं मानसम् अक्षानपेक्षं युक्त- १०म् एवेति चेन् न । स्वेष्टबाधनप्रसंगात् पराभ्युपगमस्य हिप्रमाणसिद्धत्वे तेन सिद्धं सर्वज्ञं प्रतिषेधतो ऽभाव- प्रमाणस्य तद्बाधनप्रसंगात् तस्याप्रमाणत्वे न ततोनिषेध्याधारवस्तुग्रहणं निषेध्यसर्वज्ञस्मरणं वा तथ्यं स्यात् तदभावे तत्र सर्वज्ञे ऽभावप्रमाणं नप्रादुर् भवेद् इति तद् एव स्वेष्टबाधनं दुर्वारम् आयातं । नन्वेकं मिथ्यैकांतस्य प्रतिषेधः स्याद्वादिभिः कथं विधीयतेतस्य क्वचित् कथंचित् कदाचिद् अनुभवाभावे स्मरणा- संभवात् तस्याननुस्मर्यमाणस्य प्रतिषेधायोगात् क्वचिदाचित्तदनुभवे वा सर्वथा तत्प्रतिषेधविरोधात् १५पराभ्युपगमात् प्रसिद्धस्य मिथ्यैकांतस्य स्मर्यमाणस्यप्रतिषेधे ऽपि स पराभ्युपगमः प्रमाणम् अप्रमाणं वा, यदि प्रमाणं तदा तेनैव मिथ्यैकांतस्याभावसाधनायप्रवर्तमानं प्रमाणं बाध्यते इति स्याद्वादिनाम् अपि स्वेष्टबाधनं, यदि पुनर् अप्रमाणं पराभ्युपगमस् तदापिततः सिद्धस्य मिथ्यैकांतस्य स्मर्यमाणस्य नास्तीति ज्ञानं प्रजायमानं मिथ्यैव स्याद् इति तद् एव स्वेष्टबाधनंपरेषाम् इवेति न मंतव्य स्याद्वादिनाम् अनेकांतसिद्धेर् एव मिथ्यैकांतनिषेधनस्य व्यवस्थानात् प्रमाणतः प्रसिद्धेहि बहिरंतर् वा वस्तुन्य् अनेकांतात्मनि तत्राध्यारोप्य- २०माणस्य मिथ्यैकांतस्य दर्शनमोहोदयाकुलितचेतसां बुद्धौविपरीताभिनिवेशस्य प्रतिभासमानस्य प्रति- बेधः क्रियते प्रतिषेधव्यवहारो वा प्रवर्ततेविप्रतिपन्नप्रत्यायनाय सन्नयोपन्यासात् । न चैवम् असर्वज्ञ- जगत्सिद्धेर् एव सर्वज्ञप्रतिषेधो युज्यते तस्याः कुतश्चित्प्रमाणाद् असंभवस्य समर्थनात् तद् एवम् अभावप्रमाणस्या- पि सर्वज्ञबाधकस्यसदुपलंभकप्रमाणपंचकवदसंभवादेशांतरकालांतरपुरुषांतरापेक्षयाऽपि तद्बाधकशं- कानवकाशात् सिद्धः सुनिर्णीतासंभवद्बाधकप्रमाणःसर्वज्ञः स्वसुखादिवत् सर्वत्र वस्तुसिद्धौ सुनिर्णीता- २५संभवद्बाधकप्रमाणत्वम् अंतरेणाश्वासनिबंधनस्यकस्यचिद् अभावात् । स च विश्वतत्वानां ज्ञातार्हन्न् एव परमे- श्वरादेर् विश्वतत्वज्ञतानिंराकरणाद् एवावसीयते । स एवकर्मभूभृतां भेत्ता निश्चीयते ऽन्यथा तस्य विश्वतत्व- ज्ञतानुपपत्तेः । स्याद् आकूतं कर्मणां कार्यकारणसंतानेनप्रर्वतमानानाम् अनादित्वाद् विनाशहेतोर् अभावात् कथं कर्मभूभृतां भेत्ता विश्वतत्त्वज्ञो ऽपि कश्चिद्व्यवस्थाप्यते इति तद् अप्य् असत् विपक्षप्रकर्षपर्यंतगमनात्कर्मणां संतानरूपतयानादित्वे ऽपि प्रक्षयप्रसिद्धेः न ह्यनादिसंततिर् अपि शीतस्पर्शः क्वचिद् विपक्षस्योष्णस्पर्शस्यप्रक- ३०र्षपर्यंतगमनान् निर्मूलं प्रलयम् उपब्रजन्नोपलब्धो नापि कार्यकारणरूपतया बीजांकुरसंतानो वानादिरपि प्रति- पक्षभूतदहनान् निर्दग्धकीजो निर्दग्धांकुरो वा नप्रतीयत इति वक्तुं शक्यं, यतः कर्मभूभृतां संतानोनादिरपि क्वचित् प्रतिपक्षस् आत्मीभावान् न प्रक्षीयते ततो यथाशीतस्योष्णस्पर्शप्रकर्षविशेषेण कश्चिद् भेत्ता तथाकर्मभू- भृतां तद्विपक्षप्रकर्षविशेषेण भेत्ता भगवान्विश्वतत्वज्ञ इति सुनिश्चितं नश्चेतः कः पुनः कर्मभूभृतां विपक्ष इति चेद् उच्यते । ३५तेषाम् आगामिनां तावद् विपक्षः संवरोमतः तपसा संचितानां तु निर्जरा कर्मभूभृतां ॥ १११ ॥ द्विविधा हि कर्मभूभृतः केचिद् आगामिनः परेपूर्वभवसंतानसंचितास् तत्रागामिनां कर्मभूभृतां विपक्ष- स् तावत् संवरस् तस्मिन् सति तेषाम् अनुत्पत्तेः संवरो हिकर्मणामाश्रवनिरोधः सचाश्रवो मिथ्यादर्शनाविरति- ६०प्रमादकषाययोगविकल्पात् पंचविधस् तस्मिन् सतिकर्मणामास्रवात् कर्मागमनहेतोर् आस्रव इति व्यप- देशात् कर्माण्य् आस्रवंत्य् आगच्छंति यस्माद् आत्मनि सआस्रव इति निर्वचनात् स एव हि वंधहेतुर् विनिश्चितः प्राग्विशेषेण । मिथ्याज्ञानस्य मिथ्यादर्शने ऽṃतर्भावात्तन्निरोधः पुनः कार्त्स्न्यतो देशतो वा तत्र का- र्त्स्न्यतो गुप्तिभिः सम्यग्योगनिग्रहलक्षणाभिर् विधीयते । समितिधर्मानुप्रेक्षापरीषहजयचारित्रैस् तु देशत- ०५स् तन्निरोधः सिद्धः सम्यग्योगनिग्रहस् तु साक्षादयोगकेवलिनश्चरम् अक्षणप्राप्तस्य प्रोच्यते तस्यैवसकलकर्म- भूभृन्निरोधनिवंधनत्वसिद्धेः सम्यग्दर्शनादित्रयस्यचरमक्षणपरिप्राप्तस्य साक्षान् मोक्षहेतोस् तथाभिधानात् पूर्वत्र गुणस्थाने तदभावाद् योगसद्भावात्सयोगकेवलिक्षीणकषायोपशांतकषायगुणस्थाने ततो 'पि पूर्वत्र सूक्ष्मसांपरायानिवृत्तिवादरसां पराये चापूर्वकरणेचाप्रमत्ते च कषाययोगविशिष्टसद्भावात् ततो 'पि पू- र्वत्र प्रमत्तगुणस्थाने प्रमादकषाययोगनिर्णीतेसंयतासंयतसम्यग्दृष्टीगुणस्थाने प्रमादकषायविशिष्ट- १०योगानां ततो 'पि पूर्वस्मिन् गुणस्थानत्रयेकषायप्रमादाविरतमिथ्यादर्शनविशिष्टयोगसद्भावनिश्चयात् । योगो हि त्रिविधः कायादिभेदात् ऽ कायवाङ्मनःकर्म योगः, इति सूत्रकारवचनात् कायवर्गणालं- बनो ह्य् आत्मप्रदेशपरिस्पंदः काययोगो वाग्वर्गणालंबनोवाग्योगो मनोवर्गणालंबनो मनोयोगः ऽस आस्रव, इति वचनात् मिथ्यादर्शनाविरतिप्रमादकषायाणाम् आस्रवत्वंन स्याद् इति न मंतव्यं योगस्य सकलाश्रव- व्यापकत्वात् तद्ग्रहणाद् एव तेषां परिग्रहात् तन्निग्रहेतेषान् निग्रहाप्रसिद्धेः योगनिग्रहे मिथ्यादर्शनादीनांनिग्र- १५हः सिद्ध एवायोगकेवलिनि, तदभावात् कषायनिग्रहेतत्पूर्वास्रवनिरोधवत् क्षीणकषाये, प्रमादनिग्रहे पूर्वास्रवनिरोधवदप्रमत्तादौ । सर्वाविरतिनिरोधेतत्पूर्वास्रवमिथ्यादर्शननिरोधवच् च, प्रमत्तेसंयतासंयते च । मिथ्यादर्शननिरोधे तत्पूर्वास्रवनिरोधवच् चसासादनादौ । पूर्वपूर्वास्रवनिरोधे ह्य् उत्तरास्रवनिरोधः साध्य एव न पुनर् उत्तरास्रवनिरोधे पूर्वास्रवनिरोधस्तत्र तस्य सिद्धत्वात् कायादियोगनिरोधे ऽप्य् एवं वक्त- व्यं तत्राप्य् उत्तरयोगनिरोधेपूर्वयोगनिरोधस्यावश्यंभावात् काययोगनिरोधे हितत्पूर्ववाङ्मानस- २०निरोधः सिद्ध एव वाग्योगनिरोधे च मनोयोगनिरोधःपूर्वयोगनिरोधे तूत्तरयोगनिरोधो भाज्यत इति सकलयोगनिरोधलक्षणया परमगुप्त्यासकलास्रवनिरोधः परमसंवरः सिद्धः । समित्यादिभिः पुन- र् अपरः संवरो देशत एवास्रवनिरोधसद्भावात् तत्र हि योयदास्रवप्रतिपक्षः स तस्य संवर इति यथायो- गम् आगमाविरोधेनाभिधानीयं कर्मागमनकारणस्यास्रवस्यनिरोधे कर्मभूभृताम् आगामिनाम् अनुत्पत्तिसिद्धे- र् अन्यथा तेषाम् अहेतुकत्वापत्तेः सर्वस्य संसारिणःसर्वकर्मागमनप्रसक्तेश् च ततः संवरो विपक्षःकर्मभूभृ- २५ताम् आगामिनाम् इति स्थितं संचितानां तु निर्ज्जरा विपक्षः साच द्विविधानुपक्रमोपक्रमिकी च तत्र पूर्वा यथाकालं संसारिणः स्यात् उपक्रमकी तु तपसाद्वादशविधेन साध्यते संवरवत्, यथैवहि तपसा संचि- तानां कर्मभूभृतां निर्ज्जरा विधीयते यथाऽऽगामिनांसंवरोपीति संचितानां कर्मणां निर्जरा विपक्षः प्रतिपाद्यते । अथैतस्य कर्मणां विपक्षस्यपरमप्रकर्षः कुतः प्रसिद्धो यतस् तेषाम् आत्यंतिकःक्षयः स्याद् इत्य् आह "तत्प्रकर्षः पुनः सिद्धः परमः परमात्मनि । ३०तारतम्यविशेषस्य सिद्धेर् उष्णप्रकर्षवत् ॥ ११२ ॥ यस्य तारतम्यप्रकर्षस् तस्य क्वचित् परमः प्रकर्षःसिद्ध्यति यथोष्णस्य, तारतम्यप्रकर्षश् च कर्मणां विपक्षस्यसंवरनिर्जरालक्षणस्यासंयतसम्यग्दृष्ट्यादिगुणस्थानविशेषेषुप्रमाणतो निश्चीयते तस्मा- त् परमात्मनि तस्य परमः प्रकर्षः सिद्ध्यतीत्य् अवगम्यते । दुःखादिप्रकर्षेण व्यभिचार इति चेन् न दुःखस्य सप्तमनरकभूमौ नरकाणां परमप्रकर्षासिद्धेःसर्वार्थसिद्धौ देवानां सांसारिकसुखपरमप्रकर्षवत् । एतेन ३५क्रोधमानमायालोभानां तारतम्येन व्यभिचारशंका निरस्तातेषाम् अभव्येषु मिथ्यादृष्टिषु च परमप्रकर्ष- सिद्धेस् तत्प्रकर्षो हि परमो ऽनंतानुबंधित्वलक्षणस्स च तत्र प्रसिद्धः क्रोधादीनाम् अनंतानुबंधिनां तत्रस- द्भावात् । ज्ञानहानिप्रकर्षेण व्यभिचार इति चेन् न तस्यापिक्षायोपशमिकस्य हीयमानतया प्रकृष्यमाण- ६१स्य प्रसिद्धस्य केवलिनि परमप्रकर्षसिद्धेःक्षायिकस्य तु हानेर् एवानुपलब्धेः कुतस् तत्प्रकर्षो येनव्यभि- चारः शक्यते । के पुनः कर्मभूभृतो एषां विपक्षःपरमप्रकर्षभाक् साध्यत इत्य् आरेकायाम् इदम् आह कर्माणि द्विविधान्यत्र द्रव्यभावविकल्पतः । द्रव्यकर्माणि जीवस्य पुद्गलात्मान्यनेकधा ॥ ११३ ॥ ०५भावकर्माणि चैतन्यविवर्त्तात्मानि भांति नुः । क्रोधादीनि स्ववेद्यानि कथंचिच् चिदभेदतः ॥ ११४ ॥ तत्स्कंधराशयः प्रोक्ता भूभृतो ऽत्र समाधितः । जीवाद् विश्लेषणं भेदः संतानात्यंतसंक्षयः ॥ ११५ ॥ जीवं परतंत्रीकुर्वंति स परतंत्रीक्रियते वा यैस्तानि कर्माणि, जीवेन वा मिथ्यादर्शनादिपरिणामैः क्रियंत १०इति कर्माणि तानि द्विप्रकाराणि द्रव्यकर्माणि भावकर्माणि चतत्र द्रव्यकर्माणि ज्ञानावरणादीन् यष्टौ मूल- प्रकृतिभेदात् तथाऽष्टचत्वारिंशदुत्तरशतमुत्तरप्रकृतिविकल्पात् तथोत्तरोप्रकृतिभेदाद् अनेकप्रकाराणितानि च पुद्गलपरिणामात्मकानि जीवस्य पारतंत्र्यनिमित्तत्वान्निगडादिवत्, क्रोधादिभिर् व्यभिचार इति चेन् न तेषां जीवपरिणामानां पारतंत्र्यस्वरूपात्, पारंतत्र्यं हिजीवस्य क्रोधादिपरिणामो न पुनः पारतंत्र्यनिमि- त्तं । ननु च ज्ञानावरणदर्शनावरणमोहनीयांतरायाणामेवानंतज्ञानदर्शनसुखवीर्य्यलक्षणजीवस्वरूप- १५घातित्वात् पारंतत्र्यनिमित्तत्वं पुनर्नामगोत्रसद्वेद्यायुषां तेषाम् आत्मस्वरूपाघातित्वात्पारतंत्र्यनिमित्तत्वा- सिद्धेर् इति पक्षाव्यापको हेतुर् वनस्पतिचैतन्ये स्वापवदिति चेन् न तेषाम् अपि जीवस्वरूपसिद्धत्वप्रतिबंधि- त्वात् पारतंत्र्यनिमित्तत्वोपपत्तेः कथम् एवं तेषामघातिकर्मत्वम् इति चेज् जीवन्मुक्तिलक्षणपरमार्हंत्यलक्ष्मी- घातिकत्वाभावाद् इति ब्रूमहे ततो न पक्षाव्यापको हेतुः, नाप्य् अन्यथानुपत्तिनियमनिश्चयविकलः पुद्गल- परिणामात्मकसाध्यम् अंतरेण पारतंत्र्यतिमित्तत्वस्यसाधनस्यानुपपत्तिनियमनिर्णयात् तानि च स्वकार्येण २०यथानाम प्रतीयमानेनानुमीयंतेदृष्टकारणव्यभिचारददृष्टकारणसिद्धेः । भावकर्माणि पुनश् चैतन्य- परिणामात्मकानि क्रोधाद्यात्मपरिणामानांक्रोधादिकर्मोदयनिमित्तानाम् औदयिकत्वे ऽपि कथंचिद् आत्म- नो ऽनर्थांतरत्वाच् चिद्रूपत्वाविरोधात् ज्ञानरूपत्वं तुतेषां विप्रतिषिद्धं ज्ञानस्यौदयिकत्वाभावाद्धर्माधर्मयोः