तत्त्वार्थ / तत्त्वार्थराजवार्त्तिक / तत्त्वार्थराजवार्त्तिकव्याख्या १९९९
अकलङ्क्देव-विरचितं तत्त्वार्थवार्तिकम् (राजवार्तिकम्) हिन्द् ...
१ श्रीमद्भट्टाकलङ्कदेवविरचितं तत्त्वार्थवार्तिकम् प्रणम्य सर्वविज्ञानमहास्पदमुरुश्रियम् । निर्धूतकल्मषं वीरं वक्ष्ये तत्त्वार्थवार्तिकम् ॥ १ ॥ श्रेयोमार्गप्रतिपित्सात्मद्रव्यप्रसिद्धेः । १ । उपयोगस्वभावस्यात्मनः श्रेयसा योक्ष्यमाणस्य प्रसिद्धौ सत्यां तन्मार्गप्रतिपित्सोत्पद्यते । कथम् ? ०५चिकित्साविशेषप्रतिपत्तिवत् । २ । यथा व्याधिनिवृत्तिजफलश्रेयसां योक्ष्यमाणस्य चिकि- त्स्यस्य प्रसिद्धौ चिकित्सामार्गविशेषप्रतिपित्सोत्पद्यते तथा आत्मद्रव्यप्रसिद्धौ श्रेयोमार्गप्रति- पित्सेति । तस्मात् साधीयसी मोक्षमार्गव्याख्या स्वायम्भवीति । किञ्च, सर्वार्थप्रधानत्वात् । ३ । संसारिणः पुरुषस्य सर्वेष्वर्थेषु मोक्षः प्रधानम्, प्रधाने च कृतो यत्नः फलवान् भवति तस्मात्तन्मार्गोपदेशः कार्यः तदर्थत्वात् । १०मोक्षोपदेशः पुरुषार्थप्रधानत्वादिति चेत्; न; जिज्ञासमानार्थिप्रश्नापेक्षिप्रतिवचनसद्भा- वात् । ४ । आह मोक्षोपदेश एव कार्यो न मार्गोपदेशः । कस्मात् ? पुरुषार्थप्रधानत्वात् । सर्वश्रेयो- भ्यः पुंसो मोक्ष एव परं श्रेयः आत्यन्तिकानुपमश्रेयस्त्वादिति; तन्न; जिज्ञासमानार्थिप्रश्नापेक्षि- प्रतिवचनसद्भावात् । योऽसौ मोक्षेणार्थी जिज्ञासमानः स मार्गमेव पृष्टवान् न मोक्षम्, अतस्त- न्मार्गोपदेश एव न्याय्यः । १५मोक्षमेव कस्मान्नाप्राक्षीदिति चेत् ? न; कार्यविशेषसम्प्रतिपत्तेः । ५ । स्यादेतत् — अयं प्रष्टा मोक्षमेव कस्मान्न पृष्टवान् कैमर्थक्यान्मार्गं पृष्टवानिति ? तन्न; कार्यविशेषसम्प्रतिपत्तेः । मोक्षकार्यं प्रति सर्वेषां सद्वादिनां सम्प्रतिपत्तेर्न कारणं प्रति । कारणं तु प्रति विप्रतिपत्तिः, पाटलिपुत्रमार्गविप्रतिपत्तिवत् । ६ । यथा केचित् पुरुषा नानादिग्भागापेक्षिषु मार्गेषु विप्रतिपद्यन्ते न पाटलिपुत्रे प्राप्तव्ये, तथा मोक्षकार्यं प्रतिपद्य २०तदर्थमादृताः सर्वे सद्वादिनस्तत्कारणेषु विप्रतिपद्यन्ते । तद्यथा, केचित्तावदाहुः — ज्ञानादेव मोक्ष इति । अपर आहुः — ज्ञानवैराग्याभ्यामिति । पदार्थावबोधो ज्ञानम्, विषयसुखान- भिष्वङ्गलक्षणं वैराग्यमिति । अपर आहुः — क्रियात एव मोक्ष इति *“नित्यकर्महेतुकं निर्वाणम्” इति वचनात् । किञ्च, २ पराभिप्रायनिवृत्त्यशक्यत्वात् । ७ । न च परस्य प्रष्टुः प्रश्नाभिप्रायोऽस्मदादिभिः शक्यो निवर्तयितुं ‘मा प्राक्षीर्मार्गं मोक्षं पृच्छ’ इति, भिन्नरुचित्वाल्लोकस्य । कल्पनाभेदात्तद्विप्रतिपत्तिरिति चेत्; न; कर्मविप्रमोक्षसामान्यात् । ८ । आह — न मोक्षं प्रति सम्प्रतिपत्तिरस्ति किन्तु विप्रतिपत्तिरेव । कस्मात् ? कल्पनाभेदात् । अन्येऽन्यथालक्षणं ०५मोक्षं परिकल्पयन्ति — ‘रूपवेदनासंज्ञासंस्कारविज्ञानपञ्चकस्कन्धनिरोधादभावो मोक्षः’ इति । ‘गुणपुरुषान्तरोपलब्धौ प्रतिस्वप्नलुप्तविवेकज्ञानवत् अनभिव्यक्तचैतन्यस्वरूपावस्था मोक्षः’ इत्यपरे । ‘बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारनवात्मगुणात्यन्तोच्छेदो मोक्षः’ इत्यन्ये । तस्मात् कल्पनाभेदात् मोक्षं प्रति विप्रतिपत्तिरिति; तन्न; कर्मविप्रमोक्षसामान्यात् । सर्वेषां हि प्रवादिनां यां तामवस्थां प्राप्य कृत्स्नकर्मविप्रमोक्ष एव मोक्षोऽभिप्रेत इति १०आस्माकीनसमयाविरोधात् मोक्षकार्यं प्रति सम्प्रतिपत्तिः । कार्यविशेषोपलम्भात् कारणान्वेषणप्रवृत्तिरिति चेत्; न; अनुमानतस्तत्सिद्धेर्घटीयन्त्र- भ्रान्तिनिवृत्तिवत् । ९ । आह — कार्यविशेषमुपलभ्य लौकिकाः कारणान्वेषणं प्रति आद्रियन्ते यथा ज्वरादिरोगदर्शनात्तत्कारणान्वेषणे भिषक् प्रवर्तते चिकित्साप्रसिद्ध्यर्थं तथा मोक्षदर्शना- त्तत्कारणान्वेषणं न्याय्यम् । न चासौ दृश्यते, तस्मान्मोक्षकारणान्वेषणाभाव इति; तन्न; १५अनुमानतस्तत्सिद्धेः । प्रत्यक्षतोऽनुपलभ्यमानस्यापि मोक्षकार्यस्यानुमानत उपलब्धौ मोक्षकार- णान्वेषणं युक्तं घटीयन्त्रभ्रान्तिनिवृत्तिवत् । यथा बलीवर्दपरिभ्रमणापादितारगर्तभ्रान्तिं घटीयन्त्रभ्रान्तिजनिकां बलीवर्दपरिभ्रमणाभावे चारगर्तभ्रान्त्यभावाद् घटीयन्त्रभ्रान्तिनिवृत्तिं च प्रत्यक्षत उपलभ्य सामान्यतोदृष्टादनुमानाद् बलीवर्दतुल्यकर्मोदयापादितां चतुर्गत्यर- गर्तभ्रान्तिं शारीरमानसविविधवेदनाघटीयन्त्रभ्रान्तिजनिकां प्रत्यक्षत उपलभ्य ज्ञानदर्शनचारि- २०त्राग्निनिर्दग्धस्य कर्मण उदयाभावे चतुर्गत्यरगर्तभ्रान्त्यभावात् संसारघटीयन्त्रभ्रान्तिनिवृत्त्या भवितव्यमित्यनुमीयते । यासौ संसारघटीयन्त्रभ्रान्तिनिवृत्तिः स एव मोक्ष इति । तस्मादनु- मानतो मोक्षकार्यसिद्धेरध्यवस्यामो मोक्षकारणान्वेषणं न्याय्यमिति । किञ्च, सर्वशिष्टसम्प्रतिपत्तेः । १० । सर्वे शिष्टाः प्रत्यक्षतोऽनुपलभ्यमानस्यापि मोक्षकार्यस्यानु- मानादस्तित्वमभ्युपेत्य प्रतिनियतमोक्षकारणेषु प्रयतन्ते । किञ्च, २५आगमात्तत्प्रतिपत्तेः । ११ । प्रत्यक्षतोऽनुपलभ्यमानोऽपि मोक्षः आगमादस्तीति निश्चीयते । कथम् ? सूर्याचन्द्रमसोर्ग्रहणवत् । १२ । यथा सूर्याचन्द्रमसोर्ग्रहणममुष्यां वेलायाम् अमुना वर्णेन अमुना दिग्विभागेन सर्वग्रासि नवेत्येवमादि सांवत्सरैरप्रत्यक्षमपि आगमाज्ज्ञायते तथा मोक्षोऽपीति । किञ्च, ३०स्वसमयविरोधात् । १३ । ‘अप्रत्यक्षत्वात् मोक्षो नास्ति’ इति यस्य मतं तस्य स्व- समयविरोधो भवति । सर्वे हि समयवादिनो मोक्षादीनर्थानप्रत्यक्षानभिवाञ्छन्ति । बन्धकारणानिर्देशादयुक्तमिति चेत्; न; मिथ्यादर्शनादिवचनात् । १४ । स्यादेतत् — अन्यत्र ३ बन्धकारणनिर्देशः कृतः *“विपर्ययाद् बन्धः”[सांख्य काº ४४] इत्यादिः, इह तु न कृतः, ततो मोक्षकारणनिर्देशस्यायुक्तिरिति; तन्न; मिथ्यादर्शनादिवचनात् । वक्ष्यते एतत् — *“मिथ्या- दर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः । ”[तº सूº८ । १] इति । बन्धपूर्वकत्वान्मोक्षस्य प्राक् तत्कारणनिर्देश इति चेत्; न, आश्वासनार्थत्वात् । १५ । ०५स्यादारेका — प्राङ्मोक्षकारणनिर्देशाद् बन्धकारणनिर्देशो न्याय्यः यतो बन्धपूर्वको मोक्ष इति; तन्न; आश्वासनार्थत्वात् । कथम् ? बन्धनबद्धवत् । १६ । यथा काराबन्धनबद्धः प्राणी बन्धकारणश्रवणाद् बिभेति मोक्ष- कारणश्रवणादाश्वसिति, तथा अनादिसंसारकारावरुद्ध आत्मा प्रथममेव बन्धकारण- श्रवणात् मा भैषीत् मोक्षकारणश्रवणाच्च कथमाश्वासं यायादिति प्रथमं बन्धकारणमनुक्त्वा १०मोक्षकारणोपदेशः कृतः । किञ्च, मिथ्यावादिप्रणीतमोक्षकारणनिराकरणार्थं वा । १७ । मिथ्यावादिप्रणीतैकद्विमोक्ष- कारणनिराकरणार्थोऽयमार्हतो मोक्षकारणनिर्देश आदौ कृतः, ‘त्रयमेतत् संगतं मोक्षमार्गो नैकशो द्विशो वा’ इति । अतो विपर्ययमात्रप्रभवां संसारप्रक्रियां परिकल्प्य ज्ञानविशेषात्तद्विनिवृत्तिरित्येवमा- १५द्यनेकमिथ्यावादिप्रणीतमतनिवृत्तये त्रैविध्यविजृम्भितमोक्षकारणप्रदर्शनार्थमाह — सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः ॥ १ ॥ इति । अपरे ‘आरातीयपुरुषशक्त्यपेक्षत्वात्सिद्धान्तप्रक्रियाऽऽविष्करणार्थं मोक्षकारणनिर्देशसम्ब- न्धेन शास्त्रानुपूर्वीं रचयितुमन्विच्छन् इदमवोचत्’ इत्याचक्षते । नात्र शिष्याचार्य्यसम्बन्धो विवक्षितः । किन्तु संसारसागरनिमग्नानेकप्राणिगणाभ्युज्जिहीर्षां प्रत्यागूर्णः ‘अन्तरेण मोक्ष- २०मार्गोपदेशं हितोपदेशो दुःष्प्रापः’ इति निश्चित्य मोक्षमार्गं व्याचिख्यासुरिदमाह । प्रणिधानविशेषाहितद्वैविध्यजनितव्यापारं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् । १ । प्रणिधा- नम् उपयोगः परिणामः इत्यनर्थान्तरम् । येनार्थोऽर्थान्तराद्विशेष्यते यो वाऽर्थान्तरग- तात्पर्यायाद् विशिष्यते स विशेषः, विशिष्टिर्वा विशेषः, प्रणिधानमेव विशेषः प्रणिधान- विशेषः, प्रणिधानस्य वा विशेषः प्रणिधानविशेषः । आहितम् आत्मसात्कृतं परिगृहीतम् इत्य- २५नर्थान्तरम् । विधयुवतगतप्रकाराः समानार्थाः । निसर्गाधिगमभेदाद् द्वौ विधावस्येति द्विविधम्, द्विविधस्य भावः कर्म वा द्वैविध्यम् । प्रणिधानविशेषेणाहितं प्रणिधानविशेषाहितम् । प्रणि- धानविशेषाहितं द्वैविध्यमस्य प्रणिधानविशेषाहितद्वैविध्यम् । जनितः प्रादुर्भावितः, व्यापृति- र्व्यापारः अर्थप्रापणसमर्थः क्रियाप्रयोगः । जनितो व्यापारोऽस्य जनितव्यापारम् । कश्चास्य व्यापारः ? इह अन्तर्दर्शनमोहोपशमक्षयक्षयोपशमपर्यायपरिणामाद् बाह्यपरिणामकारणापा- ३०दिताद् आत्मनो जीवादिपदार्थविचारविषयोऽधिगमो निसर्गश्च व्यापारः । प्रणिधानविशेषा- ४ हितद्वैविध्यमेव जनितव्यापारं प्रणिधानविशेषाहितद्वैविध्यजनितव्यापारं तत्त्वार्थश्रद्धानं सम्य- ग्दर्शनम् । अस्यार्थ उत्तरत्र वक्ष्यते । नयप्रमाणविकल्पपूर्वको जीवाद्यर्थयाथात्म्यावगमः सम्यग्ज्ञानम् । २ । नयौ च प्रमाणे च नयप्रमाणानि, तेषां विकल्पाः नयप्रमाणविकल्पाः । द्वौ नयौ द्रव्यार्थिकः पर्यायार्थिकश्च, द्वे प्रमाणे ०५प्रत्यक्षं परोक्षं च, तेषां विकल्पा नैगमादयो मत्यादयश्च वक्ष्यन्ते । पूर्वशब्दस्तत्कारणवाची । नयप्रमाणविकल्पपूर्वको नयप्रमाणविकल्पहेतुक इत्यर्थः । येन येन प्रकारेण जीवादयः पदार्था अवस्थिताः तेन तेनावगमः जीवाद्यर्थयाथात्म्यावगमः सम्यग्ज्ञानम् । मोहसंशयविपर्यय- निवृत्त्यर्थं सम्यग्विशेषणम् । संसारकारणविनिवृत्तिं प्रत्यागूर्णस्य ज्ञानवतो बाह्याभ्यन्तरक्रियाविशेषोपरमः सम्यक्- १०चारित्रम् । ३ । संसारः पञ्चविधः द्रव्यक्षेत्रकालभवभावपरिवर्तनभेदात् । तस्य कारणं कर्म अष्टविधम्, तस्य विशेषेणात्यन्तिकी निवृत्तिः संसारकारणविनिवृत्तिः, तां प्रत्यागूर्णस्योद्य- तस्य, ज्ञानवत इति प्रशंसायां मतुः, यथा रूपवानिति प्रशंसायुक्तस्य सत्ता कथ्यते । नहि कस्य- चिद्रूपं नास्ति, प्रशस्तं तु नास्ति, तथा ज्ञानमस्यास्तीति ज्ञानवानिति प्रशंसायुक्तस्य सत्ता कथ्यते । न कस्यचिज्ज्ञानं नास्ति सर्व एवात्मा ज्ञानवान् चैतन्यात्, मिथ्यादर्शनोदये विपरीतार्थ- १५ग्राहित्वात् मिथ्यादृष्टिरज्ञः, तदभावे याथात्म्येनार्थविभावनात् सम्यग्दृष्टिः प्रशस्तज्ञानः, तस्य ज्ञानवतः । क्रिया क्रियान्तराद्विशिष्यते येन स विशेषः, विशिष्टिर्वा विशेषः । स द्विविधो बाह्य आभ्यन्तरश्चेति । बाह्यो वाचिकः कायिकश्च बाह्येन्द्रियप्रत्यक्षत्वात्, आभ्यन्तरो मानसः छद्मस्थाप्रत्यक्षत्वात्, तस्योपरमः सम्यक्चारित्रमित्युच्यते । स पुनः परमोत्कृष्टो भवति वीतरागेषु यथाख्यातचारित्रसंज्ञकः । आरातीयेषु संयतासंयतादिषु सूक्ष्मसाम्परायि- २०कान्तेषु प्रकर्षाप्रकर्षयोगी भवति । ज्ञानदर्शनयोः करणसाधनत्वं कर्मसाधनश्चारित्रशब्दः । ४ । ज्ञानं दर्शनमिति करण- साधनावेतौ शब्दौ, *“करणाधिकरणयोः”[जैनेº २ । ४ । ९९] इति युटो विधानात् । कर्मसाधन- श्चारित्रशब्दः *“भूवदिगृभ्यो णित्रश्चरेर्वृत्ते”[उणादिº४ । १७७–७८] इति कर्मणि विधानात् । ज्ञानदर्शनशक्तिविशेषशुद्धिसन्निधाने जीवादीनर्थानात्मा जानाति पश्यति वा येन तज्ज्ञानं दर्शनं २५च । चारित्रमोहोपशमक्षयक्षयोपशमसद्भावे चर्यते तदिति चारित्रम् । कर्तृकरणयोरन्यत्वादन्यत्वमात्मज्ञानादीनां परश्वादिवदिति चेत्; न; तत्परिणामाद- ग्निवत् । ५ । स्यादारेका — ज्ञानदर्शनयोरात्मद्रव्यादन्यत्वम्, कस्मात् ? दृष्टत्वात् देवदत्तपर- शुवदिति; तन्न; कि कारणम् ? तत्परिणामादग्निवत् । यथा बाह्यद्रव्यादिपञ्चतयहेतुसन्निधाने सति आभ्यन्तरपरिणामवशात् तेजस्कायिकनामकर्मोदयाविर्भावितौष्ण्यपर्याय आत्मा ५ तत्परिणामादग्निव्यपदेशभाग् भवति, स एवम्भूतनयवक्तव्यतया उष्णपर्यायादनन्यः, तथा एवम्भू- तनयवक्तव्यवशाज् ज्ञानदर्शनपर्यायपरिणत आत्मैव ज्ञानं दर्शनं च तत्स्वाभाव्यात् । अतत्स्वाभाव्येऽनवधारणप्रसङ्गोऽग्निवत् । ६ । यथा अग्निरुष्णपर्यायेणान्यद्रव्यासाधारणेना- वधार्यते ‘अयमग्निः’ इति, स चेत्तत्स्वभावो न भवेत् प्रतिविशिष्टासाधारणपर्यायाभावादग्नेरनव- ०५धारणप्रसङ्गः । तथा आत्मनोऽपि ज्ञानादन्यत्वेऽनवधारणम्, यतोऽयमन्यद्रव्यासाधारणज्ञान- पर्यायः तत्स्वभावात्, ततोऽनन्यो द्रव्यार्थादेशात् । स चेन्न ज्ञानस्वभावः सत्येवमज्ञः स्यात्, ततश्चास्यानवधारणप्रसङ्गः । अर्थान्तरात् संप्रत्यय इति चेत्; न; उभयासत्त्वात् । ७ । स्यादेतत् — अन्यत्वे सत्यपि नानवधार- णम् । कुतः ? यस्मादर्थान्तरात् संप्रत्ययः नीलीद्रव्यसम्बन्धाच्छाटीपटकम्बलादिषु नीलसम्प्रत्य- १०वत् । यथा अर्थान्तरभूतेन नीलीद्रव्येण सम्बद्धत्वाच्छाटीपटकम्बलादिषु नीलसम्प्रत्ययः तथा अर्थान्तरभूतोष्णगुणसमवायादुष्णोऽग्निः, आत्माचार्थान्तरभूतज्ञानगुणसमवायाज्ज्ञ इति; तन्न; किं कारणम् ? उभयासत्त्वात् । दण्डदण्डिवत् । यथा दण्डसम्बन्धात् प्राग्दण्डी जात्यादिभिर्लक्षणैः स्वतः सिद्धत्वात् सन्, दण्डोऽपि प्राग्दण्डिसम्बन्धाद्वृत्तद्राघिमादिना लक्षणेन स्वतः सिद्धत्वात् सन्, अतो दण्डयोगाद्दण्डीत्येतन्न्याय्यम्, तथा नीलद्रव्ययोगाच्छाट्यादि नीलमित्येतन्न्याय्यम्, १५तथोष्णगुणयोगान्न प्रागग्नेरन्यद्विशेषलक्षणं सद्भावस्य प्रख्यापकमस्तीति असन्नग्निः, उष्ण- स्यापि प्रागग्नियोगादसत्त्वं निराश्रयगुणाभावात् । न चासतोः सम्बन्धो दृष्ट इष्टो वा । आत्म- नोऽपि ज्ञानगुणयोगात् प्रागसत्त्वं विशेषलक्षणाभावात् । ज्ञानस्याप्यात्मद्रव्यसंबन्धात् प्रागसत्त्वं निराश्रयगुणाभावात् । नचासतोः सम्बन्धो दृष्ट इष्टो वा । तस्मादुभयासत्त्वान्नार्थान्तरात् संप्रत्ययः । किञ्च, २०उभयथाप्यसद्भावात् । ८ । कथम् ? सर्वासद्वादिवत् । ९ । इदमसित्वं प्रष्टव्यः — उष्णगुणोगात् प्रागग्ना उष्ण इति ज्ञानं स्याद्वा, न वेति ? यदि प्रागुष्णगुणयोगादग्नावुष्ण इति ज्ञानं स्यात्; कैमर्थक्यादुष्णगुणयोगः प्रार्थ्यते ? अथ नास्ति; अतोऽप्युष्णज्ञानाभावात्, अनुष्णस्वभावस्याग्नेः उष्णगुणयोगादुष्ण इति व्यपदेशाभावः । किञ्च, २५अनवस्थाप्रतिज्ञाहानिदोषप्रसङ्गात् । १० । कथम् ? सर्वसत्प्रतिपक्षवादिवत् । ११ । यथा यद्युष्णगुणयोगादग्निरुष्णः; अथोष्णगुणः, केन योगादुष्णः ? स्वभावादिति चेत्; अग्नौ कोऽपरितोषः ? उष्णत्वादुष्णगुणस्योष्णत्व- मिति चेत्; उष्णत्वस्योष्णत्व कुतः ? स्वत एवेति चेत्; अग्नौ कोऽपरितोषः ? अथाग्नेरुष्णत्वं स्वत एव मासिधदिति उष्णत्वस्याप्यन्यदुष्णत्वमस्ति तस्याप्यन्यदित्यनवस्था । ३०अथानवस्था माभूदिति स्वत एवोष्णत्वस्योष्णत्वम्, ननु प्रतिज्ञाहानिः ‘अर्थान्तरात् संप्रत्ययः’ इति । तथा यदि ज्ञानगुणयोगादात्मा ज्ञः, अथ ज्ञानगुणः केन योगात् ? स्वभावादिति चेत्; आत्मनि कोऽपरितोषः । ज्ञानत्वाज्ज्ञानगुणस्य ज्ञानव्यपदेश इति चेत्; ज्ञानत्वस्य ज्ञानत्वं कुतः ? स्वत एवेति चेत्; आत्मनि कोऽपरितोषः ? अथात्मनो ज्ञत्वं स्वत ६ एव मासिधदिति ज्ञानत्वस्याप्यन्यज्ज्ञानत्वमस्ति तस्याप्यन्यत् तस्याप्यन्यदित्यनवस्था । अथानवस्था माभूदिति स्वत एव ज्ञानत्वस्य ज्ञानत्वमिष्टं ननु प्रतिज्ञाहानिः ‘अर्थान्तरात् संप्रत्ययः’ इति । किञ्च, तत्परिणामाभावात् । १२ । यथा दण्डसंबन्धेऽपि दण्डिनो न दण्डपरिणामः दण्डि- ०५व्यपदेशमात्रप्रतिलम्भात्, तथा उष्णगुणस्योष्णत्वसामान्यविशेषसंबन्धे नोष्णत्वं गुण-सामान्य- विशेषपदार्थभेदात्, अत ‘उष्णत्ववानुष्णगुणः’ इत्यासक्तं न तु ‘उष्णः’ इति । तथोष्णगुणसंबन्धेऽ- प्यग्नेर्नोष्णत्वं द्रव्य-गुणपदार्थभेदात्, अत ‘उष्णवानग्निः’ इत्यासक्तं न तु स्वयम् ‘उष्णः’ इति । समवायादिति चेत्; न; प्रतिनियमाभावात् । १३ । स्यान्मतम् — समवायो नामायुतसिद्ध- लक्षणः संबन्ध इहेदंबुद्ध्यभिधानप्रवृत्तिहेतुः तेनैकत्वमिव नीतानां व्यपदेशो भवति — उष्णत्व- १०समवायादुष्णो गुणः, उष्णगुणसमवायाच्चाग्निरुष्ण इति; तन्न; कुतः ? प्रतिनियमाभावात् । उष्णत्वोष्णगुणयोः अग्न्युष्णयोश्चान्यत्वे कोऽयं प्रतिविशिष्टो नियमो यदुष्णगुणस्याग्नावेव समवायो नाप्सु, शीतगुणस्य चाप्स्वेव समवायो नाग्नौ । उष्णत्वस्य चोष्णगुणेनैव समवायो न शीतादिगुणान्तरेणेति । तद्येन विशेषेणायं प्रतिनियम इष्यते न तं पश्यामः । अत एव द्रव्य- परिणाम एवौष्ण्यमिति सिद्धं नान्यस्तत्प्रतिनियमहेतुरस्ति । स्वभावो हेतुरिति चेत्; तत एव १५तत्परिणामसिद्धिः । किञ्च, समवायाभावो वृत्त्यन्तराभावात् । १४ । नास्ति तत्परिकल्पितः समवायः । कुतः ? वृत्त्यन्त- राभावात् । यथा गुणादीनां पदार्थानां द्रव्ये समवायसंबन्धाद्वृत्तिरिष्टा तथा समवायः पदार्थान्तरं भूत्वा केन संबन्धेन द्रव्यादिषु वर्त्स्यति समवायान्तराभावात् ? एक एव हि समवायः *“तत्त्वं भावेन व्याख्यातम्”[वैशेº ७ । २ । २८] इति वचनात् । न च संयोगेन वृत्तिः युतसिद्ध्यभावात्, २०युतसिद्धानामप्राप्तिपूर्विका प्राप्तिः संयोगः । न चान्यः संबन्धः संयोगसमवायविलक्षणोऽस्ति येन समवायस्य द्रव्यादिषु वृत्तिः स्यात् । अतः समवायिभिरनभिसंबन्धात् नास्तिंखरविषाणवत् समवायः । प्राप्तित्वात् प्राप्त्यन्तराभाव इति चेत्; न; व्यभिचारात् । १५ । स्यान्मतम् — द्रव्यादीनि प्राप्ति- मन्ति अतस्तेषां यया कयाचित् प्राप्त्या भवितव्यम्, समवायस्तु प्राप्तिर्न प्राप्तिमान्, अतः प्राप्त्य- २५न्तराभावेऽपि स्वत एव प्राप्नोतीति; तच्च न; कस्मात् ? व्यभिचारात् । यथा संयोगः प्राप्ति- रपि सन् प्राप्त्यन्तरेण समवायेन वर्तते तथा समवायस्यापि स्यादिति । प्रदीपवदिति चेत्; न; तत्परिणामादनन्यत्वसिद्धेः । १६ । स्यादेतत् — यथा प्रदीपः प्रदीपान्तर- मनपेक्षमाण आत्मानं प्रकाशयति घटादींश्च, तथा समवायः संबन्धान्तरापेक्षामन्तरेणात्मनश्च द्रव्यादिषु वृत्तिहेतुर्द्रव्यादीनां च परस्परत इति; तन्न; कुतः ? तत्परिणामादनन्यत्वसिद्धेः । ३०यथा प्रदीपः स्वयं प्रकाशपरिणामात् प्रकाशात्मनोऽनन्यः प्रकाशान्तरं नापेक्षते, अन्यथा प्रका- शात्मनोऽन्यत्वे प्रदीपस्याप्रदीपत्वप्रसङ्गः, यतो न प्रकाशात्मानं प्रोज्झ्यान्यः प्रदीपोस्ति, तथा न द्रव्यादन्ये गुणकर्मसामान्यविशेषसमवायाः सन्ति द्रव्यस्यैवोभयपरिणामकारणापेक्षस्य गुणः कर्म ७ सामान्यं विशेषः समवाय इत्येवमादिपर्यायान्तरेण परिणामः । यथा प्रदीपः स्वलक्षणप्रसिद्धो घटादिभ्योऽन्यो नैवं समवायः स्वलक्षणप्रसिद्धः द्रव्यादन्योऽस्ति, द्रव्यस्यैव गुणादि-पर्याय- परिणामात् । तस्मान्न प्रदीपवत् समवायसिद्धिः । अन्यथा च द्रव्यादन्यत्वे गुणादीनां द्रव्यस्या- द्रव्यत्वप्रसङ्गो यतो न गुणादिपर्यायान् प्रोज्झ्यान्यद् द्रव्यमस्ति । यदि वा गुणादीन् प्रोज्झ्य द्रव्यं ०५केनचिदन्येन स्वविशेषेण प्रसिद्धं यद् गुणादिभिः सम्बध्यते स विशेष उच्यताम् ? यतो न गुणादिपरित्यागेनान्यो द्रव्यस्य विशेषः स्वतः प्रसिद्धोऽस्ति । अतो द्रव्यपरिणामा एव गुणादय इति सिद्धम् । किञ्च, विशेषविज्ञानाभावात् । १७ । यस्य युतायुतसिद्धार्थग्राहकं विज्ञानमेकमस्ति तस्य अयुत- सिद्धानां समवायः युतसिद्धानां संयोग इति स्याद्विशेषविज्ञानम्, भवतस्तु क्षणिकैकार्थविष- १०यत्वाज्ज्ञानानां तद्विशेषविज्ञानाभावः, तदभावात्तद्विवेकाभावः । संस्कारादिति चेत्; न; तस्यापि तादात्म्यात् । १८ । स्यादेतत् — ज्ञानजो ज्ञानहेतुश्च संस्कारो- ऽस्ति, तस्यादः सामर्थ्यमिति; तन्न; कुतः ? तस्यापि तादात्म्यात् । एकार्थग्राहिज्ञानजस्य संस्कारस्य चैकार्थग्राहिज्ञानहेतुत्वात्, अनेकार्थग्राहिज्ञानाभावाच्चानेकार्थग्राहिज्ञानसंस्काराभावः, तस्मात् पूर्वोक्तो दोषस्तदवस्थ एव । १५अथवा, अयमर्थः — ‘कर्तृकरणयोरन्यत्वादन्यत्वमात्मज्ञानादीनां परश्वादिवदिति चेत्; न; तत्परिणामादग्निवदिति । यथा अग्निरग्निस्वभावादन्यो दहन् — दाहक्रियायाः कर्ता । किंकरणो दहति ? तत्परिणामादग्न्यात्मैव करणम्, तथा आत्मा ज्ञस्वभावत्वात् ज्ञानादन्यः, तत्परिणामादर्थान् जानन् ज्ञानक्रियायाः कर्ता । किंकरणो जानाति ? तत्परिणामात् तदेव ज्ञानं करणत्वेन विवक्ष्यते । अन्यथा चाऽतत्स्वाभाव्ये अनवधारणप्रसङ्गोऽग्निवत्’ इत्येवमादि- २०वाक्यार्थविवरणं दहनस्वभावापेक्षया योज्यम् । किञ्च, अनेकान्तात् पर्यायपर्यायिणोरर्थान्तरभावस्य घटादिवत् । १९ । यथा घटकपालशकलशर्क- रादीनां नयद्वयार्पणाभेदात् स्यादेकत्वं स्यादन्यत्वम् । कथम् ? इह पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् पर्यायार्थानर्पणात् मृद्रूपद्रव्याजीवानुपयोगादिद्रव्यार्थार्पणात् स्यादेकत्वम्, यतो घटकपालादयो मृद्रूपद्रव्यार्थं न जहति । तेषामेव द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्याद् २५द्रव्यार्थानर्पणात् कारणविशेषापादितभेदपर्यायार्थार्पणात् स्यादन्यत्वम्, यतोऽन्यो घटपर्यायः अन्यश्च कपालादिपर्यायः, तथा मृदो घटादिपर्यायाणां च स्यादेकत्वं स्यादन्यत्वम् । कथम् ? तत्परिणामात् स्यादेकत्वम्, यतो मृद्रूपमेव उभयपरिणामकारणवशाद् घटकपालादिपर्याय- परिणतं तद्व्यपदेशभाग् भवति, नान्या मृत् नान्ये घटादयो मृद्रूपव्यतिरिक्तघटादिपर्यायाभावात् । पर्यायि-पर्यायभेदाच्च स्यादन्यत्वम्, यतः पर्यायि मृद्द्रव्यं पर्याया घटादयः । तथा आत्मनोऽपि ३०ज्ञानादिपर्यायाणां च स्यादेकत्वं स्यान्नानात्वम् । कथम् ? पर्यायार्थिकगुणभावे द्रव्यार्थिक- प्राधान्यात् पर्यायार्थानर्पणात् अनादिपारिणामिकचैतन्यजीवद्रव्यादिद्रव्यार्थार्पणात् स्यादे- कत्वम्, यतो ज्ञानादयोऽनादिपारिणामिकचैतन्यजीवद्रव्यादिद्रव्यार्थं न जहति । तेषामेव द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्याद् द्रव्यार्थानर्पणात् कारणविशेषापादितभेदपर्यायार्थार्प- णात् स्यादन्यत्वम्, यतोऽन्यो ज्ञानपर्यायोऽन्ये च दर्शनादिपर्यायाः, तथा आत्मनो ज्ञानादिपर्या- ८ याणां च स्यादेकत्त्वं स्यादन्यत्वम् । कथम् ? तत्परिणामादेशात् स्यादेकत्वम्, यत आत्मैवोभय- परिणामकारणवशात् ज्ञानादिपर्यायपरिणतो ज्ञानादिव्यपदेशभाग् भवति, नान्य आत्मा नान्ये ज्ञानादयः आत्मद्रव्यव्यतिरिक्तज्ञानादिपर्यायाभावात् । पर्यायिपर्यायभेदाच्च स्यादन्यत्वम्, यतः पर्यायी आत्मा पर्याया ज्ञानादयः । तस्मादेकत्वान्यत्वं प्रत्यनेकान्तोपपत्तेः तत्परिणामत्वेऽपि ०५करणभावो युक्तः । इतरथा हि एकार्थपर्यायादन्यत्वप्राप्तिर्वृक्षवत् । २० । यस्यैकान्तिकं कर्तृकरणयोरन्यत्वं तस्यैकार्थपर्यायादन्यत्वं प्राप्तम् । कथम् ? वृक्षवत् । यथा ‘प्रासादं करोति परश्वादिभिः’ इत्यत्र कर्तृकरणयोरन्यत्वं तथा ‘भज्यते वृक्षः शाखाभारेण’ इत्येकस्य वृक्षस्य शाखाभारार्थपर्यायाद- न्यत्वं प्राप्तम्, न चादोऽस्ति, यतो न शाखाभारादृते अन्यो वृक्षः । न च शाखाभारादन्यो वृक्षो न १०भवतीति ‘भज्यते वृक्षः शाखाभारेण’ इति एकार्थपर्यायात्मकः करणनिर्देशो न भवति ? तथा नात्मद्रव्यादृते अन्यज्ज्ञानम् । न चात्मद्रव्यादृते नान्यज्ज्ञानमिति ‘जानात्यनेनार्थानात्मा’ इत्ये- कार्थपर्यायात्मकं करणं न भवति ? किञ्च, करणस्योभयथोपपत्तेर्द्रव्यस्य मूर्तिमदमूर्तिभेदवत् । २१ । यथा द्रव्यस्य मूर्तिमदमूर्ति- भेदादेकान्तपरिग्रहो नास्ति — पुद्गलद्रव्यं मूर्तिमत्, धर्माधर्माकाशकाला अमूर्तयः, आत्मा चामूर्तिः १५द्रव्यार्थादेशात् न पर्यायार्थादेशात्, ‘तस्यानादिकार्मणशरीरसंबन्धात् । तथा करणं द्वेधा — विभक्ता- ऽविभक्तकर्तृकभेदात् । कर्तुरन्यद्विभक्तकर्तृकं यथा ‘परशुना छिनत्ति देवदत्तः’ इति । कर्तुर- नन्यदविभक्तकर्तृकं यथा ‘अग्निरिन्धनं दहत्यौष्ण्येन’ इति । तथा ‘आत्मा ज्ञानेनार्थान् जानाति’ इत्यविभक्तकर्तृकं करणम् । किञ्च, दृष्टान्ताच्च कुशूलस्वातन्त्र्यवत् । २२ । यथा ‘भिनत्ति कुशूलं देवदत्तः’ इत्यत्र कुशूलो यदा २०भिदिक्रियायाः सुकरतया स्वातन्त्र्येण विवक्षितः स्वयमेवात्मानं भिनत्ति इति, तदा ‘किं करणोऽ- सावात्मानं भिनत्ति’ इति विवक्षायां कुशूलात्मैव करणत्वेनोपादीयते । तथा आत्मैव ज्ञाता करणं च भवति । किञ्च, एकार्थपर्यायविशेषोपपत्तेरिन्द्रादिव्यपदेशवत् । २३ । इहैकस्यार्थस्य अनेकपर्यायविशेषो- पपत्तिर्दृष्टा । न चास्य तेभ्यः पर्यायेभ्योऽन्यत्वम् । कथम् ? इन्द्रादिव्यपदेशवत् । यथैकस्य २५देवराजार्थस्य इन्द्रशक्रपुरन्दराद्यनेकव्यञ्जनपर्यायविशेषोपपत्तिः । नच देवराजस्य इन्द्रशक्र- पुरन्दरादिपर्यायेभ्योऽन्यत्वम् । न चानन्यत्वात् येनायमिन्द्रस्तेनैव शक्रः पुरन्दरो वा, येन वा शक्रस्तेनैवेन्द्रः पुरन्दरो वा, येन वा पुरन्दरस्तेनैवेन्द्रः शक्रो वा । कथम् ? इह यत इन्द्रादीनां प्रतिनियतव्यञ्जनपर्यायोपपत्तिः — इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात् पुरन्दर इति । न चेन्दनशकनपूर्दारणव्यञ्जनपर्यायभेदात् देवराज इन्द्रः शक्रः पुरन्दरो वा न भवति । ३०भवत्येव । तथैकस्य आत्मनो ज्ञानादिपर्यायविशेषोपपत्तिः, तस्मादेकार्थपर्यायविशेषोपपत्तेः नान्यत्वमात्मद्रव्यादेकान्तेन ज्ञानादिनाम् । कर्तृसाधनत्वाद्वा दोषाभावः । २४ । अथवा, नेमौ ज्ञानदर्शनशब्दौ करणसाधनौ । किं तर्हि ? कर्तृ साधनौ । तथा चारित्रशब्दोऽपि न कर्मसाधनः । किं तर्हि ? कर्तृसाधनः । कथम् ? एवम्भूत- नयवशात् । ज्ञानदर्शनचारित्राणि आत्मैवेष्टः, अतस्तत्परिणामाज्ज्ञानादिपरिणत आत्मैव ९ जानातीति ज्ञानम्, पश्यतीति दर्शनम्, चरतीति चारित्रम् । अतो य उक्तः — ‘कर्तृकरणयोरन्य- त्वादन्यत्वमात्मज्ञानादीनाम्’ इति दोषः; स न भवति । लक्षणाभाव इति चेत्; न; बाहुलकात् । २५ । स्यादेतत् — न लक्षणमस्ति कर्तरि युटो वि- धायकमिति; तन्न; कुतः ? बाहुलकात् *“युड् व्याबहुलम्”[जैनेº २ । ३ । ९४] इति कर्तरि ०५पुट् णित्रश्च यत्र विहिताः ततोऽन्यत्रापि दृश्यन्ते — त्या भावकर्मणोर्विहिताः करणादिष्वपि भवन्ति — स्नात्यनेन स्नानीयश्चूर्णः, ददात्यस्मै इति दानीयोऽतिथिः, समावर्तन्ते तस्मादिति समावर्तनीयो गुरुः । करणाधिकरणयोर्युडुक्तः कर्मादिष्वपि दृश्यते — निरदति तदिति निरदनम्, प्रस्कन्दति तस्मादिति प्रस्कन्दनम् । अथवा, भावसाधना ज्ञानादिशब्दाः तत्त्वकथनात् दात्रस्य करणव्यपदेशवत् । २६ । यथौदासीन्ये- १०नावस्थितमच्छिन्दत्तृणादि दात्रं करणमिति व्यपदिश्यते, तथौदासीन्येनावस्थितानि ज्ञान- दर्शनचारित्राणि प्रतिनियतज्ञानदर्शनचरणक्रियाव्यापारं प्रति निवृत्तौत्सुक्यानि कथ्यन्ते — कोऽसौ मोक्षमार्गः ? ज्ञानदर्शनचारित्राणि — ज्ञातिर्ज्ञानम्, दृष्टिर्दर्शनम्, चरणं चारित्रमिति । क्रियाव्या- पृतानां तु ज्ञानादीनां कर्त्रादिकारकव्यवहारः । व्यक्तिभेदादयुक्तमिति चेत्; न; एकार्थे शब्दान्यत्वाद् व्यक्तिभेदगतेः । २७ । स्यादेतत् — ‘ज्ञान- १५मात्मा’इत्ययुक्तम् । कस्मात् ? व्यक्तिभेदात्, अभिधेयवल्लिङ्गसंख्ये भवतोऽभिधानस्येति‘ज्ञान आत्मा’ इति प्राप्नोतीति; तन्न; किं कारणम् ? एकार्थे शब्दान्यत्वाद् व्यक्तिभेदगतेः — एक- स्मिन्नप्यर्थे शब्दभेदाद् व्यक्तिभेदा दृश्यन्ते, यथा ‘गेहं कुटी मठः, पुष्यः तारका नक्षत्रम्’ इति, एवं ‘ज्ञानमात्मा’ इत्यपि स्यात् । ज्ञानग्रहणमादौ न्याय्यं तत्पूर्वकत्वाद्दर्शनस्य । २८ । आह — इह ज्ञानग्रहणमादौ न्याय्यम् । २०कुतः ? तत्पूर्वकत्वाद्दर्शनस्य, यतः पदार्थतत्त्वोपलब्धिपूर्वकं श्रद्धानम् । अल्पाच्तरत्वाच्च । २९ । दर्शनात् ज्ञानमल्पाच्तरम्, अतश्च पूर्वं वाच्यम् । न; उभयोर्युगपत्प्रवृत्तेः, प्रकाशप्रतापवत् । ३० । नैष दोषः । कुतः ? उभयोर्युगपत्प्रवृत्तेः । कथम् ? प्रकाशप्रतापवत् । यथा सवितुर्घनपटलावरणविगमे प्रतापप्रकाशप्रवृत्तिर्युगपद् भवति तथा ज्ञानदर्शनयोर्युगपदात्मलाभः । तद्यथा — यदा दर्शनमोहस्योपशमात् क्षयोपशमात् क्षयाद्वा २५आत्मा सम्यग्दर्शनपर्यायेणाविर्भवति तदैव तस्य मत्यज्ञानश्रुताज्ञाननिवृत्तिपर्वकं मतिज्ञानं श्रुतज्ञानं चाविर्भवति । दर्शनस्यैवाभ्यर्हितत्वात् । ३१ । यदप्युक्तम् — ‘अल्पाच्तरत्वाज्ज्ञानस्य पूर्वनिपातः’ इति; तदसत्; कस्मात् ? दर्शनस्यैव अभ्यर्हितत्वात् । ज्ञानाद्दर्शनमेवाभ्यर्हितम्, दर्शनसन्निधाने सत्यज्ञानस्यापि ज्ञानभावात्, ज्ञात्वाप्यश्रद्दधतस्तदभावात् । ३०मध्ये ज्ञानवचनम्, ज्ञानपूर्वकत्वाच्चारित्रस्य । ३२ । यतो जीवादिपदार्थतत्त्वज्ञानसन्नि- धाने सति चारित्रमोहस्योपशमात् क्षयोपशमात् क्षयाद्वा कर्मादानहेतुक्रियाविशेषोपरमश्चारित्र- परिणामो भवति, ततश्चारित्रस्य ज्ञानपूर्वकत्वात् ज्ञानं पूर्वं प्रयुक्तम् । इतरेतरयोगे द्वन्द्वः, मार्गं प्रति परस्परापेक्षाणां प्राधान्यात् । ३३ । अयमितरेतरयोगे द्वन्द्वो दर्शनं च ज्ञानं च चारित्रं च दर्शनज्ञानचारित्राणीति । कुतः ? मार्गं प्रति परस्परापेक्षाणां ३५प्राधान्यात् । १० सर्वपदार्थप्रधानत्वाद् बहुवचनान्तः । ३४ । यथा प्लक्षन्यग्रोधपलाशा इति अस्त्यादिस- मानकालक्रियाणां प्लक्षादीनां परस्परापेक्षाणामितरेतरयोगे द्वन्द्वः सर्वपदार्थप्रधानत्वात् बहुवचनान्तः, तथा दर्शनज्ञानचारित्राणामस्त्यादिसमानकालक्रियाणां परस्परापेक्षाणामि- तरेतरयोगे द्वन्द्वः सर्वपदार्थप्रधानत्वाद् बहुवचनान्तः । यतस्त्रयाणामपि दर्शनादीनां सहितानां ०५परस्परापेक्षाणां मोक्षमार्गत्वं प्रति प्राधान्यं नैकस्य न द्वयोः । प्रत्येकं सम्यग्विशेषणपरिसमाप्तिर्भुजिवत् । ३५ । यथा ‘देवदत्तजिनदत्तगुरुदत्ता भोज्य- न्ताम्’ इति भुजिः प्रत्येकं परिसमाप्यते, तथा प्रशंसावचनस्य सम्यक्शब्दस्य प्रत्येकमभि- सम्बन्धो दर्शनादिभिः — सम्यग्दर्शनं सम्यग्ज्ञानं सम्यक्चारित्रमिति । पूर्वपदसामानाधिकरण्यात् तद्व्यक्तिवचनप्रसङ्ग इति चेत्; न; मोक्षोपायस्यात्मप्रधान- १०त्वात् । ३६ । स्यादेतद् — दर्शनादिभिः सामानाधिकरण्यात् तद्व्यक्तिवचने मोक्षमार्गस्य प्राप्नुत इति; तन्न; किं कारणम् ? मोक्षोपायस्य आत्मप्रधानत्वात् । यो मोक्षमार्गो मोक्षोपायस्तस्य आत्मा स्वभावः येनात्मना येन स्वभावेन मोक्षमार्ग उच्यते, स दर्शनज्ञानचारित्राणा सर्वेषाम- विशिष्ट एकः पुल्लिङ्गश्च तस्य प्राधान्यात् सत्यपि सामानाधिकरण्ये न तद्व्यक्तिवचन- प्राप्तिः, यथा ‘साधवः प्रमाणम्’ इति । १५आत्यन्तिकः सर्वकर्मनिक्षेपो मोक्षः । ३७ । ‘मोक्ष असने’ इत्येतस्य घञ् भावसाधनो मोक्षणं मोक्षः असनं क्षेपणमित्यर्थः, स आत्यन्तिकः सर्वकर्मनिक्षेपो मोक्ष इत्युच्यते । मृजेः शुद्धिकर्मणो मार्ग इवार्थाभ्यन्तरीकरणात् । ३८ । मृष्टः शुद्धोऽसाविति मार्गः, मार्ग इव मार्गः । क उपमार्थः ? यथा स्थाणुकण्टकोपलशर्करादिदोषरहितेन मार्गेण मार्गगाः सुखमभिप्रेत- स्थानं गच्छन्ति, तथा मिथ्यादर्शनाऽसंयमादिदोषरहितेन त्र्यंशेन श्रेयोमार्गेण सुखं मोक्षं गच्छन्ति । २०अन्वेषणक्रियस्य वा करणत्वोपपत्तेः । ३९ । अथवा, ‘मार्ग अन्वेषणे’ इत्यस्य मार्गः सिध्यति । कुतः ? सम्यग्दर्शनादीनां करणत्वोपपत्तेः । मोक्षो येन मार्ग्यते स मोक्षमार्ग इति । युक्त्यनभिधानादमार्ग इति चेत्; न; मिथ्यादर्शनाज्ञानासंयमानां प्रत्यनीकत्वादौषधवत् । ४० । स्यादेतत्, नात्र युक्तिरुक्ता — ‘सम्यग्दर्शनादित्रयमित्थं मोक्षमार्गः’ इति, अतोऽस्य मार्गत्वं नोपपद्यते इति; तन्न; किं कारणम् ? मिथ्यादर्शनाज्ञानासंयमानां प्रत्यनीकत्वात् । कथम् ? औषधवत् । २५यथा वातादिकारोद्भूतरोगाणां निदानप्रत्यनीकं स्निग्धरूक्षाद्यौषधमुच्छेदकारणम्, तथा मिथ्यादर्शनाज्ञानासंयमादीनां निदानप्रत्यनीकं सम्यग्दर्शनाद्यौषधमुच्छेदकारणम् । इति तत्त्वार्थवार्त्तिके व्याख्यानालङ्कारे प्रथमेऽध्याये प्रथममाह्निकम् ॥ १ ॥ ११ विपर्ययाद् बन्धस्यात्मलाभे सति ज्ञानादेव तद्विनिवृत्तेस्त्रित्वानुपपत्तिः । ४१ । अत्र कश्चि- दाह — विपर्ययाद् बन्धस्यात्मलाभो भवति तदभावात्तत्त्वज्ञाने सति बन्धविनिवृत्तिर्भवति । कार- णाभावाद्धि कार्याभाव इति । बन्धनिवृत्तिरेव च मोक्षः । अतो मोक्षमार्गस्य त्रित्वं नोपपद्यते । प्रतिज्ञामात्रमिति चेत्; न; सर्वेषामविसंवादात् । ४२ । स्यादेतत् — प्रतिज्ञामात्रमेतत् — ‘वि- ०५पर्ययाद् बन्धो भवति’ इति; तन्न; किं कारणम् ? सर्वेषामविसंवादात् । नात्र प्रवादिनो विसंवदन्ते । तद्यथा — ‘धर्मेण गमनम्’ इत्यादिवचनमेकेषाम् । ४३ । *“धर्मेण गमनमूर्ध्वम्”[सांख्यकाº ४४] भवति- अष्टसु ब्राह्म्यसौम्यप्राजापत्यैन्द्रगान्धर्वयक्षराक्षसपिशाचेषु । *“गमनमधस्ताद् भवत्यधर्मेण” अधर्मेण खलु षट्सु स्थानेषु मानुषपशुमृगमत्स्यसरीसृपस्थावरेषु गमनम् । *“ज्ञानेन चापवर्गो” १०यदास्य रजस्तमसोर्गुणभावात् सत्त्वस्य प्राधान्यात् प्रकृतिपुरुषान्तरपरिज्ञानमाविर्भवति तेनापवर्गः । *“विपर्ययादिष्यते बन्धः” योऽस्याव्यक्तमहदहङ्कारतन्मात्रसंज्ञास्वष्टासु प्रकृतिषु अनात्मीयासु आहङ्कारिकेषु वैकारिकेषु चेन्द्रियेषु आत्मत्वाभिमानः स विपर्ययः, तस्माद् बन्ध इत्येकेषां वचनम् । तथा अनात्मीयेष्वात्माभिमानविपर्ययात् तस्य शब्दाद्युपलब्धिरादिः गुणपुरुषान्तरोपल- १५ब्धिरन्तः । यावदस्याविभक्तः प्रत्ययः — श्रोत्रादीन्द्रियवृत्तिषु श्रवणादिषु ‘अहं श्रोता’ इत्येवमादिः, पाञ्चभौतिके च शिरःपाण्यादिसमूहे शरीरे ‘अहं पुरुषः’ इति प्रत्ययो भवति, तावदप्रतिबुद्ध- त्वात् संसारः । गुणपुरुषान्तरोपलब्धिरन्तः, यदा पुरुषवर्जंसर्वं प्रकृतिकृतं त्रिगुणमचेतनं भोग्य- मिति जानाति भोक्तारमकर्तारं चेतनं च पुरुषमन्यं प्रधानादवैति अचेतनांश्च गुणान् तदा तस्य गुणपुरुषान्तरोपलब्धिरन्तः संसारस्य । इति ज्ञानान्मोक्षो विपर्ययाद् बन्ध इत्येकेषाम् । २०इच्छाद्वेषाभ्यामपरेषाम् । ४४ । इच्छाद्वेषपूर्विका धर्माधर्मयोः प्रवृत्तिस्ताभ्यां सुखदुःखं तत इच्छाद्वेषौ । न च विमोहस्य तौ मिथ्यादर्शनाभावात् । मोहश्चाज्ञानम् । विमोहस्य यतेः षट्- पदार्थतत्त्वज्ञस्य वैराग्यवतः सुखदुःखेच्छाद्वेषाभावः, इच्छाद्वेषाभावाद्धर्माधर्माभावः, तदभावे संयोगाभावोऽप्रादुर्भावश्च, स मोक्षः, तयोर्धर्माधर्मयोरभावे भवत्यपवर्गः । कथम् ? प्रदी- पोपरमे प्रकाशाभाववत् । यद्धि यद्भावं प्रतीत्यात्मानं प्रतिलभते तत्तस्योपरमात्तिरोभावं २५याति तद्यथा प्रदीपोपरमात् प्रकाशाभावः । बन्धश्चादृष्टाद् भवति, कथम् ? अधर्मसंज्ञाददृष्टाद- ज्ञानं भवति, अज्ञानाच्च मोहः, मोहवत् इच्छाद्वेषौ जायेते, इच्छाद्वेषाभ्यां धर्माधर्मौ, स एष बन्धः, अतः संसारस्य प्रसूतिः । तस्माद् भवत्यदृष्टाभावे संयोगाभावः । कतरस्य संयोग- स्याभावः ? जीवनसंज्ञकस्य । धर्माधर्मापेक्षः सदेहस्यात्मनो मनसा संयोगो जीवनम्, तस्य धर्माधर्मयोरभावादभावोऽप्रादुर्भावश्च प्रत्यग्रशरीरस्यात्यन्तमभावः स मोक्षः । कथमभावो १२ धर्माधर्मयोः ? अनागतानुत्पत्ति-सञ्चितनिरोधाम्याम् । अनागतानुत्पत्तिः संचितनिरोधश्च द्विविधोऽभावः । तत्रानागतानुत्पत्तिस्तावत् धर्माधर्मयोः — शरीरेन्द्रियमनोव्यतिरिक्तात्मदर्शनाद् अकुशलस्याधर्मस्यानुत्पत्तिः तत्साधनानां पारवर्जनात्, धर्मस्यापि तत्साधनानामनभिसम्बन्धात्, नानभिसंहितं कर्म बध्नातीति । संचितनिरोधोऽपि — तदुद्वेगपरिखेदफलादधर्मनाशः, तस्मात् ०५संसारादुद्वेगः । शरीरतत्त्वांवलोकनात् शीतोष्णशोकादिनिमित्तं शरीरपरिखेदं प्रदाया- धर्मोऽतिरिच्यते । भोगदोषदर्शनात् षण्णां च पदार्थानां तत्त्वविनिर्णयात् प्रीतिमारभ्य धर्मस्य विनाशः, अतो मोक्ष इत्यपरेषां दर्शनम् । ‘दुःखादिनिवृत्तिः’ इत्यन्येषाम् । ४५ । *“दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावान्निःश्रेयसाधिगमः” [न्यायसूº १ । १ । २] इत्यन्येषां दर्शनम् । पाठं प्रत्युत्तरं मिथ्या- १०ज्ञानम् । सर्वेषामुत्तरस्य तत्त्वज्ञानान्निवृत्तौ यस्तदनन्तरोऽर्थस्तस्य निवृत्तिः । कश्चासौ ? दोषः, स हि मिथ्याज्ञानादनन्तरः तत्कार्यत्वात् । स चोत्तरः प्रवृत्तेः, प्रवृत्तिश्चानन्तरा तत्कार्य- त्वात्, ततो दोषाभावे प्रवृत्त्यभावः । प्रवृत्तिरप्युत्तरा जन्मनः, प्रवृत्तेरभावाज्जन्माभावः तत्कार्य- त्वात् । तथा जन्मोत्तरं दुःखात्, अतो जन्माभावाद् दुःखनिवृत्तिः । तन्निवृत्तौ च आत्यन्तिकः सुखदुःखानुपभोगो निःश्रेयसमिति । १५‘अविद्याप्रत्ययाः संस्काराः’ इत्यादिवचनं केषाञ्चित् । ४६ । अविद्या विपर्ययात्मिका, सर्व- १३ भावेष्वनित्यानात्माशुचिदुःखेषु नित्यसात्मकशुचिसुखाभिमानरूपा । तत्प्रत्ययाः संस्कारा इत्यादिवचनं केषाञ्चित् । के पुनस्ते संस्काराः ? रागादयः । ते च त्रिधापुण्यापुण्यानेज्य- संस्काराः, यत इदमुच्यते अविद्याप्रत्ययाः संस्काराः । वस्तुप्रतिविज्ञप्तिर्विज्ञानमिति । तत्र पुण्योपगानां संस्काराणां पुण्योपगमे च विज्ञानं भवति, अपुण्योपगानां संस्काराणामपुण्योपगमे ०५च विज्ञानं भवति, आनेज्योपगानां संस्काराणामानेज्योपगमे च विज्ञानं भवति, यत इदमुच्यते संस्कारप्रत्ययं विज्ञानम् । विज्ञानसंभूताश्चत्वारः स्कन्धा नाम, चत्वारि महाभूतानि रूपम्, नाम च रूपं च नामरूपमिति । यत इदमुच्यते विज्ञानप्रत्ययं नामरूपम् । नामरूपसन्निहि- तानीन्द्रियाणि षडायतनमिति । नामरूपवृद्ध्या षड्भिरायतनद्वारैः कृत्यं क्रिया च प्रजायते इति नामरूपप्रत्ययं षडायतनमुच्यते । त्रयाणां धर्माणां सन्निपातः स्पर्शः । केषाम् त्रयाणाम् ? १०विषयेन्द्रियविज्ञानानाम्, संगतिः स्पर्शः । षड्भ्य आयतनेभ्यः षट् स्पर्शकायाः प्रवर्तन्त इति षडायतनप्रत्ययः स्पर्शः । स्पर्शानुभवनं वेदना । यज्जातीयः स्पर्शो भवति तज्जातीया वेदना प्रवर्तत इतीदमुच्यते स्पर्शप्रत्यया वेदनेति । वेदनाध्यवसाना तृष्णा । यतस्तान् वेदनाविशेषा- नास्वादयत्यभिनन्दयत्यध्यवस्यति तृष्यति सा वेदनाप्रत्यया तृष्णोच्यते । तृष्णावैपुल्यमुपादानम् । सा मे प्रिया सानुरागेति भवेन्नित्यमपरित्यागो भूयो भूयश्च प्रार्थना, तदुच्यते तृष्णाप्रत्यय- १५मुपादानमिति । उपादाननिमित्तं पुनर्भवजनकं कर्म भवः, एवं प्रार्थयमानः पुनर्भवजनकं कर्म समुत्थापयति कायेन मनसा वाचा । तद्धेतुकः स्कन्धप्रादुर्भावो जातिः । जातिस्कन्धपरिपाको जरा । जात्यभिनिर्वृत्तानां स्कन्धानामपचयः परिपाकः, परिपाकाद्विनाशो भवति तन्मरणम् । तदेवजातिप्रत्ययं जरामरणमुच्यते । एवमयं द्वादशाङ्गः प्रतीत्यसमुत्पादोऽन्योन्यहेतुकः । तत्र सर्व- भावेष्वविपरीतदर्शनं विद्या । यत्सर्वभावेष्वनित्यानात्मकाशुचिदुःखेषु अनित्यानात्मकाशुचिदुःख- २०दर्शनं सा विद्या । ततो मोक्षः । कथम् ? अविद्याया विद्यातो निवृत्तिः, अविद्यानिवृत्तेः संस्कार- निरोधः, संस्कारनिरोधाद्विज्ञाननिरोधः, एवमुत्तरेष्वपीति । तदेवमविद्यातो बन्धो भवति विद्यातश्च मोक्ष इति । मिथ्यादर्शनादेरिति मतं भवताम् । ४७ । *“मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धहेतवः” [तº सूº८ । १] इति भवतामार्हतानामपि मतम् । पदार्थविपरीताभिनिवेशश्रद्धानं मिथ्या- २५दर्शनम्, विपरीताभिनिवेशश्च मोहात्, मोहश्चाज्ञानमित्यज्ञानाद् बन्धः । अतो मिथ्यादर्शनमा- दिर्बन्धस्य । सामायिकमात्रप्रतिपत्तेश्च *“अनन्ताः सामायिकमात्रसिद्धाः” इति वचनात्, सामायिकं च ज्ञानम्, अतः आर्हतानामपि ज्ञानान्मोक्ष इत्यविसंवादात् त्रितयमोक्ष मार्गकल्पना न युक्ता । किञ्च, दृष्टान्तसामर्थ्याद् वणिक्स्वप्रियैकपुत्रवत् । ४८ । तद्यथा वणिक् स्वप्रियैकपुत्रसदृशविग्रहं १४ गजेनावमृद्यमानं बालमुपलभ्यातिदुःखाभिभवमूर्च्छया गतप्राण इवाभवत्, विनिवृत्तकायादि- क्रियस्य चास्य कुशलसुहृद्भिरुपायपूर्वकं प्रत्याहितप्राणवृत्तेः स्वपुत्र एव दर्शनविषयमुपनीते ‘अयं मम पुत्रः’ इत्याविर्भूततत्त्वज्ञानस्य स्वपुत्रसादृश्योद्भूतमिथ्याज्ञानजनितं दुःखं तदभूतपूर्व- मिवाभवत् । एवमज्ञानाद् बन्धः केवलाच्च ज्ञानान्मोक्ष इति । ०५न वा नान्तरीयकत्वाद् रसायनवत् । ४९ । न वा एष दोषः । किं कारणम् ? नान्तरीयकत्वात्, नहि त्रितयमन्तरेण मोक्षप्राप्तिरस्ति । कथम् ? रसायनवत् । यथा न रसायनज्ञानादेव रसा- यनफलेन अभिसंबन्धः रसायनश्रद्धानक्रियाभावात्, यदि वा रसायनज्ञानमात्रादेव रसायनफल- संबन्धः कस्यचिद् दृष्टः सोऽभिधीयताम् ? न चासावस्ति । न च रसायनक्रियामात्रादेव; ज्ञानश्रद्धानाभावात् । न च श्रद्धानमात्रादेव; रसायनज्ञानपूर्वक्रियासेवनाभावात् । अतो रसा- १०यनज्ञानश्रद्धानक्रियासेवनोपेतस्य तत्फलेनाभिसंबन्ध इति निःप्रतिद्वन्द्वमेतत् । तथा न मोक्ष- मार्गज्ञानादेव मोक्षेणाभिसंबन्धो दर्शनचारित्राभावात् । न च श्रद्धानादेव; मोक्षमार्गज्ञानपूर्व- क्रियानुष्ठानाभावात् । न च क्रियामात्रादेव; ज्ञानश्रद्धानाभावात् । यतः क्रिया ज्ञानश्रद्धानरहिता निःफलेति । यदि च ज्ञानमात्रादेव क्वचिदर्थसिद्धिर्दृष्टा साभिधीयताम् ? न चासावस्ति । अतो मोक्षमार्गत्रितयकल्पना ज्यायसीति । ‘अनन्ताः सामायिकसिद्धाः’ इत्येतदपि त्रितयमेव १५साधयति । कथम् ? ज्ञस्वभावस्यात्मनस्तत्त्वं श्रद्दधानस्य सामायिकचारित्रोपपत्तेः । समय एकत्वमभेद इत्यनर्थान्तरम्, समय एव सामायिकं चारित्रं सर्वसावद्यनिवृत्तिरिति अभेदेन संग्रहादिति । उक्तञ्च — *“हतं ज्ञानं क्रियाहीनं हता चाज्ञानिनां क्रिया । धावन् किलान्धको दग्धः पश्यन्नपि च पङ्गुलः ॥ १ ॥ २०संयोगमेवेह वदन्ति तज्ज्ञा न ह्येकचक्रेण रथः प्रयाति । अन्धश्च पङ्गुश्च वने प्रविष्टो तौ संप्रयुक्तौ नगरं प्रविष्टौ ॥ २ ॥ ” इति । ज्ञानादेव मोक्ष इति चेत्; अनवस्थानादुपदेशाभावः । ५० । यस्य ज्ञानादेव मोक्षः तस्या- नवस्थानादुपदेशाभावः । यथा प्रदीपस्य तमोनिवृत्तिहेतुत्वात् प्रदीपे सति न मुहूर्तमपि तमोऽव- तिष्ठते । नह्येतदस्ति ‘प्रदीपश्च नाम ज्वलति तमश्चावतिष्ठते’ इति । तथा आत्मपरस्वरूपा- २५वबोधाविर्भावानन्तरमेव आप्तस्य मोक्षः स्यात् । न ह्येतद्युक्तिमत् ‘ज्ञानं च नाम मोक्षस्य कार- मस्ति न च मोक्षः’ इति । ततो ज्ञानानन्तरमेवाप्तस्य शरीरेन्द्रियवृत्त्यादिनिवृत्तेः प्रवचनोप- देशाभावः । संस्काराक्षयादवस्थानादुपदेश इति चेत्; न; प्रतिज्ञातविरोधात् । ५१ । स्यादेतत्यावदस्य- संस्कारा न क्षीयन्ते तावदवस्थानमित्युपदेश उपपन्न इति; तन्न; किं कारणम् ? प्रतिज्ञात- ३०विरोधात् । यद्युत्पन्नज्ञानोऽपि संस्कारक्षयापेक्षत्वादवतिष्ठते न मुच्यते, न तर्हि ज्ञानादेव मोक्षः । कुतः ? संस्कारक्षयात् । इति यत्प्रतिज्ञातम् — *“ज्ञानेन चापवर्गः”[सांख्यकाº ४४] इति तद्विरोधः । किञ्च, उभयथा दोषोपपत्तेः । ५२ । इदमिह संप्रधार्यम् — संस्कारक्षयस्य ज्ञानं वा हेतुः स्यात्, अन्यो वेति ? यदि ज्ञानम्; ननु ज्ञानादेव संस्कारनिरोध इति प्रवचनोपदेशाभावः । अथान्यः; स ३५कोऽन्यो भवितुमर्हति अन्यतश्चारित्रात्, इति पुनरपि प्रतिज्ञातविरोध इति । किञ्च, १५ प्रव्रज्याद्यनुष्ठानाभावप्रसङ्गश्च । ५३ । यदि ज्ञानादेव मोक्षः, ननु ज्ञान एव यत्नः कार्य्यः, शिरस्तुण्डमुण्डन-काषायाम्बरधारणादिलक्षणप्रव्रज्या-यम-नियम-भावनाद्यभावप्रसङ्गः स्यात् । ज्ञानवैराग्यकल्पनायामपि । ५४ । किम् ? ‘अवस्थानाभावादुपदेशाभावः’ इत्यादि । पदार्थपरिज्ञाने सति विषयानभिष्वङ्गलक्षणे च वैराग्य आप्तस्य तत्क्षण एव मोक्षोपपत्तेः । ०५किञ्च, नित्यानित्यैकान्तावधारणे तत्कारणासंभवः । ५५ । नित्या एवार्था अनित्या एव वेत्ये- कान्तावधारणे तत्कारणा सम्भवः तत्कारणस्य ज्ञानस्य वैराग्यस्य वाऽसंभवः । तद्यथा — नित्यत्वैकान्ते विक्रियाभावाद् ज्ञानवैराग्याभावः । ५६ । विक्रिया द्विविधा — ज्ञानादिवि- परिणामलक्षणा, देशान्तरसंक्रमरूपा च । येषां नित्य एवात्मा सर्वगतश्चेति दर्शनम्, तेषा- १०मुभय्यपि सा नास्ति । ततश्चतुष्टयत्रयद्वयसन्निकर्षजविज्ञानाभावाद् वैराग्यपरिणामाभावाच्च पूर्वापरकालतुल्यवृत्तेरात्मन आकाशस्येव मोक्षाभावः । समवायादिति चेत्; न; तस्य प्रत्याख्या- तत्वात् । क्षणिकैकान्तेऽप्यवस्थानाभावात् ज्ञानवैराग्यभावनाभावः । ५७ । येषां मतम् — *“क्षणिकाः सर्वसंस्काराः” इति; तेषामप्युत्पत्त्यनन्तरं विनाशे सति ज्ञानादीनामवस्थानं १५नास्ति । नच तेभ्योऽन्यदवस्थास्नु वस्तु विद्यते । अतस्तदभावाज्ज्ञानवैराग्यभावनाभावः । तत एवोत्पत्त्यनन्तरं निरन्वयविनाशाभ्युपगमात् परस्परसंश्लेषाभावे निमित्तनैमित्तिकव्यवहारा- पह्नवाद् ‘अविद्याप्रत्ययाः संस्काराः’ इत्येवमादि विरुध्यते । सन्तानादिकल्पनायां वा अन्यत्वा- नन्यत्वयोरनेकदोषानुषङ्गः । विपर्ययाभावः प्रागनुपलब्धः उपलब्धौ वा बन्धाभावः । ५८ । इह लोके प्रागनुभूतस्थाणु- २०पुरुषविशेषस्य प्रकाशाभावात् अभिभवात् करणक्लमाद्वा विशेषानुपलब्धौ विपर्ययो दृष्टः । न चावनितलभवनसंभूतस्य प्रागप्रतीततदन्तरस्य विपर्ययप्रत्ययो भवति । नच तथा अनादौ संसारेऽनभिव्यक्तशक्तेः पुरुषस्य गुणपुरुषान्तरोपलब्धिरस्ति, अतः प्रागनुपलब्धेर्नास्ति विपर्ययः । तथा सर्वभावेष्वनित्यानात्मकाशुचिदुःखेषु नित्यसात्मकशुचिसुखरूपेण विपर्ययो नास्ति, प्रागननुभूतविशेषत्वात् । यदि वा क्वचिदप्रसिद्धसामान्यविशेषस्य कस्यचिद्विपर्ययो २५दृष्टः सोऽभिधीयताम् ? न चोच्यते अतो विपर्ययाभावाद् बन्धाभावः । तत्र यदुक्तम् — ‘विपर्ययाद् बन्धः’ इति तद् व्याहन्यते । अथ प्राक् तद्विशषोपलब्धिरभ्युपगम्यते; ननु तदैव तद्धेतुकेन मोक्षेण भवितव्यमिति बन्धाभावः स्यात् । किञ्च, प्रत्यर्थवशवर्त्तित्वाच्च । ५९ । ‘विपर्ययाभावः’ इत्यनुवर्तते । येषां दर्शनं प्रत्यर्थवशवर्ति विज्ञानमिति तेषां पुरुषविषयं विज्ञानं न स्थाणुमवगृह्णाति, स्थाणुविषयं च यद्विज्ञानं न ३०तत्पुरुषमवबुध्यते, अतः परस्परविषयसंक्रमाभावान्न संशयो न विपर्ययः, तथा सर्वेषु पदार्थे- १६ ष्वनेकार्थग्रहणैकविज्ञानाभावात् असति विपर्यये बन्धाभावः । तत एव पदार्थविशेषानुपलब्धे- र्मोक्षाभावः । नह्येकार्थग्राहि विज्ञानं तदन्तरमवच्छिनत्ति । ज्ञानदर्शनयोर्युगपत्प्रवृत्तेरेकत्वमिति चेत्; न; तत्त्वावायश्रद्धानभेदात् तापप्रकाशवत् । ६० । स्यादेतद् — ज्ञानदर्शनयोरेकत्वम् । कुतः ? युगपत्प्रवृत्तेरिति; तन्न; किं कारणम् ? तत्त्वा- ०५वायश्रद्धानभेदात् । कथम् ? तापप्रकाशवत् । यथा तापप्रकाशयोर्युगपदात्मलाभेऽपि दाहद्योतनसामर्थ्यभेदान्नैकत्वम्, तथा ज्ञानदर्शनयोस्तत्त्वावायश्रद्धानभेदान्नैकत्वम् । तत्त्वस्य ह्यवगमो ज्ञानम्, श्रद्धानं दर्शनमिति । दृष्टविरोधाच्च । ६१ । यस्य मतं युगपदात्मलाभ एकत्वे हेतुरिति तस्य दृष्टविरोध आपद्यते । दृष्टं हि गोविषाणादीनां युगपदुत्पद्यमानानामपि नानात्वम् । १०उभयनयसद्भावे अन्यतरस्याश्रितत्वाद्वा रूपादिपरिणामवत् । ६२ । उभयनयसद्भावे अन्यतरस्याश्रितत्वाद्वा न दोषः । कथम् ? रूपादिपरिणामवत् । यथा परमाण्वादिपुद्गल- द्रव्याणां बाह्याभ्यन्तरपरिणामकारणापादिते युगपद् रूपादिपरिणामेऽपि न रूपादीनामेकत्वं तथा ज्ञानदर्शनयोरपि । अथवा, उभयनयसद्भावेऽन्यतरस्याश्रितत्वात् । यथा रूपादिपरिणामानां द्रव्यार्थिक- १५पर्यायार्थिकयोरन्यतरगुणप्रधानभावार्पणात् स्यादेकत्वं स्यान्नानात्वम् । कथम् ? इह पर्याया- र्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् पर्यायार्थानर्पणात् अनादिपारिणामिकपुद्गलद्रव्यार्थादेशात् स्यादेकत्वम्, यथा रूपपर्यायः पुद्गलद्रव्यं तथा रसादयोऽपि द्रव्यार्थादेशात् पुद्गलद्रव्यम् । तेषामेव द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् द्रव्यार्थानर्पणात् प्रतिनियतरूपादिपर्यायार्थे- नार्पितानां स्यादन्यत्वम्, यतोऽन्यो रूपपर्यायः अन्ये च रसादयः । तथा ज्ञानदर्शनयोरनेन २०विधिना अनादिपारिणामिकचैतन्यजीवद्रव्यार्थादेशात् स्यादेकत्वम्, यतो द्रव्यार्थादेशाद् यथा ज्ञानपर्याय आत्मद्रव्यं तथा दर्शनमपि । तयोरेव प्रतिनियतज्ञानदर्शनपर्यायार्थार्पणात् स्यादन्य- त्वम्, यस्मादन्यो ज्ञानपर्यायोऽन्यश्च दर्शनपर्यायः । ज्ञानचारित्रयोरकालभेदादेकत्वम् अगम्यावबोधवदिति चेत्; न; आशूत्पत्तौ सूक्ष्मकाला- प्रतिपत्तेः उत्पलपत्रशतव्यधनवत् । ६३ । स्यादेतत् — ज्ञानचारित्रयोरेकत्वम् । कस्मात् ? अकाल- २५भेदात् । कथम् ? अगम्यावबोधवत् । यथा केनचित् मोहोदयापादिताऽन्याङ्गनाभिसरणो- त्सुकमतिना पुंसा मेघोदयोद्भतबहलान्धकारायां रात्रौ वीथ्यन्तराले मातृपुंश्चली ‘स्वाभि- लषिता’ इति स्पृष्टा, तदैव विद्युता च विद्योतितम् । तेन द्योतेन ‘मातेयम्’ इति तस्य ज्ञानं यदोत्पन्नं तदैव अगम्यावबोधाद् अगम्यागमननिवृत्तिः, न अगम्यावबोध-अगम्यागमननिवृत्त्योः कालभेदोऽस्ति । तथा यदैव ज्ञानावरणक्षयोपशमाज्जीवेषु ज्ञानं ‘जीवाः’ इत्याविर्भवति, ३०तदैव ‘ते न हिंस्याः’ इति जीवे हिंसाप्रत्ययस्य निवृत्तिः, निवृत्तिश्च चारित्रम् । न च जीव- ज्ञान — हिंसानिवृत्त्योः कालभेदोऽस्तीति; तन्न; किं कारणम् ? आशूत्पत्तौ सूक्ष्मकालाप्रति- पत्तेः । तत्राप्यस्त्येव कालभेदः सौक्ष्म्यात्तु न प्रतीयते । कथम् ? उत्पलपत्रशतव्यधनवत् । यथा उत्पलपत्रशतव्यधनक्रम आसंख्येयसमयिकः सर्वज्ञप्रत्यक्षोऽतिसूक्ष्मोऽस्ति न तु विभाव्यते छद्मस्थैः, यतो यावदेकमुत्पलपत्रमासश्छित्त्वा द्वितीयं छिनत्ति तावदसंख्येयाः समया अतीता ३५इति कालसूक्ष्मोपदेशः । तथा अन्योऽगम्यावबोधकालः, अन्यश्च निवृत्तिकालः । १७ अर्थभेदाच्च । ६४ । किम् ? ‘नैकत्वम्’ इति वर्तते । ‘ज्ञानस्य तत्त्वावबोधोऽर्थः, चारित्रस्य कर्मादानहेतुक्रियाविशेषोपरमोऽर्थः’ इत्यतो नानात्वम् । कालभेदाभावो नार्थाभेदहेतुः गतिजात्यादिवत् । ६५ । नकालभेदाभावोऽर्थाभेदहेतु- र्न्याय्यः । कथम् ? गतिजात्यादिवत् । यथा यदैव देवदत्तजन्म तदैव मनुष्यगतिपञ्चेन्द्रिय- ०५जातिशरीरवर्णगन्धादीनां जन्म, नान्यो देवदत्तजन्मकालः, अन्यश्च मनुष्यगत्यादिपर्यायजन्म- कालः । न चैककालत्वात् मनुष्यगत्यादीनामेकत्वम् । यस्य पुनः कालभेदाभाव एकत्वहेतु- रिष्टः तस्य मनुष्यगत्यादिपर्यायाणामेकत्वप्रसङ्गः । न चेष्यते, अतो न कालभेदाभावाज्ज्ञान- चारित्रयोरेकत्वम् । उक्तं च । ६६ । किमुक्तम् ? ‘उभयनयसद्भावात् स्यादेकत्वं स्यान्नानात्वम्’ इति । १०लक्षणभेदात्तेषामेकमार्गत्वानुपपत्तिरिति चेत्; न; परस्परसंसर्गे सत्येकत्वं प्रदीपक्त् । ६७ । स्यादेतत् — तेषां सम्यग्दर्शनादीनामेकमार्गत्वं नोपपद्यते । कुतः ? लक्षणभेदात् । नहि भिन्न- लक्षणानामेकत्वं युज्यते । ततस्त्रयोऽमी मोक्षमार्गाः प्रसक्ता इति; तन्न; किंकारणम् ? परस्पर- संसर्गे सत्येकत्वम् । कथम् ? प्रदीपवत् । यथा परस्परविलक्षणवर्तिस्नेहानलार्थानां बाह्या- भ्यन्तरपरिणामकारणापादितसंयोगपर्यायाणां समुदयो भवत्येकः प्रदीपो न त्रयः, तथा १५परस्परविलक्षणसम्यग्दर्शनादित्रयसमुदये भवत्येको मोक्षमार्गो न त्रयः । किञ्च, सर्वेषामविसंवादात् । ६८ । विलक्षणानामेकत्वावाप्तौ न प्रतिवादिनो विसंवदन्ते । केचित्तावदाहुः — प्रसादलाघवशोषतापावरणसादनादिभिन्नलक्षणानां सत्त्वरजस्तमसां साम्ये प्रधानमेकम्, न तेषां त्रित्वात् प्रधानस्य त्रैविध्यमिति । अपर आहुः — कक्खडतादीनां चतुर्णां भूतानां भौतिकानां च वर्णादीनां विलक्षणानां समुदय एको रूपपरमाणुः, न तेषां भेदात् २०परमाणोरनेकत्वम् । तथा रागादीनां धर्माणां प्रमाणप्रमेयाधिगमरूपाणां च विलक्षणानां समुदय एकं विज्ञानम्, न तेषां भेदाद्विज्ञानभेद इति । इतर आहुः — चित्राणां तन्तूनां समुदयश्चित्रपट एकः, न तेषां भेदात्पटस्य भेद इति । तद्वदिहापि सम्यग्दर्शनादीनां भिन्नलक्षणानां समुदय एको मोक्षमार्ग इति को विरोधः ? एषां पूर्वस्य लाभे भजनीयमुत्तरम् । ६९ । एषां सम्यग्दर्शनादीनां पूर्वस्य लाभे २५भजनीयमुत्तरं वेदितव्यम् । उत्तरलाभे तु नियतः पूर्वलाभः । ७० । उत्तरस्य तु लाभे नियतः पूर्वलाभो द्रष्टव्यः । सम्यग्दर्शनज्ञानचारित्राणां पाठं प्रति पूर्वत्वमुत्तरत्वं च । पूर्वस्य सम्यग्दर्शनस्य लाभे ज्ञानमुत्तरं भजनीयम्, उत्तरज्ञानलाभे तु नियतः पूर्वसम्यग्दर्शनलाभः । तथा पूर्वज्ञानलाभे उत्तरं चारित्रं भजनीयम्, उत्तरचारित्रलाभे तु नियतः सम्यग्दर्शनज्ञानलाभः । ३०तदनुपपत्तिः, अज्ञानपूर्वकश्रद्धानप्रसङ्गात् । ७१ । ‘पूर्वस्य लाभे भजनीयमुत्तरम्’ इत्ये- तस्याऽनुपपत्तिः । कुतः ? अज्ञानपूर्वकश्रद्धानप्रसङ्गात् । यदि पूर्वसम्यग्दर्शनलाभे उत्तरज्ञान- लाभो भजनीयः, ननु ज्ञानाभावादज्ञानपूर्वकश्रद्धानप्रसङ्गः । किञ्च । १८ अनुपलब्धस्वतत्त्वेऽर्थे श्रद्धानानुपपत्तिः अविज्ञातफलरसोपयोगवत् । ७२ । यथा नाविज्ञाते फले ‘तद्रसोपयोगः अमुष्य फलस्य च सन्निष्पादयिता’ इति श्रद्धानमस्ति, तथा नाविज्ञातेषु जीवादिषु श्रद्धानमस्तीति श्रद्धानाभावः स्यात् । किञ्च, आत्मस्वरूपाभावप्रसङ्गात् । ७३ । यदि सम्यग्दर्शनलाभे ज्ञानं भजनीयत्वाद् असत, ०५विरोधात् मिथ्याज्ञाननिवृंत्तौ सम्यग्ज्ञानस्य चाभावाज्ज्ञानोपयोगाभाव आत्मनः प्रसक्तः । ततश्च लक्षणाभावाल्लक्ष्यस्यात्मनोऽप्यभावः स्यात्, तदभावाच्च मोक्षमार्गपरीक्षा व्यर्थेति । न वा; यावति ज्ञानमित्येतत् परिसमाप्यते तावतोऽसंभवान्नयापेक्षं वचनम् । ७४ । न वा एष दोषः । किं कारणम् ? यावति ज्ञानमित्येतत् परिसमाप्यते तावतोऽसंभवान्नयापेक्षमिदं वचनम् ‘भजनीयमुत्तरम्’ इति । क्व च ज्ञानमित्येतत् परिसमाप्यते ? श्रुतकेवलयोः, यतः श्रुतकेवल- १०ज्ञानग्राही शब्दनयः श्रुतकेवले एवेच्छति नान्यज्ज्ञानम् अपरिपूर्णत्वादिति । तदपेक्ष्य संपूर्ण- द्वादशाङ्गचतुर्दशपूर्वलक्षणं श्रुतं केवलं च भजनीयमुक्तम् । तथा पूर्वसम्यग्दर्शनलाभे देशचारित्रं संयतासंयतस्य, सर्वचारित्रं च प्रमत्तादारभ्य सूक्ष्मसाम्परायान्तानां यच्च यावच्च नियमादस्ति, संपूर्णं यथाख्यातचारित्रं तु भजनीयम् । पूर्वसम्यग्दर्शनज्ञानलाभे भजनीयमुत्तरमिति चेत्; न; निर्देशस्याऽगमकत्वात् । ७५ । १५स्यादेतत् — नाज्ञानपूर्वकश्रद्धानप्रसङ्गोऽस्ति । कुतः ? पूर्वसम्यग्दर्शनज्ञानलाभे चारित्रमुत्तरं भजनीयमित्यभिसम्बन्धादिति; तन्न; किं कारणम् ? निर्देशस्यागमकत्वात् । युक्तोऽयमर्थो न तु तस्य निर्देशो गमकः, ‘पूर्वस्य लाभे’ इति ‘पूर्वर्योः’ इति हि वक्तव्यं स्यात् । अथ सामान्य- निर्देशादुभयगतिः कल्प्यते; नैवं शक्यम्; व्यवस्थाविशेषस्य विवक्षितत्वात् । इतरथा हि उत्तरेऽपि तथा प्रक्लृप्तौ तद्दोषानतिवृत्तिः स्यात् । तस्मात्पूर्वोक्त एवार्थो नयापेक्षं वचनमिति । २०अथवा, क्षायिकसम्यग्दर्शनस्य लाभे क्षायिकं सम्यग्ज्ञानं भजनीयम् । अथवा, युगपदात्मलाभे साहचर्यादुभयोरपि पूर्वत्वम्, यथा साहचर्यात् पर्वतनारदयोः, पर्वतग्रहणेन नारदस्य ग्रहणं नारदग्रहणेन वा पर्वतस्य तथा सम्यग्दर्शनस्य सम्यग्ज्ञानस्य वा अन्यतरस्यात्मलाभे चरित्र- मुत्तरं भजनीयम् । इति तत्त्वार्थवार्तिकेव्याख्यानालङ्कारे प्रथमेऽध्याये द्वितीयमाह्निकम् ॥ २ ॥ १९ अमीषां मोक्षकारणसामान्ये सत्यविशिष्टानां विशेषप्रतिपत्त्यर्थमिदमाह — तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् ॥ २ ॥ सम्यगिति कोऽयं शब्दः ? सम्यगिति प्रशंसार्थो निपातः क्व्यन्तो वा । १ । सम्यगित्ययं निपातः प्रशंसार्थो वेदितव्यः ०५सर्वेषां प्रशस्तरूपगतिजातिकुलायुर्विज्ञानादीनाम् आभ्युदयिकानां मोक्षस्य च प्रधान- कारणत्वात् । प्रशस्तं दर्शनं सम्यग्दर्शनम् । ननु च *“सम्यगिष्टार्थतत्त्वयोः” इति वचनात् प्रशंसार्थाभाव इति; तन्न; अनेकार्थत्वान्निपातानाम् । अथवा, सम्यगिति तत्त्वार्थो निपातः, तत्त्वं दर्शनं सम्यग्दर्शनम् । अविपरीतार्थविषयं तत्त्वमित्युच्यते । अथवा, क्व्यन्तोऽयं शब्दः, समञ्चतीति सम्यक् । यथाअर्थोऽवस्थितस्तथैवावगच्छतीत्यर्थः । अथ किमिदं दर्शनमिति ? १०करणादिसाधनो दर्शनशब्दः उक्तः । २ । दृशेः करणादिसाधने युटि दर्शनशब्दो व्याख्यातः । दृशेरालोकार्थत्वादभिप्रेतार्थासंप्रत्यय इति चेत्; न; अनेकार्थत्वात् । ३ । स्यादेतत् — दृशिर- यमालोकार्थे वर्त्तते । आलोकश्चेन्द्रियानिन्द्रियार्थप्राप्तिः, नचासाविहाभिप्रेतः श्रद्धानमिष्टम्, न तस्यार्थस्य संप्रत्ययोऽस्तीति । तन्न; किं कारणम् ? अनेकार्थत्वात्, इह श्रद्धानमिष्टमभि- १५संबध्यते । कथं पुनर्ज्ञायते आलोक इह नेष्टः श्रद्धानमिष्टमिति ? अत उत्तरं पठति — मोक्षकारणप्रकरणाच्छ्रद्धानगतिः । ४ । मोक्षकारणं प्रकृतम् । तत्त्वार्थविषयं श्रद्धानं मोक्षस्य कारणं नालोक इत्यतः प्रकरणाच्छ्रद्धानस्यार्थस्य गतिर्भवति । अथ तत्त्वमित्यनेन किं प्रत्याय्यते ? प्रकृत्यपेक्षत्वात् प्रत्ययस्य भावसामान्यसंप्रत्ययः तत्त्ववचनात् । ५ । तदित्येषा प्रकृतिः २०सामान्याभिधायिनी सर्वनामत्वात् । प्रत्ययश्च भावे उत्पद्यते । कस्य भावे ? तदित्यनेन योऽर्थ उच्यते । कश्चासौ ? सर्वोऽर्थः । अतस्तदपेक्षत्वाद्भावस्य भावसामान्यमुच्यते तत्त्वशब्देन । योऽर्थो यथा अवस्थितस्तथा तस्य भवनमित्यर्थः । तत्त्वेनार्यत इति तत्त्वार्थः । ६ । अर्यते गम्यते ज्ञायते इत्यर्थः, तत्त्वेनार्थस्तत्त्वार्थः । येन भावेनार्थो व्यवस्थितस्तेन भावेनार्थस्य ग्रहणं यत्सन्निधानाद्भवति तत्सम्यग्दर्शनम् । २५श्रद्धानशब्दस्य करणादिसाधनत्वं पूर्ववत् । ७ । यथा दर्शनशब्दस्य करणादिसाधनत्वं व्याख्यातं तथा श्रद्धानशब्दस्यापि वेदितव्यम् । स त्वात्मपरिणामः । ८ । स तु श्रद्धानशब्दवाच्योऽर्थः करणादिव्यपदेशभाग् आत्मपरि- णामो वेदितव्यः । वक्ष्यमाणनिर्देशादिसूत्रविवरणात् पुद्गलद्रव्यसंप्रत्यय इति चेत्; न; आत्मपरिणामेऽपि ३०तदुपपत्तेः । ९ । स्यादेतत् — वक्ष्यमाणनिर्देशादिसूत्रविवरणात् पुद्गलद्रव्यस्य संप्रत्ययः प्राप्नोति; तन्न; किं कारणम् ? आत्मपरिणामेऽपि तदुपपत्तेः । किं तत्त्वार्थश्रद्धानम् ? आत्मपरिणामः । कस्य ? आत्मन इत्येवमादि । २० कर्माभिधायित्वेप्यदोष इति चेत्; न; मोक्षकारणत्वेन स्वपरिणामस्य विवक्षितत्वात् । १० । स्यादेतत् — सम्यक्त्वकर्मपुद्गलाभिधायित्वेप्यदोष इति; तन्न; किं कारणम् ? मोक्षकारणत्वेन स्वपरिणामस्य विवक्षितत्वात् । औपशमिकादिसम्यग्दर्शनमात्मपरिणामत्वात् मोक्षकारणत्वेन विवक्ष्यते न च सम्यक्त्वकर्मपर्यायः, पौद्गलिकत्वेऽस्य परपर्यायत्वात् । ०५स्वपरनिमित्तत्वादुत्पादस्येति चेत्; न; उपकरणमात्रत्वात् । ११ । स्यादेतत् — स्वपर- निमित्त उत्पादो दृष्टो यथा घटस्योत्पादो मृन्निमित्तो दण्डादिनिमित्तश्च, तथा सम्यग्दर्श- नोत्पाद आत्त्मनिमित्तः सम्यक्त्वपुद्गलनिमित्तश्च, तस्मात्तस्यापि मोक्षकारणत्वमुपपद्यते इति; तन्न; किं कारणम् ? उपकरणमात्रत्वात् । उपकरणमात्रं हि बाह्यसाधनम् । किञ्च, आत्मपरिणामादेव तद्रसघातात् । १२ । यदिदं दर्शनमोहाख्यं कर्म तदात्मगुणघाति, १०कुतश्चिदात्मपरिणामादेवोपक्षीणशक्तिकं सम्यक्त्वाख्यां लभते । अतो न तदात्मपरिणामस्य प्रधानं कारणम्, आत्मैव स्वशक्त्या दर्शनपर्यायेणोत्पद्यत इति तस्यैव मोक्षकारणत्वं युक्तम् । किञ्च, अहेयत्वात् स्वधर्मस्य । १३ । न हीयते न परित्यज्यत इत्यहेयोऽयमाभ्यन्तर आत्मनः सम्यक्त्वपरिणामः, यतः सत्याभ्यन्तरे आत्मनः सम्यक्त्वपरिणामे नियमेनात्मा सम्यग्दर्शन- १५पर्यायेणाविर्भवति । बाह्यस्तु हेयः कर्मपुद्गलः, तमन्तरेणापि क्षायिकसम्यक्त्वपरिणामात् । किञ्च, प्रधानत्वात् । १४ । आभ्यन्तर आत्मीयः सम्यग्दर्शनपरिणामः प्रधानम्, सति तस्मिन् बाह्यस्योपग्राहकत्वात् । अतो बाह्य आभ्यन्तरस्योपग्राहकः पारार्थ्येन वर्तत इत्यप्रधानम् । किञ्च, २०प्रत्यासत्तेः । १५ । प्रत्यासन्नं हि कारणमात्मपरिणामो मोक्षस्य तादात्म्येनाविर्भावात्, नतु सम्यक्त्वं कर्म, विप्रकृष्टान्तरत्वात् तादात्म्येनाऽपरिणामाच्च । तस्मात् अहेयत्वात् प्रधानत्वात् प्रत्यासत्तेश्च मोक्षस्य कारणमात्मपरिणामो युक्तो न कर्मेति । अल्पबहुत्वकल्पनाविरोध इति चेत्; न; उपशमाद्यपेक्षस्य सम्यग्दर्शनत्रयस्यैव तदुपपत्तेः । १६ । स्यादेतत् — सम्यग्दर्शनस्यात्मपरिणामत्वे अल्पबहुत्वकल्पनाविरोध इति; तन्न; किं कारणम् ? २५उपशमाद्यपेक्षस्य सम्यग्दर्शनत्रयस्यैव तदुपपत्तेः । सर्वेषु स्तोका उपशमसम्यग्दृष्टयः । ससारिणः क्षायिकसम्यग्दृष्टयोऽसंख्येयगुणाः । क्षायोपशमिकसम्यग्दृष्टयोऽसंख्येयगुणाः । सिद्धाः क्षायिक- सम्यग्दृष्टयोऽनन्तगुणा इति । तस्मात् सम्यग्दर्शनमात्मपरिणामं श्रेयोऽभिमुखमध्यवस्यामः । तत्त्वाग्रहणम्, अर्थश्रद्धानमित्यस्तु लघुत्वात् । १७ । कश्चिदाह — तत्त्वग्रहणमनर्थकम्, अर्थ- श्रद्धानमित्येवास्तु । कुतः ? लघुत्वादिति । ३०न; सर्वार्थप्रसङ्गात् । १८ । नैतद्युक्तम्; कुतः ? सर्वार्थप्रसङ्गात् । तत्त्वग्रहणादृते मिथ्या- वादिप्रणीतेषु सर्वार्थेषु श्रद्धानं सम्यग्दर्शनं प्राप्नोति । सब्देहाच्च, अर्थशब्दस्याऽनेकार्थत्वात् । १९ । अर्थशब्दोऽर्थमनेकार्थः — क्वचिद् द्रव्यगुण- कर्मसु वर्तते *“अर्थ इति द्रव्यगुणकर्मसु”[वैशेº ७ । २ । ३] इति वचनात् । क्वचित् प्रयोजने वर्तते ‘किमर्थमिहागमनं भवतः ? ’ किं प्रयोजनमिति । क्वचिद्धने वर्तते अर्थवानयं देवदत्तः २१ धनवानिति । क्वचिदभिधेये वर्तते शब्दार्थसंबन्ध इति । एवमर्थशब्दस्यानेकार्थाभिधायित्वे सन्देहः — ‘कस्यार्थस्य श्रद्धानं सम्यग्दर्शनम्’ इति ? सर्वानुग्रहाददोष इति चेत्; न; असदर्थविषयत्वात् । २० । स्यादेतत् — नायं दोषः सर्वार्थप्र- सङ्ग इति, अस्तु सर्वार्थविषयं श्रद्धानं सम्यग्दर्शनम्, तथा सति सर्वानुग्रहः कृतो भवति । ०५कश्चेदानीं भवतो मत्सरः सर्वो लोकोऽभ्युदये न युज्यतामिति ? तन्न; किंकारणम् ? असदर्थ- विषयत्वात् । न खलु कश्चिन्नो मत्सरः । असदर्थविषयं हि तच्छ्रद्धानं संसारकारणमिति । अतः सर्वानुग्रहार्थमेव तत्त्वेन विशिष्यते । अर्थग्रहणादेव तत्सिद्धिरिति चेत्; न; विपरीतग्रहणदर्शनात् । २१ । स्यादेतत् — अर्यत इत्यर्थो निश्चीयत इत्यर्थः । न च मिथ्यावादिप्रणीता अर्थाः; असत्त्वात् । तस्मादर्थग्रहणादेव १०तत्त्वसंप्रत्ययात् नार्थस्तत्त्वग्रहणेनेति; तन्त्र; किं कारणम् ? विपरीतग्रहणदर्शनात् । यथा पित्तो- दयाकुलितकरणः पुमान् मधुररसं कटुकं मन्यते, तथात्मा मिथ्याकर्मोदयदोषाद् अस्तित्व- नास्तित्वनित्यत्वाऽनित्यत्वाऽन्यत्वाऽनन्यत्वाद्येकान्तरूपेण मिथ्या अध्यवस्यति । अतः तन्निरा- करणार्थं तत्त्वग्रहणमिति अर्थग्रहणं किमर्थम् ? ननु ‘तत्त्वान्येवार्थः’ इत्यर्थानां तत्त्वसामानाधिकरण्यात् तत्त्ववच- १५नेनैव संप्रत्ययः सिद्धः ? उच्यते — अर्थग्रहणमव्यभिचारार्थम् । २२ । अर्थ ग्रहणं क्रियते अव्यभिचारार्थम् । तत्त्वमिति श्रद्धानमिति चेत्; एकान्तनिश्चितेऽपि प्रसङ्गः । २३ । यदि ‘तत्त्वमिति श्रद्धानं तत्त्वश्रद्धानम्’ इत्युच्यते; एकान्तनिश्चितेऽपि प्राप्नोति । एकान्तवादिनोऽपि हि ‘नास्त्यात्मा’ इत्येवामादि ‘तत्त्वम्’ इति श्रद्दधति । २०तत्त्वस्य श्रद्धानमिति चेत्; भावमात्रप्रसङ्गः । २४ । यदि ‘तत्त्वस्य श्रद्धानं तत्त्वश्रद्धानम्’ इत्युच्यते; भावमात्रप्रसङ्गः स्यात् । तत्त्वं भावः सामान्यमिति केचित् कथयन्ति । द्रव्यत्व- गुणत्वकर्मत्वादिसामान्यं द्रव्यादिभ्योऽर्थान्तरम्, तस्य श्रद्धानं सम्यग्दर्शनं प्राप्नोति । न हि द्रव्यादिभ्योऽन्यत् सामान्यं युक्तिमदिति परीक्षितमेतत् । अथवा, तत्त्वमेकत्वमित्यर्थः *“पुरुष एवेदं सर्वम्”[ऋग्º ८ । ४ । १७] इत्यादि, तस्य २५श्रद्धानं सम्यग्दर्शनं प्राप्नोति । नचादो युक्तम्, क्रियाकारकभेदलोपप्रसङ्गादिति । तत्त्वेन श्रद्धानमिति चेत्; कस्य कस्मिन्वेति प्रश्नानिवृत्तिः । २५ । यदि ‘तत्त्वेन श्रद्धा- नम्’ इत्युच्यते; कस्य कस्मिन्वेति प्रश्नो न विनिवर्तते । तस्मात् सूक्तम् — ‘अर्थग्रहणमव्यभि- चारार्थम्’ इति । इच्छाश्रद्धानमित्यपरे । २६ । इच्छा श्रद्धानमित्यपरे वर्णयन्ति । ३०तदयुक्तम्, मिथ्यादृष्टेरपि प्रसङ्गात् । २७ । यतो मिथ्यादृष्टयो बाहुश्रुत्यप्रचिख्याप- २२ यिषया अर्हन्मतविजिगीषया वाअर्हन्मतमधीयन्ते । नचेच्छामन्तरेण अध्ययनमस्ति, अतस्तेषा- मपि सम्यग्दर्शनं प्राप्नोति । इत्ययुक्तमुक्तम् — ‘इच्छा श्रद्धानम्’ इति । केवलिनि सम्यक्त्वाभावप्रसङ्गाच्च । २८ । यदि च, इच्छा सम्यक्त्वम्, इच्छा च लोभ- पर्यायः, न च क्षीणमोहे केवलिनि लोभोऽस्ति, तदभावादिच्छाभाव इति सम्यक्त्वाभावः ०५स्यात् । तस्मात् यद्भावात् यथाभूतमर्थं गृह्णात्यात्मा तत् सम्यग्दर्शनमिति प्रत्येतव्यम् । तद् द्विविधं सरागवीतरागविकल्पात् । २९ । एतत्सम्यग्दर्शनं द्विविधम् । कुतः ? सराग- वीतरागक्किल्पात् । प्रशमसंवेगानुकम्पास्तिक्याभिव्यक्तलक्षणं प्रथमम् । ३० । रागादीनामनुद्रेकः प्रशमः । संसाराद्भीरुता संवेगः । सर्वप्राणिषु मैत्री अनुकम्पा । जीवादयोऽर्था यथास्वं भावैः सन्तीति १०मतिरास्तिक्यम् । एतैरभिव्यक्तलक्षणं प्रथमं सरागसम्यक्त्वमित्युच्यते । आत्मविशुद्धिमात्रमितरत् । ३१ । सप्तानां कर्मप्रकृतीनाम् आत्यन्तिकेऽपगमे सत्यात्म- विशुद्धिमात्रमितरद् वीतरागसम्यक्त्वमित्युच्यते । अत्र पूर्वं साधनं भवति, उत्तरं साधनं साध्यं च । अथैतत्सम्यग्दर्शनं जीवादिपदार्थविषयं कथमुत्पद्यत इति ? अत आह — १५तन्निसर्गादधिगमाद् वा ॥ ३ ॥ निसर्ग इति कोऽयं शब्दः ? निपूर्वात् सृजेर्भावसाधनो घञ्, निसर्जनं निसर्गः स्वभाव इत्यर्थः । अथाधिगम इति कः ? अधिपूर्वाद् गमेर्भावसाधनोऽच्, अधिगमनमधिगमः । तयोर्हेतुत्वेन निर्देशो निसर्गादधिगमादिति । कस्याः ? क्रियायाः । का च क्रिया ? ‘उत्पद्यते’ इत्यध्याह्नि- यते, सोपस्कारत्वात् सूत्राणाम् । तदेतत्सम्यग्दर्शनं निसर्गादधिगमाद्वा उत्पद्यत इति । २०कश्चिदाह — सम्यग्दर्शनद्वैविध्यकल्पनानुपपत्तिः; अनुपलब्धतत्त्वस्य श्रद्धानाभावात् रसायनवत् । १ । द्विविधं सम्यग्दर्शनमिति कल्पना नोपपद्यते । कुतः ? अनुपलब्धतत्त्वस्य श्रद्धानाभावात्, कथम् ? रसायनवत् । यथा अत्यन्तपरोक्षरसायनतत्त्वफलस्य न रसायने श्रद्धानं दृष्टम्, तथा अनधिगतजीवादितत्त्वस्य न तत्र श्रद्धानमिति नैसर्गिकसम्यग्दर्शनाभावः । २५शूद्रवेदभक्तिवदिति चेत्; न; वैषम्यात् । २ । स्यादेतत् — यथा शूद्रस्याऽनधिगतवेदार्थस्य वेदार्थ आत्यन्तिकी भक्तिः, तथाऽनुपलब्धजीवादितत्त्वस्य श्रद्धानमिति; तन्न; किं कारणम् ? वैषम्यात् । युज्यते शूद्रस्य भारतादिश्रवणात् तज्ज्ञवचनानुवृत्त्यादिभिश्च वेदार्थभक्तिः, नासौ नैसर्गिकी । इह तु नैसर्गिकी रुचिरिष्टेति वैषम्यम् । अथवा, सम्यक्त्वाधिकारात् जीवादि- पदार्थतत्त्वोपलब्धिपूर्वकेण सम्यग्दर्शनेन मोक्षकारणेनेह भवितव्यम्, न च शूद्रस्य तादृशं ३०श्रद्धानमिति वैषम्यम् । २३ मणिग्रहणवदिति चेत्; न; प्रत्यक्षोपलब्धिसद्भावात् । ३ । स्यादेतत् — यथा अनधिगतमणि- विशेषस्यापि पुंसो मणिग्रहणं भवति तस्य च फलं दृष्टम्, तथा अनधिगतजीवादितत्त्वस्यापि तत्त्वग्रहणं भवति तस्य च फलं भवतीति तन्नैसर्गिकं दर्शनमिति; तन्न; किं कारणम् ? प्रत्यक्षोपलब्धिसद्भावात् । नात्यन्तपरोक्षं मणिं गृह्णाति किन्तु प्रत्यक्षत उपलभ्य गृह्णाति । ०५वीर्यविशेषं तु न प्रतिपद्यते, अतोऽस्य अनुपलब्धमणिविशेषस्यापि प्रत्यक्षदर्शनाद् ग्रहणं न्याय्यम् । अत्यन्तपरोक्षे तु जीवादितत्त्वे कथमस्य निसर्गजसम्यग्दर्शनसिद्धिः ? सामान्या- धिगमे तु अधिगमसम्यग्दर्शनमेवेति । तापप्रकाशवत् युगपदुत्पत्तेरभ्युपगमाच्च । ४ । किम् ? ‘निसर्गजसम्यग्दर्शनाभावः’ इत्यनु- वर्तते । यदा अस्य सम्यग्दर्शनमुत्पद्यते तदैव प्राक्तनं मत्यज्ञानं श्रुताज्ञानं च सम्यक्त्वेन परण- १०मतीत्यधिगमजमेव तद्भवति । यस्य ज्ञानात् प्राग् दर्शनं स्यात् तस्य नैसर्गिकं स्यात् । तच्चाऽ- निष्टमिति । उच्यते — उभयत्रतुल्ये अन्तरङ्गहेतौ बाह्योपदेशापेक्षाऽनपेक्षभेदाद् भेदः । ५ । उभयत्र सम्यग्दर्शने अन्तरङ्गो हेतुस्तुल्यः दर्शनमोहस्योपशमः क्षयः क्षयोपशमो वा, तस्मिन् सति यद् बाह्योप- देशादृते प्रादुर्भवति तन्नैसर्गिकम्, यत् परोपदेशपूर्वकं जीवाद्यधिगमनिमित्तं तदुत्तरम्, १५इत्यनयोरयं भेदः । अपरोपदेशपूर्वके निसर्गाभिप्रायो लोकवत् । ६ । यथा लोके हरिशार्दूलवृकभुजगादयो निसर्गतः क्रौर्यशौर्याहारादिसंप्रतिपत्तौ वर्तन्त इत्युच्यन्ते । नवासावाकस्मिकी कर्मनिमित्त- त्वात् । अनाकस्मिक्यपि सती नैसर्गिकी भवति, परोपदेशाभावात् । तथेहाप्यपरोपदेशपूर्वके निसर्गाभिप्रायः । अपर आह — २०भव्यस्य कालेन निःश्रेयसोपपत्तः अधिगमसम्यक्त्वाभावः । ७ । यदि अवधृतमोक्षकालात् प्रागधिगमसम्यक्त्वबलात् मोक्षः स्यात् स्यादधिगमसम्यग्दर्शनस्य साफल्यम् । न चादोऽस्ति । अतः कालेन योऽस्य मोक्षोऽसौ, स निसर्गजसम्यक्त्वादेव सिद्ध इति । न, विवक्षितापरिज्ञानात् । ८ । नैतद्युक्तम् । कुतः ? विवक्षिताऽपरिज्ञानात् । सम्यग्दर्शनादि- त्रयान्मोक्ष उक्तः । तत्र यत्प्रथमं तत् ‘कुत उत्पद्यते’ इत्युक्ते ‘निसर्गादधिगमाद्वा’ इत्य- २५यमर्थोऽत्र विवक्षितः । यदि सम्यग्दर्शनादेव केवलान्निसर्गजादधिगमजाद्वा ज्ञानचारित्ररहि- तान्मोक्ष इष्टः स्यात्, तत इदं युक्तं स्यात् — ‘भव्यस्य कालेन निःश्रेयसोपपत्तेः’ इति । नचायमर्थोऽत्र विवक्षितः । अथवा, यथा कुरुक्षेत्रे क्वचित् कनकं बाह्यपौरुषेयप्रयत्नाभावात् जायते, तथा बाह्य- पुरुषोपदेशपूर्वकजीवाद्यधिगममन्तरेण यज्जायते तन्निसर्गजम् । यथा कनकाश्मः विध्युपा- ३०यज्ञपुरुषप्रयोगापेक्षः कनकभावमापद्यते, तथा यत् सम्यग्दर्शनंविध्युपायज्ञामनुष्यसंपर्काज्जीवा- दिपदार्थतत्त्वाधिगमापेक्षमुत्पद्यते तदधिगमसम्यर्ग्दशनम् इत्ययमर्थो विवक्षितः, नचान्यत- रस्याभाव इति । अतो विवक्षितापरिज्ञानात् न सम्यगुक्तम् — ‘अधिगमाभावः’ इति । २४ कालानियमाच्च निर्जरायाः । ९ । यतो न भव्यानां कृत्स्नकर्मनिर्जरापूर्वकमोक्षकालस्य नियमोऽस्ति । केचिद् भव्याः संख्येयेन कालेन सेत्स्यन्ति, केचिदसंख्येयेन, केचिदनन्तेन, अपरे अनन्तानन्तेनापि न सेत्स्यन्तीति । ततश्च न युक्तम् — ‘भव्यस्य कालेन निःश्रेयसो- पपत्तेः’ इति । ०५चोदनानुपपत्तेश्च । १० । सर्वस्येयं चोदना नोपपद्यते । ज्ञानात् क्रियाया द्वयात् त्रितयाच्च मोक्षमाचक्षाणस्य सर्वस्य नेदं युक्तम् — ‘भव्यस्य कालेन मोक्षः’ इति । यदि हि सर्वस्य कालो हेतुरिष्टः स्यात्, बाह्याभ्यन्तरकारणनियमस्य दृष्टस्येष्टस्य वा विरोधः स्यात् । तदित्यनन्तरनिर्देशार्थम् । ११ । ‘तत्’ इत्येतदनन्तरस्य सम्यग्दर्शनस्य निर्देशार्थं क्रियते । १०ननु तत्प्रकृतम्, अन्तरेणापि तद्वचनं सिद्धम्; इतरथा हि मार्गसम्बन्धप्रसङ्गः । १२ । अक्रियमाणे हि तद्वचने मोक्षमार्गोऽपि प्रकृतः तेनाभिसंबन्धः प्रसज्येत । ततो निसर्गमात्रेणापि मोक्षमार्गलाभ उक्तः स्यात् । बाहुश्रुत्य- प्रचिख्यापयिषया च मोक्षमार्गाधिगममात्रादेव मिथ्यादृष्टीनामपि मोक्षः स्यात् । ननु च *“अनन्तरस्य वा विधिर्वा भवति प्रतिषेधो वा”[पाº मº १ । २ । ४७] इत्यनन्तरत्वात् १५सम्यग्दर्शनेनैव संबन्धो न्याय्यः । इति चेत्; न;*“प्रत्यासत्तेः प्रधानं बलीयः” इति मार्ग एव संबध्येत । तस्मात्तद्वचनं क्रियते विस्पष्टार्थम् । इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे प्रथमेऽध्याये तृतीयमाह्निकंसमाप्तम् ॥ ३ ॥ तत्त्वार्थश्रद्धानं सम्यग्दर्शनमित्युक्तम् । अथ ‘किं तत्त्वम्’ इति ? अत इदमाह — जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् ॥ ४ ॥ २०किमर्थमेषामुपादानम् ? ननु द्रव्यमित्येव वक्तव्यं तद्भेदा हि सर्वे पदार्था भवन्तीति ? अत उत्तरं पठति — एकाद्यनन्तविकल्पोपपत्तौ विनेयाशयवशान्मध्यमाभिधानम् । १ । एको द्वौ त्रयः संख्ये- या असंख्येया अनन्ता इति पदार्था भिद्यन्ते । तत्रैकः पदार्थो भवति, *“एकं द्रव्यमन- न्तपर्यायम्” इति वचनात् । द्वौ पदार्थौ, जीवाजीवभेदात् । त्रयः पदार्था अर्थाभि- २५धानप्रत्ययभेदात् । एवमुत्तरे च वचनविकल्पापेक्षया असंख्येया ज्ञानज्ञेयविकल्पापेक्षया असंख्येया अनन्ताश्चा भवन्ति । तत्र विनेयाशयवशात् पदार्थनिरूपणाभेद इति मध्यमेन क्रमेणाभिधानं कृतम् । अतिसंक्षेपे सुमेधसामेव प्रतिपत्तिः स्याद् अतिप्रपञ्चे चाचिरेण संप्रतिपत्तिर्न स्यादिति । कश्चिदाह — २५ जीवाजीवयोरन्यतरत्रैवान्तर्भावाद् आस्रवादीनामनुपदेशः । २ । आस्रवो हि जीवो वा स्यात्, अजीवो वा ? यदि जीवः; जीवेऽन्तर्भाव इति । अथाऽजीवः; अजीवे । एवं संवरा- दयोऽपि । तस्मादेषामनुपदेशः — अनर्थक उपदेशोऽनुपदेशः । न वा; परस्परोपश्लेषे संसारप्रवृत्तितदुपरमप्रधानकारणप्रतिपादनार्थत्वात् । ३ । न ०५वाऽनर्थक उपदेशः । कुतः ? जीवाजीवयोः परस्परोपश्लेषे सति संसारप्रवृत्तितदुपरमप्रधान- कारणप्रतिपादनार्थत्वात् । इह मोक्षमार्गः प्रकृतः, तस्य फलमवश्यं मोक्षो निर्देष्टव्यः । ‘स कस्य’इति जीव उपात्तः । स च संसारपूर्वकः । स च सत्यजीवे जीवस्य भवति, इत्यजीव उपात्तः । तयोश्च परस्परोपश्लेषः संसारः । तत्प्रधानहेतू आस्रवो बन्धश्चेत्युपात्तौ । तदुपरमस्य मोक्षस्य प्रधानहेतू संवरनिर्जरे इत्युपादानं तयोः । एवमेषां निर्ज्ञाने सति १०प्राप्तव्यमोक्षस्य निर्ज्ञानं भवतीति । दृश्यते सामान्ये अन्तर्भूतस्यापि विशेषस्य पृथगुपादानं प्रयोजनार्थम्, क्षत्रिया आयाताः सूरवर्माऽपीति । उभयथापि चोदनानुपत्तिः । ४ । यो जीवाजीवयोरन्तर्भावात् आस्रवादीनामनुपदेशं चोदयति, तस्योभयथापि चोदना नोपपद्यते । कथम् ? आस्रवादीनि जीवाजीवाभ्यां पृथ- गुपलभ्य वा चोदयेत्, अनुपलभ्य वा ? यदि पृथगुपलभ्य; अत एव ततोऽर्थान्तरत्वं सिद्धम् । १५अथाऽनुपलभ्य; अनुपलम्भादेव चोदनाभावः । किञ्च, जीवाजीवाभ्थां पृथक्सिद्धान् वा चोदयेत्, असिद्धान् वा ? यदि सिद्धांश्चोदयेत्; अत एवाऽर्थान्तरभावः । अथाऽसिद्धांश्चो- दयति; कथमत्रान्तर्भावश्चोद्यते ? न हि खरविषाणादीनामन्तर्भावश्चोदनार्हः । अनेकान्ताच्च । ५ । ‘चोदनानुपपत्तिः’ इति वर्तते । कथम् ? द्रव्यार्थिकपर्यायार्थिकयो- र्गुणप्रधानभावेन अर्पणानर्पणभेदात् जीवाजीवयोरास्रवादीनां स्यादन्तर्भावः स्यादनन्तर्भावः । २०पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् आस्रवादिप्रतिनियतपर्यायार्थानर्पणात् अनादिपा- रिणामिकचैतन्याचैतन्यादिद्रव्यार्थार्पणाद् आस्रवादीनां स्याज्जीवेऽजीवे वान्तर्भावः । तथा द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्याद् आस्रवादिप्रतिनियतपर्यायार्थार्पणाद् अनादिपारिणा- मिकचैतन्याचैतन्यादिद्रव्यार्थाऽनर्पणाद् आस्रवादीनां जीवाजीवयोः स्यादनन्तर्भावः । तदपेक्षया स्यादुपदेशोऽर्थवान् । २५तेषां निर्वचनलक्षणक्रमहेत्वभिधानम् । ६ । तेषां जीवादीनां पृथगुपदेशे प्रयोजनमुक्तम् । इदानीं निर्वचनलक्षणक्रमहेत्वभिधानं कर्तव्यम् । तदुच्यते — त्रिकालविषयजीवनानुभवनात् जीवः । ७ । दशसु प्राणेषु यथोपात्तप्राणपर्यायेण त्रिषु कालेषु जीवनानुभवनात् ‘जीवति, अजीवीत्, जीविष्यति’ इति वा जीवः । तथा सति सिद्धानामपि जीवत्वं सिद्धं जीवितपूर्वत्वात् । संप्रति न जीवन्ति सिद्धाः, भूतपूर्वगत्या ३०जीवत्वमेषाम् इत्यौपचारिकत्वं स्यात्, मुख्यं चेष्यते; नैष दोषः; भावप्राणज्ञानदर्शनानु- भवनात् सांप्रतिकमपि जीवत्वमस्ति । अथवा रूढिशब्दोऽयम् । रूढौ च क्रिया व्युत्पत्त्यर्थे- वेति कादाचित्कं जीवनमपेक्ष्य सर्वदा वर्तते गोशब्दवत् । तद्विपर्ययोऽजीवः । ८ । यस्य जीवनमुक्तलक्षणं नास्त्यसौ तद्विपर्ययाद् अजीव इत्युच्यते । २६ आस्रवत्यनेन आस्रवणमात्रं वा आस्रवः । ९ । येन कर्मास्रवति यद्वा आस्रवणमात्रं वा स आस्रवः । बध्यतेऽनेन बन्धनमात्रं वा बन्धः । १० । बध्यते येन अस्वतन्त्रीक्रियते येन, अस्वतन्त्री- करणमात्रं वा बन्धः । ०५संव्रियतेऽनेन संवरणमात्रं वा संवरः । ११ । येन संव्रियते येन संरुध्यते, संरोधनमात्रं वा संवरः । निर्जीर्यते यया निर्जरणमात्रं वा निर्जरा । १२ । निर्जीयते निरस्यते यया, निरसनमात्रं वा निर्जरा । मोक्ष्यते येन मोक्षणमात्रं वा मोक्षः । १३ । मोक्ष्यते अस्यते येन असनमात्रं वा मोक्षः । १०एतेषामितरेतरयोगे द्वन्द्वः । उक्तं निर्वचनम् । इदानीं लक्षणमुच्यते — चेतनास्वभावत्वात्तद्विकल्पलक्षणो जीवः । १४ । जीवस्वभावश्चेतना, यत इतरेभ्यो द्रव्येभ्यो भिद्यते । तद्विकल्पा ज्ञानादयः । यत्सन्निधानादात्मा ज्ञाता द्रष्टा कर्ता भोक्ता च भवति तल्लक्षणो जीवः । तद्विपरीतत्वादजीवस्तदभावलक्षणः । १५ । तद्विपरीतत्वात् अचेतनस्वभावत्वात् ज्ञानादी- १५नामभावो यस्य लक्षणं सोऽजीवः । कथमभावो निरुपाख्यो वस्तुनो लक्षणं भवति ? अभावोऽपि वस्तुधर्मो हेत्वङ्गत्वादेः भाववत् । अतोऽसौ लक्षणं युज्यते । स हि यदि वस्तुनो लक्षणं न स्यात् सर्वसङ्करः स्यात् । यद्येवं वनस्पत्यादीनामजीवत्वं प्राप्नोति तदभावात् । ज्ञानादीनां हि प्रवृत्तित उपलब्धिः, न च तेषां तत्पूर्विका प्रवृत्तिरस्ति हिताहितप्राप्तिपरिवर्जना- भावात् । उक्तं च — २०*“बुद्धिपूर्वां क्रियां दृष्ट्वा स्वदेहेऽन्यत्र तद्ग्रहात् । मन्यते बुद्धिसद्भावः सा न येषु न तेषु धीः ॥ ”[सन्तानाº सिº श्लोº १] इति । नैषः दोषः; तेषामपि ज्ञानादयः सन्ति सर्वज्ञप्रत्यक्षाः, इतरेषामागमगभ्याः । आहारलाभालाभयोः पुष्टिम्लानादिदर्शनेन युक्तिगम्याश्च । अण्डगर्भस्थमूर्च्छितादिषु सत्यपि जीवत्वे तत्पूर्वक- प्रवृत्त्यभावात् हेतुव्यभिचारः । २५पुण्यपापागमद्वारलक्षण आस्रवः । १६ । पुण्यपापलक्षणस्य कर्मण आगमनद्वारमास्रव इत्युच्यते । आस्रव इवास्रवः । क उपमार्थः ? यथा महोदधेः सलिलमापगामुखैरहरहरापूर्यते, तथा मिथ्यादर्शनादिद्वारानुप्रविष्टैः कर्मभिरनिशमात्मा समापूर्यत इति मिथ्यादर्शनादि द्वारमास्रवः । आत्मकर्मणोरन्योन्यप्रदेशानुप्रवेशलक्षणो बन्धः । १७ । मिथ्यादर्शनादिप्रत्ययोपनीतानां ३०कर्मप्रदेशानाम् आत्मप्रदेशानां च परस्परानुप्रवेशलक्षणो बन्धः । बन्ध इव बन्धः । क उपमार्थः ? २७ यथा निगडादिद्रव्यबन्धनबद्धो देवदत्तोऽस्वतन्त्रत्वाद् अभिप्रेतदेशगमनाद्यभावाद् अतिदुःखी भवति, तथा आत्मा कर्मबन्धनबद्धः पारतन्त्र्यात् शारीरमानसदुःखाभ्यर्दितो भवति । आस्रवनिरोधलक्षणः संवरः । १८ । पूर्वोक्तानामास्रवद्वाराणां शुभपरिणामवशान्निरोधः संवरः । संवर इव संवरः । क उपमार्थः ? यथा सुगुप्तसुसंवृतद्वारकवाटं पुरं सुरक्षितं दुरासद- ०५मरातिभिर्भवति, तथा सुगुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रात्मनः सुसंवृतेन्द्रियकषाय- योगस्य अभिनवकर्मागमद्वारसंवरणात् संवरः । एकदेशकर्मसंक्षयलक्षणा निजरा । १९ । उपात्तस्य कर्मणः तपोविशेषसन्निधाने सत्येक- देशसंक्षयलक्षणा निर्जरा । निर्जरेव निर्जरा । क उपमार्थः ? यथा मन्त्रौषधबलान्निर्जीर्णवीर्य- विपाकं विषं न दोषप्रदं तथा सविपाकाऽविपाकनिर्जराप्रत्ययतपोविशेषेण निर्जीर्णरसं कर्म न १०संसारफलप्रदम् । कृत्स्नकर्मवियोगलक्षणो मोक्षः । २० । सम्यग्दर्शनादिहेतुप्रयोगप्रकर्षे सति कृत्स्नस्य कर्मणश्चतुर्विधबन्धवियोगो मोक्षः । मोक्ष इव मोक्षः । क उपमार्थः ? यथा निगडादिद्रव्यमोक्षात् सति स्वातन्त्र्ये अभिप्रेतप्रदेशगमनादेः पुमान् सुखी भवति, तथा कृत्स्नकर्मवियोगे सति स्वाधीनात्यन्तिकज्ञानदर्शनानुपमसुख आत्मा भवति । लक्षणमुक्तम् । इदानीं क्रमहेतुरुच्यते — १५तादर्थ्यात् परिस्पन्दस्य आदौ जीवग्रहणम् । २१ । योऽयं मोक्षमार्गतत्त्वाविष्करणपरिस्पन्दः स आत्मार्थः, तस्य मोक्षपर्यायपरिणामात् । यो वा जीवाद्युपदेशपरिस्पन्दः स आत्मार्थः, तस्यो- पयोगस्वाभाव्ये सति ग्राहकत्वात् । अत आदौ जीवग्रहणम् । तदनुग्रहार्थत्वात् तदनन्तरमजीवाभिधानम् । २२ । यतः शरीरवाङ्मनःप्राणापानादिनोप- कारेणाऽजीव आत्मानमनुगृह्णाति, अतस्तदनन्तरमजीवाभिधानम् । २०तदुभयाधीनत्वात् तत्समीपे आस्रवग्रहणम् । २३ । यत आत्मकर्मणोः परस्पराश्लेषे सत्या- स्रवप्रसिद्धिर्भवति, अतस्तत्समीपे आस्रवग्रहणम् । तत्पूर्वकत्वाद् बन्धस्य ततः परं बन्धवचनम् । २४ । यत आस्रवपूर्वको बन्धः, ततः परं वचनं तस्य क्रियते । संवृतस्य बन्धाभावात् तत्प्रत्यनीकप्रतिपत्त्यर्थं संवरवचनम् । २५ । यतः संवृतस्यात्मनो २५बन्धो नास्ति ततस्तत्प्रत्यनीकप्रतिपत्त्यर्थं तदनन्तरं संवरवचनम् । संवरे सति निर्जरोपपत्तेस्तदन्तिके निर्जरावचनम् । २६ । यतः संवरपूर्विका निर्जरा तत- स्तदन्तिके निर्जरावचनम् । अन्ते प्राप्यत्वात् मोक्षस्यान्ते वचनम् । २७ । निर्जीर्णेषु कर्मस्वन्ते मोक्षः प्राप्यत इत्यन्ते वचनम् । ३०पुण्यपापपदार्थोपसंख्यानमिति चेत्; न; आस्रवे बन्धे वा अन्तर्भावात् । २८ । स्यादेतत् — पुण्य- पापपदार्थयोरुपसंख्यानं कर्तव्यम् अन्यैरप्युक्तत्वादिति; तन्न; किं कारणम् ? आस्रवे बन्धे वा अन्तर्भावात्, यत आस्रवो बन्धश्च पुण्यपापात्मकः । तत्त्वशब्दस्य भाववाचित्वात् जीवादिभिः सामानाधिकरण्याऽनुपपत्तिः । २९ । तत्त्वशब्दो भाववाचीति व्याख्यातमेतत् । अतस्तस्य जीवादिभिर्द्रव्यवचनैः समानाधिकरण्यं नोपपद्यते । २८ न वा, अव्यतिरेकात् तद्भावसिद्धेः । ३० । न वा एष दोषः । किं कारणम् ? अव्य- तिरेकात्तद्भावसिद्धेः । न हि द्रव्याद् व्यतिरिक्तो भावोऽस्ति अतस्तद्भावेनाऽध्यारोप्यते यथा ‘ज्ञानमेवात्मा’ इति । यदि तद्भावोऽध्यारोप्यते तल्लिङ्गसंख्यानुवृत्तिः प्राप्नोति ? तल्लिङ्गसंख्यानुवृत्तौ चोक्तम् । ३१ । किमुक्तम् ? ‘न, उपात्तव्यक्तिवचनत्वात्’ इति । ०५इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे प्रथमेऽध्याये चतुर्थमाहिनकम् ॥ ४ ॥ एवं संज्ञास्वालक्षण्यादिभिरुद्दिष्टानां जीवादीनां संव्यवहारविशेषव्यभिचारनिवृत्त्यर्थमाह — नामस्थापनाद्रव्यभावतस्तन्न्यासः ॥ ५ ॥ नीयते गम्यतेऽनेनार्थः, नमति वाऽर्थमभिमुखीकरोतीति नाम । स्थाप्यते प्रतिनिधी- यतेऽसाविति स्थापना । द्रोष्यते गम्यते गुणैः, द्रोष्यति गमिष्यति गुणानिति वा द्रव्यम् । भवनं १०भवतीति वा भावः । नामादीनामितरेतरयोगलक्षणो द्वन्द्वः । नामस्थापनाद्रव्यभावैर्नामस्थापना- द्रव्यभावतः । *“आद्यादित्वात्”[जैनेº वाº ४ । २ । ४९]*“दृश्यन्तेऽन्यतोऽपि”[जैनेº ४ । १ । ७९] इति वा तसिः । न्यसनं न्यस्यत इति वा न्यासो निक्षेप इत्यर्थः । तेषां न्यासस्तन्न्यासः । एतेषां नामादीनां किं लक्षणमिति ? अत्रोच्यते — निमित्तान्तरानपेक्षं संज्ञाकर्म नाम । १ । निमित्तादन्यन्निमित्तं निमित्तान्तरम्, तदन- १५पेक्ष्य क्रियमाणा संज्ञा नामेत्युच्यते । यथा परमैश्वर्यलक्षणेन्दनक्रियानिमित्तान्तरानपेक्षं कस्य- चित् ‘इन्द्रः’ इति नाम । तथा जीवनक्रियानपेक्षं श्रद्धानक्रियानपेक्षं वा कस्यचित् ‘जीवः सम्यग्दर्शनम्’ इति वा नाम । सोऽयमित्यभिसंबन्धत्वेन अन्यस्य व्यवस्थापनामात्रं स्थापना । २ । यथा परमैश्वर्यलक्षणो यः शचीपतिरिन्द्रः, ‘सोऽयम्’ इत्यन्यवस्तु प्रतिनिधीयमानं स्थापना भवति । एवं ‘जीव इति २०वा सम्यग्दर्शनम्’ इति वा अक्षनिक्षेपादिषु ‘सोऽयम्’ इति व्यवस्थापनामात्रं स्थापना । अनागतपरिणामविशेषं प्रति गृहीताभिमुख्यं द्रव्यम् । ३ । यद् भाविपरिणामप्राप्तिं प्रति योग्यतामादधानं तद् द्रव्यमित्युच्यते । अतद्भावं वा । ४ । अथवा, अतद्भावं वा द्रव्यमित्युच्यते । यथेन्द्रार्थमानीतं काष्ठमिन्द्र- प्रतिमापर्यायप्राप्तिं प्रत्यभिमुखम् ‘इन्द्रः’ इत्युच्यते, तथा जीव-सम्यग्दर्शनपर्यायप्राप्तिं प्रति २५गृहीताभिमुख्यं द्रव्यं द्रव्यजीवो द्रव्यसम्यग्दर्शनमिति चोच्यते । युक्तं तावत् सम्यग्दर्शनप्राप्तिं प्रति गृहीताभिमुख्यमिति, अतत्परिणामस्य जीवस्य संभवात्, इदं त्वयुक्तम् — जीवनपर्यायप्राप्तिं २९ प्रति गृहीताभिमुख्यमिति । कुतः ? सदा तत्परिणामात् । यदि न स्यात्; प्रागजीवः प्राप्नोति । नैष दोषः; मनुष्यजीवादिविशेषापेक्षया स व्यपदेशो वेदितव्यः । तद्द्विविधम् — आगम-नोआगमभेदात् । ५ । तदेतद् द्रव्यं द्विविधम् । कुतः ? आगम — नो- आगमभेदात् । आगमद्रव्यजीवः नोआगमद्रव्यजीवः, आगमद्रव्यसम्यग्दर्शनं नोआगमद्रव्य- ०५सम्यग्दर्शनमिति च । अनुपयुक्तः प्राभृतज्ञाय्यात्मा आगमः । ६ । अनुपयुक्तः प्राभृतज्ञायी आत्मा आगमद्रव्यमि- त्युच्यते । इतरत् त्रिविधम् — ज्ञायकशरीर — भावि — तद्व्यतिरिक्तभेदात् । ७ । इतरन्नोआगमद्रव्यं त्रैवि- ध्यमास्कन्दति । कुतः ? ज्ञायकशरीर — भावि-तद्व्यतिरिक्तभेदात् । ज्ञातुर्यच्छरीरं त्रिकाल- १०गोचरं तज्ज्ञायकशरीरम् । जीवन-सम्यग्दर्शनपरिणामप्राप्तिं प्रत्यभिमुखं द्रव्यं भावीत्युच्यते । तद्व्यतिरिक्तं कर्म — नोकर्मविकल्पम् । वर्तमानतत्पर्यायोपलक्षितं द्रव्यं भावः । ८ । वर्तमानेन तेन जीवन-सम्यग्दर्शनपर्यायेणो- पलक्षितं द्रव्यं भावजीवो भावसम्यग्दर्शनमिति चोच्यते । यथा इन्द्रनामकर्मोदयापादितेन्दन- क्रियापर्यायपरिणत आत्मा भावेन्द्रः । १५स द्विविधः पूर्ववत् । ९ । स एष भावो द्विविधो वेदितव्यः पूर्ववत् आगम-नोआगमभेदात् । तत्प्राभृतविषयोपयोगाविष्ट आत्मा आगमः । १० । जीवादिप्राभृतविषयेणोपयोगेनाविष्ट आत्मा आगमतो भावजीवो भावसम्यग्दर्शनमिति चोच्यते । जीवनादिपर्यायाविष्टोऽन्यः । ११ । जीवनादिपर्यायेणाऽऽविष्ट आत्माऽन्यो नोआगमतो भाव इत्युच्यते । २०नामस्थापनयोरेकत्वं संज्ञाकर्माऽविशेषादिति चेत्; न; आदरानुग्रहाकाङ्क्षित्वात् स्थापना- याम् । १२ । स्यान्मतम् — नामस्थापनयोरेकत्वम् । कुतः ? संज्ञाकर्माविशेषात् । यतो नाम्नि स्था- पनायां च संज्ञाकरणं समानम्, न ह्यकृते नाम्नि स्थाप्यत इति । तच्च न; कुतः ? आदरानु- ग्रहाकाङ्क्षित्वात् स्थापनायाम् । यथा अर्हदिन्द्रस्कन्देश्वरादिप्रतिमासु आदरानुग्रहाकाङ्क्षित्वं जनस्य, न तथा परिभाषिते वर्तते । ततोऽन्यत्वमनयोः । २५द्रव्यभावयोरेकत्वम् अव्यतिरेकादिति चेत्; न; कथञ्चित् संज्ञास्वालक्षण्यादिभेदात् तद्भे- दसिद्धेः । १३ । स्यादारेका — द्रव्यभावयोस्तर्ह्येकत्वं प्रसज्यते । कुतः ? तदव्यतिरेकात् । नहि द्रव्यव्यतिरेकेण भाव उपलभ्यते भावव्यतिरेकेण वा द्रव्यम्, अतोऽनयोरेकत्वमिति । तच्च न; कुतः ? संज्ञास्वालक्षण्यादिभेदात् तद्भेदसिद्धेः । इह ययोः संज्ञास्वालक्षण्यादिकृतो भेदः तयो- र्नानात्वमुपलभ्यते तथा द्रव्यभावयोरपीति । कश्चिदाह — ३० द्रव्यस्यादौ वचनं न्याय्यं तत्पूर्वकत्वान्नामादीनाम् । १४ । द्रव्यस्यादौ वचनं न्याय्यम् । कुतः ? तत्पूर्वकत्वान्नामादीनाम् । सतो हि संज्ञिनो नामादिभिर्भवितव्यमिति; नैष दोषः; संव्यवहारहेतुत्वात् संज्ञायाः पूर्ववचनम् । १५ । संव्यवहारहेतुत्वात् संज्ञायाः पूर्ववचनं क्रियते । सर्वो हि लोकसंव्यवहारः संज्ञापूर्वकः तदात्मकत्वात्, तदनात्मकत्वे वस्तुव्यवहार- ०५विच्छेदः । तदात्मकत्वाच्च स्तुतिनिन्दयो रागद्वेषप्रवृत्तिः सिद्धा । ततः स्थापनावचनम्, आहितनामकस्य स्थापनोपपत्तेः । १६ । ततः परं स्थापना विधीयते । कुतः ? आहितनामकस्य स्थापनोपपत्तेः । आहितनामकस्य ‘सोऽयम्’ इति किञ्चित् प्रति- निधीयते । द्रव्यभावयोः पूर्वपरन्यासः पूर्वोत्तरकालवृत्तित्वात् । १७ । द्रव्यभावयोः पूर्वपरन्यासः १०क्रियते । किं कारणम् ? पूर्वोत्तरकालवृत्तित्वात् । पूर्वकालविषयं हि द्रव्यम् । उत्तरकालभावी भाव इति । तत्त्वप्रत्यासत्तिप्रकर्षाऽप्रकर्षभेदाद्वा तत्क्रमः । १८ । अथवा, तत्त्वप्रत्यासत्तेः प्रकर्षाप्रकर्ष- भेदात्तेषां नामादीनामुद्दिष्टः क्रमो वेदितव्यः । तत्त्वं भावः प्रधानम्, तदर्थानीतराणि, तत्र प्रत्यासत्तेस्तत्समीपे द्रव्यं प्रयुक्तं तद्भावापत्तेः । ततः पूर्वं स्थापनोपादानम्, अतद्भावेपि तद्भावं १५प्रति प्रधानहेतुत्वात् । ततः पूर्वं नामोपादानम् भावं प्रति विप्रकृष्टत्वात् । नामादिचतुष्टयाभावो विरोधात् । १९ । अत्राह — नामादिचतुष्टयस्याभावः । कुतः ? विरोधात् । एकस्य शब्दार्थस्य नामादिचतुष्टयं विरुध्यते । यथा नामैकं नामैव, न स्थापना । अथ नाम स्थापना इष्यते न नामेदं नाम । स्थापना तर्हि; न चेयं स्थापना, नामेदम् । अतो नामार्थ एको विरोधान्न स्थापना । तथैकस्य जीवादेरर्थस्य सम्यग्दर्शनादेर्वा विरोधान्नामाद्यभाव इति । २०न वा; सर्वेषां संव्यवहारं प्रत्यविरोधात् । २० । न वैष दोषः । किं कारणम् ? सर्वेषाम् संव्यवहारं प्रत्यविरोधात् । लोके हि सर्वैर्नामादिभिर्दृष्टः संव्यवहारः । इन्द्रो देवदत्तः इति नाम । प्रतिमादिषु चेन्द्र इति स्यापना । इन्द्रार्थे च काष्ठे द्रव्ये इन्द्रसंव्यवहारः ‘इन्द्र आनीतः’ इति वचनात् । अनागतपरिणामे चार्थे द्रव्यसंव्यवहारो लोके दृष्टः — द्रव्यमयं माणवकः, आचार्यः श्रेष्ठी वैयाकरणो राजा वा भविष्यतीति व्यवहारदर्शनात् । शचीपतौ च भावे इन्द्र २५इति । न च विरोधः । किञ्च, अभिहितानवबोधात् । २१ । ‘यथा नामैकं नामैवेष्यते न स्थापना’ इत्याचक्षाणेन त्वया अभिहितानवबोधः प्रकटीक्रियते । यतो नैवमाचक्ष्महे — ‘नामैव स्थापना’ इति, किन्तु एकस्या- र्थस्य नामस्थापनाद्रव्यभावैर्न्यासः इत्याचक्ष्महे । अनेकान्ताच्च । २२ । नैतदेकान्तेन प्रतिजानीमहे — नामैव स्थापना भवतीति न वा, ३०स्थापना वा नाम भवति नेति च । कथम् ? मनुष्यब्राह्मणवत् । २३ । यथा ब्राह्मणः स्यान्मनुष्यो ब्राह्मणस्य मनुष्यजात्यात्मकत्वात् । मनुष्यस्तु ब्राह्मणः स्यान्न वा, मनुष्यस्य ब्राह्मणजात्यादिपर्यायात्मकत्वादर्शनात् । तथा स्थापना- स्यान्नाम, अकृतनाम्नः स्थापनानुपपत्तेः । नाम तु स्थापना स्यान्न वा, उभयथा दर्शनात् । ३१ तथा द्रव्यं स्याद्भावः, भावद्रव्यार्थादेशात् न भावपर्यायार्थादेशाद् द्रव्यम् । भावस्तु द्रव्यं स्यान्न वा, उभयथा दर्शनात् । किञ्च, अतस्तत्सिद्धेः । २४ । यत एव नामादिचतुष्टयस्य विरोधं भवानाचष्टे अत एव नाभावः । कथम् ? इह योऽयं सहानवस्थानलक्षणो विरोधो वध्यघातकवत् स सतामर्थानां भवति नाऽसतां ०५काकोलूक-छायातपवत्, न काकदन्त-खरविषाणयोर्विरोधोऽसत्त्वात् । किञ्च, नामाद्यात्मकत्वाऽनात्मकत्वे विरोधस्याऽविरोधकत्वात् । २५ । यो नामादिचतुष्टयस्य विरोधः स नामाद्यात्मको वा स्यात्, न वा ? उभयथा च विरोधाभावः । यदि नामाद्यात्मकः; नासौ विरोधको नामाद्यात्मवत् । अथ तदात्मकोऽपि विरोधो नामादीनां विरोधकः; नामाद्या- त्मापि विरोधकः स्यात्, ततो नामादीनामभावाद्विरोध एव न स्यात् । अथ न नामाद्या- १०त्मकः; एवमपि नामादीनां नासौ विरोधकोऽर्थान्तरत्वात् । अथ अर्थान्तरभावेऽपि विरोध- कत्वमिष्यते; सर्वेषां पदार्थानां परस्परतो नित्यं विरोधः स्यात् । न चासावस्तीति । अतो विरोधाभावः । ताद्गुण्याद् भावस्य प्रामाण्यमिति चेत्; नः इतरव्यवहारनिवृत्तेः । २६ । स्यादेतत् — ताद्गुण्याद् भाव एव प्रमाणं न नामादिः । स जीवनादिर्गुणो यस्य स तद्गुणः, तस्य भावस्ताद्गुण्यम्, १५अतो भाव एव प्रमाणं न नामादिः, ताद्गुण्याभावादिति; तन्न; किं कारणम् ? इतरव्यवहार- निवृत्तेः । एवं हि सति नामाद्याश्रयो व्यवहारो निवर्तेत । स चास्तीति । अतो न भावस्यैव प्रामाण्यम् । उपचारादिति चेत्; न; तद्गुणाभावात् । २७ । स्यादेतत् — यद्यपि भावस्यैव प्रामाण्यं तथापि नामादिव्यवहारो न निवर्तते । कुतः ? उपचारात्, माणवके सिंहशब्दव्यवहारवदिति । तन्न; किं २०कारणम् ? तद्गुणाभावात् । युज्यते माणवके सिंहशब्दव्यवहारः क्रौर्यशौर्यादिगुणैकदेश- योगात्, इह तु नामादिषु जीवनादिगुणैकदेशो न कश्चिदप्यस्तीत्युपचाराभावाद् व्यवहार- निवृत्तिः स्यादेव । मुख्यसंप्रत्ययप्रसङ्गाच्च । २८ । यद्युपचारान्नामादिव्यवहारः स्यात्, *“गौणमुख्ययो- र्मुख्ये संप्रत्ययः”[पातº महाº ८ । ३ । ८२] इति मुख्यस्यैव संप्रत्ययः स्यान्न नामादीनाम् । २५यतस्त्वर्थप्रकरणादिविशेषलिङ्गाभावे सर्वत्र संप्रत्ययः अविशिष्टः कृतसंगतेर्भवति, अतो न नामादिषूपचाराद् व्यवहारः । *“कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवति”[पातº महाº १ । १ । २२] इति चेत्; न; उभयगतिदर्शनात् । २९ । स्यादेतत् — कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययो भवतीति लोके । तद्यथा ‘गोपालकमानय कटेजकमानय’ इति, यस्यैषा संज्ञा भवति स आनीयते, न यो गाः पालयति ३०यो वा कटे जातः । एवमिहापि यस्यैषा ‘जीवादिः’ इति संज्ञा कृता तस्यैव संप्रत्ययः स्यान्नेतरेषामिति; तन्न; किं कारणम् ? उभयगतिदर्शनात् । लोके ह्यर्थात् प्रकरणाद्वा कृत्रिमे संप्रत्ययः स्यात् अर्थो वाऽस्यैवंसंज्ञकेन भवति, प्रकृतं वा तत्र भवति ‘इदमेवं- संज्ञकेन कर्तव्यम्’ इति, अर्थात् प्रकरणाद्वा लोके संप्रत्ययो भवति । अङ्ग हि भवान्, ३२ ग्राम्यं पांशुलपादकमप्रकरणज्ञमागतं ब्रवीतु — ‘गोपालकमानय कटेजकमानय’ इति, उभय- गतिस्तस्य भविष्यति । किञ्च, अनेकान्तात् । ३० । नायमेकान्तः कृत्रिममेवेदं न कृत्रिममेवेति । किं तर्हि ? अने- कान्तः । नाम सामान्यापेक्षया स्यादकृत्रिमं विशेषापेक्षया कृत्रिमम् । एवं स्थापनादयश्चेति । ०५ततः किम् ? *“कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययः” इत्यस्याभावः । किञ्च, नयद्वयविषयत्वात् । ३१ । द्वौ नयौ द्रव्यार्थिकः पर्यायार्थिकश्च, तयोर्विषयो नामादिन्यासः । तत्र नामस्थापनाद्रव्याणि प्राच्यस्य, सामान्यात्मकत्वात् । पाश्चात्यस्य भावः, परिणति- प्रधानत्वात् । ततः किम् ? *“गोणमुख्ययोर्मुख्ये संप्रत्ययः” “कृत्रिमाकृत्रिमयोः कृत्रिमे संप्रत्ययः” इति च न भवति । प्रतिविषयं नयभेदात् । १०द्रव्यार्थिकपर्यायार्थिकान्तर्भावान्नामादीनां तयोश्च नयशब्दाभिधेयत्वात् पौनरुक्त्य- प्रसङ्गः । ३२ । यतो नामस्थापनाद्रव्याणि द्रव्यार्थिकस्य, भावः पर्यायार्थिकस्येत्युक्तम्, ततो नामादीनां नयान्तर्भावात्, नयविकल्पानां च वक्ष्यमाणत्वात् पौनरुक्त्यं प्राप्नोति । न वा; विनेयमतिभेदाधीनत्वाद् द्व्यादिनयविकल्पनिरूपणस्य । ३३ । न वा एष दोषः । किं कारणम् ? विनेयमतिभेदाधीनत्वाद् द्व्यादिनयविकल्पनिरूपणस्य । ये सुमेधसो विने- १५यास्तेषां द्वाभ्यामेव द्रव्यार्थिकपर्यायार्थिकाभ्यां सर्वनयवक्तव्यार्थप्रतिपत्तिः तदन्तर्भावात् । ये त्वतो मन्दमेधसः तेषां त्र्यादिनयविकल्पनिरूपणम् । अतो विशेषोपपत्तेर्नामादीनाम- पुनरुक्तत्वम् । तच्छब्दाऽग्रहणं प्रकृतत्वात् । ३४ । सम्यग्दर्शनादित्रयस्य प्रकृतत्वादेव नामादिन्यासाभि- संबन्धः । ततस्तच्छब्दस्य ग्रहणमनर्थकम् । २०प्रत्यासन्नत्वाज्जीवादिषु प्रसङ्ग इति चेत्; न; सम्यग्दर्शनविषयत्वात् । ३५ । स्यादेतत् — तच्छब्दाद् विना प्रत्यासन्ना जीवादयस्तेषामेव न्यासाभिसंबन्धो भवेत् न सम्यग्दर्शना- दीनाम् । कुतः ? *“अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा”[पातº महाº १ । २ । ४७] इति; तन्न; किं कारणम् ? सम्यग्दर्शनविषयत्वात् । सम्यग्दर्शनादित्रयस्य प्राघान्येनोपदेशः तदर्थत्वाच्छास्त्रारम्भस्य, सम्यग्दर्शनादिविषयत्वेन तु जीवादीनां गुणभूतत्वेनोपदेशः । २५अतस्तच्छब्दादृतेऽपि सम्यग्दर्शनादित्रयस्य प्राधान्यात् नामादिन्यासेनाभिसंबन्धो युक्तः । विशेषातिदिष्टत्वाच्च । ३६ । जीवादयः सम्यग्दर्शनविषयत्वेन विशेषेणातिदिष्टाः प्रकृतं सम्यग्दर्शनादित्रयं न बाधिष्यन्ते *“विशेषातिदिष्टाः प्रकृतं न बाधन्ते” इति । सर्वभावाधिगमार्थं तु । ३७ । सर्वेषां भावानां जीवाजीवादीनामप्रधानानां प्रधानानां च सम्यग्दर्शनादीनाम् अधिगमार्थं तर्हि तच्छब्दग्रहणम् । इतरथा हि प्रधानाभिसंबन्ध ३०एव स्यात् । एवमजीवादिषु ज्ञानचारित्रयोश्च नामादिन्यासविकल्पो योजयितव्यः । अधिकृतानामेव सम्यग्दर्शनादिजीवादीनां पदार्थानाम् अभिधानाभिधेयसंव्यवहाराऽव्य- भिचाराय नामादिभिर्निक्षिप्तानां तत्त्वाधिगमहेतुर्वक्तव्य इति । अत आह — ३३ प्रमाणनयैराधिगमः ॥ ६ ॥ प्रमाणे च नयाश्च प्रमाणनयाः, तैरधिगमो भवति सम्यग्दर्शनादीनां जीवादीनाम् । प्रमाणनया वक्ष्यमाणलक्षणाः । ननु च नयशब्दस्याल्पाच्तरत्वात् पूर्वनिपातेन भवितव्यम् ? ०५अभ्यर्हितत्वात् प्रमाणशब्दस्य पूर्वनिपातः । १ । *“अभ्यर्हितं पूर्वम् निपतति” [पातº महाº २ । २ । ३४] इति प्रमाणशब्दस्य पूर्वनिपातो वेदितव्यः । कथमभ्यर्हितत्वम् ? प्रमाणप्रकाशितेष्वर्थेषु नयप्रवृत्तेर्व्यवहारहेतुत्वादभ्यर्हः । २ । यतः प्रमाणप्रकाशितेष्वर्थेषु नयप्रवृत्तिर्व्यवहारहेतुर्भवति नान्येषु अतोऽस्याभ्यर्हितत्वम् । समुदायाऽवयवविषयत्वाद्वा । ३ । अथवा, समुदायविषयं प्रमाणम् अवयवविषया नया १०इति प्रमाणस्याभ्यर्हितत्वम् । तथा चोक्तम् — *“सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीनः” इति । अधिगमहेतुर्द्विविधः । ४ । [अधिगमहेतुर्द्विविधः] स्वाधिगमहेतुः, पराधिगमहेतुश्च । स्वाधिगमहेतुर्ज्ञानात्मकः प्रमाणनयविकल्पः, पराधिगमहेतुर्वचनात्मकः । तेन श्रुताख्येन प्रमा- णेन स्याद्वादनयसंस्कृतेन प्रतिपर्यायं सप्तभङ्गीमन्तो जीवादयः पदार्था अधिगमयितव्याः । १५अत्राह — केयं सप्तभङ्गी इति ? अत्रोच्यते — प्रश्नवशादेकस्मिन् वस्तुन्यविरोधेन विधिप्रतिषेधविकल्पना सप्तभङ्गी । ५ । एकस्मिन् वस्तुनि प्रश्नवशाद् दृष्टेनेष्टेन च प्रमाणेनाऽविरुद्धा विधिप्रतिषेधविकल्पना सप्तभङ्गी विज्ञेया । तद्यथा — स्याद् घटः, स्यादघटः, स्याद् घटश्चाऽघटश्च, स्यादवक्तव्यः, स्याद् घटश्चा- ऽवक्तव्यश्च, स्यादघटश्चावक्तव्यश्च, स्याद् घटश्चाऽघटश्चाऽवक्तव्यश्चेति अर्पितानर्पित- २०नयसिद्धेर्निरूपयितव्या । तत्र स्वात्मना स्याद् घटः, परात्मना स्यादघटः । को वा घटस्य स्वात्मा को वा परात्मा ? घटबुद्ध्यभिधानप्रवृत्तिलिङ्गः स्वात्मा, यत्र तयोरप्रवृत्तिः स परात्मा पटादिः । स्वपरात्मोपादानापोहनव्यवस्थापाद्यं हि वस्तुनो वस्तुत्वम् । यदि स्वस्मिन् पटाद्यात्मव्या- वृत्तिविपरणतिर्न स्यात् सर्वात्मना घट इति व्यपदिश्येत । अथ परात्मना व्यावृत्तावपि २५स्वात्मोपादानविपरणतिर्न स्यात् खरविषाणवदवस्त्वेव स्यात् । अथवा, नामस्थापनाद्रव्यभावेषु यो विवक्षितः स स्वात्मा, इतरः परात्मा । तत्र विवक्षितात्मना घटः, नेतरात्मना । यदीतरात्मनापि घटः स्यात् विवक्षितात्मना वाऽघटः; नामादिव्यवहारोच्छेदः स्यात् । अथवा, तत्र विवक्षितघटशब्दवाच्यसादृश्यसामान्यसंबन्धिषु कस्मिंश्चिद् घटविशेषे ३०परिगृहीते प्रतिनियतो यः संस्थानादिः स स्वात्मा, इतरः परात्मा । तत्र प्रतिनियतेन रूपेण घटः नेतरेण । यदीतरात्मकः स्यात्; एकघटमात्रप्रसङ्गः । ततः सामान्याश्रयो व्यवहारो विनश्येत् । अथवा, तस्मिन्नेव घटविशेषे कालान्तरावस्थायिनि पूर्वोत्तरकुशूलान्तकपालाद्यवस्था- कलापः परात्मा, तदन्तरालवर्ती स्वात्मा । स तेनैव घटः तत्कर्मगुणव्यपदेशदर्शनात्, ३४ नेतरात्मना । यदि हि कुशूलान्तकपालाद्यात्मनापि घटः स्यात्; घटावस्थायामपि तदुपलब्धि- र्भवेत्, उत्पत्तिविनाशार्थं पुरुषप्रयत्नफलाभावश्चानुषज्येत । अथान्तरालवर्तिपर्यायात्म- नाप्यघटः स्यात्; घटकृत्यं फलं नोपलभ्येत । अथवा, प्रतिक्षणं द्रव्यपरिणामोपचयापचयभेदादर्थान्तरत्वोपपत्तेः ऋजुसूत्रनयापेक्षया ०५प्रत्युत्पन्नघटस्वभावः स्वात्मा, घटपर्याय एवातीतोऽनागतश्च परात्मा । तेन प्रत्युत्पन्नस्व- भावेन सता स घटः नेतरणासता, तथोपलब्ध्यनुपलब्धिसद्भावात् । इतरथा हि प्रत्युत्पन्न- वदतीतानागतात्मनापि घटत्वे एकसमयमात्रमेव सर्वं स्यात्, अतीतानागतवद्वा प्रत्युत्पन्ना- भावे घटाश्रयव्यवहाराभाव आपद्येत विनष्टानुत्पन्नघटव्यवहाराभाववत् । अथवा, तस्मिन् प्रत्युत्पन्नविषये रूपादिसमुदये परस्परोपकारवर्तिनि पृथुबुध्नाद्याकारः १०स्वात्मा, इतरः परात्मा । तेन पृथुबुध्नाद्याकारेण स घटोऽस्ति नेतरेण; घटव्यवहारस्य तद्भावे भावात् तदभावे चाऽभावात् । यदि हि पृथुबुध्नाद्यात्मनापि घटो न स्यात्; स एव न स्यात् । अथेतरात्मनापि घटः स्यात्; तदाकारशून्येऽपि घटव्यवहारः प्राप्नुयात् । अथवा, रूपादिसन्निवेशविशेषः संस्थानम् । तत्र ‘चक्षुषा घटो गृह्यते’ इत्यस्मिन् व्यवहारे रूपमुखेन घटो गृह्यत इति रूपं स्वात्मा, रसादिः परात्मा । स घटो रूपेणास्ति १५नेतरेण रसादिना; प्रतिनियतकरणग्राह्यत्वात् । अथ हि ‘चक्षुषा घटो गृह्यते’ इत्यत्र रसा- दिरपि घट इति गृह्येत; सर्वेषां रूपत्वप्रसङ्गः, ततश्च करणान्तरकल्पनाऽनर्थिका । यदि वा रसादिवद्रूपमपि घट इति न गृह्येत; चक्षुर्विषयताऽस्य न स्यात् । अथवा, शब्दभेदे ध्रुवोऽर्थभेद इति घटकुटादिशब्दानामप्यर्थभेदः — घटनाद् घटः कौटि- ल्यात् कुट इति तत्क्रियापरिणतिलक्षण एव तस्य शब्दस्य वृत्तिर्युक्ता । तत्र घटनक्रिया- २०विषयकर्तृभावः स्वात्मा, इतरः परमात्मा । तत्राद्येन घटः नेतरेण, तथार्थसमभिरोहणात् । यदि च घटनक्रियापरणतिमुखेनाप्यघटः स्यात्; तद्व्यवहारनिवृत्तिः स्यात् । यदि वा इतर- व्यपेक्षयापि घटः स्यात्, पटादिष्वपि तत्क्रियाविरहितेषु तच्छब्दवृत्तिः स्यात्, एकशब्द- वाच्यत्वं वा वस्तुनः । अथवा, घटशब्दप्रयोगानन्तरमुत्पद्यमान उपयोगाकारः स्वात्मा अहेयत्वादन्तरङ्ग- २५त्वाच्च । बाह्यो घटाकारः परात्मा तदभावेऽपि घटव्यवहारदर्शनात् । स घट उपयोगा- कारेणास्ति नान्येन । यदि हि उपयोगाकारात्मनाऽप्यघटः स्यात्; वक्तृश्रोतृहेतुफलभूतोप- योगघटाकाराभावात् तदधीनो व्यवहारो विनाशमाप्नुयात् । इतरोऽसन्निहितोऽपि यदि घटः स्यात्; पटादीनामपि स्याद् घटत्वप्रसङ्गः । अथवा, चैतन्यशक्तेर्द्वावाकारौ ज्ञानाकारो ज्ञेयाकारश्च । अनुपयुक्तप्रतिबिम्बाकारा- ३०दर्शतलवत् ज्ञानाकारः, प्रतिबिम्बाकारपरिणतादर्शतलवत् ज्ञेयाकारः । तत्र ज्ञेयाकारः स्वा- त्मा, तन्मूलत्वाद् घटव्यवहारस्य । ज्ञानाकारः परात्मा, सर्वसाधारणत्वात् । स घटो ज्ञेयाकारेणास्ति नान्यथा । यदि ज्ञेयाकारेणाप्यघटः स्यात्; तदाश्रयेतिकर्तव्यतानिरासः स्यात् । अथ हि ज्ञानाकारेणापि घटः स्यात्; पटादिज्ञानाकारकालेऽपि तत्सन्निधानाद् घटव्यहारवृत्तिः प्रसज्येत । ३५ उक्तैः प्रकारैरर्पितं घटत्वमघटत्वं च परस्परतो न भिन्नम् । यदि भिद्येत; सामानाधि- करण्येन तद्बुद्ध्यभिधानवृत्तिर्न स्याद् घटपटवत् । ततश्चेतरतराविनाभावे उभयोरप्यभावात् तदाश्रयव्यवहारापह्नवः कृतः स्यात् । अतस्तदुभयात्मकोऽसौ क्रमेण तच्छब्दवाच्यतामास्कन्दन् ‘स्याद् घटश्चाघटश्च’ इत्युच्यते । यदि तदुभयात्मकं वस्तु घट इत्येवोच्येत; इतरात्माऽसंग्रहा- ०५दतत्त्वमेव स्यात् । अथाघट एवेत्युच्यते; घटात्मानुपादानाद् अनृतमेव स्यात्, न वस्तु ताव- देवेति । नचान्यः शब्दः तदुभयात्मावस्थतत्त्वाभिधायी विद्यते, अतोऽसौ घटो वचनगोचराती- तत्वात् ‘स्यादवक्तव्यः’ इत्युच्यते । घटात्मार्पणामुखेन उक्तावक्तव्यस्वरूपनिरूपणेन चादिश्य- मानः स एवार्थ इति ‘स्याद् घटश्चावक्तव्यश्च’ । निरूपिताऽघटभङ्गसङ्गेन प्रदर्शितावक्तव्य- वर्त्मना चापदेश्यः स एवार्थ इति ‘स्यादघटश्चावक्तव्यश्च’ । तदुभयाभिधानक्रमाक्रमार्पणा- १०वशाद् आविर्भूततद्व्यपदेशः स एवार्थः ‘स्याद् घटश्चाघटश्चावक्तव्यश्च भवति’ । एवमियं सप्तभङ्गी जीवादिषु सम्यग्दर्शनादिषु च द्रव्यार्थिकपर्यायार्थिकनयार्पणाभेदाद्योज- यितव्या । तत्र द्रव्यार्थैकान्तोऽनिश्चिततत्त्वः ‘अतत्तदेव’ इत्यवधारणाद् उन्मत्तवत् । पर्या- यार्थैकान्तोऽपि तथैव, ‘अतद्वस्तु तदेव’ (तद्वस्तु अतदेव)इत्यवधारणादुन्मत्तवत् । स्याद्वादो निश्चितार्थः अपेक्षितयाथातथ्यवस्तुवादित्वात् अनुन्मत्तवचनवत् । अवक्तव्यैकान्तोऽप्यसद्वादः, १५स्ववचनविरोधात् सदा मौनवृत्तिकवत् । अमृषार्थः स्यादवक्तव्यवादः वक्तव्यावक्तव्य- वादित्वात् सत्येतरवचनविशेषज्ञवादवत् । अनेकान्ते तदभावादव्याप्तिरिति चेत्; न; तत्रापि तदुपपत्तेः । ६ । स्यादेतत् — अनेकान्ते सा विधिप्रतिषेधविकल्पना नास्ति । यदि स्यात्; यदा अनेकान्तो न भवति तदैकान्तदोषानुषङ्गो भवेत् अनवस्थाप्रसङ्गश्च । ततस्तत्र अनेकान्तत्वमेव, इति सा सप्तभङ्गी व्याप्तमती न २०भवतीति; तन्न; किं कारणम् ? तत्रापि तदुपपत्तेः । स्यादेकान्तः, स्यादनेकान्तः, स्यादुभयः स्यादवक्तव्यः, स्यादेकान्तश्चावक्तव्यश्च, स्यादनेकान्तश्चावक्तव्यश्च, स्यादेकान्तश्चानेकान्त- श्चावक्तव्यश्चेति । तत्कथमिति चेत् ? उच्यते — प्रमाणनयार्पणाभेदात् । ७ । एकान्तो द्विविधः — सम्यगेकान्तो मिथ्यैकान्त इति । अनेका- न्तोऽपि द्विविधः — सम्यगनेकान्तो मिथ्यानेकान्त इति । तत्र सम्यगेकान्तो हेतुविशेषसामर्थ्या- २५पेक्षः प्रमाणप्ररूपितार्थैकदेशादेशः । एकात्मावधारणेन अन्याशेषनिराकरणप्रवणप्रणिधि- र्मिथ्यैकान्तः । एकत्र सप्रतिपक्षानेकधर्मस्वरूपनिरूपणो युक्त्यागमाभ्यामविरुद्धः सम्यगनेका- न्तः । तदतत्स्वभाववस्तुशून्यं परिकल्पितानेकात्मकं केवलं वाग्विज्ञानं मिथ्याऽनेकान्तः । तत्र सम्यगेकान्तो नय इत्युच्यते । सम्यगनेकान्तः प्रमाणम् । नयार्पणादेकान्तो भवति एकनिश्च- यप्रवणत्वात्, प्रमाणार्पणादनेकान्तो भवति अनेकनिश्चयाधिकरणत्वात् । यद्यनेकान्तोऽनेकान्त ३०एव स्यान्नैकान्तो भवेत्; एकान्ताभावात् तत्समूहात्मकस्य तस्याप्यभावः स्यात्, शाखा- द्यभावे वृक्षाद्यभाववत् । यदि चैकान्त एव स्यात्; तदविनाभाविशेषनिराकरणादात्मलोपे सर्वलोपः स्यात् । एवमुत्तरे च भङ्गा योजयितव्याः । ३६ छलमात्रमनेकान्त इति चेत्; न; छललक्षणाभावात् । ८ । स्यान्मतम् — ‘तदेवास्ति तदेव नास्ति तदेव नित्यं तदेवानित्यम्’ इति चानेकान्तप्ररूपणं छलमात्रमिति; तन्न; कुतः ? छललक्षणाभावात् । छलस्य हि लक्षणमुक्तम् *“वचनविघातोऽर्थविकल्पोपपत्त्या छलम्”[न्यायसूº १ । २ । १०] इति । यथा ‘नवकम्बलोऽयम्’ इत्यविशेषाभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पनम् ‘नवास्य कम्बला ०५न चत्वार इति, नवो वास्य कम्बलो न पुराणः’ इति नवकम्बलः । न तथा अनेकान्तवादः । यत उभयनयगुणप्रधानभावापादितार्पितानर्पितव्यवहारसिद्धिविशेषबललाभप्रापितयुक्तिपुष्क- लार्थः अनेकान्तवादः । संशयहेतुरिति चेत्; न; विशेषलक्षणोपलब्धेः । ९ । स्यान्मतम् — संशयहेतुरनेकान्तवादः । कथम् ? एकत्राधारे विरोधिनोऽनेकस्यासंभवात् । आगमश्चैवं प्रवृत्तः — *“एकं द्रव्यमनन्तपर्यायम्” १०इति । किमागमप्रामाण्यादस्ति वा नास्ति वा नित्यं वा अनित्यं वेति ? तच्च न; कस्मात् ? विशेषलक्षणोपलब्धेः । इह सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । तद्यथा स्थाणुपुरुषोचिते देशे नातिप्रकाशान्धकारकलुषायां वेलायामूर्ध्वत्वमात्रं सारूप्यं पश्यतो वक्रकोटरवयोनिलयनादीन् स्थाणुगतान् विशेषान् वस्त्रसंयमन-शिरःकण्डूयन-शिखा- बन्धनादीन् पुरुषगतांश्चाऽनुपलभमानस्य तेषां च स्मरतः संशय उत्पद्यते, नच तद्वदने- १५कान्तवादे विशेषानुपलब्धिः, यतः स्वरूपाद्यादेशवशीकृता विशेषा उक्ता व्यक्ताः प्रत्यक्ष- मुपलभ्यन्ते । ततो ‘विशेषोपलब्धेर्न संशयहेतुः’ इति यदगदिष्म तत्सम्यग्निरजैष्म । एवमपि संशयः । कथम् ? इदं तावदसि प्रष्टव्यः — एषामस्तित्वादीनां धर्माणां साधकाः प्रतिनियता हेतवः सन्ति वा, न वा ? यदि न सन्ति; विप्रतिपन्नप्रतिपादनासंभवः । अथ सन्ति; एकत्र विरुद्धसाधनहेतुसन्निधाने सति भवितव्यं संशयेनेति ? उच्यते — २०विरोधाभावात् संशयाभावः । १० । यदि विरोधोऽभविष्यत् संशयोऽजनिष्यत् । न च विरोधो नयोपनीतानां धर्माणामस्ति । कुतः ? अर्पणाभेदादविरोधः पितापुत्रादिसम्बन्धवत् । ११ । उक्तादर्पणाभेदाद् एकत्राऽविरोधेना- वरोधो धर्माणां पितापुत्रादिसबन्धवत् । तद्यथा — एकस्य देवदत्तस्य जातिकुलरूपसंज्ञाव्यपदेश- विशिष्टस्य ‘पिता पुत्रो भ्राता भागिनेयः’ इत्येवंप्रकाराः संबन्धा जन्यजनकत्वादिशक्त्यर्पणा- २५भेदान्न विरुध्यन्ते । न ह्येकापेक्षया पितेति शेषापेक्षयापि पिता भवति, शेषापेक्षया वा पुत्रा- दिव्यपदेशार्ह इति उक्तापेक्षयापि पुत्रादिव्यपदेशभाक् । न च पितापुत्रादिकृतं संबन्धबहुत्वं देवदत्तस्यैकत्वेन विरुध्यते । तद्वदस्तित्वादयोऽपि न यान्ति विरोधमेकत्र । ३७ सपक्षासपक्षापेक्षोपलक्षितसत्त्वासत्त्वादिभेदोपचितैकधर्मवद्वा । १२ । अथवा, सपक्षाऽ- सपक्षापेक्षयोपलक्षितानां सत्त्वासत्त्वादीनां भेदानामाधारेण पक्षधर्मेणैकेन तुल्यं सर्वद्रव्यम् । निरपेक्षयोर्ह्येकत्र वादिप्रतिवादिप्रयोगापेक्षया संशय उक्तः, इतरथा हि पक्षधर्मेऽपि संशयः कल्प्येत । ०५एकस्य हेतोः साधकदूषकत्वाऽविसंवादवद्वा । १३ । अथैवमुपपत्त्याऽविरोधे प्रतिपादितेऽपि मिथ्यादर्शनाभिनिवेशात्तत्त्वं न प्रतिपद्यते यस्तं प्रति सार्वलौकिकहेतुवादमाश्रित्योच्यते — इह स्वपक्षमर्यादानतिक्रमेण न्यायधर्ममनुपालयता वादिना अभिप्रेतप्रतिज्ञार्थसिद्धिमाशंसता हेत्वनुपदेशे ‘सर्वाभिलषितार्थसिद्धिः प्रतिज्ञामात्रादेव मा प्रापत्’ इत्यतिप्रसङ्गदोषनिवृत्तये यो हेतुरुपदिश्यते स साधको दूषकश्च — स्वपक्षं साधयति परपक्षं दूषयति । न तौ साधनदूष- १०णार्थौ हेतोरन्यौ भवतः । नचानन्यत्वमस्तीति कृत्वा येन साधकस्तेन दूषको येन वा दूषकस्तेन साधकः । न तयोः संकरो विरोधो वा । एवं सर्वार्थेषु विरोधदोषमपनुदन्ती विसर्पत्यनेकान्त- प्रक्रियेति । सर्वप्रवाद्यविप्रतिपत्तेश्च । १४ । नात्र प्रतिवादिनो विसंवदन्ते एकमनेकात्मकमिति । केचित् तावदाहुः — ‘सत्त्वरजस्तमसां साम्यावस्था प्रधानम्’ इति । तेषां प्रसादलाघवशोषतापावरण- १५सादनादिभिन्नस्वभावानां प्रधानात्मना मिथश्च न विरोधः । अथ मन्येथाः ‘न प्रधानं नामैकं गुणेभ्योऽर्थान्तरभूतमस्ति, किन्तु त एव गुणाः साम्यमापन्नाः प्रधानाख्यां लभन्ते’ इति; यद्येवं भूमा प्रधानस्य स्यात् । स्यादेतत् — तेषां समुदयः प्रधानमेकमिति; अत एवाविरोधः सिद्धः गुणानामवयवानां समुदायस्य च । अपरे मन्यन्ते — ‘अनुवृत्तिविनिवृत्तिबुद्ध्यभिधानलक्षणः सामान्यविशेषः’ इति । तेषां २०च सामान्यमेव विशेषः सामान्यविशेषः इत्येकस्यात्मन उभयात्मकं न विरुध्यते । अपर आहुः — ‘वर्णादिपरमाणुसमुदयो रूपपरमाणुः’ इति । तेषां कक्खडत्वादिभिन्न- लक्षणानां रूपात्मना मिथश्च न विरोधः । अथ मतम् ‘न परमाणुर्नामैकोऽस्ति बाह्यः, किन्तु विज्ञानमेव तदाकारपरिणतं परमाणुव्यपदेशार्हम्’ इत्युच्यते; अत्रापि ग्राहक-विषयाभास- संवित्तिशक्तित्रयाकाराधिकरणस्यैकस्याभ्युपगमान्न विरोधः । २५किञ्च, सर्वेषामेव तेषां पूर्वोत्तरकालभाव्यवस्थाविशेषार्पणाभेदादेकस्य कार्यकारण- शक्तिसमन्वयो न विरोधस्यास्पदमित्यविरोधसिद्धिः । एवं प्रमाणनयैरधिगतानां जीवादीनां पुनरप्यधिगमोपायान्तरप्रदर्शनार्थमाह — ३८ निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानतः ॥ ७ ॥ के पुनरिमे निर्देशादयः ? निर्देशोऽर्थात्मावधारणम् । स्वामित्वमाधिपत्यम् । साधनं कारणम् । अधिकरणं प्रतिष्ठा । स्थितिः कालकृता व्यवस्था । विधानं प्रकारः । ‘अधिगमः’ ०५इत्यनुवर्तते । एतैरेतेभ्यो वा अधिगमः, पूर्ववत्तसिः । केषामधिगमः ? जीवादीनां सम्यग्दर्श- नादीनां च । स तर्हि तथा निर्देशः कर्तव्यः ? न कर्तव्यः, अर्थवशाद्विभक्तिपरिणामो भवति । तद्यथा ‘उच्चानि देवदत्तस्य गृहाण्यामन्त्रयस्वैनम्’ ‘देवदत्तम्’ इति गम्यते । अथ किमर्थमादौ निर्देशः ? उच्यते — अवधृतार्थस्य धर्मविकल्पप्रतिपत्तेरादौ निर्देशवचनम् । १ । स्वरूपेणावधृतस्यार्थस्य स्वा- १०मित्वादिका धर्मविकल्पप्रतिपत्तिर्भवति, अतोऽस्य निर्देशस्यादौ वचनं क्रियते । इतरेषां प्रश्नवशात् क्रमः । २ । इतरेषां स्वामित्वादीनां प्रश्नवशात् क्रमो वेदितव्यः । यद्येवं स एव तावदुच्यतां को जीव इति ? औपशमिकादिभावपर्यायो जीवः पर्यायादेशात् । ३ । वक्ष्यमाण औपशमिकादिभावपर्यायो जीव इत्युच्यते पर्यायादेशात् । १५द्रव्यार्थादेशान्नामादिः । ४ । द्रव्यार्थादेशान्नामादिः ‘जीवः’ इत्युच्यते । तदुभयसंग्रहः प्रमाणम् । ५ । तस्योभयस्य संग्रहः प्रमाणनिर्देश इत्युच्यते । कस्य जीवः ? तत्परिणामस्य, भेदादग्नेरौष्ण्यवत् । ६ । स परिणामो यस्य सोऽयं तत्परिणामः तस्यासौ व्यपदिश्यते । कुतः ? कथञ्चिद्भेदात्, परिणामपरिणामिनोर्भेदकल्पनासद्भावात् अग्नेरौष्ण्यवत् । २०तद्यथा — औष्ण्यात्मकस्याग्नेः दहनपचनस्वेदनादिक्रियासामर्थ्यमौष्ण्यं भेदेनोच्यते । व्यवहारनयवशात् सर्वेषाम् । ७ । जीवादीनां सर्वेषां पदार्थानां व्यवहारनयवशाज्जीवः स्वामी । किं साधनो जीवः ? पारिणामिकभावसाधनो निश्चयतः । ८ । योऽसौ जीवात्मा पारिणामिकस्तत्साधनो जीवो निश्चयनयेन । तेन ह्यसावात्मानं सर्वकालं लभत इति । २५औपशमिकादिभावसाधनश्च व्यवहारतः । ९ । व्यवहारनयवशात् औपशमिकादिभाव- साधनश्चेति व्यपदिश्यते । चशब्देन शुक्रशोणिताहारादिसाधनश्च । किमधिकरणो जीवः ? स्वप्रदेशाधिकरणो निश्चयतः । १० । योऽसौ स्वप्रदेशोऽसंख्यातस्वरूपः कर्मकृतशरीर- परिमाणानुविधायित्वेऽप्यपरिप्राप्तहीनाधिकभावः, तदधिकरणो जीवः, स्वात्मप्रतिष्ठाकाशवत् । व्यवहारतः शरीराद्यधिष्ठानः । ११ । कर्मोपात्तं शरीरम् इतरच्चाधिकरणमात्मा ३०व्यवहारनयवशादधितिष्ठतीत्युच्यते । किं स्थितिको जीवः ? स्थितिस्तस्य द्रव्यपर्यायापेक्षाऽनाद्यवसाना समयादिका च । १२ । तस्य जीवस्य स्थितिर्द्र- व्यपर्यायापेक्षा द्विधा कल्प्यते । द्रव्यापेक्षाऽनाद्यवसाना, जीवद्रव्यं हि चैतन्यजीवद्रव्योपयोगाऽसं- ३९ ख्येयप्रदेशादिसामान्यादेशान्न प्रच्यवते सर्वकालमिति । पर्यायस्त्वन्यश्चान्यश्च भवति, तद- पेक्षा समयादिका कल्प्यते । किमस्य विधानम् ? नारकादिसंख्येयासंख्येयानन्तप्रकारो जीवः । १३ । नारकादयः संख्येया असंख्येया अन- न्ताश्च प्रकारा भिद्यन्ते जीवस्य । ०५तथैवेतरेषामागमाविरोधात् निर्देशादिवचनम् । १४ । तेनैव प्रकारेण आगमाविरोधेन इत- रेषामजीवादीनां निर्देशादयो वक्तव्याः । तद्यथा — अजीवस्तावद्दशप्राणपर्यायरहितः नामा- दिश्च । अजीवात्मैव अजीवस्य स्वामी, जीवो वा भोक्तृत्वात् । पुद्गलानाम् अणुत्वादिसाधनं भेदादि, तन्निमित्तं वा कालादि । धर्माधर्मकालाकाशानां गतिस्थितिवर्तनावगाहहेतुता पारि- णामिकी अगुरुलघुगुणानुगृहीता, स्वात्मभूतसत्तासंबद्धा जीवपुद्गला वा तदपेक्षत्वाद् गत्यादि- १०हेतुताभिव्यक्तेः । स्वात्मैवाधिकरणं सर्वद्रव्याणां स्वात्मव्यवस्थितत्वात्, आकाशं साधारणम्, असाधारणं च घटादिर्जलादीनाम् । स्थितिर्द्रव्यापेक्षाऽनाद्यवसाना, पर्यायापेक्षा समयादिका । विधानं धर्मादित्रिकं प्रतिनियतानादिपारिणामिकद्रव्यार्थादेशादेकैकम्, पर्यायार्थिकनयादेशा- दनेकम्, संख्येयासंख्येयानन्तानां द्रव्याणां गतिस्थित्यवगाहनाद्युपकारपर्यायादेशात् स्यादेकं स्यादनेकं स्यात्संख्येयं स्यादसंख्येयं स्यादनन्तम् । कालः संख्येयोऽसंख्येयोऽनन्तश्च भवति १५परप्रत्ययात् । पुद्गलद्रव्यं रूपस्पर्शादिपारिणामिकद्रव्यार्थादेशात् स्यादेकम्, प्रतिनियतैकानेक- संख्येयासंख्येयानन्तप्रदेशपर्यायादेशात् स्यादनेकं स्यात्संख्येयं स्यादसंख्येयं स्यादनन्तम् । आस्रवनिर्देशः — कायवाङ्मनःक्रियापरिणामो नामादिर्वा । जीवोऽस्य स्वामी, कर्म वा तन्निमित्तत्वात् । स्वात्मैव साधनं शुद्धस्य तदभावात्, कर्म वा सति तस्मिन् प्रवृत्तेः । अधि- करणम् आत्मन्येवासौ तत्र तत्फलदर्शनात्, कर्मणि कर्मकृते च कायादावुपचारतः । स्थितिः २०वाङ्मनसास्रवयोर्जघन्येनैकसमयः, उत्कर्षेणान्तर्मुहूर्तः; कायास्रवस्य जघन्येनान्तमुहूर्तः उत्कर्षेणा- नन्तः कालः, असंख्येयाः पुद्गलपरिवर्ताः । विधानम् वाङ्मनसास्रवयोश्चतुर्विकल्पसंख्यं सत्य- मृषोभयानुभयभेदात् । कायास्रवः सप्तविधः औदारिकवैक्रियिकाहारकमिश्रकार्मणभेदात् । औदा- रिकौदारिकमिश्रकौ मनुष्यतिरश्चाम् । वैक्रियिकवैक्रियिकमिश्रकौ देवनारकाणाम् । आहारका- हारकमिश्रकौ संयतानाम् ऋद्धिप्राप्तानाम् । कार्मणकायास्रवो विग्रहापन्नानां केवलिनां वा समु- २५द्घातगतानाम् । अथवा, आस्रवस्य प्रकारः शुभाऽशुभः । तत्र कायिको हिंसाऽनृतस्तेयाब्रह्मादिषु प्रवृत्तिनिवृत्तिसंज्ञः । वाचिकः परुषाक्रोशपिशुनपरोपघातादिषु वचस्सु प्रवृत्तिनिवृत्तिसंज्ञः । मानसो मिथ्याश्रुत्यभिघातेर्ष्यासूयादिषु मनसः प्रवृत्तिनिवृत्तिसंज्ञः । बन्धनिर्देशः — जीवकर्मप्रदेशान्योन्यसंश्लेषो बन्धः, नामादिर्वा । स जीवस्य तत्र तत्फल- दर्शनात्, कर्मणश्च तस्य द्विष्ठत्वात् । मिथ्यादर्शनाविरतिप्रमादकषाययोगा बन्धस्य साधनम्, ३०तत्परिणतो वा आत्मा । स्वामिसंबन्धार्हमेव वस्त्वधिकरणं भवति, विवक्षातः कारकप्रवृत्तेः । ४० स्थितिर्जघन्या उत्कृष्टा च । तत्र जघन्या वेदनीयस्य द्वादश मुहूर्ताः । नामगोत्रयोरष्टौ । शेषाणा- मन्तर्मुहूर्ताः । उत्कृष्टा ज्ञानदर्शनावरणवेदनीयान्तरायाणां त्रिंशत्सागरोपमकोटीकोट्यः । मोहनीयस्य सप्ततिः । नामगोत्रयोर्विंशतिः । त्रयस्त्रिंशत्सागरोपमाण्यायुषः । अथवा बन्धसन्तान- पर्यायादेशात् स्यादनादिरनिधनश्चाभव्यानाम्, भव्यानां च केषाञ्चित् ये अनन्तेनापि कालेन ०५न सेत्स्यन्ति । ज्ञानावरणादिकर्मोत्पादविनाशात् स्यात्सादिः सनिधनश्च । विधानम् — बन्धः सामान्यादेशात् एकः, द्विविधः शुभाशुभभेदात्, त्रिधा द्रव्यभावोभयविकल्पात्, चतुर्धा प्रकृति- सिथत्यनुभागप्रदेशभेदात्, पञ्चधा मिथ्यादर्शनादिहेतुभेदात्, षोढा नामस्थापनाद्रव्यक्षेत्र- कालभावैः, सप्तधा तेरैव भवाधिकैः, अष्टधा ज्ञानावरणादिमूलप्रकृतिभेदात् । एवं संख्येयाऽ- संख्येयानन्तविकल्पश्च भवति हेतुफलभेदात् । १०संवरनिर्देशः — आस्रवनिरोधः नामादिर्वा । जीवोऽस्य स्वामी, कर्म वा निरुध्यमानविष- यत्वात् । निरोधस्य साधनं गुप्तिसमितिधर्मादयः । ‘स्वामिसंबन्धार्हमेवाधिकरणम्’ इत्यु- क्तम् । स्थितिर्जघन्येनान्तर्मुहूर्ता, उत्कृष्टा पूर्वकोटी देशोना । विधानम् एकादिरष्टोत्तर- शतविधः, तत उत्तरश्च संख्येयादिविकल्पो निरोध्यनिरोधकभेदाद्वेदितव्यः । तत्राष्टोत्तरशतविध उच्यते — तिस्रो गुप्तयः, पञ्च समितयः, धर्मो दशविधः, अनुप्रेक्षा द्वादश, परीषहा द्वाविंशतिः, १५तपो द्वादशविधम्, प्रायश्चित्तं नवविधम्, विनयश्चतुर्विधः, वैयावृत्यं दशविधम्, स्वाध्यायः पञ्चविधः, व्युत्सर्गो द्विविधः, धर्मध्यानं दशविधम्, शुक्लध्यानं चतुर्विधमिति । निर्जरानिर्देशः — यथाविपाकात्तपसो वा उपभुक्तवीर्यंकर्म निर्जरा, नामादिर्वा । सा आत्मनः कर्मणो वा द्रव्यभावभेदात् । साधनं तपो यथाकर्मविपाकश्च । अधिकरणमात्मा निर्जरात्मैव वा । स्थितिर्जघन्येनैकसमयः उत्कर्षेणान्तर्मुहूर्तः, सादिः सपर्यवसाना वा । विधानम् सामान्यादेका २०निर्जरा, द्विविधा यथाकालौपक्रमिकभेदात्, अष्टधा मूलकर्मप्रकृतिभेदात् । एवं संख्येयाऽसंख्येया- नन्तविकल्पा भवति कर्मरसनिर्हरणभेदात् । मोक्षनिर्देशः — कृत्स्नकर्मसंक्षयो मोक्षः, नामादिर्वा । तस्य स्वामी परमात्मा मोक्षात्मैव वा । साधनं सम्यग्दर्शनज्ञानचारित्राणि । स्वामिसंबन्धार्हमेवाधिकरणं तद्विषयत्वात् । स्थिति- स्तस्य सादिरनिधना । विधानम् — सामान्यादेको मोक्षः, द्रव्यभावमोक्तव्यभेदादनेकोऽपि । २५सम्यग्दर्शननिर्देशः — तत्त्वार्थश्रद्धानं सम्यग्दर्शनं नामादिर्वा । तत्पुनरात्मनः स्वस्यैव वा । दर्शनमोहोपशमादि साधनम्, बाह्यं चोपदेशादि, स्वात्मा वा । स्वामिसंबन्धभागेवाधिकरणम् । स्थितिर्जघन्येनान्तर्मुहूर्ता, उत्कर्षेण षट्षष्टिसागरोपमाणि सातिरेकाणि । अथवा सादि- सनिधनमौपशमिकक्षायोपशमिकम्, साद्यनिधनं क्षायिकम् । विधानम् सामान्यादेकम्, द्विधा निसर्गजाधिगमजभेदात्, त्रिधौपशमिकक्षायिकक्षायोपशमिकविकल्पात् । एवं संख्येयासंख्येया- ३०नन्तविकल्पं च भवत्यध्यवसायभेदात् । ज्ञाननिर्देशः — जीवादितत्त्वप्रकाशनं ज्ञानं नामादिर्वा । तत् आत्मनः स्वाकारस्य वा । ज्ञानावरणादिकर्मक्षयोपशमादि साधनम्, स्वाविर्भावशक्तिर्वा । अधिकरणम् — आत्मा स्वाकारो ४१ वा तत्र प्रतिष्ठानात् । स्थितिः — सादिसनिधनं क्षायोपशमिकं ज्ञानं चतुर्विकल्पम्, साद्य- निधनं क्षायिकम् । विधानम् — सामान्यादेकं ज्ञानम्, प्रत्यक्षपरोक्षभेदाद् द्विधा, द्रव्यगुणपर्याय- विषयभेदात् त्रिधा, नामादिविकल्पाच्चतुर्धा, मत्यादिभेदात् पञ्चधा । इत्येवं संख्येयासंख्येया- नन्तविकल्पं च भवति ज्ञेयाकारपरिणतिभेदात् । ०५चारित्रनिर्देशः — कर्मादानकारणनिवृत्तिश्चारित्रम्, नामादिर्वा । तत्पुनरात्मनः स्वरूपस्य वा । चारित्रमोहोपशमादि साधनं स्वशक्तिर्वा । स्वामिसंबन्धभागेवाधिकरणम् । स्थितिर्जघ- न्येनान्तर्मुहूर्ता, उत्कर्षेण पूर्वकोटी देशोना । अथवा सादिसपर्यवसानम् औपशमिकक्षायोपश- मिकम्, साद्यपर्यवसानं क्षायिकम्, शुद्धिव्यक्त्यपेक्षया । विधानम् — सामान्यादेकम्, द्विधा बाह्याभ्यन्तरनिवृत्तिभेदात्, त्रिधा औपशमिकक्षायिकक्षायोपशमिकविकल्पात्, चतुर्धा १०चतुर्यमभेदात्, पञ्चधा सामायिकादिविकल्पात् । इत्येवं संख्येयासंख्येयानन्तविकल्पं च भवति परिणामभेदात् । ‘किमेतैरेव जीवादीनामधिगमो भवति उतान्योऽप्यधिगमोपायोऽस्ति’ इति परिपृष्टः ‘अस्ति’ इत्याह — सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वैश्च ॥ ८ ॥ १५‘अधिगमः’ इत्यनुवर्तते । प्रशंसादिषु सच्छब्दवृत्तेरिच्छातः सद्भावग्रहणम् । १ । सच्छब्दः प्रशंसादिषु वर्तते । तद्यथा — प्रशंसायां तावत् ‘सत्पुरुषः, सदश्वः’ इति । क्वचिदस्तित्वे ‘सन् घटः, सन् पटः’ इति । क्वचित्प्रज्ञायमाने — प्रव्रजितः सन् कथमनृतं ब्रूयात् ? ‘प्रव्रजितः’ इति प्रज्ञायमान इत्यर्थः । क्वचिदादरे ‘सत्कृत्यातिथीन् भोजयति’ ‘आदृत्य’ इत्यर्थः । तत्रेहेच्छातः सद्भावे गृह्यते । २०अव्यभिचारात् सर्वमूलत्वाच्च तस्यादौ वचनम् । २ । सत्त्वं ह्यव्यभिचारि सर्वपदार्थवि- षयत्वात् । नहि कश्चित्पदार्थः सत्तां व्यभिचरति । यदि व्यभिचरेत्; वाग्विज्ञानगोचरातीतः स्यात् । गुणास्तु रूपादयो ज्ञानादयश्च केषुचित् सन्ति केषुचिन्न सन्ति । क्रिया च परिस्पन्दात्मिका जीवपुद्गलेष्वस्ति नेतरेष्विति न व्याप्तिमती । सर्वेषां च विचारार्हाणामस्तित्वं मूलम् । तेन हि निश्चितस्य वस्तुन उत्तरा चिन्ता युज्यते । अतस्तस्यादौ वचनं क्रियते । २५सतः परिमाणोपलब्धेः संख्योपदेशः । ३ । सतो हि वस्तुनः संख्याताऽसंख्याताऽनन्तपरि- माणोपलब्धेः संख्याताद्यन्यतमपरिमाणावधारणार्थं संख्या भेदलक्षणा उपदिश्यते । निर्ज्ञातसंख्यस्य निवासविप्रतिपत्तेः क्षेत्राभिधानम् । ४ । निश्चयेन ज्ञातसंख्यस्यार्थस्य ऊर्ध्वाधस्तिर्यङ्निवासविप्रतिपत्तेः ऊर्ध्वाद्यन्यतमनिवासनिश्चयार्थं क्षेत्राभिधानम् । अवस्थाविशेषस्य वैचित्र्यात् त्रिकालविषयोपश्लेषनिश्चयार्थं स्पर्शनम् । ५ । अवस्था- ३०विशेषो विचित्रः त्र्यस्रचतुरस्रादिः, तस्य त्रिकालविषयमुपश्लेषणं स्पर्शनम् । कस्यचित्तत्क्षेत्र- ४२ मेव स्पर्शनम्, कस्यचिद् द्रव्यमेव, कस्यचिद् रज्जवः षडष्टौ वेति एकसर्वजीवसन्निधौ, तन्निश्चयार्थं तदुच्यते । स्थितिमतोऽवधिपरिच्छेदार्थं कालोपादानम् । ६ । ‘स्थितिमतोऽर्थस्यावधिः परिच्छेत्तव्यः’ इति कालोपादानं क्रियते । ०५अन्तरशब्दस्यानेकाथवृत्तेः छिद्रमध्यविरहेष्वन्यतमग्रहणम् । ७ । [अन्तर शब्दः]बहुष्वर्थेषु दृष्टप्रयोगः । क्वचिच्छिद्रे वर्तते सान्तरं काष्ठम्, सछिद्रम् इति । क्वचिदन्यत्वे *“द्रव्याणि द्रव्यान्तरमारभन्ते”[वैशेº सूº १ । १ । १०] इति । क्वचिन्मध्ये हिमवत्सागरान्तर इति । क्वचित्सामीप्ये ‘स्फटिकस्य शुक्लरक्ताद्यन्तरस्थस्य तद्वर्णता’ इति ‘शुक्लरक्तसमीपस्थस्य’ इति गम्यते । क्वचिद्विशेषे — १०*“वाजिवारणलोहानां काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥ ” [गरुडपुº११० । १५] इति, महान् विशेष इत्यर्थः । क्वचिद् बहिर्योगे ‘ग्रामस्यान्तरे कूपाः’ इति । क्वचिदुपसंव्याने अन्तरे ‘शाटका’ इति । क्वचिद्विरहे अनभिप्रेतश्रोतृजनान्तरे मन्त्रं मन्त्रयते, तद्विरहे मन्त्रयते इत्यर्थः । तत्रेह छिद्रमध्यविरहेष्वन्यतमो वेदितव्यः । अनुपहतवीर्यस्य न्यग्भावे पुनरुद्भूतिदर्शनात्तद्वचनम् । ८ । अनुपहतवीर्यस्य द्रव्यस्य १५निमित्तवशात् कस्यचित् पर्यायस्य न्यग्भावे सति पुनर्निमित्तान्तरात् तस्यैंवाविर्भावदर्शनात् तदन्तरमित्युच्यते । परिणामप्रकारनिर्णयार्थं भाववचनम् । ९ । औपशमिकादिः परिणामप्रकारो निर्णेतव्यः इति भाववचनं क्रियते । संख्याताद्यन्यतमनिश्चयेऽपि अन्योन्यविशेषप्रतिपत्त्यर्थमल्पबहुत्ववचनम् । १० । संख्याता- २०दिष्वन्यतमेन परिमाणेन निश्चितानामन्योन्यविशेषप्रतिपत्त्यर्थमल्पबहुत्ववचनं क्रियते — इमे एभ्योऽल्पा ‘इमे बहवः’ इति । आह — निर्देशवचनात् सत्त्वप्रसिद्धेरसद्ग्रहणम् । ११ । निर्देशवचनादेव सत्त्वं सिद्धम्, न ह्यसतो निर्देश इति, तस्माद् असद्ग्रहणम् — अनर्थकं सद्ग्रहणमसद्ग्रहणम् । न वा, क्वास्ति क्व नास्तीति चतुर्दशमार्गणास्थानविशेषणार्थत्वात् । १२ । न वेष दोषः । २५किं कारणम् ? नानेन सम्यग्दर्शनादेः सामान्येन सत्त्वमुच्यते किन्तु गतीन्द्रियकायादिषु चतुर्दशसु मार्गणास्थानेषु ‘क्वास्ति सम्यग्दर्शनादि, क्व नास्ति’ इत्येवं विशेषणार्थं सद्वचनम् । सर्वभावाधिगमहेतुत्वाच्च । १३ । अधिकृतानां सम्यग्दर्शनादीनां जीवादीनां च निर्देश- वचनेन अस्तित्वमधिगतं स्यात्, ये त्वनधिकृता जीवपर्यायाः क्रोधादयो ये चाऽजीवपर्याया वर्णादयो घटादयश्च तेषामस्तित्वाधिगमार्थं पुनर्वचनम् । ४३ अनधिकृतत्वादिति चेत्; न; सामर्थ्यात् । १४ । स्यादेतत् — अनधिकृतास्ते ततो न पुनर्युक्त- मेषां ग्रहणमिति; तन्न; किं कारणम् ? सामर्थ्यात् तेषामपि ग्रहणं भवति । विधानग्रहणात् संख्यासिद्धिरिति चेत्; न; भेदगणनार्थत्वात् । १५ । स्यादेतत् — विधानग्रह- णादेव संख्यासिद्धिरिति; तन्न; किं कारणम् ? भेदगणनार्थत्वात् । प्रकारगणनं हि तत्, ०५भेदगणनार्थमिदमुच्यते — ‘उपशमसम्यग्दृष्टय इयन्तः, क्षायिकसम्यग्दृष्टय एतावन्तः’ इति । क्षेत्राधिकरणयोरभेद इति चेत्; न; उक्तत्वात् । १६ । स्यादेतत् — यदेवाधिकरणं तदेव क्षेत्रम्, अतस्तयोरभेदात् पृथग्ग्रहणमनर्थकमिति; तन्न; किं कारणम् ? उक्तार्थत्वात् । उक्तमे- तत् — सर्वभावाधिगमार्थत्वादिति । क्षेत्रे सति स्पर्शनोपलब्धेरम्बुघटवत् पृथग्ग्रहणम् । १७ । यथेह सति घटे क्षेत्रे अम्बु- १०नोऽवस्थानात् नियमाद् घटस्पर्शनम्, नह्येतदस्ति — ‘घटे अम्बु अवतिष्ठते न च घटं स्पृशति’ इति । तथा आकाशक्षेत्रे जीवावस्थानां नियमादाकाशे स्पर्शनमिति क्षेत्राभिधानेनैव स्पर्शन- स्यार्थगृहीतत्वात् पृथग्ग्रहणमनर्थकम् । न वा, विषयवाचित्वात् । १८ । नवैष दोषः । किं कारणम् ? विषयवाचित्वात् । विषयवाची क्षेत्रशब्दः, यथा राजा जनपदक्षेत्रेऽवतिष्ठते, न च कृत्स्नं जनपदं स्पृशति । स्पर्शनं १५तु कृत्स्नविषयमिति । त्रैकाल्यगोचरत्वाच्च । १९ । यथा साम्प्रतिकेनाम्बुना सांप्रतिकं घटक्षेत्रं स्पृष्टं नातीता- नागतम्, नैवमात्मनः सांप्रतिकक्षेत्रस्पर्शने स्पर्शनाभिप्रायः, स्पर्शनस्य त्रिकालगोचरत्वात् । स्थितिकालयोरर्थान्तरत्वाभाव इति चेत्; न; मुख्यकालास्तित्वसंप्रत्ययार्थम् । २० । स्यादेतत् — स्थितिरेव कालः, काल एव च स्थितिरित्यतो नास्त्यनयोरर्थान्तरभाव इति; तन्न; २०किं कारणम् ? मुख्यकालास्तित्वसंप्रत्ययार्थं पुनः कालग्रहणम् । द्विविधो हि कालो मुख्यो व्यावहारिकश्चेति । तत्र मुख्यो निश्चयकालः । पर्यायिपर्यायावधिपरिच्छेदो व्यावहारिकः । तयोरुत्तरत्रः निर्णयो वक्ष्यते । उक्तं च । २१ । किमुक्तम् ? सर्वभावाधिगमहेतुत्वादिति । नामादिषु भावग्रहणात् पुनर्भावाग्रहणमिति चेत्; न; औपशमिकाद्यपेक्षत्वात् । २२ । २५स्यादेतत् — नामादिषु भावग्रहणं कृतं तेनैव सिद्धत्वात् पुनर्भावग्रहणमनर्थकमिति; तन्न; किं कारणम् ? औपशमिकाद्यपेक्षत्वात् । पूर्वं भावग्रहणं ‘द्रव्यं न भवति’ इत्येवंपरम्, इदं तु औपशमिकादिवक्ष्यमाणभावापेक्षम् — ‘किं सम्यग्दर्शनमौपशमिकं क्षायिकम्’ इत्यादि । विनेयाशयवशो वा तत्त्वाधिगमहेतुविकल्पः । २३ । अथवा, सर्वेषामेव परिहारः — विनेया- शयवशो हि तत्त्वाधिगमहेतुविकल्पो वेदितव्यः । केचित् संक्षेपेण प्रतिपाद्याः, केचिद्विस्तरेण ३०केचिदनतिसंक्षेपेण केचिदनतिविस्तरेण । इतरथा हि प्रमाणग्रहणादेव सिद्धेरितरेषामधिगमो- पायानां ग्रहणमनर्थकं स्यादिति । इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे प्रथमेऽध्याये पञ्चममाह्निकम् ॥ ५ ॥ ४४ एवं सम्यग्दर्शनस्यादावुद्दिष्टस्य लक्षणोत्पत्तिस्वामिविषयन्यासाधिगमोपाया निर्दिष्टाः, तत्संबन्धेन च जीवादीनां संज्ञापरिणामादिर्निर्दिष्टः । तदनन्तरमिदानीं सम्यग्ज्ञानं विचारार्ह- मित्याह — मतिश्रुतावधिमनःपर्ययकेवलानि ज्ञानम् ॥ ९ ॥ ०५मत्यादय इति क एते शब्दाः ? मतिशब्दो भावकर्तृकरणसाधनः । १ । अयं मतिशब्दो भावकर्तृकरणेष्वन्यतमसाधनो वेदितव्यः । मनेर्भावसाधने क्तिः । तदावरणकर्मक्षयोपशमे सति इन्द्रियानिन्द्रियापेक्षमर्थस्य मननं मतिः औदासीन्येन तत्त्वकथनात् । बहुलापेक्षया कर्तृसाधनः करणसाधनो वा, ‘मनुतेऽर्थान् मन्यतेऽनेन’ इति वा मतिः, भेदाभेदविवक्षोपपत्तेः । १०श्रुतशब्दः कर्मसाधनश्च । २ । किञ्च पूर्वोक्तविषयसाधनश्चेति वर्तते । श्रुतावरणक्षयोप- शमाद्यन्तरङ्गबहिरङ्गहेतुसन्निधाने सति श्रूयते स्मेति श्रुतम् । कर्तरि श्रुतपरिणत आत्मैव शृणोतीति श्रुतम् । भेदविवक्षायां श्रूयतेऽनेनेति श्रुतम्, श्रवणमात्रं वा । अवपूर्वस्य दधातेः कर्मादिसाधनः किः । ३ । कर्मादिषु साधनेष्वन्यतमे किरयं वेदितव्यः । अवधिज्ञानावरणक्षयोपशमाद्युभयहेतुसन्निधाने सति अवाग् धीयते अवाग्दधाति अवाग्धान- १५मात्रं वाऽवधिः । अवशब्दोऽधःपर्यायवचनः, यथा ‘अधःक्षेपणम् अवक्षेपणम्’ इति । अधो- गतभूयोद्रव्यविषयो ह्यवधिः । अथवा, अवधिर्मर्यादा, अवधिना प्रतिबद्धं ज्ञानमवधिज्ञानम् । तथाहि वक्ष्यते — *“रूपिष्ववधेः”[तº सूº१ । २७] इति । सर्वेषां प्रसङ्ग इति चेत्; न; रूढिवशाद् व्यवस्थोपपत्तेर्गोशब्दप्रवृत्तिवत् । मनः प्रतीत्य प्रतिसंधाय वा ज्ञानं मनःपर्ययः । ४ । तदावरणकर्मक्षयोपशमादिद्वितयनिमित्त- २०वशात् परकीयमनोगतार्थज्ञानं मनःपर्ययः । भावादिसाधनत्वं पूर्ववद्वेदितव्यम् । कथं मनः प्रतीत्य प्रतिसंधाय वा ज्ञानमिति ? अत्रोच्यते — परकीयमनसि गतोऽर्थः ‘मनः’ इत्युच्यते, तात्स्थ्यात्ताच्छब्द्यमिति । स चकः मनोगतोऽर्थः ? भावघटादिः, तमर्थं समन्तादेत्य अव- लम्ब्य वा स्वप्रसादादात्मनो ज्ञानं मनःपर्ययः । मतिज्ञानप्रसङ्ग इति चेत्; न; अपेक्षामात्रत्वात् । ५ । स्यादेतत् — मनःपर्ययज्ञानं मतिज्ञानं २५प्राप्तम् । कुतः ? मनोनिमित्तत्वात् । एवं ह्यार्षी प्रक्रिया मनसा मनः संपरिचिन्त्येति; तन्न; किं कारणम् ? अपेक्षामात्रत्वात् । स्वपरमनोऽपेक्षामात्रं तत्र क्रियते यथा ‘अभ्रे चन्द्रमसं पश्य’ इति, न तत्कार्यं मतिज्ञानवत्, आत्मशुद्धिनिमित्तत्वादेतस्येति । बाह्याभ्यन्तरक्रियाविशेषान् यदर्थं केवन्ते तत्केवलम् । ६ । तपःक्रियाविशेषान् वाङ्- मनसकायाश्रयान् बाह्यानाभ्यन्तरांश्च यदर्थमर्थिनः केवन्ते सेवन्ते तत्केवलम् । ४५ अव्युत्पन्नो वाऽसहायार्थः केवलशब्दः । ७ । ‘यथा केवलमन्नं भुङ्क्ते देवदत्तः’ इति ‘अस- हायं व्यञ्जनरहितं भुङ्क्ते’ इति गम्यते, तथा क्षायोपशमिकज्ञानासंपृक्तम् असहायं केवलम् इत्यव्युत्पन्नोऽयं शब्दो द्रष्टव्यः । करणादिसाधनो ज्ञानशब्दो व्याख्यातः । ८ । अयं ज्ञानशब्दः करणादिसाधन इति ०५व्याख्यातः पुरस्तात् । इतरेषां तदभावः । ९ । इतरेषामेकान्तवादिनां तस्य ज्ञानस्य करणादिसाधनत्वं नोपपद्यते । तत्कथमिति चेत् ? उच्यते — आत्माभावे ज्ञानस्य करणादित्वानुपपत्तिः कर्तुरभावात् । १० । येषामात्मा न विद्यते तेषां ज्ञानस्य करणादित्वं नोपपद्यते । कुत ? कर्तुरभावात् । सति हि देवदत्ते छेत्तरि परशोः करणत्वं १०दृष्टम् । तथा चात्मन्यसति नास्य करणत्वम् । तत एव भावसाधनत्वमपि नोपपद्यते — ‘ज्ञातिर्ज्ञानम्’ इति । न ह्यसति भाववति भाव इति । स्यादेतत् — जानातीति ज्ञानमिति कर्तृसाधनत्वमिति; तन्न; निरीहकत्वात् । न हि निरीहको भावः कर्तृत्वमास्कन्दति । निरीहकाश्च सर्वे भावाः । किञ्च, पूर्वोत्तरापेक्षस्य लोके कर्तृत्वं दृष्टम् । न च तस्य ज्ञानस्य पूर्वोत्तरापेक्षास्ति १५क्षणिकत्वात्, अतो निरपेक्षस्य कर्तृत्वाभावः । किञ्च, करणव्यापरापेक्षस्य लोके कर्तृत्वं दृष्टम् । न च ज्ञानस्यान्यत् करणमस्ति । अतोऽस्य कर्तृत्वमपि नोपपद्यते । स्वशक्तिरेव करणमिति चेत्; न; शक्तिशक्तिमद्भेदा- भ्युपगमे आत्मास्तित्वसिद्धेः । अभेदे च स दोषस्तदवस्थ एवेति । सन्तानापेक्षया कर्तृ- करणभेदोपचार इति चेत्; न; परमार्थविपरीतत्वे मृषावादोपपत्तेः, भेदाभेदविकल्पनयोरुक्त- २०दोषप्रसङ्गाच्च । मनश्चेन्द्रियञ्चास्य करणमिति चेत्; न; तस्य तच्छक्त्यभावात् । मनस्तावन्न करणम्; विनष्टत्वात् *“षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः”[अभिधº१ । १७] इति वचनात् । नेन्द्रियमप्यतीतम्; तत एव । नाप्युपजायमानस्य करणत्वम् । नहि सव्यविषाणं युगपदुपजायमानमितरस्य विषाणस्य करणं भवति । किञ्च, प्रकृत्यर्थादन्यस्याभावात् । ‘ज्ञा’ इत्यस्याः प्रकृतेरवबोधनमर्थः, न तस्मादन्यः २५कश्चिदर्थोऽस्ति यः कर्तृत्वमनुभवेत्, अतोऽस्य कर्तृत्वाभावः । किञ्च, एकक्षणविषयं यत्कर्तृत्वं तदनेकक्षणगोचरोच्चारणलब्धजन्मना कर्तृशब्देन कथमुच्यते ? कथं वाऽयमेकक्षणेऽसन् वाचकः स्यात् ? सन्तानावस्थानाद् वाच्यवाचकभाव- संबन्ध इति चेत्; न; तस्य प्रतिविहितत्वात् । अथ मतमेतत् — खात्पतिता नो रत्नवृष्टिः, अवाच्यमेव हि तत्त्वमिष्यते । अव्यापारेषु हि ३०सर्वधर्मेषु वाग्व्यवहारो नास्त्येवेति; तदपि नोपपद्यते; स्ववचनविरोधात्, तत्त्वप्रतिपत्त्युपाया- पह्नवप्रसङ्गाच्च । किञ्च, जानातीति ज्ञानमिति कर्तृसाधनत्वं नोपपद्यते । कुतः ? विशेषानुपलब्धेः । ४६ येन हि कर्तृसाधनत्वमवगतं करणादिसाधनत्वं च तेनेदं युज्यते वक्तुम् — ‘कर्तृसाधनमिदं न करणादिसाधनम्’ इति । नच क्षणिकवादिनः प्रत्यर्थवशवर्तिज्ञानविकल्पनायाम् अनवधारितो- भयस्वभावस्य तद्विशेषोपलब्धिरस्ति । न हि शुक्लेतरविशेषानभिज्ञस्य ‘शुक्लमिदं न नीलादि’ इति विशेषणमुपपद्यते । ०५अस्तित्वेऽप्यविक्रियस्य तदभावः, अनभिसंबन्धात् । ११ । आत्मनः अस्तित्वेऽपि ज्ञानस्य करणाद्यभावः । कुतः ? अनभिसंबन्धात् । यस्य मतम् — आत्मनो ज्ञानाख्यो गुणः, तस्मा- च्चार्थान्तरभूतः, *“आत्मेन्द्रियमनोऽर्थसन्निकर्षात् यन्निष्पद्यते तदन्यत्”[वैशेº सूº ३ । १ । १८] इति वचनादिति; तस्य ज्ञानं करणं न भवितुमर्हति । कुतः ? पृथगात्मलाभाभावात् । दृष्टो हि लोके छेत्तुर्देवदत्ताद् अर्थान्तरभूतस्य परशोः तैक्ष्ण्यगौरवकाठिन्यादिविशेषलक्षणोपेतस्य १०सतः करणभावः, नच तथा ज्ञानस्य स्वरूपं पृथगुपलभामहे । किञ्च, अपेक्षाभावात् । दृष्टो हि परशोः देवदत्ताधिष्ठितोद्यमननिपातनापेक्षस्य करणभावः, न च तथा ज्ञानेन किञ्चित्कर्तृसाध्यं क्रियान्तरमपेक्ष्यमस्ति । किञ्च, तत्परिणामाभावात् । छेदनक्रियापरिणतेन हि देवदत्तेन तत्क्रियायाः साचिव्ये नियुज्यमानः परशुः ‘करणम्’ इत्येतद्युक्तम्, न च तथा आत्मा ज्ञानक्रियापरिणतः । १५अर्थान्तरत्वे तस्याऽज्ञत्वात् । इह यज्ज्ञानादन्यद्भवति तदज्ञं दृष्टं यथा घटादिद्रव्यम्, तथा च ज्ञानादन्य आत्मा इत्यज्ञत्वप्रसङ्गः । ज्ञानयोगाज्ज्ञत्वं दृष्टत्वात् दण्डिवदिति चेत्; न; तत्स्वभावाभावे संबन्धनियमानुपपत्तिः इन्द्रियमनोवत् । ज्ञस्वभावाभावे सति ‘आत्मन्येव योगो न मनसेन्द्रियेण वा’ इति नियमाभावः । युतसिद्धयोश्च दण्डदण्डिनोः संबन्धः, दण्डस्य च प्रसिद्धस्य सतो विशेषणमात्रत्वेनोपादानात्, आत्मनश्च तदुत्पत्तौ हिताहितविचारणाविक्रिया- २०नुपपत्तेरसाम्यम् । उभयोश्चाज्ञयोः संबन्धेऽप्यज्ञत्वप्रसङ्गः, दृष्टत्वात्, जात्यन्धयोः संबन्धे दर्शन- शक्त्यभावात् । किञ्च, इन्द्रियमनःप्रसङ्गात् । यदि ‘ज्ञायतेऽनेन ज्ञानम्’ इति करणमभ्युपगम्यते, तेनेन्द्रियाणां मनसश्च ज्ञानत्वप्रसङ्गः विशेषाभावात्, तैरपि ज्ञायत इति । किञ्च, उभयोर्निष्क्रियत्वात् । सर्वगतस्य तावदात्मनः क्रिया नास्ति, नापि ज्ञानस्य । २५*“क्रियावत्त्वं द्रव्यस्यैव लक्षणम्” इति वचनात् । ततः क्रियाविरहितस्य कथं कर्तृत्वं करणत्वं वा स्यात् ? यस्यापि मतम् — ‘अनित्यगुणव्यतिरेकाच्छुद्धः पुरुषो नित्यश्च निर्विकारत्वात्’ इति; तस्य ज्ञानं करणं न भवतुमर्हति । कुतः ? अनभिसंबन्धात् । या बुद्धिः इन्द्रियमनोऽहङ्कार- महद्वृत्त्युपनीता आलोचनसंकल्पाभिमानाध्यवसायरूपा सा प्रकृतिः, पुरुषः पुनरविक्रियः ३०शुद्धश्च, तस्य सा करणं कथं स्यात् ? क्रियापरिणतस्य हि देवदत्तस्य लोके करणसंप्रयोगो दृष्टः । इत्येवमादि योज्यम् । नापि कर्तृसाधनत्वं युज्यते । लोके हि करणत्वेन प्रसिद्धस्यासेः तत्प्रशंसापरायामभि- धानप्रवृत्तौ समीक्षितायां ‘तैक्ष्ण्यगौरवकाठिन्याहितविशेषोऽयमेव छिनत्ति’ इति कर्तृधर्मा- ४७ ध्यारोपः क्रियते, न च तथा ज्ञानं करणत्वेन प्रसिद्धमस्ति पूर्वदोषोपपत्तेः । अतोऽस्य कर्तृत्वमयुक्तम् । नच भावसाधनत्वमुपपत्तिमत्; अविक्रियस्य तत्परिणामाभावात् । विक्रियास्वभावस्य हि वस्तुनस्तण्डुलादेः विक्लेदादिदर्शनात्, ‘पचनं पाकः’ इत्येवमादि भावनिर्देशो युक्तः ०५नाकाशस्येति । किञ्च, फलाभावात् । ज्ञानं हि प्रमाणमिष्टम् । प्रमाणेन च फलवता भवितव्यम् । न चावबोधनमन्तरेण फलमन्यदुपलभ्यते । तस्मादन्येन ज्ञानेन भवितव्यं यस्मिन् संति सा ज्ञातिरवबोधः फलमात्मनो भवति, तच्च नास्त्यतो न भावसाधनत्वम् । अधिगमश्चात्र न भावान्तरमिति ‘फले प्रामाष्योपचारः’ इति चाऽयुक्तम्; मुख्या- १०भावात् । आकारभेदात् फलप्रमाणपरिकल्पना चाऽयुक्ता; आकाराकारवतोर्भेदाभेदयोरनेक- दोषोपपत्तेः । निर्विकल्पकत्वाच्च तत्त्वस्य आकारकल्पनाभावः । बाह्यवस्त्वाकारापोहे अन्त- रङ्गाकारानुपपत्तिश्चेति । जैनेन्द्राणां तु परमर्षिसर्वज्ञप्रणीतनयभङ्गगहनप्रपञ्चविपश्चितां स्याद्वादप्रकाशोन्मीलितज्ञानचक्षुषाम् एकस्मिन्नप्यर्थेऽनेकपर्यायसंभवादुपपद्यते इति विमृष्टार्थ- मेतत् । १५मत्यादीनां ज्ञानशब्देन प्रत्येकमभिसंबन्धो भुजिवत् । १२ । यथा ‘देवदत्तजिनदत्तगुरुदत्ता भोज्यन्ताम्’ इति देवदत्तादीनां भुजिना प्रत्येकमभिसंबन्धो भवति, एवमिहापि प्रत्येकमभि- संबन्धः — ‘मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानम्’ इति । सत्यपि तत्सामा- नाधिकरण्ये ‘उपात्तलिङ्गसंख्यात्वात्तल्लिङ्गसंख्योपादानं नास्ति’ इत्युक्तं पुरस्तात् । स्वन्तत्वाद् अल्पाच्तरत्वाद् अल्पविषयत्वाच्च मतिग्रहणमादौ । १३ । ‘मतिः’ इत्येतत् पदं २०स्वन्तम् अल्पाच्तरं च अवध्यादिभ्यो विषयश्चास्याल्पः चक्षुरादीनां प्रतिनियतविषयत्वात्, तस्मादस्यादौ ग्रहणं क्रियते । तदनन्तरम् श्रुतम् तत्पूर्वकत्वात् । १४ । *“मतिपूर्वं हि श्रुतम्” [तº सूº१ । २०] इति वक्ष्यते । ततस्तदनन्तरं श्रुतं क्रियते । इतश्च — विषयनिबन्धनतुल्यत्वाच्च । १५ । *“मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु” [तº सूº २५१ । २६] इति वक्ष्यते, अतस्तत्तुल्यत्वाच्च तदनन्तरं श्रुतम् । तत्सहायत्वाच्च । १६ । यथा नारदपर्वतयोः सहायत्वात् यत्र नारदस्तत्र पर्वतः, यत्र पर्वतस्तत्र नारदः परस्परापरित्यागात्, तथा मतिश्रुतयोः परस्परापरित्यागः — ‘यत्र मतिस्तत्र श्रुतं यत्र श्रुतं तत्र मतिः’ इति । प्रत्यक्षत्रयस्यादाववधिवचनम्, विशुद्ध्यभावात् । १७ । सत्यपि मतिश्रुताभ्यां प्रत्यक्षत्वाद् ३०विशुद्धत्वेऽवधेः औपरिष्टं प्रत्यक्षज्ञानमपेक्ष्यावधिर्न विशुद्धस्ततोऽस्य प्रागुपन्यासः । ततो विशुद्धतरत्वात् मनःपर्ययग्रहणम् । १८ । ततोऽवधेर्मनःपर्ययज्ञानं विशुद्धतरम् । किं कृतोऽस्य विशुद्धिप्रकर्षः ? संयमगुणसन्निधानकृतः । अतोऽस्य तदनन्तरं ग्रहणम् । अन्ते केवलग्रहणम्, ततः परं ज्ञानप्रकर्षाभावात् । १९ । सर्वेषां ज्ञानानां परिच्छेदने ४८ केवलस्य सामर्थ्यात्, अस्य चान्येन ज्ञानेनाऽपरिच्छेद्यत्वात् नातोऽन्यत्प्रकृष्टं ज्ञानमस्तीति, ततः परं ज्ञानप्रकर्षाभावः । तेनैव सह निर्वाणाच्च । २० । यतश्च केवलेनैव सह निर्वाणं न क्षायोपशमिकज्ञानैः सह, अतोऽन्ते केवलग्रहणम् । कश्चिदाह — ०५मतिश्रुतयोरेकत्वम्; साहचर्यादेकत्रावस्थानाच्चाऽविशेषात् । २१ । मतिश्रुतयोरेकत्वं प्राप्नोति । कुतः ? साहचर्यात्, एकत्रावस्थानाच्च अविशेषात् । न; अतस्तत्सिद्धेः । २२ । नाविशेषः । कुतः ? अतस्तत्सिद्धेः । यत एव मतिश्रुतयोः साहचर्यमेकत्रावस्थानं चोच्यते अत एव विशेषः सिद्धः । प्रतिनियतविशेषसिद्धयोर्हि साह- चर्यमेकत्रावस्थानं च युज्यते, नान्यथेति । १०तत्पूर्वकत्वाच्च । २३ । *“मतिपूर्वं श्रुतम्” [तº सूº१ । २०] इति वक्ष्यते । ततश्चा- नयोर्विशेषः । यत्पूर्वं यच्च पश्चात्तयोः कथमविशेषः ? तत एवाविशेषः, कारणसदृशत्वात् युगपद्वृत्तेश्चेति चेत्; न; अत एव नानात्वात् । २४ । स्या- देतत् — यतो मतिपूर्वकत्वमत एवाविशेषः । कुतः ? कारणसदृशत्वात् कार्यस्य । कथम् ? तन्तुपटवत् । यथा शुक्लादितन्तुकार्यं पटद्रव्यं शुक्लादिगुणमेव, तथा मतिकार्यत्वाच्छ्रुतस्यापि १५मत्यात्मकत्वम् । युगपद्वृत्तेश्च । यथा अग्नौ औष्ण्यप्रकाशनयोर्युगपद्वृत्तेः अग्न्यात्मकत्वम्, तथा सम्यग्दर्शनाविर्भावादनन्तरं युगपन्मतिश्रुतयोर्ज्ञानव्यपदेशवृत्तेरविशेष इति; तन्न; किं कारणम् ? अत एव नानात्वात् । यत एव कारणसदृशत्वं युगपद्वृत्तिश्च चोद्यते अत एव नानात्वं सिद्धम् । द्वयोर्हि सादृश्यं युगपद्वृत्तिश्चेति । विषयाविशेषादिति चेत्, न; ग्रहणभेदात् । २५ । स्यादेतत् — विषयाविशेषात् मतिश्रुतयो- २०रेकत्वम् । एवं हि वक्ष्यते — *“मतिश्रुतयोर्निबन्धो द्रव्येष्वसर्वपर्यायेषु”[तº सूº१ । २६] इति; तन्न; किं कारणम् ? ग्रहणभेदात् । अन्यथा हि मत्या गृह्यते अन्यथा श्रुतेन । यो हि मन्यते ‘विषयाभेदादविशेषः’ इति; तस्य एकघटविषयदर्शनस्पर्शनाविशेषः स्यात् । उभयोरिन्द्रियानिन्द्रियनिमित्तत्वादिति चेत्; न; असिद्धत्वात् । २६ । स्यादेतत् — उभयोरि- न्द्रियानिन्द्रियनिमित्तत्वादेकत्वम् । मतिज्ञानं तावत् इन्द्रियानिन्द्रियनिमित्तमिति प्रतीतम्, २५श्रुतमपि वक्तृश्रोतृजिह्वाश्रवणनिमित्तत्वादन्तःकरणनिमित्तत्वाच्च तदुभयनिमित्तमिति; तन्न; किं कारणम् ? असिद्धत्वात् । जिह्वा हि शब्दोच्चारक्रियाया निमित्तं न ज्ञानस्य, श्रवणमपि स्वविषयमतिज्ञाननिमित्तं न श्रुतस्य, इत्युभयनिमित्तत्वमसिद्धम् । सिद्धो हि हेतुः साध्यमर्थं साधयेन्नासिद्धः । किन्निमित्तं तर्हि श्रुतम् ? अनिन्द्रियनिमित्तोऽर्थावगमः श्रुतम् । २७ । इन्द्रियानिन्द्रियबलाधानात् पूर्वमुपलब्धेऽर्थे ३०नोइन्द्रियप्राधान्यात् यदुत्पद्यते ज्ञानं तत् श्रुतम् । ईहादिप्रसङ्ग इति चेत्; न; अवगृहीतमात्रविषयत्वात् । २८ । स्यादेतत् — ईहादीनामपि श्रुतव्यपदेशः प्राप्तः, तेऽप्यनिन्द्रियनिमित्ता इति; तन्न; किं कारणम् ? अवगृहीतमात्रविषय- त्वात् । इन्द्रियेणावगृहीतो योऽर्थस्तन्मात्रविषया ईहादयः, श्रुतं पुनर्न तद्विषयम् । किं विषयं तर्हि श्रुतम् ? अपूर्वविषयम् । एकं घटमिन्द्रियानिन्द्रियाभ्यां निश्चित्याऽयं घट इति तज्जातीयमन्य- ३५मनेकदेशकालरूपादिविलक्षणमपूर्वमधिगच्छति यत्तत् श्रुतम् । ४९ नानाप्रकारार्थप्ररूपणपरं यत् तद्वा श्रुतम् । २९ । अथवा, इन्द्रियानिन्द्रियाभ्यामेकं जीव- मजीव चोपलभ्य तत्र सत्संख्याक्षेत्रस्पर्शनकालान्तरभावाल्पबहुत्वादिभिः प्रकारैरर्थप्ररूपणे कर्तव्ये यत्समर्थं तत् श्रुतम् । श्रुत्वाऽवधारणात् श्रुतमिति चेत्; न; मतिज्ञानप्रसङ्गात् । ३० । श्रुत्वा यदवधारयति तत् श्रुत- ०५मिति केचिन्मन्यन्ते; तन्न युक्तम्; कुतः ? मतिज्ञानप्रसङ्गात् । तदपि शब्दं श्रुत्वा ‘गोशब्दोऽ यम्’ इति प्रतिपद्यते । असाधारणेन नाम लक्षणेन भवितव्यम् । श्रुतं पुनस्तस्मिन्निन्द्रियानि- न्द्रियगृहीतागृहीतपर्यायसमूहात्मनि शब्दे तदभिधेये च श्रोत्रेन्द्रियव्यापारमन्तरेण जीवादौ नयादिभिरधिगमोपायैर्याथात्म्येनाऽवबोधः । “प्रमाणनयैरधिगमः”[तº सूº१ । ६] इत्युक्तम् । ‘प्रमाणं च केषाञ्चित् ज्ञानमभि- १०मतम्, केषाञ्चित् सन्निकर्षः’ इति, अतोऽधिकृतानामेव मत्यादीनां प्रमाणत्वख्यापनार्थमाह — तत्प्रमाणे ॥ १० ॥ प्रमाणशब्दस्य कोऽर्थः ? भावकर्तृकरणत्वोपपत्तेः प्रमाणशब्दस्य इच्छातोऽर्थाध्यवसायः । १ । अयं प्रमाणशब्दः भावे कर्तरि करणे च वर्तते । तत्र भावे तावत् प्रमेयार्थं प्रति निवृत्तव्यापारस्य तत्त्वकथनात् १५प्रमा प्रमाणमिति । कर्तरि प्रमेयार्थं प्रति प्रमातृत्वशक्तिपरिणतस्याश्रितत्वात् प्रमिणोति प्रमेयमिति प्रमाणम् । करणे प्रमातृप्रमाणयोः प्रमाणप्रमेययोश्च स्यादन्यत्वात् प्रमिणोत्यनेनेति प्रमाणम् । अनवस्थेति चेत्; न; दृष्टत्वात् प्रदीपवत् । २ । स्यान्मतम् — इदमिह संप्रधार्यं प्रमाणसिद्धिः परतो वा स्यात्, स्वत एव वेति ? यदि यथा प्रमेयसिद्धिः प्रमाणाधीना एवं प्रमाणसिद्धिरपि २०प्रमाणान्तराधीनेति, तस्याप्यन्यत् तस्याप्यन्यदित्यनवस्था । अथ स्वत एव सिद्धिः; एवमपि यथा प्रमाणस्य स्वत एव सिद्धिस्तथा प्रमेयस्यापि प्रमेयात्मन एव सिद्धिरिति प्रमाणव्यव- स्थाकल्पना न घटते । इच्छामात्रत्वं(त्वे)विशेषहेतुवचनं चेति; तन्न; किं कारणम् ? दृष्टत्वात् प्रदीपवत् । दृष्टो हि प्रदीपो घटादीनां प्रकाशकः स्वस्य च, तथा प्रमाणमपि इति । अथवा, अयमपरोऽर्थः — यदि भावकर्तृकरणानामन्यतमसाधनः प्रमाणशब्दः; अनवस्था २५प्राप्नोति । नह्येकस्मिन्नर्थात्मनि विरुद्धशक्त्यवस्थानमिति; तन्न; किं कारणम् ? दृष्टत्वात् प्रदीपवत् । यथैकस्य प्रदीपस्य ‘प्रदीपनं प्रदीपयति प्रदीप्यतेऽनेन’ इति वा भावादिशक्त्य- विरोधः तथा प्रमाणस्यापि इति । इतरथा हि प्रमाणव्यपदेशाभावः । ३ । यदि प्रमाणं स्वस्याप्रकाशकं स्यात् परसंवेद्यत्वात् अस्य प्रमाणव्यपदेशो न स्यात् । ३०विषयज्ञानतद्विज्ञानयोरविशेषः । ४ । विषयाकारपरिच्छेदात्मनि ज्ञाने यदि स्वाकार- परिच्छेदो न स्यात् तद्विषये विज्ञाने विषयाकाररूपतैवेति तयोरविशेषः स्यात् । ५० स्मृत्यभावप्रसङ्गश्च । ५ । न ह्यनुपलब्धपूर्वेऽर्थे ‘स एवायम्’ इति स्मृतिर्भवति यदि च विज्ञानं स्वात्मानं न विजानीयात् । उत्तरकालम् अनधिगतस्वात्मविज्ञानः कथं ब्रूयात् ‘ज्ञोऽहम्’ इति ? ततः स्मृतेरभावः स्यात् । फलाभाव इति चेत्; न; अर्थावबोधे प्रीतिदर्शनात् । ६ । स्यादेतत् — भावसाधने प्रमाणे प्रमैव ०५प्रमाणमिति न फलमन्यदुपलभ्यत इति फलाभाव इति; तन्न; किं कारणम् ? अर्थावबोधे प्रीतिदर्शनात् । ज्ञस्वभावस्यात्मनः कर्ममलीमसस्य करणालम्बनादर्थनिश्चये प्रीतिरुपजायते, सा फलमित्युच्यते । उपेक्षाऽज्ञाननाशो वा । ७ । रागद्वेषयोरप्रणिधानमुपेक्षा, अज्ञाननाशो वा फलमित्युच्यते । ज्ञातृप्रमाणयोरन्यत्वमिति चेत्; न; अज्ञत्वप्रसङ्गात् । ८ । स्यान्मतम् — ‘प्रमिणोत्यात्मानं १०परं वा प्रमाणम्’ इति कर्तृसाधनत्वमयुक्तम्; यस्मादन्यत्प्रमाणं ज्ञानम्, स च गुणः, अन्यश्च प्रमाता आत्मा स च गुणी, गुणिगुणयोश्चाऽन्यत्वं द्रव्यरूपवत् । तथा च *“आत्मेन्द्रियमनोऽर्थ- सन्निकर्षाद्यन्निष्पद्यते तदन्यत्”[वैशे. सू. ३/१/१८] इति वचनात् अन्यत्प्रमाणम् अन्यः प्रमाता, ततः करणसाधनत्वमेव युक्तमिति; तन्न; किं कारणम् ? अज्ञत्वप्रसङ्गात् । यदि ज्ञानादन्य आत्मा, तस्याऽज्ञत्वं प्राप्नोति घटवत् । १५ज्ञानयोगादिति चेत्; न; अतत्स्वभावत्वे ज्ञातृत्वाभावः अन्धप्रदीपसंयोगवत् । ९ । स्यादेतत्- ज्ञानयोगाज्ज्ञातृत्वं भवतीति; तन्न; किं कारणम् ? अतत्स्वभावत्वे ज्ञातृत्वाभावः । कथम् ? अन्धप्रदीपसंयोगवत् । यथा जात्यन्धस्य प्रदीपसंयोगेऽपि न द्रष्टृत्वं तथा ज्ञानयोगेऽपि अज्ञ- स्वभावस्यात्मनो न ज्ञातृत्वम् । प्रमाणप्रमेययोरन्यत्वमिति चेत्; न; अनवस्थानात् । १० । स्यान्मतम् — अन्यत् प्रमाणमन्यत् २०प्रमेयम् । कुतः ? लक्षणभेदात् दीपघटवत् इति; तन्न; किं कारणम् ? अनवस्थानात् । यदि यथा बाह्यप्रमेयाकारात् प्रमाणमन्यत् तथाभ्यन्तरप्रमेयाकारादप्यन्यत् स्यात्, अनवस्थाऽस्य स्यात् । प्रकाशवदिति चेत्; न; प्रतिज्ञाहानेः । ११ । तत्रैतत्स्यात् — नानवस्थादोषः । कथम् ? प्रकाशवत् । यथा प्रकाशस्य घटादीनामात्मनश्च प्रकाशकस्य नानवस्थादोषः एवमिहापीति; २५तन्न; किं कारणम् ? प्रतिज्ञाहानेः । प्रकाशो हि स्वात्मनोऽनन्यः स्वपरप्रकाशने समर्थः प्रद- र्श्यमानः प्रमाणप्रमेययोरन्यत्वप्रतिज्ञां हापयति । अनन्यत्वमेवेति चेत्; न; उभयाभावप्रसङ्गात् । १२ । यद्यन्यत्वे दोषोऽनन्यत्वं तर्हि ज्ञातृप्रमाणयोः प्रमाणप्रमेययोश्चेति; तन्न; किं कारणम् ? उभयाभावप्रसङ्गात् । यदि ज्ञातु- रनन्यत्प्रमाणं प्रमाणाच्च प्रमेयम्; अन्यतराभावे तदविनाभाविनोऽवशिष्टस्याप्यभाव इत्यु- ३०भयाभावप्रसङ्गः । कथं तर्हि सिद्धिः ? अनेकान्तात्सिद्धिः । १३ । स्यादन्यत्वं स्यादनन्यत्वमित्यादि । संज्ञालक्षणादिभेदात् स्याद- न्यत्वम्, व्यतिरेकेणानुपलब्धेः स्यादनन्यत्वमित्यादि । ततः सिद्धमेतत् — ‘प्रमेयं नियमात् प्रमेयम्, प्रमाणं तु स्यात्प्रमाणं स्यात्प्रमेयम्’ इति । ५१ वक्ष्यमाणभेदापेक्षया द्वित्वनिर्देशः । १४ । *“आद्ये परोक्षम् । प्रत्यक्षमन्यत्” । [तº सूº १ । ११, १२] इति वक्ष्यते । तदपेक्षया ‘प्रमाणे’ इति द्वित्वनिर्देशः क्रियते । तद्वचनं सन्निकर्षादिनिवृत्त्यर्थम् । १५ । तत् मत्यादिज्ञानं वर्णितं प्रमाणव्यपदेशं लभते न सन्निकर्षादीनि । अथ सनिकर्षादेः प्रमाणत्वे को दोषः ? ०५सन्निकर्षे प्रमाणे सकलपदार्थपरिच्छेदाभावः तदभावात् । १६ । यस्य मतम् — सन्निकर्षः प्रमाणम्, अर्थाधिगमः फलमिति; तस्य सकलपदार्थपरिच्छेदो नास्ति । कुतः ? तदभावात् । तस्य सन्निकर्षस्याभावात् । कथमिति चेत् ? उच्यते — येन केनचित्सर्वज्ञेन भवितव्यम् । तस्यार्थपरि- च्छेदहेतुर्यदि सन्निकर्षः; स चतुष्टयत्रयद्वयविषयः स्यात् । तत्र चतुष्टयविषयस्त्रयविषयश्च न संभवति; मनस इन्द्रियाणां चाऽयुगपत्प्रवृत्तित्वात्, प्रतिनियतविषयत्वाच्च । अनन्तो हि १०ज्ञेयस्त्रिकालविषयः सूक्ष्मान्तरितविप्रकृष्टरूपः, स कथमिह तैः सन्निकृष्यते ? असन्निकृष्टे नैतत्फलमवबोधः प्रवर्तते । अतः सर्वज्ञाभावः स्यात् । तत एव द्वयसन्निकर्षोऽपि न भवति । सर्वगतत्वादात्मनः सकलेनार्थेन सन्निकर्ष इति चेत्; न; तस्य परीक्षायामनुपपत्तेः । यदि हि सर्वगत आत्मा स्यात्; तस्य क्रियाभावात् पुण्यपापयोः कर्तृत्वाभावे तत्पूर्वकसंसारः तदुपरतिरूपश्च मोक्षो न योक्ष्यते इति । करणग्रामस्य संसार इति चेत्; न; तस्याचेतनत्वात्, १५तस्यैव मोक्षप्रसक्तेश्च । सर्वेन्द्रियसन्निकर्षाभावश्च । १७ । चक्षुर्मनसोः प्राप्यकारित्वाभावात् सर्वेन्द्रियविषयः सन्निकर्षो न संभवति ? प्राप्यकारित्वाभावश्चोपरिष्टाद्वक्ष्यते । सर्वथा ग्रहणप्रसङ्गश्च; सर्वात्मना सन्निकृष्टत्वात् । १८ । यानीन्द्रियाणि प्राप्यकारीणि तैरपि सर्वथा अर्थस्य ग्रहणं प्राप्नोति । कुतः ? सर्वात्मना सन्निकृष्टत्वात् । २०तत्फलस्य साधारणत्वप्रसङ्गः स्त्रीपुरुषसंयोगवत् । १९ । तस्य सन्निकर्षस्य प्रमाणस्य यत्फलमर्थावबोधनम्, तेन च साधारणेन भवितव्यम् । कथम् ? स्त्रीपुरुषसंयोगवत् । यथा स्त्रीपुरुषसंयोगजं सुखमुभयोरपि साधारणं तथेन्द्रियाणां मनसोऽर्थस्य चावबोधनं प्राप्नोति । शय्यादिवदिति चेत्; न; अचेतनत्वात् । २० । स्यान्मतम् — यथा शय्यादीनां पुरुषस्य च संयोगे साधारणेऽपि तत्फलं सुखं न शय्यादीनां भवति, किं तर्हि ? पुरुषस्यैवेति, तथेहापीति; तन्न; २५किं कारणम् ? अचेतनत्वात् । अचेतनानां शय्यादीनां सत्यपि संयोगे सुखं न भवति । इहापि तत एवेति चेत्; न; अविशेषात् । २१ । स्यादेतत् — मनःप्रभृतीनां सत्यपि सन्निकर्षे न तत्फलमवबोधनं भवति । कुतः ? अचेतनत्वादेवेति; तन्न; किं कारणम् ? अविशेषात् । अज्ञस्वभावत्वं तावत् सर्वेषामात्मादीनामविशिष्टं तत्र किंकृतोऽयं विशेषः — ‘सन्निकर्षजं फल- मवबोधनमर्थान्तरभूतमपि सत् आत्मनैव सम्बध्यते न मनःप्रभृतिभिः’ इति । ज्ञास्वभावत्वे ३०चात्मनः प्रतिज्ञाहानिः । समवायादिति चेत्; न; अविशेषात् । २२ । स्यादेतत् — समवायो नामायुतसिद्धिलक्षणः सम्बन्धोऽस्ति, तत्कृतोऽयं विशेष इति; तन्न; किं कारणम् ? अविशेषात् । ‘समवायो हि ५२ सर्वगतः ज्ञस्वभावशून्यत्वे समानेऽपि आत्मनैव ज्ञानं योजयति, न मनःप्रभृतिभिः’ इति वचनं न विपश्चिन्मनःप्रीतिकरम् । एवमिन्द्रियेऽपि योज्यम् । अनुमानौपम्ययोः अनुमानागमयोः अनुमानप्रत्यक्षयोः औपम्यप्रत्यक्षयोः औपम्यागमयोः आगमप्रत्यक्षयोः प्रत्यक्षपरोक्षयोश्च विपर्ययप्रसङ्गे मत्यादीनाञ्चाविशेषेण प्रमाणद्वयासक्ते- ०५रवधारणार्थमाह — आद्ये परोक्षम् ॥ ११ ॥ आदिशब्दस्यानेकार्थवृत्तित्वे विवक्षातः प्राथम्यार्थसङ्ग्रहः । १ । अयमादिशब्दोऽनेकार्थ- वृत्तिः । क्वचित्प्राथम्ये वर्तते, ‘अकारादयो वर्णाः, ऋषभादयस्तीर्थकराः’ इति । क्वचित्प्रकारे, ‘भुजङ्गादयः परिहर्तव्याः’ इति । क्वचिद्व्यवस्थायाम् *“सर्वादि सर्वनाम्”[जैनेº १ । १ । ३५] १०इति । क्वचित्सामीप्ये ‘नद्यादीनि क्षेत्राणि’ इति । क्वचिदवयवे, *“टिदादिः”[जैनेº १ । १ । ५३] इति । तत्रेह आदिशब्दस्य विवक्षातः प्राथम्यार्थो वेदितव्यः । आदौ भवमाद्यम् । किं पुन- स्तत् ? मतिः श्रुतं च । श्रुताग्रहणमप्रथमत्वात् । २ । श्रुतस्य ग्रहणं न प्राप्नोति । कुतः ? अप्रथमत्वात् । नहि सूत्रे श्रुतं प्रथमम् । १५उत्तरापेक्षया आदित्वमिति चेत्; न; अतिप्रसङ्गात् । ३ । स्यान्मतम् — अवध्याद्युत्तरमपेक्ष्य श्रुतस्यादित्वमिति; तन्न; किं कारणम् ? अतिप्रसङ्गात् । उत्तरमपेक्ष्य यद्यादित्वं कल्प्यते; केवलं व्युदस्य सर्वस्यादित्वं प्राप्नोति । द्वित्वनिर्देशादिति चेत्; न; तदवस्थत्वात् । ४ । स्यादेतत् — द्वित्वनिर्देशेन सर्वस्य ग्रहणं न भवति, अतो नातिप्रसङ्ग इति; तन्न; किं कारणम् ? तदवस्थत्वात् । एवमप्यतिप्रसङ्ग एव २०भवति — ‘कयोर्द्वयोर्ग्रहणम्’ इति । न वा; प्रत्यासत्तेः श्रुतग्रहणम् । ५ । न वैष दोषः । किं कारणम् ? प्रत्यासत्तेः श्रुतग्रहणं भवति । द्वित्वनिर्देशाद् गृह्यमाणं यदाद्यस्य प्रत्यासन्नं तदेव गृह्यते । तस्य हि सामीप्यादौ- पचारिकं प्राथम्यमस्तीति, तथासामीप्यं श्रुतेरर्थाच्च । उपात्तानुपात्तपरप्राधान्यादवगमः परोक्षम् । ६ । उपात्तानीन्द्रियाणि मनश्च, अनुपात्तं २५प्रकाशोपदेशादि परः तत्प्राधान्यादवगमः परोक्षम् । यथा गतिशक्त्युपेतस्यापि स्वयमेव गन्तुमसमर्थस्य यष्ट्याद्यवलम्बनप्राधान्यं गमनम्, तथा मतिश्रुतावरणक्षयोपशमे सति ज्ञस्वभावस्यात्मनः स्वयमेवार्थानुपलब्धुमसमर्थस्य पूर्वोक्तप्रत्ययप्रधानं ज्ञानं परायत्तत्वात्तदुभयं परोक्षमित्युच्यते । अत एव प्रमाणत्वाभावः इत्यनुपालम्भः । ७ । अत्राऽन्ये उपालभन्ते — ‘परोक्षं प्रमाणं न ३०भवति, प्रमीयतेऽनेनेति हि प्रमाणम्, न च परोक्षेण किंञ्चित्प्रमीयते परोक्षत्वादेव’ इति; सोऽनुपालम्भः । कुतः ? अत एव । यस्मात् ‘परायत्तं परोक्षम्’ इत्युच्यते न ‘अनवबोधः’ इति । ५३ अभिहितलक्षणात् परोक्षादितरस्य सर्वस्य प्रत्यक्षत्वप्रतिपादनार्थमाह — प्रत्यक्षमन्यत् ॥ १२ ॥ अन्यत्त्रिविधं प्रत्यक्षमित्युच्यते । किमिदं प्रत्यक्षं नाम ? इन्द्रियानिन्द्रियानपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम् । १ । इन्द्रियाणि चक्षुरादीनि ०५पञ्च, अनिन्द्रियं मनः, तेष्वपेक्षा यस्य न विद्यते । ‘अतस्मिंस्तदिति ज्ञानं व्यभिचारः’ सोऽती- तोऽस्य । आकारो विकल्पः, यत्सह आकारेण वर्तते तत्प्रत्यक्षमित्युच्यते । ‘इन्द्रियानिन्द्रियानपे- क्षम्’ इति विशेषणं मतिश्रुतनिवृत्त्यर्थम् । ‘अतीतव्यभिचारम्’ इत्येतद्विभङ्गज्ञाननिवृत्त्यर्थम्, तद्धि मिथ्यादर्शनोदयाद् व्यभिचरतीति । ‘साकारग्रहणम्’ इत्येतदवधिकेवलदर्शनव्युदासा- र्थम् । अनाकारं हि तदिति । किं गतमेतदियता सूत्रेण, आहोस्विदेवं वक्तव्यमिति ? गतं प्रति- १०पन्नम् । कथमिति चेत् ? उच्यते — अक्षं प्रति नियतमिति परापेक्षानिवृत्तिः । २ । ‘अक्ष्णोति व्याप्नोति जानाति’ इति अक्ष आत्मा, प्राप्तक्षयोपशमः प्रक्षीणावरणो वा, तमेव प्रति नियतं प्रत्यक्षमिति विग्रहात् परापे- क्षानिवृत्तिः कृता भवति । अधिकारात् अनाकारव्यभिचारव्युदासः । ३ । अधिकृतमेतत् — ‘ज्ञानं सम्यक्’ इति च, १५ततोऽनाकारस्य दर्शनस्य व्यभिचारिणो ज्ञानस्य च व्युदासः कृतो भवति । करणात्यये ग्रहणाभाव इति चेत्; न; दृष्टत्वात् ईशवत् । ४ । स्यादेतत् — करणात्यये अर्थस्य ग्रहणं न प्राप्नोति, न ह्यकरणस्य कस्यचित् ज्ञानं दृष्टमिति; तन्न; किं कारणम् ? दृष्ट- त्वात् । कथम् ? ईशवत् । यथा रथस्य कर्ता अनीशः उपकरणापेक्षो रथं करोति, स तद- भावे न शक्तः, यः पुनरीशः तपोविशेषात् परिप्राप्तर्द्धिविशेषः स बाह्योपकरणगुणानपेक्षः २०स्वशक्त्यैव रथं निर्वर्तयन् प्रतीतः, तथा कर्ममलीमस आत्मा क्षायोपशमिकेन्द्रियानिन्द्रियप्रका- शाद्युपकरणापेक्षोऽर्थान् संवेत्ति, स एव पुनः क्षयोपशमविशेषे क्षये च सति करणानपेक्षः स्वशक्त्यैवार्थान् वेत्ति इति को विरोधः ? ज्ञानदर्शनस्वभावत्वाच्च भास्करादिवत् । ५ । यथा भास्करादयः प्रकाशस्वभावत्वात् प्रकाशान्तरानपेक्षाः प्रकाश्यानर्थान् प्रकाशयन्ति, तथा ज्ञानदर्शनस्वभाव आत्मा तदावरणक्षय- २५क्षयोपशमविशेषे सति स्वशक्त्यैवार्थानाविष्करोतीति सिद्धम् । ‘इन्द्रियनिमित्तं ज्ञानं प्रत्यक्षम्, तद्विपरीतं परोक्षम्’ इत्यविसंवादिलक्षणमिति चेत्; न; आप्तस्य प्रत्यक्षाभावप्रसङ्गात् । ६ । स्यान्मतम् — ‘इन्द्रियव्यापारजनितं ज्ञानं प्रत्यक्षम्, व्यतीतेन्द्रियविषयव्यापारं परोक्षम्’ इत्येतदविसंवादि लक्षणम् । तथा चोक्तम् — *“प्रत्यक्षं कल्पनापोढं नामजात्यादियोजना । ३०असाधारणहेतुत्वादक्षैस्तद् व्यपदिश्यते ॥ ”[प्रमाणसमुº१ । ३, ४] *“इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्”[न्याय- सूº १ । १ । ४]*“आत्मेन्द्रियमनोऽर्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्”[वैशेº ३ । १ । १८] ५४ *“श्रोत्रादिवृत्तिः प्रत्यक्षम् । ”*“सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षम्”[मीº दº १ । १ । ४] इति च सर्वैरभ्युपगम्यते । अत एव तल्लक्षणमविसंवादि निश्चे- तव्यमिति; तन्न; किं कारणम् ? आप्तस्य प्रत्यक्षाभावप्रसङ्गात् । यदीन्द्रियनिमित्तमेव ज्ञानं प्रत्यक्षमिष्यते; एवं सत्याप्तस्य प्रत्यक्षज्ञानं न स्यात् । नहि तस्येन्द्रियपूर्वोऽर्थाधिगमः । अथ ०५तस्यापि करणपूर्वकमेव ज्ञानं कल्प्यते; तस्यासर्वज्ञत्वं पुरस्तादुक्तम् । आगमादिति चेत्; न; तस्य प्रत्यक्षज्ञानपूर्वकत्वात् । ७ । स्यादेतत् — आगमादतीन्द्रियार्थाधि- धिगमेऽव्याहतशक्तेः सर्वार्थावबोध इति; तन्न; किं कारणम् ? तस्य प्रत्यक्षज्ञानपूर्वकत्वात् । आप्तेन हि क्षीणदोषेण प्रत्यक्षज्ञानेन प्रणीत आगमो भवति न सर्वः । यदि सर्वः स्यात्; अविशेषः स्यात् । स च नास्ति, इत्यागमस्य प्रामाण्याभावः । १०अपौरुषेयादिति चेत्; न; तदसिद्धेः । ८ । स्यादेतत् — अपौरुषेय आगमोऽस्ति अनादिनिधनो- ऽत्यन्तपरोक्षेष्वप्यर्थेष्वप्रतिहतगतिः, ततः सर्वार्थाधिगम इति; तन्न; किं कारणम् ? तदसिद्धेः । न च कश्चिदागमोऽपौरुषेयः सिद्धोऽस्ति, हिंसादिविधायिनः प्रामाण्यासिद्धेः । अतीन्द्रियं योगिप्रत्यक्षमिति चेत्; न; अर्थाभावात् । ९ । स्यान्मतम् — योगिनोऽतीन्द्रियप्रत्यक्षं ज्ञानमस्ति आगमविकल्पातीतम्, तेनासौ सर्वार्थान् प्रत्यक्षं वेत्ति । उक्तञ्च — *“योगिनांगुरु- १५निर्देशाद् व्यतिभिन्नार्थमात्रदृक्”[प्रमाणसमुº१ । ६] इति; तन्न; किं कारणम् ? अर्थाभावात् । ‘अक्षमक्षं प्रति वर्तते’ इति प्रत्यक्षम् । न चायमर्थों योगिनि विद्यते अक्षाभावात् । अथवा, न सन्ति सर्वे भावाः स्वपरोभयहेत्वहेतुभ्य उत्पत्त्याद्यभावात्, सामान्यविशेष- योश्चैकानेकयोर्वृत्त्यसंभवादिदोषोपपत्तेः, अतोऽर्थाभावान्निरालम्बनं योगिनो ज्ञानं कथं स्यात् ? ‘परिकल्पितात्मना न सन्ति भावा निर्विकल्पात्मना सन्ति’ इति चायुक्तम्; तदधि- २०गमोपायाभावात् । न हि निर्विकल्पोऽर्थोऽस्ति, तद्विषयं ज्ञानं चेति प्रतिपादयितुं शक्यम्, लक्षणाभावात् । तदभावाच्च । १० । तस्य योगिनोऽभावाच्च । न हि कश्चित्तत्परिकल्पितो योगी विद्यते, विशे- षलक्षणविरहात्, सर्वविरहाच्च निर्वाणप्राप्तौ । तन्नैतत्स्यात् — *“निर्वाणं द्विविधम् — सोप- ५५ धिविशेषं, निरुपधिविशेषं चेति । तत्र सोपधिविशेषे निर्वाणे बोद्धाऽस्ति” इति; तत्रापि यथा बाह्यस्याभावः कल्प्यते ताथागतैः तथाभ्यन्तरस्यापीति बोद्धुरभाव एव । योगजधर्मानुग्रहादात्मा करणविरहितोऽप्यवैतीति चेत्; न; तस्य निष्क्रियस्य नित्यस्य सतस्तत्क्रियावदनुग्रहविकाराभावात् । ०५तल्लक्षणानुपपत्तिश्च स्ववचनव्याघातात् । ११ । तस्य प्रत्यक्षस्योक्तं लक्षणमपि नोप- पद्यते । कुतः ? स्ववचनव्याघातात् । आन्यापोहिकप्रतिविहितान्येव शेषप्रमाणलक्षणानि । ततस्तत्र नो नातितरां प्रतिविधानादरः, किन्तु तत्प्रमाणलक्षणगुणसंभावनातिरस्कारार्थं किञ्चि- द्व्याप्रियामहे । यदुक्तम् — *“कल्पनापोढं प्रत्यक्षम्”[प्रमाणसमुº१ । ३] इति । कल्पना हि जाति- द्रव्यगुणक्रियापरिभाषाकृतो वाग्बुद्धिविकल्पः, ततोऽनापोढं कल्पोढम् । किं तत् सर्वथा कल्पना- १०पोढम्, उताहो कथञ्चिदिति ? यदि सर्वथा; ‘अस्ति प्रमाणं ज्ञानं कल्पनापोढम्’ इत्येवमादि कल्पनाभ्योऽप्यपोढमिति अस्त्यादिवचनव्याघातः । अथ अस्त्यादिकल्पनाभ्योऽनपोढमिष्यते; ‘सर्वथा कल्पनापोढम्’ इति वचनव्याघातः । अथ कथञ्चित्कल्पनापोढम्; एकान्तवादत्यागात् पुनरपि स्ववचनव्याघात एव । अथ मतम् — नास्माकमेकान्तः ‘कल्पनापोढमेव’ इति । किमर्थंतर्हि विशेषणम् ? परमतापेक्षं १५विशेषणम् । परमते हि नामजात्यादिभेदोपचारकल्पना प्रोक्ता, ततोऽपोढं न स्वविकल्पादिति । उक्तञ्च — *“सवितर्कविचारा हि पञ्च विज्ञानधातवः । निरूपणानुस्मरणविकल्पेनाविकल्पकाः ॥ ”[अभिधº१ । ३२] इति । अत्रोच्यते — ‘आलम्बने अर्पणा वितर्कः, तत्रैवानुमर्शनं विचारः, तस्य नामादिभिः प्रकल्पना निरूपणम्, पूर्वानुभूतानुसारेण विकल्पनमनुस्मरणम्, इति । एते धर्माः क्षणमात्रावस्था- २०नेष्वक्षविषयविज्ञानेषुनिरन्वयेषुनोपपद्यन्ते युगपदुत्पत्तेरनवस्थानाच्च । अतो ग्राह्यग्रहणभावा- भावश्च स्यात् सव्येतरगोविषाणवत् । क्रमवृत्तित्वे च तेषां स्वार्थाभावप्रसङ्गश्चेति । सन्तानाद्य- पेक्षया तदुपपत्तिरिति चेत्; न तत्, परीक्षाऽक्षमत्वात् । अतः सर्वस्मिन्नसति विकल्पे ‘अयं विकल्पोऽस्ति अयं नास्ति’ इति विज्ञानस्य विवेको नोपपद्यते । सर्वविकल्पविरहाच्च नास्तित्व- मेवास्य स्यात् । अनुस्मरणाद्यभ्युपगमे च एकस्यानेकक्षणवर्तिनो वस्तुनोऽस्तित्वं सिद्धम् । २५अनुस्मरणादि हि स्वयमनुभूतस्यार्थस्य दृष्टम्, नाननुभूतस्य नान्यानुभूतस्येति । तथा मानसमपि प्रत्यक्षं नोपपद्यते । अपि च, *“षण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः” [अभिधº१ । १७] इति — अतीतमसत् कथं विज्ञानस्य कारणं स्यात् ? अथ पूर्वोत्तरनाशोत्पत्त्यो- र्युगपद्वृत्तेः कार्यकारणभावः कल्प्यते; भिन्नसन्तानयोरपि विनश्यदुत्पद्यमानयोः कार्यकारणभावः स्यात् । एकसन्ताने शक्त्यनुगमाभ्युपगमे प्रतिज्ञाहानिश्च स्यात् । ५६ अपूर्वाधिगमलक्षणानुपपत्तिश्च सर्वस्य ज्ञानस्य प्रमाणत्वोपपत्तेः । १२ । ‘अपूर्वाधिगमलक्षणं प्रमाणम्’ इत्येतच्च नोपपद्यते । कुतः ? सर्वस्य ज्ञानस्य प्रमाणत्वोपपत्तेः । प्रमीयतेऽनेनेति प्रमाणम्, सर्वेण च ज्ञानेन प्रमीयते । यथा अन्धकारेऽवस्थितानां घटादीनामुत्पत्त्यनन्तरं प्रकाशकः प्रदीप उत्तरकालमपि न तं व्यपदेशं जहाति तदवस्थानकारणत्वात्, एवं ज्ञानमप्युत्पत्त्यनन्तरं घटादी- ०५नामवभासकं भूत्वा प्रमाणत्वमनुभूयोत्तरकालमपि न तं व्यपदेशं त्यजति तदर्थत्वात् । अथ मतम्- क्षणे क्षणेऽन्य एव प्रदीपोऽपूर्वमेव प्रकाशकत्वमवलम्बत इति; एवं सति ज्ञानमपि तादृगेवेति क्षणे क्षणेऽन्यत्वोपपत्तेरपूर्वाधिगमलक्षणमविशिष्टमिति; तत्र यदुक्तम् — *“स्मृतीच्छाद्वेषादिवत् पूर्वाधिगतविषयत्वात् पुनः पुनरभिधानं ज्ञानं न प्रमाणम्” इति, तद् व्याहन्यते । स्वसंवित्तिफलानुपपत्तिश्च अर्थान्तरत्वाभावात् । १३ । प्रमाणं लोके फलवदुपलब्धम् । १०अस्य च प्रमाणस्य केनचित् फलेन भवितव्यमिति । कश्चिदाह — द्व्याभासं हि ज्ञानमुत्पद्यते- स्वाभासं विषयाभासं च । तस्योभयाभासस्य यत्संवेदनं तत्फलमिति; तन्नोपपद्यते; कुतः ? अर्थान्तरत्वाभावात् । लोके प्रमाणात् फलमर्थान्तरभूतमुपलभ्यते । तद्यथा — छेतृछेत्तव्यछेदनसन्नि- धाने द्वैधीभावः फलम्, न च तथा स्वसंवेदनमर्थान्तरभूतमस्ति । तस्मादस्य फलत्वं नोपपद्यते । सत्यम्, एवमेतत्, अतएव तस्मिंन्नधिगमरूपे फले सव्यापारप्रतीततामुपादाय प्रमाणोपचार इति; १५प्रमाणोपचारानुपपत्तिः मुख्याभावात् । १४ । सति मुख्ये लोके उपचारो दृश्यते, यथा सति सिंहे विशेष्टतिर्यग्गतिपञ्चेन्द्रियजातिनखदंष्ट्रासटाटोपभासुरकपिलनयनतारकाद्यवयवविशिष्टे अन्यत्र क्रौर्यशौर्यादिगुणसावर्म्यात् सिंहोपचारः क्रियते । न च तथेह मुख्यं प्रमाणमस्ति, तदभा- वात् फले प्रमाणोपचारो न युज्यते । आकारभेदाद्भेद इति चेत्; न; एकान्तवादत्यागात् । १५ । स्यादेतत् — ग्राहकविषयाभाससंवित्ति- २०शक्तित्रयाकारभेदात् प्रमाणप्रमेयफलकल्पनाभेद इति; तन्न; किं कारणम् ? एकान्तवादत्यागात् । ‘एकमनेकाकारम्’ इत्येतज्जैनेन्द्रं दर्शनम्, तत्कथमेकान्तवादे युज्यते ? यदि ह्येवमभ्युपगम्येत; द्रव्ये कोऽपरितोषः । ‘रूपाद्यनेकात्मकमेकं परमाणुद्रव्यम्, ज्ञानाद्यनेकात्मकमात्मद्रव्यम्’ इति । अथ द्रव्यसिद्धिर्माभूदिति ‘आकारा एव न ज्ञानम्’ इति कल्प्यते; एवं सति कस्य ते आकारा इति तेषामप्यभावः स्यात् । किञ्च, तेषामाकाराणां यौगपद्येन वा उत्पत्तिः स्यात्, क्रमेण वा ? २५यदि योगपद्येन; हेतुहेतुमद्भावो विरुध्यते । अथ क्रमेण; क्षणिकस्य विज्ञानस्याकाराणां कथं क्रमः ? यदि स्यात्; *“अधिगमश्चात्र न भावान्तरम्” इति व्याहन्यते । अपि च बाह्यस्य विज्ञेयस्याभावे अन्तरङ्गाकारत्रयकल्पनायां प्रमाणप्रमाणाभासविशेषो नोप- पद्यते अन्तरङ्गाकाराभेदात् । ‘असद्वस्तु यत्सदिति कल्पयति तत् प्रमाणाभासम्, असदेवेति यत्प्रति- पद्यते तत्प्रमाणम्’ इत्यस्ति विशेष इति चेत्; प्रमेयद्वयव्यवस्थापितप्रमाणद्वयकल्पनाव्याघातः । ३०स्वलक्षणविषयं हि प्रत्यक्षम् सामान्यलक्षणविषयमनुमानम् । स्वलक्षणमसाधारणो धर्मः विकल्पातीतत्वात् ‘इदं तत्’ इत्यव्यपदेश्यः । तद्विपरीतं सामान्यलक्षणमिति । सर्वस्यासत्त्वे किं कृतोऽयं विशेषः ? असत्त्वं हि न स्वतो भिद्यते । संबन्धिभेदात् स्याद्भेदः — ‘घटस्यासत्त्वं पट- स्यासत्त्वम्’ इति; तेषां घटादीनां संबन्धिनामभावे तद्विशेषाभाव इति । ५७ स्यान्मतम् — खात्पतिता नो रत्नवृष्टिः, इष्टमेवाप्रतर्कितमुपस्थितम्, अत एव सर्वं विज्ञा- नाभिधानमयथार्थं परिकल्पितार्थत्वात्, निर्विकल्पार्थगोचरमात्मीयमेव विज्ञानं प्रमाणमिति । उक्तञ्च — *“शास्त्रेषु प्रक्रियाभेदैरविद्यैवोपवर्ण्यते । ०५अनागमविकल्पा हि स्वयं विद्या प्रर्वतते ॥ ”[वाक्यपº२ । २३५] इति । एतच्चानुपपन्नम्; तदधिगमोपायाभावात् । उक्तञ्च — *“प्रत्यक्षबुद्धिः क्रमते न यत्र तल्लिङ्गगम्यं न तदर्थलिङ्गम् । वाचो न वा तद्विषयेण योगः का तद्गतिः कष्टमशृण्वतां ते ॥ ”[युक्त्यनुº श्लोº २२] इति । आहितोभयप्रकारस्य प्रमाणस्य आदिप्रकारविशेषप्रतिपत्त्यर्थमाह — १०मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ॥ १३ ॥ इतिशब्दस्यानेकार्थसंभवे विवक्षावशादाद्यर्थसंप्रत्ययः । १ । इतिशब्दोऽनेकार्थः संभवति । क्वचिद्धेतौ वर्तते — ‘हन्तीति पलायते, वर्षतीति धावति’ । क्वचिदेवमित्यस्यार्थे वर्तते — इति स्म उपाघ्यायः कथयति ‘एवं स्म’ इति गम्यते । क्वचित्प्रकारे वर्तते — यथा ‘गौरश्वः शुक्लो नीलः, चरति प्लवते, जिनदत्तो देवदत्तः’ इति, ‘एवं प्रकाराः’ इत्यर्थः । क्वचिद्व्यव- १५स्थायां वर्तते — यथा *“ज्वलितिकसंताण्णः”[जैनेº २ । १ । ११२] इति । क्वचिदर्थविपर्यासे वर्तते — यथा ‘गौरित्ययमाह-गौरिति जानीते’ इति । क्वचित्समाप्तौ वर्तते — ‘इति प्रथममाह्नि- कम्’ इति ‘द्वितीयमाह्निकम्’ इति । क्वचिच्छब्दप्रादुर्भावे वर्तते — इति श्रीदत्तम्, इति सिद्धसेनमिति । तत्रेह विवक्षावशादादिशब्दार्थो वेदितव्यः । मतिस्मृतिसंज्ञाचिन्ताभि- निबोधादयः इत्यर्थः । के पुनस्ते ? प्रतिभाबुद्ध्युपलब्ध्यादयः । प्रकारे वा, एवं प्रकारः २०इति । कथमेषां शब्दानामनर्थान्तरत्वम् ? मतिज्ञानावरणक्षयोपशमनिमित्तार्थोपलब्धिविषयत्वादनर्थान्तरत्वं रूढिवशात् । २ । एतेषां मत्यादीनां शब्दानां मतिज्ञानावरणक्षयोपशमनिमित्तायामर्थोपलब्धौ वृत्तेरनर्थान्तरत्वं वेदित- ५८ व्यम् । कथं पुनः ‘मननं मन्यत इति वा मतिः’ इत्येवमाद्यर्थविषयाणामेषामनर्थान्तरत्वम् इति ? अत आह — रूढिवशादिति । यथा गच्छतीति गौरित्यङ्गीकृतमपि गमनं न शब्दवृत्तिनियम- कारणं रूढिवशात् क्वचिदेव वर्तते, तथा मत्यादयः शब्दा व्युत्पत्तिकर्मणि सत्यप्यर्थाश्रयेण भेदे क्वचिदेव वर्तन्त इत्यनर्थान्तरत्वमवसीयते । ०५शब्दभेदादर्थभेदो गवाश्वादिवदिति चेत्; न; अतः संशयात् । ३ । स्यादेतत् — मत्यादीनां शब्दानां परस्परतोऽर्थान्तरत्वमस्ति । कुतः ? शब्दभेदात्, गवाश्वादिवदिति; तन्न; किं कारणम्; अतः संशयात् । यत एव मत्यादीनां शब्दभेदादन्यत्वमाह भवान्, अत एव संशयः । कथम् ? इन्द्रादिवत् । यथा इन्द्रशक्रपुरन्दरादिशब्दभेदेऽपि नार्थभेदः तथा मत्यादि- शब्दभेदेऽप्यर्थाभेद इति । न हि यत एव संशयस्तत एव निर्णयः । किञ्च, १०शब्दाभेदेऽप्यर्थैकत्वप्रसङ्गात् । ४ । यस्य शब्दभेदोऽर्थभेदे हेतुरिति मतम्, तस्य वागादि- नवार्थेषु गोशब्दाभेददर्शनाद् वागाद्यर्थानामेकत्वमस्तु । अथ नैतदिष्टम्; न तर्हि शब्दभेदोऽन्य- त्वस्य हेतुः । किञ्च, आदेशवचनात् । ५ । यथा इन्द्रादीनामेकद्रव्यपर्यायादेशात् स्यादेकत्वं प्रतिनियतपर्यायार्था- देशाच्च स्यादन्यत्वम् — इन्दनादिन्द्रः, शकनाच्छक्रः, पूर्दारणात्पुरन्दर इति । तथा मत्यादीनामेक- १५द्रव्यपर्यायादेशात् स्यादेकत्वम्, प्रतिनियतार्थपर्यायादेशाच्च स्यान्नानात्वम् — ‘मननं मतिः स्मरणं स्मृतिः सज्ञानं संज्ञा चिन्तनं चिन्ता आभिमुख्येन नियतं बोधनमभिनिबोधः’ इति । पर्यायशब्दो लक्षणं नेति चेत्; न; ततोऽनन्यत्वात् । ६ । स्यान्मतम् — मत्यादय अभिनिबोध- पर्यायशब्दा नाभिनिबोधस्य लक्षणम् । कथम् ? मनुष्यादिवत् । यथा मनुष्यमर्त्यमनुज- मानवादयः पर्यायशब्दाः मनुष्यस्य लक्षणं न भवन्तीति; तन्न; किं कारणम् ? ततोऽनन्यत्वात् । २०इह पर्यायिणोऽनन्यः पर्यायशब्दः, स लक्षणम् । कथम् ? औष्ण्याग्निवत् । यथा पर्यायशब्दः औष्ण्यमग्नेः पर्यायिणोऽनन्यत्वादग्नेर्लक्षणं भवति तथा पर्यायशब्दा मत्यादय आंभिनिबोधिक- ज्ञानपर्यायिणोऽनन्यत्वेन अभिनिबोधस्य लक्षणम् । अथवा, ततोऽनन्यत्वात् । यथा मनुष्य- मर्त्यमनुजमानवादय असाधारणत्वादन्यघटादिद्रव्यासंभविनो मनुष्यादनन्यत्वात्तस्य लक्षणम्, अन्यथा हि मनुष्यादिपर्यायालक्षणत्वात् मनुष्याभावो भवेत्, यतो न मनुष्यादिलक्षणव्यति- २५रेकेणास्यान्यल्लक्षणमस्तीति । न चाभाव इष्टः, अतः पर्यायशब्दो लक्षणम् । तथा मति- स्मृत्यादयोऽसाधारणत्वाद् अन्यज्ञानासंभविनोऽभिनिबोधादनन्यत्वात्तस्य लक्षणम् । इतश्च पर्यायशब्दो लक्षणम् । कस्मात् ? गत्वा प्रत्यागतलक्षणग्रहणात् । ७ । कथम् ? अग्न्युष्णवत् । यथा अग्निरिति गत्वा ज्ञात्वा बुद्धिरुष्णपर्यायशब्दं गच्छति । कथं गच्छति ? कोऽयमग्निः ? य उष्ण इति । उष्ण ३०इति च गत्वा बुद्धिः प्रत्यागच्छति । कोऽयमुष्णः ? योऽग्निरिति । तथा मतिरिति गत्वा बुद्धिः स्मृतिं गच्छति । का मतिः ? या स्मृतिरिति । ततः स्मृतिरिति गत्वा बुद्धिः प्रत्यागच्छति । का स्मृतिः ? या मतिरिति । एवमुत्तरेष्वपि । तस्माद् गत्वा प्रत्यागत- लक्षणग्रहणात् पश्यामः ‘पर्यायशब्दो लक्षणम्’ इति । किञ्च, ५९ पर्यायद्वैविध्यादग्निवत् । ८ । यथा अग्नेरात्मभूत उष्णपर्यायो लक्षणं न धूमः, तस्य बाह्येन्धननिमित्तत्वे कादाचित्कत्वात्, तथा आभ्यन्तरो मत्यादिपर्याय आत्मभूतत्वाल्ल- क्षणं नाऽनात्मभूतो बाह्यो मत्यादिशब्दः पुद्गलः तत्प्रत्यायनसमर्थः, तस्य बाह्यकरणप्रयोग- निमित्तत्वात् । ०५इति करणस्य वाऽभिधेयार्थत्वात् । ९ । अथवा इतिकरणोऽयम् अभिधेयार्थः प्रयुज्यते । मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध इति योऽर्थोऽभिधीयते तन्मतिज्ञानमिति । ततो लक्षण- त्वमुपपद्यते । श्रुतादीनामेतैरनभिधानात् । १० । न ह्येतैर्मत्यादिभिः श्रुतादीन्यभिधीयन्ते । वक्ष्यमाणलक्षणसद्भावाच्च । ११ । श्रुतादीनां हि लक्षणं वक्ष्यते । ततः तेषां मत्य- १०प्रसङ्गः । यद्येवंलक्षणं मतिज्ञानमवध्रियते अथास्यात्मलाभे किन्निमित्तमिति ? अत आह — तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥ अथवा, आत्मप्रसादाविशेषात् सर्वज्ञानानामेकत्वप्रसङ्गे निमित्तभेदान्नानात्वं प्रतिपा- दयिषन् ब्रवीति — सत्यपि अमुष्मिन्नविशेषे पृथक्त्वमेषामवेमः । कुतः ? यस्मात्तदिन्द्रिया- १५निन्द्रियनिमित्तमिति । किमिदमिन्द्रियं नाम ? इन्द्रस्यात्मनोऽर्थोपलब्धिलिङ्गमिन्द्रियम् । १ । इन्द्र आत्मा, तस्य कर्ममलीमसस्य स्वयमर्थान् ग्रहीतुमसमर्थस्याऽर्थोपलम्भने यल्लिङ्गं तदिन्द्रियमित्युच्यते । अथ किमिदमनिन्द्रियम् ? अनिन्द्रियं मनोऽनुदरावत् । २ । मनोऽन्तःकरणमनिन्द्रियमित्युच्यते । कथमिन्द्रिय- २०प्रतिषेधेन मन उच्यते ? यथा ‘अयमब्राह्मणः’ इत्युक्ते ब्राह्मणत्वरहिते कस्मिंश्चित् संप्रत्ययो भवति, तथा इन्द्रलिङ्गविरहिते अन्यस्मिन् अनिन्द्रियमिति संप्रत्ययः स्यात्, न तु इन्द्रलिङ्ग एव मनसि; नैष दोषः; ईषत्प्रतिषेधात् । कथम् ? अनुदरावत् । यथा ‘अनुदरा कन्या’ इति नास्या उदरं न विद्यते, किन्तु गर्भभारोद्वहनसमर्थोदराभावादनुदरा, तथा अनिन्द्रियमिति नास्येन्द्रियत्वाभावः, किन्तु चक्षुरादिवत् प्रतिनियतदेशविषयावस्थानाभावात् अनिन्द्रियं मन २५इत्युच्यते । अन्तरङ्गं तत्करणम्, इन्द्रियानपेक्षत्वात् । ३ । नास्येन्द्रियेष्वपेक्षास्तीति इन्द्रियान- पेक्षम् । न ह्यस्य गुणदोषविचारस्वविषयप्रवृत्तौ इन्द्रियापेक्षास्ति ततोऽन्तरङ्गं तत्करण- मिति वेदितव्यम् । तदुभयमवष्टभ्य यदुत्पद्यते तन्मतिज्ञानमिति । तदित्यग्रहणम्, अनन्तरत्वादिति चेत्; न; उत्तरार्थत्वात् । ४ । स्यादेतत् — मतिज्ञानस्या- ३०नन्तरत्वादनेनाभिसंबन्धो भवतीति तदित्येतद्ग्रहणमनर्थकमिति; तन्न; किं कारणम् ? उत्तरार्थ- त्वात् । उत्तरार्थं हि तत् । इतरथा हि अवग्रहेहावायधारणा मतिज्ञानभेदा इति विज्ञातु- मशक्याः । तद्ग्रहणे पुनः क्रियमाणे तन्मतिज्ञानमवग्रहादय इति संबन्धः सुगमो भवति । यदेतस्मिन्निमित्तद्वयसन्निधाने सत्यात्मलाभं प्रत्यागूर्णमनिर्वर्णितभेदमिति तद्भेद- प्रतिपत्त्यर्थमाह — ६० अवग्रहेहावायधारणाः ॥ १५ ॥ विषयविषयिसन्निपातसमनन्तरमाद्यं ग्रहणमवग्रहः । १ । विषयविषयिसन्निपाते दर्शनं भवति, तदनन्तरमंर्थस्य ग्रहणमवग्रहः । ०५अवगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा । २ । यथा ‘पुरुषः’ इत्यवगृहीते तस्य भाषावयो- रूपादिविशेषैराकाङ्क्षणमीहा । विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । ३ । भाषादिविशेषनिर्ज्ञानात्तस्य याथात्म्येना- वगमनमवायः । ‘दाक्षिणात्योऽयम्, युवा, गौरः’ इति वा । निर्णीतार्थाऽविस्मृतिर्धारणा । ४ । भाषावयोरूपादिविशेषैर्याथात्म्येन निर्णीतस्य पुरुषस्यो- १०त्तरकालम् ‘स एवायम्’ इत्यविस्मरणं यतो भवति सा धारणा । त एते मतिज्ञानभेदाः । अत्राह — इदमानुपूर्व्यं किं कृतमेषाम् ? उच्यते — अवग्रहादीनामानुपूर्व्यमुत्पत्तिक्रमापेक्षम् । ५ । अवग्रहपूर्वकत्वात् इतरेषाम् आदाववग्रहः क्रियते । तथेतरेष्वपि योज्यम् । अत्राह — अवग्रहेहयोरप्रामाण्यं तत्सद्भावेऽपि संशयदर्शनाच्चक्षुर्वत् । ६ । यथा चक्षुषि न निर्णयः, १५सत्येव तस्मिन् ‘किमयं स्थाणुराहोस्वित् पुरुषः’ इति संशयदर्शनात्, तथा अवग्रहेऽपि सति न निर्णय ईहादर्शनात्, ईहायां च न निर्णयः, यतो निर्णयार्थमीहा नत्वीहैव निर्णयः । यश्च निर्णयो न भवति स संशयजातीय इत्यप्रामाण्यमनयोरिति । अवग्रहवचनादिति चेत्; न; संशयानतिवृत्तेरालोचनवत् । ७ । स्यादेतत् — नावग्रहः संशयः । कुतः ? अवग्रहवचनात् । यत उक्तः ‘पुरुषोऽयम्’ इति अवग्रहः, ‘तस्य भाषावयोरूपादिविशेषा- २०काङ्क्षणमीहा’ इति । संशयस्तु अप्रतिपत्तिरेवेति; तन्न; किं कारणम् ? संशयानतिवृत्तेः । कथम् ? आलोचनवत् । यथा ऊर्ध्वार्थालोचने ‘किमयमूर्ध्वोऽर्थः स्थाणुः, उत पुरुषः’ इति संश- यानतिवृत्तिः तथा ‘ऊर्ध्वोऽयमर्थः’ इत्यवग्रहे ईहाद्यपेक्षत्वात् संशयानतिवृत्तिः । उच्यते — लक्षणभेदादन्यत्वमग्निजलवत् । ८ । यथा अग्निजलयोः दहनप्रकाशनादि — द्रवतास्नेहनादि- प्रतिनियतलक्षणभेदात् अन्यत्वं तथा अवग्रहसंशययोर्लक्षणभेदादन्यत्वम् । कोऽसौ लक्षणभेदः ? २५उच्यते — अनेकार्थाऽनिश्चिताऽपर्युदासात्मकः संशयः तद्विपरीतोऽवग्रहः । ९ । स्थाणुपुरुषाद्यनेकार्था- लम्बनसन्निधानादनेकार्थात्मकः संशयः, एकपुरुषाद्यन्यतमात्मकोऽवग्रहः । स्थाणुपुरुषानेकधर्मा- निश्चितात्मकः संशयः, यतो न स्थाणुधर्मान् पुरुषधर्मांश्च निश्चिनोति, अवग्रहस्तु पुरुषाद्यन्यत- मैकधर्मनिश्चयात्मकः । स्थाणुपुरुषानेकधर्माऽपर्युदासात्मकः संशयः, यतो न प्रतिनियतान् ३०स्थाणुपुरुषधर्मान् पर्युदस्यति संशयः, अवग्रहः पुनः पर्युदासात्मकः, स ह्यन्यान् ध्रुवादीन् पर्यायान् पर्युदस्य ‘पुरुषः’ इत्येकपर्यायालम्बनः । संशयतुल्यत्वमपर्युदासादिति चेत्; न; निर्णयविरोधात् संशयस्य । १० । स्यादेतत् — संशय- तुल्योऽवग्रहः । कुतः ? अपर्युदासात् । यथा संशयः स्थाणुपुरुषविशेषापर्युदासात्मकः तथा अवग्रहोऽपि ‘पुरुषः’ इति भाषावयोरूपाद्यपर्युदासात्मकः । अतश्चैतदेवं यदुत्तरकालं ३५तद्विशेषार्थमीहामारभत इति; तन्न; किं कारणम् ? निर्णयविरोधात् संशयस्य । संशयो हि निर्णयविरोधी नत्ववग्रहः निर्णयदर्शनात् । ६१ ईहायां तत्प्रसङ्ग इति चेत्; न; अर्थादानात् । ११ । स्यादेतत् — यदि निर्णयाविरोध्यवग्रह इति न संशयः, ननु ईहाया निर्णयविरोधिनीत्वात् संशयत्वप्रसङ्ग इति; तन्न; किं कारणम् ? अर्थादानात् । अवगृह्यार्थं तद्विशेषोपलब्ध्यर्थमर्थादानमीहा । संशयः पुनर्नार्थविशेषालम्बनः । संशयपूर्वकत्वाच्च । १२ । संशयो हि पूर्वमुपजायते ईहायाः । कथम् ? इह पुरुषमवगृह्य ०५‘किमयं दाक्षिणात्य उत औदीच्यः’ इत्येवमाद्यप्रतिपत्तौ संशयः, एवंसंशयितस्योत्तरकालं विशेषोपलिप्सां प्रति यतनमीहेति संशयादर्थान्तरत्वम् । अत एव संशयावचनम् अर्थगृहीतेः । १३ । अत एव सूत्रे संशयो नोक्तः । कुतः ? अर्थ- गृहीतेः । सति हि संशये ईहायाः प्रवृत्तिर्नाऽसतीति । आह — किमयम् अपाय उत अवाय इति ? उभयथा न दोषः । अन्यतरवचनेऽन्यतर- १०स्यार्थगृहीतत्वात् । यदा ‘न दाक्षिणात्योऽयम्’ इत्यपायं त्यागं करोति तदा ‘औदीच्यः’ इत्य- वायोऽधिगमोऽर्थगृहीतः । यदा च ‘औदीच्यः’ इत्यवायं करोति तदा ‘न दाक्षिणात्योऽयम्’ इत्य- पायोऽर्थगृहीतः । कश्चिदाह — यदुक्तं भवता विषयविषयिसन्निपाते दर्शनं भवति, तदनन्तरमवग्रह इति; तदयुक्तम्; अवैलक्षण्यात् । न ह्यवग्रहाद्विलक्षणं दर्शनमस्तीति । अत्रोच्यते — न; वैलक्षण्यात् । १५कथम् ? इह चक्षुषा चक्षुर्दर्शनावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामावष्टम्भाद् अविभावि- तविशेषसामर्थ्येन ‘किञ्चिदेतद्वस्तु’ इत्यालोकनमनाकारं दर्शनमित्युच्यते बालवत् । यथा जात- मात्रस्य बालस्य प्राथमिक उन्मेषोऽसौ अविभावितरूपद्रव्यविशेषालोचनाद्दर्शनं विवक्षितं तथा सर्वेषाम् । ततो द्वित्रादिसमयभाविषून्मेषेषु चक्षुरवग्रहमतिज्ञानावरणवीर्या न्तरायक्षयापेशमाङ्गो- पाङ्गनामावष्टम्भाद् ‘रूपमिदम्’ इति विभावितविशेषोऽवग्रहः । यत् प्रथमसमयोन्मेषितस्य २०बालस्य दर्शनं तद् यदि अवग्रहजातीयत्वात् ज्ञानमिष्टम्; तन्मिथ्याज्ञानं वा स्यात्, सम्यग्ज्ञानं वा ? मिथ्याज्ञानत्वेऽपि संशयविपर्ययानध्यवसायात्मकं [वा] स्यात् ? तत्र न तावत् संशयवि- पर्ययात्मकं वाऽचेष्टि; तस्यसम्यग्ज्ञानपूर्वकत्वात् । प्राथमिकत्वाच्च तन्नास्तीति । न वाऽनध्यवसायरूपम्; जात्यन्धवधिररूपशब्दवत् वस्तुमात्रप्रतिपत्तेः । न सम्यग्ज्ञानम्; अर्थाकारावलम्बनाभावात् । किञ्च, २५कारणनानात्वात् कार्यनानात्वसिद्धेः । यथा मृत्तन्तुकारणभेदात् घटपटकार्यभेदः तथा दर्श- नज्ञानावरणक्षयोपशमकारणभेदात् तत्कार्यदर्शनज्ञानभेद इति । अस्ति प्राक् अवग्रहाद्दर्शनम् । ततः शुक्लकृष्णादिरूपविज्ञानसामर्थ्योपेतस्यात्मनः ‘किं शुक्लमुत कृष्णम्’ इत्यादिविशेषाप्रतिपत्तेः संशयः । ततः शुक्लविशेषाकाङ्क्षणं प्रतीहनमीहा । ततः ‘शुक्लमेवेदं न कृष्णम्’ इत्यवायनमवायः । अवेतस्यार्थस्याविस्मरणं धारणा । एवं श्रोत्रादिषु मनस्यपि योज्यम् । तदावरणकर्मक्षयोप- ३०शमविकल्पात् प्रत्येकमवग्रहादिज्ञानावरणभेद इष्यते । कथम् ? ज्ञानावरणमूलप्रकृतेः पञ्चो- त्तरप्रकृतयः, तासामप्युत्तरोत्तराः प्रकृतिविशेषाः सन्ति । *“ज्ञानावरणस्योत्तरोत्तरप्रकृतयः असंख्येया लोकाः” इति वचनात् । ६२ आह — ईहादीनाममतिज्ञानप्रसङ्गः । कुतः ? परस्परकार्यत्वात् । अवग्रहः कारणम् ईहा कार्यम्, ईहा कारणम् अवायः कार्यम्, अवायः कारणं धारणा कार्यम् । न चेहादीनाम् इन्द्रि- यानिन्द्रियनिमित्तत्वमस्तीति; नैष दोषः; ईहादीनाम् अनिन्द्रियनिमित्तत्वात् मतिज्ञानव्यपदेशः । यद्येवं श्रुतस्यापि प्राप्नोति; इन्द्रियगृहीतविषयत्वादीहादीनाम् अनिन्द्रियनिमित्तत्वमप्युपचर्यते, ०५न तु श्रुतस्यायं विधिरस्ति तस्यानिन्द्रियविषयत्वादिति श्रुतस्याप्रसङ्गः । यद्येवं चक्षुरिन्द्रिये- हादिव्यपदेशाभाव इति चेत्; न; इन्द्रियशक्तिपरिणतस्य जीवस्य भावेन्द्रियत्वे तद्व्यापारका- र्यत्वात् । इन्द्रियभावपरिणतो हि जीवो भावेन्द्रियमिष्यते, तस्य विषयाकारपरिणामा ईहा- दय इति चक्षुरिन्द्रियेहादिव्यपदेश इति । य इमे अवग्रहादयो मतिज्ञानप्रभेदा उक्तास्ते ज्ञानावरणक्षयोपशमनिमित्ताः केषां १०भवन्तीति ? उच्यते — बहुबहुविधक्षिप्रानिःसृतानुक्तध्रुवाणां सेतराणाम् ॥ १६ ॥ संख्यावैपुल्यवाचिनो बहुशब्दस्य ग्रहणमविशेषात् । १ । बहुशब्दो हि संख्यावाची वैपु- ल्यवाची च, तस्योभयस्यापि ग्रहणम् । कस्मात् ? अविशेषात् । संख्यायाम् ‘एको द्वौ बहवः’ इति, वैपुल्ये ‘बहुरोदनो बहुः सूपः’ इति । १५बह्ववग्रहाद्यभावः प्रत्यर्थवशवर्तित्वादिति चेत्; न; सर्वदैकप्रत्ययप्रसङ्गात् । २ । स्यादेतत् — प्रत्यर्थवशवर्ति विज्ञानं नानेकमर्थं ग्रहीतुमलम्, अतो बह्ववग्रहादीनामभाव इति; तन्न; किं कारणम् ? सर्वदैकप्रत्ययप्रसङ्गात् । यथा इरिणाटव्यां कश्चिदेकमेव पुरुषमवलोकयन् नानेक इत्यवैति, मिथ्याज्ञानमन्यथा स्यात् एकत्र अनेकबुद्धिर्यदि भवेत्, तथा नगरवनस्कन्धावाराव- गाहिनोऽपि तस्यैकप्रत्ययः स्यात् सार्वकालिकः । अतश्चानेकार्थग्राहिविज्ञानस्यात्यन्तासंभवात् २०नगरवनस्कन्धावारप्रत्ययनिवृत्तिः । नैताः संज्ञा ह्येकार्थनिवेशिन्यः, तस्माल्लोकसंव्यवहार- निवृत्तिः । किञ्च, नानार्थप्रत्ययाभावात् । ३ । यस्यैकार्थमेव नियमाज्ज्ञानं तस्य पूर्वज्ञाननिवृत्तावुत्तरज्ञानो- त्पत्तिः स्यात्, अनिवृत्तौ वा ? उभयथा च दोषः । यदि पूर्वमुत्तरज्ञानोत्पत्तिकालेऽस्ति; यदु- क्तम् *“एकार्थमेकमनस्त्वात्” इत्यदो विरुध्यते । यथैकं मनोऽनेकप्रत्ययारम्भकं तथैक- २५प्रत्ययोऽनेकार्थों भविष्यति, अनेकस्य प्रत्ययस्यैककालसंभवात् । नन्वनेकार्थोपलब्धिरुपपत्स्यते; तत्र यदभिमतम्’ — *“एकमेव एकस्य ज्ञानमेकं चार्थमुपलभते” इत्यमुष्य व्याघातः । अथ पुनर्विनिवृत्ते पूर्वस्मिन्नुत्तरज्ञानोत्पत्तिः प्रतिज्ञायते; ननु सर्वथैकार्थमेकमेव ज्ञानमिति, अतः ‘इदमस्मादन्यत्’ इत्येष व्यवहारो न स्यात् । अस्ति च सः, तस्मान्न किञ्चिदेतत् । किञ्च, आपेक्षिकसंव्यवहारविनिवृत्तेः । ४ । यस्यैकज्ञानमनेकार्थविषयं न विद्यते; तस्य मध्यमा- ३०प्रदेशिन्योर्युगपदनुपलम्भात् तद्विषयदीर्घह्रस्वव्यवहारो विनिवर्तेत । आपेक्षिको ह्यसौ, न चापेक्षास्ति । किञ्च, संशयाभावप्रसङ्गात् । ५ । एकार्थविषयवर्तिनि विज्ञाने, स्थाणौ पुरुषे वा प्राक्प्रत्यय- जन्म स्यात्, नोभयोः प्रतिज्ञातविरोधात् । यदि स्थाणौ; पुरुषाभावात् स्थाणुवन्ध्यापुत्रवत् ६३ संशयाभावः स्यात् । अथ पुरुषेः तथा स्थाणुद्रव्यानपेक्षत्वात् संशयो न स्यात्, तत्पूर्ववत् । नत्वभाव इष्टः, अतो नैकार्थग्राहिविज्ञानकल्पना श्रेयसीति । किञ्च, ईप्सितनिष्पत्त्यनियमात् । ६ । विज्ञानस्यैकार्थावलम्बित्वे चित्रकर्मणि निष्णातस्य चैत्रस्य पूर्णकलशमालिखतः तत्क्रियाकलशतत्प्रकारग्रहणविज्ञानभेदात् इतरेतरविषयसंक्रमाभावात् ०५अनेकविज्ञानोत्पादनिरोधक्रमे सति अनियमेन निष्पत्तिः स्यात् । दृष्टा तु सा नियमेन । सा चैकार्थग्राहिणि विज्ञाने विरुध्यते । तस्मान्नानार्थोंऽपि प्रत्ययोऽभ्युपेयः । द्वित्रादिप्रत्ययाभावाच्च । ७ । एकार्थविषयवर्तिनि विज्ञाने ‘द्वाविमौ इमे त्रयः’ इत्यादि प्रत्ययस्याभावः, यतो नैकं विज्ञानं द्वित्राद्यर्थानां ग्राहकमस्ति । सन्तानसंस्कारकल्पनायां च विकल्पानुपपत्तिः । ८ । सन्ताने संस्कारे च कल्प्यमाने १०विकल्पयोरनुपपत्तिः । स सन्तानः संस्कारश्च ज्ञानजातीयो वा स्यात्, अज्ञानजातीयो वा ? यद्यज्ञानजातीयः; न ततः किञ्चित् प्रयोजनमस्ति । ज्ञानजातीयत्वेऽपि एकार्थग्राहित्वं वा स्यात्, अनेकार्थग्राहित्वं वा ? यद्येकार्थग्राहित्वम्; दोषविधिस्तदवस्थः । अथानेकार्थग्राहित्वम्; प्रतिज्ञा- हानिः प्रसज्यते । विधग्रहणं प्रकारार्थम् । ९ । ‘विधयुक्तगतप्रकाराः समानार्थाः’ इति प्रकारार्थो विधशब्दः । १५बहुविधं बहुप्रकारमित्यर्थः । क्षिप्रग्रहणमचिरप्रतिपत्त्यर्थम् । १० । ‘अचिरप्रतिपत्तिः कथं स्यात्’ इति क्षिप्रग्रहणं क्रियते । अनिःसृतग्रहणमसकलपुद्गलोद्गमार्थम् । ११ । अनिःसृतग्रहणं क्रियते असकलपुद्गलो- द्गमार्थम् । २०अनुक्तमभिप्रायेण प्रतिपत्तेः । १२ । ‘अभिप्रायेण प्रतिपत्तिरस्ति’ इत्यनुक्तग्रहणं क्रियते । ध्रुवं यथार्थग्रहणात् । १३ । ध्रुवग्रहणं क्रियते ‘यथार्थग्रहणमस्ति’ इति । सेतरग्रहणाद्विपर्ययावरोधः । १४ । ‘अल्पमल्पविधं चिरं निःसृतमुक्तमध्रुवम्’ इत्येतेषा- मवरोधो भवति सेतरग्रहणात् । अवग्रहादिसंबन्धात् कर्मनिर्देशः । १५ । ‘बह्वादीनाम्’ इति कर्मनिर्देशोऽवग्रहाद्यपेक्षो २५वेदितव्यः । बह्वादीनामादौ वचनं विशुद्धिप्रकर्षयोगात् । १६ । ज्ञानावरणक्षयोपशमविशुद्धिप्रकर्षयोगे सति बह्वादीनामवग्रहादयो भवन्ति इति तेषां ग्रहणमादौ क्रियते । ते च प्रत्येकमिन्द्रियानिन्द्रियेषु द्वादशविकल्पा नेयाः । तद्यथा — प्रकृष्टश्रोत्रेन्द्रियावरण- वीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामोपष्टम्भात् संभिन्नश्रोताऽन्यो वा युगपत्ततविततघन- ३०सुषिरादिशब्दश्रवणाद् बहुशब्दमवगृह्णाति । अल्पश्रोत्रेन्द्रियावरणक्षयोपशमपरिणाम आत्मा ततशब्दादीनामन्यतममल्पं शब्दमवगृह्णाति । प्रकृष्टश्रोत्रेन्द्रियावरणक्षयोपशमादिसन्निधाने सति ततादिशब्दविकल्पस्य प्रत्येकमेकद्वित्रिचतुःसंख्येयासंख्येयानन्तगुणस्यावग्राहकत्वात् बहु- ६४ विधमवगृह्णाति । अल्पविशुद्धिश्रोत्रेन्द्रियादिपरिणामकारण आत्मा ततादिशब्दानामेकविधा- वग्रहणात् एकविधमवगृह्णाति । प्रकृष्टश्रोत्रेन्द्रियावरणक्षयोपशमादिपरिणामित्वात् क्षिप्रं शब्दमवगृह्णाति । अल्पश्रोत्रेन्द्रियावरणक्षयोपशमादिपारिणामिकत्वात् चिरेण शब्दमवगृह्णाति । सुविशुद्धश्रोत्रादिपरिणामात् साकल्येनानुच्चारितस्य ग्रहणात् अनिःसृतमवगृह्णाति । निःसृतं ०५प्रतीतम् । प्रकृष्टविशुद्धिश्रोत्रेन्द्रियादिपरिणामकारणत्वात् एकवर्णानिर्गमेऽपि अभिप्रायेणैव अनुच्चारितं शब्दमवगृह्णाति ‘इमं भवात् शब्दं वक्ष्यति’ इति । अथवा, स्वरसंचारणात् प्राक् तन्त्रीद्रव्यातोद्याद्यामर्शनेनैव अवादितम् अनुक्तमेव शब्दमभिप्रायेणावगृह्य आचष्टे- ‘भवानिमं शब्दं वादयिष्यति’ इति । उक्तं प्रतीतम् । संक्लेशपरिणामनिरुत्सुकस्य यथा- नुरूपश्रोत्रेन्द्रियावरणक्षयोपशमादिपरिणामकारणावस्थितत्वात् यथा प्राथमिकं शब्दग्रहणं १०तथावस्थितमेव शब्दमवगृह्णाति नोनं नाभ्यधिकम् । पौनःपुन्येन संक्लेशविशुद्धिपरिणाम- कारणापेक्षस्यात्मनो यथानुरूपपरिणामोपात्तश्रोत्रेन्द्रियसान्निध्येऽपि तदावरणस्येषदीषदा- विर्भावात् पौनःपुनिकं प्रकृष्टावकृष्टश्रोत्रेन्द्रियावरणादिक्षयोपशमपरिणामत्वाच्च अध्रुवमव- गृह्णाति शब्दम् — क्वचिद् बहु क्वचिदल्पं क्वचिद् बहुविधं क्वचिदेकविधं क्वचित् क्षिप्रं क्वच्चिरेण क्वचिदनिःसृतं क्वचिन्निसृतं क्वचिदुक्तं क्वचिदनुक्तम् । १५अत्राह — बहुबहुविधयोः कः प्रतिविशेषो यावतोभयत्रापि ततादिशब्दग्रहणमविशिष्ट- मस्ति ? उच्यते — न, विशेषदर्शनात् । यथा कश्चित् बहूनि शास्त्राणि मौलेन सामान्यार्थे- नाविशेषितेन व्याचष्टे न तु बहुभिर्विशेषितार्थैः, कश्चिच्च तेषामेव बहूनां शास्त्राणां बहु- भिरर्थैः परस्परातिशययुक्तैर्बहुविकल्पैर्व्याख्यानं करोति, तथा ततादिशब्दग्रहणाविशेषेऽपि यत्प्र- त्येकं ततादिशब्दानाम् एकद्वित्रिचतुःसंख्येयाऽसंख्येयाऽनन्तगुणपरिणतानां ग्रहणं तद् बहुविध- २०ग्रहणम्, यत्ततादीनां सामान्यग्रहणं तद् बहुग्रहणम् । आह — उक्तनिःसृतयोः कः प्रतिविशेषः, यतः सकलशब्दनिःसरणान्निःसृतम् उक्त- मप्येवंविधमेव ? उच्यते — अन्योपदेशपूर्वकं शब्दग्रहणम् उक्तम् ‘गोशब्दोऽयम्’ इति । स्वत एव ग्रहणं निःसृतम् । चक्षुषा तु विशुद्धचक्षुरिन्द्रियावरणक्षयोपशमपरिणामकारणत्वात् शुक्लकृष्णरक्तनीलपीत- २५रूपपर्यायं बहुमवगृह्णाति । अल्पं पूर्ववत् । प्रकृष्टविशुद्धिचक्षुरिन्द्रियादिक्षयोपशमपरिणाम- कारणत्वात् शुक्लादिपञ्चतयरूपगुणस्य प्रत्येकमेकद्वित्रिचतुःसंख्येयासंख्येयानन्तगुणपरिणा- मिनोऽवग्राहकत्वसामर्थ्याद् बहुविधं रूपमवगृह्णाति । एकविधं पूर्ववत् । क्षिप्रचिरयोरप्युक्त एव क्रमः । पञ्चवर्णवस्त्रकम्बलचित्रपटादीनां सकृदेकदेशविषयपञ्चवर्णग्रहणात् कृत्स्नपञ्चवर्णे- ष्वदृष्टेष्वनिःसृतेष्वपि तद्वर्णाविष्करणसामर्थ्याद् अनिःसृतमवगृह्णाति । अथवा, देशान्तरस्थ- ३०पञ्चवर्णपरिणतैकवस्त्रादिकथनात् साकल्येनाऽकथितस्यापि एकदेशकथनेनैव तत्कृत्स्नपञ्च- वर्णग्रहणाद् अनिःसृतम् । निःसृतं प्रतीतम् । सुविशुद्धचक्षुरिन्द्रियादिक्षयोपशम आत्मा शुक्ल- कृष्णादिवर्णमिश्रीकरणदर्शनात् परेणाकथितमपि वर्णमभिप्रायेणैव प्रतिपद्यते — ‘भवानिमं वर्णमे- तद्वर्णद्वयमिश्रणात् करिष्यति’ इत्येवं ग्रहणादनुक्तं रूपमवगृह्णाति । अथवा, देशान्तरस्थपञ्च- ६५ वर्णैकद्रव्यकथने ताल्वादिकरणसंश्लेषात् प्राक् सकृदप्यकथितमेव द्रव्यमाचष्टे ‘भवानेवंविध- मस्माकं पञ्चवर्णद्रव्यं व्याकरिष्यति’ इत्यनुक्तं रूपमवगृह्णाति । परकीयाभिप्रायानपेक्षम् आत्मीयचक्षुरिन्द्रियपरिणामसामर्थ्यादेवोक्तं रूपमवगृह्णाति । संक्लेशपरिणामनिरुत्सुकस्य यथानुरूपचक्षुरिन्द्रियावरणक्षयोपशमपरिणामकारणावस्थितत्वात् यथा प्राथमिकं रूपग्रहणं ०५तथावस्थितमेव रूपमवगृह्णाति नोनं नाभ्यघिकम् । पौनःपुन्येन संक्लेशविशुद्धिपरिणामकारणा- पेक्षस्य आत्मनो यथानुरूपपरिणामोपात्तचक्षुरिन्द्रियसान्निध्येऽपि तदावरणस्येषदीषदाविर्भावात् पौनःपुनिकं प्रकृष्टावकृष्टचक्षुरिन्द्रियावरणक्षयोपशमपरिणामकारणत्वाच्च अध्रुवमवगृह्णाति रूपं क्वचिद् बहु क्वचिदल्यं क्वचिद् बहुविधं क्वचिदेकविधं क्वचित् क्षिप्रं क्वच्चिरेण क्वचि- दनिःसृतं क्वचिन्निःसृतं क्वचिदनुक्तं क्वचिदुक्तम् । एवं घ्राणाद्यवग्रहेष्वपि योज्यम् । तथे- १०हावायधारणा अपि बह्वादिभिः सेतरैरवसेयाः । कश्चिदाह — श्रोत्रघ्राणस्पर्शनरसनचतुष्टयस्य प्राप्यकारित्वात् अनिःसृतानुक्तशब्दाद्यवग्र- हेहावायधारणा न युक्ता इति; उच्यते — अप्राप्तत्वात् । १७ । कथम् ? पिपीलिकादिवत् । १८ । यथा पिपीलिकादीनां घ्राणरसनदेशाप्राप्तेऽपि गुडादिद्रव्ये गन्ध- १५रसज्ञानम्, तच्च यैश्च यावद्भिश्चास्मदाद्यप्रत्यक्षसूक्ष्मगुडावयवैः पिपीलिकादिघ्राणरसनेन्द्रि- ययोः परस्परानपेक्षा प्रवृत्तिस्ततो न दोषः । अस्मदादीनां तदभाव इति चेत्; न; श्रुतापेक्षत्वात् । १९ । यथा भूगृहसंवर्द्धितोत्थि- तस्य पुंसः चक्षुरादिभिरवभासितेष्वपि घटादिषु ‘घटोऽयं रूपमिदम्’ इत्यादि यद्विशेषपरि- ज्ञानं तत् श्रुतापेक्षं परोपदेशापेक्षत्वात्, तथा अस्मदादीनामप्यनिःसृतानुक्तमपि ज्ञानविकल्प- २०शब्दात् यदवग्रहादिज्ञानं तत् श्रुतापेक्षम् । किञ्च, लब्ध्यक्षरत्वात् । २० । श्रुतज्ञानप्रभेदरूपणायां लब्ध्यक्षरश्रुतकथनं षोढा प्रविभक्तम् । तद्यथा — *“चक्षुःश्रोत्रघ्राणरसनस्पर्शनमनोलब्ध्यक्षरम्” इत्यार्ष उपदेशः । अतः चक्षुः- श्रोत्रघ्राणरसनस्पर्शनेन्द्रियमनोलब्ध्यक्षरसान्निध्यात् एतत्सिध्यति अनिसृतानुक्तानामपि शब्दादीनां अवग्रहादिज्ञानम् । २५यद्यवग्रहादयो बह्वादीनां कर्मणामाक्षेप्तारो बह्वादीनि पुनर्विशेषणानि कस्येति ? अत आह — अर्थस्य ॥ १७ ॥ चक्षुरादिविषयोऽर्थः, तस्य बह्वादिविशेषणविशिष्टस्य अवग्रहादयो भवन्ति । इयर्ति पर्यायनर्यते वा तैरित्यर्थो द्रव्यम् । १ । प्रत्यात्मसंबन्धिनः पर्यायान् उभयनिमित्त- ३०वशादुत्पत्तिं प्रत्यागूर्णान् इयर्ति गच्छति, अर्यते गम्यते वा तैरित्यर्थः । कः पुनरसौ ? द्रव्यम् । किमर्थमिदमुच्यते — ६६ अर्थवचनं गुणग्रहणनिवृत्त्यर्थम् । २ । केचित् — ‘रूपादयो गुणा एवेन्द्रियैः सन्निकृष्यन्ते तत- स्तद्ग्रहणम्’ इति मन्यन्ते; तन्मतनिवृत्त्यर्थम् ‘अर्थस्य’ इत्युच्यते । न हि ते रूपादयो गुणा अमूर्ता इन्द्रियसन्निकर्षमापद्यन्ते इति । तत्प्रचयविशेषे सति सन्निकर्षसंभव इति चेत्; न; गुणानां प्रचयानुपपत्तेः । सत्यपि वा प्रचये अर्थान्तरप्रादुर्भावाभावात् सूक्ष्मावस्थानतिक्रमात् ०५अग्रहणमेवैषां स्यात् । न तर्हीदानीमिदं भवति — ‘रूपं मया दृष्टं गन्धो वा घ्रातः’ इति, भवति च; अर्थग्रहणात् तदव्यतिरेकात् तेषामपि ग्रहणोपपत्तेः । तेषु सत्सु मतिज्ञानात्मलाभात् सप्तमीप्रसङ्गः । ३ । यतो विषयेषु सत्सु मतिज्ञानमावि- र्भवति अतः ‘अर्थे’ इति वाच्यम् । न; अनेकान्तात् । ४ । नायमेकान्तोऽस्ति — ‘सत्यर्थे मतिज्ञानं भवति’ इति, यतः सत्यप्यर्थे १०अवनितलभवनसंभूतस्य कुमारस्योत्तीर्णमात्रस्य घटरूपादिमतिज्ञानाभावः । अथवा, नायमेका- न्तोऽस्ति, अधिकरणस्य सत्त्वात् सप्तमीप्रसङ्ग इति । कस्मात् ? तस्याविवक्षितत्वात् । विवक्षा- वशाद्धि कारकाणि भवन्ति । क्रियाकारकसंबन्धस्य विवक्षितत्वात् । ५ । अवग्रहादयः क्रियाविशेषा उक्ताः, तेषामवश्यं केनचित् कर्मणा भवितव्यमिति ‘बह्वादिविकल्पस्यार्थस्य’ इत्युच्यते । १५बह्वादिसामानाधिकरण्याद् बहुत्वप्रसङ्गः । ६ । यतो बह्वादिरेवार्थः नातोऽन्यः, ततो बह्वादिसामान्याधिकरण्यात् ‘अर्थानाम्’ इति बहुत्वं प्राप्नोति ? न वा, अनभिसम्बन्धात् । ७ । न वैष दोषः । किं कारणम् ? अनभिसंबन्धात् । न ह्यस्य बह्वादिभिरभिसंबन्धः क्रियते । केन तर्हि ? अवग्रहादिभिः । ‘कस्य’ इत्युक्ते ‘अर्थस्य’ इत्यभि- सम्बध्यते, तद्विशेषणं बह्वादिग्रहणम् । २०सर्वस्य वाऽर्यमाणत्वात् । ८ । अथवा, सर्वस्यार्यमाणस्यार्थत्वम्, अतो जातिप्रधानत्वान्नि- र्देशस्य ‘अर्थस्य’ इत्येकत्वनिर्देशो युक्तः । प्रत्येकमभिसंबन्धाद्वा । ९ । अथवा प्रत्येकमभिसंबन्धः क्रियते — बहोरर्थस्य बहुविधस्या- र्थस्य इति । किममी अवग्रहादयः सर्वस्येन्द्रियानिन्द्रियार्थस्य भवन्ति उत कश्चिद्विषयविशेषोऽ- २५स्तीति ? अत आह — व्यञ्जनस्यावग्रहः ॥ १८ ॥ व्यञ्जनमव्यक्तं शब्दादिजातं तस्यावग्रहो भवति । किमर्थमिदम् ? नियमार्थम् — ‘अवग्रह एव नेहादयः’ इति । स तर्ह्येवकारः कर्तव्यः ? न वा; सामर्थ्यादवधारणप्रतीतेः अब्भक्षवत् । १ । न वा कर्तव्यः । किं कारणम् ? साम- ३०र्थ्यादवधारणप्रतीतेः । कथम् ? अब्भक्षवत् । यथा न कश्चिदपो न भक्षयतीति सामर्थ्यादव- ६७ धारणं प्रतीयते — ‘अप एव भक्षयति’ इति, तथा सर्वेषामवग्रहादीनां प्रसिद्धौ अवग्रहवचन- मवधारणार्थं विज्ञायते । तयोरभेदो ग्रहणाविशेषादिति चेत्; न; व्यक्ताऽव्यक्तभेदाद् अभिनवशराववत् । २ । स्यादेतत् — तयोरर्थावग्रहव्यञ्जनावग्रहयोर्नास्ति भेदः — ग्रहणाविशेषात्, न हि शब्दादिग्रहणं प्रति ०५विशेषोऽस्तीति; तन्न; किं कारणम् ? व्यक्ताव्यक्तभेदात् । व्यक्तग्रहणमर्थावग्रहः । अव्यक्त- ग्रहणं व्यञ्जनावग्रहः । कथम् ? अभिनवशराववत् । यथा सूक्ष्मजलकणद्वित्रिसिक्तः शरावो- ऽभिनवो नार्द्रीभवति, स एव पुनः पुनः सिच्यमानः शनैस्तिम्यति, तथा आत्मनः शब्दादीनाम- व्यक्तग्रहणात् प्राक् व्यञ्जनावग्रहः, व्यक्तग्रहणमर्थावग्रहः । सर्वेन्द्रियाणामविशेषेण व्यञ्जनावग्रहप्रसङ्गे यत्रासंभवस्तदर्थं प्रतिषेधमाह — १०न चक्षुरनिन्द्रियाभ्याम् ॥ १९ ॥ चक्षुषा अनिन्द्रियेण च व्यञ्जनावग्रहो न भवति । कुतः ? व्यञ्जनावग्रहाभावः चक्षुर्मनसोरप्राप्यकारित्वत् । १ । यतोऽप्राप्तमर्थमविदिक्कं युक्त- सन्निकर्षविषयेऽवस्थितं बाह्यप्रकाशाभिव्यक्तमुपलभते चक्षुः, मनश्चाप्राप्तम्, ततो नानयोर्व्य- ञ्जनावग्रहोऽस्ति । १५इच्छामात्रमिति चेत्; न; सामर्थ्यात् । २ । स्यादेतत् — इच्छामात्रमिदम् — ‘अप्राप्तार्थावग्राहि चक्षुः’ इति; तन्न; किं कारणम् ? सामर्थ्यात् । कथं सामर्थ्यम् ? आगमतो युक्तितश्च । आगमतस्तावत् — *“पुट्ठं सुणेदि सद्दं अपुट्ठं पुण पस्सदे रूवं । गंधं रसं च फासं बद्धं पुट्ठं विजाणादि ॥ ” इति । २०युक्तितोऽपि — अप्राप्यकारि चक्षुः स्पृष्टानवग्रहात् । यदि प्राप्यकारि स्यात्, त्वगिन्द्रियवत् स्पृष्ट- मञ्जनं गृह्णीयात् । न च गृह्णाति । अतो मनोवदप्राप्यकारीत्यवसेयम् । अत्र केचिदाहुः — प्राप्यकारि चक्षुः आवृतानवग्रहात् त्वगिन्द्रियवदिति; अत्रोच्यते — काचाभ्रपटलस्फटिकावृतार्थावग्रहे सति अव्यापकत्वादसिद्धो हेतुः, वनस्पतिचैतन्ये स्वापवत् । २५तथा संशयहेतुः, अप्राप्यकारिण्ययस्कान्तोपले साध्यविपक्षेऽपि दर्शनादिति । भौतिकत्वात् प्राप्य- कारि चक्षुरग्निवदिति चेत्; न; अयस्कान्तेनैव प्रत्युक्तत्वात् । बह्येन्द्रियत्वात् प्राप्यकारि ६८ चक्षुरिति चेत्; न; द्रव्येन्द्रियोपकरणस्य भावेन्द्रियस्य प्राधान्यात् । अप्राप्यकारित्वे व्यवहिता- तिविप्रकृष्टग्रहणप्रसङ्ग इति चेत्; न; अयस्कान्तेनैव प्रत्युक्तत्वात् । अयस्कान्तोपलम् अप्राप्य लोहमाकर्षदपि न व्यवहितमाकर्षति नातिविप्रकृष्टमिति संशयावस्थमेतदिति । अप्राप्यकारित्वे संशयविपर्ययाभाव इति चेत्; न; प्राप्यकारित्वेऽपि तदविशेषात् । ०५कश्चिदाह — रश्मिवच्चक्षुः, तैजसत्वात्, तस्मात्प्राप्यकारीति, अग्निवदिति; एतच्चायु- युक्तम्; अनभ्युपगमात् । न वयमभ्युपगच्छामः ‘तैजसं चक्षुः’ इति । तेजोलक्षणमौष्ण्यमिति कृत्वा चक्षुरिन्द्रियस्थानमुष्णं स्यात् । न च तद्देशं स्पर्शनेन्द्रियम् उष्णस्पर्शोपलम्भि दृष्टमिति । इतश्च, अतैजसं चक्षुः भासुरत्वानुपलब्धेः । अदृष्टवशादनुष्णाभासुरत्वमिति चेत्, न; अदृष्टस्य गुणत्वात्, अक्रियस्य भावस्वभावनिग्रहासामर्थ्यात् । नक्तञ्चररश्मिदर्शनाद् १०रश्मिवच्चक्षुरिति चेत्; न; अतैजसोऽपि पुद्गलद्रव्यस्य भासुरत्वपरिणामोपपत्तेरिति । किञ्च, गतिमद्वैधर्म्यात् । इह यद् गतिमद्भवति न तत् सन्निकृष्टविप्रकृष्टावर्थावभिन्न कालं प्राप्नोति, न च तथा चक्षुः । चक्षुर्हि शाखाचन्द्रमसावभिन्नकालमुपलभते, यावता कालेन शाखां प्राप्नोति तावता चन्द्रमसमिति स्पष्टं गतिमद्वैधर्म्यम्, तस्मान्न गतिमच्चक्षुरिति । यदि च प्राप्यकारि चक्षुः स्यात्; तमिस्रायां रात्रौ दूरेऽग्नौ प्रज्वलति तत्समी- १५पगतद्रव्योपलम्भनं भवति कुतो नान्तरालगतद्रव्यालोचनम् ? प्रकाशाभावादिति चेत्; न; तैजसत्वादग्न्यादिवत् सहायान्तरानपेक्षत्वप्रसङ्गात् । किञ्च, यदि प्राप्यकारि चक्षुः स्यात् सान्तराधिकग्रहणं न प्राप्नोति । नहीन्द्रिया- न्तरविषये गन्धादौ सान्तरग्रहणं दृष्टं नाप्यधिकग्रहणम् । अथ मतम् — बहिरधिष्ठा- नाद्वृत्तिरिन्द्रियस्य अत उपपन्नं तद्विषयस्य सान्तराधिकग्रहणमिति; तदयुक्तम्; यस्मान्न २०बहिरधिष्ठानादिन्द्रियम्, तत्र चिकित्सादिदर्शनात्, अन्यथा अधिष्ठानपिधानेऽपि ग्रहणप्रसङ्गः । मनसश्चाबहिर्भावात् । मनसाऽधिष्ठितं हि इन्द्रियं स्वविषये व्याप्रियते, न च मनो बहिरधि- ष्ठानादस्ति, तदभावादग्रहणप्रसङ्गः । अनुवृत्तौ च संभवाभावात् विप्रकीर्णं चक्षूरश्मि- समूहं कथमणुमनोऽधिष्ठास्यति ? कश्चिदाह — श्रोत्रमप्राप्यकारि विप्रकृष्टविषयग्रहणादिति; एतच्चायुक्तम्; असिद्धत्वात् । २५साध्यं तावदेतत् — विप्रकृष्टं शब्दं गृह्णाति श्रोत्रम् उत घ्राणेन्द्रियवदवगाढं स्वविषयभावपरिणतं ६९ पुद्गलद्रव्यं गृह्णाति इति । विप्रकृष्टशब्दग्रहणे च स्वकर्णान्तर्विलगतमशकशब्दो नोपलभ्येत । नहीन्द्रियं किञ्चिदेकं दूरस्पृष्टविषयग्राहि दृष्टमिति । आकाशगुणत्वाच्छब्दस्य स्पर्शवद्गु- णत्वाभाव इति चेत्; न; अमूर्तगुणस्य आत्मगुणवत् इन्द्रियविषयत्वादर्शनादिति । प्राप्तावग्रहे श्रोत्रस्य दिग्देशभेदविशिष्टविषयग्रहणाभाव इति चेत्; न; शब्दपरिणतविसर्पत्पुद्गलवेगशक्ति- ०५विशेषस्य तथाभावोपपत्तेः, सूक्ष्मत्वात् अप्रतिघातात् समन्ततः प्रवेशाच्च, सिद्धमेतत् — ‘चक्षुर्मनसी वर्जयित्वा शेषाणामिन्द्रियाणां व्यञ्जनावग्रहः, सर्वेषामिन्द्रियाणामर्थावग्रहः’ इति । मनसोऽनिन्द्रियव्यपदेशाभावः स्वविषयग्रहणे करणान्तरानपेक्षत्वाच्चक्षुर्वत् । ३ । यथा चक्षू रूपहणे करणान्तरं नापेक्षत इति इन्द्रियव्यपदेशं लभते तथा मनोऽपि गुणदोषविचारादि- स्वव्यापारे करणान्तरं नापेक्षत इतीन्द्रियं प्राप्नोति नानिन्द्रियमिति । १०न वा, अप्रत्यक्षत्वात् । ४ । नवैष दोषः । किं कारणम् ? अप्रत्यक्षत्वात् । यथा चक्षुरादि परस्परस्यैन्द्रियकत्वात् प्रत्यक्षं न तथा मन ऐन्द्रियकम् । कुतः ? सूक्ष्मद्रव्यपरिणामात्, तस्मा- दनिन्द्रियमित्युच्यते । अत्राह — कथमवगम्यते अप्रत्यक्षं तद् ‘अस्ति’ इति ? अनुमानात्तस्याधिगमः । ५ । अप्रत्यक्षाणामप्यर्थानां लोकेऽनुमानादधिगतिर्दृष्टा, यथा आदित्यस्य गतिः, वनस्पतीनां च वृद्धिह्रासौ । तथा मनसोऽप्यस्तित्वमनुमानादधिगम्यते । १५कोऽसावनुमानः ? युगपज्ज्ञानक्रियानुत्पत्तिर्मनसो हेतुः । ६ । सत्सु चक्षुरादिकरणेषु शक्तिमत्सु, सत्सु च बाह्येषु रूपादिषु, सति चानेकस्मिन् प्रयोजने यतो ज्ञानानां क्रियाणां च युगपदनुत्पत्तिः, तदस्ति मन इत्यनुमीयते । अनुस्मरणदर्शनाच्च । ७ । यतः सकृद् दृष्टं श्रुतं वाऽनुस्मर्यते, अतस्तद्दर्शनात्तदस्तित्वमव- २०सेयम् । अत्राह — एकस्यात्मनः कुतः करणभेदः ? ज्ञस्वभावस्यापि करणभेदः अनेककलाकुशलदेवदत्तवत् । ८ । यथा अनेकज्ञानक्रियाशक्ति- युक्तस्यापि देवदत्तस्य करणभेदो दृश्यते — चित्रकर्मणि वर्तमानस्य वर्तिकालेखनीकूर्चिकाद्युप- करणापेक्षा, काष्ठकर्मणि वर्तमानस्य वासीघटमुखवृक्षादनादिकरणापेक्षा, तथा आत्मनोऽपि क्षयोपशमभेदात् ज्ञानक्रियापरिणामशक्तियुक्तस्य चक्षुराद्यनेककरणापेक्षा न विरुध्यते । २५स नामकर्मसामर्थ्यात् । ९ । स एष करणभेदः नामकर्मसामर्थ्याद्वेदितव्यः । स कथम् ? इह यदेतत् शरीरनामकर्मोदयाद्यापादितं यवनालिकासंस्थानं श्रोत्रेन्द्रियम्, एतदेव शब्दोपलब्धि- सहिष्णु नेतराणि । तथा यदेतद् घ्राणेन्द्रियम् अतिमुक्तकचन्द्रकसंस्थानम्, एतदेव गन्धावगम- समर्थं नेतराणि । तथा यदेतज्जिह्वेन्द्रियं क्षुरप्राकृति, एतदेव रसावगमेऽलं नान्यानि । तथा यदेतत् स्पर्शनेन्द्रियमनेकाकृति तदेव स्पर्शोपलम्भनेऽलं नेतराणि । तथा यदेतच्चक्षु- ७० रिन्द्रियं मसूरिकाकारं कृष्णताराधिष्ठानं तदेव रूपाविष्करणेऽलं नेतराणि इति । एवमाभिनिबोधिकं द्रव्यक्षेत्रकालभावैरवसेयम् । द्रव्यतो मतिज्ञानी सर्वद्रव्याण्यसर्व- पर्यायाण्युपदेशेन जानाति । क्षेत्रत उपदेशेन सर्वक्षेत्राणि जानाति । अथवा क्षेत्रं विषयः । चक्षुषः क्षेत्रं सप्तचत्वारिंशद्योजनसहस्राणि त्रिषष्ट्यधिके च द्वे योजनशते योजनस्य चैकविं- ०५शतिः षष्टिभागाः । श्रोत्रस्य क्षेत्रं द्वादश योजनानि । घ्राणरसनस्पर्शनानां नवयोजनानि । कालत उपदेशेन सर्वकालं जानाति । भावत उपदेशेन जीवादीनामौदयिकादीन् भावान् जानाति । तत् सामान्यादेकम् । इन्द्रियानिन्द्रियभेदाद् द्विधा । अवग्रहादिभेदाच्चतुर्धा । तैरिन्द्रियगुणि- तैश्चतुर्विंशतिविधम् । तैरेव व्यञ्जनावग्रहाधिकैरष्टाविंशतिविधम् । तैरेव मूलभङ्गाधिकैर्द्रव्या- दिसहितैर्वा द्वात्रिंशद्विधम् । त एते त्रयो विकल्पा बह्वादिभिः षड्भिरितरानपेक्षैर्गुणिताः १०चतुश्चत्वारिशं शतम् अष्टषष्ट्युत्तरं शतम् द्वानवत्यधिकं शतमिति च भवन्ति । त एव बह्वादिभिर्द्वादशभिर्गुणिता द्वे शते अष्टाशीत्युत्तरे, त्रीणि शतानि षट्त्रिंशानि, चतुरशीत्य- धिकानि त्रीणि शतानि च भवन्ति । आह — व्यञ्जनावग्रहे बह्वाद्यभावः । कस्मात् ? अव्यक्तत्वात् । उच्यते — अवग्रहवत् तत्सिद्धिः । यथा अव्यक्तग्रहणमवग्रहः तथा बह्वादिविकल्पोप्यव्यक्तरूपेणैव वेदितव्यः । अथाऽ- १५निःसृते कथम् ? तत्रापि ये च यावन्तश्च पुद्गलाः सूक्ष्मा निःसृताः सन्ति, सूक्ष्मास्तु साधारणैर्न गृह्यन्ते, तेषामिन्द्रियस्थानावगाहनम् अनिःसृतव्यञ्जनावग्रहः । परोक्षे द्वैविध्ये सत्युपक्लृप्तलक्षणविकल्पमतिज्ञानविधर्मि यद् द्वितीयमपदिष्टं तत्किंन्नि- मित्तं कतिविधं चेति ? उच्यते — श्रुतं मतिपूर्वं द्वि-अनेकद्वादशभेदम् ॥ २० ॥ २०श्रुतशब्दो जहत्स्वार्थवृत्ती रूढिवशात् कुशलशब्दवत् । १ । यथा कुशलशब्दः कुशलवन क्रियां प्रतीत्य व्युत्पादितः तद्धित्वा सर्वत्र पर्यवदाते वर्तते, तथा श्रुतशब्दोऽपि श्रवणमु- पादाय व्युत्पादितो रूढिवशात् कस्मिंश्चिज्ज्ञानविशेषे वर्तते । कार्यप्रतिपालनात् पूरणाद्वा पूर्वं कारणम् । २ । कार्यं पालयति पूरयतीति वा पूर्वं कारणं लिङ्गं निमित्तमित्यनर्थान्तरम् । मतिज्ञानं व्याख्यातं तत्पूर्वमस्येतिमतिपूर्वं ‘मति- २५कारणम्’ इत्यर्थः । मतिपूर्वकत्वे श्रुतस्य तदात्मकत्वप्रसङ्गो घटवत्, अतदात्मकत्वे वा तत्पूर्वकत्वा- भावः । ३ । कश्चिदाह — मतिपूर्वं श्रुतं तदपि मत्यात्मकं प्राप्नोति, कारणगुणानुविधानं हि कार्यं दृष्टं यथा मृन्निमित्तो घटो मृदात्मकः । अथाऽतदात्मकमिष्यते, तत्पूर्वकत्वं तर्हि तस्य हीयते इति । ७१ न वा, निमित्तमात्रत्वाद्दण्डादिवत् । ४ । न वैष दोषः । किं कारणम् ? निमित्तमात्र- त्वाद् दण्डादिवत् । यथा मृदः स्वयमन्तर्घटभवनपरिणामाभिमुख्ये, दण्डचक्रपौरुषेयप्रयत्नादि निमित्तमात्रं भवति, यतः सत्स्वपि दण्डादिनिमित्तेषु शर्करादिप्रचितो मृत्पिण्डः स्वयमन्तर्घट- भवनपरिणामनिरुत्सुकत्वान्न घटीभवति, अतो मृत्पिण्ड एव बाह्यदण्डादिनिमित्तापेक्ष आभ्य- ०५न्तरपरिणामसान्निध्याद् घटो भवति न दण्डादयः, इति दण्डादीनां निमित्तमात्रत्वम् । तथा पर्यायिपर्याययोः स्यादन्यत्वाद् आत्मनः स्वयमन्तःश्रुतभवनपरिणामाभिमुख्ये मतिज्ञानं निमित्त- मात्रं भवति, यतः सत्यपि सम्यग्दृष्टेः श्रोत्रेन्द्रियबलाधाने बाह्याचार्यपदार्थोपदेशसन्निधाने च श्रुतज्ञानावरणोदयवशीकृतस्य स्वयमन्तःश्रुतभवननिरुत्सुकत्वादात्मनो न श्रुतं भवति, अतो बाह्यमतिज्ञानादिनिमित्तापेक्ष आत्मैव आभ्यन्तरश्रुतज्ञानावरणक्षयोपशमापादितश्रुत- १०भवनपरिणामाभिमुख्यात् श्रुतीभवति, न मतिज्ञानस्य श्रुतीभवनमस्ति, तस्य निमित्तमात्रत्वात् । अनेकान्ताच्च । ५ । नायमेकान्तोऽस्ति — ‘कारणसदृशमेव कार्यम्’ इति । कुतः ? तत्रापि सप्तभङ्गीसंभवात् । कथम् ? घटवत् । यथा घटः कारणेन मृत्पिण्डेन स्यात्सदृशः, स्यान्न सदृश इत्यादि । मृद्द्रव्याजीवानुपयोगाद्यादेशात् स्यात्सदृशः, पिण्डघटसंस्थानादिपर्यायादेशात् स्यान्न सदृशः । पूर्ववदुत्तरे च भङ्गा नेतव्याः । यस्यैकान्तेन कारणानुरूपं कार्यम्, तस्य घट- १५पिण्डशिविकादिपर्याया उपालभ्यन्ते । किञ्च, घटेन जलधारणादिव्यापारो न क्रियेत मृत्पिण्डे तददर्शनात् । अपि च, मृत्पिण्डस्य घटत्वेन परिणामवद् घटस्यापि घटत्वेन परिणामः स्यात्, एकान्तसदृशत्वात् । न चैवं भवति । अतो नैकान्तेन कारणसदृशत्वम् । तथा श्रुतं सामान्या- देशात् स्यात्कारणसदृशं यतो मतिरपि ज्ञानं श्रुतमपि । अव्यवहिताभिमुखग्रहण-नानाप्रकारार्थ- प्ररूपणसामर्थ्यादिपर्यायादेशात् स्यान्न कारणसदृशम् । पूर्ववदुत्तरे च भङ्गा नेतव्याः । २०श्रोत्रमतिपूर्वस्यैव श्रुतत्वप्रसङ्गस्तदर्थत्वादिति चेत्; न; उक्तत्वात् । ६ । स्यादेतत् — श्रोत्रमतिपूर्वस्यैव श्रुतत्वं प्राप्नोति । कुतः ? तदर्थत्वात् । श्रुत्वा अवधारणाद्धि श्रुतमित्युच्यते, तेन चक्षुरादिमतिपूर्वस्य श्रुतत्वं न प्राप्नोति; तन्न; किं कारणम् ? उक्तमेतत् — ‘श्रुतशब्दोऽयं रूढिशब्दः’ इति । रूढिशब्दाश्च स्वोत्पत्तिनिमित्तक्रियानपेक्षाः प्रवर्तन्त इति सर्वमतिपूर्वस्य श्रुतत्वसिद्धिर्भवति । २५आदिमतोऽन्तवत्वात् श्रुतस्याऽनादिनिधनत्वानुपपत्तिरिति चेत्; न; द्रव्यादिसामान्यापेक्षया तत्सिद्धेः । ७ । स्यादेतत् — श्रुतस्य आदिमत्त्वमभ्युपगतम् — ‘मतिपूर्वम्’ इति वचनात्, आदिमतश्च लोके अन्तवत्त्वं दृष्टम्, तत आद्यन्तसंभवाद् ‘अनादिनिधनं श्रुतम्’ इति व्याहन्यते, ततश्च पुरुषकृतित्वादप्रामाण्यं स्यादिति; नैष दोषः; द्रव्यादिसामान्यापेक्षया तत्सिद्धेः । द्रव्यक्षेत्र- कालभावानां विशेषस्याविवक्षायां श्रुतम् ‘अनादिनिधनम्’ इत्युच्यते, न हि केनचित्पुरुषेण क्वचित् ३०कदाचित् कथञ्चिदुत्प्रेक्षितमिति । तेषामेव विशेषापेक्षया आदिरन्तश्च संभवतीति मतिपूर्व- ७२ मित्युच्यते । यथा अङ्कुरो बीजपूर्वः, स च सन्तानापेक्षया अनादिनिधन इति । न चाऽपुरुष- कृतित्वं प्रामाण्यकारणम्; चौर्याद्युपदेशस्यास्मर्यमाणकर्तृकस्य प्रामाण्यप्रसङ्गात् । अनित्यस्य च प्रत्यक्षादेः प्रामाण्ये को विरोधः ? सम्यक्त्वोत्पत्तौ युगपन्मतिश्रुतोत्पत्तेर्मतिपूर्वकत्वाभाव इति चेत्; न; सम्यक्त्वस्य ०५तदपेक्षत्वात् । ८ । स्यान्मतम् — मत्यज्ञानश्रुताज्ञानयोः प्रथमसम्यक्त्वोत्पत्तौ युगपज्ज्ञानपरिणामात् मतिपूर्वकत्वं श्रुतस्य नोपपद्यत इति; तन्न; किं कारणम् ? सम्यक्त्वस्य तदपेक्षत्वात् । तयोर्हि सम्यक्त्वं सम्यग्दर्शनोत्पत्तौ युगपद्भवति आत्मलाभस्तु क्रमवान्, इति मतिपूर्वकत्वं युक्तं पितापुत्रवत् । मतिपूर्वकत्वाविशेषात् श्रुताविशेष इति चेत्; न; कारणभेदात्तद्भेदसिद्धेः । ९ । स्यादेतत् — १०सर्वेषां प्राणिनां श्रुतमविशिष्टं प्राप्नोति । कुतः ? कारणाविशेषात् । मतिपूर्वत्वं हि कारणमिष्टम्, तच्च सर्वेषामविशिष्टमिति । तन्न; किं कारणम् ? कारणभेदात्तद्भेदसिद्धेः । प्रतिपुरुषं हि मतिश्रुतावरणक्षयोपशमो बहुधा भिन्नः तद्भेदाद् बाह्यनिमित्तभेदाच्च श्रुतस्य प्रकर्षाप्रकर्षयोगो भवति मतिपूर्वकत्वाविशेषेऽपि । श्रुतात् श्रुतप्रतिपत्तेर्लक्षणाव्याप्तिरिति चेत्; न; तस्योपचारतो मतित्वसिद्धेः । १० । १५स्यान्मतम् — यदा शब्दपरिणतपुद्गलस्कन्धादाहितवर्णपदवाक्यादिभावात् चक्षुरादिविषयाच्च आद्यश्रुतविषयभावमापन्नाद् अविनाभाविनः कृतसङ्गीतिर्जनो घटाज्जलधारणादिकार्य- संबन्ध्यन्तरं प्रतिपद्यते धूमादेर्वाऽग्न्यादिद्रव्यम्, तदा श्रुतात् श्रुतप्रतिपत्तिरिति कृत्वा मति- पूर्वलक्षणमव्यापीति; तन्न; किं कारणम् ? तस्योपचारतो मतित्वसिद्धेः । मतिपूर्वं हि श्रुतं क्वचित् ‘मतिः’ इत्युपचर्यते । अथवा, व्यवहिते पूर्वशब्दो वर्तते, तद्यथा ‘पूर्वं मथुरायाः पाटलि- २०पुत्रम्’ इति । ततः साक्षान्मतिपूर्वं परम्परया वा मतिपूर्वमपि मतिपूर्वग्रहणेन गृह्यते । भेदशब्दस्य प्रत्येकं परिसमाप्तिर्भुजिवत् । ११ । यथा ‘देवदत्तजिनदत्तगुरुदत्ता भोज्य- न्ताम्’ इति भुजिः प्रत्येकं परिसमाप्यते तथेहापि भेदशब्दः प्रत्येकमभिसंबध्यते — द्विभेदमनेकभेदं द्वादशभेदं च इति । तत्राङ्गप्रविष्टमङ्गबाह्यं चेति द्विविधम् । अङ्गप्रविष्टमाचारादिद्वादशभेदं बुद्ध्यतिशयर्द्धियुक्तगणधरानुस्मृतग्रन्थरचनम् । १२ । २५भगवदर्हत्सर्वज्ञाहिमवन्निर्गतवाग्गङ्गाऽर्थविमलसलिलप्रक्षालितान्तःकरणैः बुद्ध्यतिशयर्द्धियु- क्तैर्गणधरैरनुस्मृतग्रन्थरचनम् आचारादिद्वादशविधमङ्गप्रविष्टमित्युच्यते । तद्यथा — आचारः, सूत्रकृतम्, स्थानम्, समवायः, व्याख्याप्रज्ञप्तिः, ज्ञातृधर्मकथा, उपासकाध्ययनम्, अन्त- कृद्दशा, अनुत्तरौपपादिकदशा, प्रश्नव्याकरणम्, विपाकसूत्रम्, दृष्टिवाद इति । आचारे चर्या- ७३ विधानं शुद्ध्यष्टकपञ्चसमितित्रिगुप्तिविकल्पं कथ्यते । सूत्रकृते ज्ञानविनयप्रज्ञापना कल्प्याक- ल्प्यच्छेदोपस्थापना व्यवहारधर्मक्रियाः प्ररूप्यन्ते । स्थाने अनेकाश्रयाणामर्थानां निर्णयः क्रियते । समवाये सर्वपदार्थानां समवायश्चिन्त्यते । स चतुर्विधः — द्रव्यक्षेत्रकालभाव- विकल्पैः । तत्र धर्माऽधर्मास्तिकायलोकाकाशैकजीवानां तुल्याऽसंख्येयप्रदेशत्वात् एकेन प्रमाणेन ०५द्रव्याणां समवायनाद् द्रव्यसमवायः । जम्बूद्वीपसर्वार्थसिद्ध्यप्रतिष्ठाननरकनन्दीश्वरैकवापीनां तुल्ययोजनशतसहस्रविष्कम्भप्रमाणेन क्षेत्रसमवायनात् क्षेत्रसमवायः । उत्सर्पिण्यवसर्पिण्यो- स्तुल्यदशसागरोपमकोटिकोटिप्रमाणात् कालसमवायनात् कालसमवायः । क्षायिकसम्य- क्त्वकेवलज्ञानकेवलदर्शनयथाख्यातचारित्राणां यो भावः तदनुभवस्य तुल्यानन्तप्रमाणत्वात् भावसमवायनाद् भावसमवायः । १०व्याख्याप्रज्ञप्तौ षष्टिव्याकरणसहस्राणि ‘किमस्ति जीवः, नास्ति’ इत्येवमादीनि निरूप्यन्ते । ज्ञातृधर्मकथायाम् आख्यानोपाख्यानानां बहुप्रकाराणां कथनम् । उपासकाध्ययने श्रावकधर्मलक्षणम् । संसारस्यान्तः कृतो यैस्ते अन्तकृतः । नमिमतङ्गगसोमिलरामपुत्रसुदर्श- नयमलीकवलीककिष्कम्बलपालाम्बष्ठपुत्रा इत्येते दश वर्धमानतीर्थङ्करतीर्थे । एवमृष- भादीनां त्रयोविंशतेस्तीर्थेष्वन्येऽन्ये च दश दशानगारा दश दश दारुणानुपसर्गान्निर्जित्य १५कृत्स्नकर्मक्षयादन्तकृतः दश अस्यां वर्ण्यन्ते इति अन्तकृद्दशा । अथवा, अन्तकृतां दशा अन्तकृद्दशा, तस्याम् अर्हदाचार्यविधिः सिध्यतां च । उपपादो जन्म प्रयोजनं येषां त इमे औपपादिकाः, विजयवैजयन्तजयन्तापराजितसर्वार्थसिद्धाख्यानि पञ्चानुत्तराणि, अनुत्तरेष्वौ- पपादिका अनुत्तरौपपादिकाः — ऋषिदास-वान्य-सुनक्षत्र-कार्तिक-नन्द-नन्दन-शालिभद्र-अभय- वारिषेण-चिलातपुत्रा इत्येते दश वर्धमानतीर्थकरतीर्थे । एवमृषभादीनां त्रयोविंशतेस्तीर्थेष्व- २०न्येऽन्ये च दश दशानगारा दश दश दारुणानुपसर्गान्निर्जित्य विजयाद्यनुत्तरेषूत्पन्ना इत्येवमनुत्तरौ- पपादिकाः दशास्यां वर्ण्यन्त इत्यनुत्तरौपपादिकदशा । अथवा, अनुत्तरौपपादिकानां दशा अनुत्तरौपपादिकदशा तस्यामायुर्वैक्रियिकानुबन्धविशेषः । आक्षेपविक्षेपैर्हेतुनयाश्रितानां ७४ प्रश्नानां व्याकरणं प्रश्नव्याकरणम्, तस्मिंल्लौकिकवैदिकानामर्थानां निर्णयः । विपाकसूत्रे सुकृतदुःकृतानां विपाकश्चिन्त्यते । द्वादशमङ्गं दृष्टिवाद इति । कौत्कलकाणेविद्धि — कौशिक-हरिस्मश्रु-मांछपिक रोमश-हारीत-मुण्डाश्वलायनादीनां क्रियावाददृष्टीनामशीतिशतम्, मरीचिकुमार-कपिलोलूक- ०५गार्ग्य-व्याध्रभूति-वाद्वलि-माठर-मौद्गल्यायनादीनामक्रियावाददृष्टीनां चतुरशीतिः, साकल्य- वल्कल-कुथुमि-सात्यमुग्रि-नारायण-कठ-माध्यन्दिन-मौद-पैप्पलाद-बादरायणाम्बष्ठि-कृदौवि- कायन-वसु-जैमिन्यादीनामज्ञानिकुदृष्टीनां सप्तषष्टिः, वशिष्ठ-पाराशर-जनुकर्णि-वाल्मीकि रौमहर्षिणिसत्यदत्त-व्यासैलापुत्रौपमन्यवैन्द्रदत्तायस्थूणादीनां वैनयिकदृष्टीनां द्वात्रिंशत् । एषां दृष्टिशतानां त्रयाणां त्रिषष्ट्युत्तराणां प्ररूपणं निग्रहश्च दृष्टिवादे क्रियते । १०स पञ्चविधः-परिकर्म सूत्रं प्रथमानुयोगः पूर्वगतं चूलिका चेति । तत्र पूर्वगतं चतुर्दशप्रकारम्-उत्पादपूर्वम् अग्रायणं वीर्यप्रवादम् अस्तिनास्तिप्रवाद ज्ञानप्रवादं सत्यप्रवादम् आत्मप्रवादं कर्मप्रवादं प्रत्याख्याननामधेयं विद्यानुवादं कल्याणनाम- धेयं प्राणावायं क्रियाविशालं लोकबिन्दुसारमिति । कालपुद्गलजीवादीनां यदा यत्र यथा च पर्यायेणोत्पादो वर्ण्यते तदुत्पादपूर्वम् । क्रियावादादीनां प्रक्रिया अग्राणीव अङ्गादीनां स्वसमय- ७५ विषयश्च यत्र ख्यापितस्तदग्रायणम् । छद्मस्थकेवलिनां वीर्यं सुरेन्द्रदैत्याधिपानां ऋद्धयो नरेन्द्र- चक्रधरबलदेवानां च वीर्यलाभो द्रव्याणां सम्यक्त्वलक्षणं च यत्राभिहितं तद्वीर्यप्रवादम् । पञ्चानामस्तिकायानामर्थो नयानां चानेकपर्यायैः ‘इदमस्तीदं नास्ति’ इति च कार्त्स्न्येन यत्राव- भासितं तदस्तिनास्तिप्रवादम् । अथवा, षण्णामपि द्रव्याणां भावाभावपर्यायविधिना स्वपर- ०५पर्यायाभ्याम् उभयनयवशीकृताभ्याम् अर्पितानर्पितसिद्धाभ्यां यत्र निरूपणं तदस्तिनास्ति- प्रवादम् । पञ्चानामपि ज्ञानानां प्रादुर्भावविषयायतनानां ज्ञानिनाम् अज्ञानिनामिन्द्रियाणां च प्राधान्येन यत्र विभागो विभावितः तज्ज्ञानप्रवादम् । वाग्गुप्तिसंस्कारकारणप्रयोगो द्वादशधा भाषा वक्तारश्चानेकप्रकारमृषाभिधानं दश- प्रकारश्च सत्यसद्भावो यत्र प्ररूपितः तत् सत्यप्रवादम् । वाग्गुप्तिर्वक्ष्यमाणा । वाक्संस्कार- १०कारणानि शिरःकण्ठादीनि अष्टौ स्थानानि । वाक्प्रयोगः शुभेतरलक्षणो वक्ष्यते । अभ्याख्यानकलहपैशुन्यासंबद्धप्रलापरत्यरत्युपधिनिकृत्यप्रणतिमोषसम्यङ्मिथ्यादर्शना- त्मिका भाषा द्वादशधा । हिंसादेः कर्मणः कर्तुर्विरतस्य विरताविरतस्य वाऽयमस्य कर्तेत्यभि- धानम् अभ्याख्यानम् । कलहः प्रतीतः । पृष्ठतो दोषाविष्करणं पैशुन्यम् । धर्मार्थकाममोक्षाऽसंबद्धा वाग् असंबद्धप्रलापः । शब्दादिविषयदेशादिषु रत्युत्पादिका रतिवाक् । तेष्वेवारत्युत्पादिका १५अरतिवाक् । यां वाचं श्रुत्वा परिग्रहार्जनरक्षणादिष्वासज्यते सोपधिवाक् । वणिग्व्यवहारे यामवधार्य निकृतिप्रवण आत्मा भवति सा निकृतिवाक् । यां श्रुत्वा तपोविज्ञानाधिकेष्वपि न प्रणमति सा अप्रणतिवाक् । यां श्रुत्वा स्तेये वर्तते सा मोषवाक् । सम्यङ्मार्गस्योपदेष्ट्री सा सम्यग्दर्शनवाक् । तद्विपरीता मिथ्यादर्शनवाक् । वक्तारश्च आविष्कृतवक्तृत्वपर्याया द्वीन्द्रियादयः । द्रव्यक्षेत्रकालभावाश्रयमनेकप्रकारमनृतम् । २०दशविधः सत्यसद्भावः — नाम-रूप-स्थापना-प्रतीत्य-संवृति-संयोजना-जनपद-देश-भाव- समयसत्यभेदेन । तत्र सचेतनेतरद्रव्यस्यासत्यप्यर्थे यद्व्यवहारार्थं संज्ञाकरणं तन्नामसत्यम्, इन्द्र इत्यादि । यदर्थासन्निधानेऽपि रूपमात्रेणोच्यते तद्रूपसत्यम्, यथा चित्रपुरुषादिषु असत्यपि चैतन्योपयागादावर्थे पुरुष इत्यादि । असत्यप्यर्थे यत्कार्यार्थं स्थापितं द्यूताक्षनिक्षेपादिषु तत् स्थापनासत्यम् । आदिमदनादिमदौपशमिकादीन् भावान् प्रतीत्य यद्वचनं तत् प्रतीत्यसत्यम् । २५यल्लोके संवृत्या नीतं वचस्तत् संवृतिसत्यं यथा पृथिव्याद्यनेककारणत्वेऽपि सति ‘पङ्के जातं पङ्कजम्’ इत्यादि । धूपचूर्णवासानुलेपनप्रघर्षादिषु पद्म-मकर-हंस-सर्वतोभद्र-क्रौञ्च-व्यूहादिषु वा सचेतनेतरद्रव्याणां यथा भागविधिसन्निवेशाविर्भावकं यद्वचस्तत् संयोजनासत्यम् । द्वात्रिंशज्जनपदेष्वार्यानार्यभेदेषु धर्मार्थकाममोक्षाणां प्रापकं यद्वचः तत् जनपदसत्यम् । ग्रामनगरराजगणपाखण्डजातिकुलादिधर्माणामुपदेष्टृ यद्वचः तद् देशसत्यम् । छद्मस्थज्ञानस्य ३०द्रव्ययाथात्म्यादर्शनेऽपि संयतस्य संयतासंयतस्य वा स्वगुणपरिपालनार्थं प्रासुकमिदमप्रासुकमि- त्यादि यद्वचः तत् भावसत्यम् । प्रतिनियतषट्तयद्रव्यपर्यायाणामागमगम्यानां याथात्म्याविष्करणं यद्वचः तत् समयसत्यम् । ७६ यत्रात्मनोऽस्तित्वनास्तित्वनित्यत्वानित्यत्वकर्तृत्वभोक्तृत्वादयो धर्माः षड्जीव- निकायभेदाश्च युक्तितो निर्दिष्टाः तदात्मप्रवादम् । बन्धोदयोपशमनिर्जरापर्याया अनुभव- प्रदेशाधिकरणानि स्थितिश्च जघन्यमध्यमोत्कृष्टा यत्र निर्दिश्यते तत्कर्मप्रवादम् । व्रत-नियम-प्रतिक्रमण-प्रतिलेखन-तपः-कल्पोपसर्गाचार-प्रतिमा-विरा नाराधनाविशुद्ध्युपक्रमाः ०५श्रामण्यकारणं च परिमितापरिमितद्रव्यभावप्रत्याख्यानं च यत्राख्यातं तत्प्रत्याख्याननामधेयम् । समस्ता विद्या अष्टौ महानिमित्तानि तद्विषयो रज्जुराशिविधिः क्षेत्रं श्रेणी लोक- प्रतिष्ठासंस्थानं समुद्घातश्च यत्र कथ्यते तद्विद्यानुवादम् । तत्राङ्गुष्ठप्रसेनादीनामल्पविद्यानां सप्तशतानि महारोहिण्यादीनां महाविद्यानां पञ्चशतानि । अन्तरिक्ष-भौमाङ्ग-स्वर- स्वप्न-लक्षण-व्यञ्जन-छिन्नानि अष्टौ महानिमित्तानि । तेषां विषयो लोकः । क्षेत्रमाकाशं १०पटसूत्रवच्चर्मावयववद्वा आनुपूर्व्येण ऊर्ध्वाधस्तिर्यग्व्यवस्थिता असंख्याता आकाशप्रदेश- पङ्क्तयः श्रेणय उक्ताः । अलोकाकाशस्यानन्तस्य बहुमध्ये सुप्रतिष्ठकसंस्थानो लोकः, ऊर्ध्वमधस्तिर्यङ्मृदङ्गवेत्रा- सनज्ञल्लर्याकृतिः, तनुवातवलयपरिक्षिप्त ऊर्ध्वाधस्तिर्यक्षु प्रतरवृत्तश्चतुर्दशरज्ज्वायामः । मेरु- प्रतिष्ठवज्रवैडूर्यपटलान्तररुचकसंस्थिता अष्टावाकाशप्रदेशा लोकमध्यम् । लोकमध्याद् याव- १५दैशानान्तः तावत् एका रज्जुरर्धं च । माहेन्द्रान्ते तिस्रः । ब्रह्मलोकान्तेऽर्धचतुर्थाः । कापिष्ठान्ते चतस्रः । महाशुक्रान्तेऽर्धपञ्चमाः । सहस्रारान्ते पञ्च । प्राणतान्तेऽर्धषष्ठाः । अच्युतान्ते षट् । आलोकान्तात् सप्त । तथा लोकमध्यादधो यावच्छर्करापृथिव्यन्तस्तावदेका रज्जुः । ततोऽधः पृथिवीनां पञ्चानां प्रत्येकमन्तेऽन्ते रज्जुरेकैका वृद्धा । ततोऽधस्तमस्तमःप्रभाया आलोकान्ता- देका रज्जुः । एवं सप्ताधो रज्जवः । २०घनोदधि-घनानिल-तनुवातवलयानि त्रीणि, यैरयं परिक्षिप्तः सर्वः समन्ताल्लोकः । त्रयाणामप्यधोलोकदिग्विदिक्पार्श्वभाविनां प्रत्येकं विस्तारो विंशतियोजनसहस्राणि । तत उपरि क्रमतो हानिवशात्तिर्यग्लोकभाविदिग्विदिक्पार्श्वेष्वष्टासु प्रत्येकं त्रीण्यपि वलयानि पञ्च चत्वारि त्रीणि योजनविस्तीर्णानि । पुनरुपरि वृद्धिवशाद् ब्रह्मलोके दिग्विदिक्पार्श्वेष्वष्टासु प्रत्येकं त्रीण्यपि वलयानि सप्तपञ्चचतुर्योजनविस्तीर्णानि । पुनर्हानिवशाल्लोकाग्रे अष्टास्वपि २५दिग्विदिक्पार्श्वेषु प्रत्येकं त्रीण्यपि वलयानि पञ्चचतुस्त्रियोजनविस्तीर्णानि । दण्डवलयानि पुनरुपरि अधश्च त्रीण्यपि । उपरि लोकाग्रे घनोदधेर्द्विगव्यूती घनानिलस्य क्रोशः तनुवातस्य देशोनःक्रोशो विस्तारः । अधः कलङ्कलपृथिवीपर्यन्ते घनोदधेः सप्त घनानिलस्य पञ्च तनुवातस्य चत्वारि योजनानि विस्तारः । अधः लोकमूले दिग्विदिक्षु विष्कम्भः सप्त रज्जवः । तिर्यग्लोके रज्जुरेका । ब्रह्मलोके ३०पञ्च । पुनर्लोकाग्रे रज्जुरेका । लोकमध्यादधो रज्जुमवगाह्य शर्करान्ते अष्टास्वपि दिग्विदिक्षु ७७ विष्कम्भः रज्जुरेका रज्ज्वाश्च षट्सप्तभागाः । ततो रज्जुमवगाह्य बालुकान्ते द्वे रज्जू रज्ज्वाश्च पञ्चसप्तभागाः । ततो रज्जुमवगाह्य पङ्कान्ते तिस्रो रज्जवः रज्ज्वाश्च चत्वारः सप्तभागाः । ततो रज्जुमवगाह्य धूमान्ते चतस्रो रज्जवः रज्ज्वाश्च त्रयः सप्तभागाः । ततो रज्जुमवगाह्य तमःप्रभान्ते पञ्च रज्जवः रज्ज्वाश्च द्वौ सप्तभागौ । ततो रज्जुम- ०५वगाह्य तमस्तमःप्रभान्ते षड् रज्जवः रज्ज्वाः सप्तभागश्चैकः । ततो रज्जुमवगाह्य कलङ्कलान्ते विष्कम्भः सप्त रज्जवः । वज्रतलादुपरि रज्जुमुत्क्रम्य विष्कम्भो द्वे रज्जू रज्ज्वाश्चैकः सप्तभागः । ततो रज्जुमुत्क्रम्य तिस्रो रज्जवः रज्ज्वाश्च द्वौ सप्तभागौ । ततो रज्जुमुत्क्रम्य चतस्रो रज्जवः रज्ज्वाश्च त्रयः सप्तभागाः । ततोऽर्धरज्जुमुत्क्रम्य रज्जवः पञ्च । ततोऽर्धरज्जुमुत्क्रम्य चतस्रो रज्जवः रज्ज्वाश्च त्रयः सप्तभागाः । ततो रज्जुमुत्क्रम्य १०तिस्रो रज्जवः, रज्ज्वाश्च द्वौ सप्तभागौ । ततो रज्जुमुत्क्रम्य द्वे रज्जू रज्ज्वाश्चैकः सप्तभागः । ततो रज्जुमुत्क्रम्य लोकान्ते रज्जुरेका विष्कम्भः । एष रज्जुविधिः । हन्तेर्गमिक्रियात्वात् संभूयात्मप्रदेशानां च बहिरुधननं समुद्घातः । स सप्तविधः — वेदनाकषायमारणान्तिकतेजोविक्रियाऽऽहारककेवलिविषयभेदात् । तत्र वातिकादिरोग- विषादिद्रव्यसंबन्धसन्तापापादितवेदनाकृतो वेदनासमुद्घातः । द्वितयप्रत्ययप्रकर्षोत्पादित- १५क्रोधादिकृतः कषायसमुद्घातः । औपक्रमिकानुपक्रमायुःक्षयाविर्भूतमरणान्तप्रयोजनो मार- णान्तिकसमुद्घातः । जीवानुग्रहोपघातप्रवणतेजःशरीरनिर्वर्तनार्थस्तेजस्समुद्घातः । एकत्व- पृथक्त्वनानाविधविक्रियशरीरवाक्प्रचारप्रहरणादिविक्रियाप्रयोजनो वैक्रियिकसमुद्घातः । अथोक्तविधिना अल्पसावद्यसूक्ष्मार्थग्रहणप्रयोजनाहारकशरीरनिर्वृत्त्यर्थ आहारकसमुद्घातः । वेदनीयस्य बहुत्वाद् अल्पत्वाच्चायुषोऽनाभोगपूर्वकमायुःसमकरणार्थं द्रव्यस्वभावत्वात् सुरा- २०द्रव्यस्य फेनवेगबुद्बुदाविर्भावोपशमनवद् देहस्थात्मप्रदेशानां बहिःसमुद्घातनं केवलिसमुद्घातः । आहारकमारणान्तिकसमुद्घातावेकदिक्कौ । यत आहारकशरीरमात्मा निर्वर्तयन् श्रेणि- गतित्वात् एकदिक्कानात्मदेशानसंख्यातान्निर्गमय्य आहारकशरीरमरत्निमात्रं निर्वर्तयति । अन्यक्षेत्रसमुद्घातकारणाभावात् यत्रानेन नरकादावुत्पत्तव्यं तत्रैव मारणान्तिकसमुद्घातेन आत्मप्रदेशा एकदिक्काः समुद्धन्यन्ते नान्यक्षेत्रे, अतस्तावेकदिक्कौ । शेषाः पञ्च समुद्घाताः २५षड्दिक्काः । यतो वेदनादिसमुद्घातवशाद् बहिर्निःसृतानामात्मप्रदेशानां पूर्वापरदक्षिणोत्त- रोर्ध्वाधोदिक्षु गमनमिष्टं श्रेणिगतित्वादात्मप्रदेशानाम् । वेदना-कषाय-मारणान्तिक-तेजो- वैक्रियिकाऽऽहारकसमुद्घाताः षडसंख्येयसमयिकाः । केवलिसमुद्घातः अष्टसमयिकः — दण्ड- कवाटप्रतरलोकपूरणानि चतुर्षु समयेषु पुनः प्रतरकपाटदण्डस्वशरीरानुप्रवेशाश्चतुर्षु इति । रविशशिग्रहनक्षत्रतारागणानां चारोपपादगतिविपर्ययफलानि शकुनव्याहृतम् अर्हद्- ३०बलदेव-वासुदेव-चक्रधरादीनां गर्भावतरणादिमहाकल्याणानि च यत्रोक्तानि तत् कल्याण- नामधेयम् । कायचिकित्साद्यष्टाङ्ग आयुर्वेदः भूतिकर्म जाङ्गुलिकप्रक्रमः प्राणापानविभागोऽपि यत्र विस्तारेण वर्णितस्तत् प्राणावायम् । लेखादिकाः कला द्वासप्ततिः, गुणाश्चतुःषष्टि स्त्रैणाः, शिल्पानि काव्यगुणदोषक्रियाछन्दोविचितिक्रिया-क्रियाफलोपभोक्तारश्च यत्र व्याख्याताः ७८ तत्क्रियाविशालम् । यत्राष्टौ व्यवहाराश्चत्वारि बीजानि परिकर्म राशिक्रियाविभागश्च सर्वश्रुतसंपदुपदिष्टा तत्खलु लोकबिन्दुसारम् । आरातीयाचार्यकृताङ्गार्थप्रत्यासन्नरूपमङ्गबाह्यम् । १३ । यद् गणधरशिष्यप्रशिष्यै- रारातीयैरधिगतश्रुतार्थतत्त्वैः कालदोषादल्पमेधायुर्बलानां प्राणिनामनुग्रहार्थमुपनिबद्धं संक्षि- ०५प्ताङ्गार्थवचनविन्यासं तदङ्गबाह्यम् । तदनेकविधं कालिकोत्कालिकादिविकल्पात् । १४ । तदङ्गबाह्यमनेकविधम् — कालिक- मुत्कालिकमित्येवमादिविकल्पात् । स्वाध्यायकाले नियतकालं कालिकम् । अनियतकाल- मुत्कालिकम् । तद्भेदा उत्तराध्ययनादयोऽनेकविधाः । अत्राह — अनुमानादीनां पृथगनुपदेशः किमर्थः ? १०अनुमानादीनां पृथगनुपदेशः श्रुतावरोधात् । १५ । यस्मादेतान्यनुमानादीनि श्रुते अन्त- र्भवन्ति तस्मात्तेषां पृथगुपदेशो न क्रियते । तद्यथा — *“प्रत्यक्षपूर्वकं त्रिविधमनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च”[न्यायसूº १ । १ । ५] इति । तत्र येनाग्नेर्निःसरन् पूर्वं धूमो दृष्टः स प्रसिद्धाग्निधूमसंबन्धाहितसंस्कारः पश्चाद्धूमदर्शनाद् ‘अस्त्यत्राग्निः’ इति पूर्ववदग्निं गृह्णातीति पूर्ववदनुमानम् । तथा येन पूर्वं विषाणविषाणिनोः संबन्ध उपलब्धः तस्य विषाणरूपदर्शनाद्विषा- १५णिन्यनुमानं शेषवत् । तथा देवदत्तस्य देशान्तरप्राप्तिं गतिपूर्विकां दृष्ट्वा संबन्ध्यतरे सवितरि देशान्तरप्राप्तिदर्शनाद् गतेरत्यन्तपरोक्षाया अनुमानं सामान्यतोदृष्टम् । तदेतत्त्रितयमपि स्वप्रतिपत्तिकाले अनक्षरश्रुतं परप्रतिपादनकाले अक्षरश्रुतम् । ‘यथा गौस्तथा गवयः केवलं सास्नारहितः’ इत्युपमानमपि स्वपरप्रतिपत्तिविषयत्वादक्षरानक्षरश्रुते अन्तर्भवति । तथा शाब्द- मपि प्रमाणं श्रुतमेव । ऐतिह्यस्य च ‘इत्याह स भगवान् ऋषभः’ इति परंपरीणपुरुषागमाद् २०गृह्यते इति श्रुतेऽन्तर्भावः । प्रकृतिपुष्टो दिवा न भुङ्क्ते अथ च जीवतीत्यर्थादापन्नं रात्रौ भुङ्क्ते इत्यर्थापत्तिः । ‘चत्वारः प्रस्था आढकम्’ इति सति ज्ञाने आढकं दृष्ट्वा संभवत्यर्धाढकं कुडवो वेति प्रतिपत्तिः संभवः । तृणगुल्मादीनां स्नेहपर्णफलाद्यभावं दृष्ट्वा अनुमीयते नूनमत्र न वृष्टः पर्जन्य इत्यभावः । एतेषामप्यर्थापत्त्यादीनाम् अनुक्तानामनुमानसमानमिति पूर्ववत् श्रुतान्तर्भावः । २५व्याख्यातं परोक्षम्, प्रत्यक्षमिदानीं वक्तव्यम् । तद् द्वेधा — देशप्रत्यक्षं सर्वप्रत्यक्षं च । देश- प्रत्यक्षम् — अवधिमनःपर्ययज्ञाने । सर्वप्रत्यक्षं केवलम् । यद्येवमिदमेव तावदवधिज्ञानं त्रिप्रकार- प्रत्यक्षस्याऽऽद्यं व्याक्रियतामिति । अत्रोच्यते — व्याख्यातमस्य लक्षणम् — आत्मप्रसादविशेषे सत्यन्वर्थसंज्ञाकरणादवधीयते तदित्यवधिज्ञानमिति । यद्येवं तस्येदानीं भेदो वक्तव्यः ? उच्यते — द्विविधोऽवधिः, भव-गुणप्रत्ययभेदात्, देशसर्वावधिभेदाद्वा । यद्येवं त्रैविध्यं नोपपद्यते — ७९ देशावधिः परमावधिः सर्वावधिश्चेति; नैष दोषः; सर्वशब्दस्य निरवशेषवाचित्वात्, सर्वावधिम- पेक्ष्य परमावधेर्देशावधित्वमेवेति वक्ष्यामः । तत्र योऽसौ भवप्रत्ययस्तत्प्रतिपादनार्थमाह — भवप्रत्ययोऽवधिर्देवनारकाणाम् ॥ २१ ॥ ०५भव इत्युच्यते । को भवो नाम ? आयुर्नामकर्मोदयविशेषापादितपर्यायो भवः । १ । आत्मनो यः पर्याय आयुषो नाम्न- श्चोदयविशेषाच्छेषकारणापेक्षादाविर्भवति साधारणलक्षणो भव इत्युच्यते । प्रत्ययशब्दस्यानेकार्थसंभवे विवक्षातो निमित्तार्थगतिः । २ । अयं प्रत्ययशब्दोऽनेकार्थः । क्वचिज्ज्ञाने वर्तते, यथा ‘अर्थाभिधानप्रत्ययाः’ इति । क्वचिच्छपथे वर्तते, यथा परद्रव्यहरणादिषु १०सत्युपालम्भे ‘प्रत्ययोऽनेन कृतः’ इति । क्वचिद्धेतौ वर्तते, यथा अविद्याप्रत्ययाः संस्काराः इति । तत्रेह विवक्षातो निमित्तार्थो वेदितव्यः । भवप्रत्ययो भवनिमित्त इति । क्षयोपशमाभाव इति चेत्; न; तस्मिन् सति सद्भावात् खे पतत्त्रिगतिवत् । ३ । स्यादेतत् — यदि तत्र भवनिमित्तोऽवधिः कर्मणः क्षयोपशमोऽनर्थकः इति; तन्न; किं कारणम् ? तस्मिन् सति सद्भावात् खे पतत्त्रिगतिवत् । यथा आकाशे सति पक्षिणो गतिर्भवति तथा अवधिज्ञाना- १५वरणक्षयोपशमे अन्तरङ्गे हेतौ सत्यवधेर्भावः, भवस्तु बाह्यो हेतुः । इतरथा ह्यविशेषप्रसङ्गः । ४ । यदि हि भव एव हेतुः स्यात् सर्वेषां देवनारकाणां तुल्य इत्यवधेरविशेषप्रसङ्गः स्यात् ? इष्यते च प्रकर्षाप्रकर्षभावेन वृत्तिः । कथं पुनर्भवो हेतुः इति चेत् ? व्रतनियमाद्यभावात् । ५ । यथा तिरश्चां मनुष्याणां चाऽहिंसादिव्रतनियमहेतुकोऽवधिः न २०तथा देवानां नारकाणां चाऽहिंसादिव्रतनियमाभिसन्धिरस्ति । कुतः ? भवं प्रतीत्य कर्मोदयस्य तथाभावात्, तस्मात्तत्र भव एव बाह्यसाधन प्रधानमित्युच्यते । अविशेषात् सर्वप्रसङ्ग इति चेत्; न; सम्यगधिकारात् । ६ । स्यादेतत् — देवनारकाणामित्य- विशेषवचनात् मिथ्यादृष्टीनामप्यवधिप्रसङ्ग इति; तन्न; किं कारणम् ? सम्यगधिकारात् । ‘सम्यग्दर्शनं सम्यग्ज्ञानम्’ इत्यनुवर्तते, तत्संबन्धात्सम्यग्दृष्टीनामवधिः मिथ्यादृष्टीनां विभङ्गो २५वेदितव्यः । अथवा, वक्ष्यमाणाभिसंबन्धान्न सर्वप्रसङ्गः । वक्ष्यते हि एतत् — *“मतिश्रुतावधयो विपर्ययश्च । ”[तº सूº१ । ३५] इति । अथवा, व्याख्यानाद्विशेषप्रतिपत्तिः । आगमे प्रसिद्धेर्नारकशब्दस्य पूर्वनिपात इति चेत्; न; उभयलक्षणप्राप्तत्वात् देवशब्दस्य । ७ । स्यादेतत् — नारकशब्दस्य पूर्वनिपातेन भवितव्यम् । कुतः ? आगमे प्रसिद्धेः । आगमे हि जीव- स्थानादौ सदादिष्वनुयोगद्वारेण आदेशवचने नारकाणामेवादौ सदादिप्ररूपणा कृता, ततो नारक- ८० शब्दस्य पूर्वनिपातेन भवितव्यमिति; तन्न; किं कारणम् ? उभयलक्षणप्राप्तत्वाद् देवशब्दस्य । देवशब्दो हि अल्पाजभ्यर्हितश्चेति वृत्तौ पूर्वप्रयोगार्हः । आगमे वाक्यविषयो निर्देश इति नास्ति नियमः । आह — उक्तं भवता ‘इष्यते प्रकर्षाप्रकर्षभावेन वृत्तिः’ इति; तत्कथमिति चेत् ? उच्यते — ०५देवेषु तावद् भवनवासिनां दशप्रकाराणामपि जघन्योऽवधिः पञ्चविंशतियोजनानि । उत्कृष्टः- असुराणां तिर्यगसंख्याता योजनकोटिकोट्योऽधः, ऊर्ध्वमृतुविमानस्योपरिपर्यन्तः । नागादिकुमा- राणां नवविधानामप्युत्कृष्टोऽवधिः अधोऽसंख्यातानि योजनसहस्राणि, ऊर्ध्वं मन्दिरचूलिकाया उपरिपर्यन्तः, तिर्यगसंख्यातानि योजनसहस्राणि । व्यन्तराणामष्टविधानां जघन्योऽवधिः पञ्च- विंशतियोजनानि । उत्कृष्टोऽप्यसंख्यातानि योजनसहस्राणि अधः, ऊर्ध्वंस्वविमानस्योपरिपर्यन्तः, १०तिर्यगसंख्याता योजनकोटिकोट्यः । ज्योतिषां जघन्योऽवधिरधः संख्येयानि योजनानि, उत्कृ- ष्टश्चाऽसंख्येयानि योजनसहस्राणि, ऊर्ध्वमात्मीयविमानस्योपरिपर्यन्तः, तिर्यगसंख्याता योजन- कोटिकोट्यः । वैमानिकेषु सौधर्मेशानीयानां जघन्योऽवधिर्ज्योतिषामुत्कृष्टः, रत्नप्रभाया अधश्चरम उत्कृष्टः । सानत्कुमारमाहेन्द्राणां जघन्योऽवधिः रत्नप्रभाया अधश्चरमः, उत्कृष्टः शर्करा- १५प्रभाया अधश्चरमः । ब्रह्मब्रह्मोत्तरलान्तवकापिष्ठानां जघन्योऽवधिः शर्कराप्रभाया अधश्चरमः, उत्कृष्टो वालुकाप्रभाया अधश्चरमः । शुक्रमहाशुक्रसतारसहस्राराणां जघन्योऽवधिः वालुकाप्रभाया अधश्चरमः, उत्कृष्टः पङ्कप्रभाया अधश्चरमः । आनतप्राणताऽऽरणाऽच्युतानां जघन्योऽवधिः पङ्कप्रभाया अधश्चरमः, उत्कृष्टो धूमप्रभाया अधश्चरमः । नवानां ग्रैवेयिकानां जघन्योऽवधिः धूमप्रभाया अधश्चरमः, उत्कृष्टः तमःप्रभाया अधश्चरमः । नवानामनुदिशानां २०पञ्चानुत्तरविमानवासिनाञ्च लोकनालिपर्यन्तोऽवधिः । सौधर्मादीनामनुत्तरान्तानामूर्ध्वं स्वविमानस्योपरिपर्यन्तः, तिर्यगसंख्याता योजनकोटिकोट्यः । अथैषां कालद्रव्यभावेषु कोऽवधिरिति ? अत्रोच्यते — यस्य यावत्क्षेत्रावधिस्तस्य तावदाकाशप्रदेशपरिच्छिन्ने कालद्रव्ये भवतः । तावत्सु समयेष्वतीतेष्वनागतेषु च ज्ञानं वर्तते, तावदसंख्यातभेदेषु अनन्तप्रदेशेषु पुद्गलस्कन्धेषु जीवेषु च सकर्मकेषु । भावतः स्वविषयपुद्गल- २५स्कन्धानां रूपादिविकल्पेषु जीवपरिणामेषु चौदयिकौपशमिकक्षायोपशमिकेषु वर्तते । कुतः ? पौद्गलिकत्वादेषाम् । नारकेषु च योजनमर्धगव्यूतहीनमागव्यूतात् । तद्यथा — रत्नप्रभायां योजनमवधिः अधः । द्वितीयायामधः अर्धचतुर्थानि गव्यूतानि । तृतीयायामधः त्रीणि गव्यूतानि । चतुर्थ्यामधोऽर्ध- तृतीयानि गव्यूतानि । पञ्चम्यां द्वे गव्यूते । षष्ठ्यामधोऽर्धाधिकं गव्यूतम् । सप्तम्यामधो ३०गव्यूतम् । सर्वासु पृथिवीषु नारकाणामवधिरुपरि आत्मीयनरकावासान्तः, तिर्यगसंख्याता योजन- कोटीकोट्यः । कालद्रव्यभावपरिमाणं पूर्ववद्वेदितव्यम् । यदि भवप्रत्ययोऽवधिर्देवनारकाणाम्, अथ क्षयोपशमहेतुकः केषामिति ? अत आह — ८१ क्षयोपशमनिमित्तः षड्विकल्पः शेषाणाम् ॥ २२ ॥ अवधिज्ञानावरणस्य देशघातिस्पर्धकानामुदये सति सर्वघातिस्पर्धकानामुदयाभावः क्षयः, तेषामेवाऽनुदयप्राप्तानां सदवस्थोपशमः, तौ निमित्तमस्येति क्षयोपशमनिमित्तः । स शेषाणां ०५वेदितव्यः । के पुनः शेषाः ? मनुष्यास्तिर्यञ्चश्च । शेषग्रहणादविशेषप्रसङ्ग इति चेत्; न; तत्सामर्थ्यविरहात् । १ । स्यादेतत्-देवनारकेभ्योऽन्ये शेषाः, ततस्तेषामविशेषात् सर्वेषां तिरश्चां मनुष्याणां वाऽवधिप्रसङ्ग इति; तन्न; किं कारणम् ? तत्सामर्थ्यविरहात् । न ह्यसंज्ञिनामपर्याप्तकानां च तत्सामर्थ्यमस्ति, संज्ञिनां पर्याप्तकानां च न सर्वेषाम् । केषां तर्हि ? १०यथोक्तनिमित्तसन्निधाने सति शान्तक्षीणकर्मणां तदुपलब्धेः । २ । यथोक्तसम्यग्दर्शनादि- निमित्तसन्निधाने सति शान्तक्षीणकर्मणां तस्योपलब्धिर्भवति । ननु सर्वः क्षयोपशमनिमित्तः तत्र किमुच्यते — ‘क्षयोपशमनिमित्तः शेषाणाम्’ इति ? सर्वस्य क्षयोपशमनिमित्तत्वे तद्वचनं नियमार्थम् अब्भक्षवत् । ३ । यथा न कश्चिदपो न भक्षयति इत्यब्ग्रहणं नियमार्थं क्रियते अप एव भक्षयति इति, तथा सर्वस्य क्षयोपशमनिमित्तत्वे १५क्षयोपशमग्रहणं नियमार्थम् ‘क्षयोपशमनिमित्त एव न भवनिमित्तः’ इति । स एषोऽवधिः षड्विकल्पः । कुतः ? अनुगाम्यननुगामिवर्धमानहीयमानाऽवस्थिताऽनवस्थितभेदात् षड्विधः । ४ । कश्चिदवधिः भास्करप्रकाशवद् गच्छन्तमनुगच्छति । कश्चिन्नानुगच्छति तत्रैवातिपतति उन्मुखप्रश्ना- देशिकपुरुषवचनवत् । अपरोऽवधिः अरणिनिर्मथनोत्पन्नशुष्कपत्रोपचीयमानेन्धननिचयसमिद्ध- २०पावकवत् सम्यग्दर्शनादिगुणविशुद्धिपरिणामसन्निधानाद् यत्परिमाण उत्पन्नस्ततो वर्धते आ- असंख्येयलोकेभ्यः । अपरोऽवधिः परिच्छिन्नोपादानसन्तत्यग्निशिखावत् सम्यग्दर्शनादिगुण- हानिसंक्लेशपरिणामविवृद्धियोगात् यत्प्रमाण उत्पन्नस्ततो हीयते आ अङ्गुलस्याऽसंख्येय- भागात् इति । अपरोऽवधिः सम्यग्दर्शनादिगुणावस्थानात् यत्परिमाण उत्पन्नस्तत्परिमाण एवाव- तिष्ठते न हीयते नापि वर्धते लिङ्गवत्, आभवक्षयादाकेवलज्ञानोत्पत्तेर्वा । अन्योऽवधिः २५सम्यग्दर्शनादि-गुणवृद्धिहानियोगात् यत्परिमाण उत्पन्नस्ततो वर्धते यावदनेन वर्धितव्यं हीयते च यावदनेन हातव्यं वायुवेगप्रेरितजलोर्मिवत् । एवं षड्विकल्पोऽवधिः भवति । पुनरपरेऽवधेस्त्रयो भेदाः — देशावधिः परमावधिः सर्वावधिश्चेति । तत्र देशावधिस्त्रेधा- जघन्य उत्कृष्टः अजघन्योत्कृष्टश्चेति । तथा परमावधिरपि त्रिधा । सर्वावधिरविकल्पत्वादेक एव । उत्सेधाङ्गुलासंख्येयभागक्षेत्रो देशावधिर्जघन्यः । उत्कृष्टः कृत्स्नलोकः । तयोरन्तराले ३०असंख्येयविकल्पः अजधन्योत्कृष्टः । परमावधिर्जघन्यः एकप्रदेशाधिकलोकक्षेत्रः । उत्कृष्टोऽ- संख्येयलोकक्षेत्रः । अजधन्योत्कृष्टो मध्यमक्षेत्रः । उत्कृष्टपरमावधिक्षेत्राद् बहिरसंख्यातक्षेत्रः सर्वावधिः । ८२ ‘वर्धमानो हीयमानः अवस्थितः अनवस्थितः अनुगामी अननुगामी अप्रतिपाती प्रतिपाती’ इत्येतेऽष्टौ भेदा देशावधेर्भवन्ति । हीयमानप्रतिपातिभेदवर्जा इतरे षड् भेदा भवन्ति परमावधेः । ‘अवस्थितोऽनुगाम्यननुगाम्यप्रतिपाती’ इत्येते चत्वारो भेदाः सर्वावधेः । तत्र षडाद्या उक्तल- क्षणाः । प्रतिपातीति विनाशी विद्युत्प्रकाशवत् । तद्विपरीतोऽप्रतिपाती । ०५तत्र देशावधेः सर्वजघन्यस्य क्षेत्रम् उत्सेधाङ्गुलस्याऽसंख्येयभागः, आवलिकाया असंख्येय- भागः कालः, अङ्गुलस्याऽसंख्येयभागक्षेत्रप्रदेशप्रमाणं द्रव्यम्, तत्प्रमाणपरिच्छिन्नेष्वसंख्येयेषु स्कन्धेष्वनन्तप्रदेशेषु ज्ञानं वर्तते, स्वविषयस्कन्धगतानन्तवर्णादिविकल्पो भावः । तस्य वृद्धिरुच्यते — प्रदेशोत्तरा क्षेत्रवृद्धिर्नास्त्येकजीवस्य, नानाजीवानां तु प्रदेशोत्तरक्षेत्र- वृद्धिर्भवति आसर्वलोकात् । एकजीवस्य त्वङ्गुलासंख्येयभागादूर्ध्वं विशुद्धिवशात् मण्डूकप्लुत्या १०अगुङ्लासंख्येयभागक्षेत्रवृद्धिर्भवति आसर्वलोकात् । नानाजीवा अपि प्रदेशोत्तरवृद्ध्या तावद्वर्धयन्ते यावदङ्गुलस्यासंख्येयभागः । कालवृद्धिरेकजीवस्य नानाजीवानां वा मौलादा- वलिकासंख्येयभागात् क्वचिदेकसमयोत्तरा क्वचिद् द्विसमयोत्तरा क्वचित् संख्येयसमयोत्तरा क्व- चिदसंख्येयसमयोत्तरा यावदावलिकाया असंख्येयभागः । सेयं क्षेत्रकालवृद्धिः । कया वृद्ध्या ? चतुर्विधया संख्येयभागवृद्ध्या असंख्येयभागवृद्ध्या संख्येयगुणवृद्ध्या असंख्येयगुणवृद्ध्या वा । १५एवं द्रव्यमपि वर्धमानं चतुर्विधया वृद्ध्या वर्धते । भाववृद्धिः षोढा — अनन्तभागवृद्धिः असंख्येय- भागवृद्धिः संख्येयभागवृद्धिः संख्येयगुणवृद्धिरसंख्येयगुणवृद्धिरनन्तगुणवृद्धिरिति । अनया क्षेत्र- कालद्रव्यभाववृद्ध्योक्तया आसर्वलोकात् वृद्धिरवसेया । हानिरपि तथैव । योऽङ्गुलासख्येय- भागक्षेत्रोऽवधिः तस्यावलिकायाः संख्येयभागः कालः, अङ्गुलासंख्येयभागक्षेत्राकाशप्रदेशप्रमाणं द्रव्यम्, भावः पूर्ववदनन्तो वा स्यादसंख्येयो वा स्यात्संख्येयो वा स्यात् । योऽङ्गुलमात्रक्षेत्रोऽ- २०वधिः तस्येषदूना आवलिका कालः, द्रव्यभावौ पूर्ववत् । योऽङ्गुलपृथक्त्वक्षेत्रोऽवधिः तस्य आवलिका कालः द्रव्यभावौ पूर्ववत् । यो हस्तप्रमाणक्षेत्रोऽवधिः तस्य आवलिकापृथक्त्वं कालः, द्रव्यभावौ पूर्ववत् । यो गव्यूतिमात्रक्षेत्रोऽवधिः तस्य साधिकोच्छ्वासः कालः, द्रव्यभावौ पूर्ववत् । यो योजनमात्रक्षेत्रोऽवधिः तस्य भिन्नमुहूर्तः कालः, द्रव्यभावौ पूर्ववत् । यः पञ्चविंशतियोजन- प्रमाणक्षेत्रोऽवधिः तस्येषदूनो दिवसः कालः, द्रव्यभावौ पूर्ववत् । यो भरतक्षेत्रमात्रोऽवधिः तस्य २५अर्धमासः कालः, द्रव्यभावौ पूर्ववत् । यो जम्बूद्वीपमात्रक्षेत्रोऽवधिः तस्य साधिको मासः कालः, द्रव्यभावौ पूर्ववत् । यो मनुष्यलोकमात्रक्षेत्रोऽवधिः तस्य संवत्सरः कालः, द्रव्यभावौ पूर्ववत् । यो रुचकान्तप्रमाणक्षेत्रोऽवधिः तस्य संवत्सरपृथक्त्वं कालः, द्रव्यभावौ पूर्ववत् । यः संख्येयद्वीपसमुद्रक्षेत्रोऽवधिः तस्य संख्येयाः संवत्सराः कालः, द्रव्यभावौ पूर्ववत् । योऽसंख्ये- यद्वीपसमुद्रक्षेत्रोऽवधिः तस्याऽसंख्येयाः संवत्सराः कालः, द्रव्यभावौ पूर्ववत् । एवं ज (एवमज)- ३०घन्योत्कृष्टस्तिर्यङ्नराणां देशावधिरुक्तः । अथ तिरश्चामुत्कृष्टदेशावधिरुच्यते — क्षेत्रमसंख्येया द्वीपसमुद्राः । कालोऽप्यसंख्येयाः संवत्सराः । तेजश्शरीरप्रमाणं द्रव्यम् । कियच्च तत् ? असंख्येयद्वीपसमुद्राकाशप्रदेशपरिच्छिन्ना- भिः असंख्येयाभिस्तेजःशरीरद्रव्यवर्गणाभिर्निर्वर्तितं तावदसंख्येयस्कन्धाननन्तप्रदेशान् जाना- तीत्यर्थः । भावः पूर्ववत् । तिरश्चां मनुष्याणां च जघन्यो देशावधिर्भवति । तिरश्चां तु देशाव- ३५वधिरेव न परमावधिर्नापि सर्वावधिः । ८३ अथ मनुष्याणामुत्कृष्टो देशावधिरुच्यते — क्षेत्रमसंख्येया द्वीपसमुद्राः । कालोऽप्यसंख्येयाः संवत्सराः । द्रव्यं कार्मणद्रव्यम् । कियच्च तत् ? असंख्येयद्वीपसमुद्राकाशप्रदेशपरिच्छिन्ना असंख्येया ज्ञानावरणादिकार्मणद्रव्यवर्गणाः । भावः पूर्ववत् । एष देशावधिरुत्कृष्टो मनुष्याणां संयतानां भवति । ०५परमावधिरुच्यते — जघन्यस्य परमावधेः क्षेत्रं प्रदेशाधिको लोकः । कालः प्रदेशाधिक- लोकाकाशप्रदेशावधृतप्रमाणा अविभागिनः समयाः, ते चाऽसंख्याताः संवत्सराः । द्रव्यं प्रदेशा- धिकलोकाकाशप्रदेशावधृतप्रमाणम् । भावः पूर्ववत् । अतः परं क्षेत्रवृद्धिः — नानाजीवैकजीवा- नामविशेषेण विशुद्धिवशादसंख्येया लोकाः, एवं तावदसंख्येया लोका वृद्धिर्यावदुत्कृष्टपरमाव- धिक्षेत्रम् । कियन्तश्च ते असंख्येयाः ? आवलिकाया असंख्येयभागप्रमाणाः । कालद्रव्य- १०भावाः पूर्ववत् । उत्कृष्टपरमावधेः क्षेत्रं सलोकालोकप्रमाणा असंख्येया लोकाः । कियन्तस्ते ? अग्निजीवतुल्याः । कालद्रव्यभावाः पूर्ववत् । स एषः त्रिविधोऽपि परमावधिः उत्कृष्टचारित्र- युक्तस्यैव भवति नान्यस्य । वर्धमानो भवति न हीयमानः । अप्रतिपाती न प्रतिपाती । यस्य यावति च लोके लोकप्रमाणासंख्येयलोकक्षेत्रे जातस्तस्य तावत्यवस्थानादवस्थितो भवति, अनवस्थितश्च वृद्धिं प्रति न हानिम् । ऐहलौकिकदेशान्तरगमनादनुगामी पारलौकिकदेशान्त- १५रानुगमनाभावादननुगामी । सर्वावधिरुच्यते — असंख्येयानामसंख्येयभेदत्वाद् उत्कृष्टपरमावधिक्षेत्रमसंख्येयलोकगुणि- तमस्य क्षेत्रम्, कालद्रव्यभावाः पूर्ववत् । स एष न वर्धमानो न हीयमानो नानवस्थितो न प्रति- पाती, प्राक्संयतभवक्षयात् अवस्थितोऽप्रतिपाती, भवान्तरं प्रत्यननुगामी देशान्तरं प्रत्यनुगामी । सर्वशब्दस्य साकल्यवाचित्वात् द्रव्यक्षेत्रकालभावैः सर्वावधेरन्तःपाती परमावधिः, अतः परमा- २०वधिरपि देशावधिरेवेति द्विविध एवावधिः — सर्वावधिर्देशावधिश्च । उक्तायां वृद्धौ यदा कालवृद्धिस्तदा चतुर्णामपि वृद्धिर्नियता । क्षेत्रवृद्धौ कालवृद्धिर्भाज्या- स्यात्कालवृद्धिः स्यान्नेति, द्रव्यभावयोस्तु वृद्धिर्नियता । द्रव्यवृद्धौ भाववृद्धिर्नियता, क्षेत्रकाल- वृद्धिः पुनर्भाज्या — स्याद्वा न वेति । भाववृद्धावपि द्रव्यवृद्धिर्नियता, क्षेत्रकालवृद्धिर्भाज्या — स्याद्वा न वेति । २५स एषोऽवधिज्ञानोपयोगो द्विधा भवति एकक्षेत्रोऽनेकक्षेत्रश्च । श्रीवृक्षस्वस्तिकनन्द्या- वर्ताद्यन्यतमोपयोगोपकरण एकक्षेत्रः । तदनेकोपकरणोपयोगोऽनेकक्षेत्रः । यद्येवं परायत्त- त्वात् परोक्षत्वप्रसङ्गः ? न; इन्द्रियेषु परत्वरूढेः । *“इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः । मनसस्तु परा बुद्धिर्बुद्धेः परतरो हि सः ॥ ”[भगº गीº३ । ४२] इति । ३०एवं बहुधा व्याख्यातमवधिज्ञानम्, मनःपर्ययस्येदानीमवसरः प्राप्तः, तस्य भेदपुरस्सरं लक्षणं व्याचिख्यासुरिदमाह — ऋजुविपुलमती मनःपर्ययः ॥ २३ ॥ ऋज्वी निर्वर्तिता प्रगुणा च । कस्मात् ? निर्वर्तितवाक्कायमनस्कृतार्थस्य परकीयमनो- गतस्य विज्ञानात् । ऋज्वी मतिर्यस्य सोऽयमृजुमतिः । अनिर्वर्तिता कुटिला च विपुला । कस्मात् ? ८४ अनिर्वर्तितवाक्कायमनस्कृतार्थस्य परकीयमनोगतस्य विज्ञानात् । विपुला मतिरस्य स विपुल- मतिः । ऋजमतिश्च विपुलमतिश्च ऋजुविपुलमती । एकस्य मतिशब्दस्य गतार्थत्वादप्रयोगः । अथवा, ऋजुश्च विपुला च ऋजुविपुले, ऋजुविपुले मती ययोस्तौ ऋजुविपुलमती इति । स एष मनःपर्ययो द्विधा ऋजुमतिर्विपुलमतिरिति । अत्रोक्तो भेदः । ०५लक्षणमस्येदानीं वक्तव्यमिति ? अत्रोच्यते — मनःसंबन्धेन लब्धवृत्तिर्मनःपर्ययः । १ । वीर्यान्तरायमनःपर्ययज्ञानावरणक्षयोपशमाङ्गो- पाङ्गनामलाभोपष्टम्भाद् आत्मीयपरकीयमनःसंबन्धेन लब्धवृत्तिरुपयोगो मनःपर्ययः । मतिज्ञानप्रसङ्ग इति चेत्; न; अन्यदीयमनोऽपेक्षामात्रत्वाद् अभ्रे चन्द्रव्यपदेशवत् । २ । स्यान्मतम् — यथा मनश्चक्षुरादिसंबन्धाच्चक्षुरादिज्ञानमाविर्भवति तन्मतिज्ञानम् तथा मनःपर्य- १०योऽपि मनःसंबन्धाल्लब्धवृत्तिरिति मतिज्ञानं प्राप्नोतीति; तन्न; किं कारणम् ? अन्यदीय- मनोऽपेक्षामात्रत्वात् । कथम् ? अभ्रे चन्द्रव्यपदेशवत् । यथा ‘अभ्रे चन्द्रमसं पश्य’इति अभ्रम- पेक्षाकारणमात्रं भवति, न च चक्षुरादिवन्निर्वर्तकं चन्द्रज्ञानस्य, तथा अन्यदीयमनोऽपि अपेक्षा- कारणमात्रं भवति ‘परकीयमनसि व्यवस्थितमर्थं जानाति मनःपर्ययः’ इति । ततो नास्य तदा- यत्तः प्रभव इति न मतिज्ञानप्रसङ्गः । १५स्वमनोदेशे वा तदावरणकर्मक्षयोपशमव्यपदेशात् चक्षुष्यवधिज्ञाननिर्देशवत् । ३ । अथवा, चक्षुर्देशस्थानामात्मप्रदेशानाम् अवध्यावरणक्षयोपशमात् यथा चक्षुष्यवधिज्ञानव्यपदेश इष्टः, नचाऽवधिः मतिर्भवति, तथा मनःपर्ययज्ञानावरणक्षयोपशमात् स्वमनोदेशस्थानामात्मप्रदेशानां मनःपर्ययव्यपदेशः, न चास्य मतित्वम् । मनःप्रतिबन्धज्ञानादनुमानप्रसङ्ग इति चेत्; न; प्रत्यक्षलक्षणाऽविरोधात् । ४ । स्यान्म- २०तम् — यथा धूमप्रतिबन्धाद्धूमसंपृक्तेऽग्नावनुमानं तथा अन्यदीयमनःप्रतिबन्धात् तन्मनःसंपृक्ता- नर्थान् जानन् मनःपर्ययोऽनुमानमिति; तन्न; किं कारणम् ? प्रत्यक्षलक्षणाऽविरोधात् । यत्प्र- त्यक्षलक्षणमुक्तम् ‘इन्द्रियानिन्द्रियनिरपेक्षमतीतव्यभिचारं साकारग्रहणं प्रत्यक्षम्’ इति, तेना- ऽविरोधः (धात्), न मनःपर्ययोऽनुमानम् । अनुमानं हि तेन विरुध्यते । उपदेशपूर्वकत्वाच्चक्षुरादिकरणनिमित्तत्वाद्वाऽनुमानस्य । ५ । उपदेशाद्धि ‘अयमग्निरयं २५धूमः’ इत्युपलभ्य पश्चाद्धूमदर्शनादग्नावनुमानं करोति, चक्षुरादिकरणसंबन्धाच्च, ततोऽस्योक्तं प्रत्यक्षलक्षणं विरुध्यते । न च तथा मनःपर्यय उपदेशं चक्षुरादिकरणसंबन्धं चाऽपेक्षते । स द्वेधा सूत्रोक्तविकल्पात् । ६ । स मनःपर्ययो द्वेधा । कुतः ? सूत्रोक्तविकल्पात् । ऋजु- मतिर्विपुलमतिरिति । आद्यस्त्रेधा ऋजुमनोवाक्कायविषयभेदात् । ७ । आद्य ऋजुमतिमनःपर्ययस्त्रेधा । कुतः ? ३०ऋजुमनोवाक्कायविषयभेदात् — ऋजुमनस्कृतार्थज्ञः ऋजुवाक्कृतार्थज्ञः ऋजुकायकृतार्थज्ञश्चेति । तद्यथा, मनसाऽर्थं व्यक्तं सञ्चित्य वाचं वा धर्मादियुक्तामसंकीर्णामुच्चार्य कायप्रयोगं चोभयलोकफलनिष्पादनार्थमङ्गोपाङ्गप्रत्यङ्गनिपातनाकुञ्चनप्रसारणादिलक्षणं कृत्वा पुनर- नन्तरे समये कालान्तरे वा तमेवार्थं चिन्तितमुक्तं कृतं वा विस्मृतत्वान्न शक्नोति चिन्तयितुम्, ८५ तमेवंविधमर्थं ऋजुमतिमनःपर्ययः पृष्टोऽपृष्टो वा जानाति ‘अयमसावर्थोऽनेन विधिना त्वया चिन्तित उक्तः कृतो वा’ इति । कथमयमर्थों लभ्यते ? आगमाविरोधात् । आगमे ह्युक्तम् — *“मनसा मनः परिच्छिद्य परेषां संज्ञादीन् जानाति”[महाबन्ध पृº २४] इति । मनसा आत्मनेत्यर्थः । परमनः समन्ताद्विदित्वा परिच्छिद्य मनसा चिन्तितस्य सचेतनेतरस्याऽर्थस्य ०५मनस्यवस्थात् मनोव्यपदेशः मञ्चस्थानां पुरुषाणां मञ्चव्यपदेशवत् । तमात्मना आत्माऽवबु- ध्य आत्मनः परेषां च चिन्ताजीवितमरणसुखदुःखलाभालाभादीन् विजानाति । *“व्यक्तम- नसां जीवानामर्थं जानाति नाऽव्यक्तमनसाम् । ”[महाबन्ध]व्यक्तः स्फुटीकृतोऽर्थश्चिन्तया सुनिर्वर्तितो यैस्ते जीवा व्यक्तमनसस्तैरर्थं चिन्तितं ऋजुमतिर्जानाति नेतरैः । कालतो जघन्येन जीवानामात्मनश्च द्वित्राणि, उत्कर्षेण सप्ताष्टानि भवग्रहणानि गत्यागत्यादिभिः १०प्ररूपयति । क्षेत्रतो जघन्येन गव्यूतिपृथक्त्वस्याभ्यन्तरं न बहिः । द्वितीयः षोढा ऋजुवक्रमनोवाक्कायविषयभेदात् । ८ । द्वितीयो विपुलमतिः षोढा भिद्यते । कुतः ? ऋजुवक्रमनोवाक्कायविषयभेदात् । ऋजुविकल्पाः पूर्वोक्ताः, वक्रविकल्पाश्च तद्विपरीता योज्याः । तथा आत्मनः परेषां च चिन्ताजीवितमरणसुखदुःखलाभालाभादीन् अव्यक्तमनोभिर्व्यक्तमनोभिश्च चिन्तितान् अचिन्तितान् जानाति विपुलमतिः, कालतो जघ- १५न्येन सप्ताष्टानि भवग्रहणानि, उत्कर्षेणाऽसंख्येयानि गत्यागतिभिः प्ररूपयति । क्षेत्रतो जघन्येन योजनपृथक्त्वम्, उत्कर्षेण मानुषोत्तरशैलाभ्यन्तरं न बहिः । एवं द्विभेदो मनःपर्ययो वर्णितः । तस्य किं परस्परतो विशेषोऽस्त्युत नास्ति ? अत आह- विशुद्ध्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ तदावरणकर्मक्षयोपशमे सति आत्मनः प्रसादो विशुद्धिः । प्रतिपतनं प्रतिपातः । उप- २०शान्तकषायस्य चारित्रमोहोद्रेकात् प्रच्युतसंयमशिखरस्य प्रतिपातो भवति । क्षीणकषायस्य प्रतिपातकारणाभावादप्रतिपातः । विशुद्धिश्चाऽप्रतिपातश्च विशुद्ध्यप्रतिपातौ ताभ्यां विशु- द्ध्यप्रतिपाताभ्यां तयोर्विशेषस्तद्विशेषः । पूर्वसूत्र एव तयोर्विशेषो निर्ज्ञातः किमर्थं पुनरिदमुच्यते ? ८६ विशेषान्तरप्रतिपत्त्यर्थं पुनर्वचनम् । १ । यः पूर्वसूत्रे विशेष उक्तः तावतास्य न परि- तोषस्ततो विशेषान्तरप्रतिपत्त्यर्थं पुनरिदमुच्यते । चशब्दप्रसङ्ग इति चेत्; न; प्राथमकल्पिकभेदाभावात् । २ । यथा मनःपर्ययस्य ऋजु- विपुलमती भेदौ तथा विशुद्ध्यप्रतिपातावपि तस्यैव यदि भेदौ स्यातां युक्तश्चशब्दः स्यात् । ०५यतस्तु विशुद्ध्यप्रतिपातौ ऋजुविपुलमत्योर्विशेषौ न भेदौ, अतश्चशब्दाऽप्रसङ्गः । तत्र विशुद्ध्या तावदृजुमतेर्विपुलमतिर्द्रव्यक्षेत्रकालभावैर्विशुद्धतरः । कथम् ? इह यः कार्मणद्रव्यानन्तभागो- ऽन्त्यः सर्वावधिना ज्ञातस्तस्य पुनरनन्तभागीकृतस्य मनःपर्ययज्ञेयोऽनन्तभागः, अनन्तस्याऽन- न्तभेदत्वात् । ऋजुमतिकार्मणद्रव्याऽनन्तभागाद् दूरविप्रकृष्टोऽल्पीयाननन्तभागः विपुलमते- र्द्रव्यम् । क्षेत्रकालविशुद्धिरुक्ता । भावतो विशुद्धिः सूक्ष्मतरद्रव्यविषयत्वादेव वेदितव्या । १०प्रकृष्टक्षयोपशमविशुद्धिभावयोगादप्रतिपातेनापि विपुलमतिर्विशिष्टा, स्वामिनां प्रवर्धमान- चारित्रोदयत्वात् । ऋजुमतिः पुनः प्रतिपाती स्वामिनां कषायोद्रेकाद्धीयमानचारित्रोदयत्वात् । यद्यस्य मनःपर्ययस्य प्रत्यात्ममयं विशेषः अथाऽनयोरवधिमनःपर्यययोः कुतो विशेष इति ? अत आह — विशुद्धिक्षेत्रस्वामिविषयेभ्योऽवधिमनःपर्यययोः ॥ २५ ॥ १५विशुद्धिः प्रसादः । क्षेत्रं यत्रस्थान् भावान् प्रतिपद्यते । स्वामी प्रयोक्ता । विषयो ज्ञेयः । अवधिज्ञानान्मनःपर्ययस्य विशुद्ध्यभावोऽल्पद्रव्यविषयत्वादिति चेत्; न; भूयःपर्याय- ज्ञानात् । १ । स्यान्मतम् — अवधिज्ञानान्मनःपर्ययोऽविशुद्धतरः । कुतः ? अल्पद्रव्यविषयत्वात् । यतः सर्वावधिरूपिद्रव्यानन्तभागो मनःपर्ययद्रव्यमिति; तन्न; किं कारणम् ? भूयःपर्याय- ज्ञानात् । यथा कश्चिद् बहूनि शास्त्राणि व्याचष्टे एकदेशेन, न साकल्येन तद्गतमर्थं शक्नोति २०वक्तुम्, अपरस्त्वेकं शास्त्रं साकल्येन व्याचष्टे यावन्तस्तस्यार्थास्तान् सर्वान् शक्नोति वक्तुम्, अयं पूर्वस्माद्विशुद्धतरविज्ञानो भवति । तथा अवधिज्ञानविषयानन्तभागज्ञोऽपि मनः- पर्ययो विशुद्धतरः, यतस्तमनन्तभागं रूपादिभिर्बहुभिः पर्यायैः प्ररूपयति । क्षेत्रमुक्तम् । विषयो वक्ष्यते । स्वामित्वं प्रत्युच्यते — विशिष्टसंयमगुणैकार्थसमवायी मनःपर्ययः । २ । विशिष्टः संयमगुणो यत्र विद्यते तत्रैव २५वर्तते मनःपर्ययः । तथा चोक्तम् — *“मनुष्येषु मनःपर्यय आविर्भवति; न देवनारकतैर्यग्योनेषु । मनुष्येषु चोत्पद्यमानः पर्याप्तकेषूत्पद्यते न सम्मूर्च्छनजेषु । गर्भजेषु चोत्पद्यमानः कर्मभूमिजेषूत्पद्यते नाकर्मभूमिजेषु । कर्मभूमिजेषूत्पद्यमानः पर्याप्तकेषूत्पद्यते नापर्याप्तकेषु । पर्याप्तकेषूपजायमानः सम्यग्दृष्टिषू- पजायते न मिथ्यादृष्टिसासादनसम्यग्दृष्टिसम्यङ्मिथ्यादृष्टिषु । सम्यग्दृष्टिषूपजायमानः संयते- ३०षूपजायते नाऽसंयतसम्यग्दृष्टिसंयतासंयतेषु । संयतेषूपजायमानः प्रमत्तादिषु क्षीणकषायान्ते- षूपजायते नोत्तरेषु । तत्र चोपजायमानः प्रवर्धमानचारित्रेषुजायते न हीयमानचारित्रेषु । प्रवर्धमानचारित्रेषूपजायमानः सप्तविधान्यतमर्द्धिप्राप्तेषूपजायते नेतरेषु । ऋद्धिप्राप्तेषु च केषुचिन्न सर्वेषु” इति । ८७ विशिष्टसंयमग्रहणं वाक्ये कृतम् । अवधिः पुनः चातुर्गतिकेष्विति स्वामिभेदा- दष्यनयोर्विशेषः । इदानीं केवलज्ञानलक्षणाभिधानं प्राप्तकालं तदुल्लङ्घ्य ज्ञानानां विषयनिबन्धः परीक्ष्यते । कुतः ? तस्य *“मोहक्षयाज्ज्ञानदर्शनावरणान्तरायक्षयाच्च केवलम्”[तº सूº ०५१० । १] इत्यत्र वक्ष्यमाणत्वात् । यद्येवमाद्ययोरेव तावन्मतिश्रुतयोर्विषयनिबन्ध उच्यता- मिति ? आह — मतिश्रुतयेर्निबन्धो द्रव्येष्वसर्वपर्यायेषु ॥ २६ ॥ निबन्धनं निबन्धः । कस्य ? मतिश्रुतविषयस्य । तत्तर्हि विषयग्रहणं कर्तव्यम् ? न कर्तव्यम् । १०प्रत्यासत्तेः प्रकृतविषयग्रहणाभिसंबन्धः । १ । प्रकृतं विषयग्रहणमस्ति । क्व प्रकृतम् ? ‘विशुद्धिक्षेत्रस्वामिविषयेभ्यः’ इति । तत्र प्रत्यासत्तेर्विषयग्रहणमिहाभिसंबध्यते । ननु च स विभक्त्यन्तरनिर्दिष्टो न शक्यते इह संबद्धुम् ? अर्थवशाद्विभक्तिपरिणामः । २ । यथा ‘उच्चानि देवदत्तस्य गृहाणि आमन्त्रयस्वैनम्’ ‘देवदत्तम्’ इति गम्यते, ‘देवदत्तस्य गावोऽश्वा हिरण्यम्, आढ्यो वैधवेयः’ ‘देवदत्तः’ इति गम्यते, १५एवमिहापि । निबन्धः कस्य ? ‘विषयस्य’इत्यभिसंबध्यते । अथ द्रव्येष्विंति बहुत्वनिर्देशः किमर्थः ? द्रव्येष्विति बहुत्वनिर्देशः सर्वद्रव्यसंग्रहार्थः । ३ । जीवधर्माऽधर्माकाशकालपुद्गलाभि- धानानि षडत्र द्रव्याणि, तेषां सर्वेषां संग्रहार्थः द्रव्येष्विति बहुत्वनिर्देशः क्रियते । तद्विशेषणार्थमसर्वपर्यायग्रहणम् । ४ । तेषां द्रव्याणामविशेषेण मतिश्रुतयोर्विषयभाव- प्रसङ्गे तद्विशेषणार्थम् असर्वपर्यायग्रहणं क्रियते । तानि द्रव्याणि मतिश्रुतयोर्विषयभावमापद्य- २०मानानि कतिपयैरेव पर्यायैर्विषयभावमास्कन्दन्ति न सर्वपर्यायैरनन्तैरपीति । तत्कथम् ? इह मतिः चक्षुरादिकरणनिमित्ता रूपाद्यालम्बना, सा यस्मिन् द्रव्ये रूपादयो वर्तन्ते न तत्र सर्वान् पर्यायानेव (सर्वानेव पर्यायान्) गृह्णाति, चक्षुरादिविषयानेवाऽऽलम्बते । श्रुतमपि शब्दलिङ्गम्, शब्दाश्च सर्वे संख्येया एव, द्रव्यपर्यायाः पुनः संख्येयाऽसंख्येयानन्तभेदाः, न ते सर्वे विशेषाकारेण तैर्विषयीक्रियन्ते । उक्तञ्च — २५*“पण्णवणिज्जा भावा अणंतभागो दु अणभिलप्पाणं । पण्णवणिज्जाणं पुण अणंतभागो सुदणिबद्धो ॥ ”[सन्मतिº गाº२ । १६] इति । अतीन्द्रियेषु मतेरभावात् सर्वद्रव्यासंप्रत्यय इति चेत्; न; नोइन्द्रियविषयत्वात् । ५ । स्या- न्मतम् — धर्मास्तिकायादिषु मतेरभावोऽतीन्द्रियत्वात्, ततो ‘मतिः सर्वद्रव्यविषयनिबन्धा’ इति लक्षणमयुक्तमिति; तन्न; किं कारणम् ? नोइन्द्रियविषयत्वात् । नोइन्द्रियावरणक्षयोपशमलब्ध्य- ८८ पेक्षं नोइन्द्रियं तेषु व्याप्रियते । अथ हि तत्र न वर्तेत अवधिना सह निर्दिश्येत रूपिष्वेव वृत्तेः । अथ मतिश्रुतयोरनन्तरनिर्देशार्हस्यावधेः को विषयनिबन्ध इति ? अत आह — रूपिष्ववधेः ॥ २७ ॥ रूपशब्दस्याऽनेकार्थत्वे सामर्थ्याच्छुक्लादिग्रहणम् । १ । अयं रूपशब्दोऽनेकार्थः क्वचि- ०५च्चाक्षुषे वर्तते यथा — ‘रूपरसगन्धस्पर्शाः’ इति । क्वचित्स्वभावे वर्तते यथा ‘अनन्तरूपमनन्त- स्वभावम्’ इति । तत्रेह सामर्थ्याच्चक्षुर्विषये शुक्लादौ वर्तमानो गृह्यते । यदि स्वभाव- वाचिनो ग्रहणं स्यात् अनर्थकं स्यात् । न हि कस्यचित् स्वभावो नास्तीति । भूमाद्यनेकार्थसंभवे नित्ययोगोऽभिधानवशात् । २ । यद्यपि मत्वर्थीयस्य भूमादयोऽर्थाः बहवः संभवन्ति, इहाभिधानवशात् नित्ययोगो वेदितव्यः । नित्यं हि पुद्गला युक्ता रूपेणेति, १०यथा क्षीरिणो वृक्षा इति । यद्येवमवधिज्ञानस्य पुद्गला रूपमुखेनैव विषयभावं प्रतिपद्येरन् न रसादिमुखेन ? नैष दोषः; तदुपलक्षणार्थत्वात् तदविनाभाविरसादिग्रहणम् । ३ । तद्रूपं द्रव्यस्योपलक्षणत्वेनोपादीयते अतस्तदविनाभाविनो रसादयोऽपि गृह्यन्ते । १५यद्येवं तद्गतेषु सर्वेष्वनन्तेषु पर्यायेषु अवधेर्विषयनिबन्धः प्राप्नोतीति ? अत आह — असर्वपर्यायग्रहणानुवृत्तेर्न सर्वगतिः । ४ । ‘असर्वपर्यायेषु’ इत्येतद्ग्रहणमनुवर्तते । यथा ‘देवदत्ताय गौर्दीयतां जिनदत्ताय कम्बलः’ इति ‘दीयताम्’ इत्यभिसंबध्यते, एवमिहापि ‘अस- र्वपर्यायेषु’ इत्यभिसंबन्धान्न सर्वगतिर्भवति । ततो रूपिषु पुद्गलेषु प्रागुक्तद्रव्यादिपरिमाणेषु जीवपर्यायेषु औदयिकौपशमिकक्षायोपशमिकेषूत्पद्यतेऽवधिज्ञानम् रूपिद्रव्यसंबन्धात्, न क्षायिक- २०पारिणामिकेषु नापि धर्मास्तिकायादिषु तत्संबन्धाभावात् । अथ मनःपर्ययस्य को विषयनिबन्ध इति ? अत आह — तदनन्तभागे मनःपर्ययस्य ॥ २८ ॥ यद्रूपिद्रव्यं सर्वावधिज्ञानस्य विषयत्वेन समर्थितं तस्यानन्तभागीकृतस्यैकस्मिन् भागे मनःपर्ययः प्रवर्तते । २५‘अथान्ते यन्निर्दिष्टं केवलज्ञानं तस्य को विषयनिबन्ध’ इति ? अत आह — सर्वद्रव्यपर्यायेषु केवलस्य ॥ २९ ॥ अत्राह — किं द्रव्यम् ? स्वपर्यायान् द्रवति द्रूयते वा तैरिति द्रव्यम् । १ । आत्मनः पर्यायान् द्रवति गच्छतीति द्रव्यम् । बहुलापेक्षया कर्तरि साधुत्वम् । द्रूयते वा तैरिति द्रव्यम् । ३०कथञ्चिद्भेदसिद्धौ तत्कर्तृकर्मव्यपदेशसिद्धिः । २ । द्रव्यस्य पर्यायाणां च कथञ्चि- द्भेदे सति उक्तः कर्तृकर्मव्यपदेशः सिद्ध्यति । ८९ इतरथा हि तदप्रसिद्धिरत्यन्ताव्यतिरेकात् । ३ । यद्येकान्तेन एकत्वमवधार्येत तस्य कर्तृ- कर्मव्यपदेशाप्रसिद्धिः स्यात् । कुतः ? अत्यन्ताव्यतिरेकात् । न हि तदेव निर्विशेषमेकं शक्त्यन्तरापेक्षया विना कर्तृ कर्म च भवितुमर्हति । अथ कः पर्यायः ? तस्य मिथोभवनं प्रति विरोध्यविरोधिनां धर्माणामुपात्तानुपात्तहेतुकानां शब्दान्तरा- ०५त्मलाभनिमित्तत्वाद् अर्पितव्यवहारविषयोऽवस्थाविशेषः पर्यायः । ४ । मिथोभवनं प्रति केचिद्ध- र्मा विरोधिनः, केचिदविरोधिनः । तत्र जीवस्य तावदनादिपारिणामिकचैतन्यजीवद्रव्यभव्या- भव्योर्ध्वगतिस्वभावास्तित्वादिभिरौदयिकादयो भावा यथासंभवं युगपद्भावाद् अविरोधिनः । विरोधिनश्च नारकतैर्यग्योनदेवमनुष्य-स्त्रीपुंनपुंसकैकद्वित्रिचतुःपञ्चेन्द्रिय-बाल्यकौमार-कोप- प्रसादादयः सहानवस्थानात् । तथा पौद्गलिका अनादिपारिणामिकाः रूपरसगन्धस्पर्श- १०शब्दसामान्यास्तित्वादयः शुक्लादिपञ्चकतिक्तादिपञ्चकगन्धद्वयस्पर्शाष्टकशब्दषट्कपर्यायैः प्रत्येकमेकद्वित्रिचतुःपञ्चादिसंख्येयासंख्येयानन्तगुणपरिणामिभिर्यथासंभवं युगपद्भावाद् अविरो- धिनः । विरोधिनश्च शुक्लकृष्णनीलतिक्तकटुकसुरभीतरगन्धादयः प्रायोगिका वैश्रसिकाश्च परमाणुषु स्कन्धेषु च, सहानवस्थानात् । एवं धर्मास्तिकायादिष्वपि अमूर्तत्वाऽचेतनत्वाऽसंख्ये- यप्रदेशत्वगतिकारणस्वभावाऽस्तित्वादयोऽनन्तभेदागुरुलघुगुणहानिवृद्धिविकारैः स्वप्रत्ययैः पर- १५प्रत्ययैश्च गतिकारणत्वविशेषादिभिः अविरोधिनः परस्परविरोधिनश्च विज्ञेयाः । तेषु केचि- दुपात्तहेतुका द्रव्यक्षेत्रकालभावनिमित्ता औदयिकादयः । अनुपात्तहेतुकाश्च त्रिषु कालेष्ववि- कारिणः पारिणामिकाश्चैतन्यादयः । तेषां विरोध्यविरोधिनां धर्माणामुपात्तानुपात्तहेतुकानां शब्दान्तरात्मलाभस्य निमित्तत्वात् ‘चेतनो नारको बालः’ इति अर्पितव्यवहारविषयः इति व्यवहार-ऋजुसूत्रत्रिविधशब्दनयात्मकः, द्रव्यार्थिकानर्पणात् पर्यायार्थिकेनार्पितः तस्य २०विषयः, तस्य द्रव्यस्य अवस्थाविशेषः पर्याय इत्युच्यते । तयोरितरेतरयोगलक्षणो द्वन्द्वः । ५ । तयोरितरेतरयोगलक्षणो द्वन्द्वो वेदितव्यः । द्रव्याणि च पर्यायाश्च द्रव्यपर्याया इति । द्वन्द्वेऽन्यत्वं प्लक्षन्यग्रोधवदिति चेत्; न; तस्य कथञ्चिद्भेदेऽपि दर्शनाद् गोत्वगोपिण्डवत् । ६ । स्यान्मतम् — यदि द्वन्द्वः प्लक्षन्यग्रोधवदन्यत्वं द्रव्यपर्यायाणां प्राप्नोतीति; तन्न; कारणम् ? २५तस्य कथञ्चिद्भेदेऽपि दर्शनात् गोत्वगोपिण्डवत् । यथा ‘गोत्वं च गोपिण्डश्च गोत्वगोपिण्डौ’ इत्यनन्यत्वेऽपि द्वन्द्वो भवति तथा द्रव्यपर्यायेष्विति । ननु सामान्यविशेषयोरन्यत्वात् साध्य- सममेतदिति; नैषः; दोषः; उक्तमेतत् — अनन्यत्वं सामान्यविशेषयोः । द्रव्यग्रहणं पर्यायविशेषणं चेत्; न; आनर्थक्यात् । ७ । स्यादेतत् — ‘द्रव्याणां पर्याया द्रव्य- पर्यायाः’ इति द्रव्यग्रहणं पर्यायविशेषणमिति; तन्न; किं कारणम् ? आनर्थक्यात् । एवं ३०सति द्रव्यग्रहणमनर्थकं स्यात् । न ह्यद्रव्यस्य पर्यायाः सन्तीति । द्रव्याज्ञानप्रसङ्गाच्च । ८ । केवलेन पर्याया एव ज्ञायन्ते न द्रव्याणीति द्रव्याज्ञानं प्राप्नोति, उत्तरपदार्थप्रधानत्वात् । अथ मतमेतत् — सर्वेषु पर्यायेषु ज्ञातेषु न किञ्चदज्ञातमस्ति ततो व्यतिरिक्तस्य द्रव्यस्याभावात्; यद्येवं ‘द्रव्यग्रहणमनर्थकम्’ इत्युक्तं पुरस्तात् । तस्मात् ९० साधूक्तम् — ‘द्वन्द्वोऽयम्’ इति । ननु च द्वन्द्वेऽपि द्रव्यग्रहणमनर्थकं पर्यायव्यतिरेकेणाऽनुपलब्धेरिति; नैष दोषः; संज्ञास्वालक्षण्यादिभेदाद्भेदोपपत्तेः । अथ सर्वग्रहणं किमर्थं ननु बहुवचननिर्देशादेव बहुत्वसंप्रत्ययसिद्धेः ? सर्वग्रहणं निरवशेषप्रतिपत्त्यर्थम् । ९ । ये लोकालोकभेदभिन्नास्त्रिकालविषया द्रव्यपर्याया ०५अनन्ताः, तेषु निरवशेषेषु केवलज्ञानस्य विषयनिबन्ध इति प्रतिपत्त्यर्थं सर्वग्रहणम् । यावां- ल्लोकालोकस्वभावोऽनन्तः तावन्तोऽनन्तानन्ता यद्यपि स्युः, तानपि ज्ञातुमस्य सामर्थ्यमस्तीत्य- परिमितमाहात्म्यं तत् केवलज्ञानं वेदितव्यम् । आह — विषयनिबन्धोऽवधृतो मत्यादीनाम्, इदं तु न निर्ज्ञातमेकस्मिन्नात्मनि स्वनिमित्त- सन्निधानोपजनितवृत्तीनि ज्ञानानि यौगपद्येन कति भवन्तीति ? अत उच्यते — १०एकादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥ ३० ॥ एक इति कोऽयं शब्दः ? अनेकार्थसंभवे विवक्षातः प्राथम्यवचन एकशब्दः । १ । अयमेकशब्दोऽनेकस्मिन्नर्थे दृष्ट- प्रयोगः । क्वचित्संख्यायां वर्तते, ‘एको द्वौ बहवः’ इति । क्वचिदन्यत्वे, ‘एके आचार्याः — अन्ये आचार्याः’ इति । क्वचिदसहाये, ‘एकाकिनस्ते विचरन्ति वीराः’ इति । क्वचित्प्राथम्ये, १५‘एकमागमनम् — प्रथममागमनम्’ इति । क्वचित्प्राधान्ये, ‘एकहतां सेनां करोमि — प्रधानहतां सेनां करोमि’ इत्यर्थः । तत्रेह विवक्षातः प्राथम्यवचन एकशब्दो वेदितव्यः । आदिशब्दश्चावयववचनः । २ । आदिशब्दश्च । किम् ? अनेकार्थसंभवे विवक्षात इहा- वयववचनो वेदितव्यः । क्वचिद्व्यवस्थायां वर्तते, ‘ब्राह्मणादयश्चत्वारो वर्णाः’ — ब्राह्मणव्यवस्थाः ब्राह्मणक्षत्रियविट्शूद्राः’ इत्यर्थः । क्वचित्प्रकारे, ‘भुजङ्गादयः परिहर्तव्याः — भुजङ्गप्रकाराः २०विषवन्तः’ इत्यर्थः । क्वचित्सामीप्ये, ‘नद्यादीनि क्षेत्राणि — नदीसमीपानि’ इत्यर्थः । क्वचिदवयवे, ‘ऋगादिमधीते — ऋगवयवमधीते’ इत्यर्थः । तेनैतदुक्तं भवति — एकस्यादिरेकादिः प्रथमावयव इति । कस्य ? प्रथमस्य परोक्षस्य । कः पुनरवयवः ? मतिज्ञानम् । सामीप्यवचनो वा । ३ । अथवा, अयमादिशब्दः सामीप्यवचनो द्रष्टव्यः । तेन प्रथमस्य मतिज्ञानस्य श्रुतं समीपमित्युक्तं भवति । २५मतेर्बहिर्भावप्रसङ्ग इति चेत्; न; अनयोः सदाऽव्यभिचारात् । ४ । स्यादेतत् — एवं सति मतेर्बहिर्भावः प्राप्नोतीति; तन्न; किं कारणम् ? अनयोः सदाऽव्यभिचारात् । एते हि मतिश्रुते सर्वकालमव्यभिचारिणी नारदपर्वतवत् । तस्मादनयोरन्यतरग्रहणे इतरस्य ग्रहणं सन्निहितं भवति । ततोऽन्यपदार्थे वृत्तावेकस्यादिशब्दस्य निवृत्तिरुष्ट्रमुखवत् । ५ । यथा, ‘उष्ट्रस्य मुखमुष्ट्र- ३०मुखम्, उष्ट्रमुखवन्मुखमस्य’ इति वृत्तौ एकस्य मुखशब्दस्य निवृत्तिः, एवमिहापि ‘एकादि- रादिर्येषां तानीमान्येकादीनि’ इत्येकस्यादिशब्दस्य निवृत्तिः । ९१ अवयवेन विग्रहः समुदायो वृत्त्यर्थः । ६ । अवयवेन विग्रहः क्रियते, वृत्त्यर्थः समुदायो भवति । तेनैकादीन्यभ्यन्तरीकृत्य भाज्यानि अर्पयितव्यानीत्यर्थः । किं सर्वाणि ? न, इत्याह ‘आ चतुर्भ्यः’ । कुत एतत् ? केवलस्याऽसहायत्वादितरेषां च क्षयोपशमनिमित्तत्वाद्यौगपद्याभावः । ७ । यतः केवल- ०५ज्ञानं क्षायिकं तदसहायम्, इतराणि च ज्ञानानि क्षयोपशमनिमित्तानि, अतो विरोधा- द्युगपदसंभवः, तस्मादुच्यते ‘आ चतुर्भ्यः’ इति । नाभावोऽभिभूतत्वादहनि नक्षत्रवदिति चेत्; न; क्षायिकत्वात् । ८ । स्यादेतत् — नाभावः क्षायोपशमिकानां ज्ञानानां केवलिनि, किन्तु केवलज्ञानेन महताऽभिभूतानि स्वप्रयोजने न व्याप्रियन्ते भास्करप्रभाभिभूतनक्षत्रवदिति; तन्न; किं कारणम् ? क्षायिकत्वात् । संक्षीण- १०सकलज्ञानावरणे भगवत्यर्हति कथं क्षायोपशमिकानां ज्ञानानां संभवः । न हि परिप्राप्तसर्व- शुद्धौ पदे प्रदेशाऽशुद्धिरस्ति । इन्द्रियवत्त्वादिति चेत्; न; आर्षार्थानवबोधात् । ९ । स्यादेतत् — एवमागमः प्रवृत्तः *“पञ्चेन्द्रिया असंज्ञिपञ्चेन्द्रियादारभ्य आ अयोगिकेवलिनः”[षट्खंº] इति । अत इन्द्रिय- वत्त्वात्तत्कार्येणापि ज्ञानेन भवितव्यमिति; तन्न; किं कारणम् ? आर्षार्थानवबोधात् । आर्षे १५हि सयोग्ययोगिकेवलिनोः पञ्चेन्द्रियत्वं द्रव्येन्द्रियं प्रति उक्तं न भावेन्द्रियं प्रति । यदि हि भावेन्द्रियमभविष्यत्, अपि तु तर्हि असंक्षीणसकलावरणत्वात् सर्वज्ञतैवास्य न्यवर्तिष्यत । तस्मादेतदुक्तं भवति — एकस्मिन्नात्मनि द्वे मतिश्रुते, क्वचित् त्रीणि मतिश्रुतावधिज्ञानानि, मति — श्रुतमनःपर्ययज्ञानानि वा, क्वचिच्चत्वारि मतिश्रुतावधिमनःपर्ययज्ञानानि, न पञ्चैकस्मिन् युगपत् संभवन्ति । २०संख्यावचनो वैकशब्दः । १० । अथवा, संख्यावचनोऽयमेकशब्दः । एकमादिर्येषां तानी- मान्येकादीनि । कथम् ? मतिज्ञानमेकस्मिन्नात्मनि एकम्, यदक्षरश्रुतं द्व्यनेकद्वादशभेदमुपदेश- पूर्वकं तद्भजनीयम् — स्याद्वा न वेति । इतरत् पूर्ववत् । अपर आह — संख्याऽसहायप्राधान्यवचने एकशब्दे सति एकादीनि केवलादीनीत्यर्थः । एकस्मिन्नात्मन्येकं केवलज्ञानं क्षायिकत्वात् । द्वे मतिश्रुते इत्यादि पूर्ववत् । २५अथोक्तानि मत्यादीनि ज्ञानव्यपदेशमेव लभन्त उताऽन्यथापीति ? अत आह — मतिश्रुतावधयो विपर्ययश्च ॥ ३१ ॥ विपर्ययो मिथ्येत्यर्थः । कुतः ? सम्यगधिकारात् । चशब्दः समुच्चयार्थः । विपर्ययश्च सम्यक् चेति । कुतः पुनरेषां विपर्ययः ? मिथ्यादर्शनपरिग्रहान्मत्यादिविपर्ययः । १ । योऽसौ दर्शनमोहनीयोदये सति मिथ्यादर्शन- ३०परिणामः तेन सहैकार्थसमवायात् मत्यादीनां विपर्ययो भवति । ननु च मणिकनकादीनां वर्चोगृहगतानामपि स्वभावविनाशो न भवति तद्वन्मत्यादीनामपि स्यात्; नैष दोषः; ९२ सरजसकटुकालाबूगतदुग्धवत् स्वगुणविनाशः । २ । यथा सरजसकटुकालाबूभाजने निहितं दुग्धं स्वगुणं परित्यजति तथा मत्यादीन्यपि मिथ्यादृष्टिभाजनगतानि दुष्यन्तीति । आधारस्य दोषाद्धि आधेयस्य दोषो जायते । ननु च नायमेकान्तः, उक्तमेतत् — ‘मणिकनकादयो वर्चोगृहगता अपि स्वभावं न त्यजन्ति’ ०५इति; तत्र कथमेतदध्यवसीयते — अलाबूदुग्धवद् दुष्यन्ति मत्यादीनि न पुनर्मण्यादिवन्न दुष्यन्तीति ? परिणामकशक्तिविशेषात् । ३ । परिणामकस्य हि वस्तुनः शक्तिविशेषादन्यथाभावो भवति । यथा अलाबूद्रव्यं दुग्धं विपरिणामयितुं शक्नोति तथा मिथ्यादर्शनमपि मत्यादीनामन्य- थात्वं कर्तुमलं तदुदये अन्यथानिरूपणदर्शनात् । वर्चोगृहं तु मण्यादीनां विकारं नोत्पादयितु- १०मलम्, विपरिणामकद्रव्यसन्निधाने तेषामपि भवत्येवान्यथात्वम्, यदा तु सम्यग्दर्शनं प्रादुर्भूतं तदा मिथ्यापरिणामदर्शनाभावात् (मिथ्यादर्शनपरिणामाभावात्) तेषां मत्यादीनां सम्यक्त्वम्, अतः सम्यग्दर्शनमिथ्यादर्शनोदयविशेषात्तेषां त्रयाणां द्विधा क्लृप्तिर्भवति — मतिज्ञानं मत्यज्ञानं श्रुतज्ञानं श्रुताऽज्ञानम् अवधिज्ञानं विभङ्गज्ञानमिति । अत्राह — रूपादिविषयोपलब्धिव्यभिचाराभावाद्विपर्ययाभावः । यथैव मतिज्ञानेन सम्य- १५ग्दृष्टयो रूपादीनुपलभन्ते तथा मिथ्यादृष्टयोऽपि मत्यज्ञानेन । यथैव घटादिषु रूपादीन् श्रुतेन निश्चन्वन्त्युपदिशन्ति च परेभ्यः तथा श्रुताज्ञानेनापि । यथैवावधिना रूपिणोऽर्थानवयन्ति तथा विभङ्गेनापीति । तस्मान्नास्ति विपर्यय इति । अत आह — सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवत् ॥ ३२ ॥ सच्छब्दस्यानेकार्थसंभवे विवक्षातः प्रशंसार्थग्रहणम् । १ । ‘अयं सच्छदोऽनेकार्थः’ इति २०व्याख्यातः । तस्येह विवक्षातः प्रशंसार्थस्य ग्रहणं वेदितव्यम् — प्रशस्तं तत्त्वज्ञानमित्यर्थः । असदज्ञानम् । तयोः सदसतोः । अविशेषेण यदृच्छयोपलब्धेर्विपर्ययो भवति । कथम् ? उन्मत्तवत् । यथा उन्मत्तो दोषोदयादुपहतेन्द्रियमतिः विपरीतग्राही भवति, सः अश्वं ‘गौः’ इत्यध्यवस्यति, गां वा ‘अश्वः’ इति, लोष्टं ‘सुवर्णम्’ इति, सुवर्णं च लोष्टमिति, लोष्टं लोष्टमिति, सुवर्णं सुवर्णमिति, तस्यैवमविशेषेणाध्यवस्यतोऽज्ञानमेव भवति, तद्वत् मिथ्यादर्शनोपहतेन्द्रियमते- २५र्मतिश्रुतावधयोऽप्यज्ञानमेव भवन्तीति । भवत्यर्थग्रहणं वा । २ । अथवा, सच्छब्दोऽयं भवत्यर्थे वेदितव्यः । सद्विद्यमानमित्यर्थः, असदविद्यमानम्, तयोरविशेषेण यदृच्छोपलब्धेः विपर्ययो भवति — कदाचिद्रूपादि सदप्यसदिति प्रतिपद्यते असदपि सदिति । कदाचित्तु सत्सदेव असदप्यसदेवेति । कुतः ? प्रवादिपरिकल्पनाभेदाद्विपर्ययग्रहः । ३ । प्रवादिनां कल्पनाभेदात् विपर्ययग्रहो भवति । ३०तद्यथा केचित्तावदाहुः — ‘द्रव्यमेव न रूपादयः’ इति । अपर आहुः — ‘रूपादय एव न द्रव्यम्’ इति । अपरेषां दर्शनम् — ‘अन्यद् द्रव्यमन्ये च रूपादयः’ इति । कथमेषां विपर्ययग्रहः ? उच्यते — यदि द्रव्यमेव न रूपादयः; लक्षणाभावाल्लक्ष्यानवधारणप्रसङ्गः । किञ्च, इन्द्रियेण सन्नि- कृष्यमाणं द्रव्यं रूपाद्यभावे सर्वात्मना सन्निकृष्येत, ततः सर्वात्मना ग्रहणप्रसङ्गः, करण- ९३ भेदाभावप्रसङ्गश्च । न चासौ दृष्ट इष्टो वा । अथ रूपादय एव न द्रव्यम्; एवमपि निराधा- रत्वादभावप्रसङ्गः । किञ्च, परस्परविलक्षणानां रूपादीनां समुदयेऽपि सति एकानर्थान्तरभावात् समुदयस्य सर्वाभावः परस्परतोऽर्था(तोऽनर्था)न्तरभूतत्वात् । अथ ह्यन्यद् द्रव्यं अन्ये रूपादयः; एवमपि ०५तेषां लक्ष्यलक्षणभावाभावः परस्परतोऽर्थान्तरभूतत्वात् । दण्डिदण्डवत् लक्ष्यलक्षणभाव इति चेत्; न; वैषम्यात् । पृथक्सतोर्लक्ष्यलक्षणभावो युक्तो नासतोरिति । किञ्च, रूपादिषु गुणेष्वमूर्तेषु द्रव्यादर्थान्तरभूतेषु नेन्द्रियसन्निकर्षो युक्तः, ततश्च ज्ञानाभावः । न चार्थान्तरभूतं द्रव्यं कारणं भवितुमर्हति । किञ्च, मूलकारणविप्रतिपत्तेः । ४ । एषां घटरूपादीनां मूलकारणे प्रवादिनां विप्रतिपत्तिः । १०तद्यथा, केचिदाहुः — ‘अव्यक्तान्महदहङ्कारतन्मात्रेन्द्रियमहाभूतमृत्पिण्डादिविवृत्तिक्रमेण घटादे- र्विश्वरूपस्य जगत उत्पादः’ इति; तदयुक्तम्; न हि प्रधानस्य अमूर्तत्वनिरवयवत्वनिष्क्रियत्वा- ऽतीन्द्रियत्वानन्त्यनित्यत्वापरप्रयोज्यत्वादिविशेषोपेतस्य तद्विलक्षणो घटादिः कार्यो भवितुमर्हति, अदृष्टत्वात् । न वा अपरप्रयोज्यस्य प्रधानस्य स्वयमभिप्रायरहितस्य अभिप्रायपूर्वकप्रसवक्रमो युक्तः । पुरुषस्तावन्निष्क्रियत्वान्न महदादिसर्गार्थं प्रधानं प्रयुङ्क्ते; स्वयं निष्क्रियत्वात् प्रधानं १५नात्मानं महदादिसर्गार्थं प्रयोक्तुमर्हति । न हि स्वयं गतिविकलः पङ्गुरात्मानमेवावष्टभ्यो- त्थाय गच्छन् दृष्टः । किञ्च, अप्रयोजनस्य प्रधानस्य महदादिसर्गो न युक्तिमान् । पुरुषभोगः प्रयोजनमिति चेत्; न; स्वार्थाभावात्, नित्यस्य विभोरात्मनः भोगपरिणामाभावाच्च । किञ्च, अचेतनत्वात् । इह लोके चेतनश्चैत्र ओदनार्थी क्रियाफलसाधनज्ञः तदर्थेष्वग्निसन्धुक्षणादिषु प्रवर्तमानो दृष्टः, न च तथा प्रधानं चेतनम्, अतोऽस्य महदादिक्रियाप्रसवक्रमाभावः । न च २०पुरुषस्तस्य क्रमस्य प्रयोजकः; निष्क्रियत्वात् । अपर आहुः — ‘परमाणुभ्यः प्रतिनियतपार्थिवादिजातिविशिष्टेभ्योऽदृष्टादिहेतुसन्निधाने सति संहतेभ्योऽर्थान्तरभूतघटादिकार्यात्मलाभः’ इति; तदप्ययुक्तम्; नित्यत्वादणूनां कार्यारम्भ- शक्त्यभावात् । सति चारम्भे नित्यत्वहानेः । नचार्थान्तरभूतस्य कार्यस्यारम्भो युक्तः; व्यतिरेकानुपलब्धेः, उपलब्धौ चाणुमहत्त्वाभावः । न च जातिप्रतिनियमोऽस्ति; भिन्न- २५जातीयानामप्यारम्भदर्शनात् । भिन्नजातीयेषु समुदायमात्रमिति चेत्; तुल्यजातीयेष्वपि तत्प्रसङ्गः । न चात्मनो घटाद्यारम्भे कर्तृत्वमुपपन्नम्; निष्क्रियत्वान्नित्यत्वाच्च । नाप्यात्म- गुणस्यादृष्टादेः; निष्क्रियत्वादेव । न च निष्क्रियोऽर्थान्तरे क्रियाहेतुर्दृष्टः । अन्ये मन्यन्ते — ‘वर्णादिपरमाणुसमुदयात्मका रूपपरमाणवोऽतीन्द्रियाः समुदिताः सन्तः इन्द्रियग्राह्यत्वमनुभूय घटादिकार्यात्मलाभहेतुत्वं प्रतिपद्यन्ते’ इति; तदप्ययुक्तम्; प्रत्येकं ३०रूपपरमाणूनामतीन्द्रियत्वात्ततोऽनन्यस्य कार्यस्याप्यतीन्द्रियत्वप्रसङ्गात्, ततश्च दृश्यविषय- ९४ प्रमाणप्रमाणाभासविकल्पाभावः । कार्याभावाच्च तल्लिङ्गस्य कारणस्याप्यभावः । किञ्च, क्षणिकत्वान्निष्क्रियत्वाच्च कार्यारम्भाभावः, विविक्तशक्तीनां परस्पराभिसंबन्धाभावश्च । न चान्योऽर्थश्चेतनस्तेषां संबन्धस्य कर्तास्ति, तदभावात्संबन्धाभावः । एवमन्येष्वपि प्रवादिषु सत्यसदिति असत्यपि सदिति विपर्ययो मिथ्यादर्शनोदयवशाद्वेदितव्यः पित्तोदयाकुलितरसने- ०५न्द्रियविपर्ययवत् । ततो यदुक्तम् — ‘रूपादिविषयोपलब्धिव्यभिचाराभावान्न मिथ्यादृष्टेर्ज्ञान- त्रयमज्ञानम्’ इति; तदसम्यक् । व्याख्यातं ज्ञानं लक्षणादिभिः । इदानीं चारित्रं निर्देष्टव्यं तदुल्लङ्घ्य नया उच्यन्ते । कस्मात् ? मोक्षविधाने तस्य वक्ष्यमाणत्वात् । कुतः पुनस्तन्मोक्षविधौ वक्ष्यते इति चेत् ? मोक्षं प्रति प्रधानकारणत्वात् । किंकृतं प्राधान्यम् ? कृत्स्नकर्मेन्धननिर्दहनकृतम् । यत आत्मा १०व्युपरतक्रियाध्यानाविर्भूतात्मबलः कृत्स्नकर्मेन्धननिर्दहनसमर्थो भवति, नतु क्षायिक- सम्यक्त्वकेवलज्ञानोपेतोऽपि । यदि स्यात्; क्षायिकसम्यक्त्वकेवलज्ञानोत्पत्त्यनन्तरमेव कृत्स्न- कर्मक्षयः स्यात्, व्युपरतक्रियाध्यानोत्पत्त्यनन्तरमेव भवति । तच्चोत्तमं चारित्रम्, *“कर्मादानहेतुक्रियाव्युपरतिश्चारित्रम्” इति वचनात् । यदीह तदुच्येत मोक्ष- विधानेऽपि तद्वक्तव्यमिति गौरवं स्यात् । एवमपि जीवादयो निर्देष्टव्या उच्यन्ते । प्रमाणं १५व्याख्यातम् । प्रमाणैकदेशा नयाः *“प्रमाणनयैरधिगमः”[तº सूº१ । ६] इति वचनात्, तदनन्तरवचनार्हा नयाः । यद्येवं के ते नया इति ? अत आह — नैगमसंग्रहव्यवहारर्जुसूत्रशब्दसमभिरूढैवम्भूता नयाः ॥ ३३ ॥ शब्दापेक्षयैकादिसंख्येयविकल्पा नयाः । तत्रातिसंक्षेपादप्रतिपत्तिः, अतिविस्तरे चाल्प- प्रज्ञानामननुग्रह इति मध्ययया प्रतिपत्त्या सप्त नया अत्रोच्यन्ते । तेषां सामान्यविशेषलक्षणं २०वक्तव्यम् । तत्र सामान्यलक्षणमुच्यते — प्रमाणप्रकाशिताऽर्थविशेषप्ररूपको नयः । १ । प्रकर्षेण मानं प्रमाणं सकलादेशि इत्यर्थः, तेन प्रकाशितानां न प्रमाणाभासपरिगृहीतानामित्यर्थः, तेषामर्थानाम् अस्तित्वनास्तित्वनित्यत्वा- नित्यत्वाद्यनन्तात्मनां जीवादीनां ये विशेषाः पर्यायास्तेषां प्रकर्षेण रूपकः प्ररूपकः निरुद्धदोषा- नुषङ्गद्वारेणेत्यर्थः । एवंलक्षणो नयः । २५तस्य द्वौ मूलभेदौ द्रव्यास्तिकः पर्यायास्तिक इति । द्रव्यमस्तीति मतिरस्य द्रव्य- भवनमेव नातोऽन्ये भावविकाराः, नाप्यभावः तद्व्यतिरेकेणानुपलब्धेरिति द्रव्यास्तिकः । ९५ पर्याय एवास्ति इति मतिरस्य जन्मादिभावविकारमात्रमेव भवनं न ततोऽन्यद् द्रव्य- मस्ति तद्व्यतिरेकेणानुपलब्धेरिति पर्यायास्तिकः । अथवा, द्रव्यमेवार्थोऽस्य न गुणकर्मणी तदवस्थारूपत्वादिति द्रव्यार्थिकः । पर्याय एवार्थोऽस्य रूपाद्युत्क्षेपणादिलक्षणो न ततोऽन्यद् द्रव्यमिति पर्यायार्थिकः । अथवा अर्यते गम्यते निष्पाद्यत इत्यर्थः कार्यम् । द्रवति गच्छतीति ०५द्रव्यं कारणम् । द्रव्यमेवार्थोऽस्य कारणमेव कार्यं नार्थान्तरम्, न च कार्यकारणयोः कश्चिद्रूपभेदः तदुभयमेकाकारमेव पर्वाङ्गुलिद्रव्यवदिति द्रव्यार्थिकः । परि समन्तादायःपर्यायः । पर्याय एवार्थः कार्यमस्य न द्रव्यम् अतीतानागतयोर्विनष्टानुत्पन्नत्वेन व्यवहाराभावात्, स एवैकः कार्यकारण- व्यपदेशभागिति पर्यायार्थिकः । अथवा, अर्थनमर्थः प्रयोजनम्, द्रव्यमेवार्थोऽस्य प्रत्ययाभिधाना- नुप्रवृत्तिलिङ्गदर्शनस्य निह्नोतुमशक्यत्वादिति द्रव्यार्थिकः । पर्यायोऽर्थः प्रयोजनमस्य वाग्- १०विज्ञानव्यावृत्तिनिबन्धनव्यवहारप्रसिद्धेरिति पर्यायार्थिकः । तद्भेदा नैगमादयः । एषां विशेषलक्षणमुच्यते — अर्थसंकल्पमात्रग्राही नैगमः । २ । निगच्छन्ति तस्मिन्निति निगमनमात्रं वा निगमः, निगमे कुशलो भवो वा नैगमः । तस्य लोके व्यापारः अर्थसंकल्पमात्रग्रहणं प्रस्थेन्द्रगृहगम्यादिषु । तद्यथा — कश्चित् प्रगृह्य परशुं पुरुषं गच्छन्तमभिसमीक्ष्याह ‘किमर्थं गच्छति भवान्’ इति ? स १५तस्मै आचष्टे प्रस्थार्थमिति । एवमिन्द्रगृहादावपि । तथा ‘कतरोऽत्र गमी’ इत्युक्ते आचष्टे — ‘अहं गमी’ इति, संप्रत्यगच्छत्यपि गमीति व्यवहारः । एवं प्रकारोऽन्योऽपि नैगमनयस्य विषयः । भाविसंज्ञाव्यवहार इति चेत्; न; भूतद्रव्यासन्निधानात् । ३ । स्यादेतत् — नायं नैगमनय- विषयः भाविसंज्ञाव्यवहार इति; तन्न; किं कारणम् ? भूतद्रव्यासन्निधानात् । भूतं हि कुमार- तण्डुलादिद्रव्यमाश्रित्य राजौदनादिका भाविनी संज्ञा प्रवर्तते, न च तथा नैगमनयविषये २०किञ्चिद् भूतं द्रव्यमस्ति यदाश्रया भाविनी संज्ञा विज्ञायेत । उपकारानुपलम्भात् संव्यवहारानुपपत्तिरिति चेत्; न; अप्रतिज्ञानात् । ४ । स्यादेतत् — नगमनयवक्तव्ये उपकारो नोपलभ्यते, भाविसंज्ञाविषये तु राजादावुपलभ्यते, ततो नायं युक्त इति; तन्न; किं कारणम् ? अप्रतिज्ञानात् । नैतदस्माभिः प्रतिज्ञातम् — ‘उपकारे सति भवित- व्यम्’ इति । किं तर्हि ? अस्य नयस्य विषयः प्रदर्श्यते । अपि च, उपकारं प्रत्यभिमुखत्वा- २५दुपकारवानेव । स्वजात्यविरोधेनैकत्वोपनयात् समस्तग्रहणं संग्रहः । ५ । बुद्ध्यभिधानानुप्रवृत्तिलिङ्गं सा- दृश्यं स्वरूपानुगमो वा जातिः, सा चेतनाचेतनाद्यात्मिका शब्दप्रवृत्तिनिमित्तत्वेन प्रतिनियमात् स्वार्थव्यपदेशभाक् । स्वा जातिः स्वजातिः, अप्रच्यवनमविरोधः, स्वजातेरविरोधः स्वजात्य- विरोधस्तेन स्वजात्यविरोधेन एकत्वोपनयात् । केषाम् ? भेदानाम् । समस्तग्रहणं संग्रहो यथा ३०सद् द्रव्यं घट इत्यादि । ‘सत्’ इत्युक्ते सत्तासंबन्धार्हाणां द्रव्यपर्यायतद्भेदप्रभेदानां तदव्यतिरे- कात् तेनैकत्वेन संग्रहः । ‘द्रव्यम्’ इति चोक्ते जीवाजीवतद्भेदप्रभेदानां द्रव्यत्वाविरोधात्तेनैक- त्वेन संग्रहः । ‘घटः’ इति चोक्ते नामादिभेदात् मृत्सुवर्णादिकारणविशेषाद् वर्णसंस्थानादिवि- ९६ काराच्च भिन्नानां घटशब्दवाच्यानां तदव्यतिरेकादेकत्वेन संग्रहः । एवमितरेष्वपीति । तत्राभिधानप्रत्ययौ सामान्यं निराकृतविशेषभावात् । आह — सत्ताद्यर्थान्तरभूतमस्ति, तदभिसंबन्धात् सदादिव्यपदेश इति; तन्न; उभयथाऽनुप- पत्तेः । इदमिह संप्रधार्यम् — सत्तासंबन्धात्प्राग् द्रव्यादिषु सदित्यभिधानं प्रत्ययश्च स्याद्वा, ०५न वेति ? यदि स्यात्; सत्तासंबन्धवैयर्थ्यं प्रकाशितप्रकाशनवैयर्थ्यवत्, सत्ताद्वयप्रसङ्गश्च — एका आभ्यन्तरी अपरा बाह्येति । अतश्च समयविरोधः — *“सल्लिङ्गाविशेषाद्विशेषलिङ्गा- भावाच्चैको भावः”[वैº सूº १ । २ । १७] इति । अथ नास्ति; खरविषाणादिष्वतिप्रसङ्गः । समवायकृतोऽयं विशेष इति चेत्; न; तस्य प्रतिषिद्धत्वात् । किञ्च, सत्तायाः सदिति व्यपदेशस्य सत्तान्तरहेतुकत्वाहेतुकत्वयोः अनवस्थाप्रतिज्ञाहानि- १०दोषप्रसङ्गः । अथ पदार्थशक्तिप्रतिनियमाद् द्रव्यादिषु सदिति व्यपदेशो निमित्तान्तरहेतुकः, सत्तायां स्वत एवेति चेत्; संसर्गवादत्यागः, इच्छामात्रकल्पनाप्रसङ्गश्च । किञ्च, सत्तादेः पदार्थान्तरस्य द्रव्यादिषु वृत्तिः सोऽस्येति वा स्यात्, सोऽयमिति वा ? यदि सोऽस्येति वृत्तिः; मत्त्वर्थीयेन भवितव्यम् ‘सत्तावद्द्रव्यम्’ इति, यथा गोमान् यवमानिति, अतो मत्त्वर्थस्य(वतोर्मत्त्वर्थस्य) भावार्थस्य च निवृत्तिर्वक्तव्या । अथसोऽयमित्यभिसंबन्धेन १५वृत्तिः; ‘सत्ता द्रव्यम्’ इति प्राप्नोति यथा ‘यष्टिः पुरुषः’ इति, न ‘सद्द्रव्यम्’ इति, तत्र भावार्थस्य निवृत्तिर्वक्तव्या । किञ्च, दृष्टान्ताभावात् । न ह्येकं किञ्चिदनेकसंबन्धि दृष्टं यदभिसमीक्ष्य सत्तैका अनेकसंबन्धिनी गम्येत । नीलीद्रव्यवदिति चेत्; न; न तस्यानेकत्वात् । नीलीत्ववदिति चेत्; न; तस्यासिद्धत्वात् । २०अतो विधिपूर्वकमवहरणं व्यवहारः । ६ । एतस्माद् अतः । कुतः । संग्रहात् संग्रहनयाक्षि- प्तानामर्थानां विधिपूर्वकमवहरणं व्यवहारः । को विधिः ? संग्रहगृहीतोऽर्थस्तदानुपूर्व्येणैव व्यवहारः प्रवर्तते इत्ययं विधिः । तद्यथा — सर्वसंग्रहेण सत् संगृहीतम्, तच्चानपेक्षितविशेषं नालं संव्यवहारायेति व्यवहारनय आश्रीयते — यत्सत्तद् ‘द्रव्यं गुणो वा’ इति । द्रव्येणापि च संग्रहा- क्षिप्तेन जीवाजीवाविशेषानपेक्षेण न शक्यः संव्यवहार इति ‘जीवद्रव्यमजीवद्रव्यम्’ इति वा २५व्यवहार आश्रीयते । जीवाजीवावपि च संग्रहाक्षिप्तौ नालं संव्यवहारायेति प्रत्येकं देवनार- कादिर्घटादिश्च व्यवहारेणाश्रीयते । ‘कषायो भैषज्यम्’ इत्युक्ते च सामान्यस्य विशेषात्मकत्वात् नैयग्रोधादिविशेषसामर्थ्यम्(विशेषस्य सामर्थ्येन ग्रहणम्) । नहि शक्यः प्रभुणापि चक्रभृता सर्वः कषायसमाहारः कर्तुम् । नामस्थापनाद्रव्याणि च संग्रहोपात्तानि नालं व्यवहारायेति भाव एव गृह्यते । एवमयं नयस्तावद्वर्तते यावत्पुनर्नास्ति विभागः । ३०सूत्रपातवदृजुत्वात् ऋजुसूत्रः । ७ । यथा ऋजुःसूत्रपातस्तथा ऋजु प्रगुणं सूत्रयति तन्त्रयति ऋजुसूत्रः । पूर्वांस्त्रिकालविषयानतिशय्य वर्तमानकालविषयमादत्ते । अतीतानागतयोर्विन- ष्टानुत्पन्नत्वेन व्यवहाराभावात् । समयमात्रमस्य निर्दिधिक्षितम् । ९७ ‘कषायो भैषज्यम्’ इत्यत्र च संजातरसः कषायो भैषज्यं न प्राथमिककषायोऽल्पोऽन- भिव्यक्तरसत्वादस्य विषयः । पच्यमानः पक्वः । पक्वस्तु स्यात्पच्यमानः स्यादुपरतपाक इति । असदेतत्; विरोधात् । ‘पच्यमानः’ इति वर्तमानः ‘पक्वः’ इत्यतीतः तयोरेकस्मिन्नवरोधो विरोधीति; नैष दोषः; ०५पचनस्यादावविभागसमये कश्चिदंशो निर्वृत्तो वा, न वा ? यदि न निर्वृत्तः; तद्द्वितीयादि- ष्वप्यनिर्वृत्तेः पाकाभावः स्यात् । ततोऽभिनिर्वृत्तः तदपेक्षया ‘पच्यमानः पक्वः, ’ इतरथा हि समयस्य त्रैविध्यप्रसङ्गः । स एवौदनः पच्यमानः पक्वः, स्यात्पच्यमान इत्युच्यते पक्तुरभिप्रा- यस्यानिर्वृत्तेः, पक्तुर्हि सुविशदसुस्विन्नौदने पक्वाभिप्रायः, स्यादुपरतपाक इति चोच्यते कस्यचित् पक्तुस्तावतैव कृतार्थत्वात् । १०एवं क्रियमाणकृत-भुज्यमानभुक्त-बध्यमानबद्ध-सिध्यत्सिद्धादयो योज्याः । तथा प्रतिष्ठन्तेऽस्मिन्निति प्रस्थः, यदैव मिमीते, अतीतानागतधान्यमानासंभवात् । कुम्भकाराभावः शिविकादिपर्यायकरणे तदभिधानाभावात् । कुम्भपर्यायसमये च स्वावयवेभ्य एव निर्वृत्तेः । स्थितप्रश्ने च ‘कुतोऽद्यागच्छसि’ इति ? न ‘कुतश्चित्’ इत्ययं मन्यते, तत्कालक्रिया- १५परिणामाभावात् । यमेवाकाशदेशमवगाढुं समर्थ आत्मपरिणामं वा तत्रैवास्य वसतिः । न कृष्णः काकः, उभयोरपि स्वात्मकत्वात् — कृष्णः कृष्णात्मको न काकात्मकः । यदि काकात्मकः स्यात्; भ्रमरादीनामपि काकत्वप्रसङ्गः । काकश्च काकात्मको न कृष्णात्मकः । यदि कृष्णात्मकः; शुक्लकाकाभावः स्यात् । पञ्चवर्णत्वाच्च, पित्तास्थिरुधिरादीनां पीतशुक्ल- २०रक्तादिवर्णत्वात्, तद्व्यतिरेकेण काकाभावाच्च । न सामानाधिकरण्यम् — एकस्य पर्यायेभ्यो- ऽनन्यत्वात्पर्याया एव विविक्तशक्तयो द्रव्यं नाम न किञ्चिदस्तीति । कृष्णगुणप्राधान्यादिति चेत्; न; आस्तरकादिष्वतिप्रसङ्गात्, कषायमधुरे च मधुनि विरोधात् । अप्रत्यक्षे चाख्याय- माने संशयदर्शनात् । कृष्णकाकविशेषज्ञेन केनचिद् द्वीपान्तरनिवासिन्यनुपलब्धकृष्णकाकविशेषे पुरुषे प्रतिपाद्यमाने संशयो जायते ‘किमयं काकस्य कार्ष्ण्यं गुणप्राधान्यादाचष्टे, द्रव्यस्यैव वा २५तथा परिणामात्’ इति ? अतः पलालादिदाहाभावः प्रतिविशिष्टकालपरिग्रहात् । अस्य हि नयस्याविभागो वर्तमान- समयो विषयः । अग्निसंबन्धनदीपनज्वलनदहनानिअसंख्येयसमयान्तरालानि यतोऽस्य दह- नाभावः । किञ्च, यस्मिन् समये दाहः न तस्मिन् पलालम्, भस्मताभिनिर्वृत्तेः, यस्मिंश्च पलालं न तस्मिन् दाह इति । यत्पलालं तद्दहतीति चेत्; न; सावशेषात् । समुदायाभिधायिनां ३०शब्दानामवयवेषु वृत्तिदर्शनाददोष इति चेत्; न; तदवस्थत्वात्, एकदेशदाहाभावस्योक्तत्वात् । ९८ निरवशेषदाहासंभवादिति चेत्; न; वचनविरोधात् तदवस्थत्वाच्च । वचनविरोधस्तावत् — यदि निरवशेषस्य पलालस्य दाहस्यासंभव इत्येकदेशदाहात् पलालदाहो नादाहः; ननु भव- द्वचनस्य निरवशेषपरपक्षदूषकत्वाभावात् परपक्षैकदेशस्य दूषकत्वम्, अतः एकदेशदूषकत्वात् कृत्स्नमपीदं दूषकमेवेत्यस्य साधकत्वसामर्थ्याभाव इति । तदवस्थत्वमपि ‘एकसमये दाहाभावः’ ०५इत्युक्तत्वात् । अवयवानेकत्वे यद्यवयवदाहात् सर्वत्र दाहोऽवयवान्तराऽदाहात् ननु सर्वदाहा- भावः । अथ दाहः सर्वत्र; कस्मान्नाऽदाहः ? अतो न दाहः । एवं पानभोजनादिव्यवहाराभावः । न शुक्लः कृष्णीभवति; उभयोर्भिन्नकालावस्थत्वात्, प्रत्युत्पन्नविषये निवृत्तपर्यायान- भिसंबन्धात् । सर्वसंव्यवहारलोप इति चेत्; न; विषयमात्रप्रदर्शनात्, पूर्वनयवक्तव्यात् संव्यव- हारसिद्धिर्भवति । १०शपत्यर्थमाह्वयति प्रत्याययतीति शब्दः । ८ । उच्चरितः शब्दः कृतसंगीतेः पुरुषस्य स्वाभिधेये प्रत्ययमादधाति इति शब्द इत्युच्यते । स च लिङ्गसंख्यासाधनादिव्यभिचारनिवृत्तिपरः । ९ । लिङ्गं स्त्रीत्वपुंस्त्वनपुंसकत्वानि । संख्या एकत्वद्वित्वबहुत्वानि । साधनमस्मदादि । एवमादीनां व्यभिचारो न न्याय्य इति तन्नि- वृत्तिपरोऽयं नयः । तद्यथा, लिङ्गव्यभिचारस्तावत् — स्त्रीलिङ्गे पुल्लिङ्गाभिधानं तारका स्वाति- १५रिति । पुल्लिङ्गे स्त्र्यभिधानम् अवगमो विद्येति । स्त्रीत्वे नपुंसकाभिधानम् वीणा आतोद्य- मिति । नपुंसके स्त्र्यभिधानम् आयुधं शक्तिरिति । पुल्लिङ्गे नपुंसकाभिधानं पटो वस्त्रमिति । नपुंसके पुल्लिङ्गाभिधानं द्रव्यं परशुरिति । संख्याव्यभिचारः — एकत्वे द्वित्वम्, नक्षत्रं पुनर्वसू इति । एकत्वे बहुत्वम् — नक्षत्रं शतभिषज इति । द्वित्वे एकत्वम् — गोदौ ग्राम इति । द्वित्वे बहुत्वम् — पुनर्वसू पञ्चतारका इति । बहुत्वे एकत्वम् — आम्राः वनमिति । बहुत्वे द्वित्वम् — देव- २०मनुष्या उभौ राशी इति । साधनव्यभिचारः — एहि, मन्ये रथेन यास्यसि, नहि यास्यसि यातस्ते पितेति । आदिशब्देन कालादिव्यभिचारो गृह्यते । विश्वदृश्वाऽस्य पुत्रो जनिता, भावि कृत्य- मासीदिति कालव्यभिचारः । संतिष्ठते प्रतिष्ठते विरमत्युपरमतीतिउपग्रहव्यभिचारः । एवमादयो व्यभिचारा अयुक्ताः । कुतः ? अन्यार्थस्याऽन्यार्थेन संबन्धाभावात् । यदि स्यात्; घटः पटो भवतु पटो वा प्रासाद इति । तस्माद्यथालिङ्गं यथासंख्यं यथासाधनादि च न्याय्य- २५मभिधानम् । लोकसमयविरोध इति चेत्; विरुध्यताम्, तत्त्वं मीमांस्यते, सुहृत्सूपचारः । नानार्थसमभिरोहणात् समभिरूढः । १० । यतो नानार्थान् समतीत्यैकमर्थमाभिमुख्येन रूढस्ततः समभिरूढः । कुतः ? वस्त्वन्तरासंक्रमेण तन्निष्ठत्वात् । कथम् ? अवितर्कध्यानवत् । यथा तृतीयं शुक्लं सूक्ष्मक्रियमवितर्कमवीचारं ध्यानम् अर्थव्यञ्जनयोगसङ्क्रान्त्यभावात् सूक्ष्मकाययोगनिष्ठत्वात्, तथा गौरित्ययं शब्दो वागादिषु वर्तमानो गव्यधिरूढः । एवं शेषे- ३०ष्वपि रूढिशब्दोऽस्य विषयः । अथवा, ‘अर्थगत्यर्थः शब्दप्रयोगः’ इति तत्रैकस्यार्थस्यैकेन गत- त्वात् पर्यायशब्दप्रयोगोऽनर्थकः । शब्दभेदश्चेदस्ति अर्थभेदेनाप्यवश्यं भवितव्यमिति नानार्थ- ९९ समभिरोहणात् समभिरूढः — इन्दनादिन्द्रः शकनाच्छक्रः पूर्दारणात्पुरन्दर इति । एवं सर्वत्र । अथवा, यो यत्राधिरूढः स तत्र समेत्याभिमुख्येनारोहणात् समभिरूढः । यथा क्व भवानास्ते ? स्वात्मनीति । कुतः ? वस्त्वन्तरे वृत्त्यभावात् । यद्यन्यस्यान्यत्र वृत्तिः स्यात्; ज्ञानादीनां रूपादीनां चाकाशे वृत्तिः स्यात् । ०५येनात्मना भूतस्तेनैवाऽध्यवसाययतीत्येवंभूतः । ११ । येनात्मना येनाभिधेयेन भूतः शब्द- स्तेनैवाऽध्यवसाययति । यथा इन्द्रशब्दः परमेश्वरत्वाभिधेयः, स परिणामो यत्र यदा वर्तते तत्र तदैव युक्तो न नामस्थापनाद्रव्येषु तत्परिणामाभावात् इति । एवमितरेष्वपि शब्देषु स्वाभि- धेयक्रियापरिणतिक्षण एव युक्तिर्नान्यदेति । अथवा, येनात्मना येन स्वरूपेण भूतोऽर्थस्तेनैवा- ध्यवसाययति, यथा गच्छतीति गौरिति — यदैव गच्छति तदैव गौरिति न स्थितो न शयित इति, १०पूर्वोत्तरकालयोस्तदर्थाभावाद्दण्डिवत् । एवमितरेष्वपि । अथवा, येनात्मना येन ज्ञानेन भूतः परिणतस्तेनैवाध्यवसाययति यथा इन्द्राग्निज्ञानपरिणत आत्मैवेन्द्रोऽग्निश्चेति एवंभूतार्थप्रत्या- यनाच्छब्द एवंभूतः तत्कार्यात्ताच्छब्द्यसिद्धेः । दाहकत्वाद्यतिप्रसङ्ग इति चेत्; तदव्यतिरेकादप्रसङ्ग इति । १२ । स्यादेतत् — अग्न्यादिव्यप- देशो यद्यात्मनि क्रियते दाहकत्वाद्यतिप्रसज्यते इति; उच्यते — तदव्यतिरेकादप्रसङ्गः । तानि १५नामादीनि येन रूपेण व्यपदिश्यन्ते ततस्तेषामव्यतिरेकः प्रतिनियतार्थवृत्तित्वाद्धर्माणाम् । ततो नो आगमभावाग्नौ वर्तमानं दाहकत्वं कथमागमभावाग्नौ वर्तेत ? उक्ता नैगमादयो नयाः । उत्तरोत्तरसूक्ष्मविषयत्वादेषां क्रमः पूर्वपूर्वहेतुकत्वाच्च । एवमेते नयाः पूर्वपूर्वविरुद्धमहा- विषया उत्तरोत्तरानुकूलाल्पविषया द्रव्यस्यानन्तशक्तेः प्रतिशक्ति भिद्यमाना बहुविकल्पा जायन्ते । त एते गुणप्रधानतया परस्परतन्त्राः सम्यग्दर्शनहेतवः पुरुषार्थक्रियासाधनसामर्थ्यात्, २०तन्त्वादय इव यथोपायं विनिवेश्यमानाः पटादिसंज्ञाः स्वतन्त्राश्चाऽसमर्थाः । तन्त्वादिवदेव विषम उपन्यासः, तन्त्वादयो निरपेक्षा अपि काञ्चिदर्थमात्रां जनयन्ति । भवति हि कश्चित् प्रत्येकं तन्तुस्त्वकत्राणे समर्थ एकश्च वल्कलो बन्धने समर्थः । इमे पुनर्नया निरपेक्षाः सन्तः न काञ्चिदपि सम्यग्दर्शनमात्रां प्रादुर्भावयन्तीति । नैष दोषः; अभिहितानवबोधात् । अभिहितमर्थ- मनवबुध्य परेणेदमुपालभ्यते । एतदुक्तं निरपेक्षेषु तन्त्वादिषु पटादिकार्यं नास्तीति । यत्तु २५तेनोपदर्शितं न तत् पटादिकार्यम् । किं तर्हि ? तन्त्वादिकार्यम् । तन्त्वादिकार्यमपि तन्त्वाद्यवयवेषु निरपेक्षेषु नास्त्येवेत्यस्मत्पक्षसिद्धिरेव । अथ तन्त्वादिषु पटादिकार्यं शक्त्यपेक्षया अस्तीत्युच्यते नयेष्वपि निरपेक्षेषु बुद्ध्यभिधानरूपेषु कारणवशात् सम्यग्दर्शनहेतुत्वविपरिणतिसद्भावात् शक्त्यात्मनाऽस्तित्वमिति साम्यमेवोपन्यासस्य । ज्ञानदर्शनयोस्तत्त्वं नयानां चैव लक्षणम् । ३०ज्ञानस्य च प्रमाणत्वमध्यायेऽस्मिन्निरूपितम् ॥ इति । इति तत्त्वार्थवार्तिकव्याख्यानालङ्कारे प्रथमोऽध्यायः ॥ १ ॥ जीयाच्चिरमकलङ्कब्रह्मा लघुहव्वनृपतिवरतनयः । अनवरतनिखिलविद्वज्जननुतविद्यः प्रशस्तजनहृद्यः ॥ १०० द्वितीयोऽध्यायः अत्राह — मोक्षमार्गव्याख्याप्रसङ्गेन सम्यग्दर्शनादीन्युपदिश्यन्ते । तेषां च लक्षणोत्पत्ति- विषयनिबन्धादीनि व्याख्यातानि । तत्र तत्त्वार्थश्रद्धानं सम्यग्दर्शनमुपदिष्टम् । तत्त्वार्थाश्च जीवादयः । तत्रादावुपदिष्टस्य जीवस्य किं श्रद्धातव्यं यदवधारणप्रतिपत्त्युपासनादिभ्यस्तन्नि- ष्पद्यत इति ? उच्यते — तत्त्वमात्मनः स्वभावः श्रद्धेयः । ०५यद्येवमुच्यतां तदीयं किं तत्त्वमिति ? अत उत्तरं पठति — औपशमिकक्षायिकौ भावौ मिश्रश्च जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च ॥ १ ॥ अथवा, प्रमाणनया अनन्तरं विनिर्दिष्टाः । ते च प्रमेयाधिगमरूपाः । प्रमेयाश्च जीवादयः पदार्था इदानीं निर्देष्टव्याः । यद्येवमस्यैव तावदादावुपदिष्टजीवस्य किं तत्त्वमिति ? अत आह — औपशमिकादीति । १०कर्मणोऽनुद्भूतस्ववीर्यवृत्तितोपशमोऽधःप्रापितपङ्कवत् । १ । यथा सकलुषस्याम्भसः कत- कादिद्रव्यसंपर्काद् अधःप्रापितमलद्रव्यस्य तत्कृतकालुष्याभावात् प्रसाद उपलभ्यते, तथा कर्मणः कारणवशादनुद्भूतस्ववीर्यवृत्तिता आत्मनो विशुद्धिरुपशमः । क्षयो निवृत्तिरात्यन्तिकी । २ । यथा तस्यैवाम्भसोऽधःप्रापितपङ्कस्य शुचिभाजनान्तर- संक्रान्तस्य प्रसाद आत्यन्तिकः, तथा आत्मनोऽपि कर्मणोऽत्यन्तविनिवृत्तौ विशुद्धिरात्यन्तिकी १५क्षय इत्युच्यते । उभयात्मको मिश्रः क्षीणाक्षीणमदशक्तिकोद्रववत् । ३ । यथा प्रक्षालनविशेषात् क्षीणाक्षीणमदशक्तिकस्य कोद्रवस्य द्विधा वृत्तिः, तथा यथोक्तक्षयहेतुसन्निधाने सति कर्मण एकदेशस्य क्षयादेकदेशस्य च वीर्योपशमादात्मनो भाव उभयात्मको मिश्र इति व्यपदिश्यते । द्रव्यादिनिमित्तवशात् कर्मणः फलप्राप्तिरुदयः । ४ । द्रव्यादिनिमित्तं प्रतीत्य कर्मणो २०विपच्यमानस्य फलोपनिपात उदय इतीमामाख्यां लभते । द्रव्यात्मलाभमात्रहेतुकः परिणामः । ५ । यस्य भावस्य द्रव्यात्मलाभमात्रमेव हेतुर्भवति नान्यन्निमित्तमस्ति स परिणाम इति परिभाष्यते । तत्प्रयोजनत्वाद्वृत्तिवचनम् । ६ । ते उपशमादयः प्रयोजनमस्येति वृत्तिः क्रियते । स उप- शमः प्रयोजनमस्येत्यौपशमिकः, क्षयःप्रयोजनमस्येति क्षायिकः, उदयः प्रयोजनमस्येत्यौदयिकः, २५परिणामः प्रयोजनमस्येति पारिणामिकः । ते भावा जीवस्य स्वतत्त्वम् — स्वं तत्त्वं स्वतत्त्वम्, स्वो भावोऽसाधारणो धर्मः । व्याप्तेरौदयिकपारिणामिकग्रहणमादाविति चेत्; न; भव्यजीवधर्मविशेषख्यापनार्थत्वात् आदावौपशमिकादिभाववचनम् । ७ । स्यादेतत् — सर्वजीवसाधारणत्वाद् व्याप्तेः औदयिकपारिणा- मिकग्रहणमादौ न्याय्यमिति; तन्न; किं कारणम् ? भव्यजीवधर्मविशेषख्यापनार्थत्वात् । भव्यस्य ३०मोक्षप्रतिपादनार्थो ह्ययं प्रयासः । अतोऽस्य धर्मविशेष औपशमिकादिभाव आदावुच्यते । अत्र चादावौपशमिकवचनं तदादित्वात् सम्यग्दर्शनस्य । ८ । सम्यग्दर्शनस्य हि आदिरौप- १०१ शमिको भावस्ततः क्षायोपशमिकस्ततः क्षायिक इति, अत औपशमिकस्यादौ ग्रहणं क्रियते । अल्पत्वाच्च । ९ । अल्पश्चौपशमिको भावः क्षायिकात् क्षायोपशमिकाच्च । कुतोऽल्प- त्वम् ? संचयकालस्याल्पत्वात् । तद्यथा-उपशमसम्यग्दर्शनस्य कालोऽन्तर्मुहूर्तः, सोऽन्तर्मुहूर्तो- ऽसंख्येयाः समयाः । तत्र समये समये नैरन्तर्येण संचीयमानां उपशमसम्यग्दृष्टय आ अन्तर्मुहूर्त- ०५समाप्तेः पल्योपमाऽसंख्येयभागप्रमाणा इति सर्वेभ्योऽल्पे । ततो विशुद्धिप्रकर्षयुक्तत्वात् क्षायिकः । १० । औपशमिकाद्धि क्षायिकः प्रकृष्टशुद्ध्यु- पेतो मिथ्यात्वसम्यङ्मिथ्यात्वसम्यक्त्वानां साकल्येन संक्षयात्, तत औपशमिकात् परं क्षायिक- वचनम् । बहुत्वाच्च । ११ । बहवो हि क्षायिकसम्यग्दृष्टय औपशमिकसम्यक्त्वेभ्यः । कुतः ? १०गुणकारविशेषात् । को गुणकारः ? आवलिकाया असंख्येयभागः, सोऽसंख्येयाः समयाः । कुतः ? असंख्येयस्य राशेरसंख्येया एव भेदा इति । तत आवलिकाया असंख्येयभागेन गुणिता उपशमसम्यग्दृष्टयः क्षायिकसम्यग्दृष्टीन् प्राप्नुवन्ति । कुतः ? संचयकालस्य महत्त्वात् । इह क्षायिकसम्यग्दृष्टेस्त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि कालः, तस्य प्राथमिकसमयादारभ्य समये समये संचीयमाना आ तत्कालपरिसमाप्तेर्बहवो भवन्ति । १५तदसंख्येयगुणत्वात्तदनन्तरं मिश्रवचनम् । १२ । क्षायिकादसंख्येयगुणः क्षायोपशमिकः, द्रव्यतो न भावतः । क्षायोपशमिकाद्धि क्षायिको भावतोऽनन्तगुणः, विशुद्धिप्रकर्षयोगात्, तस्माद् द्रव्यतोऽसंख्येयगुणः क्षायिकात् क्षायोपशमिकः । कुतः ? गुणकारविशेषात् । को गुण- कारः ? आवलिकाया असंख्येयभागः । कुतः ? संचयकालस्य महत्त्वात् । इह क्षायोपशमिक- सम्यग्दृष्टेः षट्षष्टिसागरोपमाणि पूर्णानि कालः, तस्य प्रथमसमयादारभ्य समये समये २०संचीयमानाः क्षायोपशमिकसम्यग्दृष्टय आ तत्कालपरिसमाप्तेर्भू यांसो भवन्ति । तदनन्तगुणत्वादन्ते द्वयवचनम् । १३ । तेषां सर्वेषामेवानन्तगुणा औदयिकाः पारिणामि- काश्च, ततोऽन्ते तेषां वचनं क्रियते । तैरेव चात्मनः समधिगमात् । १४ । अतीन्द्रियत्वादात्मनो मनुष्यतैर्यग्योनादिभिरौदयिकैः पारिणामिकैश्च चैतन्यजीवत्वादिभिः समधिगमो भवति । २५सर्वजीवतुल्यत्वाच्च । १५ । सर्वेषां हि जीवानां तुल्या औदयिकाः पारिणामिकाश्च ततस्तेषामन्ते वचनं न्याय्यम् । तत्त्वमिति बहुवचनप्रसङ्ग इति चेत्; न; भावस्यैकत्वात् । १६ । स्यादेतत् — औपशमिका- दिपञ्चतयभावसामानाधिकरण्यात्तत्त्वस्य बहुवचनं प्राप्नोतीति; तन्न; किं कारणम् ? भाव- स्यैकत्वात्, ‘तत्त्वम्’ इत्येष एको भावः । १०२ फलभेदान्नानात्वमिति चेत्; न; स्वात्मभावभेदस्याऽविवक्षितत्वात् ‘गावो धनम्’ इति यथा । १७ । स्यादेतत् — औपशमिकादिपञ्चतयतत्त्वफलभेदाद्भावनानात्वमिति; तन्न; किं कार- णम् ? स्वात्मभावभेदस्याऽविवक्षितत्वात्, यथा गावो धनमिति । धिनोतेर्धनम्, तच्चैकत्वेन विवक्षितं तथा तत्त्वमिति । ०५प्रत्येकमभिसंबन्धाच्च । १८ । एकत्वमुपपद्यते । औपशमिको भावः स्वतत्त्वमित्यादि । द्वन्द्वनिर्देशो युक्त इति चेत्; न; उभयधर्मव्यतिरेकेणाऽन्यभावप्रसङ्गात् । १९ । स्यान्मतम्- द्वन्द्वनिर्देशोऽत्र युक्तः — ‘औपशमिकक्षायिकमिश्रौदयिकपारिणामिकाः’ इति । तत्रायमप्यर्थो द्विश्चशब्दो न कर्तव्यो भवतीति; तन्न; किं कारणम् ? उभयधर्मव्यतिरेकेणान्यभावप्रसङ्गात् । उभाभ्यां व्यतिरेकेणान्यो भावः प्राप्नोति, चशब्दे पुनः सति पूर्वोक्तानुकर्षणार्थो (र्थे) युक्तो १०भवति । क्षायोपशमिकग्रहणमिति चेत्; न; गौरवात् । २० । यद्येवं क्षायोपशमिकग्रहणमेव कर्त- व्यमन्यभावनिवृत्त्यर्थम्; तन्न; किं कारणम् ? गौरवात् । तथा सति सूत्रस्य गौरवं स्यादिति । मध्ये मिश्रवचनं पूर्वोत्तरापेक्षार्थम् । २१ । मध्ये मिश्रवचनं क्रियते पूर्वोत्तरापेक्षार्थम् । किमपेक्षायां प्रयोजनम् ? भव्यानामौपशमिकक्षायिकौ भावौ सम्यक्त्वचारित्राख्यौ क्षायोपश- १५मिकाश्च ज्ञानदर्शनचारित्रभावाः । औदयिकपारिणामिका अभव्यानामपि क्षायोपशमिका- श्चेति । तत्र चाभव्यानां भव्यानां च मिथ्यादृष्टीनां चारित्रादृते क्षायोपशमिका ज्ञानदर्शन- विकल्पाः । ‘जीवस्य’ इति वचनम् अन्यद्रव्यनिवृत्त्यर्थम् । २२ । जीवस्येदं स्वतत्त्वं नान्यस्येति । स्वभावपरित्यागापरित्यागयोः शून्यताऽनिर्मोक्षप्रसङ्ग इति चेत्; न; आदेशवचनात् । २३ । २०इदमिह संप्रधार्यम् — आत्मा औपशमिकादिभावपरित्यागी वा स्यात्, अपरित्यागी वा ? किञ्च, अतो यदि तावत् परित्यजति; शून्यता प्राप्नोति आत्मनः, स्वभावाभावाद् अग्नेरौष्ण्य- स्वभावपरित्यागेऽभाववत् । अथाऽपरित्यागी; क्रोधादिस्वभावापरित्यागादात्मनोऽनिर्मोक्षः प्राप्नोतीति । तन्न; किं कारणम् ? आदेशवचनात् । अनादिपारिणामिकचैतन्यद्रव्यार्थादेशात् स्यात् स्वभावाऽपरित्यागी, आदिमदौदयिकादिपर्यायार्थादेशात् स्यात् स्वभावपरित्यागी २५इत्यादि सप्तभङ्गी पूर्ववत् । यस्यैकान्तेन स्वभावपरित्यागः स्यादपरित्यागो वा; तस्य यथो- क्तदोषः स्यात्, नानेकान्तवादिनः । अप्रतिज्ञानात् । २४ । नैतत्प्रतिजानीमहे — ‘स्वभावपरित्यागादपरित्यागाद्वा मोक्षः’ इति । किं तर्हि ? अष्टतयकर्मपरिणामवशीकृतस्यात्मनः द्रव्यादिबाह्यनिमित्तसन्निधाने सत्याभ्यन्तर- सम्यग्दर्शनादिमोक्षमार्गप्रकर्षावाप्तौ कृत्स्नकर्मसंक्षयात् मोक्षो विवक्षितस्ततो न दोषः । न ३०चाग्नेरुष्णस्वभावपरित्यागेऽप्यभावः । कस्मात् ? द्रव्यार्थावस्थानात् । पुद्गलद्रव्यस्य हि पर्याय- उष्णभावः, तस्याभावेऽपि सदचेतनत्वादिभिरवस्थानम् । किञ्च, कर्मसन्निधाने तदभावे चोभयभावविशेषोपलब्धेर्नेत्रवत् । २५ । यथा नेत्रं रूपोपलब्धि- स्वभावकं यदा रूपं नोपलभते तदा रूपोपलब्धिस्वभावपरित्यागात् न नास्ति, यथा वा क्षायोप- १०३ शमिकत्वे रूपोपलब्धिस्वभावस्य नेत्रस्य संक्षीणसकलावरणे केवलिनि मतिज्ञानाभावान्नेत्रात्म- कस्य रूपोपलब्धिस्वभावस्य परित्यागेऽपि द्रव्यनेत्रावस्थानान्न नेत्राभावः तथा कर्मनिमित्ता- नामौदयिकादीनामभावेऽपि क्षायिकभावसन्निधानादात्मनो नाऽभावो विशेषोपलब्धेरिति । अत्राह — तस्यात्मनो ये भावा औपशमिकादयस्ते किं भेदवन्त उताऽभेदा इति ? अत्रो- ०५च्यते — भेदवन्तः । यद्येवं ते उच्यतां कति भेदा इति ? अत उत्तरं पठति- द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम् ॥ २ ॥ कोऽयं निर्देशः ? द्व्यादीनां कृतद्वन्द्वानां भेदशब्देन वृत्तिः । १ । द्वौ च नव चाष्टादश चैकविंशतिश्च त्रयश्च द्विनवाष्टादशैकविंशतित्रय इति द्वन्द्वे कृते पश्चाद्भेदशब्देन वृत्तिरियं वेदितव्या । ननु चेतरे- १०तरयोगे द्वन्द्वः । स च तुल्ययोगे भवति । न चात्र तुल्ययोगोऽस्ति । कथम् ? द्व्यादयः शब्दाः संख्येयप्रधाना एकविंशतिशब्दः सख्यानप्रधान इति । नैष दोषः; संख्याशब्दानाममीषां संख्येय- प्रधानत्वेऽपि निमित्तानुविधानात् संख्यानेऽपि वृत्तिर्भवति । प्रधानं हि किञ्चिन्निमित्तमपेक्ष्य गुणमनुविधत्ते । यथा प्रधानभूतोऽपि राजा मन्त्रिणं गुणमाश्रयते, तत्प्रयुक्तक्रियाफलार्थित्वात् तस्य प्राधान्यमप्यनुजानातीति । अस्त्ययं तकश्रियः समाधिः लक्षणशास्त्रेण तु विरुध्यते, एवं १५तत्रोक्तम् — *“एकादयः प्राग्विंशतेः संख्येयप्रधानाः, विंशत्यादयस्तु कदाचित् संख्यानप्रधानाः कदाचित्संख्येयप्रधानाः” इति । यदि च द्व्यादयः संख्यानेऽपि वर्तेरन् विंशत्यादिभि- स्तुल्याः स्युः । तत्र को दोषः ? संबन्धिनि व्यतिरेकनिमित्तविभक्तिश्रवणं स्यात्स्वतश्च संख्यान- स्यैकत्वादेकवचनं श्रूयेत ‘विंशतिर्गवाम्’ इति यथा । ननु च तत्रैव संख्याने वृत्तिरुपलभ्यते *“द्व्येकयोः”[पाº सूº १ । ४ । २२] इति; नासौ संख्याने प्रयोगः, किं तर्हि उपसर्जनावयवे २०समुदाये प्रयोगः यथा ‘बहुशक्तिकिटकम्’ इति । संख्याप्रधानत्वेऽपि तद्विषयत्वमेव *“अन्तरे- णापि भावप्रत्ययं गुणप्रधानो भवति निर्देशः । ”[पातº महाº १ । ४ । २१] इति । एवं तर्हि द्व्यादयः शब्दाः संख्येयप्रधाना एव, एकविंशतिशब्दोऽपि संख्येयवृत्तिः परिगृह्यत इति तुल्ययोगोपपत्तेर्युक्तो द्वन्द्वः । भेदशब्देन किं स्वपदार्था वृत्तिः, आहोस्विदन्यपदार्था ? स्वपदार्थप्रधाना । कथम् ? *“विशे- २५षणं विशेष्येण”[पाº सूº २ । १ । ५७] इति । द्विनवाष्टादशैकविंशतित्रय एव भेदा द्विनवाष्टाद- शैकविंशतित्रिभेदा इति । ननु च ‘द्वियमुनम्’ इत्येवमादिषु पूर्वपदार्थप्रधाना वृत्तिरिति द्व्यादीनां विशेष्यत्वमुक्तं तेन भेदशब्दस्य विशेषणत्वे सति पूर्वनिपातः प्राप्नोति ? नैष दोषः; सामा- न्योपक्रमे विशेषाभिधाने तदुक्तम् । के ? ‘द्वे यमुने’ इति । ‘यमुने’ इति ह्युक्ते द्विशब्दप्रयोग एवानर्थक इति । इह तु बहुत्वात् सन्देहः — ‘भेदाः’ इत्युक्ते ‘कति’ इति । ‘द्विनवाष्टादशैकविं- ३०शतित्रयः’ इति चोक्ते ‘के ते’ इति । अत उभयव्यभिचाराद्विशेषणविशेष्ययोर्यथेष्टत्वात् द्व्यादीनां गुणशब्दत्वाच्च विशेषणत्वं विवक्षितम् । अथवा, पुनरस्त्वन्यपदार्था वृत्तिः — द्विन- १०४ वाष्टादशैकविंशतित्रयो भेदा येषां त इमे द्विनवाष्टादशैकविंशतित्रिभेदाः इति । अत्र हि संख्याशब्दस्य विशेष्यत्वेऽपि *“सर्वनामसंख्ययोरुपसंख्यानम्”[पाº सूº वाº २ । २ । ३५] इति संख्यायाः पूर्वनिपातः । पूर्वस्मिन् अर्थवशाद्विभक्तिपरिणाम इत्यौपशमिकादीनामित्यभिसंबन्धः, उत्तरत्र पठितक्रमेणैव । ०५भेदशब्दस्य प्रत्येकं परिसमाप्तिर्भुजिवत् । २ । यथा देवदत्तजिनदत्तगुरुदत्ता भोज्यन्ता- मिति प्रत्येकं भुजिः परिसमाप्यते, एवं भेदशब्दस्यापि प्रत्येकं परिसमाप्तिर्वेदितव्या द्विभेद नवभेद इत्यादि । यथानिर्दिष्टौपशमिकादिभावाभिसंबन्धार्थं द्व्यादिक्रमव्रचनम् । ३ । क्रमः आनुपूर्व्यम्, यो यः क्रमो यथाक्रमम् । यथा औपशमिकादयो भावा निर्दिष्टास्तथैव द्व्यादिभिरभिसंबन्धः १०कथं स्यादिति ‘यथाक्रमम्’ इत्युच्यते । तत्रानिर्धारितसंख्येयानां द्व्यादीनां संख्याशब्दानां प्रतिविशिष्टाभिधेयनिर्देशे प्राप्त- काले सति यौगपद्यासंभवात् योऽसावादावुपदिष्ट औपशमिको भावस्तद्भेदप्रदर्शनार्थमाह- सम्यक्त्वचारित्रे ॥ ३ ॥ व्याख्यातलक्षणे सम्यक्त्वचारित्रे । औपशमिकत्वं कथमिति चेत् ? उच्यते — १५सप्तप्रकृत्युपशमादौपशमिकं सम्यक्त्वम् । १ । अनन्तानुबन्धिनः कषायाः क्रोधमानमाया- लोभाश्चत्वारः चारित्रमोहस्य, मिथ्यात्वसम्यङ्मिथ्यात्वसम्यक्त्वानि त्रीणि दर्शनमोहनीयस्य । आसां सप्तानां प्रकृतीनामुपशमादौपशमिकं सम्यक्त्वमिति । अनादिमिथ्यादृष्टेर्भव्यस्य कर्मोदयापादिते कालुष्ये सति कुतस्तदुपशमः ? काललब्ध्याद्यपेक्षया तदुपशमः । २ । काललब्ध्यादीन् प्रत्ययानपेक्ष्य तासां प्रकृतीनामुप- २०शमो भवति । तत्र काललब्धिस्तावत् — कर्माविष्ट आत्मा भव्यः कालेऽर्धपुद्गलपरिवर्तना- ख्येऽवशिष्टे प्रथमसम्यक्त्वग्रहणस्य योग्यो भवति नाधिक इतीयं काललब्धिरेका । अपरा कर्मस्थितिका काललब्धिः — उत्कृष्टस्थितिकेषु कर्मसु जघन्यस्थितिकेषु च प्रथमसम्यक्त्वलाभो न भवति । क्व तर्हि भवति ? अन्तःकोटिकोटिसागरोपमस्थितिकेषु कर्मसु बन्धमापद्यमानेषु, विशुद्धिपरिणामवशात् सत्कर्मसु च ततः संख्येयसागरोपमसहस्रोनायामन्तःकोटिकोटिसाग- २५रोपमस्थितौ स्थापितेषु प्रथमसम्यक्त्वयोग्यो भवति । तथाऽपरा काललब्धिर्भवापेक्षा, सा वक्ष्यते । आदिशब्देन जातिस्मरणादयः परिगृह्यन्ते । स पुनर्भव्यः पञ्चेन्द्रियः संज्ञी मिथ्या- दृष्टिः पर्याप्तकः सर्वविशुद्धः प्रथमसम्यक्त्वमुत्पादयति । उत्पादयन्नसौ अन्तर्मुहूर्तमप- वर्तयति, अपवर्त्य च मिथ्यात्वकर्म त्रिधा विभजते — सम्यक्त्वं मिथ्यात्वं सम्यङ्मिथ्यात्वं चेति । १०५ दर्शनमोहनीयं कर्मोपशमयन् क्वोपशमयति ? चतसृषु गतिषु । तत्र नारकाः प्रथमसम्यक्त्व- मुत्पादयन्तः पर्याप्तका उत्पादयन्ति नापर्याप्तकाः । पर्याप्तकाश्चान्तर्मुहूर्तस्योपरि उत्पादयन्ति नाधस्तात् । एवं सप्तसु पृथिवीषु । तत्रोपरि तिसृषु पृथिवीषु नारकास्त्रिभिः कारणैः सम्यक्त्वमुपजनयन्ति — केचिज्जातिं स्मृत्वा केचिद्धर्मं श्रुत्वा केचिद्वेदनाभिभूताः । अधस्तात् ०५चतसृषु पृथिवीषु द्वाभ्यां कारणाभ्याम् — केचिज्जातिं स्मृत्वा अपरे वेदनाभिभूताः । तिर्यञ्चश्चो- त्पादयन्तः पर्याप्तका उत्पादयन्ति नापर्याप्तकाः । पर्याप्तकाश्च दिवसपृथक्त्वस्योपरि नाध- स्तात् । एवं सर्वेषु द्वीपसमुद्रेषु । तिरश्चां त्रिभिः कारणैः सम्यक्त्वस्योत्पत्तिः — केचिज्जातिं स्मृत्वा अपरे धर्मं श्रुत्वा अन्ये जिनबिम्बं दृष्ट्वा । मनुष्या उत्पादयन्तः पर्याप्तका उत्पाद- यन्ति नापर्याप्तकाः । पर्याप्तकाश्चाऽष्टवर्षस्थितेरुपर्युत्पादयन्ति नाधस्तात् । एवमर्धतृतीयद्वीप- १०समुद्रेषु । तेषां त्रिभिः कारणैः सम्यक्त्वस्योत्पत्तिः — केषाञ्चिज्जातिस्मरणाद् अपरेषां धर्म- श्रवणाद् अन्येषां जिनबिम्बदर्शनात् । देवाः सम्यक्त्वमुत्पादयन्तः पर्याप्तका उत्पादयन्ति नापर्याप्तकाः । पर्याप्तकाश्चान्तर्मुहूर्तस्योपरि नाधस्तात् । एवमा उपरिमग्रैवेयकेभ्यः । देवा भवनवास्यादय आसहस्रारकल्पाच्चतुर्भिः कारणैः प्रथमसम्यक्त्वं लभन्ते — केचिज्जातिस्मरणेन इतरे धर्मश्रवणेन अपरे जिनमहिमावेक्षणेन अन्ये देवर्धिनिरीक्षणेन । आनतप्राणतारणाच्यु- १५तेषु तैरेव देवर्धिविरहितैः । नवसुग्रैवेयकेषु द्वाभ्यां कारणाभ्याम् — जातिस्मरणाद्धर्मश्रवणाच्च । उपरि देवा नियमेन सम्यग्दृष्टयः । अष्टाविंशतिमोहविकल्पोपशमादौपशमिकं चारित्रम् । ३ । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्या- ख्यानसंज्वलनविकल्पाः षोडश कषायाः, हास्यरत्यरतिशोकभयजुगुप्सास्त्रीपुंनपुंसकवेदभेदा नव नोकषाया इति, एवं चारित्रमोहः पञ्चविंशतिविकल्पः । मिथ्यात्वसम्यङ्मिथ्यात्वसम्यक्त्व- २०भेदात् त्रितयो दर्शनमोहः । एषामष्टाविंशतिमोहविकल्पानामुपशमादौपशमिकं चारित्रम् । सम्यक्त्वस्यादौ वचनं तत्पूर्वकत्वाच्चारित्रस्य । ४ । पूर्वं हि सम्यक्त्वपर्यायेणाविर्भाव आत्मनस्ततः क्रमाच्चारित्रपर्याय आविर्भवतीति सम्यक्त्वस्यादौ ग्रहणं क्रियते । यः क्षायिको भावो नवविध उद्दिष्टः तस्य भेदस्वरूपप्रतिपादनार्थमाह — ज्ञानदर्शनदानलाभभोगोपभोगवीर्याणि च ॥ ४ ॥ २५चशब्देन सम्यक्त्वचारित्रे समुच्चीयेते । ज्ञानदर्शनावरणक्षयात् केवले क्षायिके । १ । ज्ञानावरणस्य कर्मणः दर्शनावरणस्य च कृत्स्नस्य क्षयात् केवले ज्ञानदर्शने क्षायिके भवतः । अनन्तप्राणिगणानुग्रहकरं सकलदानान्तरायसंक्षयादभयदानम् । २ । दानान्तरायस्य कर्मणो- ऽत्यन्तसंक्षयादाविर्भूतं त्रिकालगोचरानन्तप्राणिगणानुग्रहकरं क्षायिकमभयदानम् । ३०अशेषलाभान्तरायनिरासात् परमशुभपुद्गलानामादानं लाभः । ३ । लाभान्तरायस्याशेष- निरासात् परित्यक्तकवलाहारक्रियाणां केवलिनां यतः शरीरबलाधानहेतवोऽन्यमनुजासा- धारणाः परमशुभाः सूक्ष्मा अनन्ताः प्रतिसमयं पुद्गलाः संबन्धमुपयान्ति स क्षायिको लाभः । १०६ तस्मात् *“औदारिकशरीरस्य किञ्चिन्न्यूनपूर्वकोटिवर्षस्थितिः कवलाहारमन्तरेण कथं संभवति” इति यद्वचनं तदशिक्षितकृतं विज्ञायते । कृत्स्नभोगान्तरायतिरोभावात् परमप्रकृष्टो भोगः । ४ । कृत्स्नस्य भोगान्तरायस्य तिरो- भावादाविर्भूतोऽतिशयवाननन्तो भोगः क्षायिकः । यत्कृताः पञ्चवर्णसुरभिकुसुमवृष्टि-विविध- ०५दिव्यगन्ध-चरणनिक्षेपस्थांनसप्तपद्मपङ्क्ति-सुगन्धिधूप-सुखशीतमारुतादयो भावाः । निरवशेषोपभोगान्तरायप्रलयादनन्तोपभोगः क्षायिकः । ५ । निरवशेषस्योपभोगान्तराय- कर्मणः प्रलयात् प्रादुर्भूतोऽनन्त उपभोगः क्षायिकः । यत्कृताः सिंहासन-वालव्यजनाशोकपादप- छत्रत्रय-प्रभामण्डल-गम्भीरस्निग्धस्वरपरिणाम-देवदुन्दुभिप्रभृतयो भावाः । वीर्यान्तरायात्यन्तसक्षयादनन्तवीर्यम् । ६ । आत्मनः सामर्थ्यस्य प्रतिबन्धिनो वीयान्तराय- १०कर्मणोऽत्यन्तसंक्षयादुद्भूतवृत्ति क्षायिकमनन्तवीर्यम् । पूर्वोक्तमोहप्रकृतिनिरवशेषक्षयात् सम्यक्त्वचारित्रे । ७ । पूर्वोक्तस्य दर्शनमोहत्रिकस्य चारित्रमोहस्य च पञ्चविंशतिविकल्पस्य निरवशेषक्षयात् क्षायिके सम्यक्त्वचारित्रे भवतः । यद्यनन्तदानलब्ध्यादय उक्ता अभयदानादिहेतवो दानान्तरायादिसंक्षयाद्भवन्ति सिद्धेष्वपि तत्प्रसङ्गः; नैष दोषः; शरीरनामतीर्थंकरनामकर्मोदयाद्यपेक्षत्वात्तेषां तदभावे तदप्रसङ्गः, १५परमानन्दाव्याबाधरूपेणैव तेषां तत्र वृत्तिः, केवलज्ञानरूपेण अनन्तवीर्यवृत्तिवत् । सिद्धत्वमपि क्षायिकमागमोपदिष्टमस्ति तस्योपसंख्यानमिह कर्तव्यम् ? न कर्तव्यम्; विशेषेषु निर्दिष्टेषु तद्विषयं सामान्यमनुक्तसिद्धमेव पर्वादिनिर्देशे अङ्गुलिसिद्धिवत् । सिद्धत्वं हि सर्वेषां क्षायिकाणां भावानां साधारणमिति । य उक्तः क्षायोपशमिको भावोऽष्टादशविकल्पस्तद्भेदनिरूपणार्थमाह — २०ज्ञानाज्ञानदर्शनलब्धयश्चतुस्त्रित्रिपञ्चभेदाः सम्यक्त्वचारित्रसंयमासंयमाश्च । ५ । चतुरादीनां कृतद्वन्द्वानां भेदशब्देन वृत्तिः । १ । चत्वारश्च त्रयश्च त्रयश्च पञ्च च चतुस्त्रित्रिपञ्च, ते भेदाः यासां ताश्चतुस्त्रित्रिपञ्चभेदा इति द्वन्द्वगर्भा वृत्तिः । त्रिशब्दस्य द्वन्द्वापवाद एकशेषः कस्मान्न भवति ? संख्यया अर्थासंप्रत्ययाद् अन्यपदार्थत्वाच्चानेकशेषः, पृथगभिधाने प्रयोजनसद्भावाच्च । २५यथाक्रमवचनं ज्ञानादिभिरानुपूर्व्यसंबन्धार्थम् । २ । इह यथाक्रममिति वक्तव्यम् । किं प्रयोजनम् ? चतुर्भेदं ज्ञानमित्येवमाद्यभिसंबन्धार्थं तत्तर्हि वक्तव्यम्; न वक्तव्यम्; यथाक्रम- मित्यनुवर्तते । क्व प्रकृतम् ? *“द्विनवाष्टादशैकविंशतित्रिभेदा यथाक्रमम्”[तº सूº२ । २] इति । कस्य क्षयात् कस्य चोपशमात् क्षायोपशमिको भावो भवतीति ? उच्यते — सर्वघातिस्पर्धकानामुदयक्षयात्तेषामेव सदुपशमाद्देशघातिस्पर्धकानामुदये क्षायोपशमिको ३०भावः । ३ । द्विविधं स्पर्धकम् — देशघातिस्पर्धकं सर्वधातिस्पर्धकं चेति । तत्र यदा सर्वघातिस्प- र्धकस्योदयो भवति तदेषदप्यात्मगुणस्याभिव्यक्तिर्नास्ति तस्मात्तदुदयस्याभावः क्षय १०७ इच्युत्यते । तस्यैव सर्वघातिस्पर्धकस्यानुदयप्राप्तस्य सदवस्था उपशम इत्युच्यते अनुद्भूत- स्ववीर्यवृत्तित्वात्, आत्मसाद्भावितसर्वघातिस्पर्धकस्योदयक्षये देशघातिस्पर्धकस्य चोदये सति सर्वघाताभावादुपलभ्यमानो भावः क्षायोपशमिक इत्युच्यते । किमिदं स्पर्धकं नाम ? उच्यते — ०५अविभागपरिच्छिन्नकर्मप्रदेशरसभागप्रचयपङ्क्तेः क्रमवृद्धिः क्रमहानिः स्पर्धकम् । ४ । उदयप्राप्तस्य कर्मणः प्रदेशा अभव्यानामनन्तगुणाः सिद्धानामनन्तभागप्रमाणाः । तत्र सर्व- जघन्यगुणः प्रदेशः परिगृहीतः, तस्यानुभागः प्रज्ञाछेदेन तावद्धा परिच्छिन्नः यावत्पुनर्विभागो न भवति । ते अविभागपरिच्छेदाः सर्वजीवानामनन्तगुणाः, एको राशिः कृतः । एवं तत्प्रमाणाः सर्वे तथैव परिच्छिन्नाः पङ्क्तीकृता वर्गाः वर्गणा । अपर एकाविभागपरिच्छेदाधिकः प्रदेशः परि- १०गृहीतः, तथैव तस्याविभागपरिच्छेदाः कृताः । स एको राशिर्वर्गः । तथैव समगुणाः पङ्क्तीकृताः वर्गा वर्गणा । एवं पङ्क्तयः कृता यावदेकाविभागपरिच्छेदाधिकलाभम् । तदलाभे अन्तरं भवति । एवमेतासां पङ्क्तीनां विशेषहीनानां क्रमवृद्धिक्रमहानियुक्तानां समुदयः स्पर्धकमित्युच्यते । तत उपरि द्वित्रिचतुःसंख्येयासंख्येयगुणरसा न लभ्यन्ते अनन्तगुणरसा एव । तत्रैकप्रदेशो जघन्यगुणः परिगृहीतः, तस्य चानुभागाविभागपरिच्छेदाः पूर्ववत्कृताः । एवं समगुणा वर्गाः १५समुदिता वर्गणा भवति । एकाविभागपरिच्छेदाधिकाः पूर्ववद्विरलीकृता वर्गा वर्गणाश्च भवन्ति यावदन्तरं भवति तावदेकं स्पर्धकं भवति । एवमनेन क्रमेण विभागे क्रियमाणेऽभव्या- नामनन्तगुणानि सिद्धानामनन्तभागप्रमाणानि स्पर्धकानि भवन्ति । तदेतत्समुदितमेक- मुदयस्थानं भवति । तत्र ज्ञानं चतुर्विधं क्षायोपशमिकमाभिनिबोधिकज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्ययज्ञानं २०चेति । ५ । वीर्यान्तरायमतिश्रुतज्ञानावरणानां सर्वघातिस्पर्धकानामुदयक्षयात् सदुपशमाच्च देशघातिस्पर्धकानामुदये मतिज्ञानं श्रुतज्ञानं च भवति । देशघातिस्पर्धकानां रसस्य प्रकर्षा- प्रकर्षयोगाद् गुणघातस्यातिशयानतिशयवत्त्वात् तज्ज्ञानभेदो भवति । एवमवधिमनःपर्ययज्ञान- योरपि स्वावरणक्षयोपशमभेदात् क्षायोपशमिकत्वं वेदितव्यम् । अज्ञानं त्रिविधं मत्यज्ञानं श्रुताज्ञानं विभङ्गं चेति । ६ । तेषां क्षायोपशमिकत्वं पूर्ववत् । २५ज्ञानाज्ञानविभागस्तु मिथ्यात्वकर्मोदयानुदयापेक्षः । दर्शनं त्रिविधं क्षायोपशमिकं चक्षुर्दर्शनमचक्षुर्दर्शनमवधिदर्शनं चेति । ७ । एतत्त्रितय- मपि पूर्ववत् स्वावरणक्षयोपशमापेक्षं द्रष्टव्यम् । लब्धयः पञ्च क्षायोपशमिक्यः दानलब्धिलभिलब्धिर्भोगलब्धिरुपभोगलब्धिर्वीर्यल- ब्धिश्चेति । ८ । दानान्तरायादिसर्वघातिस्पर्धकक्षयोपशमे देशघातिस्पर्धकोदयसद्भावे ताः १०८ पञ्च लब्धयो भवन्ति । सम्यक्त्वग्रहणेन वेदकसम्यक्त्वमिह परिगृह्यते । अनन्तानुबन्धिकषाय- चतुष्टयस्य मिथ्यात्वसम्यङ्मिथ्यात्वयोश्चोदयक्षयात् सदुपशमाच्च सम्यक्त्वस्य देशघातिस्पर्ध- कस्योदये सति तंत्त्वार्थश्रद्धानं क्षायोपशमिकं सम्यक्त्वम् । अनन्तानुबन्ध्यप्रत्याख्यानप्रत्या- ख्यानद्वादशकषायोदयक्षयात् सदुपशमाच्च संज्वलनकषायचतुष्टयान्यतमदेशघातिस्पर्धकोदये ०५सति नोकषायनवकस्य यथासंभवोदये च निवृत्तिपरिणाम आत्मनः क्षायोपशमिकं चारित्रम् । अनन्तानुबन्ध्यप्रत्याख्यानकषायाष्टकोदयक्षयात् सदुपशमाच्च प्रत्याख्यानकषायोदये संज्वलन- कषायस्य देशघातिस्पर्धकोदये नोकषायनवकस्य यथासंभवोदये च विरताविरतपरिणामः क्षायोपशमिकः संयमासंयमः । संज्ञित्वसम्यङ्मिथ्यात्वयोगोपसंख्यानमिति चेत्; न; ज्ञानसम्यक्त्वलब्धिग्रहणेन गृही- १०तत्वात् । ९ । स्यादेतत् — संज्ञित्वसम्यङ्मिथ्यात्वयोगोपसंख्यानं कर्तव्यम्, तेऽपि हि क्षायोपशमिका इति; तन्न; किं कारणम् ? ज्ञानसम्यक्त्वलब्धिग्रहणेन गृहीतत्वात् । संज्ञित्वं हि मतिज्ञानेन गृहीतं सम्यङ्मिथ्यात्वं सम्यक्त्वग्रहणेन, नोइन्द्रियावरणक्षयोपशमापेक्षत्वात्, उभयात्मकस्य एकात्मपरिग्रहाच्च उदकव्यतिमिश्रक्षीरव्यपदेशवत् । योगश्च वीर्यलब्धिग्रहणेन गृहीत इति । अथवा, चशब्देन समुच्चयो वेदितव्यः । अथ पञ्चेन्द्रियत्वे समाने नोइन्द्रियावरणक्षयोपशमः १५कस्यचिद्भवति कस्यचिन्नेति कुतोऽयं विकल्पः ? उच्यते — संज्ञिजातिनामकर्मविशेषोदयबललाभे सति नोइन्द्रियावरणक्षयोपशमो भवति, तदभावे न भवतीत्ययं विशेषः, एकेन्द्रियजातिनामा- द्युदयविशेषापेक्षया एकेन्द्रियादिक्षयोपशमभेदवत् । य एकविंशतिविकल्प औदयिको भाव उद्दिष्टः तस्य भेदसंज्ञाकीर्तनार्थमिदमारभ्यते — गतिकषायलिङ्गमिथ्यादर्शनाज्ञानासंयतासिद्धलेश्याश्चतुश्चतु- २०स्त्र्येकैकैकैकषड्भेदाः ॥ ६ ॥ गत्यादीनामितरेतरयोगे द्वन्द्वः, चतुरादीनां च द्वन्द्वगर्भा अन्यपदार्थप्रधाना वृत्तिः । पूर्ववदेकशेषाभावः । गतिनामकर्मोदयादात्मनस्तद्भावपरिणामाद् गतिरौदयिकी । १ । येन कर्मणा आत्मनो नार- कादिभावावाप्तिर्भवति तद् गतिनाम चतुर्विधम् — नरकगतिनाम तिर्यग्गतिनाम मनुष्यगतिनाम २५देवगतिनाम चेति । तत्र नरकगतिनामकर्मोदयान्नारको भावो भवतीति औदयिकः । एवं तिर्यग्गतिनामकर्मोदयात्तिर्यग्भाव औदयिकः । मनुष्यगतिनामकर्मोदयात् मनुष्यभाव औदयिकः । देवगतिनामकर्मोदयाद् देवभाव औदयिकः । चारित्रमोहविशेषोदयात् कलुषभावः कषाय औदयिकः । २ । चारित्रमोहस्य कषायवेद- नीयस्योदयादात्मनः कालुष्यं क्रोधादिरूपमुत्पद्यमानं ‘कषत्यात्मानं हिनस्ति’ इति कषाय इत्यु- ३०च्यते । स औदयिकश्चतुर्विधः — क्रोधो मानो माया लोभश्चेति । तद्भेदा अनन्तानुबन्ध्यप्रत्या- ख्यानप्रत्याख्यानसंज्वलनविकल्पाः । १०९ वेदोदयापादितोऽभिलाषविशेषो लिङ्गम् । ३ । लिङ्गं द्विविधम् — द्रव्यलिङ्गं भावलिङ्गं च । तत्र यद् द्रव्यलिङ्गं नामकर्मोदयापादितं तदिह नाधिकृतम् आत्मपरिणामप्रकरणात् । भाव- लिङ्गमात्मपरिणामः स्त्रीपुंनपुंसकान्योन्याभिलाषलक्षणः । स पुनश्चारित्रमोहविकल्पस्य नोकषायस्य स्त्रीवेदपुंवेदनपुंसकवेदस्योदयाद्भवतीत्यौदयिकः । ०५दर्शनमोहोदयात्तत्त्वार्थाश्रद्धानपरिणामो मिथ्यादर्शनम् । ४ । तत्त्वार्थरुचिस्वभावस्यात्मनः तत्प्रतिबन्धकारणस्य दर्शनमोहस्योदयात् तत्त्वार्थेषु निरूप्यमाणेष्वपि न श्रद्धानमुत्पद्यते तन्मि- थ्यादर्शनमौदयिकमित्याख्यायते । ज्ञानावरणोदयादज्ञानम् । ५ । ज्ञस्वभावस्यात्मनः तदावरणकर्मोदये सति नावबोधो भवति तदज्ञानमौदयिकम्, घनसमूहस्थगितदिनकरतेजोऽनभिव्यक्तिवत् । तद्यथा — एकेन्द्रियस्य १०रसनघ्राणश्रोत्रचक्षुषामिन्द्रियाणां प्रतिनियताभिनिबोधिकज्ञानावरणस्य सर्वघातिस्पर्धकस्यो- दयात् रसगन्धशब्दरूपाज्ञानं यत्तदौदयिकम् । एवं द्वित्रिचतुरिन्द्रियेषु शेषेन्द्रियविषयाज्ञानं वाच्यम् । पञ्चेन्द्रियतिर्यक्षु शुकसारिकादिवर्जितेषु मनुष्येषु च केषुचिद् अक्षरश्रुतावरणस्य सर्वघातिस्पर्धकस्योदयाद् अक्षरश्रुतनिर्वृत्त्यभावादक्षरश्रुताज्ञानमौदयिकम् । नोइन्द्रियावरणस्य सर्वघातिस्पर्धकस्योदयाद्धिताहितपरीक्षां प्रत्यसामर्थ्यम् असंज्ञित्वमौदयिकम्, तदप्यत्रैवान्त- १५र्भवति । एवमवधिमनःपर्ययकेवलज्ञानावरणोदयात् प्रत्येकमज्ञानमौदयिकं वाच्यमिति । चारित्रमोहोदयादनिवृत्तिपरिणामोऽसंयतः । ६ । चारित्रमोहस्य सर्वघातिस्पर्धकस्योदयात् प्राण्युपघातेन्द्रियविषये द्वेषाभिलाषनिवृत्तिपरिणामरहितोऽसंयत औदयिकः । कर्मोदयसामान्यापेक्षोऽसिद्धः । ७ । अनादिकर्मबन्धसन्तानपरतन्त्रस्यात्मनः कर्मोदय- सामान्ये सति असिद्धत्वपर्यायो भवतीत्यौदयिकः । स पुनर्मिथ्यादृष्ट्यादिषु सूक्ष्मसाम्परायि- २०कान्तेषु कर्माष्टकोदयापेक्षः, शान्तक्षीणकषाययोः सप्तकर्मोदयापेक्षः, सयोगिकेवल्ययोगिकेव- लिनोरघातिकर्मोदयापेक्षः । कषायोदयरञ्जिता योगप्रवृत्तिर्लेश्या । ८ । द्विविधा लेश्या — द्रव्यलेश्या भावलेश्या चेति । तत्र द्रव्यलेश्या पुद्गलविपाकिकर्मोदयापादितेति सा नेह परिगृह्यत आत्मनो भावप्रकरणात् । भावलेश्या कषायोदयरञ्जिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते । ननु च योगप्रवृत्ति- २५रात्मप्रदेशपरिस्पन्दक्रिया, सा वीर्यलब्धिरिति क्षायोपशमिकी व्याख्याता, कषायश्चौदयिको व्याख्यातः, ततो लेश्याऽनर्थान्तरभूतेति; नैष दोषः; कषायोदयतीव्रमन्दावस्थापेक्षाभेदाद् अर्था- न्तरत्वम् । सा षड्विधा — कृष्णलेश्या नीललेश्या कपोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति । तस्यात्मपरिणामस्याऽशुद्धिप्रकर्षाप्रकर्षापेक्षया कृष्णादिशब्दोपचारः क्रियते । ननु च ‘उपशान्तकषाये क्षीणकषाये सयोगकेवलिनि च शुक्ला लेश्यास्ति’ इत्यागमः, ३०तत्र कषायानुरञ्जनाभावादौदयिकीत्वं नोपपद्यते; नैष दोषः; पूर्वभावप्रज्ञापननयापेक्षया यासौ योगप्रवृत्तिः कषायानुरञ्जिता ‘सैवेयम्’ इत्युपचारादौदयिकीत्युच्यते । तदभावादयोगि- केवल्यलेश्य इति च निश्चीयते । अत्र चोद्यते — यथा अज्ञानमौदयिकम् एवमदर्शनमपि दर्शनावरणोदयाद्भवतीत्यौदयिकम्, निद्रानिद्रादयश्चौदयिकाः, वेदनीयोदयात् सुखदुःखमौदयिकम्, नोकषायाश्च हास्यरत्यादयः ११० षडौदयिकाः, आयुरुदयाद्भवधारणं भवत्यौदयिकम्, उच्चैर्नीचैर्गोत्रकर्मोदयादुच्चनीचगोत्र- परिणामो भवतीत्यौदयिकः, नामकर्मणि च जात्यादय औदयिकाः, एतेषामपरिग्रहान्न्यूनं लक्षण- मिति । अथ मतम् — आत्मपरिणामस्याधिकृतत्वाच्छरीरादीनामौदयिकत्वेऽपि पुद्गलविपाकित्वात् तेषामसंग्रह इति; एवमपि ये जीवविपाकिनस्तेषां ग्रहणं कर्तव्यं जात्यादीनाम् ? अत ०५उत्तरं पठति — मिथ्यादर्शनेऽदर्शनावरोधः । ९ । मिथ्यादर्शने अदर्शनस्यावरोधो भवति । निद्रानिद्रादीना- मपि दर्शनसामान्यावरणत्वात्तत्रैवान्तर्भावः । ननु च तत्त्वार्थाश्रद्धानं मिथ्यादर्शनमित्युक्तम्; सत्यमुक्तम्; सामान्यनिर्देशे विशेषान्तर्भावात्, सोऽप्येको विशेषः । अयमपरो विशेषः — अदर्शनम- प्रतिपत्तिर्मिथ्यादर्शनमिति । १०लिङ्गग्रहणे हास्यरत्याद्यन्तर्भावः सहचारित्वात् । १० । लिङ्गग्रहणे हास्यरत्यादीना- मन्तर्भावो भवति । कुतः ? सहचारित्वात्, पर्वतग्रहणेन नारदग्रहणवत् । गतिग्रहणमघात्युपलक्षणम् । ११ । अघातिकर्मोदयापादिता ये भावाः तेषां गतिग्रहणमु- पलक्षणं यथा ‘काकेभ्यो रक्षतां सर्पिः’ इति काकग्रहृणमुपघातकोपलक्षणम् । तेन जात्यादयो भावा नामकर्मविशेषोदयापादिता वेदनीयायुर्गोत्रोदयकृताश्च गृह्यन्ते । १५इह यथाक्रममिति वक्तव्यं गतिश्चतुर्विधेत्येवमाद्यानुपूर्व्यसंप्रत्ययार्थम्; न वक्तव्यम्, ‘यथाक्रमम्’ इत्यनुवर्तते । यः पारिणामिको भावस्त्रिभेद उक्तः, तद्विकल्पस्वरूपप्रतिपानादर्थमाह — जीवभव्याऽभव्यत्वानि च ॥ ७ ॥ अन्यद्रव्यासाधारणास्त्रयः पारिणामिकाः । १ । जीवत्वं भव्यत्वमभव्यत्वमित्येते पारिणा- २०मिका आत्मनस्त्रयो भावा अन्यद्रव्यासाधारणा वेदितव्याः । कुतः पुनरेषां पारिणामिकत्वम् ? कर्मोदयक्षयोपशमक्षयोपशमानपेक्षत्वात् । २ । न ह्येवंविधं कर्मास्ति यस्योदयात् क्षयात् उपशमात् क्षयोपशमाद्वा जीवो भव्योऽभव्य इति चोच्येत । तदभावादनादिद्रव्यभवनसंबन्ध- परिणामनिमित्तत्वात् पारिणामिका इति व्यपदिश्यन्ते । आयुर्द्रव्यापेक्षं जीवत्वं न पारिणामिकमिति चेत्; न; पुद्गलद्रव्यसंबन्धे सत्यन्यद्रव्य- २५सामर्थ्याभावात् । ३ । स्यादेतत् — आयुर्द्रव्योदयाज्जीवतीति जीवो नानादिपारिणामिकत्वादिति; तन्न; किं कारणम् ? पुद्गलद्रव्यसंबन्धे सत्यन्यद्रव्यसामर्थ्याभावात् । आयुर्हि पौद्गलिकं द्रव्यम् । यदि च तत्संबन्धाज्जीवस्य जीवत्वं स्यात्; नन्वेवमन्यद्रव्यस्यापि धर्मादेरायुःसंबन्धाज्जीवत्वं स्यात् । किञ्च, सिद्धस्याजीवत्वप्रसङ्गात् । ४ । यद्यायुःसंबन्धापेक्षं जीवत्वं ननु सिद्धस्यायुरभावाद- ३०जीवत्वं प्रसज्येत । ततस्तदनपेक्षत्वाज्जीवत्वं पारिणामिकमेव । जीवे त्रिकालविषयविग्रहदर्शनादिति चेत्; न; रूढिशब्दस्य निष्पत्त्यर्थत्वात् । ५ । स्यान्म- तम् — ‘जीवति अजीवीत् जीविष्यति’ इति त्रिकालविषयो विग्रहो दृश्यते ततः प्राणधारणार्थ- १११ त्वात् कर्मापेक्षत्वे न पारिणामिकत्वमिति; तच्च न; कस्मात् ? रूढिशब्दस्य निष्पत्त्यर्थत्वात् । रूढिशब्देषु हि क्रियोपात्तकाला व्युत्पत्त्यर्यैव न तन्त्रम्, यथा गच्छतीति गौरिति । चैतन्यमेव वा जीवशब्दार्थः । ६ । अथवा, चैतन्यं जीवशब्देनाभिधीयते, तच्चानादिद्रव्य- भवननिमित्तत्वात् पारिणामिकम् । ०५सम्यग्दर्शनज्ञानचारित्रपरिणामेन भविष्यतीति भव्यः । ७ । भव्यादीनां प्रायेण भविष्यत्काल- विषयत्वात् ‘सम्यग्दर्शनादिपर्यायेण य आत्मा भविष्यति स भव्यः’ इतीमं व्यपदेशमास्कन्दति । तद्विपरीतोऽभव्यः । ८ । यो न तथा भविष्यत्यसावभव्य इत्युच्यते । किं कृतोऽयं विशेषः ? द्रव्यस्वभावकृतः, अतः पारिणामिकत्वमनयोः । योऽनन्तेनापि कालेन न सेत्स्यत्यसावभव्य एवेति चेत्; न; भव्यराश्यन्तर्भावात् । ९ । १०स्यादेतत् — अनन्तकालेनापि यो न सेत्स्यत्यसौ अभव्यतुल्यत्वादभव्य एव । अथ सेत्स्यति सर्वो भव्यः; तत उत्तरकालं भव्यशून्यं जगत् स्यादिति ? तन्न; किं कारणम् ? भव्यराश्यन्तर्भावात् । यथा योऽनन्तकालेनापि कनकपाषाणो न कनकीभविष्यति न तस्यान्धपाषाणत्वं कनक- पाषाणशक्तियोगात्, यथा वा आगामिकालो योऽनन्तेनापि कालेन नागमिष्यति न तस्या- गामित्वं हीयते, तथा भव्यस्यापि स्वशक्तियोगाद् असत्यामपि व्यक्तौ न भव्यत्वहानिः । १५भावस्यैकत्वनिर्देशो युक्त इति चेत्; न; द्रव्यभेदाद्भावभेदसिद्धेः । १० । स्यादेतत् — ‘जीवश्च भव्यश्चाऽभव्यश्च जीवभव्याभव्याः’ इति द्वन्द्वे कृते तेषां भावे विवक्षिते एकत्वनिर्देशो युक्तो जीवभव्याभव्यानां भावो जीवभव्याभव्यत्वमिति ? तन्न; किं कारणम् ? द्रव्यभेदाद्भावभेदसिद्धेः । नहि ‘भाव एकत्वेन वक्तव्यः’ इति नियमोऽस्ति, ततो द्रव्यभेदाद्भेदे सति बहुत्वनिर्देशो युक्तो जीवभव्याभव्यानां भावा जीवभव्याभव्यत्वानीति । पुनः प्रत्येकमभिसंबन्धो भवति — जीवत्वं २०भव्यत्वमभव्यत्वमिति । द्वितीयगुणग्रहणमार्षोक्तत्वादिति चेत्; न; तस्य नयापेक्षत्वात् । ११ । अथ मतम् — द्वितीय- गुणग्रहणमिह कर्तव्यम् । कोऽसौ द्वितीयो गुणः ? सासादनसम्यग्दृष्टिः । सोऽपि जीवस्या- साधारणः पारिणामिकः । एवं ह्यार्षे उवतम् — *“सासादनसम्यग्दृष्टिरिति को भावः ? पारिणा- मिको भावः”[षट्खंº] इति । न कर्तव्यम्; कुतः ? तस्य नयापेक्षत्वात्, । मिथ्यात्वकर्मण उदयं २५क्षयमुपशमं क्षयोपशमं वा नापेक्षत इत्यार्षे पारिणामिकः, इह पुनरसावौदयिक इत्येवं गृह्यते अनन्तानुबन्धिकषायोदयात्तस्य निर्वृत्तेः । चशब्दः किमर्थः ? अस्तित्वान्यत्व-कर्तृत्व-भोक्तृत्व-पर्यायवत्त्वाऽसर्वगतत्वाऽनादिसन्ततिबन्धनबद्धत्व-प्रदेश वत्त्वारूपत्व-नित्यत्वादिसमुच्चयार्थश्चशब्दः । १२ । अस्तित्वादयोऽपि पारिणामिका भावाः सन्ति ३०तेषां समुच्चयार्थश्चशब्दः । यदि तेऽपि पारिणामिकाः सूत्रे तेषां ग्रहणं कस्मान्न कृतम् ? अन्यद्रव्यसाधारणत्वादसूत्रिताः । १३ । अस्तित्वादयो हि धर्मा अन्येषामपि द्रव्याणां साधारणास्ततस्ते न सूत्रिताः । तद्यथा — अस्तित्वं तावत्साधारणं षड्द्रव्यविषयत्वात् । तत् कर्मोदयक्षयक्षयोपशमानपेक्षत्वात् पारिणामिकम् । ११२ अन्यत्वमपि साधारणं सर्वद्रव्याणां परस्परतोऽन्यत्वात् । कर्मोदयाद्यपेक्षाभावात् तदपि पारिणामिकम् । कर्तृत्वमपि साधारणं क्रियानिष्पत्तौ सर्वेषां स्वातन्त्र्यात् । ननु च जीवपुद्गलानां क्रिया- परिणामयुक्तानां कर्तृत्वं युक्तम्, धर्मादीनां कथम् ? तेषामपि अस्त्यादिक्रियाविषयमस्ति ०५कर्तृत्वम् । कर्मोदयाद्यपेक्षाभावात् तदपि पारिणामिकम् । ननु चात्मप्रदेशपरिस्पन्दस्य योगसं- ज्ञकस्य यत्कर्तृत्वं न तत्साधारणमिति असाधारणेषूपसंख्येयम्; न; तस्य क्षयोपशमनिमित्त- त्वात् । यदस्य पुण्यपापयोः कर्तृत्वं तदन्यद्रव्याणामसाधारणमपि सन्न पारिणामिकम् । कस्मात् ? उदयक्षयोपशमनिमित्तत्वात् । मिथ्यादर्शनं हि दर्शनमोहोदयनिमित्तम्, अविरतिप्रमाद- कषायाः चारित्रमोहोदयनिमित्ताः, योगाश्च क्षायोपशमिका इति । अन्यद्रव्यासाधारणानादि- १०पारिणामिकचैतन्यसन्निधाने पुण्यपापयोः कर्तृत्वमिति पारिणामिकमिति चेत्; न; सार्व- कालिककर्तृत्वप्रसङ्गात् । मुक्तानामपि चैतन्यमस्तीति पुण्यपापयोः कर्तृत्वं स्यात्, संसारिणां चाविशिष्टं स्यात् चैतन्यकारणस्याभेदात् । भोक्तृत्वमपि साधारणम् । कुतः ? तल्लक्षणोपपत्तेः । वीर्यप्रकर्षात् परद्रव्यवीर्यादान- सामर्थ्यं भोक्तृत्वलक्षणम् । यथा आत्मा आहारादेः परद्रव्यस्यापि वीर्यात्मसात्करणाद्भोक्ता, १५तथा विषस्याचेतनस्य वीर्यप्रकर्षात् कोद्रवद्रव्यादिसारसंग्रहाद्भोक्तृत्वम् । लवणादीनां च वीर्यप्रकर्षात् काष्ठादिद्रव्यलवणकरणाद्भोक्तृत्वम् । कर्मोदयापेक्षाभावात्तदपि पारिणामिकम् । यत्तु आत्मनः शुभाशुभकर्मफलस्योपभोक्तृत्वं न तत्साधारणं न च पारिणामिकम्; तस्य क्षयोपशमनिमित्तत्वात्, वीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भाद् आत्मनः शुभा- शुभकर्मफलोपभोगे सामर्थ्यमाविर्भवति । आहारादिवीर्यात्मसात्करणलक्षणोपभोगश्च २०भोगान्तरायक्षयोपशमात्, उपात्तस्य च जरणं वीर्यान्तरायक्षयोपशमात् । कर्म अन्तरेण विषादीनां कथं भोक्तृत्वमिति चेत् ? प्रतिनियतशक्तित्वाद् द्रव्याणां भास्करप्रतापवत् । पर्यायवत्त्वमपि साधारणं सर्वद्रव्याणां प्रतिनियतपर्यायोपपत्तेः । कर्मोदयाद्यपेक्षाभावा- त्तदपि पारिणामिकम् । असर्वगतत्वमपि साधारणं परमाण्वादीनामविभुत्वात्, धर्मादीनां च परिमितासंख्यात- २५प्रदेशत्वात् । कर्मोदयाद्यपेक्षाभावात्तदपि पारिणामिकम् । यदस्य कर्मोपात्तशरीरप्रमाणानुविधा- यित्वं तदसाधारणमपि सन्न पारिणामिकम्; कर्मनिमित्तत्वात् । अनादिसन्ततिबन्धनबद्धत्वमपि साधारणम् । कस्मात् ? सर्वद्रव्याणां स्वात्मीयसन्तान- बन्धनबद्धत्वं प्रत्यनादित्वात् । सर्वाणि हि द्रव्याणि जीवधर्माधर्माकाशकालपुद्गलाख्यानि प्रतिनियतानि पारिणामिकचैतन्योपयोग-गति-स्थित्यवकाशदान-वर्तनापरिणाम-वर्णगन्धरस- ३०स्पर्शादिपर्यायसन्तानबन्धनबद्धानि । कर्मोदयाद्यपेक्षाभावात्तदपि पारिणामिकम् । यदस्यानादि- कर्मसन्ततिबन्धनबद्धत्वं तदसाधारणमपि सन्न पारिणामिकम्; कर्मोदयनिमित्तत्वात् । वक्ष्यते हि *“अनादिसंबन्धे च । सर्वस्य”[तº सूº२ । ४१, ४२] इति । ११३ प्रदेशवत्त्वमपि साधारणं संख्येयाऽसंख्येयानन्तप्रदेशोपेतत्वात् सर्वद्रव्याणाम् । तदपि कर्मोदयाद्यपेक्षाभावात् पारिणामिकम् । अरूपत्वमपि साधारणं जीवधर्माधर्मकालाकाशानां रूपयोगाभावात् । तदपि कर्मोदया- द्यपेक्षाभावात् पारिणामिकम् । ०५नित्यत्वमपि साधारणं द्रव्यार्थादेशात् सर्वद्रव्याणां व्ययोदययोगाभावात् । तच्च कर्मो- दयाद्यपेक्षाभावात् पारिणामिकम् । ऊर्ध्वगतित्वमपि साधारणम् अग्न्यादीनामूर्ध्वगतिपारिणामिकत्वात् । तच्च कर्मोदयाद्य- पेक्षाभावात् पारिणामिकम् । एवमन्ये चात्मनः साधारणाः पारिणामिका योज्याः । अनन्तरसूत्रनिर्दिष्टोपसंग्रहार्थश्चशब्द इति चेत्; न; अनिष्टत्वात् । १४ । स्यान्मतम् — १०अनन्तरसूत्रे निर्दिष्टानां गत्यादीनामुपसंग्रहार्थश्चशब्दो न अस्तित्वादिसमुच्चयार्थ इति; तन्न; किं कारणम् ? अनिष्टत्वात् । नहि गत्यादीनां पारिणामिकत्वमिष्यते तल्लक्षणाभावात् । त्रिभेदपारिणामिकभावप्रतिज्ञानाच्च । १५ । यतश्चौपशमिकादिभावसंख्याविधायिनि सूत्रे त्रिभेदः पारिणामिक इति प्रतिज्ञातम्, अतो न गत्यादिसमुच्चयार्थश्चशब्दः । गत्यादीनामुभयवत्त्वं क्षायोपशमिकभाववदिति चेत्; न; अन्वर्थसंज्ञाकरणात् । १६ । अथ १५मतमेतत् — यथा क्षायोपशमिकभावस्य क्षयोपशमात्मकत्वादुभयवत्त्वं तथा गत्यादीनामुभयवत्त्वा- दौदयिकपारिणामिकत्वमिति ‘औदयिक एकविंशतिभेदः, पारिणामिकश्च त्रिभेदः’ इति सिद्ध- मिति; तन्न; किं कारणम् ? अन्वर्थसंज्ञाकरणात् । ‘परिणामः स्वभावः प्रयोजनमस्येति पारि- णामिकः’ इत्यन्वर्थसंज्ञा । न चासौ स्वभावो गत्यादिषु विद्यते कर्मोदयनिमित्तत्वात् । किञ्च, तथानभिधानात् । १७ । यथा उभयवत्त्वाज्ज्ञानादयः ‘क्षायोपशमिकाः’ इत्यभिधीयन्ते २०तथा गत्यादयः ‘औदयिकपारिणामिकाः इत्यभिधीयेरन्, न चाभिधीयन्ते । तथानभिधानात् क्षायोपशमिकवद् गत्यादयो नोभयवन्तः । किञ्च, अनिर्मोक्षप्रसङ्गात् । १८ । गत्यादीनामुभयवत्त्वात् पारिणामिकत्वे सत्यनिर्मोक्षप्रसङ्गः सातत्यावस्थानात् । तस्मात्स्थितमेतत् — ‘अस्तित्वादिसमुच्चयार्थ एव चशब्दः’ इति । आदिग्रहणमत्र न्याय्यमिति चेत्; न; त्रिविधपारिणामिकभावप्रतिज्ञाहानेः । १९ । स्यादे- २५तत् — ‘जीवभव्याभव्यत्वानि’ इत्यत्र आदिग्रहणं न्याय्यम्, अस्तित्वादीनामपीष्टत्वादिति; तन्न; किं कारणम् ? त्रिविधपारिणामिकभावप्रतिज्ञाहानेः । आदिग्रहणे हि क्रियमाणे जीवभव्याभव्य- त्वास्तित्वादीनां पारिणामिकभावत्वात् ‘त्रिविधः’ इति यत्पुरस्तात् प्रतिज्ञातं तस्य हानिः स्यात् । समुच्चयार्थेऽपि चशब्दे तुल्यमिति चेत्; न; प्रधानापेक्षत्वात् । २० । स्यान्मतम् — समुच्च- यार्थेऽपि चशब्दे अस्तित्वादीनां पारिणामिकत्वेन समुच्चयात्त्रिभेदप्रतिज्ञाहानिस्तुल्येति; ३०तन्न; किं कारणम् ? प्रधानापेक्षत्वात् । कण्ठोक्तानि त्रीणि प्रधानानि, तदपेक्षा त्रिभेदप्रतिज्ञेति नास्ति विरोधः । अस्तित्वादीनि तु साधारणत्वात् चशब्देन द्योतितानीति तेषां गुणभावः । आदिशब्दे हि क्रियमाणे अस्तित्वादीनां प्राधान्यं स्यात्, जीवत्वादीनाम् उपलक्षणार्थत्वाद् अप्राधान्यम् । तद्गुणसंविज्ञाने चोभयेषां प्राधान्यं प्रसज्येत । ११४ सान्निपातिकभावोपसंख्यानमिति चेत्; न; अभावात् । २१ । स्यादेतत् — आर्षे सान्निपा- तिकभाव उक्तः, स इहोपसंख्यातव्य इति; तन्न; किं कारणम् ? अभावात् । नहि षष्ठो भावोऽस्ति । मिश्रशब्देनाक्षिप्तत्वाच्च । २२ । यद्यप्यसौ विद्यते मिश्रशब्देनासावाक्षिप्तः । ननु च ०५मिश्रशब्दः क्षायोपशमिकसंग्रहार्थो न सान्निपातिकग्रहणार्थ इति ? उच्यते — चशब्दवचनात् । ‘औपशमिकक्षायिकौ भावौ मिश्रो जीवस्य स्वतत्त्वमौदयिकपारिणामिकौ च’ इति सिद्धे यन्मि- श्रशब्दसमीपे चशब्दकरणं तेन ज्ञायते मिश्रशब्देनोभयमुच्यते इति । मिश्रश्च कः ? क्षायोपश- मिको भावः सान्निपातिकश्चेति । इदमयुक्तं वर्तते । किमत्रायुक्तम् ? यद्यस्ति सान्निपातिको भावः ‘अभावात्’ इति विरुध्यते । अथ नास्ति; कथमार्षे सान्निपातिको भाव उवतः ? कस्य १०वा मिश्रशब्देनाक्षेपः ? नैष दोषः; सान्निपातिक एको भावो नास्तीति ‘अभावात्’ इत्युच्यते, संयोगभङ्गापेक्षया अस्तीत्यार्षं वचनम् । तत्राभावपक्षे आदिसूत्रे पूर्वोक्तानुकर्षणार्थश्चशब्द उक्तः, भावपक्षे सान्निपातिकप्रतिपादनार्थश्चशब्दः । पूर्वोक्तानुकर्षस्तु अपेक्षया वेदितव्यः । अथार्षो क्तः सान्निपातिकभावः कतिविध इति ? अत्रोच्यते — षड्विंशतिविधः षड्त्रिंश- द्विध एकचत्वारिंशद्विध इत्येवमादिरागमे उक्तः । तत्र — १५*“दुग तिग चदु पंचेव य संयोगा होंति सन्निवादेसु । दस दस पंच य एक्क य भावा छव्वीस पिंडेण ॥ ” द्विभावसंयोगेन दश — औदयिकं परिगृह्यौपशमिकादिचतुष्टयस्य चैकैकत्यागेन प्रथमे द्विभेदभावसंयोगे चत्वारो भङ्गाः । तत्रैक औदयिकौपशमिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तक्रोधः । द्वितीय औदयिकक्षायिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीण- २०कषायः । तृतीय औदयिकक्षायोपशमिकसान्निपातिकजीवभावो नाम मनुष्यः पञ्चेन्द्रियः । चतुर्थ औदयिकपारिणामिकसान्निपातिकजीवभावो नाम लोभी जीवः । द्वितीयद्विभावसंयोगे औद- यिकं परित्यज्यौपशमिकपरिग्रहात् क्षायिकादिभावत्रयस्यैकैकत्यागेन त्रयो भङ्गाः । तत्रैक औपशमिकक्षायिकसान्निपातिकजीवभावो नाम उपशान्तलोभः क्षीणदर्शनमोहत्वात् क्षायिक- सम्यग्दृष्टिः । द्वितीय औपशमिकक्षायोपशमिकसान्निपातिकजीवभावो नाम उपशान्तमान २५आभिनिबोधिकज्ञानी । तृतीय औपशमिकपारिणामिकसान्निपातिकजीवभावो नाम उपशान्त- मायो भव्यः । तृतीयद्विभावसंयोगे औपशमिकं परित्यज्य क्षायिकपरिग्रहात् क्षायोपशमिकपा- रिणामिकयोरेकैकत्यागाद् द्वौ भङ्गौ । तत्रैकः क्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम क्षायिकसम्यग्दृष्टिः श्रुतज्ञानी । द्वितीयः क्षायिकपारिणामिकसान्निपातिकजीवभावो नाम क्षीणकषायो भव्यः । चतुर्थद्विभावसंयोगे क्षायिकपरित्यागादेकः क्षायोपशमिकपारि- ३०णामिकसान्निपातिकजीवभावो नाम अवधिज्ञानी जीवः । त एते द्विभावसंयोगभङ्गा समु- दिताः दश । प्रथमत्रिभावसंयोगे औदयिकौपशमिकौ परिगृह्य क्षायिकादिभावत्रयस्यैकैकभावपरि- ग्रहात् त्रयो भङ्गाः । तत्रैक औदयिकौपशमिकक्षायिकसान्निपातिकजीवभावो नाम मनुष्य उप- ११५ शान्तमोहः क्षायिकसम्यग्दृष्टिः । द्वितीय औदयिकौपशमिकक्षायोपशमिकसान्निपातिकजीव- भावो नाम मनुष्य उपशान्तक्रोधो वाग्योगी । तृतीय औदयिकौपशमिकपारिणामिकसान्निपा- तिकजीवभावो नाम मनुष्य उपशान्तमानो जीवः । द्वितीयत्रिभावसंयोगे औपशमिकं परित्य- ज्यौदयिकक्षायिकौ परिगृह्य क्षायोपशमिकपारिणामिकयोरेकैकस्य परिग्रहाद् द्वौ भङ्गौ । ०५तत्रैकः औदयिकक्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीणकषायः श्रुत- ज्ञानी । द्वितीय औदयिकक्षायिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीणदर्शन- मोहो जीवः । तृतीयत्रिभावसंयोगे औदयिकपरिग्रहादौपशमिकक्षायिकत्यागादेकः औदयिक- क्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्यः मनोयोगी जीवः । चतुर्थ- त्रिभावसंयोगे औदयिकं परित्यज्यौपशमिकादिभावचतुष्टयस्यैकैकत्यागाच्चत्वारो भङ्गाः । १०तत्रैक औपशमिकक्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम उपशान्तमानः क्षीणदर्शन- मोहः काययोगी । द्वितीय औपशमिकक्षायिकपारिणामिकसान्निपातिकजीवभावो नाम उप- शान्तवेदः क्षायिकसम्यग्दृष्टिर्भव्यः । तृतीय औपशमिकक्षायोपशमिकपारिणामिकसान्निपातिक- जीवभावो नाम उपशान्तमानो मतिज्ञानी जीवः । चतुर्थः क्षायिकक्षायोपशमिकपारिणामिक- सान्निपातिकजीवभावो नाम क्षीणमोहः पञ्चेन्द्रियः भव्यः । त एते त्रिभावसंयोगभङ्गाः १५समुदिता दश । चतुर्भावसंयोगेन पञ्च भङ्गा औदयिकादीनामेकैकत्यागात् । तत्रैक औपशमिक्षायिक- क्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम उपशान्तलोभः क्षीणदर्शनमोहः पञ्चेन्द्रियो जीवः । द्वितीय औदयिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीणकषायो मतिज्ञानी भव्यः । तृतीय औदयिकौपशमिकक्षायोपशमिकपारिणा- २०मिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तवेदः श्रुतज्ञानी जीवः । चतुर्थ औदयिकौ- पशमिकक्षायिकपारिणामिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तरागः क्षीणदर्शनमोहो जीवः । पञ्चम औदयिकौपशमिकक्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम मनुष्य उपशान्तमोहः क्षायिकसम्यग्दृष्टिरवधिज्ञानी । पञ्चभावसंयोगेनैकः औदयिकौपशमिकक्षायिकक्षायोपशमिकपारिणामिकसान्निपातिक- २५जीवभावो नाम मनुष्य उपशान्तमोहः क्षायिकसम्यग्दृष्टिः पञ्चेन्द्रियो जीवः । एवं षड्विंशतिविधः सान्निपातिकभावः । षड्त्रिंशद्विध उच्यते — द्वयोरौदयिकयोः सन्निपातादौदयिकस्यौपशमिकादिभिः चतुर्भिरे- कशः सन्निपातात् पञ्च भङ्गाः । तत्र प्रथम औदयिकौदयिकसान्निपातिकजीवभावो नाम मनुष्यः क्रोधी । द्वितीय औदयिकौपशमिकसान्निपातिकजीवभावो नाम मनुष्यः उपशान्तक्रोधः । ३०तृतीय औदयिकक्षायिकसान्निपातिकजीवभावो नाम मनुष्यः क्षीणकषायः । चतुर्थ औदयिक- क्षायोपशमिकसान्निपातिकजीवभावो नाम क्रोधी मतिज्ञानी । पञ्चम औदयिकपारिणामिक- सान्निपातिकजीवभावो नाम मनुष्यो भव्यः । द्वयोरौपशमिकयोः सन्निपातादौपशमिकस्यौदयि- कादिभिश्चतुर्भिरेकशः सन्निपातात् पञ्च भङ्गाः । तत्रैक औपशमिकौपशमिकसान्निपातिक- जीवभावो नाम उपशमसम्यग्दृष्टिरुपशान्तकषायः । द्वितीय औपशमिकौदयिकसान्निपाति- ११६ कजीवभावो नाम उपशान्तकषायो मनुष्यः । तृतीय औपशामिकक्षायिकसान्निपातिकजीवभावो नाम उपशान्तक्रोधः क्षायिकसम्यग्दृष्टिः । चतुर्थ औपशमिकक्षायोपशमिकसान्निपातिकजीव- भावो नाम उपशान्तकषायः अवधिज्ञानी । पञ्चम औपशमिकपारिणामिकसान्निपातिकजीव- भावो नाम उपशान्तदर्शनमोहो जीवः । द्वयोः क्षायिकयोः सन्निपातात् क्षायिकस्य चौदयिका- ०५दिभिः चतुर्भिरेकशः सन्निपातात् पञ्च भङ्गाः । तत्रैकः क्षायिकक्षायिकसान्निपातिकजीवभावो नाम क्षायिकसम्यग्दृष्टिः क्षीणकषायः । द्वितीयः क्षायिकौदयिकसान्निपातिकजीवभावो नाम क्षीणकषायो मनुष्यः । तृतीयः क्षायिकौपशमिकसान्निपातिकजीवभावो नाम क्षायिक- सम्यग्दृष्टिरुपशान्तवेदः । चतुर्थः क्षायिकक्षायोपशमिकसान्निपातिकजीवभावो नाम क्षीण- कषायो मतिज्ञानी । पञ्चमः क्षायिकपारिणामिकसान्निपातिकजीवभावो नाम क्षीणमोहो १०भव्यः । द्वयोः क्षायोपशमिकयोः सन्निपातात् क्षायोपशमिकस्य चौदयिकादिभिश्चतुर्भि- रेकशः सन्निपातात् पञ्च भङ्गाः । तत्रैकः क्षायोपशमिकक्षायोपशमिकसान्निपातिकजीवभावो नाम संयतः अवधिज्ञानी । द्वितीयः क्षायोपशमिकौदयिकसान्निपातिकजीवभावो नाम संयतो मनुष्यः । तृतीयः क्षायोपशमिकौपशमिकसान्निपातिकजीवभावो नाम संयत उपशान्त- कषायः । चतुर्थः क्षायोपशमिकक्षायिकसान्निपातिकजीवभावो नाम संयतासंयतः क्षायिक- १५सम्यग्दृष्टिः । पञ्चमः क्षायोपशमिकपारिणामिकसान्निपातिकजीवभावो नाम अप्रम- त्तसंयतो जीवः । द्वयोः पारिणामिकयोः सन्निपातात् पारिणामिकस्य चौदयिकादिभिः चतुर्भिरेकशः सन्निपातात् पञ्च भङ्गाः । तत्रैकः पारिणामिकपारिणामिकसान्निपातिक जीवभावो नाम जीवो भव्यः । द्वितीयः पारिणामिकौदयिकसान्निपातिकजीवभावो नाम जीवः क्रोधी । तृतीयः पारिणामिकौपशमिकसान्निपातिकजीवभावो नाम भव्य उपशान्तकषायः । २०चतुर्थः पारिणामिकक्षायिकसान्निपातिकजीवभावो नाम भव्यः क्षीणकषायः । पञ्चमः पारिणामिकक्षायोपशमिकसान्निपातिकजीवभावो नाम संयतो भव्यः (भव्यः संयतः) । एते द्विभावसंयोगाः पञ्चविंशतिस्त्रिभावसंयोगभङ्गा दश पूर्वोक्ताः पञ्चभावसंयोगेन चैक्रः । एते सपिण्डिताः षट्त्रिंशत् । पूर्वो क्तचतुर्भावसंयोगोत्पन्नपञ्चभङ्गक्षेपाद् एत एव षड्त्रिंशदेकचत्वारिंशद्भङ्गा २५भवन्ति । एवमादयोऽन्ये च विकल्पा नेतव्या आगमाविरोधेन । औपशमिकाद्यात्मतत्त्वानुपपत्तिः, अतद्भावादिति चेत्; न; तत्परिणामात् । २३ । स्यान्म- तम् — य एत औपशमिकादयो भावा एतेषामात्मतत्त्वव्यपदेशो नोपपद्यते । कुतः ? अतद्भावात् । सर्वे हि ते पौद्गलिकाः कर्मबन्धोदयनिर्जरापेक्षत्वादिति; तन्न; किं कारणम् ? तत्परिणामात् । पुद्गलद्रव्यशक्तिविशेषवशीकृत आत्मा तद्रञ्जनः संस्तन्निमित्तं यं यं परिणाममास्कन्दति यदा ३०तदा तन्मयत्वात्तल्लक्षण एव भवति । उक्तं च — *“परिणमदि जेण दव्वं तक्कालं तम्मयंति पण्णत्तं । तम्हा धम्मपरिणदो आदा धम्मो मुणेयव्वो ॥ ”[प्रवचनसाº१ । ८] इति । स परिणामोऽन्यद्रव्यासाधारणत्वाद् आत्मतत्त्वमित्याख्यायते । ११७ अमूर्तित्वादभिभवानुपपत्तिरिति चेत्; न; तद्वद्विशेषसामर्थ्योपलब्धेश्चैतन्यवत् । २४ । अथ मतमेतत् — अमूर्तिरात्मा कर्मपुद्गलैर्नाभिभूयते ततस्तत्परिणामाभाव इति ? तन्न; किं कार- णम् ? तद्वद्विशेषसामर्थ्योपलब्धेः । सोऽस्य अनादिकर्मबन्धसन्तानोऽस्तीति तद्वान्, तद्वतो विशेष- सामर्थ्यं तद्वद्विशेषसामर्थ्यम् । कथम् ? चैतन्यवत् । यथा अनादिपारिणामिकचैतन्यवशीकृत ०५आत्मा तद्वान्, तस्य तद्वतश्चैतन्यवतः नारकादिमत्यादिपर्यायविशेषवृत्तिरपि चेतना, तथा अना- दिकार्मणशरीराक्तत्वात् कर्मवत् आत्मनो मूर्तिमत्त्वात् गत्यादिमत्यादिपर्यायविशेषसामर्थ्यो- पलब्धिरपि मूर्तिमतीति । एवं सति नामूर्तिरात्मा । किञ्च, अनेकान्तात् । २५ । अनादिकर्मबन्धसन्तानपरतन्त्रस्यात्मनः अमूर्तत्वं प्रत्यनेकान्तः — बन्ध- पर्यायं प्रत्येकत्वात् स्यान्मूर्त्तिः, तथापि ज्ञानादिस्वलक्षणापरित्यागात् स्यादमूर्त्तिः, इत्यादि १०पूर्ववत् । यस्यैकान्तेनाऽमूर्त्तिरेवात्मा भवेत्; तस्यायं दोषो नार्हतस्य । किञ्च, सुराभिभवदर्शनात् । २६ । मदमोहविभ्रमकरीं सुरां पीत्वा नष्टस्मृतिर्जनः काष्ठवदपरिस्पन्द उपलभ्यते, तथा कर्मोदयाभिभवादात्मा अनाविर्भूतस्वलक्षणो मूर्त इति निश्चीयते । करणमोहकरं मद्यमिति चेत्; न; तद्द्विविधकल्पनायां दोषोपपत्तेः । २७ । स्यादाकूतम् — चक्षुरादीनां करणानां व्यामोहकारणं मद्यं पृथिव्यादिभूतप्रसादात्मकत्वात् इन्द्रियाणां नात्म- १५गुणस्य अमर्तित्वादिति; तन्न; किं कारणम् ? तद् द्विविधकल्पनायां दोषोपपत्तेः । इदमिह संप्रधार्यम् — तानि करणानि चेतनानि वा स्युः, अचेतनानि वा ? यद्यचेतनानि; अचेतनत्वा- त्तेषां न मदकरं मद्यम् । यदि स्यात्; प्रागेव स्वभाजनानां मदकरं स्यात् । अथ चेतनानि; पृथगनुपलब्धचैतन्यस्वभावानां पृथिव्यादीनां चेतनाद्रव्यसंबन्धत्वादेव चैतन्यव्यपदेश इत्यात्म- गुणस्यैव मोहकरत्वं सिद्धम् । २०अथ मतमेतत् — पृथिव्यादीनामेव संयोगविशेषे सति पिष्टकिण्वोदकादिसमाहारे मद- शक्तिव्यक्तिवत् सुखदुःखाद्यभिव्यक्तिरिति; नैतद्युक्तम्; रूपादिवैधर्म्यात् । रूपादयो हि पृथि- व्यादिगुणाः सन्तो विभक्तेष्वविभक्तेषु च क्रमेणैव हानिमास्कन्दन्ति । न च तथा शरीरावय- वेषु विभक्तेष्वविभक्तेषु च सुखादीनां क्रमेणैव हानिः, युगपच्चोपलभ्यते, तस्मान्न पृथिव्यादिगुणाः । २५किञ्च, यदि पृथिव्यादिगुणाः सुखादयो ननु शवशरीरावस्थायामप्युपलभ्यरेन् रूपादि- वत् । सूक्ष्मभूतापगमान्नोपलब्धिरिति चेत्; भूयसां स्थूलानां संभवात् तदुपलब्धिः स्यात् । किञ्च, तदपाये तदनुपलब्धेस्तेषामेव ते गुणा इति; समुदायधर्मत्वाभावात् मद्य- दृष्टान्तायुक्तिः । किञ्च, भूतसूक्ष्मास्तित्व (सूक्ष्मभूतास्तित्व) सिद्धिवद् आत्मसिद्धिरपि स्यात् । ३०अथवा, तान्यन्तःकरणानि वा स्युः, बहिःकरणानि वा ? यदि बहिःकरणानि; तेषा- मचेतनत्वात् व्यामोहाभावः । अथान्तःकरणानि; तेषामपि चेतनत्वम्, अचेतनत्वं वा स्यात् ? ११८ अचेतनत्वे पूर्ववन्मोहाभावः । चेतनत्वे विज्ञानरूपत्वाद् व्यामोहो युक्तः, न युक्तम् — ‘अमूर्तत्वाद- भिभवाभावः’ इति । यद्येवं कर्मोदयमद्यावेशवशीकृतस्य तस्यास्तित्वं दुरुपलक्ष्यम् ? नैष दोषः; तदावेशेऽपि स्वलक्षणत्वेनोपलब्धिर्भवति । उक्तञ्च — ०५*“बंधं पडि एयत्तं लक्खणदो होदि तस्स णाणत्तं । तम्हा अमुत्तिभावो णेयंतो होदि जीवस्स ॥ ” यद्येवं तदेव तावदुच्यतां लक्षणं यत्सन्निधानाद् बन्धपरिणामं प्रत्यविवेकेऽपि सति विभा- गोऽवगृह्यते जीवस्येति ? अत आह — उपयोगो लक्षणम् ॥ ८ ॥ १०उपयोग इत्युच्यते । क उपयोगो नाम ? बाह्याभ्यन्तरहेतुद्वयसन्निधाने यथासंभवमुपलब्धुश्चैतन्यानुविधायी परिणाम उप- योगः । १ । द्विविधो हेतुर्बाह्य आभ्यन्तरश्च । द्वाववयवौ यस्य स द्वयः । ननु च स्वरूपनि- र्देशादेव द्वित्वप्रतीतेर्द्वयवचनमनर्थकम्; नानर्थकम्; प्रत्येकं द्वैविध्यसंप्रत्ययार्थम् — बाह्यो हेतुर्द्वय आभ्यन्तरश्चेति । तत्र बाह्यो हेतुर्द्विविधः — आत्मभूतोऽनात्मभूतश्चेति । तत्रात्मना संबन्ध- १५मापन्नविशिष्टनामकर्मोपात्तपरिच्छिन्नस्थानपरिमाणनिर्माणश्चक्षुरादिकरणग्राम आत्मभूतः । प्रदीपादिरनात्मभूतः । आभ्यन्तरश्च द्विविधः — अनात्मभूत आत्मभूतश्चेति । तत्र मनोवाक्काय- वर्गणालक्षणो द्रव्ययोगः चिन्ताद्यालम्बनभूतः अन्तरभिनिविष्टत्वादाभ्यन्तर इति व्यपदि- श्यमान आत्मनोऽन्यत्वादनात्मभूत इत्यभिधीयते । तन्निमित्तो भावयोगो वीर्यान्तरायज्ञान- दर्शनावरणक्षयक्षयोपशमनिमित्त आत्मनः प्रसादश्चात्मभूत इत्याख्यामर्हति । तस्यैतस्य हेतु- २०विकल्पस्य यथासंभवमुपलब्धुः सन्निधानं भवति । तद्यथा — प्रदीपादेस्तावत् केषाञ्चित् सन्नि- धानं तेन विना चक्षुरादिविज्ञानाप्रवृत्तेः, केषाञ्चित्तु द्वीपिमार्जारादीनां तमन्तरेणाप्युपलब्धे- रनियमः । चक्षुरादीनामपि पञ्चेन्द्रियविकलेन्द्रियैकेन्द्रियविषयत्वेन सन्निधानाऽसन्निधानं प्रत्यनियमः । अन्तः करणमपि असंज्ञिनां मनोवजितम्, संज्ञिनां त्रितयम्, एकेन्द्रियाणां विग्रह- गतिमुपगतानां समुद्घातगतानां च सयोगकेवलिनामेक एव काययोगः, भावयोगश्च तत्कृतः, २५तत्र तत्र नियतः क्षयोपशमश्च आक्षीणकषायात् । अत ऊर्ध्वं क्षय इति । एवं यथासंभवं सन्निधाने सति । चैतन्यमात्मनः स्वभावोऽनादिः तमनुविदधातीत्येवंशीलश्चैतन्यानुविधायी सुवर्णस्वभावानुविधायी (यि) कटकाङ्गदकुण्डलादिविकारवत् । स एवं प्रकार आत्मनः परिणाम उपयोग इत्युपदिश्यते । अत्र कश्चिदाह — चैतन्यं सुखदुःखमोहरूपं तदनुविधायिना परिणामेन सुखदुःखक्रोधादिना ३०भवितव्यम्, उत्तरत्र च उपयोगप्रकारा ज्ञानदर्शनविकारा वक्ष्यन्ते, तदिदं पूर्वापरविरुद्धमाल- ११९ क्ष्यत इति; नैष दोषः; चैतन्यं नामात्मधर्मः सामान्यभूतः, यस्याऽसन्निधानादितरेषु द्रव्येषु जीवव्यपदेशो नास्ति, यद्भेदाश्चैते ज्ञानदर्शनादयः, तेषां समुदाये वर्तमानश्चैतन्यशब्दः क्वचिदवयवेऽपि सुखादौ वर्तते — *“समुदायेषु हि प्रवृत्ताः शब्दा अवयवेष्वपि वर्तन्ते”[पातº महाº पस्पशाº] इति । इह पुनः समुदाय एव वर्तमानः परिगृहीतः, उत्तरत्र च तद्भेदा ०५ज्ञानदर्शनविकारा वक्ष्यन्ते इति नास्ति विरोधः । अथ किं लक्षणम् ? परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणम् । २ । बन्धपरिणामानुविधानात् परस्परप्रदेशानुप्रवेशाद् व्यतिकीर्णस्वभावत्वेऽपि सत्यन्यत्वप्रतिपत्तिकारणं लक्षणमिति समा- ख्यायते । यथा सुवर्णरजतयोः सत्यपि बन्धं प्रत्येकत्वे वर्णप्रमाणादिरसाधारणो धर्मः अजहदु- पलभ्यते उत्तरकालं सति विवेके तद्दर्शनात्, तथा पुद्गलद्रव्येण बन्धं प्रत्यविभागेऽपि विभा- १०गहेतुः ज्ञानादिरुपयोगो लक्षणं भवति । तल्लक्षणं द्विविधम् — आत्मभूताऽनात्मभूतभेदात् उष्णदण्डवत् । ३ । तदेतल्लक्षणं द्विविधम् — आत्मभूतमनात्मभूतञ्चेति । तत्र आत्मभूतमग्नेरौष्ण्यम्, अनात्मभूतं देवदत्तस्य दण्डः । इह आत्मभूतं लक्षणमुपयोगः । गुणगुणिनोरन्यत्वमिति चेत्; न; उक्तत्वात् । ४ । स्यादेतत् — औष्ण्यं गुणोऽग्निर्गुणी तथा १५च आत्मा गुणी ज्ञानादिर्गुण इति । तयोश्च लक्षणभेदादन्यत्वमिति; तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् — ‘अतत्स्वाभाव्येऽनवधारणप्रसङ्गोऽग्निवत्’ इत्यादि । लक्ष्यलक्षणभेदादिति चेत्; न; अनवस्थानात् । ५ । अथ मतमेतत् — लक्ष्यो गुणी गुणो लक्षणम्, लक्ष्याच्च लक्षणेनार्थान्तरभूतेन भवितव्यमित्यतोऽनयोरन्यत्वमिति; तन्न; किं कारणम् ? अनवस्थानात् । येन लक्षणेन लक्ष्यं लक्ष्यते तत् सलक्षणम्, अलक्षणं वा ? यदि २०तदलक्षणम्; मण्डूकशिखण्डवदभावमापद्येत । असति च तस्मिन् लक्ष्यानवधारणम् । अथ सल- क्षणम्; तदपि ततोऽन्यत्, तदपि ततोऽन्यदित्यनवस्था स्यात् । किञ्च, आदेशवचनात् । ६ । ‘लक्ष्यलक्षणयोरव्यतिरेकात् स्यादेकत्वम्, संज्ञादिभेदत्वाच्च स्या- न्नानात्वम्’ इत्यादेशवचनात् एकान्तदोषानुषङ्गाभावः । कश्चिदाह — न उपयोगलक्षणो जीवस्तदात्मकत्वात् । ७ । इह लोके यद्यदात्मकं न तत्तेनोपयुज्यते यथा २५क्षीरं क्षीरात्मकं न तत्तेनैवात्मनोपयुज्यते । एवमात्मनोऽपि ज्ञानाद्यात्मकत्वान्न तेनैवोपयोग इति जीवस्योपयोगाभावः । कुतश्च (इतश्च), विपर्ययप्रसङ्गात् । ८ । सति चानन्यत्वे उपयोगमिच्छतोऽनिच्छतश्च कस्यचिद्विपर्ययः प्राप्नोति । कथम् ? अविपर्ययवत् । तद्यथा — ‘जीव एव ज्ञानादनन्यत्वे सति ज्ञानात्मनोपयुज्यते’ इति मन्यसे न क्षीरादयः क्षीराद्यात्मभिः; एवं क्षीरादय एव क्षीराद्यात्मभिः परिणमेयुः, न तु ३०जीवो ज्ञानात्मनोपयुज्यते । अनिष्टं चैतत् । न; अतस्तत्सिद्धेः । ९ । नैतद्युक्तम् । कुतः ? अतस्तत्सिद्धेः । यत एवानन्यत्वमत एवोपयोगः सिद्धः । नह्यत्यन्तमन्यत्वे उपयोगः सिद्ध्यति आकाशस्य रूपाद्युपयोगाभाववत् । ननु चोक्तम् — १२० ‘यथा क्षीरं क्षीरात्मकं न तत्तेनात्मनोपयुज्यते’ इति; न; अतस्तत्सिद्धेरित्येव । यथा तृण- जलादिकारणवशात् क्षीरभावावाप्तिं प्रत्यभिमुखं क्षीरं क्षीरव्यपदेशभाक् तच्छक्त्यव्यति- रेकात् ‘क्षीरात्मना परिणमति’ इत्युच्यते, तथा आत्मापि ज्ञानादिस्वभावशक्तिप्रत्ययवशात् घटपटाद्याकारावग्रहरूपेण परिणमतीत्युपयोगः सिद्धः । इतरथा ह्यतद्भावे तद्भावाऽभावादुप- ०५योगाभावः स्यात् । किञ्च, उभयथापि त्वद्वचनासिद्धेः । १० । अनेकान्तवादप्रवणमार्हन्त्यन्यायमविज्ञाय यदुपादिक्षत् भवान् — ‘यद्यदात्मकं न तस्य तेनैव परिणामः’ इति; नन्वेवमुभयथापि त्वदीयस्य वचसोऽसिद्धिः । तद्यथा — तदात्मकानुपयोगवादिनः स्ववचसः स्वपरपक्षसाधनदूषणात्मकस्य स्वपक्षपरपक्षयोः साधकत्वदूषकत्वापरिणामात् यत्रोपदिष्टः तत्रासाधकस्तेऽयं हेतुः । यथा क्षीरस्य दधित्वेन १०परिणाम इष्यते न क्षीरत्वेनैव, तथैव त्वद्वचसः स्वपक्षसाधनात्मकस्य तेनैवापरिणामाद् दूष- कत्वेन परिणाम एषितव्यो न साधकत्वेन । अस्यैव च परपक्षदूषकात्मकस्य तेनैवापरिणामात् साधकत्वेन परिणाम एषितव्यो न दूषकत्वेन । अतः ‘तदात्मकत्वेऽनपयोगात्’ इति त्वद्वचना- सिद्धिः । अथ त्वद्वचनं स्वपरपक्षसाधकदूषकात्मकमपि सत् स्वपरपक्षयोः साधकदूषकपर्यायाभ्यां परिणमति; नन्वेवमपि यदवोचद्भवान् — ‘तदात्मकत्वेऽनुपयोगान्न तस्य तेनैव परिणामः’ इति; १५तदसत् । किञ्च, स्वसमयविरोधात् । ११ । यदि ‘यद्यदात्मकं न तत्तेनैव परिणमति’ इतीष्टं वः; ननु पृथिव्यप्तेजोवायुमहाभूतानां रूपाद्यात्मकत्वात् रूपाद्यात्मना अविपरिणामः स्यात् । इष्यते च शुक्लादिरूपादिविशेषपरिणामः । अतः स्वसमयविरोधः । किञ्च, केनचिद्विज्ञानात्मकत्वात् । १२ । यस्यैकान्तेन ज्ञानात्मक आत्मा स्यात्, तस्य ज्ञानात्मना २०परिणामाभावः परिणतत्वात् । आर्हतस्य तु केनचिद्विज्ञानात्मकः तत्पर्यायादेशात्, केनचिदन्या- त्मक इतरपर्यायादेशादिति कथञ्चित्तदात्मकत्वात् केनचिदतदात्मकत्वात् परिणामसिद्धिः । यदि चैकान्तेन ज्ञानात्मक एव स्यादितरात्मक एव वा; तद्भावाविरामः स्यात् । विरामे चात्म — नोऽपि विरामः प्रसक्तः । किञ्च, तदात्मकस्य तेनैव परिणामदर्शनात् क्षीरवत् । १३ । यथा क्षीरं द्रवमधुरादिक्षीरस्वभा- २५वमजहद् गुडादिद्रव्यसंबन्धाद् गुडक्षीरादिपरिणामान्तरमास्कन्दति, गवादेः स्तनान्तरनिर्गत — मात्रं चोष्णं पुनः शीतं भवति, पुनश्चाग्निद्रव्यसंबन्धादुष्णं घनं च भवति, तदभावे च शीत — मिति क्षीरजातिमजहदुष्णक्षीरादिव्यपदेशभागिति क्षीरं क्षीरात्मनैव परिणतम् । यदि क्षीरं क्षीरात्मना न परिणमेत्; तत्र तत्र क्षीरव्यपदेशाभावः स्यात् । तथोपयोगात्मक आत्मा उपयोग — स्वभावमजहज्ज्ञानाद्यात्मना परिणाममियर्तीति नास्ति विरोधः । अतश्चैतदेवं यदि हि ३०न स्यात्; निःपरिणामत्वप्रसङ्गोऽर्थस्वभावसंकरो वा । १४ । यदि यद्यदात्मकं तस्य तेनापरिणामः स्यात्; भावानां निष्परिणामत्वप्रसङ्गः । ततश्च सर्वथा नित्यत्वे क्रियाकारकव्यवहारलोपः स्यात् । परिणामवत्त्वे च परात्मना परिणामात् सर्वपदार्थस्वभावसंकरप्रसङ्गः स्यात् । अथैतदुभयं नेष्यते; सिद्धः स्वेनात्मना परिणामः । कश्चिदाह — १२१ उपयोगस्य लक्षणत्वानुपपत्तिर्लक्ष्याभावात् । १५ । इह लोके सतो लक्ष्यस्य लक्षणं भवति यथा सतो देवदत्तस्य दण्डादिः । न चासतः शशविषाणादेः किञ्चिल्लक्षणमस्ति । तथा स एवात्मा लक्ष्यो दुरुपपादः । तदभावात् कुत उपयोगस्य लक्षणत्वमिति ? तत्कथमिति चेत् ? उच्यते — तदभावश्चाकारणत्वादिभिः । १६ । तस्य लक्ष्यस्यात्मनोऽभावः । कुतः ? अकारणत्वादेः ०५मण्डूकशिखण्डवत् । सत्यपि लक्षणत्वानुपपत्तिरनवस्थानात् । १७ । सत्यप्यात्मनि लक्ष्ये उपयोगस्य लक्षणत्वं नोपपद्यते । कुतः ? अनवस्थानात् । उपयोगो हि ज्ञानदर्शनस्वभावः, स चानवस्थितः क्षणिकत्वात् । न चानवस्थितं लक्षणं भवति । तदपाये तदनुपलब्धेः, यथा ‘कतरद्देवदत्तस्य गृहम् ? अधो यत्रासौ काकः’ इत्युत्पतिते काके नष्टं तद्गृहं भवति तथा ज्ञानादिलक्षणस्यात्मनस्तदभावे १०अभावः प्राप्नोति इति । अत्रोच्यते — आत्मनिह्नवो न युक्तः साधनदोषदर्शनात् । १८ । इहात्मनो निह्नवो न युक्तः । कुतः ? साधनदोषदर्शनात् । यत्तावदुक्तम् — ‘नास्त्यात्मा अकारणत्वात् मण्डूकशिखण्डवत्’ इति; हेतुरयमसिद्धो १५विरुद्धोऽनैकान्तिकश्च । कारणवानेवात्मा इति निश्चयो नः, नरकादिभवव्यतिरिक्तद्रव्यार्था- भावात्, तस्य च मिथ्यादर्शनादिकारणत्वादसिद्धता । अत एव द्रव्यार्थाभावात् पर्यायस्य च पर्यायान्तरानाश्रयत्वाद् आश्रयाभावादप्यसिद्धता । अकारणमेव ह्यस्ति सर्वं घटादि, तेनायं द्रव्यार्थिकस्य विरुद्ध एव । सतोऽकारणत्वात्, यदस्ति तन्नियमेनैवाकारणम्, न हि किञ्चिदस्ति च कारणवच्च । यदि तदस्त्येव किमस्य कारणेन नित्यनिर्वृत्तत्वात् ? २०कारणवत्त्वं चासत एव कार्यार्थत्वात् कारणस्येति विरुद्धार्थता । मण्डूकशिखण्डकादीनाम् असत्प्रत्ययहेतुत्वेन परिच्छिन्नसत्त्वानामभ्युपगमात्तेषां च कारणाभावात् उभयपक्षवृत्तेर- नैकान्तिकत्वम् । दृष्टान्तोऽपि साध्यसाधनोभयधर्मविकलः । कर्मावेशवशात् नानाजातिसंबन्धमापन्नवतो जीवतो जीवस्य मण्डूकभवावाप्तौ तद्व्यपदेशभाजः पुनर्युवतिजन्मन्यवाप्ते ‘यः शिखण्डकः २५स एवायम्’ इत्येकजीवसंबन्धित्वात् मण्डूकशिखण्ड इत्यस्ति । पुद्गलद्रव्यस्याप्यनाद्यनन्तपरि- णामस्य युवतिभुक्ताहारादिकेशभावपरिणामाच्छिखण्डनिष्पत्तेः कारणत्वमिति नास्तित्वाकारण — त्वधर्माभावात् । एवं वन्ध्यापुत्र-शशविषाणादिष्वपि योज्यम् । आकाशकुसुमे कथम् ? तत्रापि यथा वनस्पतिनामकर्मोदयापादितविशेषस्य वृक्षस्य जीवपुद्गलसमुदायस्य पुष्पमिति व्यपदिश्यते, अन्यदपि पुद्गलद्रव्यं पुष्पभावेन परिणतं ३०तेन व्याप्तत्वात्, एवमाकाशेनापि व्याप्तत्वं समानमिति तत्तस्यापीति व्यपदेशो युक्तः । अथ तत्कृतोपकारापेक्षया तस्येत्युच्यते; आकाशकृतावगाहनोपकारापेक्षया कथं तस्य न स्यात् ? वृक्षात् प्रच्युतमप्याकाशान्न प्रच्यवते इति नित्यं तत्संबन्धि । अथ अर्थान्तरभावात्तस्य न १२२ स्यादिति मतम्; वृक्षस्यापि न स्यात् । सर्वत्रैवात्र नामाद्यपेक्षया संबन्धो योजयितव्यः । बहिरङ्गार्थाकारपरिणतविज्ञानविषयत्वापेक्षया वा दोषोद्भावनमूहितव्यम् । यदप्युच्यते — नास्त्यात्मा अप्रत्यक्षत्वाच्छशशृङ्गवदिति; अयमपि न हेतुः असिद्धविरुद्धानै- कान्तिकत्वाऽप्रच्युतेः । सकलविषयकेवलज्ञानप्रत्यक्षत्वाच्छुद्धात्मा प्रत्यक्षः, कर्मनोकर्मबन्धपर- ०५तन्त्रपिण्डात्मा च अवधिमनःपर्ययज्ञानयोरपि प्रत्यक्ष इति ‘अप्रत्यक्षत्वात्’ इत्यसिद्धो हेतुः । इन्द्रियप्रत्यक्षत्वाभावादप्रत्यक्ष इति चेत्; न; तस्य परोक्षत्वाभ्युपगमात् । अप्रत्यक्षा घटादयोऽग्रा — हकनिमित्तग्राह्यत्वाद् धूमाद्यनुमिताग्निवत् । अग्राहकमिन्द्रियं तद्विगमेऽपि गृहीतस्मरणात् गवाक्षवत् । किञ्च, प्रत्यक्षादन्योऽप्रत्यक्ष इति पर्युदासो वा स्यात्, प्रत्यक्षो न भवतीत्यप्रत्यक्ष इति प्रसज्यप्रतिषेधो वा ? यदि पर्युदासः; अन्यत्वस्य द्विष्ठत्वाद्वस्तुत्वसिद्धेः नास्तित्वविरो — १०ध्यस्तित्वसाधनाद्विरुद्धः । अथ प्रसज्यप्रतिषेधः; सति प्रतिषेध्ये प्रतिषेधसिद्धेः विधिविषय — सिद्धिरिति कथञ्चित् प्रत्यक्षत्वोपपत्तेः पुनरप्यसिद्धता । असति च शशशृङ्गादौ सति च विज्ञा — नादौ अप्रत्यक्षत्वस्य वृत्तेरनैकान्तिकता । अथ विज्ञानादेः स्वसंवेद्यत्वात् योगिप्रत्यक्षत्वाच्च हेतो- रभाव इति चेत्; आत्मनि कोऽपरितोषः ? दृष्टान्तोऽपि साध्यसाधनोभयधर्मविकलः पूर्वोक्तेन विधिना अप्रत्यक्षत्वस्य नास्तित्वस्य चासिद्धेः । १५किञ्च, सर्वस्य वागर्थस्य विधिप्रतिषेधात्मकत्वात्, न हि किञ्चिद्वस्तु सर्वनिषेधगम्य — मस्ति । अस्ति त्वेतत् उभयात्मकम्, यथा कुरवका रक्तश्वेतव्युदासेऽपि नाऽवर्णा भवन्ति नापि रक्ता एव श्वेता एव वा प्रतिषिद्धत्वात् । एवं वस्त्वपि परात्मना नास्तीति प्रतिषेधेऽपि स्वात्मना अस्तीति सिद्धम् । तथा चोक्तम् — “अस्तित्वमुपलब्धिश्च कथञ्चिदसतः स्मृतेः । २०नास्तितानुपलब्धिश्च कथञ्चित्सत एव ते ॥ १ ॥ सर्वथैव सतो नेमौ धर्मौ सर्वात्मदोषतः । सर्वथैवाऽसतो नेमौ वाचां गोचरताऽत्ययात् ॥ २ ॥ ” इति । नास्तित्वाप्रत्यक्षत्वाभ्यामपि रहितं तदवस्त्विति धर्म्यसिद्धिश्च । एवमन्येऽपि हेतव एकान्तवादिभिरुपनीता दोषवत्तयोत्प्रेक्ष्याः । तदस्तित्वं च साध्यते — २५ग्रहणविज्ञानासंभविफलदर्शनाद् गृहीतृसिद्धिः । १९ । यान्यमूनि ग्रहणानि पूर्वकृतकर्मनि — र्वर्तितानिहिरुक्कृतस्वभावसामर्थ्यजनितभेदानि रूपरसगन्धस्पर्शशब्दग्राहकाणि चक्षूरसन — घ्राणत्वक्श्रोत्राणि । यानि च ज्ञानानि तत्सन्निकर्षजानि तानि, तेष्वसंभविफलमुपलभ्यते । किं पुनस्तत् ? आत्मस्वभावस्थानज्ञानविषयसम्प्रतिपत्तिः । तदेतद् ग्रहणानां तावन्न संभवति; अचेतनत्वात्, क्षणिकत्वाच्च । विज्ञानानां च न संभवति, एकार्थग्राहित्वादुत्पत्त्यनन्तरनिरो — ३०धाच्च । दृश्यते चेदम् । अकस्माच्च न भवतीति तत्प्रत्तिपत्तिपतिना ततो व्यतिरिक्तेन केन- चिद्भवितव्यमिति गृहीतृसिद्धिः । किञ्च, १२३ अस्मदात्मास्तित्वप्रत्ययस्य सर्वविकल्पेष्विष्टसिद्धेः । २० । योऽयमस्माकम् ‘आत्माऽस्ति’ इति प्रत्ययः स संशयानध्यवसायविपर्ययसम्यक्प्रत्ययेषु यः कश्चित् स्यात्, सर्वेषु च विकल्पे — ष्विष्टं सिध्यति । न तावत्संशयः; निर्णयात्मकत्वात् । सत्यपि संशये तदालम्बनात्मसिद्धिः । न हि अवस्तुविषयः संशयो भवति । नाप्यनध्यवसायो जात्यन्धबधिररूपशब्दवत्; अनादि — ०५संप्रतिपत्तेः । स्याद्विपर्ययः; एवमप्यात्मास्तित्वसिद्धिः पुरुषे स्थाणुप्रतिपत्तौ स्थाणुसिद्धिवत् । स्यात्सम्यक्प्रत्ययः; अविवादमेतत् — आत्मास्तित्वमिति सिद्धो न पक्षः । सन्तानादिति चेत्; न; तस्य संवृतिसत्त्वात्, द्रव्यसत्त्वे वा संज्ञाभेदमात्रम् । २१ । स्यान्मतम्- सन्तानो नाम कश्चिदर्थोऽस्ति एकोऽनेकक्षणवृत्तिः, तदाश्रयं ग्रहणविज्ञानात्मस्वभावस्थानादि — संप्रतिपादनमिति; तन्न; किं कारणम् ? तस्य संवृतिसत्त्वात् । स हि सन्तानः संवृतिसन्, १०तस्मिन्नसति कल्पितात्मनि कथं स्यात्तद्विशेषप्रत्ययः ? अथ द्रव्यसत्त्वमस्यावसीयते; संज्ञा- भेदमात्रम् — आत्मा सन्तान इति नार्थविप्रतिपत्तिः । यदप्युक्तम् — ‘सत्यपि लक्षणत्वानुपपत्तिरनवस्थानात्’ इति, कथञ्चिदवस्थानादुपयोगस्य लक्षणत्वोपपत्तिः । न हि सर्वथा विनाशोऽवस्थानं वोपयोगस्याभ्युपगम्यते । किं तर्हि ? कथ — ञ्चिद्विनाशः कथञ्चिदवस्थानं च । पर्यायार्थादेशात् सतोऽर्थस्यानुपलब्धेर्विनाशो द्रव्यार्थादेशा — १५दवस्थानमिति असकृत्परीक्षितमेतत् । तस्मादुपयोगस्य लक्षणत्वमुपपद्यते । तदुपरमाभावाच्च । २२ । कस्यचिदुपयोगस्योत्पादः कस्यचिद्विनाश इत्युपयोगपरम्परा नोपरमतीति तस्य लक्षणत्वमवसेयम् । सर्वथा विनाशे पुनरनुस्मरणाभावः । २३ । यदि सर्वथोपयोगस्य विनाशः स्यात्; अनुस्मरणं न स्यात् । अनुस्मरणं हीदं स्वयमनुभूतस्यार्थस्य दृष्टं नाननुभूतस्य नान्येनानुभूतस्य । तदभा- २०वात्तन्मूलः सर्वलोकसंव्यवहारो विनाशमुपगच्छेत् । उपयोगसंबन्धो लक्षणमिति चेत्; न; अन्यत्वे संबन्धाभावात् । २३ । स्यान्मतम् — उपयोगो लक्षणमात्मनो नोपपद्यते । कुतः ? अन्यत्वात् । किं तर्हि ? तत्संबन्धो लक्षणम् । यथा देवदत्तस्य न दण्डो लक्षणम् किं तर्हि ? संबन्धः । यदि हि दण्डो लक्षणम् असंसक्तोऽपि लक्षणं स्यात्, एवं च कृत्वोक्तम् — *“क्रियावद्गुणवत्समवायिकारणं द्रव्यलक्षणम्”[वैशेº १ । १ । १५] इति; तन्न; किं २५कारणम् ? अन्यत्वे संबन्धाभावात् । द्रव्याद् गुणोऽर्थान्तरभूतो यदि स्यात्; तस्य संबन्धाभाव इत्युक्तं पुरस्तात् । तस्मादात्मभूत उपयोगो लक्षणमिति न कश्चिद्दोषः । य उक्त उपयोगस्तद्भेददर्शनार्थमाह — स द्विविधोऽष्टचतुर्भेदः ॥ ९ ॥ कथं द्विविधः ? ३०साकारानाकारभेदाद् द्विविधः । १ । साकार उपयोगोऽनाकार उपयोगश्चेति द्विविधः । साकारं ज्ञानम्, अनाकारं दर्शनम् । १२४ अभ्यर्हितत्वाज्ज्ञानग्रहणमादौ । २ । ज्ञानं ह्यभ्यर्हितम् अर्थानां विभावकत्वात्, दर्शन- मालोचनमात्रम्, अतस्तस्मात् पूर्वकालभाविनोऽपि दर्शनाज्ज्ञानं प्राग्गृह्यते । कथं पुनर्ज्ञायते ज्ञानग्रहणमादौ क्रियत इति ? संख्याविशेषनिर्देशात्तन्निश्चयः । ३ । यतः संख्याविशेषनिर्देशः क्रियते — ‘अष्टभेदश्चतुर्भेदः’ ०५इति, ततस्तस्य निश्चयो वेदितव्यः । ननु च चतुःशब्दस्य पूर्वनिपातेन भवितव्यम् *“संख्याया अल्पीयस्याḥ”[पाº वाº २ । २ । ३४] इति वचनात्, यथा चतुर्दशेति; नैष दोषः; उक्तमेतत् — ‘अभ्यर्हितत्वात् पूर्वनिपातः’ इति । तत्र ज्ञानोपयोगोऽष्टविधः — मतिज्ञानं श्रुतज्ञानमवधिज्ञानं मनःपर्ययज्ञानं केवलज्ञानं मत्यज्ञानं श्रुताऽज्ञानं विभङ्गज्ञानं चेति । दर्शनोपयोगश्चतुर्विधः — चक्षुर्दर्शनम् अचक्षुर्दर्शनमवधि- १०दर्शनं केवलदर्शनंचेति । एषां च लक्षणादीनि व्याख्यातानि । अवग्रहान्नान्यत् दर्शनमिति चेत्; व्याख्यातमन्यत्वम् । छद्मस्थेषु तयोः क्रमेण वृत्तिः, निरावरणेषु युगपत् । यथोक्तेनानेनाहितपरिणामेन सर्वात्मसाधारणेनोपयोगेन ये उपलक्षिता उपयोगिनः ते द्विविधाः — संसारिणो मुक्ताश्च ॥ १० ॥ १५आत्मोपचितकर्मवशादात्मनो भवान्तरावाप्तिः संसारः । १ । आत्मनोपचितं कर्माष्टविधं प्रकृतिस्थित्यनुभागप्रदेशबन्धभेदभिन्नम्, तद्वशादात्मनो भवान्तरावाप्तिः संसार इति । उच्यते — द्विरात्मग्रहणं किमर्थम् ? ‘आत्मैव कर्मणः कर्ता, तत्फलस्य च आत्मैव भोक्ता’ इत्येतस्य प्रदर्शनार्थम् । अन्ये तु ‘त्रैगुण्यं कर्तृ, परम् आत्मा भोक्ता’ इति मन्यन्ते; तदयुक्तम्; अचेतनस्य पुण्य- २०पापविषयकर्तृतानुपपत्तेर्घटादिवत् । परकृतफलभोगे चानिर्मोक्षप्रसङ्गः स्यात् कृतप्रणाश- श्चेति । तस्माद्यः कर्ता स एव भोक्तेति युक्तम् । संसारः पञ्चविधः द्रव्यतः क्षेत्रतः कालतो भावतो भवतश्चेति, स येषामस्ति ते संसारिणः । निरस्तद्रव्यभावबन्धा मुक्ताः । २ । बन्धो द्विविधो द्रव्यबन्धो भावबन्धश्चेति । तत्र द्रव्यबन्धः कर्मनोकर्मपरिणतः पुद्गलद्रव्यविषयः । तत्कृतः क्रोधादिपरिणामवशीकृतो भाव- २५बन्धः । स उभयोऽपि निरस्तो यैः ते मुक्ताः । द्वन्द्वनिर्देशो लघुत्वादिति चेत्; न; अर्थान्तरप्रतीतेः । ३ । स्यान्मतम् — द्वन्द्वनिर्देशोऽत्र युक्तः । कुतः ? लघुत्वात्, द्वन्द्वे हि सति उक्तार्थत्वाच्चशब्दाप्रयोगे लाघवं भवति इति; तन्न; किं कारणम् ? अर्थान्तरप्रतीतेः । संसारिणश्च मुक्ताश्चेति द्वन्द्वे सति अल्पाच्तरत्वादभ्यर्हितत्वाच्च मुक्तशब्दस्य पूर्वनिपाते सति मुक्तसंसारिण इति प्राप्नोति, तथा च सत्यर्थान्तरं प्रतीयेत — ३०मुक्तः संसारो येन भावेन स मुक्तसंसारस्तद्वन्तः मुक्तसंसारिण इति । तथा सति मुक्ता — नामेवोपयोगित्वमुक्तं स्यान्न संसारिणाम्, अतो वाक्यमेव क्रियते । १२५ समुच्चयाभिव्यक्त्यर्थं चशब्दोऽनर्थक इति चेत्; न; उपयोगस्य गुणभावप्रदर्शनार्थ- त्वात् ॥ ४ । स्यान्मतम् — चशब्दोऽनर्थकः । कुतः ? अर्थभेदात् समुच्चयसिद्धेः । भिन्ना हि संसारिणो मुक्ताश्च ततो विशेषणविशेष्यत्वानुपपत्तेः समुच्चयः सिद्धः यथा *“पृथिव्यापस्तेजोवायुः” इति; तन्न; किं कारणम् ? उपयोगस्य गुणभावप्रदर्शनार्थत्वात् । नायं चशब्दः समुच्चये, ०५क्व तर्हि ? अन्वाचये । तत्र ह्येकः प्रधानभूतः इतरो गुणभूतः यथा ‘भैक्षं चर देवदत्तं चानय’ इति प्रधानशिष्टं भैक्षचरणं देवदत्तानयनमप्रधानशिष्टम् । तथा संसारिणः प्राधान्येनोपयोगिनो मुक्ता गुणभावेनेत्येतस्य प्रदर्शनार्थः । कथं संसारिषु मुख्य उपयोगः कथं वा मुक्तेषु गौणः ? परिणामान्तरसंक्रमाभावाद् ध्यानवत् । ५ । यथा एकाग्रचिन्तानिरोधो ध्यानमिति छद्मस्थे ध्यानशब्दार्थों मुख्यश्चिन्ताविक्षेपवतः तन्निरोधोपपत्तेः, तदभावात् केवलिन्युपचरितः फलदर्श- १०नात्, तथा उपयोगशब्दार्थोऽपि संसारिषु मुख्यः परिणामान्तरसंक्रमात्, मुक्तेषु तदभावाद् गौणः कल्प्यते उपलब्धिसामान्यात् । संसारिग्रहणमादौ बहुविकल्पत्वात् तत्पूर्वकत्वात् स्वसंवेद्यत्वाच्च । ६ । संसारिग्रहणमादौ क्रियते बहुविकल्पत्वात्, बहवो हि संसारिणां विकल्पा गत्यादयः । किञ्च, तत्पूर्वकत्वात् । संसारिपूर्वका हि मुक्ताः, न मुक्तपूर्वाः संसारिण इति । स्वसंवेद्यत्वाच्च । स्वसंवेद्या हि संसा- १५रिणो गत्यादिपरिणामानामनुभूतत्वात्, मुक्ताः पुनरत्यन्तपरोक्षाः, तदनुभवस्याप्राप्तत्वात् । तत्र य एते शुभाशुभकर्मफलानुभवनसंबन्धवशीकृतस्वभावा अप्रच्युतसंसरणाः पूर्वकृत- नामकर्मनिमित्तजनितकरणविशेषाः प्राणिनः ते खलु — समनस्काऽमनस्काः ॥ ११ ॥ मनःसन्निधानासन्निधानापेक्षया द्विविधाः संसारिणः । १ । मनो द्विविधम् — द्रव्यमनो भाव — २०मनश्चेति । तत्र पुद्गलविपाकिकर्मोदयापेक्षं द्रव्यमनः । वीर्यान्तरायनोइन्द्रियावरणक्षयोपशमा- पेक्षा आत्मनो विशुद्धिर्भावमनः । तेन मनसा सह वर्तन्त इति समनस्काः । न विद्यते मनो येषां ते अमनस्का इति द्विविधाः संसारिणो भवन्ति । अत्राह — द्विविधजीवप्रकरणाद्यथासंख्यप्रसङ्गः । २ । द्विविधा हि जीवाः प्रकृताः संसारिणो मुक्ताश्च । तत्र संसारिणः समनस्काः मुक्ताश्चाऽमनस्का इति यथासंख्यं प्राप्नोति । २५इष्टमिति चेत्; न; सर्वसंसारिणां समनस्कत्वप्रसङ्गात् । ३ । स्यादेतत् — इष्टमेवेदं संसा- रिणः समनस्का मुक्ताश्चामनस्का इति; तन्न; किं कारणम् ? सर्वसंसारिणां समनस्कत्व- प्रसङ्गात् । एकद्वित्रिचतुरिन्द्रियाणां पञ्चेन्द्रियेषु च केषाञ्चित् मनोविषयविशेषव्यवहारा — भावात् अमनस्कतेष्टा तद्व्याघातोऽतः स्यात् । अत्रोच्यते — पृथग्योगप्रक्लृप्तेः संसारिसंप्रत्ययः । ४ । यदिदं पृथग्योगकरणं तेन ज्ञायते संसारिणोऽत्र ३०संबन्ध्यन्त इति । इतरथा हि एक एव योगः क्रियते — ‘संसारिणो मुक्ताश्च समनस्कामनस्काः’ इति । १२६ औपरिष्टसंसारिवचनप्रत्यासत्तेश्च । ५ । औपरिष्टमस्ति संसारिवचनम्, तस्य प्रत्यास — त्तेरभिसंबन्धाच्च संसारिसंप्रत्ययो भवति । अत्राह — तदभिसंबन्धे यथासंख्यप्रसङ्गः । ६ । यदि तदभिसंबन्धः क्रियते तत्तत्र त्रसस्थावरग्रहण- मस्ति तेन यथासंख्यं प्राप्नोति ‘समनस्कास्त्रसा अमनस्काः स्थावराः’ इति । ०५इष्टमेवेति चेत्; न; सर्वत्रसानां समनस्कत्वप्रसङ्गात् । ७ । स्यादेतत् — इष्टमेवेदं त्रसाः समनस्काः स्थावरा अमनस्का इति; तन्न; किं कारणम् ? सर्वत्रसानां समनस्कत्वप्रसङ्गात्, द्वित्रिचतुरिन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणामपि समनस्कत्वं प्रसज्येत । अनिष्टं चैतत् । अत्रोच्यते — नानभिसंबन्धात् । ८ । संसारिग्रहणमात्रमत्राभिसंबध्यते न त्रसस्थावरग्रहणम् । इच्छावशेन हि संबन्धो भवति । १०एकयोगाकरणात् । ९ । यदि त्रसस्थावरग्रहणेनापि संबन्ध इष्टः स्यात् एक एव योगः क्रियेत — ‘समनस्कामनस्काः संसारिणस्त्रसस्थावराः’ इति । नत्वेवं कृतः । तेन ज्ञायते त्रसस्थावर — ग्रहणं न संबध्यत इति । अथवा, एकयोगाकरणात् मन्यामहे — अतीतस्य संसारिमुक्तग्रहणस्य वक्ष्यमाणस्य च त्रसस्थावरग्रहणस्य समनस्कामनस्कग्रहणेनाभिसंबन्धो न भवतीति । इतरथा अन्यतरत्र संसारिग्रहणे सतीष्टार्थत्वादुपरि संसारिग्रहणमनर्थकम् । १० । इतरेण १५प्रकारेणेतरथा । कथम् ? यदि संसारिमुक्तग्रहणेन त्रसस्थावरग्रहणेन चास्याभिसंबन्धःस्यात् एक एव योगः क्रियेत — ‘संसारिमुक्ताः समनस्कामनस्कास्त्रसस्थावराश्च’ इति । तथा सत्यन्यतरत्र संसारिग्रहणं कर्तव्यं स्यात् । क्वान्यतरत्र ? समनस्कामनस्कसूत्रस्यादावन्ते वा । एवं सतीष्टा — र्थस्य सिद्धत्वात् ‘संसारिणः त्रसस्थावराः’ इत्यत्र संसारिग्रहणमनर्थकं स्यात् । आदौ समनस्कग्रहणमभ्यर्हितत्वात् । ११ । आदौ समनस्कग्रहणं क्रियते । कुतः ? अभ्यर्हि- २०तत्वात् । कथमभ्यर्हितत्वम् ? तत्र हि समग्राणि करणानीति । य एते स्वकृतकर्मफलापेक्षपरिपूर्णापरिपूर्णकरणग्रामाहितद्वैविध्यविशिष्टाः कार्मणशरी- रप्रणालिकापादितनियतावस्थाविशेषाः, ते खलु — संसारिणस्त्रसस्थावराः ॥ १२ ॥ अत्राह — के त्रसाः, के स्थावरा इति ? उच्यन्ते — २५त्रसनामकर्मोदयापादितवृत्तयस्त्रसाः । १ । त्रसनामकर्मणो जीवविपाकिन उदयापादित- वृत्तिविशेषाः त्रसा इति व्यपदिश्यन्ते । त्रसेरुद्वेजनक्रियस्य त्रसा इति चेत्; न; गर्भादिषु तदभावाद् अत्रसत्वप्रसङ्गात् । २ । स्यान्मतम् — त्रसेरुद्वेजनक्रियस्य त्रस्यन्तीति त्रसा इति ? तन्न; किं कारणम् ? गर्भादिषु तद- भावाद् अत्रसत्वप्रसङ्गात् । गर्भाण्डजमूर्च्छितसुषुप्तादीनां त्रसानां बाह्यभयनिमित्तोपनिपाते ३०सति चलनाभावादत्रसत्वं स्यात् । कथं तर्ह्यस्य निष्पत्तिः ‘त्रस्यन्तीति त्रसाः’ इति ? व्युत्पत्ति — मात्रमेव नार्थः प्राधान्येनाश्रियते गोशब्दप्रवृत्तिवत् । स्थावरनामकर्मोदयोपजनितविशेषाः स्थावराः । ३ । स्थावरनामकर्मणो जीवविपाकिन उदयेनोपजनितविशेषाः स्थावरा इत्याख्यायन्ते । १२७ स्थानशीलाः स्थावरा इति चेत्; न; वाय्वादीनामस्थावरत्वप्रसङ्गात् । ४ । स्यादेतत् — तिष्ठन्तीत्येवं शीलाः स्थावरा इति ? तन्न; किं कारणम् ? वाय्वादीनामस्थावरत्वप्रसङ्गात् । वायुतेजोऽम्भसां हि देशान्तरप्राप्तिदर्शनादस्थावरत्वं स्यात् । कथं तर्ह्यस्य निष्पत्तिः — ‘स्थान- शीलाः स्थावराः’ इति ? एवं रूढिविशेषबललाभात् क्वचिदेव वर्तते । ०५इष्टमेवेति चेत्; न; समयार्थानवबोधात् । ५ । अथ मतमेतत् — इष्टमेव वाय्वादीनामस्थाव- रत्वमिति; तन्न; किं कारणम् ? समयार्थानवबोधात् । एवं हि समयोऽवस्थितः सत्प्ररूपणायां कायानुवादे *“त्रसा नाम द्वीन्द्रियादारभ्य आ अयोगिकेवलिनः”[षट्खंº] इति । तस्मान्न चलनाचलनापेक्षं त्रसस्थावरत्वं कर्मोदयापेक्षमेवेति स्थितम् । त्रसग्रहणमादौ अल्पाच्तरत्वादभ्यर्हितत्वाच्च । ६ । त्रसग्रहणमादौ क्रियते । कुतः ? अल्पा — १०च्तरत्वाद् अभ्यर्हितत्वाच्च । सर्वोपयोगसंभवादभ्यर्हितत्वम् । सामान्यविशेषसंज्ञाहितभेदमात्रविज्ञाने सति विशेषेणाऽनिर्ज्ञातानां त्रसस्थावराणां निर्ज्ञाने कर्तव्ये एकेन्द्रियाणामतिबहुवक्तव्याभावाद् विभज्यानुपूर्वींस्थावरभेदप्रतिपत्त्यर्थमाह — पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः ॥ १३ ॥ नामकर्मोदयानिमित्ताः पृथिव्यादयः संज्ञाः । १ । स्थावरनामकर्मभेदाः पृथिवीकायादयः १५सन्ति, तदुभयनिमित्ता जीवेषु पृथिव्यादयः संज्ञा वेदितव्याः । प्रथनादिप्रकृतिनिष्पन्ना अपि रूढिवशात् प्रथनाद्यनपेक्षा वर्तन्ते । एषां पृथिव्यादीनामार्षे चातुर्विध्यमुक्तं प्रत्येकम् । तत्कथमिति चेत् ? उच्यते — पृथिवी पृथिवीकायः पृथिवीकायिकः पृथिवीजीव इत्यादि । तत्र अचेतनावैश्रसिकपरिणामनिर्वृत्ता काठिन्यादिगुणात्मिका पृथिवी । अचेतनत्वादसत्यपि पृथिवीकायिकनामकर्मोदये प्रथनक्रियो- २०पलक्षितैवेयम् । अथवा, पृथिवी सामान्यम्; उत्तरत्रये संभवात् । कायः शरीरम्, पृथिवी- कायिकजीवपरित्यक्तः पृथिवीकायः, मृतमनुष्यादिकायवत् । पृथिवी कायोऽस्यास्तीति पृथिवीकायिकः तत्कायसंबन्धवशीकृत आत्मा । समवाप्तपृथिवीकायिकनामकर्मोदयः कार्मण- काययोगस्थः, यो न तावत् पृथिवीं कायत्वेन गृह्णाति स पृथिवीजीवः । एवमापः, अप्कायः, अप्कायिकः, अप्जीवः । तेजः, तेजस्कायः, तेजस्कायिकः, तेजो जीवः । वायुर्वायुकायो २५वायुकायिको वायुजीवः । वनस्पतिर्वनस्पतिकायो वनस्पतिकायिको वनस्पतिजीव इति योज्यम् । सुखग्रहणहेतुत्वात् स्थूलमूर्तित्वादुपकारभूयस्त्वाच्चादौ पृथिवीग्रहणम् । २ । पृथिव्यां हि सत्यामपां कुम्भादिभिः अग्नेश्च शरावादिभिः वायोश्च चर्मघटादिभिः सुखेन ग्रहणं क्रियते । १२८ स्थूलमूर्तिश्च पृथिवी विमानभवनप्रस्तारादिभावपरिणामात् । स्नानपानाद्युपकारादपां पाक- शोषप्रकाशनाद्युपकाराच्चाग्नेः स्वेदखेदापनोदाद्युपकाराच्च वायोर्भूयानुपकारः पृथिव्या अशना- च्छादनवसनादिभावो वनस्पतेः । अपादीनां यश्चोक्त उपकारः प्रतिनियत इति स सत्यां पृथिव्यां संभवति, इतरथा हि क्वावस्थितानां स उपकारः स्यात्, अतः पृथिव्या ग्रहणमादौ ०५क्रियते । तदनन्तरमपां वचनं भूमितेजसोर्विरोधादाधेयत्वाच्च । ३ । तदनन्तरमपां वचनं क्रियते । कुतः ? भूमितेजसोर्विरोधादाधेयत्वाच्च । भूमेर्हि तेजो विरोधि विनाशकत्वात्, अतोऽद्भि- र्व्यवधानं क्रियते । भूरपामाधारः आधेया आप इति च । ततस्तेजोग्रहणं तत्परिपाकहेतुत्वात् । ४ । पृथिव्या अपां च परिपाकहेतुस्तेजः, तदनन्तरं १०तस्य ग्रहणं क्रियते । तेजोऽनन्तरं वायुग्रहणं तदुपकारकत्वात् । ५ । वायुर्हि तिर्यक्प्लवनकर्मा तेजसः प्रेरणेन उपकरोतीति तदनन्तरं गृह्यते । अन्ते वनस्पतिग्रहणं सर्वेषां तत्प्रादुर्भावे निमित्तत्वादनन्तगुणत्वाच्च । ६ । वनस्पति- प्रादुर्भावे हि पृथिव्यादयः सर्वे निमित्ततामुपव्रजन्ति । सर्वेषां तेषां वनस्पतिकायिका अनन्त- १५गुणास्ततोऽन्ते वनस्पतिग्रहणं क्रियते । एते पञ्चविधाः प्राणिनः स्थावराः । कति पुनरेषां प्राणाः ? चत्वारः — स्पर्शनेन्द्रियप्राणः कायबलप्राण उच्छ्वासनिश्वास — प्राण आयुःप्राणश्चेति । अथ के त्रसा इति ? अत्रोच्यते — द्वीन्द्रियादयस्त्रसाः ॥ १४ ॥ २०आदिशब्दस्यानेकार्थत्वे विवक्षातो व्यवस्थासंप्रत्ययः । १ । अयमादिशब्दोऽनेकार्थः — व्यवस्थाप्रकारसामीप्यादिवचनत्वात्, तत्र विवक्षात इह व्यवस्थायां गृह्यते । आगमे हि ते व्यवस्थिताद्वीन्द्रियस्त्रीन्द्रियश्चतुरिन्द्रियः पञ्चेन्द्रियश्चेति । कोऽस्य विग्रहः ? द्वे इन्द्रिये यस्य सोऽयं द्वीन्द्रियः स आदिर्येषां ते द्वीन्द्रियादय इति । यद्येवम् — अन्यपदार्थनिर्देशाद् द्वीन्द्रियाग्रहणम् । २ । अन्यपदार्थोऽत्र प्राधान्येनाश्रितः । द्वीन्द्रियग्रहण- २५मुपलक्षणम्, अतस्त्रसग्रहणे द्वीन्द्रियस्य ग्रहणं न प्राप्नोति यथा ‘पर्वतादीनि क्षेत्राणि’ इति न पर्वतः क्षेत्रग्रहणेन गृह्यते । न वा तद्गुणसंविज्ञानात् । ३ । न वैष दोषः; किं कारणम् ? तद्गुणसंविज्ञानात् । यथा शुक्लवाससमानयेति तद्गुण आनीयते तथेहापि द्वीन्द्रियस्याप्यन्तर्भावो भवति । अवयवेन विग्रहे सति समुदायस्य वृत्त्यर्थत्वाद्वा । ४ । अथवा *“अवयवेन विग्रहः समुदायो ३०वृत्त्यर्थः”[पातº महाº २ । २ । २४] इति द्वीन्द्रियस्योपलक्षणस्यापि त्रसत्वेऽन्तर्भावः, यथा *“सर्वादिः सर्वनाम”[जैनेन्द्रº १ । १ । ३५] इति । कथं तर्हि पर्वतादीनि क्षेत्राणीति पर्वतस्य बहिर्भावः ? पर्वतस्य क्षेत्रत्वसंभवाभावाद् व्युदासः । ते एते चतुर्विधाः प्राणिनस्त्रसाः । १२९ कति पुनरेषां प्राणाः ? द्वीन्द्रियस्य तावत् षट्प्राणाः — स्पर्शनरसनेन्द्रियप्राणौ वाक्कायबल- प्राणौ उच्छ्वासनिश्वासप्राणः आयुःप्राणश्चेति । त्रीन्द्रियस्य सप्त — त एव प्राणाः घ्राणा — धिकाः । चतुरिन्द्रियस्याष्टौ — त एव चक्षुरधिकाः । पञ्चेन्द्रियस्य तिरश्चोऽसंज्ञिनो नव प्राणाः त एव श्रोत्राधिकाः । संज्ञिपञ्चेन्द्रियतिर्यङ्मनुष्यदेवनारकाणां दश प्राणा मनोबलाधिकास्त एव । ०५आदिशब्देन निर्दिष्टानामिन्द्रियाणामनिर्ज्ञातसंख्यानामियत्तावधारणार्थमाह — पञ्चेन्द्रियाणि ॥ १५ ॥ अथवा स्वां प्रक्रियाम् आचिख्यासवः केचित् पञ्च षडेकादश चेन्द्रियाणि इत्यध्यवस्यन्ति तत्रानिष्टनिवृत्त्यर्थ नियमयन्नाह — पञ्चेन्द्रियाणि नाधिकानीति । इन्द्रस्यात्मनो लिङ्गमिन्द्रियम् । १ । उपभोक्तुरात्मनोऽनिवृत्तकर्मबन्धस्यापि परमेश्वरत्व- १०शक्तियोगाद् इन्द्रव्यपदेशमर्हतः स्वयमर्थान् गृहीतुमसमर्थस्योपयोगोपकरणं लिङ्गमिन्द्रिय- मित्युच्यते । इन्द्रेण कर्मणा सृष्टमिति वा । २ । अथवा स्वकृतकर्मविपाकवशादात्मा देवेन्द्रादिषु तिर्यगादिषु चेष्टानिष्टमनुभवतीति कर्मैव तत्रेन्द्रः, तेन सृष्टमिन्द्रियमित्याख्यायते । तद्भेदाः स्पर्शनादयः पञ्च वक्ष्यमाणाः । १५मनोऽपीन्द्रियमिति चेत्; न; अनवस्थानात् । ३ । स्यान्मतम् — मनोऽपीन्द्रियमित्युपसंख्येयम्, कर्ममलीमसस्यात्मनोऽसहायस्य स्वयमेवार्थचिन्तनं प्रत्यसहिष्णोर्बलाधानं भवति मनः कर्मकृतं चेति ? तन्न; किं कारणम् ? अनवस्थानात् । यथा चक्षुरादीनि प्रतिनियतदेशावस्थानानि न तथा मन इत्यनिन्द्रियं तत् । इन्द्रियपरिणामाच्च प्राक् तद्व्यापारात् । ४ । चक्षुरादीनां रूपादिविषयोपयोगपरिणा- २०मात् प्राक् मनसो व्यापारः । कथम् ? शुक्लादिरूपं दिदृक्षुः प्रथमं मनसोपयोगं करोति ‘एवंविधं रूपं पश्यामि रसमास्वादयामि’ इति, ततस्तद्बलाधानीकृत्य चक्षुरादीनि विषयेषु व्याप्रियन्ते । ततश्चास्याऽनिन्द्रियत्वम् । कर्मेन्द्रियोपसंख्यानमिति चेत्; न; उपयोगप्रकरणात् । ५ । स्यादेतत् — कर्मेन्द्रियाणि वागा- दीनि वचनादिक्रियानिमित्तानि सन्ति तेषामिहोपसंख्यानं कर्तव्यमिति ? तन्न; किं कारणम् ? २५उपयोगप्रकरणात् । उपयोगोऽत्र प्रकृतः, तदुपकरणानि इह इन्द्रियाणि गृह्यन्ते, तेन कर्मेन्द्रिया- णामप्रसङ्गः । अनिन्द्रियत्वं वा तेषामनवस्थानात् । ६ । न वागादीनामिन्द्रियत्वमस्ति, उपयोगसाधनेषु हीन्द्रियव्यपदेशो युक्तो न क्रियासाधनेषु । यदि च क्रियासाधनिष्वपि स्याद् अनवस्था प्रसज्येत, सर्वाणि ह्यङ्गोपाङ्गादीनि मूर्धादीनि क्रियासाधनानीति । ३०इष्टानिष्टविषयोपलब्धार्यानि भोक्तुरात्मनो यान्यमूनीन्द्रियाणि तेषामुक्तसामर्थ्य — विशेषादुपनिपतितभेदानां प्रत्येकं भेदप्रतिपत्त्यर्थमाह — १३० द्विविधानि ॥ १६ ॥ विधशब्दस्य प्रकारवाचिनो ग्रहणम् । १ । अयं विधशब्दः प्रकारवाची गृह्यते, विधयुक्त- गतप्रकाराः समानार्था इति । द्वौ विधौ येषां तानि द्विविधानि द्विप्रकाराणीत्यर्थः । कौ च द्वौ ०५प्रकारौ ? द्रव्येन्द्रियं भावेन्द्रियमिति । तत्र द्रव्येन्द्रियस्वरूपनिर्ज्ञानार्थमाह — निर्वृत्त्युपकरणे द्रव्येन्द्रियम् ॥ १७ ॥ निर्वर्त्त्यत इति निर्वृत्तिः । १ । कर्मणा या निर्वर्त्त्यत निष्पाद्यते सा निर्वृत्तिरित्युपदिश्यते । सा द्वेधा बाह्याभ्यन्तरभेदात् । २ । सा निर्वृत्तिर्द्वेधा । कुतः ? बाह्याभ्यन्तरभेदात् । तत्र- १०विशुद्धात्मप्रदेशवृत्तिराभ्यन्तरा । ३ । उत्सेधाङ्गुलस्याऽसंख्येयभागप्रमितानां विशुद्धाना- मात्मप्रदेशानां प्रतिनियतचक्षुरादीन्द्रियसंस्थानमानावमानावस्थितानां वृत्तिराभ्यन्तरा निर्वृत्तिः । तत्र नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयो बाह्या । ४ । तेष्वात्मप्रदेशेष्विन्द्रिय- व्यपदेशभाक् यः प्रतिनियतसंस्थानो नामकर्मोदयापादितावस्थाविशेषः पुद्गलप्रचयः स बाह्या १५निर्वृत्तिः । उपक्रियतेऽनेनेत्युपकरणम् । ५ । येन निवृत्तेरुपकारः क्रियते तदुपकरणम् । तद् द्विविधं पूर्ववत् । ६ । तदुपकरणं द्विविधं पूर्ववत् बाह्याभ्यन्तरभेदात् । तत्राभ्यन्तरं शुक्लकृष्णमण्डलम्, बाह्यमक्षिपत्रपक्ष्मद्वयादि । एवं शेषेष्वपीन्द्रियेषु ज्ञेयम् । भावेन्द्रियमुच्यते — २०लब्ध्युपयोगौ भावेन्द्रियम् ॥ १८ ॥ लब्धिरिति कोऽयं शब्दः ? लाभो लब्धिः । यद्येवं षित्वादङ् प्राप्नोति; *“अनुबन्धकृत- मनित्यम्” इति न भवति यथा *“वर्णानुपलब्धौ चातदर्थगतेः”[पातº महाº प्रत्याहाº ५] इत्येवमादिषु । अथवा *“स्त्रियां क्तिः, लभादिभ्यश्च”[शº चº २ । ३ । ८०, ८१] इति क्तिर्भवति, इष्टाश्चाबादय इति । अथ कोऽस्यार्थः ? २५इन्द्रियनिर्वृत्तिहेतुः क्षयोपशमविशेषो लब्धिः । १ । यत्सन्निधानादात्मा द्रव्येन्द्रियनिर्वृत्तिं प्रति व्याप्रियते स ज्ञानावरणक्षयोपशमविशेषो लब्धिरिति विज्ञायते । तन्निमित्तः परिणामविशेष उपयोगः । २ । तदुक्तं निमित्तं प्रतीत्य उत्पद्यमान आत्मनः परिणाम उपयोग इत्युपदिश्यते । तदेतदुभयं भावेन्द्रियमिति । उपयोगस्य फलत्वादिन्द्रियव्यपदेशानुपपत्तिरिति चेत्; न; कारणधर्मस्य कार्येऽनुवृत्तेः । ३ । ३०स्यान्मतम् — इन्द्रियफलमुपयोगः स कथमिव इन्द्रियव्यपदेशमापद्यत इति ? तन्न; किं कारणम् ? १३१ कारणधर्मस्य कार्येऽनुवृत्तेः । कार्यं हि लोके कारणमनुवर्तमानं दृष्टं यथा घटाकारपरिणतं विज्ञानं घट इति, तथेन्द्रियनिमित्त उपयोगोऽपि इन्द्रियमिति व्यपदिश्यते । शब्दार्थसंभवाच्च । ४ । यः शब्दार्थः ‘इन्द्रस्य लिङ्गमिन्द्रेण सृष्टम्’ इति वा स उपयोगे प्राधान्येन विद्यत इतीन्द्रियव्यपदेशो युक्तः । ०५उक्तानां पञ्चानामिन्द्रियाणां संज्ञानुपूर्व्यविशेष प्रतिपादनार्थमाह — स्पर्शनरसनघ्राणचक्षुःश्रोत्राणि ॥ १९ ॥ स्पर्शनादीनां करणसाधनत्वं पारतन्त्र्यात् कर्तृसाधनत्वं च स्वातन्त्र्याद् बहुलवचनात् । १ । इमानि स्पर्शनादीनि करणसाधनानि । कुतः ? पारतन्त्र्यात् । इन्द्रियाणां हि लोके पारत- न्त्र्येण विवक्षा विद्यते, आत्मनः स्वातन्त्र्यविवक्षायां यथा ‘अनेनाऽक्ष्णा सुष्ठु पश्यामि, अनेन १०कर्णेन सुष्ठु शृणोमि’ इति । ततो वीर्यान्तरायप्रतिनियतेन्द्रियावरणक्षयोपशमाङ्गोपाङ्गना — मलाभावष्टम्भात् स्पर्शत्यनेनात्मेति स्पर्शनम्, रसयत्यनेनात्मेति रसनम्, जिघ्रत्यनेनात्मेति घ्राणम्, चष्टेरनेकार्थत्वाद्दर्शनार्थविवक्षायां चष्टेऽर्थान् पश्यत्यनेनात्मेति चक्षुः, शृणोत्य — नेनात्मेति श्रोत्रम् । कर्तृसाधनत्वं च भवति स्वातन्त्र्यविवक्षायाम् । इन्द्रियाणां हि लोके स्वातन्त्र्येण विवक्षा, यथा ‘इदं मेऽक्षि सुष्ठु पश्यति, अयं मे कर्णः सुष्ठु शृणोति’ इति । ततः १५पूर्वोक्तहेतुसन्निधाने सति स्पृशत्यात्मैवेति स्पर्शनम् । कथम् ? कर्तरि युट् बहुलवचनात् । रसयतीति रसनम्, जिघ्रतीति घ्राणम्, चष्टे इति चक्षुः, शृणोतीति श्रोत्रमिति । अत्र ‘इन्द्रियाणि’ इति केषाञ्चित् पाठः । नासौ युक्तः । कुतः ? अधिकृतत्वात् ‘इन्द्रियाणि’ इत्यवचनम् । २ । ‘पञ्चेन्द्रियाणि’ इत्यत इन्द्रियग्रहणमनुवर्तते तेनेह ‘इन्द्रियाणि’ इति वचनमनर्थकम् । २०स्पर्शनग्रहणमादौ शरीरव्यापित्वात् । ३ । यतो वितत्य शरीरमवतिष्ठते स्पर्शनमतोऽस्य ग्रहणमादौ क्रियते । वनस्पत्यन्तानामेकमिति च स्पर्शनस्य तत्र व्यापारात् । ४ । वक्ष्यते *“वनस्पत्यन्ताना- मेकम्”[तº सूº२ । २१] इति तत्र, स्पर्शनस्य ग्रहणार्थञ्चादौ वचनम् । सर्वसंसारिषूपलब्धेश्च । ५ । सर्वेषु संसारिषु स्पर्शनमस्त्यतो नानाजीवापेक्षया व्यापित्वा- २५च्चादौ ग्रहणं क्रियते । ततो रसनघ्राणचक्षुषां क्रमवचनम् उत्तरोत्तराल्पत्वात् । ६ । ततः पश्चाद्रसनादीनां त्रयाणां क्रमवचनं क्रियते । कुतः ? उत्तरोत्तराल्पत्वात् । तद्यथा — सर्वतः स्तोकाश्चक्षुःप्रदेशाः, श्रोत्रेन्द्रि- यप्रदेशाः संख्येयगुणाः, घ्राणेन्द्रिये विशेषाधिकाः, जिह्वायामसंख्येयगुणाः, स्पर्शनेऽनन्तगुणा इति । यद्येवं चक्षुषोऽन्ते ग्रहणं कर्तव्यं सर्वेभ्योऽल्पीयस्त्वात् ? सत्यम्, एवमेतत्; तथापि — ३०श्रोत्रस्यान्ते वचनं बहूपकारित्वात् । ७ । यतः श्रोत्रबलाधानादुपदेशं श्रुत्वा हिताहितप्राप्ति- परिहारार्थमाद्रियन्ते । अतः श्रोत्रं बहूपकारीति अन्ते गृह्यते । रसनमपि वक्तृत्वनेति चेत्; न; अभ्युपगमात् । ८ । स्यादेतत् — रसनमपि बहूपकारि । कथम् ? वक्तृत्वेन । यतो रसनमभ्युदयनिःश्रेयसार्थोच्चारणाऽध्ययनादिषु प्रवणमतो रसनमेवान्ते १३२ वाच्यमिति ? तन्न; किं कारणम् ? अभ्युपगमात् । अभ्युपगम्य श्रोत्रस्य बहूपकारित्वं रसनस्यापि बहूपकारित्वं वर्णयता भवता तदभ्युपगतमिति अवसितोऽभिमतवादः । अनभ्यु- पगमे वा प्रसङ्गनिवृत्तिः ‘रसनमपि बहूपकारि’ इति । किञ्च, श्रोत्रप्रणालिकापादितोपदेशात् । ९ । श्रोत्रप्रणालिकयोपदेशमुपश्रुत्य रसनं वक्तृत्वं प्रति ०५व्याप्रियते अतः श्रोत्रमेव बहूपकारि । सर्वज्ञे तदभाव इति चेत्; न; इन्द्रियाधिकारात् । १० । स्यान्मतम् — न हि सर्वज्ञः श्रोत्रेन्द्रिय- बलाधानात् परत उपश्रुत्य वक्तृत्वमास्कन्दतीति किन्तु सकलज्ञानावरणसंक्षयाविर्भूतातीन्द्रिय- केवलज्ञानः रसनोपष्टम्भमात्रादेव वक्तृत्वेन परिणतः सकलान् श्रुतविषयानर्थानुपदिशति, अतो रसनमेव बहूपकारीति ? तन्न; किं कारणम् ? इन्द्रियाधिकारात् । इन्द्रियाधिकारोऽयम्, अतो १०येष्विन्द्रियकृतो हिताहितोपदेशः साकल्येनास्ति तान् प्रत्येतदुक्तं न सर्वज्ञं प्रतीति नास्ति दोषः । एकैकवृद्धिक्रमज्ञापनार्थं च स्पर्शनादिवचनम् । ११ । *“कृमिपिपीलिकाभ्रमरमनुष्यादीनामे- कैकवृद्धानि” [तº सूº२ । २३] इति वक्ष्यते, तत्र वृद्धिक्रमज्ञापनार्थं च स्पर्शनादीनामानुपूर्व्यं वेदितव्यम् । १५एषां च स्वतस्तद्वतश्चैकत्वपृथकत्वं प्रत्यनेकान्तः । १२ । एषां च स्पर्शनादीनामिन्द्रियाणां स्वतस्तद्वतश्चैकत्वपृथक्त्वं प्रत्यनेकान्तो वेदितव्यः — स्यादेकत्वं स्यात् पृथक्त्वमित्यादि । तद्यथा स्वतस्तावत् — ज्ञानावरणक्षयोपशमशक्तेरभेदविवक्षायां स्पर्शनादीनां स्यादेकत्वम्, समुदायव्यति- रेकाभावात् समुदायिनां समुदायस्यैकत्वादवयवानामप्येकत्वमिति वा स्यादेकत्वम् । प्रति- नियतक्षयोपशमलब्धिविशेषापेक्षया स्यान्नानात्वम्, अवयवभेदविवक्षायां वा स्यान्नानात्वम् । २०इन्द्रियबुद्ध्यभिधानानुवृत्तिव्यावर्तनार्पणाभेदाद्वा स्यादेकत्वं स्यात् पृथक्त्वं च । तद्वतोऽपि चैतन्यापरित्यागेनोभयपरिणामकारणापेक्षस्य इन्द्रियपर्यायात्मलाभे सति निष्टप्तायःपिण्डवत् तथापरिणामात् तद्व्यतिरेकेणेन्द्रियस्यानुपलिब्धरिति स्यादिन्द्रियेन्द्रियवतोरेकत्वम् । इतरथा एकान्तान्यत्वे अनिन्द्रिय आत्मा स्यात् घटवत् । तथा अन्यतमेन्द्रियनिवृत्तौ तद्वतोऽवस्थानात् स्यान्नानात्वम्, पर्यायिपर्यायभेदाच्च स्यान्नानात्वम् । संज्ञादिभेदाभेदविवक्षोपपत्तेश्च स्यादेकत्वं २५स्यान्नानात्वं वाऽवसेयम् । पूर्ववदुत्तरे च भङ्गा नेतव्याः । तेषामिन्द्रियाणां विषयप्रदर्शनार्थमाह — स्पर्शरसगन्धवर्णशब्दास्तदर्थाः ॥ २० ॥ स्पर्शादीनां कर्मभावसाधनत्वं द्रव्यपर्यायविवक्षोपपत्तेः । १ । स्पर्शादीनां कर्मसाधनत्वं भाव- साधनत्वं च भवति । कुतः ? द्रव्यपर्यायविवक्षोपपत्तेः । यदा द्रव्यं प्राधान्येन विवक्षितं तदे- ३०न्द्रियेण द्रव्यमेव सन्निकृष्यते ततो न व्यतिरिक्ताः स्पर्शादयः केचन सन्तीति, एतस्यां विवक्षायां कर्मसाधनत्वं स्पर्शादीनामवसीयते — स्पृश्यत इति स्पर्शः, रस्यत इति रसः, गन्ध्यत इति गन्धः, वर्ण्यत इति वर्णः, शब्द्यत इति शब्दः । यदा तु पर्यायः प्राधान्येन विवक्षितस्तदा भेदोपपत्तेः औदासीन्यावस्थितभावकथनाद् भावसाधनत्वं स्पर्शादीनां युज्यते । ततः स्पर्शनं १३३ स्पर्शः, रसनं रसः, गन्धनं गन्धः, वर्णनं वर्णः, शब्दनं शब्द इति । यद्येवं सूक्ष्मेषु परमाण्वा- दिषु स्पर्शादिव्यवहारो न प्राप्नोति ? नैष दोषः; सूक्ष्मेष्वपि ते स्पर्शादयः सन्ति तत्कार्येषु स्थूलेषु दर्शनादनुमीयमानाः, न ह्यत्यन्तमसतां प्रादुर्भावोऽस्तीति, किन्त्वन्द्रियग्रहणयोग्या न भवन्ति, अयोग्यत्वेऽपि तेषु स्पर्शादिव्यवहारो रूढिवशाद्भवति । ०५तदर्था इति कोऽयं शब्दः ? तेषामर्थास्तदर्था इति । तेषां केषाम् ? इन्द्रियाणाम् । यद्येवं तदर्था इति वृत्त्यनुपपत्तिरसमर्थत्वात् । २ । तदर्था इति वृत्तिर्नोपपद्यते । कुतः ? असम — र्थत्वात् । समर्थायवयवानां हि वृत्त्या भवितव्यम् । न चात्र सामर्थ्यमस्ति । कुतः ? *“सापेक्षम- समर्थं भवति”[पातº महाभाº २ । १ । १] इति । इन्द्रियाणि ह्यत्रापेक्ष्यन्ते । न वा; गमकत्वान्नित्यसापेक्षेषु संबन्धिशब्दवत् । ३ । न वैष दोषः; किं कारणम् ? गम- १०कत्वादत्र वृत्तिर्भवति । गमकत्वं च नित्यसापेक्षेषु । कथम् ? संबन्धिशब्दवत् । यथा संबन्धि — शब्देषु ‘देवदत्तस्य गुरुकुलं देवदत्तस्य गुरुपुत्रः’ इत्येवमादिषु वृत्तिर्भवति, गुरुशब्दो हि नित्यं शिष्यमपेक्षत इति, एवमिहापि तच्छब्दः सामान्यवचनोऽवश्यं विशेषाकाङ्क्षी सन् प्रकृता — नीन्द्रियाण्यपेक्षमाणोऽपि वृत्तिं लभते । स्पर्शादीनामानुपूर्व्येण निर्देश इन्द्रियक्रमाभिसंबन्धार्थः । ४ । ‘स्पर्शश्च रसश्च गन्धश्च १५वर्णश्च शब्दश्च स्पर्शरसगन्धवर्णशब्दाः’ इत्यानुपूर्व्येण निर्देशः स्पर्शनादिभिरिन्द्रियैः क्रमेणाभि- संबन्धो यथा स्यात् इति । एते पुद्गलद्रव्यस्य गुणा अविशेषेण वेदितव्याः । अत्र केचिद्विशेषेण एतान् कल्पयन्ति — *“रूपरसगन्धस्पर्शवती पृथिवी । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च । तेजो रूपस्पर्शवत् । वायुः स्पर्शवान्”[वैशेº सूº २ । १ । १ — ४] इति; तदयुक्तम्; रूपादिमान् वायुः स्पर्शवत्त्वाद् घटवत् । तेजोऽपि रसगन्धवत्, रूपवत्त्वाद् २०गुडवत् । आपोऽपि गन्धवत्यः रसवत्त्वात् आम्रफलवत् । किञ्च, अबादिषु गन्धादीनां साक्षादुपलब्धेश्च । पार्थिवपरमाणुसंयोगात्तदुपलब्धिरिति चेत्; न; विशेषहेत्वभावात् । नात्र विशेषहेतुरस्ति — पार्थिवपरमाणूनामेते गुणाः संसर्गात्त्व — न्यत्रोपलभ्यन्ते नत्वबादीनामिति । वयं तु ब्रूमहे — तद्गुणत्वात् तत्रोपलब्धिरिति । यदि हि संयोगादुपलब्धिः कल्प्यते रसाद्युपलब्धिरपि संयोगादेव कल्प्यताम् । २५नच पृथिव्यादीनां जातिभेदोऽस्ति, पुद्गलजातिमजहतः परमाणुस्कन्धविशेषा निमित्त- वशाद्विश्वरूपतामापद्यन्त इति दर्शनात् । दृश्यते हि पृथिव्याः कारणवशाद् द्रवता, द्रवाणां चापां करकाश्मभावेन घनभावो दृष्टः, पुनश्च द्रवभावः । तेजसोऽपि मषीभावः । वायोरपि अदृष्टा रूपादयः कथं गम्यन्त इति चेत् ? परमाणुषु तेषां रूपादीनां कथं गतिः ? तत्कार्येषु दर्शनादनुमानमिति चेत्; इहापि तत एव वेदितव्यम् । ३०तेषां च स्वतस्तद्वतश्चैकत्वं पृथक्त्वं प्रत्यनेकान्तः । ५ । तेषां च स्पर्शादीनां स्वतस्तद्वत- श्चैकत्वपृथक्त्वं प्रत्यनेकान्तो वेदितव्यः — स्यादेकत्वं स्यात् पृथक्त्वमित्यादि । १३४ अत्रान्ये एकत्वं पृथक्त्वं चैकान्तेनाध्यवस्यन्ति; तदयुक्तम्; कथम् ? यद्येकान्तेनैकत्वं स्यात्; स्पर्शनेन स्पर्शोपलब्धौ रसादीनामप्युपलब्धिः स्यात् । तद्वतोऽपि तेषामपृथक्त्वे तदेव वा स्यात्, त एव वेति ? तदेव चेत्; लक्षणाभावाल्लक्ष्याभावः । अथ त एव; निरा- धारत्वात्तेषामप्यभावः । अथैकान्तेन पृथक्त्वम्; घटरूपोपलब्धौ पटादिरूपानुपलब्धिवत् ०५स्पर्शोपलब्धौ रूपादीनामनुपलब्धेः ‘स्पृष्टो घटोऽयम्’ इति न ज्ञायेत स्पर्शाद्यनात्मकत्वात् । तस्य तद्वतोऽप्यत्यन्तपृथक्त्वे उभयेषामभावः स्यात् । ग्रहणभेदात् स्पर्शादीनामन्यत्वमिति चेत्; न; ग्रहणाभेदेपि नानात्वोपलब्धेः । शुक्लकृष्णादिषु संख्यापरिमाणपृथक्त्वसंयोगविभाग- परत्वापरत्वकर्मसत्तागुणत्वानां रूपिसमवायाच्चाक्षुषाणां नानात्वोपलब्धेश्च । संज्ञा स्वतत्त्व- मिति लक्षणभेदान्नानात्वमिति चेत्; न; तदभेदेऽपि द्रव्यगुणकर्मणां नानात्वोपलब्धेः । स्पर्शा- १०दीनां व्यतिरेकेणानुपलब्धेरनानात्वमिति चेत्; न; प्रतिज्ञातविरोधात् । यदि ह्येवं स्यात्, महदादिपरिणतानां सत्त्वरजस्तमसां व्यतिरेकेणानुपलभ्यमानानामपि प्रतिज्ञातमन्यत्वं हीयते । यदि हि तत्राप्यनन्यत्वमेव स्यात्; व्यक्ताव्यक्तलक्षणभेदकल्पनाऽनर्थिका स्यात् । तस्मात् स्या- देकत्वं स्यात्पृथक्त्वं चाभ्युपगन्तव्यम् — द्रव्यार्पणादेकत्वं पर्यायार्पणान्नानात्वमिति । अत्राह — यन्मनोऽनवस्थानादिन्द्रियं न भवतीति प्रत्याख्यातं तत्किमुपयोगस्योपकारकम्, १५उत नेति ? तदप्युपकार्येव; तेन विनेन्द्रियाणां विषयेषु स्वप्रयोजनवृत्त्यभावात् । किमस्यैषां सहकारित्वमात्रमेव प्रयोजनम्, उतान्यदपीति ? अत आह — श्रुतमनिन्द्रियस्य ॥ २१ ॥ श्रुतज्ञानविषयोऽर्थः श्रुतम्, स विषयोऽनिन्द्रियस्य । परिप्राप्तश्रुतज्ञानावरणक्षयोप- शमस्यात्मनः श्रुतार्थेऽनिन्द्रियालम्बनज्ञानप्रवृत्तेः । अथवा श्रुतज्ञानं श्रुतं तदनिन्द्रियस्यार्थः प्रयो- २०जनमिति यावत्, तत्पूर्वकत्वात्तस्य इति । अयमनिन्द्रियस्येन्द्रियव्यापारनिर्मुक्तोऽर्थः । श्रुतं श्रोत्रेन्द्रियस्य विषय इति चेत्; न; श्रोत्रेन्द्रियग्रहणे श्रुतस्य मतिज्ञानव्यपदेशात् । १ । स्यान्मतम् — न श्रुतमनिन्द्रियस्य विषयः । कस्य तर्हि ? श्रोत्रेन्द्रियस्येति; तन्न; किं कारणम् ? श्रोत्रेन्द्रियग्रहणे श्रुतस्य मतिज्ञानमिति व्यपदेशात् । यदा हि श्रोत्रेण गृह्यते तदा तन्मतिज्ञान- मवग्रहादि व्याख्यातम्, तत उत्तरकालं यत्तत्पूर्वकं जीवादिपदार्थस्वरूपविषयं तत् श्रुत- २५मनिन्द्रियस्येत्यवसेयम् । उक्तानामिन्द्रियाणां प्रतिनियतविषयाणां स्वामित्वनिर्देशे कर्तव्ये यत्प्रथमं गृहीतं स्पर्शनं तस्य तावत्स्वामित्वावधारणार्थमाह — वनस्पत्यन्तानामेकम् ॥ २२ ॥ अन्तशब्दस्याऽनेकार्थत्वे विवक्षातोऽवसानगतिः । १ । अयमन्तशब्दोऽनेकार्थः । क्वचिद — ३०वयवे, यथा वस्त्रान्तः वसनान्तः । क्वचित्सामीप्ये, यथोदकान्तं गतः — उदकसमीपे गत इति । १३५ क्वचिदवसाने वर्तते, यथा संसारान्तं गतः — संसारावसानं गत इति । तत्रेह विवक्षातोऽवसान- गतिर्वेदितव्या । वनस्पत्यन्तानां वनस्पत्यवसानानामिति । सामीप्यवचने हि वायुत्रससंप्रत्ययप्रसङ्गः । २ । वनस्पत्यन्तानां वनस्पतिसमीपानामित्यर्थे गृह्यमाणे वायुकायिकानां त्रसानां च संप्रत्ययः प्रसज्येत । ०५अन्तशब्दस्य संबन्धिशब्दत्वादादिसंप्रत्ययः । ३ । अयमन्तशब्दः संबन्धिशब्दत्वात् कांश्चित् पूर्वानपेक्ष्य वर्तते, ततोऽर्थादादिसंप्रत्ययो भवति । तस्मादयमर्थो गम्यते — पृथिव्यादीनां वनस्पत्यन्तानामेकमिन्द्रियमिति । अत्राह — अविशिष्टैकेन्द्रियप्रसङ्गोऽविशेषात् । ४ । पृथिव्यादीनां वनस्पत्यन्तानां स्पर्शनादिषु अविशिष्टेमकमिन्द्रियं प्राप्नोति । कुतः ? अविशेषात् । न हि कश्चिद्विशेषोऽस्ति ‘अनेनैवैकेन १०भवितव्यम्’ इति । संख्यावाची ह्ययमेकशब्दः । न वा; प्राथम्यवचने स्पर्शनसंप्रत्ययात् । ५ । न वैष दोषः । किं कारणम् ? प्राथम्य- वचने स्पर्शनसंप्रत्ययात् । अयमेकशब्दः प्राथम्यवचनः, सूत्रपाठे च प्राथम्यमाश्रितम्, ततः स्पर्शनस्य संप्रत्ययो भवति । अस्ति च लोके प्राथम्यवचनः, एको गोत्रे — प्रथमो गोत्र इति । तस्योत्पत्तिकारणमुच्यते — वीर्यान्तरायस्पर्शनेन्द्रियावरणक्षयोपशमे शेषेन्द्रियसर्वघाति- १५स्पर्धकोदये च शरीराङ्गोपाङ्गलाभोपष्टम्भे एकेन्द्रियजातिनामोदयवशवर्तितायां च सत्यां स्पर्शनमेकमिन्द्रियमाविर्भवति । इतरेषामिन्द्रियाणां स्वामित्वप्रदर्शनार्थमाह — कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि ॥ २३ ॥ एकैकमिति वीप्सानिर्देशः । १ । एकैकमितिशब्दो वीप्सायां द्रष्टव्यः । २०बहुत्वनिर्देशः सर्वेन्द्रियापेक्षः । २ । सर्वाणीन्द्रियाण्यपेक्ष्य बहुत्वनिर्देशः कृतः । एकैकं वृद्धमेषां तानीमान्येकैकवृद्धानीति । ‘तत्र किं पूर्वमुत्तरम्’ इति सन्देहः ? असन्दिग्धं स्पर्शनमेकैकेन वृद्धमित्यादिविशेषणात् । ३ । ‘स्पर्शनम्’ इत्यनुवर्तते, तदारभ्यै- कैकेन वृद्धिमित्यादि विशेषणात् नास्ति सन्देहः । तत्कथम् ? वाक्यान्तरोपप्लवात् । ४ । अस्मान्निबन्धनस्थानाद्वाक्यात् वाक्यान्तराण्युपप्लवन्ते । २५यथा — ‘अक्षः’ इत्येतस्मात् ‘अक्षो भक्ष्यताम्, अक्षो भज्यताम्, अक्षो दीव्यताम्’ इति वाक्यान्तरोपप्लवः क्रियते, एवमिहापि ‘स्पर्शनं रसनवृद्धं कृम्यादीनाम्, स्पर्शनरसने घ्राणवृद्धे पिपीलिकादीनाम्, स्पर्शनरसनघ्राणानि चक्षुर्वृद्धानि भ्रमरादीनाम्, तानि श्रोत्रवृद्धानि मनुष्या- दीनाम्’ इति वाक्यान्तराण्युपप्लवन्ते । आदिशब्दः प्रकारे व्यवस्थायां वा । ५ । अयमादिशब्दः प्रकारे व्यवस्थायां वा वेदितव्यः । ३०यदागमो नापेक्षितस्तदा प्रकारे कृमिप्रकाराः कृम्यादय इति । यदा त्वागमोऽपेक्ष्यते तदा व्यवस्थायाम्, आगमे हि ते व्यवस्थिता इति । तेषां निष्पत्तिः स्पर्शनोत्पत्त्या व्याख्याता उत्तरोत्तरसर्वघातिस्पर्धकोदयेन । १३६ एवमेतेषु संसारिषु द्विभेदेषु इन्द्रियभेदात् पञ्चविधेषु ये पञ्चेन्द्रियास्तद्भेदस्यानुक्तस्य प्रतिपत्त्यर्थमाह — संज्ञिनः समनस्काः ॥ २४ ॥ मनो व्याख्यातम्, सह तेन ये वर्तन्ते ते संज्ञिन । अत्र चोद्यते — ०५समनस्कविशेषणमनर्थकं संज्ञिशब्देन गतत्वात् । १ । संज्ञिन इत्यनेनैव विशेषणेन गतत्वात् ‘समनस्काः’ इति विशेषणमनर्थकम् । कथमिति चेत् ? उच्यते — हिताहितप्राप्तिपरिहारयोर्गुणदोषविचारणात्मिका संज्ञा । २ । ‘इदं हितमिदमहितम्, अस्य प्राप्तौ परिहारे चायं गुणोऽयं दोषः’ इति च विचारणात्मिका संज्ञेत्युच्यते । ब्रीह्यादिपाठादिनि सिद्धेः । ३ । तस्मात् संज्ञाशब्दाद् ब्रीह्यादिपाठादिनि सति ‘संज्ञिनः’ १०इति सिध्यति । न वा शब्दार्थव्यभिचारात् । ४ । न वैष दोषः । किं कारणम् ? शब्दार्थव्यभिचारात् । संज्ञाशब्दोऽर्थं हि व्यभिचरति । तत्र को दोषः ? संज्ञा नाम इति चेत्; निवर्त्याभावः । ५ । यदि संज्ञा रूढिर्नामेत्युच्यते; सा सर्वेषां प्राणिनां प्रतिनियता अस्तीत्यसंज्ञिनामभावात् निवर्त्याभावः स्यात् । १५संज्ञानं संज्ञा ज्ञानमिति चेत्; तुल्यः । ६ । कः ? निवर्त्याभावः ? सर्वेषां प्राणिनां ज्ञाना- त्मकत्वात् । आहारादिसंज्ञेति चत्; न; अनिष्टत्वात् । ७ । स्यादेतत् — आहार-भय-मैथुन-परिग्रहविषया संज्ञेति ? तन्न; किं कारणम् ? अनिष्टत्वात् । सर्वे हि संसारिण आहार — भय-मैथुन-परिग्रह- संज्ञासन्निधानात् संज्ञिनः स्युः । अनिष्टं चैतत् । तस्मात् समनस्का इति विशेषणमर्थवत् । एवं २०च कृत्वा गर्भाण्ड-मूर्च्छित-सुषुप्ताद्यवस्थासु हिताहितपरीक्षाभावेऽपि मनःसन्निधानात् संज्ञित्व- मुपपन्नं भवति । यद्यस्य संसारिणो हिताहितप्राप्तिनिवृत्तिहेतुः परिस्पन्दो मनस्करणसन्निधाने सति भवति, अथाभिनवशरीरं प्रत्यागूर्णस्य विशीर्णपूर्वमूर्तेरात्मनो निर्मनस्कस्य यत्कर्म तत्कुतः इति ? अत्रोच्यते — २५विग्रहतौ कर्मयोगः ॥ २५ ॥ अथवा, यदि संप्रधार्य समनस्काः प्राणिनः क्रियाः प्रारभन्ते भिन्नदेहस्याऽसति मनसि उपपादक्षेत्रं प्रत्याभिमुख्येन या प्रवृत्तिर्विग्रहार्था सा कुतो भवति ? अत आह ‘विग्रहगतौ कर्मयोगः’ इति । विग्रहो देहस्तदर्था गतिर्विग्रहगतिः । १ । औदारिकादिशरीरनामोदयात् तन्निर्वृत्तिसम- ३०र्थान् विविधान् पुद्गलान् गृह्णाति, विगृह्यते वासौ संसारिणेति विग्रहो देहः, विग्रहाय १३७ गतिर्विग्रहगतिः । ननु विकृतिप्रकृत्यभिसंबन्धे सति तादर्थ्ये वृत्तिः, इह विकृतिप्रकृत्यभि- संबन्धाभावाद् वृत्तिर्न प्राप्नोति; नैषदोषः, अश्वघासादिवद् वृत्तिर्वेदितव्या, तादर्थ्यं तु चतुर्थ्या वाक्ये प्रदर्श्यते । विरुद्धो ग्रहो विग्रहो व्याघात इति वा । २ । अथवा विरुद्धो ग्रहो विग्रहो व्याघातः ०५नोकर्मपुद्गलादाननिरोध इत्यर्थः । विग्रहेण गतिर्विग्रहगतिः । आदाननिरोधेन गतिरित्यर्थः । कर्मेति सर्वशरीरप्ररोहणसमर्थं कार्मणम् । ३ । सर्वाणि शरीराणि यतः प्ररोहन्ति तत् बीजभूतं कार्मणं शरीरं कर्मेत्युच्यते । योग आत्मप्रदेशपरिस्पन्दः । ४ । कायादिवर्गणानिमित्त आत्मप्रदेशपरिस्पन्दो योग इत्या- ख्यायते । १०कर्मनिमित्तो योगः कर्मयोगः । तस्यां विग्रहगतौ कार्मणशरीरकृतो योगो भवति यत्कृतं कर्मादानम्, यदुपपादिता चाऽमनस्कस्यापि विग्रहार्था गतिः । अथाकाशप्रदेशेषु परमाणुप्रतिष्ठासंबन्धेनोपचरितेष्वाधेया जीवपुद्गला देशान्तरप्राप्तिं प्रत्यभिमुखा किं निराकृतप्रदेशक्रमां व्रज्यामभिनिर्वर्तयन्ति, उताक्रान्तप्रदेशक्रमामिति विचारे सति तन्निर्धारणार्थमाह — १५अनुश्रेणि गतिः ॥ २६ ॥ आकाशप्रदेशपङ्क्तिः श्रेणिः । १ । लोकमध्यादारभ्योर्ध्वमधस्तिर्यक्क्रमाकाशप्रेदशानां क्रमसन्निविष्टानां पङ्क्तिः श्रेणिरित्युच्यते । अनोरानुपूर्व्ये वृत्तिः । २ । अनुशब्दस्यानुपूर्व्ये वृत्तिर्भवति, श्रेणेरानुपूर्व्येण अनुश्रेणि इति । जीवाधिकारात् पुद्गलासंप्रत्यय इति चेत्; न; गतिग्रहणात् । ३ । स्यादेतत् — जीवाधिकारात् २०पुद्गलानामनुश्रेणिगतिसंप्रत्ययो न भवतीति; तन्न; किं कारणम् ? गतिग्रहणात् । यदि हि जीवस्यैव गतिरिहेष्टा स्याद् गत्यधिकारे पुनर्गतिग्रहणमनर्थकं स्यात्, ततो ज्ञायते सर्वेषां गतिमतां गतिर्गृह्यते इति । क्रियान्तरनिवृत्त्यर्थं गतिग्रहणमिति चेत्; न; अवस्थानाद्यसंभवात् । ४ । स्यान्मतम् — गति- ग्रहणं क्रियान्तरनिवृत्त्यर्थं गतिरेव नान्या क्रियेति ? तन्न; किं कारणम् ? अवस्थानाद्य- २५संभवात् । न विग्रहगतिमापन्नस्य जन्तोरवस्थानशयनासनादयः क्रियाः संभवन्ति । उत्तरसूत्रे जीवग्रहणाच्च । ५ । ‘अविग्रहा जीवस्य’ इत्युत्तरत्र जीवग्रहणाच्च मन्यामहे इहोभयगतिराश्रितेति । विश्रेणिगतिदर्शनान्नियमायुक्तिरिति चेत्; न; कालदेशनियमात् । ६ । स्यादेतत् — विश्रेणि- गतिरपि दृश्यते चक्रादीनां ज्योतिषां च मेरुप्रदक्षिणगतीनां माण्डलिकवायूनां विद्याधराणां च ३०मेर्वादिप्रदक्षिणकाले, ततोऽनुश्रेणि गतिरिति नियमो नोपपद्यते; तन्न; किं कारणम् ? कालदेश- १३८ नियमात् । कालनियमस्तावज्जीवानां मरणकाले भवान्तरसंक्रमे, मुक्तानां चोर्ध्वगमनकाले अनुश्रेण्येव गतिः । देशनियमोऽपि या ऊर्ध्वलोकादधोगतिरधोलोकाच्चोर्ध्वगतिस्तिर्यग्लोका- द्वा अधोगतिरूर्ध्वा वा [सा] अत्रानुश्रेण्येव । पुद्गलानामपि च या लोकान्तप्रापणी सा नियमा- दनुश्रेणिगतिः । या त्वन्या सा भजनीया । ततो भ्रमणरेचनादिगतिः सिद्धा । ०५पूर्वभावप्रज्ञापकनयावभासितं व्यवहारमन्तर्नीय रूढिवशाद्वा विनिर्मुक्तकर्मबन्धनस्यापि जीवत्वमवधृत्येदमुपादिक्षत् — अविग्रहा जीवस्य ॥ २७ ॥ विग्रहो व्याघातः कौटिल्यमित्यनर्थान्तरम्, स यस्यां न विद्यते असावविग्रहा गतिः । कस्य ? जीवस्य । कीदृशस्य ? मुक्तस्य । कथं गम्यते मुक्तस्येति ? १०उत्तरत्र संसारिग्रहणादिह मुक्तगतिः । १ । उत्तरसूत्रे संसारिग्रहणादिह मुक्तगतिर्विज्ञा- यते । किमर्थमिदमुच्यते ? ननु श्रेण्यन्तरसंक्रमो विग्रहः तस्याभावः अनुश्रेणिः इत्यनेनैव सिद्धः नार्थोऽनेन ? इदं प्रयोजनम्-पूर्वसूत्रे जीवपुद्गलानां क्वचिद्विश्रेणिरपि गतिर्भवतीत्ये- तस्य ज्ञापनार्थम् । ननु तत्रैवोक्तं कालदेशनियमादनुश्रेणिर्भवति न सर्वत्रेति; न; अतस्तत्सिद्धेः । यद्यसङ्गस्यात्मनोऽप्रतिबन्धेन गतिरालोकान्तादवधृतकाला प्रतिज्ञायते ‘सदेहस्य पुनर्गतिः १५किं प्रतिबन्धिन्युत मुक्तात्मवत्’ इति परिप्रश्ने सतीदमुच्यते — विग्रहवती च संसारिणः प्राक् चतुर्भ्यः ॥ २८ ॥ कालपरिच्छेदार्थं प्राक् चतुर्भ्य इति वचनम् । १ । समयो वक्ष्यते । चतुर्भ्यः समयेभ्यः प्राक् विग्रहवती गतिर्भवतीति कालपरिच्छेदार्थं प्राक् चतुर्भ्य इत्युच्यते । ऊर्ध्वं कस्मान्नेति चेत् ? विग्रहनिमित्ताभावात् । सर्वोत्कृष्टविग्रहनिमित्तनिष्कुटक्षेत्रे उत्पित्सुः प्राणी निष्कुटक्षेत्रानु- २०पूर्व्यर्जु श्रेण्यभावात् इषुगत्यभावे निष्कुटक्षेत्रप्रापणनिमित्तां त्रिविग्रहां गतिमारभते नोर्ध्वं तथाविधोपपादक्षेत्राभावात्, तेनैव च कालेनोपपादक्षेत्रप्राप्तेः षष्टिकाद्यात्मलाभवत् । यथा षष्टिकादीनां व्रीहीणां परिच्छिन्नकालावधिः परिपाको न न्यूनेन नाभ्यधिकेन, इह तथाऽन्तर- भवेऽपि कालनियमो वेदितव्यः । चशब्दः समुच्चयार्थः । २ । विग्रहवती च अविग्रहा चेति समुच्चयार्थः चशब्दः । उपपाद- २५क्षेत्रं प्रति ऋज्वी गतिरविग्रहा, कुटिला विग्रहवती । आङ्ग्रहणं लध्वर्थमिति चेत्; न; अभिविधिप्रसङ्गात् । ३ । स्यादेतत् — आङ्ग्रहणं कर्तव्यं लध्वर्थमिति; तन्न; किं कारणम् ? अभिविधिप्रसङ्गात् । तेन चतुर्थसमयमभिव्याप्य विग्रहः प्रवर्तेत, स चानिष्टः । १३९ उभयसंभवे व्याख्यानात् मर्यादासंप्रत्यय इति चेत्; न; प्रतिपत्तेगौरवात् । ४ । स्यान्मतम् — मर्यादाभिविध्योराङ्, तत्र व्याख्यानतो विशेषप्रतिपत्तिरिति मर्यादासंप्रत्यय इत्याङ्यपि सति न दोष इति; तन्न; किं कारणम् ? प्रतिपत्तेर्गौ रवात् । एवं सति प्रतिपत्तेर्गौ रवं स्यात्, तस्मा — द्विस्पष्टार्थं प्राग्ग्रहणं क्रियते । ०५आसां चतसृणां गतीनामार्षोक्ताः संज्ञाः — इषुगतिः, पाणिमुक्ता, लाङ्गलिका, गोमूत्रिका चेति । तत्राविग्रहा प्राथमिकी, शेषा विग्रहवत्यः । इषुगतिरिवेषुगतिः । क उपमार्थः ? यथेषोर्गतिरालक्ष्यदेशाद् ऋज्वी तथा संसारिणां सिद्ध्यतां च जीवानां ऋज्वी गतिरैकसमयिकी । पाणिमुक्तेव पाणिमुक्ता । क उपमार्थः ? यथा पाणिना तिर्यक् प्रक्षिप्तस्य द्रव्यस्य गतिरेक- विग्रहा तथा संसारिणामेकविग्रहा गतिः पाणिमुक्ता द्वैसमयिकी । लाङ्गलमिव लाङ्गलिका । १०क उपमार्थः ? यथा लाङ्गलं द्विवक्रितं तथा द्विविग्रहा गतिर्लाङ्गलिका त्रैसमयिकी । गोमूत्रिकेव गोमूत्रिका । क उपमार्थः ? यथा गोमूत्रिका बहुवक्रा तथा त्रिविग्रहा गतिर्गोमूत्रिका चातुःसमयिकी । यद्यमुष्या विग्रहवत्याः क्रियायाश्चातुःसमयिक्यवस्था निश्चीयते परित्यक्तव्याबाधा पुनर्गतिः कियत्काला भवतीति ? अत आह — १५एकसमयाऽविग्रहा ॥ २९ ॥ अधिकृतगतिसामानाधिकरण्यात् स्त्रीलिङ्गनिर्देशः । १ । गतिरधिकृता, तत्सामानाधिकर- ण्यादत्र स्त्रीलिङ्गनिर्देशो द्रष्टव्यः । एकः समयोऽस्या एकसमया, न विद्यते विग्रहोऽस्या अवि- ग्रहेति । गतिमतां हि जीवपुद्गलानामव्याघातेनैकसमयिकी गतिरालोकान्तादपीति । आत्मनोऽक्रियावत्त्वसिद्धेरयुक्तमिति चेत्; न; क्रियापरिणामहेतुसद्भावाल्लोष्टवत् । २ । २०स्यादेतत् — सर्वगतत्वान्निष्क्रियस्यात्मनः क्रियावत्त्वं नास्ति, ततो गतिकल्पनमयुक्तमिति ? तन्न; किं कारणम् ? क्रियापरिणामहेतुसद्भावात् । कथम् ? लोष्टवत् । यथा लोष्टः स्वयं क्रिया- परिणामित्वाद् बाह्याभ्यन्तरकारणापेक्षो देशान्तरप्राप्तिसमर्थां क्रियामारभमाणो दृष्टः, तथा आत्मा कर्मवशाच्छरीरपरिणामानुविधायी तद्विधेयां क्रियामास्कन्दति, तदभावे च प्रदीप- शिखावत् स्वाभाविकीमिति नास्ति दोषः । २५सर्वगतत्वे तु संसाराभावः । ३ । यदि च सर्वगत आत्मा स्यात् क्रियाभावात् संसाराभावः स्यात् । बन्धसन्ततिं प्रत्यनादौ कर्मोपचयवृत्तिसंबन्धेन चादिमति पञ्चविधेऽपि द्रव्यक्षेत्रकाल- भवभावे संसारे मिथ्यादर्शनादिप्रत्ययसन्निधाने च सत्युपयोगात्मकोऽयमात्मा सातत्येन कर्मा- ण्यादधानो विग्रहगतावप्याहारकः प्रसक्तस्ततो नियमार्थमिदमुच्यते — ३०एकं द्वौ त्रीन्वाऽनाहारकः ॥ ३० ॥ समयसंप्रत्ययः प्रत्यासत्तेः । १ । ‘एकसमयाऽविग्रहा’ इत्यत्र समयशब्द उक्तस्तेनेह प्रत्यासत्ते- रभिसंबन्धो वेदितव्यः — एकं समयं द्वौ समयौ त्रीन् समयान् इति । ननु च तत्र समयशब्द उप — सर्जनीभूतः कथमिहाभिसंबध्यते ? अन्यस्यासंभवात् सामर्थ्यात् संबन्धो द्रष्टव्यः । १४० वा शब्दो विकल्पार्थः । २ । वाशब्दोऽत्र विकल्पार्थो ज्ञेयः । विकल्पश्च यथेच्छातिसर्गः, एकं वा द्वौ वा त्रीन्वेति । सप्तमीप्रसङ्ग इति चेत्; न; अत्यन्तसंयोगस्य विवक्षितत्वात् । ३ । स्यादेतत् — आहरण — क्रियाया अधिकरणं काल इति सप्तमी प्राप्नोतीति; तन्न; किं कारणम् ? अत्यन्तसंयोगस्य ०५विवक्षितत्वात् । अत्यन्तसंयोगे हि तदपवादात् द्वितीया विधीयते । त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलग्रहणमाहारः । ४ । तैजसकार्मणशरीरे हि आसंसारान्तान्नित्यमुपचीयमानस्वयोग्यपुद्गले अतः शेषाणां त्रयाणां शरीराणामौदारिक — वैक्रियिकाहारकाणामाहाराद्यभिलाषकारणानां षण्णां पर्याप्तीनां योग्यपुद्गलग्रहणमाहार इत्युच्यते । १०विग्रहगतावसंभवादाहारकशरीरनिवृत्तिः । ५ । ऋद्धिप्राप्तानामृषीणामाहारकशरीरमावि — र्भवति इति विग्रहगतौ तस्यासंभवान्निवृत्तिः । शेषाहाराभावो व्याघातात् । ६ । विग्रहगतौ शेषस्याहारस्याभावः । कुतः ? व्याघातात् । अष्टविधकर्मपुद्गलसूक्ष्मपरिणतोपचितमूर्तिकार्मणशरीरवशात् प्रावृट्कालपरिणतजलधर — निर्गतसलिलग्रहणसमर्थनिक्षिप्ततप्तायससायकवत् पूर्वदेहनिवृत्तिसमुद्घातदुःखोष्णत्वाद् व्रजन्न- १५प्याहारकः, वक्रगतिवशादेकं द्वौ त्रीन्वा समयाननाहारको भवति । तत्रैकसमयिक्यामिषुगतौ उक्तमाहारमनुभवन्नेव गच्छति । पाणिमुक्तायामेकविग्रहायां द्विसमयायां प्रथमे समयेऽना- हारकः । लाङ्गलिकायां द्विविग्रहायां त्रिसमयायां प्रथमद्वितीययोः समययोरनाहारकस्तृतीये आहारकः । गोमूत्रिकायां त्रिविग्रहायां चतुःसमयायां चतुर्थसमये आहारक इतरेष्वनाहारकः । तस्य खलु संसारिणः शुभाशुभफलप्रदकार्मणशरीरानुगृहीतक्रियाविशेषस्य अनुश्रेण्या — २०स्कन्दतः पूर्वोपात्तानुभवनं प्रति कर्मभिरापूर्यमाणस्य अविग्रहविग्रहवद्गमनद्वयाक्षिप्त- देशान्तरस्य अभिनवमूर्त्यन्तरनिर्वृत्तिप्रकारप्रतिपादनार्थमिदमाह — सम्मूर्च्छनगर्भोपपादा जन्म ॥ ३१ ॥ समन्ततो मूर्च्छनं सम्मूर्च्छनम् । १ । त्रिषु लोकेषूर्ध्वमधस्तिर्यक् च देहस्य समन्ततो मूर्च्छनं सम्मूर्च्छनम्-अवयवप्रकल्पनम् । २५शुक्रशोणितगरणाद् गर्भः । २ । यत्र शुक्रशोणितयोःस्त्रिया उदरमुपगतयोर्गरणं मिश्रणं भवति स गर्भः । मात्रोपयुक्ताहारात्मसात्करणाद्वा । ३ । अथवा, मात्रोपयुक्तस्याहारस्यात्मसात्कर — णाद् गरणाद् गर्भः । उपेत्य पद्यतेऽस्मिन्नित्युपपादः । ४ । *“हलः” [जैनेन्द्रº २ । ३ । १०२] इत्यधिकरणसाधनो ३०घङ् । देवनारकोत्पत्तिस्थानविशेषस्य संज्ञेति । एते त्रयः संसारिणां जीवानां जन्मप्रकाराः । १४१ सम्मूर्च्छनग्रहणमादौ अतिस्थूलत्वात् । ५ । सम्मूर्च्छनजं हि शरीरमतिस्थूलम्, अतोऽस्य ग्रहणमादौ क्रियते । ननु गर्भजशरीरमपि वैक्रियिकशरीरादतिस्थूलं तयोः कस्यादौ वचनं न्याय्यमिति ? उच्यते — अल्पकालजीवित्वात् सम्मूर्च्छनम् । ६ । गर्भजौपपादिकजीवेभ्यः समूर्च्छनजाः प्राणिनोऽ- ०५ल्पकालजीविनस्ततः सम्मूर्च्छनस्यादौ न्याय्यम् । किञ्च, तत्कार्यकारणप्रत्यक्षत्वात् । ७ । गर्भोपपादजन्मनोः कार्यकारणे अप्रत्यक्षे, यत्पुनः सम्मूर्च्छन- जन्मनः कारणं मांसादि तत्कार्यं च शरीरं तदुभयं लोके प्रत्यक्षम्, ततश्चास्यादौ ग्रहणं क्रियते । तदनन्तरं गर्भग्रहणं कालप्रकर्षनिष्पत्तेः । ८ । गर्भजन्म हि सम्मूर्च्छनजन्मनः कालप्रकंर्षेण निष्पद्यते, ततस्तदनन्तरं तस्य ग्रहणं न्याय्यम् । १०उपपादग्रहणमन्ते दीर्घजीवित्वात् । ९ । सम्मूर्च्छनजेभ्यो गर्भजेभ्यश्चौपपादिका दीर्घ — जीविन इत्यन्ते ग्रहणं क्रियते । आह — किं कृतोऽयं जन्मविकल्प इति ? उच्यते — अध्यवसायविशेषात् कर्मभेदे तत्कृतो जन्मविकल्पः । १० । अध्यवसायः परिणामः सो — ऽसंख्येयलोकविकल्पः, तद्भेदात्तत्कार्यकर्मबन्धविकल्पस्ततस्तत्फलं जन्मविकारो वेदितव्यः । कारणानुरूपं हि लोके दृश्यते कार्यम् । शुभाशुभलक्षणं च कर्म तद्रूपमेव जन्म प्रादुर्भावयति । १५प्रकारभेदाज्जन्मभेद इति चेत्; न; तद्विषयसामान्योपादानात् । ११ । स्यादेतत् — प्रकारा बहवः तत्सामानाधिकरण्याज्जन्मनोऽपि बहुत्वं प्राप्नोति, यथा ‘जीवादयः पदार्थाः’ इति; तन्न; किं कारणम् ? तद्विषयसामान्योपादानात् । तत्प्रकारविषयमिह सामान्यं जन्म — शब्देनोपादीयते, तत एकत्वनिर्देशः, यथा जीवादयस्तत्त्वमिति । अथाधिकृतस्य संसारिविषयोपभोगोपलब्ध्यधिष्ठानप्रवणस्य जन्मनो योनिविकल्पो २०वक्तव्य इति ? अत आह — सचित्तशीतसंवृताः सेतरा मिश्राश्चैकशस्तद्योनयः ॥ ३२ ॥ आत्मनः परिणामविशेषश्चित्तम् । १ । आत्मनश्चैतन्यपरिणामविशेषश्चित्तं तेन सह वर्तन्त इति सचित्ताः । शीत इति स्पर्शविशेषः । २ । शीत इत्यनेन स्पर्शविशेषो गृह्यते । शुक्लादिवदुभयवचन- २५त्वात्तद्युक्तं द्रव्यमप्याह । संवृतो दुरुपलक्षः । ३ । सम्यग्वृतः संवृत इति दुरुपलक्षः प्रदेश उच्यते । सेतराः सप्रतिपक्षाः । ४ । सह इतरैः सेतराः सप्रतिपक्षा इत्यर्थः । के पुनरितरे ? अचि — त्तोष्णविवृताः । मिश्रग्रहणमुभयात्मकसंग्रहार्थम् । ५ । मिश्रग्रहणं क्रियते उभयात्मकसंग्रहार्थं सचित्ता- ३०चित्तशीतोष्णसंवृतविवृता इति । चशब्दः प्रत्येकसमुच्चयार्थः । ६ । मिश्राश्चेति च शब्दः क्रियते प्रत्येकसमुच्चयार्थः । इतरथा हि पूर्वोक्तानामेव विशेषणं स्यात् । तेन सचित्त-शीत-संवृताः सेतरा यदा मिश्रास्तदा १४२ योनयो भवन्तीत्ययमर्थो लभ्यते । चशब्दे पुनः सचित्तादयः प्रत्येकं च योनयो भवन्ति मिश्राश्चेत्ययमर्थो लब्धः । न वा अन्तरेणापि तत्प्रतीतेः । ७ । न वैतत् प्रयोजनमस्ति । कुतः ? अन्तरेणापि तत्प्रतीतेः । अन्तरेणापि हि चशब्दं समुच्चयार्थः प्रतीयते यथा *“पृथिव्यापस्तेजो वायुः” ०५[तत्त्वोपº पृº १] इति । ननु चोक्तम् — इतरथा हि पूर्वोक्तानामेव विशेषणं स्यादिति; नैष दोषः; विशेषणस्य समुच्चयस्य च संभवे समुच्चय इति व्याख्यायते । इतरयोनिभेदसमुच्चयार्थस्तु । ८ । सूत्रेऽनुक्तानां योनिभेदानां समुच्चयार्थस्तर्हि चशब्दः । के पुनस्ते ? उत्तरत्र वक्ष्यन्ते । एकशो ग्रहणं क्रममिश्रप्रतिपत्त्यर्थम् । ९ । एकैकः एकश इति वीप्सायां शस्, तस्य ग्रहणं १०क्रममिश्रप्रतिपत्त्यर्थम् । यथैवं विज्ञायेत सचित्तश्चाऽचित्तश्च शीतश्चोष्णश्च संवृतश्च विवृत- श्चेति । मैवं विज्ञायि सचित्तशीतश्चेत्यादि । तद्ग्रहणं प्रकृतापेक्षम् । १० । तद्ग्रहणं क्रियते प्रकृतापेक्षार्थम् । तेषां योनयस्तद्योनयः । केषाम् ? सम्मूर्च्छनादीनामिति । यूयत इति योनिः । सचित्तादिद्वन्द्वे पुंवद्भावाभावो भिन्नार्थत्वात् । ११ । योनिशब्दोऽयं स्त्रीलिङ्गस्तदपेक्षाः १५सचित्तादयः शब्दाः स्त्रीलिङ्गाः, तेषां द्वन्द्वे पुंवद्भावो न प्राप्नोति-सचित्ताश्च शीताश्च संवृताश्च सचित्तशीतसंवृता इति । कुतः ? भिन्नार्थत्वात् । एकाश्रये हि पुं वद्भाव उक्तः । न वा; योनिशब्दस्योभयलिङ्गत्वात् । १२ । न वैष दोषः । किं कारणम् ? उभयलिङ्ग — त्वाद्योनिशब्दस्य । इह पुल्लिङ्गो वेदितव्यः । योनिजन्मनोरविशेष इति चेत्; न; आधाराधेयभेदाद्विशेषोपपत्तेः । १३ । स्यान्मतम् — योनि — २०जन्मनोरविशेषः, यत आत्मैव देवादिजन्मपर्यायादौपपादिक इत्युच्यते, सैव च योनिरितिः; तन्न; किं कारणम् ? आधाराधेयविशेषोपपत्तेः । आधारो हि योनिराधेयं जन्म, यतः सचित्ता — दियोन्यधिष्ठान आत्मा सम्मूर्च्छनादिजन्मना शरीराहारेन्द्रियादियोग्यान् पुद्गलानादत्ते । सचित्तग्रहणमादौ चेतनात्मकत्वात् । १४ । सचित्तग्रहणमादौ क्रियते । कुतः ? चेतनात्म- कत्वात् । चेतनात्मको लोके ह्यर्थः प्रधानम् । २५तदनन्तरं शीताभिधानं तदाप्यायनहेतुत्वात् । १५ । तदनन्तरं शीताभिधानं क्रियते । कुतः ? तदाप्यायनहेतुत्वात् । सचेतनस्य ह्यर्थस्य शीतमाप्यायनकारणं भवति । अन्ते संवृतग्रहणं गुप्तरूपत्वात् । १६ । अन्ते संवृतग्रहणं क्रियते । कुतः ? गुप्तरूपत्वात् । गुप्तरूपं हि लोके कर्माग्राह्यं भवति । एक एव योनिरिति चेत्; न; प्रत्यात्मं सुखदुःखानुभवनहेतुसद्भावात् । १७ । स्यान्मतम्- ३०एक एव योनिरस्तु सर्वेषां जीवानामिति ? तन्न; किं कारणम् ? प्रत्यात्मं सुखदुःखानु- भवनहेतुसद्भावात् । शुभाशुभपरिणामा हि प्रत्यात्मं भिन्नास्तज्जनितश्च कर्मबन्धो विचित्रः, अतस्तेन सुखदुःखानुभवनकारणं बहुविधमारभ्यते । १४३ तत्राऽचित्तयोनिका देवनारकाः । १८ । देवाश्च नारकाश्चाऽचित्तयोनिकाः । तेषां हि योनिरुपपादप्रदेशपुद्गलप्रचयोऽचित्तः । गर्भजा मिश्रयोनयः । १९ । गर्भजा ये जीवास्ते मिश्रयोनयो वेदितव्याः । तेषां हि मातु — रुदरे शुक्रशोणितमचित्तं तदात्मना चित्तवता मिश्रं योनिः । ०५शेषास्त्रिविकल्पाः । २० । शेषाः सम्मूर्च्छनजास्त्रिविकल्पा भवन्ति — केचित् सचित्तयो- नयः, अन्ये अचित्तयोनयः, अपरे मिश्रयोनय इति । तत्र सचित्तयोनयः साधारणशरीराः । कुतः ? परस्पराश्रयत्वात् । इतरे अचित्तयोनयो मिश्रयोनयश्च । शीतोष्णयोनयो देवनारकाः । २१ । देवा नारकाश्च शीतयोनयो भवन्ति उष्णयोनयश्च । तेषां हि उपपादस्थानानि कानिचिच्छीतानि कानिचिदुष्णानि इति । १०उष्णयोनिस्तेजस्कायिकः । २२ । अग्निकायिको जीव उष्णयोनिर्द्रष्टव्यः । इतरे त्रिप्रकाराः । २३ । इतरे जीवास्त्रिप्रकारयोनयो भवन्ति — केचिच्छीतयोनयः, अन्ये उष्णयोनयः, अपरे मिश्रयोनय इति । देवनारकैकेन्द्रियाः संवृतयोनयः । २४ । देवनारका एकेन्द्रियाश्च संवृतयोनयो भवन्ति । विकलेन्द्रिया विवृतयोनयः । २५ । विकलेन्द्रिया जीवा विवृतयोनयो वेदितव्याः । १५मिश्रयोनयो गर्भजाः । २६ । गर्भजा जीवा मिश्रयोनयोऽवगन्तव्याः । तद्भेदाश्चशब्दसमुच्चिताः प्रत्यक्षज्ञानिदृष्टा इतरेषामागमगम्याश्चतुरशीतिशतसहस्र- संख्याः । २७ । तेषां नवानां योनीनां भेदाः कर्मभेदजनितविविक्तवृत्तयः प्रत्यक्षज्ञानिभिर्दिव्येन चक्षुषा दृष्टाः, इतरेषां छद्मस्थानामागमेन श्रुताख्येन गम्याश्चतुरशीतिशतसहस्रसंख्या आख्यायन्ते । तद्यथा — नित्यनिगोतानां सप्त शतसहस्राणि, अनित्यनिगोतानां च सप्त शत- २०सहस्राणि । के पुनर्नित्यनिगोताः, के चाऽनित्यनिगोताः ? त्रिष्वपि कालेषु त्रसभावयोग्या ये न भवन्ति ते नित्यनिगोताः । त्रसभावमवाप्ता अवाप्स्यन्ति च ये ते अनित्यनिगोताः । पृथि- व्यप्तेजोवायूनां सप्त सप्त शतसहस्राणि, वनस्पतिकायिकानां दश शतसहस्राणि, विकलेन्द्रियाणां षट् शतसहस्राणि, देवनारकपञ्चेन्द्रियतिरश्चां प्रत्येकं चत्वारि शतसहस्राणि, मनुष्याणां चतुर्दश शतसहस्राणि । तान्येतानि समुदितानि चतुरशीतिशतसहस्राणि आख्यायन्ते । उक्तं च — २५*“णिच्चिदरधादुसत्त य तरुदस वियलिंदिएसु छच्चेव । सुरणिरयतिरियचौरो चोद्दस मणुएसु सदसहस्सा ॥ ”[बारसअणुº ३५] इति । एवमेतस्मिन्नवयोनिभेदसंकटे त्रिविधे जन्मनि सर्वप्राणिभृतामनियमेन प्रसक्ते अवधारणार्थमाह — जरायुजाण्डजपोतानां गर्भः ॥ ३३ ॥ ३०जालवत्प्राणिपरिवरणं जरायुः । १ । यज्जालवत् प्राणिपरिवरणं विततमांसशोणितं तज्जरायुरित्युच्यते । शुक्रशोणितपरिवरणमुपात्तकाठिन्यं नखत्वक्सदृशं परिमण्डलमण्डम् । २ । यत्र खलु नखत्वक्सदृशमुपात्तकाठिन्यं शुक्रशोणितपरिवरणंपरिमण्डलं तदण्डमित्याख्यायते । १४४ संपूर्णावयवः परिस्पन्दादिसामर्थ्योपलक्षितः पोतः । ३ । किञ्चित् परिवरणमन्तरेण परि — पूर्णावयवो योनिनिर्गतमात्र एव परिस्पन्दादिसामर्थ्योपेतः पोत इत्युच्यते । जरायौ जाताः जरायुजाः, अण्डे जाता अण्डजाः, जरायुजाश्चाऽण्डजाश्च पोताश्च जरायुजाण्डजपोताः । पोतजा इत्ययुक्तम्; अर्थभेदाभावात् । ४ । केचित् पोतजा इति पठन्ति; तदयुक्तम्; ०५कुतः ? अर्थभेदाभावात् । न हि पोते कश्चिदन्यो जातोऽस्ति । आत्मा पोतज इति चेत्; न; तत्परिणामात् । ५ । स्यान्मतम् — आत्मा पोते जातः पोतज इत्यर्थभेदोऽस्तीति ? तन्न; किं कारणम् ? तत्परिणामात् । आत्मैव पोतपरिणामेन परिणतः पोत इत्युच्यते, न पृथगात्मनः पोतो नाम कश्चिदस्ति जरायुवत् । पोतोऽजनिष्ट पोतज इति चेत्; अर्थविशेषो नास्ति । १०जरायुजग्रहणमादावभ्यर्हितत्वात् । ६ । जरायुजग्रहणमादौ क्रियते । कुतः ? अभ्यर्हितत्वात् । कथमभ्यर्हितत्वम् ? क्रियारम्भशक्तियोगात् । ७ । अण्डजपोतासाधारण्यो हि भाषाध्ययनादयः क्रिया जरायु- जेषु दृश्यन्ते । केषाञ्चिन्महाप्रभावत्वात् । ८ । तत्र हि जाताः केचन चक्रधरवासुदेवादयो महाप्रभावा १५भवन्ति । किञ्च, मार्गफलाभिसंबन्धात् । ९ । सम्यर्ग्दशनादिमार्गफलेन मोक्षसुखेन चाभिसंबन्धो नान्येषा — मित्यभ्यर्हितत्वम् । तदनन्तरमण्डजग्रहणं पोतेभ्योऽभ्यर्हितत्वात् । १० । तदनन्तरमण्डजग्रहणं क्रियते । कुतः ? पोतेभ्योऽभ्यर्हितत्वात् । अण्डजेषु हि केषुचित् शुकसारिकादयोऽक्षरोच्चारणादिषु क्रियासु २०कुशला भवन्तीत्यभ्यर्हिताः पोतेभ्यः । उद्देशवन्निर्देश इति चेत्; न; गौरवप्रसङ्गात् । ११ । स्यान्मतम् — उद्देशवन्निर्देशेन भवित- व्यमिति संमूर्च्छनजानां प्राग्ग्रहणं कर्तव्यमिति; तन्न; किं कारणम् ? गौरवप्रसङ्गात् । यदि हि संमूर्च्छनजनिर्देश आदौ क्रियते शास्त्रस्य गौरवं स्यात् — एकद्वित्रिचतुरिन्द्रियाणां पञ्चे- न्द्रियाणां तिरश्चां मनुष्याणां च केषाञ्चित्संमूर्च्छनमिति, अतो गर्भजौपपादिकानुक्त्वा २५‘शेषाणां संमूर्च्छनम्’ इति लघुनोपायेन निर्देक्ष्यामीत्युद्देशक्रमोऽतिक्रान्तः । सिद्धे विधिरवधारणार्थः । १२ । जरायुजादीनां सामान्येन सिद्धे गर्भजन्मसंबन्धे पुन- र्विधिरारभ्यमाणो नियमार्थः, जरायुजाण्डजपोतानामेव गर्भ इति । अथ नियमार्थे आरम्भे सति जरायुजाण्डजपोतानां गर्भ एवेति नियमः कस्मान्न भवति ? उत्तरत्र शेषाणामिति वचनात् । यद्यमीषां जरायुजाण्डजपोतानां गर्भोऽवध्रियते, अथोपपादः खलु केषां भवतीति ? ३०अत आह — १४५ देवनारकाणामुपपादः ॥ ३४ ॥ देवादिगत्युदय एवास्य जन्मेति चेत्; न; शरीरनिर्वर्तकपुद्गलाभावात् । १ । स्यादेतत् — मनुष्यस्तैर्यग्योनो वा छिन्नायुः कार्मणकाययोगस्थो देवादिगत्युदयाद् देवादिव्यपदेशभागिति ०५कृत्वा तदेवास्य जन्मेति मतमिति; तन्न; किं कारणम् ? शरीरनिर्वर्तकपुद्गलाभावात् । देवादिशरीरनिर्वृत्तौ हि देवादिजन्मेष्टम्, तस्यां चावस्थायामनाहारकत्वान्न देवादिशरीरनि — र्वृत्तिरस्ति तत उपपादो जन्म युक्तम्, तच्च देवनारकाणामिति । निर्दिष्टजन्मभेदेभ्यो जरायुजादिभ्योऽन्येषां किं जन्म इति ? अत आह — शेषाणां सम्मूर्च्छनम् ॥ ३५ ॥ १०उभयत्र नियमः पूर्ववत् । १ । उभयोरपि योगयोः पूर्ववन्नियमो वेदितव्यः, देवनारकाणा — मेवोपपादः, शेषाणामेव संमूर्च्छनं नोक्तानामिति । कथं पुनर्ज्ञायते पूर्वत्र जन्मनियमो न जन्मवन्नियम इति ? शेषग्रहणात् पूर्वत्र जन्मनियमः । २ । इह शेषग्रहणाज्ज्ञायते पूर्वत्र जन्मनियम इति । जरायुजाण्डजपोतानामेव गर्भो देवनारकाणामेवोपपाद इत्यवधारणे गर्भोपपादजन्मनी नियते, १५जरायुजादयो न नियतास्तेषां सम्मूर्च्छनमपि प्राप्तमतः शेषग्रहणं क्रियते ‘शेषाणामेव संमूर्च्छनं नोक्तानाम्’ इत्यवधारणार्थः । यदि हि जन्मवतां नियमः स्यात् जरायुजाण्डजपोतानां गर्भ एव देवनारकाणामुपपाद एवेति गर्भोपपादयोरनवधारणात् यत्र सम्मूर्च्छनं चान्यच्चास्ति तत्र सम्मूर्च्छनमेवेति नियमाच्छेषग्रहणमनर्थकं स्यात् । आह — इदं सूत्रमनर्थकम् । कथम् ? पूर्वयोर्योगयोरुभयतो नियमे सति जरायुजादीनां गर्भो- २०पपादयोश्चाऽसति व्यभिचारे, शेषाणामेव सम्मूर्च्छनमुत्सर्गोऽवतिष्ठते इति । उच्यते — स एवो- भयतो नियमो दुर्लभः, यत्तस्यैकत्वात्, अतोऽन्यतरनियम एवाश्रयितव्यः, तस्मिंश्च सति सूत्र- मिदमारब्धव्यम् । तेषां पुनः संसारिणां त्रिविधजन्मनामाहितबहुविकल्पनवयोनिभेदानां शुभाशुभनाम- कर्मनिर्वर्तितानि बन्धफलानुभवनाधिष्ठानानि शरीराणि कानीति ? अत आह — २५औदारिकवैक्रियिकाहारकतैजसकार्मणानि शरीराणि ॥ ३६ ॥ शीर्यन्त इति शरीराणि । १ । घटाद्यतिप्रसङ्ग इति चेत्; न; नामकर्मनिमित्तत्वाभावात् । २ । यदि शीर्यन्त इति शरीराणि घटादीनामपि विशरणमस्तीति शरीरत्वमतिप्रसज्येत; तन्न; किं कारणम् ? नामकर्मनिमित्त- त्वाभावात् । शरीरनामकर्मोदयाच्छरीरम्, न च घटादिषु सोऽस्तीति नास्त्यतिप्रसङ्गः । ३०विग्रहाभाव इति चेत्; न; रूढिशब्देष्वपि व्युत्पत्तौ क्रियाश्रयात् । ३ । स्यान्मतम् — यदि शरीरनामकर्मोदयाच्छरीरव्यपदेशः ‘शीर्यन्त इति शरीराणि’ इति विग्रहो नोपपद्यत इति; तन्न; किं कारणम् ? रूढिशब्देष्वपि व्युत्पत्तौ क्रियाश्रयात् । यथा ‘गच्छतीति गौः’ इति विगृह्यते, एवं ‘शीर्यन्त इति शरीराणि’ इति विग्रहो भवति । १४६ शरीरत्वादिति चेत्; न; तदभावात् । ४ । स्यान्मतम् — शरीरत्वं नाम सामान्यविशेषोऽस्ति, तद्योगाच्छरीरं न नामकर्मोदयादिति; तन्न; किं कारणम् ? तदभावात् । ‘अतत्स्वभावे ऽनवधारणप्रसङ्गोऽग्निवत्’ इत्येवमादिना अर्थान्तरभूतजातिसंबन्धकल्पना प्रतिविहितेति नास्ति शरीरत्वम् । ०५उदारात् स्थूलवाचिनो भवे प्रयोजने वा ठञ् । ५ । उदारं स्थूलमिति यावत्, ततो भवे प्रयो — जने वा ठञि औदारिकमिति भवति । विक्रियाप्रयोजनं वैक्रियिकम् । ६ । अष्टगुणैश्वर्ययोगादेकानेकाणुमहच्छरीरविविधकरणं विक्रिया, सा प्रयोजनमस्येति वैक्रियिकम् । आह्रियते तदित्याहारकम् । ७ । सूक्ष्मपदार्थनिर्ज्ञानार्थमसंयमपरिजिहीर्षया च प्रमत्तसंय- १०तेनाह्रियते निर्वर्त्यते तदित्याहारकम् । तेजोनिमित्तत्वात्तैजसम् । ८ । यत्तेजोनिमित्ते तत्तैजसमिदम्, तेजसि भवं वा तैजस- मित्याख्यायते । कर्मणामिदं कर्मणां समूह इति वा कार्मणम् । ९ । कर्मणामिदं कार्यं कर्मणां समूह इति वा कथञ्चिद्भेदविवक्षोपपत्तेः कार्मणमिति व्यपदिश्यते । १५सर्वेषां कार्मणत्वप्रसङ्ग इति चेत्; न; प्रतिनियतौदारिकादिनिमित्तत्वात् । १० । स्यान्मतम्- यदि कर्मणामिदं कर्मणां समूह इति वा कार्मणमित्युच्यते सर्वेषामपि तत्तुल्यमित्यौदारिका- दीनामपि कार्मणत्वप्रसङ्ग इति; तन्न; किं कारणम् ? प्रतिनियतौदारिकादिनिमित्तत्वात् । औदारिकशरीरनामादीनि हि प्रतिनियतानि कर्माणि सन्ति तदुदयभेदाद्भेदो भवति । तत्कृतत्वेऽप्यन्यत्वदर्शनात् घटादिवत् । ११ । यथा मृत्पिण्डकारणाविशेषेऽपि घटशरावादीनां २०संज्ञास्वालक्षण्यादिभेदाद्भेदः तथा कर्मकृतत्वाविशेषेऽपि औदारिकादीनां संज्ञादिभेदाद्भेदोऽवसेयः । तत्प्रणालिकया चाभिनिष्पत्तेः । १२ । कार्मणशरीरप्रणालिकया चौदारिकादीनामभिनि- ष्पत्तिः, अतः कार्यकारणभेदान्न सर्वेषां कार्मणत्वम् । किञ्च, विस्रसोपचयेन व्यवस्थानात् क्लिन्नगुडरेणुश्लेषवत् । १३ । यथा वैस्रसिकपरिणामात् क्लिन्ने गुडे रेणूनामुपश्लिष्टानामवस्थानं तथा कार्मणेऽप्यौदारिकादीनां वैस्रसिकोपचयेना- २५वस्थानमिति नानात्वं सिद्धम् । कार्मणमसत् निमित्ताभावादिति चेत्; न; निमित्तनिमित्तिभावात्तस्यैव प्रदीपवत् । १४ । स्यादेतत् — न कार्मणं नाम शरीरमस्ति । कुतः ? निमित्ताभावात् । यस्य च निमित्तं नास्ति तदसत् यथा खरविषाणमिति; तन्न; किं कारणम् ? तस्यैव निमित्तनिमित्तिभावात् प्रदीपवत् । यथा प्रदीपात्मैवात्मप्रकाशनात् प्रकाश्यः प्रकाशकश्च तथा कार्मणमेवात्मनो निमित्तं निमित्ति ३०चेति सिद्धम् । मिथ्यादर्शनादिनिमित्तत्वाच्च । १५ । न कार्मणस्य निमित्तं नास्ति । किं तर्हि निमित्तम् ? मिथ्यादर्शनादि । ततोऽसिद्धमेतत् — ‘निमित्ताभावात्’ इति । १४७ इतरथा ह्यनिर्मोक्षप्रसङ्गः । १६ । यदि कार्मणमनिमित्तमिति गृह्येत; अनिर्मोक्षः स्यात्, अहेतुंकस्य विनाशहेतुत्वाभावात् । अशरीरं विशरणाभावादिति चेत्; न; उपचयापचयधर्मत्वात् । १७ । स्यादेतत् — यथौदारि — कादि शीर्यत इति शरीरं न तथा कार्मणं शीर्यत इत्यशरीरत्वमस्येति; तन्न; किं कारणम् ? ०५उपचयापचयधर्मत्वात् । निमित्तवशाद्धि कर्मायव्ययौ सततं स्त इति विशरणमस्त्येव । तद्ग्रहणमादाविति चेत्; न; तदनुमेयत्वात् । १८ । स्यादेतत् — कार्मणग्रहणमादौ कर्तव्यम् । कुतः ? तदधिष्ठानत्वादितरेषामिति ? तन्न; किं कारणम्; तदनुमेयत्वात् । यथा घटादिका- र्योपलब्धेः परमाण्वनुमानं तथौदारिकादिकार्योपलब्धेः कार्मणानुमानम् *“कार्यलिङ्गं हि कारणम्”[आप्तमीº श्लोº ६८] इति । १०तत एव कर्मणो मूर्तिमत्त्वं सिद्धम् । १९ । यस्मात् मूर्तिमदस्य कार्यं तत एव कर्मणः कार- णस्य मूर्तिमत्त्वं सिद्धम् । न ह्यमूर्तेनात्मगुणेन निष्क्रियेणाऽदृष्टेन मूर्तिमतः क्रियावतो द्रव्य- स्यारम्भो युक्त इति । औदारिकग्रहणमादावतिस्थूलत्वात् । २० । अतिस्थूलमिदमौदारिकमिन्द्रियग्राह्यत्वात्, ततोऽस्य ग्रहणमादौ क्रियते । १५उत्तरेषां क्रमः सूक्ष्मक्रमप्रतिपत्त्यर्थः । २१ । उत्तरेषां वैक्रियिकादीनां पाठक्रमः सूक्ष्मक्रम — प्रतिपत्त्यर्थो वेदितव्यः । वक्ष्यते हि ‘परं परं सूक्ष्मम्’ इति । यथौदारिकस्येन्द्रियैरुपलब्धिस्तथेतरेषां कस्मान्न भवतीति ? अत आह — परं परं सूक्ष्मम् ॥ ३७ ॥ परशब्दस्यानेकार्थत्वे विवक्षातो व्यवस्थार्थगतिः । १ । परशब्दोऽयमनेकार्थवचनः । क्वचि- २०द्व्यवस्थायां वर्तते — यथा पूर्वः पर इति । क्वचिदन्यार्थे वर्तते — यथा परपुत्रः परभार्येति अन्य- पुत्रोऽन्यभार्येति गम्यते । क्वचित्प्राधान्ये वर्तते — यथा परमियं कन्या अस्मिन् कुटुम्बे प्रधानमिति गम्यते । क्वचिदिष्टार्थे वर्तते — यथा परं धाम गत इष्टं धाम गत इत्यर्थः । तत्रेह विवक्षातो व्यवस्थार्थो गृह्यते । पृथग्भूतानां शरीराणां सूक्ष्मगुणेन वीप्सानिर्देशः । २ । संज्ञा-लक्षण-प्रयोजनादिभिः २५पृथग्भूतानां शरीराणां सूक्ष्मगुणेन वीप्सानिर्देश क्रियते ‘परं परम्’ इति । यदि परं परं सूक्ष्मं प्रदेशतोऽपि नूनं परं परं हीनमिति विपरीतप्रतिपत्तिनिवृत्त्यर्थमाह — प्रदेशतोऽसंख्येयगुणं प्राक् तैजसात् ॥ ३८ ॥ प्रदेशाः परमाणवः । १ । प्रदिश्यन्ते इति प्रदेशाः परमाणवः, ते हि घटादिष्ववयवत्वेन प्रदिश्यन्ते । प्रदिश्यन्ते एभिरिति वा प्रदेशाः, तैर्हि आकाशादीनां क्षेत्रादिविभागः प्रदिश्यते । ३०प्रदेशेभ्यः प्रदेशतः *“अपादानेऽहीयरुहोः”[जैनेन्द्रº ४ । २ । ५०] इति तसिः । प्रदेशैर्वा प्रदेशतः तसि प्रकरणे *“आद्यादिभ्य उपसंख्यानम्”[जैनेद्रº वाº ४ । २ । ४९] इति तसिः । संख्यानातीतोऽसंख्येयः । २ । संख्यानं गणनमतीतो यः सोऽसंख्येयः, असंख्येयो गुणोऽस्य तदिदमसंख्येयगुणम् । १४८ परं परमित्यनुवृत्तेः प्राक् तैजसादिति वचनम् । ३ । ‘परं परम्’इत्यनुवर्तते, तेन आकार्मणाद- संख्येयगुणत्वे प्राप्ते मर्यादानिर्णयार्थं प्राक् तैजसादित्युच्यते । प्रदेशत इति विशेषणमवगाहक्षेत्रनिवृत्त्यर्थम् । ४ । प्रदेशतः परं परमसंख्येयगुणं नावगा — हक्षेत्रत इत्येतस्य प्रतिपत्त्यर्थं ‘प्रदेशतः’ इति विशेषणमुपादीयते । तेनैतदुक्तं भवति — औदा- ०५रिकाद्वैक्रियिकमसंख्येयगुणप्रदेशं वैक्रियिकादाहारकमसंख्येयगुणप्रदेशमिति । को गुणकारः ? पल्योपमस्यासंख्येयभागः । उत्तरोत्तरस्य महत्त्वप्रसङ्ग इति चेत्; न; प्रचयविशेषादयःपिण्डतूलनिचयवत् । ५ । स्यान्मतम् — यद्युत्तरोत्तरमसंख्येयगुणप्रदेशं परिमाणमहत्त्वेनापि भवितव्यमिति ? तन्न; किं कारणम् ? प्रचयविशेषादयःपिण्डतूलनिचयवत् । यथा अयःपिण्डस्य बहुप्रदेशत्वेऽपि अल्पपरि — १०माणत्वं तूलनिचयस्य चाल्पप्रदेशत्वेऽपि महापरिमाणत्वं प्रचयविशेषात्, तथा उत्तरस्य शरीर- स्यासंख्येयगुणप्रदेशत्वेऽपि अल्पपरिमाणत्वं बन्धविशेषाद्वेदितव्यम् । उक्तं प्राक् तैजसात् परं परमसंख्येयगुणमिति, अथोत्तरयोः किं समप्रदेशत्वमुतास्ति कश्चिद्विशेषः ? अस्तीत्याह — अनन्तगुणे परे ॥ ३९ ॥ १५प्रदेशत इत्यनुवर्तते । तेनैवमभिसम्बन्धः क्रियते आहारकात्तैजसं प्रदेशतोऽनन्तगुणं तैज- सात् कार्मणं प्रदेशतोऽनन्तगुणमिति । को गुणकारः ? अभव्यानामनन्तगुणः सिद्धानामनन्तभागः । अनन्तगुणत्वादुभयोस्तुल्यत्वमिति चेत्; न; अनन्तस्यानन्तविकल्पत्वात् । १ । स्यादेतत्- अनन्तगुणत्वादुभयोस्तैजसकार्मणयोस्तुल्यत्वमिति; तन्न; किं कारणम् ? अनन्तस्यानन्त- विकल्पत्वात् । अनन्तो ह्यनन्तविकल्पः संख्येयस्य संख्येयविकल्पवत् । २०आहारकादुभयोरनन्तगुणत्वमिति चेत्; न; परं परमित्यभिसंबन्धात् । २ । स्यान्मतम् — आहा — रकादुभयोरनन्तगुणत्वमेव गम्यते न तैजसात् कार्मणस्यानन्तगुणत्वम्, अतस्तयोस्तुल्यप्रदेशत्वं प्राप्नोतीति; तन्न; किं कारणम् ? परं परमित्यभिसंबन्धात् परं परमनन्तगुणमिति गम्यते । परस्मिन् सत्यारातीयस्यापरत्वात् परापर इति निर्देशः । ३ । परं कार्मणं तस्मिन् सति तैजसमपरं भवत्यतः परापरे इति निर्देशो न्याय्यः । २५न वा; बुद्धिविषयव्यापारात् । ४ । न वैष दोषः । किं कारणम् ? बुद्धिविषयव्यापारात् । न शब्दोच्चारणक्रमेण तैजसकार्मणयोः परव्यपदेशः । किं तर्हि ? बुद्ध्या तैजसकार्मणे तिर्यग्व्यवस्थाप्य आहारकात् परे इति व्यपदेशः । व्यवहिते वा परशब्दप्रयोगात् । ५ । अथवा व्यवहिते परशब्दप्रयोगो दृश्यते यथा परा पाटलिपुत्रात् मथुरेति, तथा आहारकात्तैजसस्य परत्वम्, तैजसेन व्यवहितस्यापि कार्मणस्य ३०परत्वमिति । बहुद्रव्योपचितत्वात्तदुपलब्धिप्रसङ्ग इति चेत्; न; उक्तत्वात् । ६ । स्यादेतत् — बहुद्रव्यो- पचितत्वात् तैजसकार्मणयोरुपलब्धिः प्राप्नोतीति ? तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् — प्रचयविशेषात् सूक्ष्मपरिणाम इति । १४९ तत्रैतत् स्यात् — शल्यकवन्मूर्तिमद्द्रव्योपचितत्वात् संसारिणो जीवस्याभिप्रेतगति — निरोधप्रसङ्ग इति; तन्न; किं कारणम् ? यस्मादुभे अप्येते — अप्रतीघाते ॥ ४० ॥ प्रतीघातो मूर्त्यन्तरेण व्याघातः । १ । मूर्तिमतो मूर्त्यन्तरेण व्याघातः प्रतीघात ०५इत्युच्यते । तदभावः सूक्ष्मपरिणामादयःपिण्डे तेजोऽनुप्रवेशवत् । २ । यथा अयःपिण्डस्यान्तःसूक्ष्मप- रिणामात्तेजोऽनुप्रवेशो दृष्टस्तथा तैजसकार्मणयोरपि नास्ति वज्रपटलादिषु व्याघात इत्य- प्रतीघाते इत्युच्यते । वैक्रियिकाहारकयोरप्यप्रतीघात इति चेत्; न; सर्वत्र विवक्षितत्वात् । ३ । स्यान्मतम् — १०वैक्रियिकाहारकयोरपि प्रतीघातो नास्ति सूक्ष्मपरिणामादेव, तत्र किमुच्यते तैजसकार्मणे एवाप्रतीघाते इति ? तन्न; किं कारणम् ? सर्वत्र विवक्षितत्वात् । आलोकान्तात् सर्वत्र तैजसकार्मणयोर्नास्ति प्रतीघात इत्ययं विशेषो विवक्षितः, वैक्रियिकाहारकयोस्तु न तथा, अस्ति प्रतीघातः । आह किमेतावानेव विशेष आहोस्वित् कश्चिदन्योऽप्यस्ति इति ? अत आह — १५अनादिसम्बन्धे च ॥ ४१ ॥ अथवा, अनादित्वादात्मनः शरीरस्यादिमत्वाद्विकरणस्य आदिशरीरसम्बन्धः किं कृतः इति ? अत आह — अनादिसम्बन्धे चेति । चशब्दः किमर्थः ? चशब्दो विकल्पार्थः । १ । चशब्दो विकल्पार्थो वेदितव्यः, अनादिसंबन्धे सादिसंबन्धे चेति । कथमिति चेत् ? उच्यते — २०बन्धसन्तत्यपेक्षया अनादिः सम्बन्धः सादिश्च विशेषतो बीजवृक्षवत् । २ । यथा वृक्षो बीजादुत्पन्नः, तच्च बीजमपरस्माद् वृक्षात्, स चापरस्माद्बीजादिति कार्यकारणसंबन्धसामान्या — पेक्षया अनादिसंबन्धः, अस्माद् बीजादयं वृक्षोऽस्माच्च वृक्षादिदं बीजमिति विशेषापेक्षया सादिः । एवं तैजसकार्मणयोरपि पौनर्भविकनिमित्तनैमित्तिकसन्तत्यपेक्षया अनादिसंबन्धः, विशेषापेक्षया सादिरिति । २५एकान्तेनादिमत्त्वे अभिनवशरीरसंबन्धाभावो निर्निमित्तत्वात् । ३ । यस्यैकान्तेनादिमान् शरीरसंबन्धः तस्य प्रागात्यन्तिकीं शुद्धिमादधतो जीवस्याभिनवशरीरसंबन्धो न स्यात् । कुतः ? निर्निमित्तत्वात् । मुक्तात्माभावप्रसङ्गश्च । ४ । यद्येकान्तेन सादिसंबन्धः; यथा आदिशरीरमकस्मात् संबध्यते एवं मुक्तात्मनोऽप्याकस्मिकशरीरसंबन्धः स्यादिति मुक्तात्माभावप्रसङ्गः स्यात् । ३०एकान्तेनानादित्वे चानिर्मोक्षप्रसङ्गः । ५ । अथैकान्तेनानादित्वं कल्प्यते; एवमपि यस्या — नादित्वं तस्यान्तोऽपि नास्तीत्याकाशवत् कार्यकारणसंबन्धाभावात्, ततश्चानिर्मोक्षः प्रसजति । १५० ननु चानादेरपि बीजवृक्षसन्तानस्याग्निसम्बन्धे सत्यन्तो दृष्टः; न; तस्यैकान्तेनाऽनादित्वा- भावात् । बीजवृक्षौ हि विशेषापेक्षया आदिमन्ताविति । तस्मात् साधूक्तं केनचित्प्रकारेण अनादिः सबन्धः, केनचित्प्रकारेणादिमानिति । त एते तैजसकार्मणे किं कस्यचिदेव भवतः उताऽविशेषेणेति ? अत आह — ०५सर्वस्य ॥ ४२ ॥ सर्वशब्दो निरवशेषवाची । १ । निरवशेषस्य संसारिणो जीवस्य ते द्वे अपि शरीरे भवत इत्यर्थः । संसरणधर्मसामान्यादेकवचननिर्देशः । २ । संसरणधर्मसामान्ययोगादेकवचननिर्देशः क्रियते । यदि हि कस्यचित् संसारिणस्ते न स्यातां संसारित्वमेवास्य न स्यात् । १०अविशेषाभिधानात्तैरौदारिकादिभिः सर्वस्य संसारिणो यौगपद्येन संबन्धप्रसङ्गे संभवि- शरीरप्रदर्शनार्थमिदमुच्यते — तदादीनि भाज्यानि युगपदेकस्मिन्नाचतुर्भ्यः ॥ ४३ ॥ तद्ग्रहणं प्रकृतशरीरद्वयप्रतिनिर्देशार्थम् । १ । प्रकृते द्वे शरीरे तैजसकार्मणे, तत्प्रतिनि — र्देशार्थं तदित्युच्यते । १५आदिशब्देन व्यवस्थावाचिना शरीरविशेषणम् । २ । पूर्वसूत्रे व्यवस्थितानां शरीराणा- मानुपूर्व्यप्रतिपादनेन आदिशब्देन विशेषणं क्रियते, ते आदिर्येषां तानीमानि तदादीनीति । पृथक्त्वादेव तेषां भाज्यग्रहणमनर्थकमिति चेत्; न; एकस्य द्वित्रिचतुःशरीरसंबन्ध — विभागोपपत्तेः । ३ । स्यान्मतम् — भाज्यानि पृथक् कर्तव्यानीत्यर्थः, तान्यौदारिकादीनि परस्परत आत्मनश्च पृथग्भूतान्येव लक्षणभेदादतो भाज्यग्रहणमनर्थकमिति; तन्न; किं कारणम् ? २०एकस्य द्वित्रिचतुःशरीरसंबन्धविभागोपपत्तेः । कस्यचिदात्मनो द्वे तैजसकार्मणे, अपरस्य त्रीणि औदारिकतैजसकार्मणानि वैक्रियिकतैजसकार्मणानि वा, अन्यस्य चत्वारि औदारिकाऽऽहारक- तैजसकार्मणानीति विभागः क्रियते । युगपदिति कालैकत्वे । ४ । ‘युगपत्’ इत्ययं निपातः कालैकत्वे द्रष्टव्यः, एकस्मिन् काले । कालभेदे तु पञ्चापि भवन्त्येव । २५आङ्भिविध्यर्थः । ५ । आङ्यमभिविध्यर्थो द्रष्टव्यः, तेन चत्वार्यपि कस्यचिद्भवन्ति । मर्यादायां सत्यां चत्वारि न स्युः । अथ पञ्च युगपत् कस्मान्न भवन्तीति ? वैक्रियिकाहारकयोर्युगपदसंभवात् पञ्चाभावः । ६ । यस्य संयतस्याहारकं न तस्य वैक्रि — यिकम्, यस्य देवस्य नारकस्य वा वैक्रियिकं न तस्याहारकमिति युगपत् पञ्चानामसंभवः । पुनरपि तेषां शरीराणां विशेषप्रतिपत्त्यर्थमाह — १५१ निरुपभोगमन्त्यम् ॥ ४४ ॥ सूत्रक्रमापेक्षया अन्ते भवमन्त्यं कार्मणम्, निरुपभोगमिति वचनात् अर्थादापन्नमेतदित- राणि सोपभोगानीति । ०५कर्मादाननिर्जरासुखदुःखानुभवनहेतुत्वात् सोपभोगमिति चेत्; न; विवक्षितापरिज्ञा- नात् । १ । स्यान्मतम् — कार्मणकाययोगेन कर्मादत्ते निर्जरयति च, सुखदुःखं चानुभवति, ततः सोप- भोगमेव न निरुपभोगमिति ? तन्न; किं कारणम् ? विवक्षितापरिज्ञानात् । विवक्षितमुप- भोगमपरिज्ञाय परेणेदं चोदितम् । कोऽसौ विवक्षित उपभोगः ? इन्द्रियनिमित्तशब्दाद्युपलब्धिरुपभोगः । २ । इन्द्रियप्रणालिकया शब्दादीनामुपलब्धिरुप- १०भोग इत्युच्यते । विग्रहगतौ सत्यामपीन्द्रियोपलब्धौ द्रव्येन्द्रियनिर्वृत्त्यर्थाभावात् शब्दादिविष- यानुभवाभावान्निरुपभोगं कार्मणमिति कथ्यते । ननु तैजसमपि निरुपभोगं तत्र किमुच्यते निरुपभोगमन्त्यमिति ? अत आह- तैजसस्य योगनिमित्तत्वाभावादनधिकारः । ३ । तैजसं शरीरं योगनिमित्तमपि न भवति ततोऽस्योपभोगविचारेऽनधिकारः । ततो योगनिमित्तेषु शरीरेष्वन्त्यं निरुपभोगं सोपभोगानीत — १५राणीत्ययमर्थोऽत्र विवक्षितः । तत्राम्नातलक्षणेषु जन्मस्वमूनि शरीराणि प्रादुर्भावमापद्यमानानि किमविशेषेण भवन्ति उत कश्चिदस्ति प्रतिविशेषः ? अस्तीत्याह — गर्भसम्मूर्च्छनजमाद्यम् ॥ ४५ ॥ सूत्रक्रमापेक्षया आदौ भवमाद्यमौदारिकमित्यर्थः । यद् गर्भजं यच्च संमूर्च्छनजं तत्सर्व — २०मौदारिकं द्रष्टव्यम् । तदनन्तरं यन्निर्दिष्टं तत्कस्मिन् जन्मनीति ? अत आह — औपपादिकं वैक्रियिकम् ॥ ४६ ॥ उपपादे भवमौपपादिकम्, अध्यात्मादित्वात् इकः । यदौपपादिकं तत्सर्वं वैक्रियिकं वेदितव्यम् । २५यद्यौपपादिकं वैक्रियिकमनौपपादिकस्य वैक्रियिकत्वाभाव इति ? अत आह — लब्धिप्रत्ययं च ॥ ४७ ॥ वैक्रियिकमित्यभिसंबध्यते । प्रत्ययशब्दस्यानेकार्थत्वे विवक्षातः कारणगतिः । १ । अयं प्रत्ययशब्दोऽनेकार्थः । क्वचि- ज्ज्ञाने वर्तते, यथा अर्थाभिधानप्रत्यया इति । क्वचित्सत्यतायां वर्तते, प्रत्ययं कुरु सत्यं कुर्वि- ३०त्यर्थः । क्वचित्कारणे वर्तते मिथ्यादर्शनाविरतिप्रमादकषाययोगाः प्रत्यया इति । तत्रेह विवक्षातः कारणपर्यायवाची वेदितव्यः । तपोविशेषर्द्धिप्राप्तिर्लब्धिः । २ । तपोविशेषाद् ऋद्धिप्राप्तिर्लब्धिरित्युच्यते । लब्धिः प्रत्ययो यस्य तल्लब्धिप्रत्ययम् । अथ लब्ध्युपपादयोः को विशेषः ? १५२ निश्चयकादाचित्ककृतो विशेषो लब्ध्युपपादयोः । ३ । उपपादो हि निश्चयेन भवति जन्मनिमित्तत्वात्, लब्धिस्तु कादाचित्की जातस्य सत उत्तरकालं तपोविशेषाद्यपेक्षत्वादिति, अयमनयोर्विशेषः । सर्वशरीराणां विनाशित्वाद्वैक्रियिकविशेषानुपपत्तिरिति चेत्; न; विवक्षितापरिज्ञानात् । ४ । ०५स्यान्मतम् — विक्रिया विनाशः, सा च सर्वशरीराणां साधारणी मुहुर्मुहुरुपचयापचयधर्मत्वादु- च्छेदाच्च, ततो न वैक्रियिके कश्चिद्विशेषोऽस्तीति ? तन्न; किं कारणम् ? विवक्षितापरि- ज्ञानात् । नात्र विक्रियेति विनाशो विवक्षितः । किं तर्हि ? विविधकरणं विक्रिया । सा द्वेधा- एकत्वविक्रिया पृथक्त्वविक्रिया चेति । तत्रैकत्वविक्रिया स्वशरीरादपृथग्भावेन सिंहव्याघ्रहंसकु- ररादिभावेन विक्रिया । पृथक्त्वविक्रिया स्वशरीरादन्यत्वेन प्रासादमण्डपादिविक्रिया । सा १०उभयी च विद्यते भवनवासिव्यन्तरज्योतिष्ककल्पवासिनाम् । वैमानिकानाम् आसर्वार्थसिद्धेः प्रशस्तरूपैकत्वविक्रियैव । नारकाणां त्रिशूलचक्रासिमुद्गरपरशुभिण्डिवालाद्यनेकायुधैकत्ववि- क्रिया न पृथक्त्वविक्रिया आ षष्ठ्याः । सप्तम्यां महागोकीटकप्रमाणलोहितकुन्थुरूपैकत्वविक्रिया, नानेकप्रहरणविक्रिया, न च पृथक्त्वविक्रिया । तिरश्चां मयूरादीनां कुमारादिभावं प्रति- विशिष्टैकत्वविक्रिया न पृथक्त्वविक्रिया । मनुष्याणां तपोविद्यादिप्राधान्यात् प्रतिविशिष्टैकत्व- १५पृथक्त्वविक्रिया । किमेतदेव लब्ध्यपेक्षमुतान्यदप्यस्ति इति ? अत आह — तैजसमपि ॥ ४८ ॥ ननु च वैक्रियिकानन्तरमाहारकं वक्तव्यम्, अकालप्राप्तं तैजसं किमर्थमिहोच्यते ? लब्धिप्रत्ययापेक्षार्थं तैजसग्रहणम् । १ । लब्धिप्रत्ययमित्यनुवर्तते, तदभिसमीक्ष्येह तैज — २०सग्रहणं क्रियते । वैक्रियिकानन्तरं यदुपदिष्टं तस्य स्वरूपनिर्धारणार्थं स्वामिनिदर्शनार्थं चाह — शुभं विशुद्धमव्याघाति चाहारकं प्रमत्तसंयतस्यैव ॥ ४९ ॥ शुभकारणत्वाच्छुभव्यपदेशोऽन्नप्राणवत् ॥ १ ॥ यथा प्राणकारणेषु अन्नेषु प्राणव्यपदेशः ‘अन्नं वै प्राणाः’ इति, तथा शुभकर्मण आहारककाययोगस्य कारणत्वादाहारकं शरीरं २५शुभमित्युच्यते । विशुद्धकार्यत्वाद्विशुद्धाभिधानं कार्पासतन्तुवत् । २ । यथा कार्पासकार्येषु तन्तुषु कार्पास- व्यपदेशः कार्पासास्तन्तव इति । तथा विशुद्धस्य पुण्यकर्मणोऽशबलस्य निरवद्यस्य कार्यत्वाद्वि- शुद्धमित्याख्यायते । उभयतो व्याघाताभावादव्याघाति । ३ । न ह्याहारकशरीरेणान्यस्य व्याघातो नाप्यन्ये- ३०नाहारकस्येत्युभयतो व्याघाताभावादव्याघातीति व्यपदिश्यते । चशब्दस्तत्प्रयोजनसमुच्चयार्थः । ४ । तस्य प्रयोजनसमुच्चयार्थश्चशब्दः क्रियते । तद्यथा १५३ कदाचिल्लब्धिविशेषसद्भावज्ञानार्थं कदाचित्सूक्ष्मपदार्थनिर्धारणार्थं संयमपरिपालनार्थं च भरतैरावतेषु केवलिविरहे जातसंशयस्तन्निर्णयार्थं महाविदेहेषु केवलिसकाशं जिगमिषुरौदारि- केण मे महानसंयमो भवतीति विद्वानाहारकं निर्वर्तयति । आहारकमिति प्रागुक्तस्य प्रत्याम्नायः । ५ । एवं प्रकारमाहारकमित्येतस्य प्रतिपादनार्थं ०५पुनस्तस्य प्रत्याम्नायः क्रियते । प्रमत्तसंयतग्रहणं स्वामिविशेषप्रतिपत्त्यर्थम् । ६ । यदा आहारकशरीरं निर्वर्तयितुमारभते तदा प्रमत्तो भवतीति प्रमत्तसंयतस्येत्युच्यते । इष्टतोऽवधारणार्थमेवकारोपादानम् । ७ । यथैवं विज्ञायते (येत) ‘प्रमत्तसंयतस्यैवाहारकं नान्यस्य’ इति, मैवं विज्ञायि ‘प्रमत्तसंयतस्याहारकमेव’ इति, माभूदौदारिकादिनिवृत्तिरिति । १०एषां शरीराणां परस्परतः संज्ञा-स्वालक्षण्य-स्वकारण-स्वामित्व-सामर्थ्य-प्रमाण-क्षेत्र- स्पर्शन-काला-ऽन्तर-संख्या-प्रदेश-भावा-ऽल्पबहुत्वादिभिर्विशेषोऽवसेयः । ८ । उक्तानुक्तार्थ- संग्रहार्थमिदं वाक्यम् । तत्र संज्ञातोऽन्यत्वमौदारिकादीनां घटपटादिवत् । स्वालक्षण्यान्नानात्वम् — स्थौल्यलक्षणमौदारिकम् । विविधर्द्धिगुणयुक्तविकरणलक्षणं वैक्रियिकम् । दुरधिगमसूक्ष्मपदार्थतत्त्वनिर्णयलक्षणमाहारकम् । शङ्खधवलप्रभालक्षणं तैजसम् । १५तद्द्विविधम् — निःसरणात्मकमितरच्च । औदारिकवैक्रियिकहारकदेहाभ्यन्तरस्थं देहस्य दीप्ति- हेतुरनिःसरणात्मकम् । यतेरुग्रचारित्रस्यातिक्रुद्धस्य जीवप्रदेशसंयुक्तं बहिर्निष्क्रम्य दाह्यं परि- वृत्यावतिष्ठमानं निष्पावहरितफलपरिपूर्णां स्थालीमग्निरिव पचति, पक्त्वा च निर्वर्तते, अथ चिरमवतिष्ठते अग्निनसाद् दाह्योऽर्थो भवति, तदेतन्निःसरणात्मकम् । सर्वकर्मशरीरप्ररो- हणलक्षणं कार्मणम् । २०स्वकारणतोऽन्यत्वम् — औदारिकशरीरनामकारणमौदारिकम्, वैक्रियिकशरीरनामकारणं वैक्रियिकम् । आहारकशरीरनामकारणमाहारकम्, तैजसशरीरनामकारणं तैजसम्, कार्मण- शरीरनामकारणं कार्मणम् । स्वामिभेदादन्यत्वम् — औदारिकं तिर्यङ्मनुष्याणाम्, वैक्रियिकं देवनारकाणाम्, तेजो- वायुकायिकपञ्चेन्द्रियतिर्यङ्मनुष्याणां च केषाञ्चित् । २५आह चोदकः — जीवस्थाने योगभङ्गे सप्तविधकाययोगस्वामिप्ररूपणायाम् *“औदा- रिककाययोगः औदारिकमिश्रकाययोगश्च तिर्यङ्मनुष्याणाम्, वैक्रियिककाययोगो वैक्रियिक- मिश्रकाययोगश्च देवनारकाणाम्”[षट् खंº]उक्तः, इह तिर्यङ्मनुष्याणामपीत्युच्यते; तदिदमार्षविरुद्धमिति; अत्रोच्यते — न, अन्यत्रोपदेशात् । व्याख्याप्रज्ञप्तिदण्डकेषुशरीरभङ्गे — १५४ वायोरौदारिकवैक्रियिकतैजसकार्मणानि चत्वारि शरीराण्युक्तानि मनुष्याणां पञ्च । एवमप्या — र्षयोस्तयोर्विरोधः; न विरोधः; आभिप्रायकत्वात् । जीवस्थाने सर्वदेवनारकाणां सर्वकालं वैक्रि- यिकदर्शनात् तद्योगविधिरित्यभिप्रायः, नैवं तिर्यङ्मनुष्याणां लब्धिप्रत्ययं वैक्रियिकं सर्वेषां सर्वकालमस्ति कादाचित्कत्वात् । व्याख्याप्रज्ञप्तिदण्डकेषु त्वस्तित्वमात्रमभिप्रेत्योक्तम् । ०५आहारकं प्रमत्तसंयतस्य । तैजसकार्मणे सर्वसंसारिणाम् । सामर्थ्यतोऽन्यत्वम् — औदारिकस्य सामर्थ्यं द्वेधा भवगुणप्रत्ययत्वात् । तिर्यङमनुष्याणां सिंहाष्टापदचक्रधरवासुदेवादीनांप्रकृष्टावकृष्टवीर्यदर्शनाद्भवप्रत्ययम् । प्रकृष्टतपोबलानामृषीणां यच्छरीरविकरणसामर्थ्यं तद् गुणप्रत्ययम् । तपःसामर्थ्यं तदिति चेत्; न; औदारिकशरीरादृते तपसः केवलस्य शरीरविकरणसामर्थ्याभावात् । वैक्रियिकस्य सामर्थ्यं मेरुप्रचलनसकलम- १०हीमण्डलोद्वर्तनादि । आहारकस्य सामर्थ्यमप्रतिहतवीर्यता । वैक्रियिकस्याप्यप्रतिहतसामर्थ्यं वज्रपटलादिष्वप्रतिघातदर्शनादिति चेत्; न; इन्द्रसामानिकादीनां प्रकर्षाप्रकर्षदर्शनात्, अनन्तवीर्ययतिना चेन्द्रवीर्यस्य प्रतिघातश्रुतेः सप्रतिघातसामर्थ्यं वैक्रियिकम् । सर्वाणि चाहारक- शरीराणि तुल्यवीर्यत्वादप्रतिहतत्वाच्च अप्रतिघातवीर्याणि । तैजसस्य सामर्थ्यं कोपप्रसादापेक्षं दाहानुग्रहरूपम् । कार्मणस्य सामर्थ्यं सर्वकर्मावकाशदानम् । १५प्रमाणतोऽन्यत्वम् — सर्वजघन्येनाङ्गुलासंख्येयभागप्रमाणं सूक्ष्मनिगोतौदारिकम्, उत्कर्षेण साधिकयोजनसहस्रप्रमाणं नन्दीश्वरवापीपद्मौदारिकम् । वैक्रियिकं मूलशरीरतो जघन्येनारत्नि- प्रमाणं सर्वार्थसिद्धिदेवस्य, उत्कर्षेण पञ्चधनुःशतप्रमाणं तमस्तमःप्रभायां नारकस्य । विक्रिय- योत्कर्षेण जम्बूद्वीपप्रमाणं वैक्रियिकं शरीरं विकरोति देवः । आहारकमरत्निप्रमाणम् । तैजस — कार्मणे जघन्येन यथोपात्तौदारिकशरीरप्रमाणे, उत्कर्षेण केवलिसमुद्घाते सर्वलोकप्रमाणे । २०क्षेत्रतोऽन्यत्वम् — औदारिकवैक्रियिकाहारकाणि लोकस्यासंख्येयभागक्षेत्रे । तैजसकार्मणे लोकस्यासंख्येयभागे असंख्येयेषु वा भागेषु सर्वलोके वा प्रतरलोकपूरणयोः । स्पर्शनतोऽन्यत्वम् — औदारिकादानीम् एकजीवं प्रति वक्ष्यामः । औदारिकेण तिर्यग्भिः सर्वलोकः स्पृष्टः । मनुष्यैः लोकस्यासंख्येयभागः । मूलवैक्रियिकशरीरेण लोकस्यासंख्येयभागा उत्तरवैक्रियिकेणाऽष्टौ चतुर्दशभागा देशोनाः । कथम् ? सौधर्मदेवः स्वपरप्राधान्यादारणाच्युत- २५विहारात् षड्रज्जूर्गच्छति । स्वप्राधान्यात् अध आवालुकपृथिव्या द्वे रज्जू इति । आहारकेण लोकस्यासंख्येयभागं स्पृशति । तैजसकार्मणाभ्यां सर्वलोकम् । कालतोऽन्यत्वम् — एकं जीवं प्रति वक्ष्यामः । मिश्रकं वर्जयित्वौदारिकस्य तिर्यङ्मनुष्याणां जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रीणि पल्योपमान्यन्तर्मुहूर्तोनानि । स चान्तर्मुहूर्तोऽपर्याप्तकालः । वैक्रियिकस्य देवान् प्रति मूलवैक्रियिकदेहस्य जघन्येन दशवर्षसहस्राणि अपर्याप्तकालान्तर्मुहूर्तो- ३०नानि, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि अपर्याप्तकालान्तर्मुहूर्तोनानि । उत्तरवैक्रियिकस्य जघन्य उत्कृष्टश्चाऽन्तर्मुहूर्तः । तीर्थकरजन्मनन्दीश्वरार्हदायतनादिपूजासु कथमिति चेत् ? पुनः पुनर्विकरणात् सन्तत्यविच्छेदः । आहारकस्य कालो जघन्य उत्कृष्टश्चाऽन्तर्मुहूर्तः । तैज — सकार्मणयोः सन्तत्यादेशाद् अभव्यान् प्रत्यनादिरपर्यवसानः कालः, भव्यांश्च कांश्चित् प्रति ये अनन्तेनापि कालेन न सेत्स्यन्ति । ये सेत्स्यन्ति तान् प्रत्यनादिः सपर्यवसानः । एकसमयिकः ३५निषेकं प्रति । तैजसस्य षट्षष्टिसागरोपमाणि । कार्मणस्य कर्मस्थितिः सप्ततिसागरोपम- कोटिकोट्यः । १५५ अन्तरतोऽन्यत्वम् — औदारिकादीनामेकजीवं प्रति वक्ष्यामि । मिश्रकं वर्जयित्वौदारिक- स्यान्तर्मुहूर्तोऽन्तरं जघन्यम् । कतरोऽन्तर्मुहूर्तः ? औदारिकमिश्रकालोऽन्तर्मुहूर्तः । कथम् ? इह चातुर्गतिकः तिर्यङ्मनुष्येषूत्पन्नोऽन्तर्मुहूर्तमपर्याप्तको भूत्वा पर्याप्तकत्वं प्राप्याऽन्तर्मुहूर्तं जीवित्वा मृतः, पुनस्तिर्यङ्मनुष्ययोरन्यतरत्रोत्पन्नः अपर्याप्तिमान्तर्मुहूर्तिकीमनुभूय पर्याप्तको ०५जातः, लब्धमौदारिकान्तरम् । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि सातिरेकाणि । कथम् ? यो मनुष्यस्त्रयस्त्रिंशत्सागरोपमायुष्केषु देवेषूत्पद्य स्थितिक्षये प्रच्युतः पुनर्मनुष्येषूत्पद्यते तस्य यो- ऽपर्याप्तिकालस्तेनाधिकानि त्रयस्त्रिंशत्सागरोपमाणि । वैक्रियिकस्य जघन्यमन्तरमन्तर्मुहूर्तः । कथम् ? मनुष्यस्तिर्यग्वा मृतः दशवर्षसहस्रा- युष्कदेवेषूत्पद्य च्युतः मनुष्येषु तिर्यक्षु चोत्पद्य अपर्याप्तकालमनुभूय पुनर्देवायुर्बद्ध्वा १०उत्पद्यते, लब्धमन्तरम् । वैक्रियिकस्योत्कर्षेणान्तरमनन्तकालः । कथम् ? देवत्वाच्च्युतोऽ- नन्तकालं तिर्यङ्मनुष्येष्वटित्वा देवो जातः, अपर्याप्तकालमनुभूय वैक्रियिकशरीरो दृष्टः, लब्धमन्तरम् । आहारकस्यान्तरं जघन्यमन्तर्मुहूर्तः । प्रमत्तसंयत आहारकं निर्वत्यान्तर्मुहूर्तमाहारकेण स्थितः कृताहारकशरीरकार्य उपसंहृत्य पुनर्लब्धिसन्निधानादन्तर्मुहूर्तमवस्थाय निर्वर्तयतीति १५लब्धमन्तरम् । उत्कर्षेणार्धपुद्गलपरिवर्तः अन्तर्मुहूर्तोनः । कथम् ? योऽनादिमिथ्यादृष्टिः दर्शनमोहमुपशम्योपशमसम्यक्त्वं संयमं च युगपत्प्रतिपन्न उपशमसम्यक्त्वाच्च्युतो वेदक — सम्यक्त्वेनोत्पद्य अन्तर्मुहूर्तं स्थितः सन्नप्रमत्तसंयतस्थाने आहारकं बद्ध्वा ततः प्रमत्तसंयतो निर्वर्त्य मूलशरीरं प्रविश्य मिथ्यात्वं गतः, सोऽर्धपुद्गलपरिवर्तं देशोनमटित्वा मनुष्येषूत्पद्य पूर्वविधिना सम्यक्त्वमुत्पाद्याऽसंयतसम्यग्दृष्टिसंयतासंयतयोरन्यतरत्र दर्शनमोहं क्षपयित्वा २०संयमं प्रतिपद्याप्रमत्त आहारकस्य बन्धकः प्रमत्तो निर्वर्तयतीति लब्धमन्तरम् । अत्र ये प्राथमिकाश्चत्वारोऽन्तर्मुहूर्तास्ते कतरे ? प्रथमो दर्शनमोहोपशमसम्यक्त्वसमानकालसंयमान्त- र्मुहूर्तः । द्वितीयो वेदकसम्यक्त्वान्तर्मुहूर्तः । तृतीय आहारकबन्धान्तर्मुहूर्तः । चतुर्थ आहार- कनिर्वृत्त्यन्तर्मुहूर्तः । एते चत्वार आद्या अन्तर्मुहूर्ताः, उत्तरकालमाहारकशरीरनिर्वृत्त्यन्तर्मुहूर्तः पञ्चमः मूलशरीरं प्रविश्य प्रमत्ताप्रमत्ताभ्यां बहून् वाराननुभवतो बहवोऽन्तर्मुहूर्ता अतोऽधः- २५प्रवृत्तकरणविशुद्ध्या विशुद्धो विश्रान्तः । अपूर्वकरणानिवृत्तिसूक्ष्मसाम्परायक्षींणकषायसयोग्य- योगिनामेकैकोऽन्तमुहूर्तः । इयता कालेन हीनोऽर्धपुद्गलपरिवर्तः । तैजसकार्मणयोर्नास्त्यन्तरं सर्वसंसारिषु सर्वकालं सन्निधानात् । संख्यातोऽन्यत्वम् — औदारिकाण्यसंख्येया लोकाः । वैक्रियिकाण्यसंख्याताः श्रेणयो लोक- प्रतरस्यासंख्येयभागः । आहारकाणि संख्येयानि चतुःपञ्चाशत् । तैजसकार्मणान्यनन्तानि ३०अनन्तानन्तलोकाः । प्रदेशतोऽन्यत्वम् — औदारिकस्यानन्ताः प्रदेशाः अभव्यानामनन्तगुणाः सिद्धानामनन्त — भागाः । एवं शेषाणां चतुर्णामपि शरीराणाम्, अनन्तस्यानन्तविकल्पत्वात्उदुत्तरोत्तराण्य- १५६ धिकानि, आधिक्यपरिमाणं प्रागुक्तम् । भावतोऽन्यत्वम् — औदारिकादिस्वशरीरनामोदयात् सर्वाण्यौदयिकभावानि । अल्पबहुत्वतोऽन्यत्वम् — सर्वतः स्तोकान्याहारकाणि, वैक्रियिकाण्यसंख्येयगुणानि । को गुणाकारः ? असंख्याताः श्रेणयः, लोकप्रतरस्यासंख्येयभागाः । तत औदारिकाणि असंख्येय- ०५गुणानि । को गुणकारः ? असंख्येया लोकाः । तैजसकार्मणान्यनन्तगुणानि । को गुणकारः ? सिद्धानामनन्तगुणाः । आत्माधिश्रितकार्मणनिमित्तविजृम्भितानि शरीराणि बिभ्रतां संसारिणां चातुर्विध्यव- तामिन्द्रियसंबन्धं प्रति विकल्पभाजां प्रति प्राणिनः किं त्रिलिङ्गसन्निधानम् उत लिङ्गनियमः कश्चिदस्तीति ? अत उत्तरं पठति — १०नारकसम्मूर्च्छिनो नपुंसकानि ॥ ५० ॥ धर्मार्थकाममोक्षकार्यनरणान्नराः । १ । धर्मार्थकाममोक्षलक्षणानि कार्याणि नृणन्ति नयन्तीति नराः । नरान् कायन्तीति नरकाणि । २ । शीतोष्णासद्वेद्योदयापादितवेदनया नरान् कायन्ति शब्दायन्त इति नरकाणि । १५नृणन्तीति वा । ३ । अथवा पापकृतः प्राणिन आत्यन्तिकं दुःखं नृणन्ति नयन्तीति नरकाणि । औणादिकः कर्तर्यकः । नरकेषु भवा नारकाः । संमूर्च्छनं संमूर्च्छः, स एषामस्तीति संमूर्च्छिनः । नारकाश्च संमूर्च्छिनश्च नारकसंमूर्च्छिनः । नपुंसकवेदाशुभनामोदयान्नपुंसकानि । ४ । चारित्रमोहविकल्पनोकषायभेदस्य नपुंसक — २०वेदस्याशुभनाम्नश्चोदयान्न स्त्रियो न पुमांस इति नपुंसकानि भवन्ति । नारकसंमूर्च्छिनो नपुंसकान्येवेति नियमः । तत्र हि स्त्रीपुंसविषया मनोज्ञशब्दगन्धरूपरसस्पर्शसंबन्धनिमित्ता स्वल्पापि सुखमात्रा नास्ति । यद्येवमवध्रियते अर्थादापन्नमेतदुक्तेभ्योऽन्ये ये संसारिणः तेषां त्रिलिङ्गत्वमिति, यत्रात्य- न्तनपुं सकलिङ्गस्याभावस्तत्प्रतिपादनार्थमाह — २५न देवाः ॥ ५१ ॥ स्त्रीपुंसविषयनिरतिशयसुखानुभवनाद् देवेषु नपुंसकाभावः । १ । स्त्रैणं पौस्नं च यन्नि- रतिशयं सुखं शुभगतिनामोदयापेक्षं तदेवानुभवन्तीति न तेषु नपुंसकानि सन्ति । तच्चोपरि वक्ष्यते । अथेतरे कियल्लिङ्गा इति ? अत आह — ३०शेषास्त्रिवेदाः ॥ ५२ ॥ त्रयो वेदा येषां ते त्रिवेदाः । के पुनस्ते ? स्त्रीत्वं पुस्त्वं नपुंसकत्वमिति । कथं तेषां सिद्धिः ? १५७ नामकर्मचारित्रमोहनोकषायोदयाद्वेदत्रयसिद्धिः । १ । नामकर्मणश्चारित्रमोहविकल्पस्य नोकषायस्य चोदयाद्वेदत्रयस्य सिद्धिर्भवति । वेद्यत इति वेदो लिङ्गमित्यर्थः । तल्लिङ्गं द्विविधम् — द्रव्यलिङ्गं भावलिङ्गं चेति । नामकर्मोदयाद् योनिमेहनादि द्रव्यलिङ्गं भवति । नोक- षायोदयाद्भावलिङ्गम् । तत्र स्त्रीवेदोदयात् स्त्यायत्यस्यां गर्भ इति स्त्री । पुंवेदोदयात् सूते ०५जनयत्यपत्यमिति पुमान् । नपुंसकवेदोदयात् तदुभयशक्तिविकलं नपुंसकम् । रूढिशब्दाश्चैते । रुढिषु च क्रिया व्युत्पत्त्यर्थैव, यथा गच्छतीति गौरिति । इतरथा हि गर्भधारणादिक्रियाप्राधान्ये बालवृद्धानां तिर्यङ्मनुष्याणां देवानां कार्मणकाययोगस्थानां च तदभावात् स्त्रीत्वादिव्यप- देशो न स्यात् । तत्र हि स्त्रीवेदो दारुवह्निवत्, पुंवेदस्तृणाग्निवत्, इष्टकाग्निवन्नपुंसकवेदः । ते एते त्रयोऽपि वेदाः शेषाणां गर्भजानां भवन्ति । १०य इमे जन्मयोनिशरीरलिङ्गसंबन्धाहितविशेषाः प्राणिनो निर्दिश्यन्ते देवादयो विचि- त्रधर्माधर्मवशीकृताश्चतसृषु गतिषु शरीराणि धारयन्तः किं यथाकालमुपभुक्तायुषो मूर्त्यन्तराण्यास्कन्दन्ति उत अयथाकालमपीति ? अत उत्तरं पठति- औपपादिकचरमोत्तमदेहाऽसंख्येयवर्षायुषोऽनपवर्त्त्यायुषः ॥ ५३ ॥ औपपादिका उक्ताः । १ । उक्ता व्याख्याता औपपादिका देवनारका इति १५चरमशब्दस्यान्तवाचित्वात्तज्जन्मनि निर्वाणार्हग्रहणम् । २ । चरमशब्दोऽन्तपर्यायवाची । चरमो देहो येषां त इमे चरमदेहा इति परीतसंसारास्तज्जन्मनि निर्वाणार्हा गृह्यन्ते । उत्तमशब्दस्योत्कृष्टवाचित्वाच्चक्रधरादिग्रहणम् । ३ । अयमुत्तमशब्द उत्कृष्टवाची, उत्तमो देहो येषां त इमे उत्तमदेहा इति चक्रधरादिग्रहणं वेदितव्यम् । उपमाप्रमाणगम्यायुषोऽसंख्येयवर्षायुषः । ४ । अतीतसंख्यानमुपमाप्रमाणेन पल्यादिना २०गम्यमायुर्येषां त इमेऽसंख्येयवर्षायुषस्तिर्यङ्मनुष्या उत्तरकुर्वादिषु प्रसूताः । बाह्यप्रत्ययवशादायुषो ह्रासोऽपवर्तः । ५ । बाह्यस्योपघातनिमित्तस्य विषशस्त्रादेः सति सन्निधाने ह्रासोऽपवर्त इत्युच्यते । अपवर्त्त्यमायुयेषां त इमे अपवर्त्यायुषः, नापवर्त्यायुषोऽनप- वर्त्यायुषः । एते औपपादिकादय उक्ता अनपवर्त्यायुषाः, न हि तेषामायुषो बाह्यनिमित्तवशा- दपवर्तोऽस्ति । २५अन्त्यचक्रधरवासुदेवादीनामायुषोऽपवर्तदर्शनादव्याप्तिः । ६ । उत्तमदेहाश्चक्रधरादयोऽन- पवर्त्यायुषाः इत्येतल्लक्षणमव्यापि । कुतः ? अन्तस्य चक्रधरस्य ब्रह्मदत्तस्य वासुदेवस्य च कृष्णस्य अन्येषां च तादृशानां बाह्यनिमित्तवशादायुरपवर्तदर्शनात् । न वा; चरमशब्दस्योत्तमविशेषणत्वात् । ७ । न वैष दोषः । किं कारणम् ? चरमशब्द — स्योत्तमविशेषणत्वात् । चरम उत्तमो देहो येषां ते चरमोत्तमदेहा इति । १५८ उत्तमग्रहणमेवेति चेत्; न; तदनिवृत्तेः । ८ । स्यादेतत् — उत्तमग्रहणमेवास्तु उत्तमदेहा इति ? तन्न; किं कारणम् ? तदनिवृत्तेः, यो दोष उक्तोऽव्याप्तिरिति स तदवस्थ एव तेषामप्युत्तमदेहत्वात् । चरमग्रहणमेवेति चेत्; न; तस्योत्तमत्वप्रतिपादनार्थत्वात् । ९ । स्यान्मतम् — चरमग्रहण- ०५मेवास्तु चरमदेहा इति, नार्थ उत्तमग्रहणेनेति; तन्न; किं कारणम् ? तस्योत्तमत्वप्रतिपाद- नार्थत्वात् । स हि चरमो देहः सर्वे षामुत्तम इत्यर्थः प्रतिपाद्यते । चरमदेहा इति वा केषाञ्चित् पाठः । एतेषां नियमेनायुरनपवर्त्यमितरेषामनियमः । अप्राप्तकालस्य मरणानुपलब्धेरपवर्ताभाव इति चेत्; न; दृष्टत्वादाम्रफलादिवत् । १० । यथा अवधारितपाककालात् प्राक् सोपायोपक्रमे सत्याम्रफलादीनां दृष्टः पाकस्तथा परिच्छि- १०न्नमरणकालात् प्रागुदीरणाप्रत्यय आयुषो भवत्यपवर्तः । आयुर्वेदसामर्थ्याच्च । ११ । यथा अष्टाङ्गायुर्वेदविद्भिषक् प्रयोगे अतिनिपुणो यथाकाल- वाताद्युदयात् प्राक् वमनविरेचनादिना अनुदीर्णमेव श्लेष्मादि निराकरोति, अकालमृत्युव्यु- दासार्थं रसायनं चोपदिशति, अन्यथा रसायनोपदेशस्य वैयर्थ्यम् । नचादोऽस्ति ? अत आयुर्वे- दसामर्थ्यादस्त्यकालमृत्युः । १५दुखप्रतीकारार्थं इति चेत्; न; उभयथा दर्शनात् । १२ । स्यान्मतम् — दुःखप्रतीकारोऽर्थ आयुर्वेदस्येति ? तन्न; किं कारणम् ? उभयथा दर्शनात् । उत्पन्नानुत्पन्नवेदनयोर्हि चिकि- त्सादर्शनात् । कृतप्रणाशप्रसङ्ग इति चेत्; न; दत्वैव फलं निवृत्तेः । १३ । स्यान्मतम् — यद्यकालमृत्यु- रस्ति कृतप्रणाशः प्रसज्येत इति; तन्न; किं कारणम् ? दत्वैव फलं निवृत्तेः, नाकृतस्य २०कर्मणः फलमुपभुज्यते, न च कृतकर्मफलविनाशः, अनिर्मोक्षप्रसङ्गात्, दानादिक्रियारम्भाभा — वप्रसङ्गाच्च । किन्तु कृतं कर्म कर्त्रे फलं दत्वैव निवर्तते विततार्द्रपटशोषवत् अयथाकालनिर्वृत्तः पाक इत्ययं विशेषः । इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे द्वितीयोऽध्यायः समाप्तः । १५९ तृतीयोऽध्यायः मोक्षमार्गे त्रिविधेऽधिकृते आदावुपदिष्टस्य सम्यग्दर्शनस्य विषयप्रदर्शनार्थे जीवादिपदार्थो- पदेशे कर्तव्ये जीवा निर्दिष्टाः । इदानीं तदधिष्ठानव्याख्यानप्रसङ्गेन लोकविभागो वक्तव्यः । स पुनस्त्रिविधः — अधोलोकस्तिर्यग्लोक ऊर्ध्वलोकः । तत्र क्रमप्राप्तस्याऽधोलोकस्य वर्णनार्थ- मुच्यते । अथवा संवेगहेतुत्वात् ताः नारकीः शीतोष्णनिमित्ताः सुतीव्रवेदनाः श्रुत्वाऽयं कथं ०५संविग्नः स्यादिति प्रथममधोलोक उच्यते । अथवा, *“भवप्रत्ययोऽवधिर्देवनारकाणाम्”[तº सूº १ । २१] इत्येवमादिषु नारकाः श्रुताः, ततः पृच्छति के ते नारका इति ? तत्प्रतिपाद- नार्थं तदधिकरणनिर्देशः क्रियते — रत्नशर्करावालुकापङ्कधूमतमोमहातमःप्रभाभूमयो घनाम्बुवाता- काशप्रतिष्ठाः सप्ताधोऽधः ॥ १ ॥ १०रत्नादीनामितरेतरयोगे द्वन्द्वः । १ । रत्नं च शर्करा च वालुका च पङ्कश्च धूमश्च तमश्च महातमश्च रत्नशर्करावालुकापङ्कधूमतमोमहातमांसीति इतरेतरयोगे द्वन्द्वो द्रष्टव्यः । प्रभाशब्दस्य प्रत्येकं परिसमाप्तिर्भुजिवत् । २ । यथा देवदत्तजिनदत्तगुरुदत्ता भोज्यन्ता- मिति प्रत्येकं भुजिः परिसमाप्यते, एवं प्रभाशब्दस्यापि प्रत्येकं परिसमाप्तिर्वेदितव्या- रत्नप्रभा-शर्कराप्रभा-वालुकाप्रभा-पङ्कप्रभा-धूमप्रभा-तमःप्रभा-महातमःप्रभा-चेति । १५साहचर्यात्ताच्छब्द्यसिद्धिर्यष्टिवत् । ३ । यथा यष्टिसहचरितो देवदत्तो यष्टिरित्युच्यते तथा चित्र-वज्र-वैडूर्य-लोहिताक्षमसार-गल्व-गोमेद-प्रवाल-ज्योती-रसाञ्जनमूलकाङ्क-स्फटिक- चन्दन-बर्बक-बकुल-शिलामयाख्यषोडशधापरिक्लृप्तरत्नप्रभासहचरितत्वात् रत्नप्रभा भूमिः । शर्कराप्रभासहचरिता शर्कराप्रभा । वालुकाप्रभासहचरिता वालुकाप्रभा । पङ्कप्रभासहचरिता पङ्कप्रभा । धूमप्रभासहचरिता धूमप्रभा । तमःप्रभासहचरिता तमःप्रभा । महातमःप्रभासहच- २०रिता महातमःप्रभेति । तमःप्रभेति विरुद्धमिति चेत्; न; स्वात्मप्रभोपपत्तेः । ४ । स्यान्मतम् — तमोऽन्धकारः प्रभा प्रकाश इति विरुद्धावेतावर्थौ — यदि तमो न प्रभा, अथ प्रभा न तमः, तमःप्रभेत्यभि- धानमनुपपन्नमिति; तन्न; किं कारणम् ? स्वात्मप्रभोपपत्तेः । न दीप्तिरूपैव प्रभा । किं तर्हि ? द्रव्याणां स्वात्मैव मृजा प्रभा यत्सन्निधानात् मनुष्यादीनामयं संव्यवहारो भवति स्निग्ध- २५कृष्णप्रभमिदं रूक्षकृष्णप्रभमिदमिति, ततस्तमसोऽपि स्वात्मैव कृष्णा प्रभा अस्तीति नास्ति विरोधः । बाह्यप्रकाशापेक्षा सेति चेत्; अविशेषप्रसङ्गः स्यात् । १६० अनादिपारिणामिकसंज्ञानिर्देशाद्वा इन्द्रगोपवत् । ५ । यथा इन्द्रगोप इति कस्यचिज्जन्तोः संज्ञा अनादिः स्वाभाविकी । न ह्यसौ इन्द्रं गोपायतीति इन्द्रगोपः । एवं तमःप्रभादिसंज्ञा अपि अनादिपारिणामिक्यो वेदितव्याः । भेदे रूढिशब्दानामगमकत्वमवयवार्थाभावादिति चेत्; न; सूत्रस्य प्रतिपादनोपाय — ०५त्वात् । ६ । स्यादेतत् — यद्येते अनैमित्तिका रूढिशब्दा भेदे गमकत्वमेषां नास्ति । कुतः ? अवयवार्थाभावादिति; तन्न; किं कारणम् ? सूत्रस्य प्रतिपादनोपायत्वात् । तेषां संज्ञा — शब्दानां प्रतिपादनोपायभूतमिदम् । अस्मान्निबन्धनस्थानाच्छब्दान्तराण्युपप्लवन्ते यैरर्थाः संज्ञायन्ते । भूमिग्रहणमधिकरणविशेषप्रतिपत्त्यर्थम् । ७ । यथा स्वर्गपटलानि भूमिमनाश्रित्या अवस्थि — १०तानि न तथा नारकावासाः । किं तर्हि ? भूमीराश्रित्य व्यवस्थिता इत्यधिकरणविशेषप्रति — पत्त्यर्थं भूमिग्रहणम् । घनाम्ब्वादिग्रहणं तदालम्बननिर्ज्ञानार्थम् । ८ । तासां भूमीनामालम्बननिर्ज्ञानार्थं घनाम्ब्वा- दिग्रहणं क्रियते । घनमेवाम्बु घनाम्बु । घनाम्बु च वातश्चाकाशं च घनाम्बुवाताकाशानि, तानि प्रतिष्ठा आश्रयो यासां ता घनाम्बुवाताकाशप्रतिष्ठाः । सर्वा एता भूमयः घनोदधिवल- १५यप्रतिष्ठाः, घनोदधिवलयं घनवातवलयप्रतिष्ठम्, घनवातवलयं तनुवातवलयप्रतिष्ठम्, तनु- वातवलयमाकाशप्रतिष्ठम्, आकाशमात्मप्रतिष्ठं तस्यैवाधाराधेयत्वात् । त्रीण्यप्येतानि वलया- न्यन्वर्थसंज्ञानि प्रत्येकं विंशतियोजनसहस्रबाहल्यानि । तत्र घनोदधयो मुद्गसन्निभाः, घनवाता गोमूत्रवर्णाः, अव्यक्तवर्णास्तनुवाताः । तत्र रत्नप्रभाया बाहुल्यमेकं योजनशतसहस्रमशीतिश्च योजनसहस्राणि । तस्यास्त्रयो २०भागाः — खरपृथिवीभागः, पङ्कबहुलः, अब्बहुलश्चेति । तत्र चित्रादिषोडशधाप्रक्लृप्तरत्ना- ञ्चितः खरपृथिवीभागः, षोडशयोजनसहस्रबहलः । पङ्कबहुलः चतुरशीतियोजनसहस्र- बहलः । अब्बहुलोऽशीतियोजनसहस्रबहलः । तत्र खरपृथिवीभागस्योपर्यधश्चैकैकं योजन- सहस्रं परित्यज्य मध्यमभागेषु चतुर्दशसु योजनसहस्रेषु किन्नरकिम्पुरुषमहोरगगन्धर्वयक्ष- भूतपिशाचानां सप्तानां व्यन्तराणां नागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराणां २५नवानां भवनवासिनां चावासाः । पङ्कबहुलभागे असुरराक्षसानामावासाः । अब्बहुलभागे नरकाणि । शर्कराप्रभायां बाहल्यं द्वात्रिंशद्योजनसहस्राणि । ततोऽधोऽधस्तनानि चतुर्भिश्च चतुर्भिर्योजनसहस्रोनानि बाहल्यानि वेदितव्यानि आषष्ठ्याः । सप्तम्याम् अष्टौ योजन- सहस्राणि । सर्वासां तासामन्तराणि तिर्यक् चासंख्येया योजनकोटिकोट्यः । सप्तग्रहणमियत्तावधारणार्थम् । ९ । यथा गम्येत सप्तैव नरकाधारा भूमयो नाष्टौ न ३०षट् चेति संख्यान्तरनिवृत्त्यर्थम् । सन्ति हि केचित्तन्त्रान्तरीयाः — *“अनन्तेषु लोकधातुष्वनन्ताः १६१ पृथिवीप्रस्ताराः” इत्यध्यवसिताः । कथं तेषां निवृत्तिः ? स्याद्वादनीतिनिरूपि- तकर्मफलसंबन्धादिषु युक्तिसद्भावात् आर्हतस्यागमस्य प्रामाण्यं न शेषाणां तदभावादिति । अधोऽधोवचनं तिर्यक्प्रचयनिवृत्त्यर्थम् । १० । यथा गम्येत अधोऽध एव सप्तापि भूमयो न तिर्यक्प्रचयेनावस्थिता इति प्रतिपत्त्यर्थमधोऽधोग्रहणम् । ०५सामीप्याभावाद् द्वित्वानुपपत्तिरिति चेत्; न; अन्तरस्याविवक्षितत्वात् । ११ । स्यान्मतम् — प्रत्येकं भूमीनामन्तराण्यसंख्यातयोजनकोटीकोटिपरिमाणानि ततः सामीप्याभावाद् द्वित्वाभाव इति; तन्न; किं कारणम् ? अन्तरस्याविवक्षितत्वात् । कथमविवक्षा सतः ? सतोऽप्य — विवक्षा भवति यथा अलोमिका एडकाः अनुदरा कन्येति । तुल्यजातीयेनाव्यवधानं सामीप्यमिति वा । १२ । अथवा यदन्तरं तत्पूर्वोत्तरभागान्तः- १०पातित्वात् सामीप्यमिति तद्द्योतनार्थं द्वित्वम् । ‘पृथुतराः’ इति केषाञ्चित् पाठः । १३ । केचिदत्र ‘पृथुतराः’ इति पठन्ति । अत्र तरनिर्देशः कुतः ? प्रकर्षाभावात् । १४ । द्वयोर्द्वयोर्वाऽभिसंबन्धे सति महत्त्व- विशेषप्रख्यापनार्थस्तरशब्दः । एवमपि रत्नप्रभायाः पृथुतराव्यपदेशो नास्ति प्रतियोग्य — भावात् । अपि च शर्कराप्रभादीनां प्रकर्षाभावः अधोऽधो हीनपरिमाणत्वात् । तस्मा- १५दधोऽधः पृथुतरा इति व्यपदेशो नोपपद्यते । स्यादेतत् — अधोलोकस्य वेत्रासनसंस्थानस्याधोधः पृथुत्वप्रकर्षात् पृथुतरा इति व्यपदेश इति; तच्च न; भूमिभ्यो बहिस्तत्पृथुत्वम् । एवं ह्युक्तम् — *“स्वयम्भूरमणसमुद्रान्तादव- लम्बिता रज्जुः सप्तम्याः भूमेरवसाने पूर्वादिदिग्विभागावगाहिकालमहाकालरौरवमहारौर — वान्ते पतति” इति । अथापि कथञ्चित् स्यात् प्रकर्षः; तिर्यक् पृथुतरा इति २०वक्तव्यं स्यान्नाधोऽधः इति । अथापि कथञ्चिदनेन विशेषणेनार्थः, एवं ग्राह्यḥ अधोऽधो वेदनाप्रकर्षाप्रकर्षयोगादायुषोऽतिशयाद्वा तन्निमित्तस्य तद्व्यपदेशदर्शनात्, तत्संबन्धाद्वा भूमयः पृथुतरा इति व्यपदिश्यन्ते । एवमपि रत्नप्रभायां पृथुतराव्यपदेशो नोपपद्यत एव । अत्राह — किं ता भूमयो नारकाणां सर्वत्रावासा आहोस्वित् क्वचित् क्वचिदिति ? तन्निर्धारणार्थमाह — २५तासु त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि पञ्च चैव यथाक्रमम् ॥ २ ॥ तासु रत्नप्रभादिषु भूमिषु नरकाण्यनेन संख्यायन्ते । त्रिंशदादीनां परस्पराभिसंबन्धे वृत्तिः । १ । त्रिंशदादीनां पदानां परस्पराभिसंबन्धे सति वृत्तिर्वेदितव्या । पञ्चभिरूनं पञ्चोनं पञ्चोनं च तदेकं च तत्पञ्चोनैकम् । त्रिंशच्च पञ्च- ३०विंशतिश्च पञ्चदश च दश च त्रीणि च पञ्चोनैकं च त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रि- १६२ पञ्चोनैकानि । शतानां सहस्राणि शतशहस्राणि नरकाणां शतसहस्राणि नरकशतसहस्राणि, त्रिंशत्पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकानि च तानि नरकशतसहस्राणि च तानि त्रिंशत्- पञ्चविंशतिपञ्चदशदशत्रिपञ्चोनैकनरकशतसहस्राणि । यथाक्रमवचनं यथासंख्याभिसंबन्धार्थम् । २ । यो यः क्रमो यथाक्रमम्, तस्य वचनं ०५रत्नप्रभादिभिः, त्रिंशता(दा)दीनां यथासंख्याभिसंबन्धो यथा स्यादिति । तद्यथा — रत्नप्रभायां त्रिंशन्नरकशतसहस्राणि । शर्कराप्रभायां पञ्चविंशतिनरकशतसहस्राणि । वालुकाप्रभायां पञ्चदशनरकशतसहस्राणि । पङ्कप्रभायां दशनरकशतसहस्राणि । धूमप्रभायां त्रीणि नरकशतसहस्राणि । तमःप्रभायां पञ्चोनमेकं नरकशतसहस्रम् । महातमःप्रभायां पञ्च नरकाणि । १०तत्र रत्नप्रभायां अब्बहुलभागे उपर्यधश्चैकैकं योजनसहस्रं वर्जयित्वा मध्ये नरकाणि भवन्ति । तानि त्रिधा वर्ण्यन्ते, इन्द्रक-श्रेणि-पुष्पप्रकीर्णकविभागेन । तत्र त्रयोदशनरक- प्रस्ताराः, त्रयोदशैव इन्द्रकनरकाणि सीमन्तक-निरय-रौरुक्-भ्रान्त-उद्भ्रान्त-सम्भ्रान्त-असं- भ्रान्त-विभ्रान्त-तप्त-त्रस्त-व्युत्क्रान्त-अवक्रान्त-विक्रान्तनामानि । शर्कराप्रभायामेकादश नरक- प्रस्ताराः एकादशैवेन्द्रकनरकाणि — स्तनक-संस्तनक-वनक-मनक-घाट-संघाट-जिह्व-उज्जिह्वि- १५कालोल-लोलुक-स्तनलोलुकाख्यानि । वालुकाप्रभायां नव नरकप्रस्तारा नवैवेन्द्रकनरकाणि- तप्त-त्रस्त-तपन-आतपन-निदाघ-प्रज्वलित-उज्ज्वलित-संज्वलित-संप्रज्वलितसंज्ञकानि । पङ्क- प्रभायां सप्तनरकप्रस्ताराः सप्तैवेन्द्रकनरकाणि — आर-मार-तार-वर्चस्क-वैमनस्क-खड-अख- डाख्यानि । धूमप्रभायां पञ्च नरकप्रस्ताराः — पञ्चैवेन्द्रकनरकाणि — तमो — भ्रम-झष-अन्ध- तमिस्राभिधानानि । तमःप्रभायां त्रयो नरकप्रस्ताराः — त्रीण्येवेन्द्रकनरकाणि हिम-वर्दल- २०लल्लकनामधेयानि । महातमःप्रभायामेको नरकप्रस्तारः, एकमेवेन्द्रकनरकमप्रतिष्ठानाख्यम् । तत्र सीमन्तकस्य चतसृषु दिक्षु चतस्रो नरकश्रेण्यो निर्गतास्तथा विदिक्ष्वपि । तदन्तरेषु पुष्पप्रकीर्णकनरकाणि । तत्रैकैकस्यां दिङ्नरकश्रेण्यामेकान्नपञ्चाशदेकान्नपञ्चाशन्नरकाणि । तथैकैकस्यां विदिङ्नरकश्रेण्याम् अष्टचत्वारिंशदष्टचत्वारिंशन्नरकाणि । एवं निरयादिष्व — प्येकैकं परिहाप्य नेतव्यानि । २५तत्र प्रथमायां पृथिव्यां श्रेणीन्द्रकनरकाणां संख्या चतुश्चत्वारिंशच्छतानि त्रयस्त्रिंत्रशानि । पुष्पप्रकीर्णकानामेकान्नत्रिंशच्छतसहस्राणि पञ्चनवतिश्च सहस्राणि पञ्चशतानि सप्तषष्ट्य- धिकानि । एतावुभावपि राशी सपिण्डितौ त्रिंशन्नरकशतसहस्राणि । द्वितीयायां श्रेणीन्द्रक- नरकसंख्या षड्विंशतिशतानि पञ्चनवत्युत्तराणि । पुष्पप्रकीर्णकानां संख्या चतुर्विंशति- शतसहस्राणि सप्तनवतिसहस्राणि त्रीणि शतानि पञ्च च । एतावुभावपि राशी सपिण्डितौ ३०पञ्चविंशतिनरकशतसहस्राणि । तृतीयायां श्रेणीन्द्रकनरकसंख्या चतुर्दशशतानि पञ्चा- शीत्यधिकानि । पुष्पप्रकीर्णकसंख्या चतुर्दशशतसहस्राणि अष्टानवतिसहस्राणि पञ्चशतानि पञ्चदशाधिकानि । एतावुभावपि राशी सपिण्डितौ पञ्चदशनरकशतसहस्राणि । चतुर्थ्यां श्रेणीन्द्रकनरकसंख्या सप्ताधिकानि सप्तशतानि । पुष्पप्रकीर्णकसंख्या नवनरकशतसहस्राणि नवनवतिश्च सहस्राणि द्वे शते त्रिनवत्युत्तरे । एतावुभावपि राशी सपिण्डितौ दशनरकशत — १६३ सहस्राणि । पञ्चम्यां श्रेणीन्द्रकनरकसंख्या द्वे नरकशते पञ्चषष्ट्यधिके । पुष्पप्रकीर्णकसंख्या द्वे शतसहस्रे नवनवतिश्च सहस्राणि सप्तशतानि पञ्चत्रिंशानि च । एतावुभावपि राशी सपिण्डितौ त्रीणि नरकशतसहस्राणि । पष्ठ्यां श्रेणीन्द्रकनरकसंख्या त्रिषष्टिनरकाणि । पुष्पप्रकीर्णकसंख्या नवनवतिनरकसहस्राणि नवशतानि द्वात्रिंशानि । एतावुभावपि राशी ०५सपिण्डितौ नवनवतिसहस्राणि नवशतानि पञ्चनवत्युत्तराणि । सप्तम्यामिन्द्रकनरकमेक — मप्रतिष्ठानं नाम । श्रेणीनरकाणि चत्वारि । प्राच्यां दिशि कालं प्रतीच्यां महाकालम् अपाच्यां रौरवम् उदीच्यां महारौरवम् । विदिक्श्रेणीनरकाणि न सन्ति । तान्येतानि पञ्च । सर्वश्रेणीन्द्रकनरकसंख्या षण्णवतिर्नरकशतानि त्रिपञ्चाशानि । सर्वपुष्पप्रकीर्णकसंख्या त्र्यशीतिर्नरकशतसहस्राणि नवतिसहस्राधिकानि त्रीणि च शतानि सप्तचत्वारिंशानि । १०एतावुभावपि राशी सपिण्डितौ चतुरशीतिः नरकशतसहस्राणि । तासु सप्तस्वपि पृथिवीषु कानिचिन्नरकाणि संख्येयविस्ताराणि कानिचिदसंख्येय- विस्ताराणि । यानि संख्येयविस्ताराणि तानि संख्येययोजनशतसहस्रविस्ताराणि, यान्यसंख्येयविस्ताराणि तान्यसंख्येययोजनशतसहस्रविस्ताराणि । सर्वत्र च नरकाणां पञ्चमो भागः संख्येयविस्ताराणां चत्वारो भागा असंख्येयविस्ताराणाम् । बाहल्यमुच्यते — १५क्रोशः प्रथमपृथिव्याम्, इतरास्वर्धाधिकाः क्रमेणैव । चत्वारः सप्तम्यां सर्वेन्द्रकनरकबाहल्यम् ॥ स्वेन्द्रकबाहल्यं स्वत्रिभागपरिवर्धितं तच्छ्रेण्याः । श्रेणीन्द्रकबाहल्यसहितं ज्ञेयं प्रकीर्णकस्य ॥ तान्येतानि नरकाणि उष्ट्रकाद्यशुभसंस्थानानि शोचनरोदनाक्रन्दनाद्यशुभनामानि वेदि- २०तव्यानि । अथ तेषु सीमन्तकादिषु नरकेषु पापकर्मवशात् प्रादुर्भवन्तः प्राणिनः किंलक्षणा इति ? अत आह — नारका नित्याऽशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः ॥ ३ ॥ लेश्यादिशब्दा उक्तार्थाः । १ । लेश्यादयः शब्दा उक्तार्था वेदितव्याः । लेश्या च परि — २५णामश्च देहश्च वेदना च विक्रिया च लेश्यापरिणामदेहवेदनाविक्रियाः । लोके प्रतियोग्यन्तरा- पेक्षया प्रकर्षो दृष्टः, इह अशुभतरा इति किमपेक्ष्य प्रकर्षनिर्देशः ? उच्यते — तिर्यग्व्यपेक्षोऽतिशयनिर्देशः । २ । तिरश्चामप्यशुभा लेश्यादयो नारकाणां च । ततः प्रकर्षेण नारकाणामित्यशुभतराः । ऊर्ध्वापेक्षो वाऽधोगतानाम् । ३ । अथवा ऊर्ध्वनरकाशुभतरलेश्याद्यपेक्षया अधोगतानां ३०प्रकर्षो द्रष्टव्यः । नित्यग्रहणाल्लेश्याद्यनिवृत्तिप्रसङ्ग इति चेत्; न; आभीक्ष्ण्यवचनत्वात् नित्यप्रहसित- वत् । ४ । स्यादेतत् — नित्यशब्दोऽयं कूटस्थेष्वविचलेषु भावेषु दृष्टः, यथा नित्या द्यौः नित्या पृथिवी नित्यमाकाशमिति, तथा लेश्यादीनामपि व्ययोदयाभावान्नित्यत्वे सति नरकादप्रच्यवः १६४ स्यादिति ? तन्न; किं कारणम् ? आभीक्ष्ण्यवचनान्नित्यप्रहसितवत् । यथा नित्यप्रहसितो देवदत्त इत्युच्यते योऽभीक्ष्णं प्रहसति, न च तस्य प्रहसनानिवृत्तिः, कारणे सति भावात् । तथा अशुभकर्मोदयनिमित्तवशात् लेश्यादयोऽनारतं प्रादुर्भवन्तीति आभीक्ष्ण्यवचनो नित्यशब्दः प्रयुक्तः । नित्यमशुभतरा नित्याशुभतराः सुप्सुपेति वृत्तिर्मयूरव्यंसकादित्वाद्वा । नित्याशुभतरा ०५लेश्यापरिणामदेहवेदनाविक्रिया येषां त इमे नित्याशुभतरलेश्यापरिणामदेहवेदनाविक्रियाः । तत्राशुभतरलेश्या इति — प्रथमाद्वितीययोः कापोतलेश्या । तृतीयायामुपरिष्टात् कापोती अधो नीला । चतुर्थ्यां नीला । पञ्चम्यामुपरि नीला अधः कृष्णा । षष्ठ्यां कृष्णा । सप्तम्यां परमकृष्णा । एतेषां नारकाणां स्वायुःप्रमाणावधृता द्रव्यलेश्या उक्ताः, भावलेश्यास्तु षडपि प्रत्येकमन्तर्मुहूर्तपरिवर्तिन्यः । १०अशुभतरपरिणामा इति — स्पर्शरसगन्धवर्णशब्दपरिणामाः क्षेत्रविशेषनिमित्तवशादतिदुःख- हेतवोऽशुभतराः । अशुभतरदेहा इति — तेषां शरीराण्यशुभनामप्रत्ययादशुभाङ्गोपाङ्गस्पर्शरसगन्धवर्ण — स्वराणि हुण्डसंस्थानानि निर्लूनाण्डजशरीराकृतीनि क्रूरकरणवीभत्सप्रतिभयदर्शनानि । यथेह श्लेष्ममूत्रपुरीषमलरुधिरवसामेदःपूयवमनपूतिमांसकेशास्थिचर्माद्यशुभमौदारिकगतं ततोऽप्य- १५तीव्राशुभत्वं नारकाणां वैक्रियिकशरीरत्वेऽपि । तत्र रत्नप्रभायां नारकशरीरोत्सेधः सप्त धनूंषि त्रयो हस्ताः षट् चाङ्गुलयः । अधोऽधो द्विगुणद्विगुण उत्सेधः । अशुभतरवेदना इति — अभ्यन्तरासद्वेद्योदये सत्यनादिपारिणामिकशीतोष्णबाह्यनिमित्तज- निताः सुतीव्रवेदना भवन्ति नारकाणाम् । तद्यथा — निदाघे मध्याह्ने व्यभ्रे नभसि पटुतपन- किरणसन्तप्तदिगन्तराले दूरीकृंतशीतवाते दवाग्निदाहोद्वाहिपरुषसमीरणे रूक्षदेशे सर्वतो २०दीप्ताग्निशिखापरीतस्य तृष्णार्तस्य पित्तज्वरसंतापितशरीरस्य निष्प्रतीकारस्य यादृगुष्णजं दुःखं ततोऽप्यनन्तगुणमुष्णनरकेषु दुःखं भवति । माघमासे हिमानीपतनव्याप्तशीतदिगन्तराले नभसि प्रस्पन्दजलाप्लुतकर्दममहीतले रात्रौ शीतवातपातप्रस्फुरितगात्रकृतदन्तवीणस्य शीत- ज्वराभिभूततनोर्निरग्न्याश्रयप्रावरणस्य यादृक् शीतसमुद्भवं दुःखं ततोऽप्यनन्तगुणं कष्टं शीत- नरकेषु दुःखं भवति । अथवा हिमवन्मात्रस्ताम्रगिरिरुष्णनरकेषु यदि निक्षिप्येत क्षिप्रमेव हि २५द्रवीभवेत् । स एवं द्रवीभूतः शीतनरकेषु यदि निक्षिप्येत अक्षिनिमेषमात्र एव घनः स्या- दित्येवमनुमीयमानं शीतोष्णं तत्र वेदितव्यम् । प्रथमाद्वितीयातृतीयाचतुर्थीषूष्णवेदनान्येव नरकाणि । पञ्चम्यामुपरि उष्णवेदने द्वे नरकशतसहस्रे, अधः शीतवेदनानामेकं शतसहस्रम् षष्ठीसप्तम्योः शीतवेदनान्येव । सर्व- समुदायेन द्व्यशीतिनरकशतसहस्राणि उष्णवेदनानि, द्वे नरकशतसहस्रे शीतवेदने । ३०अशुभतरविक्रिया इति — शुभं करिष्याम इत्यशुभतरमेव विकुर्वन्ति । दुःखाभिभूतमनसश्च दुःखप्रतीकारचिकीर्षया गरीयस एव दुःखहेतून् विकुर्वन्ति । त एते भावा अधोऽधोऽशुभतराः वेदितव्याः । किमेषां नारकाणां शीतोष्णजनितमेव दुःखमुतान्यथापि भवतीति ? अत आह — परस्परोदीरितदुःखाः ॥ ४ ॥ ३५कथं परस्परोदीरितदुःखत्वम् ? १६५ निर्दयत्वात् परस्परदर्शने सति कोपोत्पत्तेः श्ववत् । १ । यथा श्वानः शाश्वतिकाकारणाना — दिकालप्रवृत्तजातिकृतवैरापादितनिर्दयत्वात् परस्परभक्षणभेदनछेदनाद्युदीरितदुःखा भवन्ति, तथा नारका अपि भवप्रत्ययेनावधिज्ञानेन मिथ्यादर्शनोदयाद्विभङ्गव्यपदेशभाजा च दूरादेव दुःखहेतूनवगम्योत्पन्नदुःखाः प्रत्यासत्तौ परस्परालोकनाच्च प्रज्वलितकोपाग्नयः स्वविकृतासि- ०५वासीपरशुभिण्डिवालादिभिः परस्परदेहतक्षणभेदनछेदनपीडनादिभिरुदीरितदुःखा भवन्ति । किमेतावानेव दुःखोत्पत्तिकारणप्रकार उतान्योऽपि कश्चिदस्तीति ? अत आह — संक्लिष्टासुरोदीरितदुःखाश्च प्राक् चतुर्थ्याः ॥ ५ ॥ पूर्वभवसंक्लेशपरिणामोपात्ताशुभकर्मोदयात् सततं क्लिष्टाः संक्लिष्टाः । १ । पूर्वजन्मनि भावितेनातितीव्रेण संक्लेशपरिणामेन यदुपार्जितं पापकर्म तस्योदयात् सततमविरतं क्लिष्टाः १०संक्लिष्टाः । असुरनामकर्मोदयादसुराः । २ । देवगतिनामकर्मविकल्पस्यासुरत्वसंवर्तनस्य कर्मण उदया- दस्यन्ति परानित्यसुराः । संक्लिष्टविशेषणमन्यासुरनिवृत्त्यर्थम् । ३ । न सर्वेऽसुरा नारकाणां दुःखमुत्पादयन्ति । किं तर्हि ? अम्बाम्बरीषादय एव केचनेति प्रदर्शनार्थं संक्लिष्टविशेषणम् । १५असुराणां गतिविषयनियमप्रदर्शनार्थं प्राक्चतुर्थ्या इति वचनम् । ४ । तेषां संक्लिष्टा- नामसुराणां वेदनोदीरणकारणानां तिसृषु पृथिवीषु गतिर्नातः परमिति प्रदर्शनार्थं प्राक्चतुर्थ्या इत्युच्यते । आङो ग्रहणं लध्वर्थमिति चेत्; न; संदेहात् । ५ । स्यान्मतम् — आङ्त्र प्रयोक्तव्यः लघ्व- र्थम् । स एव मर्यादां गमयतीति; तन्न; किं; कारणम् ? संदेहात् । अभिविधावपि आङ् २०वर्तते मर्यादायामपि, ततः संदेहः स्यात् — ‘किं सह चतुर्थ्या उत ततः प्राग्’ इति अतोऽसंदेहार्थं प्राग्वचनमेव युक्तम् । चशब्दः पूर्वहेतुसमुच्चयार्थः । ६ । संक्लिष्टासुरोदीरितदुःखाश्च पूर्वोक्तहेतूदीरितदुःखा- श्चेति समुच्चयार्थश्चशब्दः, इतरथा हि तिसृषु भूमिषु पूर्वोक्तहेत्वभावः प्रतीयेत । अनन्तरत्वादुदीरितग्रहणानर्थक्यमिति चेत्; न; तस्य वृत्तौ परार्थत्वात् । ७ । स्यान्मतम्- २५अनन्तरमुदीरितग्रहणमस्ति तेनैवात्राभिसंबन्धः कर्तव्यः, अनर्थकं पुनरुदीरितग्रहणमिति; तन्न; किं कारणम् ? तस्य वृत्तौ परार्थत्वात् । स ह्युदीरितशब्दः वृत्तौ परार्थे सन्नवस्थित इह संबद्धुमशक्यः । वाक्यवचनमिति चेत्; न; उदीरणहेतुप्रकारप्रदर्शनार्थत्वात् । ८ । स्यादेतत् — वाक्यमेव वक्तव्यं परस्परेणोदीरितदुःखाः संक्लिष्टासुरैश्च प्राक् चतुर्थ्या इति ? तन्न; किं कारणम् ? ३०उदीरणहेतुप्रकारप्रदर्शनार्थत्वात् । पुनरुदीरितग्रहणेनोदीरणकारणप्रकाराः प्रदर्श्यन्ते । तद्यथा-तप्तायोरसपायन-निष्टप्तायस्तम्भालिङ्गन-कूटशाल्मल्यारोहणावतरणा-ऽयोघनाभिघात- १६६ वासीक्षुरतक्षण-क्षरण-तप्ततैलावसेचना-ऽयःकुम्भीपाका-ऽम्बरीषभर्जन-यन्त्रपीलनैः शूलशला- काव्यधन-क्रकचपाटना-ऽङ्गारधाम्निवाहन-सूचीशाड्वलावकर्षणैः व्याघ्रर्क्षद्वीपिश्वशृगालवृक कोकमार्जारनकुलाखुसर्पवायसगृध्रकङ्कोलूकश्येनादिखादनैः तप्तवालुकाविचरणा-ऽसिपत्रवन- प्रवेशन-वैतरण्यवतारण-परस्परयोधनादिभिश्च ते संक्लिष्टासुरा दुःखमुदीरयन्ति नार- ०५काणाम् । किमर्थं त एवं कुर्वन्तीति चेत् ? पापकर्माभिरतत्वात्, यथा गोमहिषमेषवराहकुक्कुट- वर्तिकालावकान् मल्लांश्च युद्ध्यमानान् परस्परं घ्नतश्च दृष्ट्वा रागद्वेषमोहाभिभूतानाम् अकुशलानुबन्धिपुण्यानां नराणां प्रीतिरुत्पद्यते, तथा तेषामसुराणां नारकांस्तथा कारयतामन्योन्यं च ध्नतः पश्यतां परा प्रीतिरुत्पद्यते । तेषां सत्यपि देवत्वे मायानिदानमिथ्यादर्शनशल्यतीव्र- कषायोपहतस्य अनालोचितभावदोषस्य अप्रत्यवमर्शस्य अकुशलानुबन्धस्य पुण्यस्य कर्मणस्तप- १०सश्च सावद्यदोषानुकर्षिणस्तत्फलं यत् सत्स्वपि अनेकेषु प्रीतिहेतुषु अशुभा एव प्रीतिहेतव इति । एवं छेदभेदादिभिः शकलीकृतमूर्तीनामपि तेषां न मरणमकाले विद्यते । कुतः ? *“औपपादिका अनपवर्त्यायुषः” इति वचनात् । तेषां हि जघन्यमध्यमोत्कृष्टभेद- भिन्नं यावदायुरवबद्धं तावद्यथाकालमेव विपच्यते नोदीरणप्रत्ययवशादपवर्त्त्यते । यद्येवं तदेव तावदुच्यतां नारकाणां कियदायुरिति ? अत आह — १५तेष्वेकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमा सत्त्वानां परा स्थितिः ॥ ६ ॥ सागरोपमेति कोऽयं शब्दः ? सागर उपमा यस्याः सेयं सागरोपमा । क उपमार्थः ? सागरस्योपमात्वं द्रव्यभूयस्त्वात् । १ । यथा सागरो जलसमूहेन मूयसा युक्तस्तथा आयुः- कर्मापि भवधारणकारणपुद्गलद्रव्यसमूहेन महता योगात् सागरेणोपमीयते । २०एकादीनां कृतद्वन्द्वानां सागरोपमाविशेषणत्वम् । २ । एकादयः शब्दाः कृतद्वन्द्वाः साग- रोपमाशब्दस्य विशेषणत्वेन नियुज्यन्ते । एका च तिस्रश्च सप्त च दश च सप्तदश च द्वाविंश- तिश्च त्रयस्त्रिंशच्च एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशतस्ता एव सागरोपमाः एकत्रि- सप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमाः । कथमेकशब्दस्य पुंवद्भावः ? ननु भिन्ना- धिकरणत्वान्न प्राप्नोति; नायं पुंवद्भावः, औत्तरपदिकं ह्रस्वत्वम्, यथा एकक्षीरमिति । २५अथवा सागर उपमा यस्य तत्सागरोपममायुः, एकं च त्रीणि च सप्त च सप्तदश च द्वाविंश- तिश्च त्रयस्त्रिंशच्च एकत्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपममायुर्यस्याः सैक- त्रिसप्तदशसप्तदशद्वाविंशतित्रयस्त्रिंशत्सागरोपमेति स्थित्यपेक्षः स्त्रीलिङ्गनिर्देशः । रत्नप्रभादिभिरानुपूर्व्येण संबन्धो यथाक्रमानुवृत्तेः । ३ । ‘यथाक्रमम्’ इत्यनुवर्तते । ततो रत्नप्रभादिभिरेकादीनामानुपूर्व्येण संबन्धो वेदितव्यः । रत्नप्रभायामेकसागरोपमा स्थितिः, १६७ शर्कराप्रभायां त्रिसागरोपमा स्थितिः, वालुकाप्रभायां सप्तसागरोपमा स्थितिः, पङ्कप्रभायां दशसागरोपमा स्थितिः, धूमप्रभायां सप्तदशसागरोपमा स्थितिः, तमःप्रभायां द्वाविंशतिसाग- रोपमा स्थितिः, महातमःप्रभायां त्रयस्त्रिंशत्सागरोपमा स्थितिरिति । नरकप्रसङ्गः ‘तेषु’ इति वचनादिति चेत्; न; रत्नप्रभाद्युपलक्षितत्वात् । ४ । स्यान्म- ०५तम् — ‘तेषु’इतिवचनान्नरकाभिसंबन्धः प्राप्नोति । ततः किम् ? रत्नप्रभायां त्रयोदशेन्द्रकनरक- संज्ञानि तत्रारादेव सीमन्तकादिष्विन्द्रकनरकेषु स्थितिरियं परिसमाप्येत, नेष्यते च, तस्मात्ते- ष्विति वचनमयुक्तमिति; तन्न; किं कारणम् ? रत्नप्रभाद्युपलक्षितत्वात् । यानि रत्नप्रभा- द्यधिकरणत्वेनोपलक्षितानि त्रिंशच्छतसहस्राद्यवधृतपरिमाणानि तेष्वेकसागरोपमादिका स्थितिरिति नास्ति दोषः । १०साहचर्याद्वा ताच्छब्द्यसिद्धिः । ५ । अथवा नरकसहचरिता भूमयोऽपि नरकाणीत्युच्यन्ते । अतस्तेषु रत्नप्रभादिषु नरकेषु प्रादुर्भवतां सत्त्वानामेकसागरोपमादिका स्थितिरित्यभिसंबन्धः, एवं च कृत्वा तेष्विति वचनमर्थवत्, इतरथा हि व्यवधानाद् भूमिभिरनभिसंबन्धः स्यात् । नरकस्थितिप्रसङ्ग इति चेत्; न; सत्त्वानामिति वचनात् । ६ । स्यादेतत् — यदि पृथिव्यु- पलक्षितनरकाभिसंबन्ध इष्टः, ननु नरकाणामेवैकसागरोपमादिस्थितिसंबन्धः प्राप्नोति न १५नारकाणामिति; तन्न; किं कारणम् ? सत्त्वानामिति वचनात् तेषु नरकेषु सत्त्वानामियं स्थितिर्न नरकाणामिति । परोत्कृष्टेति पर्यायौ । ७ । परा उत्कृष्टेति पर्यायशब्दाविमौ तेन नारकाणामुक्ता स्थि- तिरुत्कृष्टा । रत्नप्रभादिषु प्रतिप्रस्तारं जघन्यापि स्थितिरुच्यते — सीमन्तकेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या स्थितिर्दशवर्षसहस्राणि उत्कृष्टा नवतिवर्षसहस्राणि, अजघन्यो- २०त्कृष्टा मध्ये समयोत्तरा । निरयेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या नवतिर्वर्ष- सहस्राणि, ‘दशवर्षशतसहस्राणि’ ‘इति क्वापि पाठः’ । उत्कृष्टा नवतिर्वर्षशतसहस्राणि, अजघ- न्योत्कृष्टा मध्ये समयोत्तरा । रोरुकेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या एका पूर्वकोटी, उत्कृष्टेनासंख्याताः पूर्वकोट्यः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । भ्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या असंख्याताः पूर्वकोट्यः, उत्कर्षेण सागरोपमस्यैको २५दशभागः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । उद्भ्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नार- काणां जघन्या सागरोपमस्यैको दशभागः, उत्कृष्टा सागरोपमस्य द्वौ दश भागौ, अजघन्योत्कृष्टा मध्ये समयोत्तरा । संभ्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य द्वौ दशभागौ उत्कर्षेण सागरोपमस्य त्रयो दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा असं- भ्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य त्रयो दशभागाः, उत्कृष्टा ३०सागरोपमस्य चत्वारो दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । विभ्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य चत्वारो दशभागाः उत्कृष्टा सागरोपमस्य पञ्च दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । तप्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य पञ्च दशभागाः, उत्कृष्टा सागरोपमस्य षड् दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । त्रस्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य षड् ३५दशभागाः, उत्कृष्टा सागरोपमस्य सप्त दशभागाः, अजघन्योत्कृष्टा मध्ये समयोत्तरा । १६८ व्युत्क्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्य सप्त दशभागाः उत्कृष्टा सागरोपमस्याष्टौ दशभागाः अजघन्योत्कृष्टा मध्ये समयोत्तरा । अवक्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि नारकाणां जघन्या सागरोपमस्याष्टौ दशभागाः, उत्कृष्टा सागरो — पमस्य नव दशभागाः अजघन्योत्कृष्टा मध्ये समयोत्तरा । विक्रान्तेन्द्रके तच्छ्रेणिषु चाष्टास्वपि ०५नारकाणां जघन्या सागरोपमस्य नव दशभागाः, उत्कृष्टा सागरोपमा, अजघन्योत्कृष्टा मध्ये समयोत्तरा । शर्कराप्रभादिषु प्रतिप्रस्तारमुत्कृष्टा स्थितिः करणक्रमेण वेदितव्या । कथमिति चेत् ? उच्यते — “उपरिस्थितेर्विशेषः स्वप्रतरविभाजितेष्टसंगुणितः । १०उपरिपृथिवीस्थितियुतः स्वेष्ट-प्रतरस्थितिर्महती ॥ १ ॥ ” उपर्युत्कृष्टाऽधो जघन्या सर्वत्र समयाधिका अजघन्योत्कृष्टा मध्ये समयोत्तरा । अथैतेषां नारकाणामुत्पादविरहकालः कियानिति ? अत्रोच्यते — सर्वासु पृथिवीषु जघन्य एकसमयः, उत्कृष्टाश्चतुर्विंशतिमुहूर्ताः, सप्तरात्रिंदिवानि, पक्षः, मासः, द्वौ मासौ, चत्वारो मासाः, षण्मासा इति रत्नप्रभादिषु क्रमेण ज्ञेयाः । १५अथोत्पादः क्व केषामिति ? अत्रोच्यते — प्रथमायामसंज्ञिन उत्पद्यन्ते । प्रथमाद्वितीययोः सरीसृपाः । तिसृषु पक्षिणः । चतसृषूरगाः । पञ्चसु सिंहाः । षट्सु स्त्रियः । सप्तसु मत्स्य- मनुष्याः । न च देवा नारका वा नरकेषु उत्पद्यन्ते । प्रथमायामुत्पद्यमाना नारका मिथ्यात्वेनाधिगताः केचिन्मिथ्यात्वेन निर्यान्ति, मिथ्या — त्वेनाधिगताः केचित् सासादनसम्यक्त्वेन निर्यान्ति । मिथ्यात्वेनाधिगताः केचित्सम्यक्त्वेन २०निर्यान्ति । केचित्सम्यक्त्वेनाधिगताः सम्यक्त्वेनैव निर्यान्ति क्षायिकसम्यग्दृष्ट्यपेक्षया । द्वितीयादिषु पञ्चसु नारका मिथ्यात्वेनाधिगताः केचिन्मिथ्यात्वेन निर्यान्ति, मिथ्यात्वेनाधि — गताः केचित् सासादनसम्यक्त्वेन निर्यान्ति, मिथ्यात्वे प्रविष्टाः केचित् सम्यक्त्वेन निर्यान्ति । सप्तम्यां नारका मिथ्यात्वेनाधिगता मिथ्यात्वेनैव निर्यान्ति । षड्भ्य उपरिपृथिवीभ्यो नारकाः मिथ्यात्वसासादनसम्यक्त्वाभ्यामुद्वर्तिता द्वे तिर्यङ्मनुष्यगती आयान्ति । तिर्यक्ष्वायाताः २५पञ्चेन्द्रियगर्भजसंज्ञिपर्याप्तकसंख्येयवर्षायुषूत्पद्यन्ते नेतरेष । मनुष्येष्वायाता गर्भजपर्याप्तकेषु संख्येयवर्षायुषूत्पद्यन्ते नेतरेषु । नारकाः सम्यङ्मिथ्यादृष्टयस्तेन गुणेन नोद्वर्तन्ते । नारकाः सम्यग्दृष्टयः सम्यक्त्वेनोद्वर्तिता एकामेव मनुष्यगतिमायान्ति, मनुष्येष्वायाताः गर्भजपर्याप्तक — संख्येयवर्षायुषूत्पद्यन्ते नेतरेषु । सप्तम्यां नारका मिथ्यादृष्टयो नरकेभ्य उद्वर्तिता एकामेव तिर्यग्गतिमायान्ति, तिर्यक्ष्वायाताः पञ्चेन्द्रियगर्भजपर्याप्तकसंख्येयवर्षायुषूत्पद्यन्ते नेतरेषु । ३०तत्र चोत्पन्नाः सर्वे मतिश्रुतावधिसम्यक्त्वसम्यङ्मिथ्यात्वसंयमासंयमान् नोत्पादयन्ति । षष्ठ्याः उद्वर्तिता नारकास्तिर्यङ्मनुष्येषु जाता केचिन्मतिश्रुतावधिसम्यक्त्वसम्यङ्मिथ्यात्वं संयमासंयमान् षडुत्पादयन्ति न सर्वे नाप्यतोऽन्यत् । पञ्चम्या उद्वर्तितास्तिर्यक्षूत्पन्नाः केचित् षडुत्पादयन्ति न सर्वे नाप्यतोऽन्यत्, मनुष्येषूत्पन्नाः केचिन्मतिश्रुतावधिमनःपर्ययसम्यक्त्वसम्यङ्- मिथ्यात्वसंयमासंयमसंयमानुत्पादयन्ति न सर्वे नाप्यतोऽन्यत् । चतुर्थ्या उद्वर्तितास्तिर्यक्षूत्पन्नाः ३५केचिन्मत्यादीन् षडुत्पादयन्ति न सर्वे नाप्यतोऽन्यत्, मनुष्येषूत्पन्नाः केचिन्मतिश्रुतावधिमनःपर्यय- १६९ केवलसम्यक्त्वसम्यङ्मिथ्यात्वसंयमासंयमसंयमानुत्पादयन्ति, न च बलदेववासुदेवचक्रधरतीर्थ- करत्वान्युत्पादयन्ति, केचित् कर्माष्टकान्तकराः सिद्ध्यन्ति । उपरि तिसृभ्य उद्वर्तितास्तिर्यक्षु जाताः केचित् षडुत्पादयन्ति, मनुष्येषूत्पन्नाः केचित् मतिश्रुतावधिमनःपर्ययकेवलसम्यक्त्वसम्यङ् — मिथ्यात्वसंयमासंयमसंयमानुत्पादयन्ति न च बलदेववासुदेवचक्रधरत्वान्युत्पादयन्ति केचित्ती — ०५र्थकरत्वमुत्पादयन्ति, अपरे कर्माष्टकान्तकराः सिध्यन्ति । उक्तः सप्तावनिविस्तीर्णोऽधोलोकः । इदानीं तिर्यग्लोकोऽवसरप्राप्तो व्याख्येयः । तत्रैतत्स्यात् — किमत्र व्याख्येयम् ? द्वीपसमु — द्राधिष्ठातृधरणीधरवनक्षेत्रान्तरपरिमाणादि । यद्येवं तदवतिष्ठताम्, इदमेव तावद्व्याक्रियतां कुतः पुनरियं तिर्यग्लोकसंज्ञा प्रवृत्तेति ? उच्यते — यतोऽसंख्येयाः स्वयंभूरमणपर्यन्तास्तिर्यक्प्र- १०चयविशेषेणावस्थिता द्वीपसमुद्रास्ततः तिर्यग्लोक इति । यद्येवं के पुनस्तिर्यगवस्थिता इति ? अत आह — जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥ ७ ॥ आह — कुतः पुनरियं जम्बूद्वीपसंज्ञेति ? उच्यते — प्रतिविशिष्टजम्बूवृक्षासाधारणाधिकरणत्वाज्जम्बूद्वीपः । १ । अयं हि द्वीपः प्रतिविशिष्टस्य १५जम्बूवृक्षस्य सपरिवारस्यासाधारणाधिकरणत्वं बिभर्त्ति नान्ये धातकीखण्डादयो द्वीपास्ततो- ऽस्य तत्साहचर्यात् जम्बूद्वीप इति संज्ञा अनादिकालप्रवृत्ता । तद्यथा — उत्तरकुरुमध्ये जगती पञ्चयोजनशतायामविष्कम्भा तत्त्रिगुणसातिरेकपरिक्षेपा ततः प्रदेशहान्या बहिःपरिहीयमाणा मध्ये द्वादशयोजनबाहल्या, अन्ते क्रोशद्वयबाहल्या सा चैकया पद्मवरवेदिकया जाम्बूनदमय्या परिक्षिप्ता । तस्या बहुदेशमध्यभागे नानारत्नमयमेकं पीठमष्टयोजनायामं चतुर्योजनविष्कम्भं २०तावदुच्छ्रायं द्वादशभिः पद्मवरवेदिकाभिः परिक्षिप्तम् । तासां च पद्मवरवेदिकानां प्रत्येकं चत्वारि तोरणानि श्वेतानि वरकनकस्तूपिकानि, तस्योपरि मणिमयमुपपीठं योजनायामवि- ष्कम्भं क्रोशद्वयोच्छ्रायम् । तन्मध्ये जम्बूवृक्षः सुदर्शनाख्यो योजनद्वयोच्छ्रितस्कन्धः षड्योजनो- त्सेधविटपः, मध्ये षड्योजनविष्कम्भपरिमण्डलः अष्टयोजनायामः तदर्धमुच्छ्रितानां जम्बूना- मष्टशतेन परिवृतः सुरवरवनिताक्रान्तः, तद्योगाज्जम्बूद्वीपः । २५लवणरसाम्बुयोगाल्लवणोदः । २ । लवणरसेनाम्बुना योगात् समुद्रो लवणोद इति संज्ञा- यते । उदक्शब्दस्य पूर्वपदभूतस्य उत्तरपदभूतस्य च संज्ञायामुदभावोऽन्वाख्यातः । जम्बूद्वीपश्च लवणोदश्च जम्बूद्वीपलवणोदौ तावादी येषां ते जम्बूद्वीपलवणोदादयः । द्वीपाश्च समुद्राश्च द्वीपसमुद्रा यथासंख्यमभिसंबन्धः । जम्बूद्वीपादयो द्वीपा लवणोदादयः समुद्रा इति । किं नामानस्ते ? शुभनामानः । यानि लोके शुभानि नामानि तान्येषां नामानि तद्यथा- ३०जम्बूद्वीपो लवणोदः, धातकीखण्डः कालोदः, पुष्करवरः पुष्करोदः, वारुणीवरः वारुणोदः, क्षीर — वरः क्षीरोदः, घृतवरः घृतोदः, इक्षुवरः इक्षूदः, नन्दीश्वरवरः नन्दीश्वरोद इत्येवमादयोऽसंख्येया १७० द्वीपसमुद्राः स्वयम्भूरमणद्वीपस्वयम्भूरमणोदपर्यन्ताः । कियदसंख्येयाः ? अर्धतृतीयसागरो — पमसमयसंख्याः । अमीषां विष्कम्भसन्निवेशसंस्थानविशेषप्रतिपत्त्यर्थमाह — द्विर्द्विर्विष्कम्भाः पूर्वपूर्वपरिक्षेपिणो वलयाकृतयः ॥ ८ ॥ ०५द्विर्द्विरिति वीप्साभ्यावृत्तिवचनं विष्कम्भद्विगुणत्वव्याप्त्यर्थम् । १ । आद्यस्य द्वीपस्य यो विष्कम्भस्तद्द्विगुणो जलधिस्तद्द्विगुणविष्कम्भो द्वितीयो द्वीपः तद्द्विगुणविष्कम्भो द्वितीयो जलधिरिति द्वैगुण्यव्याप्त्यर्थं द्विर्द्विरुच्यते । द्विर्द्विर्विष्कम्भो येषां ते द्विर्द्विर्विष्कम्भाः । ननु च वृत्त्या अभ्यावृत्तिरुच्यते द्विर्दश द्विदशा इति, वीप्सा च क्वचिदुच्यते सप्तपर्ण इति, तद्वदिह वीप्साऽभ्यावृत्त्योर्वृत्त्योक्तवात् द्वित्वस्य सुचश्चाप्रयोगः प्राप्नोति ? नैष दोषः; यत्र १०गम्यते न तत्र प्रयुज्यते, इह तु द्विर्विष्कम्भा इत्युक्ते तदर्थागतेर्द्विर्द्विरित्युच्यते । अनिष्टविनिवेशव्यावृत्त्यर्थं पूर्वपूर्वपरिक्षेपिवचनम् । २ । ग्रामनगरादिवदनिष्टविनिवेशो मा विज्ञायीति ‘पूर्वपूर्वपरिक्षेपिणः’ इत्युच्यते । तेनोत्तरोत्तरानन्तर्यसिद्धिर्भवति । पूर्वं पूर्वं परिक्षिपन्तीत्येवंशीलाः पूर्वपूर्वपरिक्षेपिणः, अत्राप्यगमकत्वाद् द्वित्वम् । चतुरस्रादिनिवृत्त्यर्थं वलयाकृतिवचनम् । ३ । आकृतिस्संस्थानम्, वलयस्येवाकृतिर्येषां ते १५वलयाकृतयः । एतेन चतुरस्रादिसंस्थानान्तरनिवृत्तिः कृता भवति । ततो मिथ्यावादिप्रणीतसं — स्थानान्तरप्रतिकल्पना न तत्त्वम् । अत्राह जम्बूद्वीपस्य प्रदेशसंस्थानविष्कम्भा वक्तव्याः, तन्मूलत्वादितरविष्कम्भादिवि- ज्ञानस्येति ? अत आह — तन्मध्ये मेरुनाभिर्वृत्तो योजनशतसहस्रविष्कम्भो जम्बूद्वीपः ॥ ९ ॥ २०तच्छब्दः पूर्वद्वीपसमुद्रनिर्देशार्थः । १ । पूर्वोक्तानामसंख्येयानां द्वीपसमुद्राणां निर्देशार्थस्त- च्छब्दो द्रष्टव्यः । तेषां मध्ये तन्मध्ये नाभिरिव नाभिः । मेरुर्नाभिर्यस्य स भवति मेरुनाभिः, वृत्त आदित्यमण्डलोपमानः । शतानां सहस्रं शतसहस्रं योजनानां शतसहस्रं योजनशतसहस्रम् [योजनशतसहस्रं] विष्कम्भो यस्य सोऽयं योजनशतसहस्रविष्कम्भः । तस्य परिक्षेपः त्रीणि शतसहस्राणि षोडशसहस्राणि द्वे शते सप्तविंशतिश्च योजनानाम्, २५त्रीणि गव्यूतानि, शतं धनुषामष्टाविंशत्युत्तरम्, त्रयोदशाङ्गुलयः अर्धाङ्गुलं सातिरेकम् । तस्य समन्तात् परिक्षेप्त्री जगत्येका अर्धयोजनावगाहा अष्टयोजनोत्सेधा मूलमध्यान्तेषु द्वादशाष्टचतुर्योजनविष्कम्भा वज्रमयमूला वैडूर्यमयान्ता सर्वरत्ननिर्मितमध्या गवाक्षघण्टामुक्ता — हेममणिकिंकिणीकपद्मरत्नकनकरत्नसर्वरत्नजालैर्नवभिरुपर्युपरिस्थितैः प्रत्येकमर्धयोजनोच्छ्रायैः पञ्चधनुश्शतविष्कम्भजगतीसमायामैरलङ्कृता । तस्याः पूर्वदक्षिणापरोत्तरासु चतसृषु दिक्षु ३०विजयवैजयन्तजयन्तापराजितसंज्ञानि चत्वारि महाद्वाराणि । यथाक्रमं तानि चतुर्योजनविष्क- म्भाण्यष्टयोजनोत्सेधानि विष्कम्भसमप्रवेशानि । तत्र विजयवैजयन्तयोरन्तरमेकान्नाशीति — सहस्राणि द्विपञ्चाशद्योजनान्यर्धयोजनं योजनचतुर्भागः अर्धगव्यूतं गव्यूतचतुर्भागः द्वात्रिंशच्च १७१ धनूंषि तिस्रोऽङ्गुलयः अङ्गुलचतुर्भागोऽर्धाङ्गुलचतुर्भागश्च सातिरेकः । एवमितरेषामप्यन्त- राणां प्रमाणं वेदितव्यम् । तत्र जम्बूद्वीपे षड्भिः कुलपर्वतैर्विभक्तानि सप्त क्षेत्राणि । कानि तानीति ? अत आह — भरतहैमवतहरिविदेहरम्यकहैरण्यवतैरावतवर्षाः क्षेत्राणि ॥ १० ॥ ०५भरत इति संज्ञा कुतः ? भरतक्षत्रिययोगाद्वर्षो भरतः । १ । विजयार्धस्य दक्षिणतो जलधेरुत्तरतः गङ्गासिन्ध्वो — र्बहुमध्यदेशभागे विनीता नाम नगरी द्वादशयोजनायामा, नवयोजनविस्तारा । तस्यामुत्पन्नः सर्वराजलक्षणसंपन्नो भरतो नामाद्यश्चक्रधरः षट्खण्डाधिपतिः । अवसर्पिण्या राज्यविभाग — काले तेनादौ भुक्तत्वात्, तद्योगाद्भरत इत्याख्यायते वर्षः । १०अनादिसंज्ञासंबन्धाद्वा । २ । अथवा, जगतोऽनादित्वादहेतुका अनादिसंबन्धपारिणामिकी भरतसंज्ञा । अथ क्व भरत इति ? अत्रोच्यते — हिमवत्समुद्रत्रयमध्ये भरतः । ३ । हिमवतोऽद्रेस्त्रयाणां समुद्राणां पूर्वदक्षिणाऽपराणां मध्ये भरतो वेदितव्यः । स पुनर्गङ्गासिन्धूभ्यां विजयार्धेन च षड्भागसंविभक्तः । कोऽसौ विजयार्धो नाम ? १५पञ्चाशद्योजनविस्तारस्तदर्धोत्सेधः सक्रोशषड्योजनावगाहो रजताद्रिर्विजयार्धोऽन्व- र्थः । ४ । चक्रभृद्विजयार्धकरत्वाद्विजयार्ध इति गुणतः कृताभिधानो रजताद्रिः तस्य पञ्चाशद्योज- नानि विस्तारः पञ्चविंशतियोजनान्युत्सेधः सक्रोशानि षड्योजनान्यवगाहः पूर्वापरकोटिभ्या- मसौ पूर्वापरजलधी स्पृशति । तस्य पूर्वापरपार्श्वबाहू चत्वारि योजनशतानि अष्टाशीत्यधिकानि षोडश चैकान्नविंशतिर्भागाः योजनस्यार्धभागश्च सातिरेकः । विजयार्धोत्तरपार्श्वज्या दश- २०योजनसहस्राणि सप्त च शतानि विंशतिर्योजनानां द्वादश चैकान्नविंशतिभागा योजनस्य कि- ञ्चिद्विशेषोनाः । अस्याः ज्यायाः धनुषः पृष्ठं दशयोजनानां सहस्राणि सप्त च शतानि त्रिचत्वा- रिंशानि पञ्चदश चैकान्नविंशतिभागा योजनस्य सविशेषाः । विजयार्धदक्षिणपार्श्वज्या नवसहस्राणि सप्तशतान्यष्टचत्वारिंशानि योजनानां द्वादशभागाः किञ्चिद्विशेषाधिकाः । अस्याः ज्यायाः धनुषः पृष्ठं नवसहस्राणि सप्तशतानि षट्षष्ट्युत्तराणि योजनानामेकश्च २५भागः सविशेषः । तस्योभयोः पार्श्वयोरर्धयोजनविष्कम्भौपर्वतसमानायामावर्धयोजनोच्छ्राय- पञ्चधनुःशतविष्कम्भवनसमायामाभ्यां क्वचित्क्वचित्कनकस्तूपिकाभ्यामलङ्कृतबहुतोरणोपे- तपद्मवरवेदिकाभ्यां प्रत्येकं परिक्षिप्तौ सर्वर्तुजफलकुसुमतरुवरमण्डितौ वनषण्डौ । तस्य द्वे गुहे तमिस्रखण्डप्रपातसंज्ञे पञ्चाशद्योजनोदग्दक्षिणायामे प्राक्प्रत्यक्द्वादशयोजनविष्कम्भे, अष्टयोजनोत्सेधोत्तरदक्षिणद्वारद्वये, सक्रोशषड्योजनविष्कम्भक्रोशबाहुल्याष्टयोजनोच्छ्राय — ३०वज्रमयकपाटे । यकाभ्यां चक्रवर्ती उत्तरभरतविजयार्धं याति । यतश्च गङ्गासिन्धू निर्गते । तत्र चाभ्यन्तरे विजयार्धप्रभवे प्रत्येकं द्विनद्यौ गङ्गासिन्धू अनुप्रविष्टे, उन्मग्नजला निमग्न- जला चान्वर्थसंज्ञे । तृणादेः पतितस्य द्रव्यस्याहत्योपरितलप्रक्षेपणात् उन्मग्नजला । तथा तृणादेः पतितस्याधस्तलप्रक्षेपणात् निमग्नजला । १७२ तस्यैवाद्रेर्भू मितलाद्दशयोजनान्युत्प्लुत्योभयोः पार्श्वयोः दशयोजनविस्तारे पर्वतसमा- यामे द्वे विद्याधरश्रेण्यौ भवतः । तत्र दक्षिणश्रेण्यां रथनूपुरचक्रवालादीनि पञ्चाशद्विद्याधर- नगराणि । उत्तरश्रेण्यां गगनवल्लभादीनि षष्टिर्विद्याधरनगराणि । तन्निवासिनो विद्याधरा भरतवत् षट्कर्मजीविनः केवलं प्रज्ञप्त्यादिविद्याधरणमात्रादेव विशिष्टाः । ततो दशयोजना- ०५न्युत्प्लुत्योभयोः पार्श्वयोर्दशयोजनविस्तारे पर्वतसमायामे द्वे व्यन्तरश्रेण्यौ भवतः । तत्र शक्रलोकपालानां सोमयमवरुणवैश्रवणानाम् आभियोग्यव्यन्तरदेवानां निवासा भवन्ति । ततः पञ्चयोजनान्युत्प्लुत्य शिखरतलं भवति दशयोजनविष्कम्भं पर्वतसमायामम् । तत्र प्राच्यां दिशि षड्योजनक्रोशाधिकोच्छ्रायविष्कम्भं सिद्धायतनकूटं पद्मवरवेदिकापरिवृतम् । तस्यो- पर्युदग्दक्षिणायामं प्राक्प्रत्यग्विस्तारं क्रोशायाम-क्रोशार्धविष्कम्भ-देशोनक्रोशोच्छ्रायं पद्मवर- १०वेदिकापरिवृतम् अर्हदायतनं पूर्वोत्तरदक्षिणद्वारम् अर्हदायतनवर्णनोपेतम् । तस्य पश्चाद्द- क्षिणार्धभरतकूट-खण्डकप्रपातकूट-माणिकभद्रकूट-विजयार्धकूट-पूर्णभद्रकूट-तमिस्रगुहाकूट-उत्त- रार्धभरतकूट — वैश्रवणकूटनामान्यष्टौ कूटानि सिद्धायतनकूटसमोच्छ्रायविष्कम्भायामानि । तेषा- मुपरि दक्षिणार्धभरतदेव-वृत्तमाल्यदेव-माणिभद्रदेव-विजयार्धगिरिकुमारदेव-पूर्णभद्रदेव-कृत- मालदेव — उत्तरार्धभरतदेव-वैश्रवणदेवानां यथाक्रमं प्रासादाः सिद्धायतनसमायामविष्कम्भो- १५च्छ्रायाः । सोऽयं विजयार्धपर्वतो नवभिः कूटैर्मुकुटैरिवोद्गतैर्गिरिराजत्वं प्राप्त इवाभाति । अथ हैमवत इति कथं संज्ञा ? हिमवतोऽदूरभवः सोऽस्मिन्नस्तीति वा हैमवतः । ५ । हिमवान्नाम पर्वतः तस्यादूरभवः सोऽस्मिन्नस्तीति वाऽणि सति हैमवतो वर्षः । क्व पुनरसौ ? क्षुद्रहिमवन्महाहिमवतोर्मध्ये । ६ । क्षुद्रहिमवन्तमुत्तरेण दक्षिणेन महाहिमवन्तं पूर्वापर — २०समुद्रयोर्मध्ये हैमवतः । तन्मध्ये शब्दवान् वृत्तवेदाढ्यः । ७ । तस्य हैमवतस्य मध्ये शब्दवान्नाम पटहाकारः वृत्तत्वाद् वृत्तवेदाढ्य इत्यन्वर्थसंज्ञः योजनसहस्रोच्छ्रायः अर्धतृतीययोजनशतावगाह उपरि मूले च योजनसहस्रायामविष्कम्भस्तत्त्रिगुणसातिरेकपरिक्षेपः पर्वतः, अर्धयोजनविष्कम्भाद्रि- परिक्षेपायामयुक्तया पूर्वादिदिग्विभागविनिवेशिचतुस्तोरणविभक्तया पद्मवरवेदिकयाऽल- २५ङ्कृतः । तत्तलमध्ये सक्रोशद्वयद्विषष्टियोजनोत्सेधः सक्रोशैकत्रिंशद्योजनविष्कम्भः स्वातिदेव- विहारः । अथ कथं हरिवर्षसंज्ञा ? हरिवर्णमनुष्ययोगाद्धरिवर्षः । ८ । हरिः सिंहस्तस्य शुक्लरूपपरिणामित्वात् तद्वर्णमनुष्या- द्युषितत्वाद्धरिवर्ष इत्याख्यायते । क्व पुनरसौ ? निषधमहाहिमवतोरन्तराले । ९ । निषधस्य दक्षिणतो महाहिमवत उत्तरतः पूर्वापर- ३०समुद्रयोरन्तराले हरिवर्षः । तन्मध्ये विकृतवान् वृत्तवेदाढ्यः । १० । तस्य हरिवर्षस्य मध्ये विकृतवान्नाम वृत्त- वेदाढ्यः शब्दवद्वृत्तवेदाढ्येन तुल्यवर्णनः । तस्योपर्यरुणदेवविहारः । अथ कथं विदेहसंज्ञा ? विदेहयोगाज्जनपदे विदेहव्यपदेशः । ११ । विगतदेहाः विदेहाः । के पुनस्ते ? येषां देहो नास्ति, कर्मबन्धसन्तानोच्छेदात् । ये वा सत्यपि देहे विगतशरीरसंस्कारास्ते विदेहाः । तद्यो- १७३ गाज्जनपदे विदेहव्यपदेशः । तत्र हि मुनयो देहोच्छेदार्थं यतमाना विदेहत्वमास्कन्दन्ति । ननु च भरतैरावतयोरपि विदेहाः सन्ति ? सत्यम्, सन्ति कदाचिन्न तु सर्वकालम्, तत्र तु सततं धर्मोच्छेदाभावाद्विदेहाः सन्तीति प्रकर्षापेक्षो विदेहव्यपदेशः । क्व पुनरसौ ? निषधनीलवतोरन्तराले तत्सन्निवेशः । १२ । निषधस्योत्तरात् नीलवतो दक्षिणात् पूर्वा — ०५परसमुद्रयोरन्तरे तस्य विदेहस्य सन्निवेशो द्रष्टव्यः । स चतुर्विधः पूर्वविदेहादिभेदात् । १३ । स विदेहश्चतुर्विधः । कुतः ? पूर्वविदेहादिभेदात् । पूर्वविदेहः, अपरविदेहः, उत्तरकुरवः, देवकुरवश्चेति । कुतः पुनः पूर्वविदेहादिव्यपदेशः ? मेरोः प्राक् क्षेत्रं पूर्वविदेहः, उत्तरक्षेत्रमुदक्कुरवः, अपरक्षेत्रमपरविदेहः दक्षिणक्षेत्रं देवकुरव इति । १०नैष युक्तो व्यपदेशः — पूर्वविदेहे हि सविता नीलादुदेति, निषधेऽस्तमुपैति । तत्र प्राङ् नीलः प्रत्यङ् निषधः अपाक् समुद्रः, मेरुरुदक् । अपरविदेहे तु निषधे उदयः नीलेऽस्तमय इति । तत्र प्राङ् निषधः, प्रत्यङ् नीलः, अपाक् समुद्रः, उदङ् मेरुः । उदक्कुरुषु गन्धमादना- दुदयो माल्यवतोऽस्तमयः । तत्र गन्धमादनः प्राक्, माल्यवान् प्रत्यक्, नीलः अपाक्, मेरुः उदक् । देवकुरुषु सौमनसादुदयः विद्युत्प्रभेऽस्तमयः तत्र सौमनसः प्राक्, विद्युत्प्रभः प्रत्यक्, १५निषधोऽपाक् मेरुरुदगिति ? सत्यमेवमेतत्; यदि तत्रत्यो दिग्विभाग आश्रियेत । इह भरत- क्षेत्रदिग्विभागमाश्रित्य मेरोः पूर्वादिव्यपदेशो युक्तः । तत्र विदेहमध्यभागे मेरुः । तस्मादप- रोत्तरदिशि गन्धमालिविजयसमीपदेवारण्यात्प्राक् गन्धमादनाख्यो वक्षारपर्वतः उदक्दक्षि- णायतः प्राक्प्रत्यक्विस्तीर्णः दक्षिणोत्तरकोटिभ्यां मेरुनीलाद्रिस्पर्शी द्वाभ्यामर्धयोजनविष्क- म्भपर्वतसमायामाभ्यां वनषण्डाभ्यामलङ्कृतः मूलमध्याग्रेषु सुवर्णमयः नीलाद्रिपर्यन्ते चतुर्यो- २०जनशतोच्छ्रितः, योजनशतावगाहः प्रदेशवृद्ध्या वर्धमानः मेरुपर्यन्ते पञ्चयोजनशतोत्सेधः पञ्चविंशतियोजनशतावगाहः, पञ्चयोजनशतविष्कम्भः, ततः प्रदेशहान्या हीयमानः नीला — न्तेऽर्धतृतीययोजनशतविष्कम्भः । त्रिंशत्सहस्राणि द्वे च नवोत्तरे शते योजनानां षट्चैकान्न- विशंतिभागाः सातिरेका आयामः । तस्योपरि मेरुपर्यन्ते पञ्चविंशतियोजनशतोच्छ्रायमूलवि- ष्कम्भसिद्धायतनकूटम् । तस्योत्तरतः क्रमेण व्यवस्थितानि षट् कूटानि — गन्धमादन-उदक्कुरु- २५गन्धमालि — स्फटिक-लोहिताक्ष-आनन्दकूटनामानि । तत्र सिद्धायतनकूटे जिनायतनम् । स्फटिक- कूटस्योपरि प्रासादे भोगंधरी देवी पल्योपमस्थितिका । लोहिताक्षकूटस्योपरि प्रासादे पल्योपमस्थितिका दिक्कुमारी भोगवती वसति । शेषेषु चतुर्षु कूटेषु कूटसमनामानो देवा वसन्ति । मेरोरुदक् प्राच्यां दिशि नीलादपाच्यां कच्छविजयात् प्रतीच्यां माल्यवान् वक्षार- पर्वतः । मूलमध्याग्रेषु वैडूर्यमयः विष्कम्भायामोच्छ्रायावगाहसंस्थानैर्गन्धमादनेन समः । ३०तस्योपरि मेरुपर्यन्ते सिद्धायतनकूटं यथोक्तपरिमाणम् । तस्योपर्यर्हदायतनम् । तस्योत्तरतो यथाक्रमं माल्यवत्-उदक्कुरु-कच्छ-विजय-सागर-रजत-पूर्णभद्र-सीता-हरिमहाकूटानि नव भव- न्ति । सागरकूटे सुभागा दिक्कुमारी, रजतकूटे भोगमालिनी दिक्कुमारी वसति । शेषेषु १७४ सप्तसु कूटेषु कूटसमनामानो देवा वसन्ति । मेरोरुदक् गन्धमादनात्प्राक्, नीलादपाक्, माल्यवतः प्रत्यक्, उदक्कुरवः प्राक् प्रत्यगायताः, उदगपाग्विस्तीर्णा यमकाद्रिद्वयपञ्चसरोव- रकाञ्चनगिरिशतोपशोभिताः । एकादश सहस्राणि अष्टौ शतानि द्वाचत्वारिंशानि योजनानां द्वौ चैकान्नविंशतिभागौ उदक्कुरुविष्कम्भः । नीलसमीपे त्रिपञ्चाशद्योजनसहस्राणि ज्याषष्टि — ०५सहस्राणि चत्वारि शतानि अष्टादशानि योजनानां द्वादश चैकान्नविंशतिभागाः साधिका धनुः । तत्र सीतायाः प्राग्दिग्भागे जम्बूवृक्षो वर्णितः । तस्योत्तरस्यां दिशि शाखायामर्हदायतनं क्रोशायामार्धक्रोशविष्कम्भदेशोनक्रोशोनक्रोशोत्सेधम् । प्राच्यां दिशि शाखायां तत्तुल्य- प्रासादः, तत्र जम्बूद्वीपाधिपतिव्यन्तरेश्वरोऽनावृतनामा वसति । दक्षिणस्यां दिशि शाखायां १०प्रतीच्यां च प्रासादयोः शयनीयानि रमणीयानि । ततः पूर्वोत्तरोत्तरापरोत्तरासु दिक्ष्वनावृतदेवसामानिकानां चत्वारि जम्बूसहस्राणि । दक्षिणपूर्वस्यां दिशि अभ्यन्तरपरि- षद्देवानां द्वात्रिंशत्सहस्राणि । दक्षिणस्यां मध्यमपरिषद्देवानां चत्वारिंशत्सहस्राणि । दक्षिणापरस्यां दिशि बाह्यपरिषद्देवानामष्टचत्वारिंशत्सहस्राणि । प्रतीच्यामनीकमहत्तराणां सप्तानां सप्तजम्ब्वः, चतसृणामग्रमहिषीणां सपरिवाराणां जम्ब्वः चतस्रः । पूर्वदक्षिणा- १५परोत्तरासु षोडशसहस्रात्मरक्षदेवानां च षोडशसहस्राणि । एते सुदर्शनजम्बूवृक्षस्य परिवार — भूताः पूर्वोक्ताष्टशतेन सह समुदिताः एकं शतसहस्रं चत्वारिंशत्सहस्राणि शतं चैकान्नविं — शम् । त एते सर्व एव जम्बूवृक्षाः पद्मवरवेदिकापरिवृताः सर्वरत्नकाञ्चनपरिणामाः मुक्तामणिहेमघण्टाजालमाल्यदामध्वजपताकाछत्राधिच्छत्रविभूषिताः । सुदर्शनाख्योऽसौ जम्बूवृक्षः पद्मवरवेदिकापरिक्षिप्तैस्त्रिभिर्वनषण्डैः परिक्षिप्तः । प्राथमिकवनषण्डे चतसृषु २०दिक्षु क्रोशायामक्रोशार्धविष्कम्भदेशोनक्रोशोत्सेधानि चत्वारि भवनानि । विदिक्षु चतस्रः पुष्करिण्यो दशयोजनावगाहाः पञ्चाशद्योजनायामाः तदर्धविष्कम्भाः चतुष्कोणा आयत- चतुरस्राः शुचिसुरभिसलिलपूर्णाः । तेषां भवनानां पुष्करिणीनां चाष्टासु दिक्षु श्वेतान्यर्जुन- सुवर्णनिर्वृत्तानि प्रत्येकमष्टौ कूटानि । तेषामुपरि प्रत्येकं क्रोशायामक्रोशार्धविष्कम्भदेशोन- क्रोशोच्छ्रायाः चत्वारः प्रासादाः । २५नीलाद् दक्षिणस्यां दिश्येकं योजनसहस्रं तिर्यगतीत्य सीतामहानद्या उभयोः पार्श्वयोः पञ्चयोजनशतान्तरौ सप्रणिधी द्वौ यमकाद्री योजनसहस्रोच्छ्रायौ अर्धतृतीययोजनशतावगाहौ मूलमध्याग्रेषु योजनैकसहस्रार्धाष्टमयोजनशतपञ्चयोजनशतविष्कम्भौ । तयोरुपरि योजन- द्विषष्ट्यर्धयोजनोच्छ्रायौ सक्रोशैकत्रिंशद्योजनविष्कम्भौ तावत्प्रवेशौ प्रासादौ । तत्र यमक- नामानौ देवौ वसतः । प्राच्यां दिशि द्वे अर्हदायतने यमकाभ्यामवाक्पञ्चयोजनशतानि ३०तिर्यगतीत्य सीतामहानद्यां योजनसहस्रोदगपागायतः पञ्चयोजनशतप्राक्प्रत्यग्विष्कम्भः दशयोजनावगाहः नीलो नाम महाह्रदो भवति । ह्रदमध्ये जलस्योपर्यर्धयोजनोच्छ्रायाणि दशयोजनावगाहनालानि मध्ये योजनविष्कम्भाणि क्रोशायतपत्राणि द्विक्रोशकर्णिकान्याग्रमूल- योर्द्विक्रोशविस्तराणि पद्मानि पद्मह्रदजपद्मवर्णनोपेतानि । तत्र नीलसंज्ञो नागेन्द्रकुमारो वसति । तस्य पद्मानि जम्बूवृक्षसमसंख्यानि । १७५ नीलह्रदात्प्रागदूरे दश काञ्चनाद्रयः सप्रणिधयो योजनशतोत्सेधाः पञ्चविंशति- योजनावगाहाः मूलमध्याग्रेषु शतपञ्चसप्ततिपञ्चाशद्योजनविष्कम्भाः काञ्चनपरिणामाः । तेषामुपरि सक्रोशैकत्रिंशद्योजनोत्सेधाः सद्विक्रोशपञ्चदशयोजनविष्कम्भाः प्रासादाः काञ्चन- संज्ञदेवानामावासाः । तादृशा एव प्रत्यक्-दशकाञ्चनाद्रयः । नीलह्रदादपाक् पञ्चयोजनशतानि ०५तिर्यगतीत्योत्तरकुरुह्रदो भवति उत्तरकुरुसंज्ञनागेन्द्रकुमारावासः । नीलह्रदतुल्यवर्णनः, प्राक्- प्रत्यक् च दशदशकाञ्चनाद्रयः । उदक्कुरुह्रदादपाक् पञ्चयोजनशतान्यतीत्य चन्द्रह्रदः, चन्द्रनागेन्द्रकुमारावासः । पूर्ववत्काञ्चनाद्रयश्च । चन्द्रह्रदादपाक् पञ्चयोजनशतानि तिर्यगतीत्यैरावतह्रदो भवति ऐरावतनागेन्द्रकुमारावासः । पूर्ववत्काञ्चनाद्रयश्च । ऐरावत- ह्रदादपाक् पञ्चयोजनशतानि तिर्यगतीत्य माल्यवान्नाम ह्रदो भवति माल्यवान्नामनागेन्द्र- १०कुमारावासः । पूर्ववत् काञ्चनाद्रयश्च । काञ्चनाद्रिशते पूर्वदिग्विनिवेशि जिनायतनशतम् । मेरोरपाक् प्राच्यां दिशि मंगलावद्विजयात् प्रत्यक् निषधादुदक् सौमनसो नाम वक्षारगिरिः सर्वस्फटिकपरिणामः, गन्धमादनेन विष्कम्भायामोच्छ्रायावगाहसंस्थानैस्तुल्यः । तस्योपरि मेरुपर्यन्ते सिद्धायतनकूटमर्हदायतनालङ्कृतं पूर्वोक्तपरिमाणम् । तस्य दक्षिणतो यथाक्रमं सौमनस-देवकुरु-मङ्गलावत्-पूर्वविदेह-कनक-काञ्चनकवशिष्ठ-उज्ज्वलकूटान्यष्टौ १५गन्धमादनकूटसमानानि तत्र कनककूटस्योपरि प्रासादे सुवत्सा दिक्कुमारी, काञ्चनकूट- स्योपरि प्रासादे वत्समित्रा दिक्कुमारी, शेषेषु स्वकूटनामानो देवाः मेरोरपाक् प्रतीच्यां दिशि निषधादुदक् पद्मवद्विजयात् प्राक् विद्युत्प्रभो नाम वक्षारगिरिस्तपनीयपरिणामो गन्ध- मादनसमवर्णनः । तस्योपरि मेरुपर्यन्ते सिद्धायतनकूटमर्हदायतनालङ्कृतम् । तस्य दक्षिणतो यथाक्रमं विद्युत्प्रभ-देवकुरु-पद्मवद्विजय-अपरविदेह-स्वस्तिक-शतज्वाल-सीतोदा-हरिनामान्यष्टौ २०कूटानि गन्धमादनकूटसमानि । तत्र पद्मवद्विजयकूटस्योपरि प्रासादे वारिषेणा नाम दिक्कुमारी, स्वस्तिककूटस्योपरि प्रासादे बला नाम दिक्कुमारी, शेषेषु स्वकूटनामानो देवाः । मेरोरपाक् सौमनसात्प्रत्यक् निषधादुदक् विद्युत्प्रभात्प्राक् देवकुरवः । तेषां ज्याधनु- रिषुगणना उत्तरकुरुगणनया व्याख्याता । मेरोर्दक्षिणापरस्यां दिशि निषधादुदक् सीतोदायाः प्रत्यक् विद्युत्प्रभात्प्राक् मध्ये सुप्रभा नाम शाल्मलिः सुदर्शनया जम्ब्वा व्याख्यातवर्णना । तस्या २५उत्तरशाखायामर्हदायतनम् । पूर्वदक्षिणापरासु शाखासु प्रासादेषु गरुत्मान् वेणुदेवो वसति । तस्य परिवारः सर्वोऽनावृतदेवपरिवारेण तुल्यः । निषधादुदगेकयोजनसहस्रं तिर्यगतीत्य सीतोदायाः महानद्या उभयोः पार्श्वयोश्चित्रकूटविचित्रकूटौ गिरी यमकपर्वताभ्यां तुल्यवर्णनौ । निषध-देवकुरु-सूर्य-सुरेश-विद्युत्प्रभह्रदाख्याः पञ्चह्रदाः उत्तरकुरुषु ह्रदैर्व्याख्यातवर्णनाः । काञ्चनगिरिशतं च तद्वदेव ज्ञेयम् । ३०सीतया महानद्या पूर्वविदेहो द्विधा विभक्तः उत्तरो दक्षिणश्चेति । तत्रोत्तरो भाग — श्चतुर्भिर्वक्षारपर्वतैस्तिसृभिर्विभङ्गनदीभिश्च विभक्तोऽष्टधा भिन्नः अष्टाभिश्चक्रधरैरुप- भोग्यः । तत्र चित्रकूटः पद्मकूटो नलिनकूटः एकशिलश्चेति वक्षाराः, तेषामन्तरेषु ग्राहावती — ह्रदावती — पङ्कावती चेति विभङ्गनद्यः । तत्र चत्वारोऽपि वक्षारका दक्षिणोत्तरकोटिभ्यां १७६ सीतानीलस्पृशो नीलान्ते चतुर्योजनशतोत्सेधाः योजनशतावगाहाः प्रदेशवृद्ध्या वर्धमानाः शीतानद्यन्ते पञ्चयोजनशतोत्सेधाः पञ्चविंशतियोजनशतावगाहाः अश्वस्कन्धाकाराः सर्वत्र पञ्चयोजनशतविष्कम्भाः । षोडशसहस्राणि पञ्चशतानि द्वानवत्यधिकानि योजनानां द्वौ चैकान्नविंशतिभागौ तेषामायामः । तत्र चित्रकूटस्योपरि चत्वारि कूटानि — सिद्धायतन- ०५चित्र-कच्छविजय-सुकच्छविजयकूटाख्यानि । पद्मकूटस्योपरि चत्वारि कूटानि सिद्धायतन- पद्म-महाकच्छकच्छावद्विजयकूटाभिधानानि । नलिनकूटस्योपरि चत्वारि कूटानि सिद्धायतन- नलिन-नलिनावर्त-लाङ्गलावर्तकूटसंज्ञानि । एकशिलस्योपरि चत्वारि कूटानि सिद्धायतन- एकशिल-पुष्कल-पुष्कलावत्कूटनामानि । सर्वाण्येवैतानि हिमवदद्रिकूटतुल्यपरिमाणानि, तद्गतार्हदायतनप्रासादतुल्यवर्णनजिनायतनप्रासादानि, सर्वत्र सीतान्ते सिद्धायतनकूटानि १०इतरेषु कूटसमनामानो देवाः । तिस्रोऽपि विभङ्गनद्यः स्वतुल्यनामकुण्डेभ्यो विंशतियोजन- शतविष्कम्भायामेभ्यो वरवज्रतलेभ्यः सुवृत्तेभ्यः स्वतुल्यनामदेवीनिवासालङ्कृतदशयोजन- द्विगव्यूतोच्छ्रायषोडशयोजनविष्कम्भायामद्वीपोपेतेभ्यः नीलाद्रिनितम्बनिवेशिभ्यो निर्गताः । प्रभवे द्विक्रोशाधिकद्वादशयोजनविष्कम्भा गव्यूतावगाहाः, मुखे पञ्चविंशतियोजनशतविष्कम्भा दशगव्यूतावगाहाः, प्रत्येकमष्टाविंशतिनदीसहस्रपरिवृताः सीतां प्रविशन्ति । १५एतैर्विभक्ता अष्टौ जनपदाः कच्छ-सुकच्छ-महाकच्छ-कच्छकावत्-आवर्तलाङ्गलावर्त- पुष्कल — पुष्कलावर्ताख्याः । तेषां मध्ये राजधान्यः — क्षेमा क्षेमपुरी अरिष्टा अरिष्टपुरी खङ्गा मञ्जूषा औषधिः पौण्डरीकिणी चेति नगर्यः । तत्र सीताया उदक् नीलादपाक् चित्रकूटा- त्प्रत्यक् माल्यवत्समीपदेवारण्यात्प्राक् कच्छविषयः, चित्रकूटसमायामः द्वे सहस्रे द्वे च शते त्रयोदशयोजनानां केनचिद्विशेषेणोने, प्राक्प्रत्यग्विस्तीर्णः । तस्य बहुदेशमध्यभागे विजया- २०र्धनामा रजतगिरिः भरतविजयार्धतुल्योच्छ्रायावगाहविष्कम्भः कच्छविषयविस्तारसमायामः । तत्रोभयोर्विद्याधरश्रेण्योः, प्रत्येकं पञ्चपञ्चाशन्नगराणि । व्यन्तरश्रेण्योः ऐशानस्य देवराजस्य लोकपालानां सोमयमवरुणवैश्रवणानामाभियोग्यदेवनगराणि । प्राच्यसिद्धायतनादिकूटनवके च दक्षिणार्धकच्छोत्तरार्धकच्छकूटे वाच्ये । विजयार्धादुदक् नीलादपाक् सिद्धकूटाद् वृषभाद्रेश्च प्राक् चित्रकूटात् प्रत्यक् त्रिषष्टियोजनविष्कम्भायामं तत्त्रिगुणसातिरेकपरिक्षेपं दशयोजना- २५वगाहं वरवज्रतलं गङ्गाकुण्डम् । अस्य बहुमध्यदेशभावी द्वीपोऽष्टयोजनविष्कम्भायामो दशयोजनद्विगव्यूतोच्छ्रायः पद्मवरवेदिकाचतुस्तोरणालङ्कृतः सुवृत्तो गङ्गादेवीनिवासः । ततो दक्षिणतोरणाद्विनिःसृता अपाङ्मुखी भरतक्षेत्रगङ्गातुल्यविष्कम्भावगाहा विषयसमायामा विजयार्धखण्डप्रपातगुहातोरणनिर्गता चतुर्दशनदीसहस्रपरिवारा गङ्गा महानदी सीतां प्रविशति । विजयार्धादुदङ् नीलादपाक् वृषभाद्रेः प्रत्यङ् माल्यवत्समीपदेवारण्यात्प्राक् ३०सिन्धुकुण्डं गङ्गाकुण्डतुल्यवर्णनं सिन्धूदेवीनिवासालङ्कृतम् । ततो विनिःसृता गङ्गातुल्या विजयार्धतमिस्रगुहान्तरान्निर्गता चतुर्दशनदीसहस्रपरिवारा सिन्धूर्महानदी सीतां प्रविशति । तत्र सीताया उदक् विजयार्धादपाक् गङ्गासिध्वोर्बहुमध्यदेशभाविनी क्षेमा नाम राजधानी । एवमितरे सप्तापि जनपदाः क्रमेण पूर्वदेशनिवेशिनो नेतव्याः । १७७ लवणसमुद्रवेदिकायाः प्रत्यक् पुष्कलावत्याः प्राक् सीताया उदक् नीलादपाक् देवारण्यं नाम वनम् । तस्य द्वे सहस्रे नव च शतानि द्वाविंशतिर्योजनानां सीतामुखे विष्कम्भः । षोडश- सहस्राणि पञ्चशतानि द्वानवत्यधिकानि योजनानां द्वौ चैकान्नविंशतिभागौ आयामः । सीताया अपाक् निषधादुदक् वत्सविषयात् प्राक् लवणसमुद्रवेदिकायाः प्रत्यक् पूर्ववद् देवारण्यम् । ०५सीताया दक्षिणतः पूर्वविदेहश्चतुर्भिवक्षारपर्वतैस्तिसृभिश्च विभङ्गनदीभिर्विभक्तोऽष्टधा भिन्नः अष्टाभिश्चक्रधरैरुपभोग्यः । तत्र त्रिकूटो वैश्रवणकूटः अञ्जनः आत्माञ्जनश्चेति वक्षाराः । तेषामन्तरेषु तप्तजला मत्तजला उन्मत्तजला चेति तिस्रो विभङ्गनद्यः । एतै- र्विभक्ता अष्टौ जनपदाः — वत्सा-सुवत्सा-महावत्सा-वत्सवत्-रम्य-रम्यक-रमणीय-मङ्गला- वत्याख्याः । तेषां मध्ये राजधान्यः — सुसीमा-कुण्डला-अपराजिता-प्रभाकरी-अङ्कावती- १०पद्मावती-शुभा-रत्नसञ्चयावती नगर्यः । तेषु जनपदेषु द्वे द्वे नद्यौ रक्तारक्तोदासंज्ञे । एकैको विजयार्धः । तेषां सर्वेषां विष्कम्भायामादिवर्णना पूर्ववद्वेदितव्या । वक्षारपर्वतेषु प्रत्येकं चत्वारि कूटानि सिद्धायतन-स्वनाम-पूर्वापरदेशनामानि । सीताया उत्तरतटे दक्षिण- तटे च प्रतिजनपदं त्रीणि त्रीणि तीर्थानि मागध-वरदान-प्रभाससंज्ञानि । तानि समुदितानि अष्टचत्वारिंशत्तीर्थानि पूर्वविदेहे । १५सीतोदया महानद्या अपरविदेहो द्विधा विभक्तो दक्षिण उत्तरश्चेति । तत्र दक्षिणो भागश्चतुर्भिर्वक्षारपर्वतैस्तिसृभिश्च विभङ्गनदीभिर्विभक्तोऽष्टधा भिन्नः, अष्टाभिश्चक्रधरै- रुपभोग्यः । तत्र शब्दावत्-विकृतावत्-आशीविष-सुखावहसंज्ञाश्चत्वारो वक्षाराद्रयः । तेषामन्तरेषु क्षीरोदा-सीतोदा-स्रोतोऽन्तर्वाहिनी चेति तिस्रो विभङ्गनद्यः । एतैर्विभक्ता अष्टौ जनपदाः — पद्म-सुपद्म-महापद्म-पद्मवत्-शङ्ख-नलिन-कुमुद-सरिदाख्याः । तेषां मध्ये २०राजधान्यः — अश्वपुरी सिंहपुरी महापुरी विजयपुरी अरजा विरजा अशोका वीतशोका चेति नगर्यः । तेषु जनपदेषु द्वे द्वे नद्यौ रक्तारक्तोदासंज्ञे । एकैको विजयार्धश्च । तेषां सर्वेषां विष्कम्भायामादिवर्णना पूर्ववद्वेदितव्या । वक्षारपर्वतेषु प्रत्येकं चत्वारि कूटानि सिद्धायतन- स्वनामपूर्वापरदेशनामानि । देवारण्ये द्वे अपि पूर्ववद्वेदितव्ये । उत्तरो विभागश्चतुर्भिर्वक्षारपर्वतैस्तिसृभिर्विभङ्गनदीभिश्च विभक्तोऽष्टधा भिन्नः, २५अष्टाभिश्चक्रधरैरुपभोग्यः । तत्र चन्द्र-सूर्य-नाग-देवसंज्ञाश्चत्वारो वक्षारपर्वताः । तेषा- मन्तरेषु गम्भीरमालिनी फेनमालिनी ऊर्मिमालिनी चेति तिस्रो विभङ्गनद्यः । एतैर्विभक्ता अष्टौ जनपदाः — वप्र-सुवप्र-महावप्र-वप्रावत्-वल्गु-सुवल्गु-गन्धिल-गन्धिमालिसंज्ञाः । तेषां मध्ये राजधान्यः — विजया वैजयन्ती जयन्ती अपराजिता चक्रपुरी खड्गपुरी अयोध्या अवध्या चेति नगर्यः । तेषु जनपदेषु गङ्गासिन्धूसंज्ञे द्वे नद्यौ । एकैको विजयार्धश्च । तेषां सर्वेषां ३०विष्कम्भायामादिवर्णना पूर्ववद्वेदितव्या । वक्षारपर्वतेषु प्रत्येकं चत्वारि कूटानि सिद्धायतन- स्वनामपूर्वापरदेशनामानि । सीतोदाया अपि तीर्थानि सीताया इवाष्टचत्वारिंशत् । विदेहस्य मध्ये मेरुर्नवनवतियोजनसहस्रोत्सेधः । धरणीतले सहस्रावगाहः । दशसहस्राणि नवतिश्च योजनानां दश चैकादशभागा अधस्तलेऽस्य विस्तारः । एकत्रिंशत्सहस्राणि नव- शतान्येकादश च योजनानि किञ्चिन्न्यूनानि अधस्तलेऽस्य परिधिः । दशसहस्राणि योज — १७८ नानां भूतलेऽस्य विष्कम्भः । एकत्रिंशत्सहस्राणि षट्शतानि त्रयोविंशानि योजनानि किञ्चिन्न्यूनानि तत्रास्य परिधिः । स चतुर्वनः त्रिकाण्डः त्रिश्रेणिः । चत्वारि वनानि भद्रसालवनं नन्दनं सौमनसं पाण्डुकवनं चेति । भूमितले भद्रसालवनं पूर्वापरदिशोर्द्वाविंशति- योजनसहस्राण्यायतम्, दक्षिणोत्तरदिशोरर्धतृतीययोजनशतान्यायतम्, एकया अर्धयोजनोच्छा- ०५यपञ्चशतधनुर्विष्कम्भवनसमायामया बहुतोरणविभक्तया पद्मवरवेदिकया परिवृतम् । मेरोश्चतसृषु दिक्षु भद्रसालवने पद्मोत्तर-नील-स्वस्तिक-अञ्जन-कुमुद-पलाश-अवतंस- रोचन — संज्ञान्यष्टौ कूटानि । एकैकस्यां दिशि द्वे द्वे कूटे भवतः । तत्र मेरोः प्रागुदक्कूले सीतायाः पद्मोत्तरकूटम् । मेरोः प्राक् अपाक्कूले सीतायाः नीलकूटम् । मेरोरपाक् सीतोदाया प्राक्कूले स्वस्तिककूटम् । मेरोरपाक् सीतोदाया प्रत्यक्कूले अञ्जनकूटम् । मेरोः १०प्रत्यक् सीतोदाया दक्षिणकूले कुमुदकूटम् । मेरोः प्रत्यक् सीतोदाया उत्तरकूले पलाशकूटम् । मेरोरुदक् सीतायाः प्रत्यक्कूले अवतंसकूटम् । मेरोरुदक् सीतायाः प्राक्कूले रोचनकूटम् । तान्येतानि सर्वाणि कूटानि पञ्चविंशतियोजनावगाहनानि योजनशतोच्छ्रायाणि योजन- शतमूलविस्ताराणि पञ्चसप्ततियोजनमध्यविष्कम्भाणि पञ्चाशद्योजनाग्रविस्ताराणि पद्म- वरवेदिकापरिवृतानि । तेषामुपरि मध्यदेशभाजः सक्रोशैकत्रिंशद्योजनोत्सेधाः पञ्चदशयोजन- १५द्विगव्यूतायामविष्कम्भा अष्टौ प्रासादाः । तेषु स्वकूटनामानः सोमयमवरुणवैश्रवणानां लोकपालानामाभियोग्या अनेकैरावतरूपविकरणसमर्थाः दिग्गजेन्द्रा देवा वसन्ति । तत्र पद्मो- त्तरनीलस्वस्तिकाञ्जनकूटेषु शक्रलोकपालानां भौमविहाराः । कुमुदपलाशावतंसरोचन — कूटेषु ऐशानलोकपालानां भौमविहाराः । मेरोः प्राक् सीताया दक्षिणकूले भद्रसालवने अर्हदायतनम् । मेरोरपाक् सीतोदायाः प्राक्कूले अर्हदायतनम् । मेरोः प्रत्यक् २०सीतोदाया उदक्कूले अर्हदायतनम् । मेरोरुदक् सीतायाः प्रत्यक्कूले अर्हदायतनम् । चत्वा — र्यप्येतानि पञ्चसप्ततियोजनोच्छ्रायाणि योजनशतोदक्दक्षिणायामानि, प्राक् प्रत्यक् पञ्चाशद्योजनविष्कम्भाणि, षोडशयोजनोच्छ्रायतदर्धविष्कम्भतावत्प्रवेशप्रागुदग्दक्षिणद्वाराणि नानामणिकाञ्चनरजतपरिणामानि सहस्रजिह्वेनापि वर्णयितुमशक्यानि । यानि सहस्राक्षः सहस्रमक्ष्णां विस्तीर्य विलोकमानोऽपि सततं न तृप्तिमुपयाति । तेषां पुरस्ताद्योजन- २५शतायामतदर्धविष्कम्भसातिरेकषोडशयोजनोच्छ्राया मुखमण्डपाः । तेषां पुरस्ताद्योजन- शतायामतदर्धविष्कम्भसातिरेकषोडशयोजनोच्छ्रायाः प्रेक्षागृहाः । तेषां पुरस्ताच्चतुःषष्टि- योजनायामविष्कम्भास्तत्त्रिगुणसातिरेकपरिधयः स्तूपाः । तेषां पुरस्ताच्चैत्यवृक्षपीठानि षोडशयोजनायामानि तदर्धविष्कम्भाणि तावदुत्सेधानि प्रत्येकं चतुस्तोरणविभक्तानां पद्मवरवेदिकानां चतुर्विंशत्या परिवृतानि । तेषां मध्ये सिद्धार्थनामकाः चैत्यवृक्षाः सिद्धार्थ- ३०तीर्थकरप्रतिकृतिपवित्रीकृताः षोडशयोजनोच्छ्राय-चतुर्योजनोत्सेध-योजनविष्कम्भस्कन्धा द्वाद- शयोजनोच्छ्रायतावद्बाहल्यविटपाः । तेभ्यः प्राक् नानामणिरत्नमयपीठनिवेशिनः षोडश- योजनोच्छ्रायगव्यूतविष्कम्भायाममहेन्द्रध्वजाः । ततः प्राङ् नन्दाख्याः पुष्करिण्यः योजन- शतायामतदर्धविष्कम्भदशयोजनावगाहाः । अर्हदायतनमध्यदेशनिवेशिनः षोडशयोजनाया- मतदर्धविष्कम्भोच्छ्राया रत्नमया देवच्छन्दाः । तत्र पञ्चधनुःशतोत्सेधाः कनकमयदेहास्त- ३५पनीयहस्तपादतलतालुजिह्वा लोहिताक्षमणिपरिक्षिप्ताङ्कस्फटिकमणिनयना अरिष्टमणिमय- १७९ नयनतारका रजतमयदन्तपङ्क्तयः विद्रुमच्छायाधरपुटा अञ्जनमूलमणिमयाक्षपक्ष्मभ्रूलता नीलमणिविरचितासिताञ्चिकेशाः प्रगृहीतसितविमलवरचामराग्रहस्तोभयपार्श्वस्थविविध- मणिकनकविधृताभरणालङ्कृतयक्षनागमिथुनाः सुश्लिष्टाष्टसहस्रलक्षणव्यञ्जनाङ्किता वैडूर्यदण्डमणिहेममुक्ताजालालङ्कृतरत्नशलाका शतकाञ्चनतुम्बबिम्बरजतच्छदछत्राधि- ०५च्छत्रा भव्यजनस्तवनवन्दनपूजनाद्यर्हा अर्हत्प्रतिमा अनाद्यनिधना अष्टशतसंख्या विशिष्ट- गणवर्णितगुणा अष्टशतकलशभृङ्गाराद्युपकरणपरिवारा वर्णनातीतविभवा मूर्ता इव जिनधर्मा विराजन्ते । ततो भूमितलात् पञ्चयोजनशतान्युत्प्लुत्य पञ्चयोजनशतविष्कम्भं मेरुसमाया — ममण्डलं पद्मवरवेदिकापरिक्षिप्तं वृत्तवलयपरिधि नन्दनवनम् । तत्र बाह्यगिरिविष्कम्भः १०नवसहस्राणि नव च शतानि चतुःपञ्चाशानि योजनानां षट् चैकादशभागाः । तत्परिधिरे- कत्रिंशत्सहस्राणि चत्वारि शतानि एकान्नाशीत्यधिकानि सातिरेकाणि योजनानाम् । अभ्यन्तरगिरिविष्कम्भोऽष्टौ सहस्राणि नवशतानि चतुःपञ्चाशानि योजनानां षट्चैकादश भागाः । तत्परिधिरष्टाविंशतिसहस्राणि त्रीणि शतानि षोडशानि योजनानामष्टौ चैका- दशभागाः । चतसृषु दिक्षु चतस्रो गुहाः — प्राच्यां दिशि मणिगुहा, अपाच्यां गन्धर्वगुहा, १५प्रतीच्यां चारणगुहा, उदीच्यां चन्द्रगुहा । ता एतास्त्रिंशद्योजनविष्कम्भायामाः साधिक- नवतियोजनपरिधयः पञ्चाशद्योजनावगाहाः । तासु यथासख्यं सोमयमवरुणकुबेराणां विहाराः । मेरोः पूर्वोत्तरदिशि नन्दनवने बलभद्रकूटं योजनसहस्रोच्छ्रायं मूलमध्याग्रेषु योजनसहस्रार्धाष्टमयोजनशतपञ्चयोजनशतविस्तारम् । तत्त्रिगुणसातिरेका परिधिः । तस्योपरि मन्दराधिपतेरावासाः । मेरोश्चतसृषु दिक्षु द्वे द्वे कूटे — प्राच्यां दिशि तावन्नन्दन- २०मन्दिरे । अपाच्यां निषधहैमवते । प्रतीच्यां रजतरुचके । उदीच्यां सागरचित्रवज्रे । अष्टावप्येतानि कूटानि पञ्चयोजनशतोच्छ्रायानि मूलमध्याग्रेषु पञ्चशतपञ्चसप्तत्यधिक- शतत्रयार्धतृतीयशतयोजनविष्कम्भाणि । तेषामुपरि द्विषष्टियोजनद्विगव्यूतोच्छ्रायाः सक्रो- शैकत्रिंशद्योजनविष्कम्भास्तावत्प्रवेशा एवाष्टौ प्रासादाः । तेषु मेघङ्करी-मेघवती-सुमेघा- मेघमालिनी-तोयन्धरा-विचित्रा-पुष्करमाला-अनिन्दितासंज्ञा अष्टौ दिक्कुमार्यः यथाक्रमं २५परिवसन्ति । मेरोर्दक्षिणपूर्वस्यां दिशि उत्पलगुल्मा-नलिना-उत्पला-उत्पलोज्वलाख्याश्चतस्रो वाप्यः । दक्षिणापरस्यां भृङ्गा — भृङ्गनिभा-कज्जला-कज्जलप्रभाश्चतस्रः पुष्करिण्यः । अपरोत्तरस्यां दिशि श्रीकान्ता — श्रीचन्द्रा-श्रीनिलया-श्रीमहिताश्चतस्रो वाप्यः । उत्तरपूर्वस्यां दिशि पद्मा — पद्मगुल्मा-कुमुदा-कुमुदप्रभाश्चतस्रो वाप्यः । ताः सर्वाः पञ्चाशद्योजनायामतदर्ध- विष्कम्भदशयोजनावगाहाः चतुष्कोणा आयतचतुरस्राः । तासां मध्ये प्रत्येकमेकैकः प्रासादः ३०द्विषष्टियोजनार्धयोजनोत्सेधः सगव्यूतैकत्रिंशद्योजनविष्कम्भस्तावत्प्रवेशः । तत्र दक्षिणस्यां दिशि विदिशोः प्रासादाः शक्रस्य भौमविहाराः । उत्तरस्यां दिशि विदिशोरैशानस्य भौम- विहाराः । मेरोश्चतसृषु दिक्षु नन्दनवने चत्वारि जिनायतनानि षट्त्रिंशद्योजनोत्सेधानि पञ्चा- शद्योजनायामतदर्धविष्कम्भाणि तावत्प्रवेशानि अष्टयोजनोच्छ्रायतदर्धविष्कम्भायामप्रागुद- गपाग्द्वाराणि अर्हदायतनवर्णनोपेतानि । १८० नन्दनात् समात्भूमिभागाद् द्विषष्टियोजनसहस्राणि पञ्चशतान्युत्प्लुत्य वृत्तवलयपरिधि- पञ्चयोजनशतविष्कम्भं पद्मवरवेदिकापरिक्षिप्तं सौमनसवनम् । तत्र बाह्यगिरिविष्कम्भश्च — त्वारि सहस्राणि द्वे शते द्वासप्ततिश्च योजनानामष्टौ चैकादशभागाः । तत्परिधिस्त्रयोदश- सहस्राणि पञ्चशतान्येकादशानि योजनानां षट्चैकादशभागाः । अभ्यन्तरगिरिविष्कम्भस्त्रीणि ०५सहस्राणि द्वे शते द्वासप्ततिर्योजनानामष्टौ चैकादशभागाः । तत्परिधिर्दशसहस्राणि त्रीणि शतान्येकान्नपञ्चाशानि योजनानां त्रयश्चैकादशभागाः किञ्चिद्विशेषोनाः । बलभद्रकूटदि- क्कुमारीकूटाष्टकहीनं सौमनसम् । षोडशात्र वाप्यः — नन्दनवापीसदृशायामविष्कम्भावगाहाः । तन्मध्यदेशे भवनानि पञ्चाशद्योजनायामतदर्धविस्तारषट्त्रिंशद्योजनोच्छ्रायाणि । चतुर्दिशं चत्वार्यर्हदायतनानि अष्टयोजनोच्छ्रिततदर्धविस्तारतावत्प्रवेशप्रागुदगपाग्द्वाराणि जिनायतन- १०वर्णनोपेतानि । सौमनसात्समाद् भूभागात् षट्र्त्रिशत्सहस्राण्यारुह्य योजनानि वृत्तवलयपरिधि पाण्डुकवनं चतुर्नवत्युत्तरचतुःशतविष्कम्भं पद्मवरवेदिकापरिवृतं चूलिकां परीत्य स्थितम् । शिखरं मेरो- रेकयोजनसहस्रविष्कम्भम् । तत्परिधिस्त्रीणि सहस्राणि द्विषष्ट्यधिकं शतं योजनानां साधिकम् । पाण्डुकवनबहुमध्यदेशभाविनी चत्वारिंशद्योजनोच्छ्राया मूलमध्याग्रेषु द्वादशाष्टचतुर्यो- १५जनविष्कम्भा सुवृत्ता चूलिका । तस्याः प्राच्यां दिशि पाण्डु कशिला उदक्दक्षिणायामा प्राक्- प्रत्यग्विस्तारा । अपाच्यां पाण्डुकम्बलशिला प्राक्प्रत्यगायामा उदग्दक्षिणविस्तारा । प्रतीच्यां रक्तकम्बलशिला उदगपागायता प्राक्प्रत्यक्विस्तीर्णा । उदीच्यां अतिरक्तकम्बलशिला प्राक्प्रत्यगायता उदगपाग्विस्तीर्णा । तत्रार्जुनसुवर्णमयी पाण्डुकशिला । रजतपरिणामा पा- ण्डुकम्बलशिला । विद्रुमवर्णा रक्तकम्बलशिला । जाम्बूनदसुवर्णमयी अतिरक्तकम्बलशिला । २०ता एताश्चतस्रोऽपि पञ्चयोजनशतायामतदर्धविष्कम्भाश्चतुर्योजनबाहल्या अर्धचन्द्रसंस्थाना अर्धयोजनोत्सेधपञ्चधनुःशतविष्कम्भशिलासमायामैकपद्मवरवेदिकापरिवृताः श्वेतवरकनक- स्तूपिकालङ्कृतचतुस्तोरणद्वारविराजिताः । तासामुपरि बहुमध्यदेशभावीनि पञ्चधनुःशतो- त्सेधायामतदर्धविष्कम्भाणि प्राङ्मुखानि सिंहासनानि । पौरस्त्ये सिंहासने पूर्वविदेहजान् अपाच्ये भरतजान् प्रतीच्ये अपरविदेहजान् उदीच्ये ऐरावतजांस्तीर्थकरान् चतुर्णिकायदेवा- २५धिपाः सपरिवाराः महत्या विभूत्या क्षीरोदवारिपरिपूर्णाष्टसहस्रकनककलशैरभिषिञ्चन्ति । अत्रापि षोडशपुष्करिण्यः पूर्ववद्वेदितव्याः । चूलिकायाश्चतसृषु महादिक्षु सक्रोशत्रयस्त्रिंशद्यो- जनायामानि द्विगव्यूताधिकषोडशयोजनविष्कम्भाणि पञ्चविंशतियोजनोच्छ्रायाणि योजनो- त्सेधतदर्धविष्कम्भतावत्प्रवेशप्रागुदगपाग्द्वाराणि चत्वार्यर्हदायतनानि अर्हदायतनवर्णनो- पेतानि । ३०भद्रसालवनभाविनि भूतले लोहिताक्षकल्पः परिक्षेपः । तत ऊर्ध्वमर्धसप्तदशयोजनसह- स्राण्यारुह्य द्वितीयः पद्मवर्णः । ततोऽप्यर्धसप्तदशयोजनसहस्राण्यारुह्य तृतीयस्तपनीयवर्णः । ततोऽप्यर्धसप्तदशयोजनसहस्राण्यारुह्य चतुर्थो वैडूर्यवर्णः । ततोऽप्यर्धसप्तदशयोजनसहस्राण्यारुह्य १८१ पञ्चमो वज्रप्रभः । ततोऽप्यर्धसप्तदशयोजनसहस्राण्यारुह्य षष्ठो हरितालवर्णः । ततोऽप्यर्ध- सप्तदशयोजनसहस्राण्यारुह्य जाम्बूनदसुवर्णवर्णो भवति । अधोभूम्यवगाही योजनसहस्रायामः प्रदेशः पृथिव्युपलवालुकाशर्कराचतुर्विधपरिणामः । उपरि वैडूर्यपरिणामः प्रथमः काण्डः सर्व- रत्नमयः । द्वितीयः काण्डः जाम्बूनदमयः । तृतीयः काण्डश्चूलिका वैडूर्यमयी । मेरुरयं त्रयाणां ०५लोकानां मानदण्डः । अस्याधस्तलादधोलोकः । चूलिकामूलादूर्ध्वमूर्ध्वलोकः । मध्यप्रमाणः तिर्यग्विस्तीर्णस्तिर्यग्लोकः । एवं च कृत्वा अन्वर्थनिर्वचनं क्रियते ‘लोकत्रयं मिनातीति मेरुः’ इति । तस्य भूमितलादारभ्य आशिखरादैकादशिकी प्रदेशहानिः । एकादशसु प्रेदशेषु एकप्रदेशो हीयते । एकादशसु गव्यूतेषु एकगव्यूतं हीयते । एकादशसु योजनेषु एकयोजनं हीयते । एवं सर्वत्राशिखराद् भूमितलस्याधः ऐकादशिकी प्रदेशवृद्धिः — एकादशसु प्रदेशेषु एकः प्रदेशो वर्धते । १०एकादशसु गव्यूतेषु एकं गव्यूतं वर्धते । एकादशसु योजनेषु एकं योजनं वर्धते । एवं सर्वत्र आअधस्तलात् । अथ कथं रम्यकसंज्ञा ? रमणीयदेशयोगाद्रम्यकाभिधानम् । १४ । यस्माद्रमणीयैर्देशैः सरित्पर्वतकाननादिभियुक्तः, तस्मादसौ रम्यक इत्यभिधीयते । अन्यत्रापि रम्यकदेशयोगः समान इति चेत्; न; रूढिविशेषबललाभाद् गोशब्दवृत्तिवत् । अत एव संज्ञायां को विहितः । क्व पुनरसौ ? १५नीलरुक्मिणोरन्तराले तत्सन्निवेशः । १५ । नीलादुदक् रुक्मिणोऽपाक् पूर्वापरसमुद्रयो- रन्तराले तस्य रम्यकस्य सन्निवेशो द्रष्टव्यः । तन्मध्ये गन्धवान्वृत्तवेदाढ्यः । १६ । तस्य रम्यकस्य मध्ये गन्धवान्नाम वृत्तवेदाढ्यः शब्दवद्वृत्तवेदाढ्येन तुल्यवर्णनः । तस्योपरि प्रासादे पद्मदेवो वसति । अथ कथं हैरण्यवतसंज्ञा ? हिरण्यवतोऽदूरभवत्वाद्धैरण्यवतव्यपदेशः । १७ । हिरण्यवान् रुक्मिनामा पर्वतस्तस्याऽदूर- २०भवत्वाद्धैरण्यवतव्यपदेशः । क्व पुनरसौ ? रुक्मिशिखरिणोरन्तराले तद्विस्तारः । १८ । रुक्मिण उदक् शिखरिणोऽपाक् पूर्वापरसमु- द्रयोरन्तराले तस्य हैरण्यवतस्य विस्तारो वेदितव्यः । तन्मध्ये माल्यवान् वृत्तवेदाढ्यः । १९ । तस्य हैरण्यवतस्य मध्ये माल्यवान्नाम वृत्तवेदाढ्यः शब्दवद्वृत्तवेदाढ्येन तुल्यवर्णनः । तस्योपरि प्रासादे प्रभासदेवो वसति । २५अथ कथमैरावतसंज्ञा ? ऐरावतक्षत्रिययोगादैरावताभिधानम् । २० । रक्तारक्तोदयोः बहुमध्यदेशभाविनी अयोध्या नाम नगरी । तस्यामुत्पन्न ऐरावतो नाम राजा तत्परिपालितत्वाज्जनपदस्यैरावताभिधानम् । क्व पुनरसौ ? शिखरिसमुद्रत्रयान्तरे तदुपन्यासः । २१ । शिखरिणो गिरेस्त्रयाणां पूर्वापरोत्तरसमुद्राणां ३०मध्ये तस्यैरावतस्य उपन्यासो वेदितव्यः । तन्मध्ये पूर्ववद्विजयार्धः । २२ । तस्यैरावतस्य मध्ये विजयार्धो रजतगिरिः पूर्ववद्वेदि- तव्यः । यैर्विभक्तानि सप्तक्षेत्राणि व्याख्यातानि । के पुनस्ते कथं वा व्यवस्थिता इति ? अत आह — १८२ तद्विभाजिनः पूर्वापरायता हिमवन्महाहिमवन्निषधनीलरुक्मिशिखरिणो वर्षधरपर्वताः ॥ ११ ॥ तानि विभजन्तीत्येवं शीला तद्विभाजिनः पूर्वापराभ्यामायताः पूर्वापरायताः पूर्वापर- ०५कोटिभ्यां लवणजलधिस्पर्शिन इत्यर्थः । तद्विभाजित्वादेव तेषां वर्षधरव्यपदेशोऽसंकरेण भरतादिवर्षाणां धारणात् । कथं हिमवानिति संज्ञा ? हिमाभिसंबन्धाद्धिमवद्व्यपदेशः । १ । हिममस्यास्तीति हिमवानिति व्यपदेशः । अन्यत्रापि तत्सम्बन्ध इति चेत् ? रूढिविशेषबललाभात्तत्रैव वृत्तिः । क्वासौ हिमवानिति ? उच्यते — भरतहैमवतयोः सीमनि स्थितः । २ । भरतस्य हैमवतस्य च सीमनि व्यवस्थितः क्षुद्र — १०हिमवान् वेदितव्यः । कथं पुनरस्य क्षुद्रहिमवत्त्वम् ? महाहिमवदपेक्षया । सूत्रेऽनुक्तं कथं गम्यते इति चेत् ? महाहिमवत्प्रयोगादेव । सति हि क्षुद्रे महत्त्वमित्यर्थात् क्षुद्रत्वं गम्यते । स पञ्चविंशतियोजनावगाहः योजनशतोच्छ्रायः योजनसहस्रं द्विपञ्चाशद्योजनानां द्वादशै- कान्नविंशतिभागाः तस्य विष्कम्भः । तस्योतरपार्श्वे ज्या चतुर्विंशतिसहस्राणि नवशतानि द्वात्रिंशानि योजनानामेकश्चैकान्नविंशतिभागो देशोनः । अस्या ज्याया धनुः पञ्चविंशति- १५सहस्राणि द्वे शते त्रिंशच्चत्वारश्चैकान्नविंशतिभागाः साधिकाः । तस्य पूर्वापरपार्श्वबाहू प्रत्येकं पञ्चसहस्राणि त्रीणि शतानि पञ्चाशद्योजनानि पञ्चदश चैकान्नविंशतिर्भागाः साधिकोऽर्धभागश्च । तस्योपरि प्राच्यां दिशि सिद्धायतनकूटं पञ्चयोजनशतोच्छ्रायमूल- विष्कम्भं पञ्चसप्तत्यधिकशतत्रयमध्यविष्कम्भम् अर्धतृतीयशताग्रविष्कम्भम् । तत्त्रिगुण- सातिरेकपरिधिः । तस्योपरि षट्त्रिंशद्योजनोच्छ्रायं पञ्चाशद्योजनोद्गदक्षिणायामं पञ्च- २०विंशतियोजनप्राक्प्रत्यग्विस्तारं तावत्प्रवेशमष्टयोजनोत्सेधतदर्धविष्कम्भं तावत्प्रवेशोदग्- दक्षिणपूर्वद्वारमर्हदायतनम् । द्वारत्रये सातिरेकाष्टयोजनोच्छ्रायपञ्चाशद्योजनायामतदर्ध- विष्कम्भास्त्रयो मुखमण्डपाः । सातिरेकाष्टयोजनोच्छ्रायपञ्चाशद्योजनायामविष्कम्भाणि त्रीणि प्रेक्षागृहाणि । पौरस्त्यप्रेक्षागृहात् प्राक् स्तूपादयः पूर्वोक्ताः । चैत्यालयाभ्यन्तरवर्णना पूर्व- वद्वेदितव्या । तेषां सर्वेषामेव परिक्षेप्त्री चतुस्तोरणद्वारविभक्ता पद्मवरवेदिका । ततः २५प्रतीच्यां दिशि दशकूटानि-हिमवद्भरतेलागङ्गा-श्री-रोहितास्या-सिंधु-सुरा-हैमवत-वैश्रवण- कूटाभिधानानि यथाक्रमं वेदितव्यानि सिद्धायतनकूटतुल्यानि । तेषामुपरि प्रासादा दशैव सक्रोशद्वयद्विषष्टियोजनोत्सेधाः सक्रोशैकत्रिंशद्योजनविष्कम्भास्तावत्प्रवेशाः । तेषु स्वकूट- नामानो देवा देव्यश्च वसन्ति । हिमवद्भरतहैमवतवैश्रवणकूटेषु देवाः, इतरेषु देव्यः । अथ कथं महाहिमवत्संज्ञा ? ३०महाहिमवति चोक्तम् । ३ । किमुक्तम् ? हिमाभिसंबन्धाद्धिमवदभिधानम्, महांश्चासौ हिमवांश्च महाहिमवानिति, असत्यपि हिमे हिमवदाख्या इन्द्रगोपवत् । क्व पुनरसौ ? हैमवतहरिवर्षयोर्विभागकरः । ४ । हैमवतादुदक् हरिवर्षादपाक् तयोर्विभागकरो महाहि- मवान् वेदितव्यः । स द्वियोजनशतोच्छ्रायः पञ्चाशद्योजनावगाहः, चत्वारि योजनसहस्राणि द्वे च शते दशोत्तरे दश चैकान्नविंशतिभागाः तस्य विष्कम्भः । पूर्वापरपार्श्वबाहू प्रत्येकं नव- १८३ योजनसहस्राणि द्वे च शते षट्सप्तत्यधिके योजनानां नव चैकान्नविंशतिभागाः अर्धभागश्च साधिकः । तस्योत्तरपार्श्वे ज्या त्रिपञ्चाशद्योजनसहस्राणि नव च शतानि एकत्रिंशानि षट्चैकान्नविंशतिभागाः साधिकाः । तस्याः ज्याया धनुः सप्तपञ्चाशद्योजनसहस्राणि द्वे शते त्रिनवत्युत्तरे दश चैकान्नविंशतिभागाः साधिकाः । तस्योपर्यष्टौ कूटानि सिद्धायतन- ०५महाहिमवत्-हैमवत-रोहित्-हरि-हरिकान्ता-हरिवर्ष-वैडूर्यकूटाभिधानानि क्षुद्रहिमवत्कूटतुल्य- प्रमाणानि । तेषामुपरि जिनायतनप्रासादास्तत्तुल्या एव । प्रासादेषु स्वकूटनामनो देवा देव्यश्च वसन्ति । अथ कथं निषधसंज्ञा ? निषीधन्ति तस्मिन्निति निषधः । ५ । यस्मिन् देवा देव्यश्च क्रीडार्थं निषीधन्ति स निषधः, पृषोदरादिपाठात् सिद्धः । अन्यत्रापि तत्तुल्यकारणत्वात्तत्प्रसङ्गः इति चेत् ? न; १०रूढिविशेषबललाभात् । क्व पुनरसौ ? हरिविदेहयोर्मर्यादाहेतुः । ६ । हरिवर्षादुदक् विदेहादपाक् तयोर्मर्यादाहेतुर्निषध इत्या — ख्यायते । स चतुर्योजनशतोत्सेधः, योजनशतावगाहः, षोडशयोजनसहस्राण्यष्टौ च शतानि द्वाचत्वारिंशानि द्वौ चैकान्नविंशतिभागौ तस्य विष्कम्भः । पूर्वापरपार्श्वबाहू प्रत्येकं विंशति- योजनसहस्राणि पञ्चषष्ट्यधिकमेकं च शतं द्वौ चैकान्नविंशतिभागौ अर्धभागश्च साधिकः । १५उत्तरपार्श्वज्या चतुर्नवतिसहस्राणि षट्पञ्चाशमेकं च योजनशतं द्वौ चैकान्नविंशतिभागौ साधिकौ । तस्या धनुरेकं योजनशतसहस्रं चतुर्विंशतिसहस्राणि त्रीणि च शतानि षट्चत्वा- रिंशानि नव चैकान्नविंशतिभागाः साधिकाः । तस्योपरि नवकूटानि — सिद्धायतन-निषध- हरिवर्ष-पूर्वविदेह-हरिधृत-सीतोदा-अपरविदेह-रुचकनामानि, क्षुद्रहिमवत्कूटतुल्यप्रमाणानि । तेषामुपरि जिनायतनप्रासादास्तत्तुल्याः । प्रासादेषु स्वकूटनामानो देवा देव्यश्च वसन्ति । २०अथ कथं नीलसंज्ञा ? नीलवर्णयोगान्नीलव्यपदेशः । ७ । नीलेन वर्णेन योगात् पर्वतो नील इति व्यपदिश्यते । संज्ञा चाऽस्य वासुदेवस्य कृष्णव्यपदेशवत् । क्व पुनरसौ ? विदेहरम्यकविनिवेशविभागी । ८ । स नीलाख्यः पर्वतः विदेहस्य रम्यकस्य च विनिवेशं विभजते । स निषधेन व्याख्यातप्रमाणः । तस्योपरि नवकूटानि-सिद्धायतन-नील-पूर्वविदेह- २५सीता-कीर्ति-नरकान्ता-अपरविदेह-रम्यक-आदर्शककूटसंज्ञानि, क्षुल्लकहिमवत्कूटतुल्यप्रमा- णानि । तेषामुपरि जिनायतनप्रासादाः तत्तुल्याः । प्रासादेषु स्वकूटनामानो देवा देव्यश्च वसन्ति । अथ कथं रुक्मिसंज्ञा ? रुक्मसद्भावाद्रुक्मीत्यभिधानम् । ९ । रुक्ममस्यास्तीति रुक्मीत्यभिधानम् । अन्यत्रापि तत्संभवाद् रूढिवशाद्विशेषे वृत्तिः, करिवत् । क्व पुनरसौ ? ३०रम्यकहैरण्यवतविवेककरः । १० । रम्यकस्य हैरण्यवतस्य च विवेकं करोत्यसौ । स महाहिमवता तुल्यप्रमाणः । तस्योपरि अष्टौ कूटानि-सिद्धायतन-रुक्मि-रम्यक-नारी-बुद्धि- रूप्यकूल-हैरण्यवत-मणि-काञ्चनकूटाख्यानि क्षुद्रहिमवत्कूटतुल्यप्रमाणानि । तेषामुपरि जिनायतनप्रासादास्तत्तुल्याः । प्रासादेषु स्वकूटनामानो देवा देव्यश्च वसन्ति । अथ कथं शिखरिसंज्ञा ? १८४ शिखरसद्भावाच्छिखरीति संज्ञा । ११ । शिखराणि कूटान्यस्य सन्तीति शिखरीति संज्ञायते । अन्यत्रापि तत्सद्भावे रूढिवशाद्विशेषे वृत्तिः शिखण्डिवत् । क्व पुनरसौ ? हैरण्यवतैरावतसेतुबन्धः स गिरिः । १२ । हैरण्यवतस्यैरावतस्य च सेतुबन्ध इव स गिरिरवस्थितः क्षुद्रहिमवत्तुल्यप्रमाणः । तस्योपर्येकादश-कूटानि सिद्धायतन-शिखरि-हैरण्य- ०५वत-रसदेवी-रक्तावतीश्लक्ष्णकूला-लक्ष्मी-गन्धदेवी-ऐरावत-मणि-काञ्चनकूटनामानि क्षुद्रहि- मवत्तुल्यप्रमाणानि । तेषामुपरि जिनायतनप्रासादास्तत्तुल्याः । प्रासादेषु स्वकूटनामानो देवा देव्यश्च वसन्ति । तेषां वर्णविशेषप्रतिपत्त्यर्थमाह — हेमार्जुनतपनीयवैडूर्यरजतहेममयाः ॥ १२ ॥ १०त एते हिमवदादयः पर्वता हेमादिमया वेदितव्याः । मयट् प्रत्येकं परिसमाप्यते । यथाक्रमं हिमवदादयः संबध्यन्ते । हेममयो हिमवान् चीनपट्टवर्णः । अर्जुनमयो महाहिमवान् शुक्लः । तपनीयमयो निषधः तरुणादित्यवर्णः । वैडूर्यमयो नीलः मयूरग्रीवाभः । रजतमयो रुक्मी शुक्लः । हेममयः शिखरी चीनपट्टवर्ण इति । षडपि चैते अद्रयः प्रत्येकं उभयपार्श्वगतार्धयोजन- विष्कम्भाद्रिसमायामाभ्यां बहुतोरणविभक्तैकपद्मवरवेदिकापरिवृतवनषण्डाभ्यामुपेताः । १५पुनरपि तद्विशेषणार्थमेवाह — मणिविचित्रपार्श्वा उपरि मूले च तुल्यविस्ताराः ॥ १३ ॥ नानावर्णप्रभावादिगुणोपेतैर्मणिभिर्विविधचित्राणि विवित्राणि, मणिविचित्राणि पार्श्वानि येषां त इमे मणिविचित्रपार्श्वाः । अनिष्टसंस्थाननिवृत्त्यर्थमुपर्यादिवचनम् । १ । अनिष्टसंस्थानस्य निवृत्त्यर्थमुपर्यादिवचनं २०क्रियते । चशब्दो मध्यसमुच्चयार्थः । य एषां मूलविस्तारः स उपरि मध्ये च तुल्यः । तेषां मध्ये लब्धास्पदा ह्रदा उच्यन्ते — पद्ममहापद्मतिगिञ्छकेसरिमहापुण्डरीकपुण्डरीका ह्रदास्तेषामुपरि ॥ १४ ॥ पद्मादिभिः सहचरणाद्ध्रदेषु पद्मादिव्यपदेशः । १ । पद्मं महापद्मं तिगिञ्छं केसरि महापुण्डरीकं पुण्डरीकमिति पद्मनामानि तैः सहचरणात् ह्रदेषु पद्मादिसंज्ञावृत्तिर्भवति । २५तेषां हिमवदादीनामुपरि यथाक्रमं ते ह्रदा वेदितव्याः । तत्राद्यस्य संस्थानविशेषप्रतिपत्त्यर्थमाह — प्रथमो योजनसहस्रायामस्तदर्धविष्कम्भो ह्रदः ॥ १५ ॥ प्राक् प्रत्यक् योजनसहस्रायामः उदगपाक् पञ्चयोजनशतविस्तारः वज्रमयतलः विविधमणिकनकरजतविचित्रतटः श्वेतवरकनकस्तूपिकालङ्कृतचतुस्तोरणविभक्तार्धयोजनो- १८५ त्सेधपञ्चधनुःशतविष्कम्भह्रदसमायामैकपद्मवरवेदिकापरिवृतः चतुर्दिग्गतचतुर्वनषण्डमण्डितः विमलस्फटिकमणिस्वच्छगम्भीराक्षयवारिः विविधजलजकुसुमपरिभ्राजितः शरदि प्रसन्नचन्द्र- ताराराजिविराजितपर्यन्तपरीतविचित्रपयोधरपटलः, विपर्यस्तो नभोभाग इव विभाति पद्मनामा ह्रदः । तस्यैवावगाहप्रतिपत्त्यर्थमिदमुच्यते — ०५दशयोजनावगाहः ॥ १६ ॥ अवगाहोऽधःप्रवेशो निम्नता । दशयोजनान्यवगाहोऽस्य दशयोजनावगाहः । तन्मध्ये योजनं पुष्करम् ॥ १७ ॥ योजनप्रमाणं योजनम् क्रोशायामपत्रत्वात्, क्रोशद्वयविष्कम्भकर्णिकत्वाच्च योजना- यामविष्कम्भम् । जलतलात् क्रोशद्वयोच्छ्रायनालं तावद्बहलपत्रप्रचयं वज्रमयमूलमरिष्टमणिकन्दं १०रजतमणिमृणालं वैडूर्यसुप्रतिष्ठनालम् । तस्य बाह्यपत्रं तपनीयपरिष्कृतम्, जाम्बूनदाभ्यन्तरदलं तपनीयकेसरं नानामणिविचित्रसुवर्णकर्णिकं पुष्करमवगन्तव्यं तदर्धोत्सेधैरष्टशतसंख्यैः पद्मैः परिवृतम् । तस्मात् पूर्वोत्तरोत्तरापरोत्तरासु तिसृषु दिक्षु श्रियः सामानिकदेवानां चत्वारि पद्मसहस्राणि । दक्षिणपूर्वस्यां दिश्यभ्यन्तरपरिषद्देवानां द्वात्रिंशत्पद्मसहस्राणि । दक्षिणस्यां मध्यमपरिषद्देवानां चत्वारिंशत्पद्मसहस्राणि । दक्षिणापरस्यां बाह्यपरिषद्देवानामष्टचत्वा- १५रिंशत्पद्मसहस्राणि । अपरस्यां सप्तानामनीकमहत्तराणां सप्तपद्मानि । चतसृषु महादिक्षु आत्मरक्षदेवानां षोडशपद्मसहस्राणि । तान्येतानि सर्वाणि परिवारपद्मानि तदर्धोत्सेधानि एकं शतसहस्रं चत्वारिंशत्सहस्राणि शतं च पञ्चदशम् । इतरेषां ह्रदानां पुष्कराणां चायामादिज्ञापनार्थमाह — तद्द्विगुणद्विगुणा ह्रदाः पुष्कराणि च ॥ १८ ॥ २०स च तच्च ते, तयोर्द्विगुणा द्विगुणास्तद्द्विगुणद्विगुणाः । द्विगुणद्विगुणा इति द्वित्वं व्याप्त्यर्थम् । १ । द्विगुणद्विगुणा इति द्वित्वम् उच्यते । किमर्थम् ? व्याप्त्यर्थम् । द्विगुणत्वेनोत्तरेषां व्याप्तिर्यथा स्यादिति । केन द्विगुणाः ? आया — मादिना । पद्मह्रदस्य द्विगुणायामविष्कम्भावगाहो महापद्मह्रदः । महापद्मह्रदस्य द्विगुणायाम- विष्कम्भावगाहस्तिगिञ्छह्रदः । पुष्कराणि च । किम् ? द्विगुणानि द्विगुणानि इत्यभिसम्बध्यते । २५द्वित्वात्तयोर्बहुवचनाभाव इति चेत्; न; विवक्षितापरिज्ञानात् । २ । स्यादेतत् — तयोर्ह्र- दयोः पुष्करयोश्च द्वित्वाद् बहुवचनं नोपपद्यते इति; तन्न; किं कारणम् ? विवक्षितापरि- ज्ञानात् । आद्यन्ताभ्यां पद्मपुण्डरीकह्रदाभ्यां तुल्यप्रमाणाभ्यामन्ये ह्रदा दक्षिणत उत्तरतश्च द्वैगुण्येन निर्दिष्टा इति विवक्षितोऽत्रायमर्थः । अतो बहुवचनमुपपद्यते । कथं पुनस्तच्छब्दे पूर्वनिर्दिष्टापेक्षे सत्यनिर्दिष्टार्थो गृह्यते ? १८६ बहुवचननिर्देशात्तद्ग्रहणम् । ३ । बहुवचननिर्देशात्तस्य ग्रहणं विज्ञायते । बहुवचननिर्देशात् केसर्यादयः कथन्न गृह्यन्ते ? व्याख्यानतो वक्ष्यमाणसंबन्धाच्चानिष्टनिवृत्तिः । ४ । *“व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्” [पातº महाº प्रत्याº सूº ६] इत्यनिष्टस्य निवृत्तिर्भवति । अथवा ०५वक्ष्यत एतत् — *“उत्तरा दक्षिणतुल्याः”[तº सूº३ । २६] इति तदभिसंबन्धाच्चेष्टसंप्रत्ययः कर्तव्यः । तद्यथा — महाहिमवत उपरि बहुमध्यदेशभावी महापद्मह्रदः, द्वियोजनसहस्रायामस्त- दर्धविष्कम्भो विंशतियोजनावगाहः । तन्मध्ये जलतलाद् द्विक्रोशोच्छ्रायं योजनबहलपत्रप्रचयं द्विक्रोशायामपत्रत्वाद् योजनायामकर्णिकत्वाच्च द्वियोजनविष्कम्भं पुष्करम् । तत्परिवार- पद्मसंख्या पूर्वोक्तैव । निषधस्योपरि बहुमध्यदेशभाक् तिगिञ्छह्रदः चतुर्योजनसहस्राया- १०मस्तदर्धविष्कम्भः, चत्वारिंशद्योजनावगाहः । तन्मध्ये जलतलाद् द्विक्रोशोद्गमं द्वियोजन- बहलपत्रप्रचयं योजनायामपत्रत्वाद् द्वियोजनायतकर्णिकत्वाच्चतुर्योजनायामविष्कम्भं पुष्करम् । तत्परिवारपद्मसंख्या पूर्वोक्तैव । नीलस्योपरि बहुमध्यदेशभावी केसरिह्रदः तिगिञ्छह्रदतुल्यः पद्मानि च तत्तुल्यप्रमाणानि । रुक्मिण उपरि बहुमध्यदेशभाक् महापुण्डरीको ह्रदः महा- पद्मह्रदतुल्यः, पद्मानि च तद्गतपद्मप्रमाणानि । शिखरिण उपरि बहुमध्यदेशभावी पुण्डरीको १५ह्रदः पद्मह्रदतुल्यः, पुष्कराणि च तद्गतपद्मप्रमाणानि । अत्र चोद्यते — तच्छब्दस्य यदि द्विगुणशब्देन वृत्तिः क्रियते द्वित्वं संघातस्य प्राप्नोति । अथ कृतद्वित्वेन तच्छब्दस्य वृत्तिः क्रियते समुदायस्याऽसुबन्तत्वाद् वृत्तिर्न प्राप्नोति । वीप्सायां द्वित्वे सति वाक्यमेवावतिष्ठत इति ? नैष दोषः; तदित्ययं निपातः अपादानार्थे वर्तते । तद् द्विगुणा द्विगुणा ततो द्विगुणा द्विगुणा इत्यर्थः । २०तन्निवासिनीनां देवीनां संज्ञाजीवितपरिवारप्रतिपादनार्थमाह — तन्निवासिन्यो देव्यः श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्यः पल्योपमास्थितयः ससामानिकपरिषत्काः ॥ १९ ॥ तेषु पुष्करे कर्णिकामध्यमैकदेशविनिवेशिनः शरद्विमलपूर्णचन्द्रद्युतिहराः क्रोशायाम- क्रोशार्धविष्कम्भदेशोनक्रोशोत्सेधाः प्रासादाः तेषु निवसन्तीत्येवं शीला देव्यस्तन्निवासिन्यः । २५ध्यादीनामितरेतरयोगे द्वन्द्वः । १ । श्रीश्च ह्रीश्च धृतिश्च कीर्तिश्च बुद्धिश्च लक्ष्मीश्च श्रीह्रीधृतिकीर्तिबुद्धिलक्ष्म्य इतीतरेतरयोगलक्षणो द्वन्द्वः । तेषु पद्मादिषु ह्रदेषु यथाक्रमं देव्यः श्र्यादयो वसन्ति । स्थितिविशेषनिर्ज्ञानार्थं पल्योपमवचनम् । २ । देवीसामान्यस्थितौ विशेषनिर्ज्ञानार्थं पल्योपमस्थितय इत्युच्यते । पल्योपमा स्थितिरासां ताः पल्योपमस्थितय इति । ३०परिवारनिर्ज्ञानार्थं सामानिकपरिषत्कवचनम् । ३ । परिवारप्रतिपत्त्यर्थं सामानिकपरि- षद्ग्रहणं क्रियते । समाने स्थाने भवाः सामानिकाः *“समानस्य तदादेश्च”[जैनेन्द्रवाº ३ । ३ । ३५] इति ठञ् । सामानिकाश्च परिषदश्च सामानिकपरिषदः । अभ्यर्हितत्वात् सामानिक- पदस्य पूर्वनिपातः । सह सामानिकपरिषद्भिर्वतन्ते इति ससामानिकपरिषत्काः । तेषां पद्मानि १८७ पूर्वनिर्दिष्टानि तन्मध्यवर्तिषु प्रासादेषु ते वसन्ति । यकाभिः सरिद्भिस्तानि क्षेत्राणि विभक्तानि ता उच्यन्ते — गङ्गासिन्धूरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्ण- कूलारूप्यकूलारक्तारक्तोदाः सरितस्तन्मध्यगाः ॥ २० ॥ ०५गङ्गादीनामितरेतरयोगे द्वन्द्वः । उदकस्य उदभाव उक्तः । सरितो न वाप्यः । ताः किमनन्तरा उत समीपा इति ? अत आह — तन्मध्यगा इति । तेषां क्षेत्राणां मध्ये मध्येन वा गच्छन्तीति तन्मध्यगाः । एकत्र सर्वासां प्रसङ्गनिवृत्त्यर्थं दिग्विशेषप्रतिपत्त्यर्थं चाह — द्वयोर्द्वयोः पूर्वाः पूर्वगाः ॥ २१ ॥ १०द्वयोर्द्वयोरेकक्षेत्रं विषयः इत्यभिसंबन्धादेकत्र सर्वासां प्रसङ्गनिवृत्तिः । १ । विकल्प्यो हि वाक्यशेषः । वाक्यं वक्तर्यधीनं (वक्त्रधीनम्) हीति इच्छातो वाक्यशेषप्रक्लृतेः, द्वयोर्द्व- योरेकक्षेत्रंविषय इत्यभिसंबन्धात् सर्वासां सरिताम् एकस्मिन् क्षेत्रे प्रसङ्गो निवर्तितो भवति । पूर्वाः पूर्वगा इतिवचनं दिग्विशेषप्रतिपत्त्यर्थम् । २ । तत्र पूर्वा याः सरितस्ताः पूर्वगाः । पूर्वसमुद्रं गच्छन्तीति पूर्वगाः । किमपेक्षं पूर्वत्वम् ? सूत्रनिर्देशापेक्षम् । यद्येवं गङ्गा- १५सिन्ध्वादयः सप्त पूर्वगा इति प्राप्तम् ? नैष दोषः; द्वयोर्