कर्मरूपयोर् आत्मगुणत्वान् नौदयिकत्वं नापिपुद्गलपरिणामात्मकत्वम् इति केचित् ते 'पि नयुक्तिवादिनः कर्म- णाम् आत्मगुणत्वे तत्पारतंत्र्यनिमितत्वायोगात् सर्वदाऽऽत्मनोवंधानुपपत्तेर् मुक्तिप्रसंगात् । न हि यो यस्य २५गुणः स तस्य पारंतत्र्यनिमित्तं यथा पृथिव्यादेःरूपादिः, आत्मगुणश् च धर्माधर्मसंज्ञकं कर्म परैरभ्यु- पगम्यत इति न तदात्मनः पारंतत्र्यनिमित्तं स्यात् ततएव च ऽप्रधानविवर्त्तः शुक्लं कृष्णं च कर्म, इत्य् अपि मिथ्या तस्यात्मपारतंत्र्यनिमित्तत्वाभावे कर्मत्वायोगादन्यथाविप्रसंगात् । प्रधानपारंतत्र्यनिमित्तत्वा- त् तस्य कर्मत्वम् इति चेन् न प्रधानस्य तेन वंधोपगमेमोक्षोपगमे च पुरुषकल्पनावैयर्थ्यात् । वंधमोक्ष- फलानुभवनस्य पुरुषे प्रतिष्ठानान् नपुरुषकल्पनावैयर्थ्याम् इति चेतद् एतदसंवद्धाभिधानंप्रधानस्य वंधमोक्षौ, ३०पुरुषस् तत्फलम् अनुभवतीतिकृतनाशाकृताभ्यागमप्रसंगात्, प्रधानेन हि कृतौवंधमोक्षौ न च तस्य तत्फ- लानुभवनम् इति कृतनाशः पुरुषेण तु तौ न कृतौतत्फलानुभवनं च तस्येत्य् अकृताभ्यागमः कथं परिहर्तुं शक्यः । पुरुषस्य चेतनत्वात् फलानुभवनं, नप्रधानस्याचेतनत्वाद् इति चेन् न मुक्तात्मनो ऽपिप्रधानकृतकर्मफ- लानुभवनानुषंगात् । मुक्तस्य प्रधानसंसर्गाभावान् नतत्फलानुभवनम् इति चेत् तर्हि संसारिणः प्रधानसंस- र्गाद् वंधफलानुभवनं सिद्धं तथा च पुरुषस्यैववंधः सिद्धः प्रधानेन संसर्गस्यवंधफलानुभवननिमित्त- ३५स्य बंधरूपत्वाद् बंधस्यैव संसर्ग्ग इति नामकरणात् सचात्मनः प्रधानसंसर्गकारणम् अंतरेण न संभव- तीति पुरुषस्य मिथ्यादर्शनादिपरिणामस् तत्कारणम् इतिप्रत्येतव्यं । प्रधानपरिणामस्यैव तत्संसर्गकारण- ६२त्वे मुक्तात्मनो 'पि तत्संसर्गकारणत्वप्रसक्तेरिति मिथ्यादर्शनादीनि भावकर्माणि पुरुषपरिणामात्मका- न्य् एव पुरुषस्य परिणामित्वोपपत्तेस् तस्यापरिणामित्वेवस्तुत्वविरोधान् निरन्वयविनश्वरक्षणिकचित्तवत् । द्रव्यकर्माणि तु पुद्गलपरिणामात्मकान्य् एव प्रधानस्यपुद्गलपर्यायत्वात् पुद्गलस्येव प्रधानम् इति नाम करणात्, न च प्रधानस्य पुद्गलपरिणामात्मकत्वम् असिद्धंपृथिव्यादिपरिणामात्मकत्वात् पुरुषस्यापुद्गलद्रव्यस्य ०५तदनुपलब्धिर् बुद्ध्यहंकारादिपरिणामात्मकत्वात् न हिप्रधाने बुद्ध्यादिपरिणामो घटते, तथा हि न प्रधानं बुद्ध्यादिपरिणामात्मकं पृथिव्यादिपरिणामात्मकत्वाद् यत् तुबुद्ध्यादिपरिणामात्मकं तन् न पृथिव्यादि- परिणामात्मकं दृष्टं यथा पुरुषद्रव्यं तथा च प्रधानंतस्मान् न बुद्ध्यादिपरिणामात्मकं । पुरुषस्य बुद्ध्यादिपरिणामात्मकत्वासिद्धेर् न वैधर्म्यदृष्टांततेतिचेन् न तस्य तत्साधनात् तथा हि बुद्ध्यादिपरिणा- मात्मकः पुरुषश् चेतनत्वाद् यस् तु नबुद्धयादिपरिणामात्मकः स न चेतनो दृष्टो यथा घटादिश्चेतनश् च पुरुष- १०स् तस्माद् बुद्ध्यादिपरिणामात्मक इति सम्यगनुमानात्, तथाकाशपरिणामात्मकत्वम् अपि प्रधानस्य न घटतेमूर्तिमत्पृथिव्यादिपरिणामात्मकस्यामूर्ताकाशपरिणामात्मकत्वविरोधाद्घटादिवत् । शब्दादि- तन्मात्राणां तु पुद्गलद्रव्यपरिणामात्मकत्वम् एवकर्मेंद्रियद्रव्यमनोवत् भावमनोबुद्धींद्रियाणां तुपुरुषप- रिणामात्मकत्वसाधनान् न जीवपुद्गलद्रव्यव्यतिरिक्तंद्रव्यांतरम् अन्यत्र धर्माधर्माकाशकालद्रव्येभ्य इति न प्रधानं नाम तत्त्वांतरम् अस्ति सत्त्वरजस्तमसाम् अपिद्रव्यभावरूपाणां पुद्गलद्रव्यपुरुषद्रव्यपरिणामत्वो- १५पपत्तेर् अन्यथा तदघटनाद् इति द्रव्यकर्माणिपुद्गलात्मकान्य् एव सिद्धानि भावकर्मणांजीवपरिणामत्वसिद्धे- स् तानि च द्रव्यकर्माणि पुद्गलस्कंधरूपाणि परमाणूनांकर्मत्वानुपत्तेस् तेषां जीवस्वरूपप्रतिबंधकत्वाभावा- द् इति कर्मस्कंधसिद्धिस् ते च कर्मस्कंधा बहव इतिकर्मस्कंधराशयः सिद्धास् ते च भूभृत इव भूभृत इति व्यपदिश्यंते समाधिवचनात् तेषां कर्मभूभृतां भेदोविश्लेषणम् एव न पुनर् अत्यंतसंक्षयः सतोद्रव्यस्यांत्यंत- विनाशानुपपत्तेः प्रसिद्धत्वात् तत एव कर्मभूभृतांभेत्ता भगवान् प्रोक्तो न पुनर् विनाशयितेति निरवद्याम् इदं २०भेत्तारं कर्मभूभृतां ज्ञातारं विश्वतत्त्वानाम् इतिविशेषणाद्वितयं मोक्षमार्गस्य नेतारम् इति विशेषणवत् ॥ कःपुनर्मोक्ष इत्य् आह । स्वात्मलाभस् ततो मोक्षः कृत्स्नकर्मक्षयात्मतः निर्ज्जरासंवराभ्यां तु सर्वसद्वादिनाम् इह ॥ ११६ ॥ यत एवं ततः स्वात्मलाभो जीवत्य मोक्षः कृत्स्नांनांकर्मणाम् आगामिनां संचितानां च संवरनिर्ज्जरा- २५भ्यां क्षयाद् विश्लेषात् सर्वसद्वादिनां मत इति सर्वेषामास्तिकानां मोक्षस्वरूपे विवादाभावं दर्शयति तेषाम् आत्मस्व- रूपे कर्मस्वरूपे च विवादात् स च प्राग् एव निरस्तो 'नंतज्ञानादिचतुष्टयस्य सिद्धत्वस्य चात्मनः स्वरूपस्यप्रमा- णप्रसिद्धत्वान् न ह्य् अचेतनत्वम् आत्मनः स्वरूपं तस्यज्ञानसमवयित्वविरोधाद् आकाशादितत्कारणादृष्टविशेषा- संभवाच् च तद्वत् तस्यांतःकरणसंयोगस्यापि दुर्घटत्वात्प्रतीयते च ज्ञानम् आत्मनि ततस् तस्य नाचैतन्यं स्वरूपं । ज्ञानस्य चैतन्यस्यानित्यत्वात् कथम् आत्मनो नित्यस्यतत्स्वरूपम् इति चेन् नानंतस्य ज्ञानस्यानादेश् चानित्यत्वैकांता- ३०भावात् । ज्ञानस्य नित्यत्वे न कदाचिद् ज्ञानम् आत्मनः स्यादिति चेन् न तदावरणोदये तदविरोधात् एतेन सम- स्तवस्तुविषयज्ञानप्रसंगो ऽपि विनिवारितस्तद्घातिकर्मोदये सति संसारिणस् तदसंभवात् तत्क्षये तुकेव- लिनः सर्वद्रव्यपर्यायविषयस्य ज्ञानस्य प्रमाणतःप्रसिद्धेः सर्वज्ञत्वस्य साधनात् । चैतन्यमात्रम् एवात्मनः स्वरूपम् इत्य् अनेन निरस्तं ज्ञानस्वभावरहितस्यचेतनत्वविरोधाद् गनादिवत् । प्रभास्वरम् इदं चित्तम् इति स्व- संवेदनमात्रं चित्तस्य स्वरूपं वदन्न् अपिसकलार्थविषयज्ञानसाधनान् निरस्तः स्वसंविन्मात्रेणवेदनेन सर्वार्य- ३५साक्षात्कारणविरोधात् । तद् एवंप्रतिवादिपरिकल्पितात्मस्वरूपस्य प्रमाणबाधितत्वात्स्याद्वादिनिगदित- म् एवानंतज्ञानादिस्वरूपम् आत्मनो व्यवतिष्ठते ततस्तस्यैव लाभो मोक्षः सिद्ध्येन् न पुनः स्वात्मप्रहाणम् इति प्रतिपद्येमहि प्रमाणसिद्धत्वात् तथा कर्मस्वरूपे चविप्रतिपतिः कर्मवादिनां कल्पनाभेदात् सा च पूर्वं निर- स्तेत्य् अलं विवादेन । ननु च संवरनिर्जरामोक्षाणांभेदाभावः कर्माभावस्वरूपत्वाविशेषाद् इति चेन् न संवर- ६३स्यागामिकर्मानुत्पत्तिलक्षणत्वाद् आस्त्रवनिरोधःसंवर इति वचनात् निर्जरायास् तु संचितकर्मविप्रमोक्ष- लक्षणत्वाद् देशतः कर्मविप्रमोक्षोनिर्ज्जरेति प्रतिपादनात्कृत्स्नकर्मविप्रमोक्षस्यैव मोक्षत्ववचनात् ततः संचि- त्तानागतद्रव्यभावकर्मणां विप्रमोक्षस्यसंवरनिर्ज्जरयोर् अभावात् ताभ्यां मोक्षस्य भेदः सिद्धः । ननु च नास्तिकान् प्रति मोक्षस्वरूपे ऽपि विवाद इति चेन् न तेषामत्रानधिकारात् तदेवाह । ०५नास्तिकानां न नैवास्ति प्रमाणं तन्निराकृतौ । प्रलापमात्रकं तेषां नावधेयं महात्मनां ॥ ११७ ॥ येषां प्रत्यक्षम् एव प्रमाणं नास्तिकानां ते कथंमोक्षनिराकरणाय प्रमाणांतरं वदेयुः स्वेष्टहानिप्रसं- गात् पराभ्युपगतेन प्रमाणेन मोक्षाभावम् आचक्षाणांमोक्षसद्भावम् एव किन् नाचक्षते न चेद् विक्षिप्तमनसः परपर्यनुयोगपरतया प्रलापमांत्रे तु महात्मनांनावधेयं तेषाम् उपेक्षार्हत्वात् ततो निर्विवाद एव मोक्षःप्रतिप- १०त्तव्यः । कस् तर्हि मोक्षमार्ग इत्य् आह । मार्गो मोक्षस्य वै सम्यग्दर्शनादित्रयात्मकः । विशेषेण प्रपत्तव्यो नान्यथा तद्विरोधतः ॥ ११८ ॥ मोक्षस्य हि मार्ग्गः साक्षात् प्रप्त्युपायो विशेषप्रत्यायनीयोऽसाधारणकारणस्य तथाभावोपपत्तेर् न पुनः सामान्यतः साधारणकारणस्यद्रव्यक्षेत्रकालभवभावाविशेषस्य सद्भावात् स च त्रयोत्मक एव १५प्रतिपत्तव्यः तथा हि सम्यग्दर्शनादित्रयात्मकोमोक्षमार्गः साक्षान् मोक्षमार्गत्वाद् यस् तु न सम्यग्द- र्शनादित्रयात्मकः स न साक्षान् मोक्षमार्गो यथाज्ञानमात्रादि साक्षान्मोक्षमार्गश् च विविदाध्यासित- स् तस्मात् सम्यग्दर्शनादित्रयात्मक इत्य् अत्र नाप्रसिद्धोधर्मी मोक्षमार्गमात्रस्य सकलमोक्षवादिनाम् अविवा- दस्य धर्म्मित्वात् तत एव नाप्रसिद्धविशेष्यः पक्षो नाप्यप्रसिद्धविशेषणः सम्यग्दर्शनादित्रयात्मकत्वस्य व्याधिविमोक्षमार्गरसायनादौ प्रसिद्धत्वात् । न हिरसायनश्रद्धानमात्रं सम्यग्ज्ञानाचरणरहितं सक- २०लामयविनाशनायालं नापि रसायनज्ञानमात्रंश्रद्धानाचरणरहितं न च रसायनाचरणमात्रंश्रद्धान- ज्ञानशून्यं तेषाम् अन्यतमापायेसकलव्याधिविप्रमोक्षलक्षणस्यरसायनफलस्यासंभवात् तद्वत् सकलकर्म्म- महाव्याधिविप्रमोक्षो ऽपितत्त्वश्रद्धानज्ञानाचरणत्रयात्मकाद् एवोपायादनपायम् उपपद्यते तदन्यतमापाये तदनुपपत्तेः । ननु चायं प्रतिज्ञार्थैकदेशासिद्धो हेतुःशब्दानित्यत्वे शब्दत्ववद् इति न मंतव्यं प्रतिज्ञार्थैक- देशत्वेन हेतोर् असिद्धत्वायोगात् प्रतिज्ञा हिधर्म्मिधर्मसमुदायलक्षणा तदेकदेशस् तु धर्मी धर्मो वातत्र न २५धर्मी तावद् अप्रसिद्धः प्रसिद्धो धर्म्मीति वचनात् नचायं धर्मित्वविवक्षायाम् अप्रसिद्ध इति वक्तुं युक्तंप्रमा- णतस् तत्स्तंप्रत्ययस्याविशेषात् ननु मोक्षमार्गो धर्मीमोक्षमार्गत्वं हेतुस् तच् च न, धर्मिसामान्यरूपत्वात्साधन- धर्मत्वेन प्रतिपादनाद् इत्य् अपरः सो 'प्य् अनुकूलमाचरति साधनधर्मस्य धर्मिरुपत्वाभावेप्रतिज्ञार्थेकदेशत्वनिरा- करणात् विशेषं धर्मिणं कृत्वा सामान्यं हेतुं ब्रुवतो नदोषं इति परैः स्वयम् अभिधानात्, प्रयत्नानंतरीयकः क्षणिकः शब्दः प्रयत्नानंतरीयकत्वाद् इत्य् आदिवत् कःपुनर् अत्र विशेषो धर्मी मोक्षमार्ग इति ब्रूमः कुतो ऽस्य- ३०विशेषः स्वास्थ्यमार्गात् न ह्य् अत्र मार्गसामान्यं धर्म्मि किंतर्हि मोक्षविशेषणो मार्गविशेषः कथम् एवं मोक्ष- मार्गत्वं सामान्यं मोक्षमार्गाणाम् अनेकव्यक्तिनिष्ठस्वात् क्वचिन् मानसशारीरव्याधिविशेषाणां मोक्षमार्गः क्वचिद् द्रव्यभावसकलकर्माणाम् इति मोक्षमार्गत्वं सामान्यंशब्दत्ववत् शब्दत्वं हि यथा शब्दविशेषे वर्ण- पदवाक्यात्मके विवादास्पदे तथा ततविततघनसुषिरशब्देऽपि श्रावणज्ञानजननसमर्थतया (शब्दव्यपदेशं नातिक्रामति) इति शब्दविशेषं धर्म्मिणं कृत्वा शब्दत्वंसामान्यं हेतुं ब्रुवाणो न कंचिद् दोषम् आस्तिघ्नुते ३५तथानन्वयदोषस्याप्य् अभावात् तद्वन्मोक्षमार्गविशेषंधर्म्मिणम् अभिधाय मोक्षमार्गत्वं समान्यं साधनम् अभि- दधानो नोपलब्धव्यः । तथा साध्यधर्मो ऽपिप्रतिज्ञार्थैकदेशो हेतुत्वेनोपादीयमानो नप्रतिज्ञार्थैकदेश- त्वेनासिद्धस् तस्य धर्मिणा व्यभिचारात्प्रतिज्ञार्थैकदेशस्यापि धर्मिणो ऽसिद्धत्वानुपपत्तेः किंतर्हि साध्यत्वे- ६४नासिद्ध इति न प्रतिज्ञार्थैकदेशो नामासिद्धो हेतुरस्ति विपक्षे बाधकप्रभाणाभावात् । अन्यथानुपपन्न- त्वनियमानिश्चयाद् अगमको ऽयं हेतुर् इति चेन् नज्ञानमात्रादौ विपक्षे मोक्षमार्गत्वस्य हेतोःप्रमाणबाधितत्वात् । सम्यग्दर्शनादित्रयात्मकत्वे हि मोक्षमार्गस्य साध्येज्ञानमात्रादित्रिपक्षस् तत्र च न मोक्षमार्गत्वं सिद्धं बाधकसद्भावात् तथा हि ज्ञानमात्रं न कर्ममहाव्याधिमोक्षमार्गः श्रद्धानाचरणशून्यत्वात् शारीर- ०५मानसव्याधिविमोक्षकारणरसायनज्ञानमात्रवत् नाप्याचरणमात्रं तत्कारणं श्रद्धानज्ञानशून्यत्वात् रसायनाचरणमात्रवत् नापि ज्ञानवैराग्ये तदुपायस्तत्वश्रद्धानविधुरत्वाद् रसायनज्ञानवैराग्यमात्रव- द् इति सिद्धो ऽन्यथानुपपत्तिनियमः साधनस्य ततोमोक्षमार्गस्य सम्यग्दर्शनादित्रयात्मकत्वसिद्धिः । परंपरया मोक्षमार्गस्य सम्यग्दर्शनमात्रात्मकत्वसिद्धेर्व्यभिचारी हेतुर् इति चेन् न साक्षाद् इति विशेषणात् सा- क्षान् मोक्षमार्गत्वं सम्यग्दर्शनादित्रयात्मकत्वं नव्यभिचरति क्षीणकषायचरम् अक्षणवर्त्तिपरमार्हंत्यलक्ष- १०णजीवन्मोक्षमार्ग इवेति सुप्रतीतं तथैवायोगकेवलिचरमक्षणवर्तिकृत्स्नकर्मक्षयलक्षणमोक्षमार्गः साक्षान् मोक्षमार्गत्वं सम्यग्दर्शनादित्रयात्मकत्वं नव्यभिचरति तपोविशेषस्य परमशुक्लध्यानलक्षणस्य सम्यक्चारित्रे ऽṃतर्भावाद् इति विस्तरतस् तरतस्तत्वार्थालंकारे युक्त्यागमविरोधनं परीक्षितमवबोद्धव्यं तद् एवं विधस्य मोक्षमार्गस्य प्रणेता विश्वतत्त्वज्ञः साक्षात्परंपरया वेति शंकायाम् इदम् आह । प्रणेता मोक्षमार्गस्याबाध्यमानस्य सर्वथा । १५साक्षाद् य एव स ज्ञेयो विश्वतत्त्वज्ञताश्रयः ॥ ११९ ॥ न हि परंपरया मोक्षमार्गस्य प्रणेतागुरुपर्वक्रमाविच्छेदाद् अधिगवतत्त्वार्थशास्त्रार्थो ऽप्यस्मदादिभिः साक्षाद् विश्वत्त्वज्ञतायाः समाश्रयः साध्यते प्रतीतिविरोधात्किं तर्हि साक्षान् मोक्षमार्गस्य सकलबाधकप्रमाण- रहितस्य यः प्रणेता स एव विश्वतत्त्वज्ञताश्रयस्तत्वार्थसूत्रकारैर् उमास्वाभिप्रभृतिभिः प्रतिपाद्यतेभगवद्भिः साक्षात्सर्वतत्वज्ञताम् अन्तरेण साक्षादबाधितमोक्षमार्गस्यप्रणयनानुपपत्तेर् इति वंदे तद्गुणलब्धय इत्य् एत- २०द् व्याख्यातुम् अनाः प्राह वीतनिःशेषदोषो ऽतः प्रवंद्यो ऽर्हन् गुणांबुधिः । तद्गुणप्राप्तये सद्भिर् इति संक्षेपतो ऽन्वयः ॥ १२० ॥ यतश् च यः साक्षान् मोक्षमार्गस्याबाधितस्य प्रणेता सएव विश्वतत्त्वानां ज्ञाता कर्मभूभृतां भेत्ताऽ- त एवार्हन् प्रवंद्यो मुनेंद्रैस् तस्यवीतनिःशेषज्ञानादिदोषत्वात्तस्यानंतज्ञानादिगुणांबुधित्वाच् च यो हि २५गुणांबुधिः स एव तद्गुणलब्धये सद्भिर् आचार्यैर्वंदनीयः स्यान् नान्य इति मोक्षमार्गस्य नेतारं भेत्तारं कर्मभूभृतां ज्ञातारं विश्वतत्त्वानां भगवंतम् अर्हंतमेवान्ययोगव्यवच्छेदेन निर्णीतम् अहं वंदे तद्गुण- लब्ध्यर्थम् इति संक्षेपतः शास्त्रादौपरमेष्ठिगुणस्तोत्रस्य मुनिपुंगवैर्विधीयमानस्यान्वयः संप्रदायाव्य- वच्छेदलक्षणः पदार्थघटनालक्षणो वा लक्षणीयःप्रपंचतस् तदन्वयस्याक्षेपसमाधानलक्षणस्य श्रीमत्स्वा- मिसमंतभद्रैर् देवागमाख्याप्तमीमांसायां प्रकाशनात्तत्त्वार्थविद्यानं महोदयालंकारेषु च तदन्वयस्य ३०व्यवस्थापनाद् अलं प्रसंगपरंपरया अत्र समासतस्तद्विनिश्चयात् कस्मात् पुनर् एवं विधोभगवान् सकलपरीक्षाल- क्षितमोहक्षयः साक्षीकृतविश्वतत्त्वार्थो वंद्यते सद्भिरित्य् आवेद्यते । मोहाक्रांतान् न भवति गुरोर् मोक्षमार्ग प्रणीति । नर्ते तस्याः सकलकलुषध्वंसजा स्वात्मलब्धिः । । तस्यै वंद्यः परगुरुर् इह क्षीण मोहस् त्वम् अर्हन् । ३५साक्षात् कुर्वन्न् अमलकम् इवाशेषतत्त्वानि नाथ ॥ १२१ ॥ ६५मोहस् तावद् अज्ञानं रागादिप्रपंचस् तेनाक्रांताद्गुरोर् मोक्षमार्गस्य यथोक्तस्य प्रणीतिर् नोपपद्यते यस्मा- द् रागद्वेषाज्ञानपरवशीकृतमानस् अस्यसम्यग्गुरुत्वेनाभिमन्यमानस्यापियथार्थोपदेशित्वनिश्चयासभ- वात् तस्य वितथार्थाभिधानशंकानतिक्रमात् दूरेमोक्षमार्गप्रणीतिर् यतश् च तस्या मोक्षमार्गप्रणीतेर् विना मोक्षमार्ग्गं भावनाप्रकर्षपर्यंतगमनेनसकलकर्मलक्षणकलुषप्रध्वंसजन्यानंतज्ञानादिलक्षणास्वात्मल- ०५ब्धिः परमनिर्वृत्तिः कस्यचिन् न घटते तस्मात् तस्यै स्वात्मात्मलब्धये त्वम् एवार्हन् परमगुरुरिह शास्त्रादौवंद्यः क्षीणमोहत्वात् करतलनिहितस्फटिकमणिवत्साक्षात्कृताशेषतत्त्वार्थत्वाच् च न ह्य् अक्षीणमोहःसाक्षाद् अशेष- तत्त्वानि दृष्टुं समर्थः कपिलादिवन् नापिसाक्षादपरिज्ञाताशेषतत्त्वार्थो मोक्षमार्गप्रणीतयेसमर्थो न च तदसमर्थः परमगुरुर् अभिधातुं शक्यस् तद्वेदे वेति नमोहाक्रांतः परमनिःश्रेयसार्थिभिर् अभिवंदनीयः । कथ- म् एवम् आचार्य्यादयः प्रवंदनीयाः स्युर् इति चेत्परमगुरुवचनानुसारितया तेषां प्रवर्त्तमानत्वाद् देशतो मोह- १०रहितत्वाच् च तेषां वंदनीयत्वम् इति प्रतिपद्यामहे ततएव परापरगुरुगुणस्तोत्रं शास्त्रादौ मुनींद्रैर् विहित- म् इति व्याख्यानम् अनुवर्तनीयं, पंचानाम् अपि परमेष्ठिनांगुरुत्वोपपत्तेः कार्त्स्न्यतो देशतश् च क्षीणमोहत्व- सिद्धेर् अशेषतत्त्वार्थज्ञानप्रसिद्धेश् चयथार्थाभिधायित्वनिश्चयाद् वितथार्थाभिधानशंकापायान्मोक्षमार्गप्रणी- तौ गुरुत्वोपपत्तेस् तत्प्रसादाद् अभ्युदयनिश्रेयससंप्राप्तेरवश्यंभावात् तद् एवम् आप्तपरीक्षैषा विहिता हितपरी- क्षादक्षैर् विचक्षणैः पुनः पुनश् चेतसि परिमलनीयेत्याचक्ष्महे । १५न्यक्षेणाप्तपरीक्षाप्रतिपक्षं क्षपयितुं क्षमा साक्षात् । प्रेक्षावताम् अभीक्ष्णं विमोक्षलक्ष्मीक्षणायं संलक्ष्या ॥ १२२ ॥ श्रीमत्तत्वार्थशास्त्राद्भुतसलिलनिधेरिद्धरत्नोद्भवस्य प्रोत्थानारंभकाले सकलमलभिदे शास्त्रकारैः कृतंयत् । स्तोत्रं तीर्थोपमानं प्रथितपृथुपथंस्वामिमीमांसितं तत् । २०विद्यानंदैः स्वशक्त्या कथम् अपि कथितंसत्यवाक्यार्थसिद्ध्यै ॥ १२३ ॥ इति तत्त्वार्थशास्त्रादौ मुनींद्रस्तोत्रगोचरा । प्रणीताप्तपरीक्षेयं कुविवादनिवृत्तये ॥ १२४ ॥ विद्यानंदहिमाचलमुखपद्मविनिर्गता सुगंभीरा आप्तपरीक्षाटीका गंगावच्चिरतरं जयतु ॥ १ ॥ २५भास्वद्भासिरदोषा कुमतिमतध्वांतभेदने पट्वी । आप्तपरीक्षालंकृतिर् आचंद्रार्कं चिरं जयतु ॥ २ ॥ स जयतु विद्यानंदो रत्नत्रयभूरिभूषणस् सबलं । तत्त्वार्थार्णवतरेण सदुपायः प्रकटितो येन ॥ ३ ॥ इत्य् आप्तपरीक्षा समाप्ता ।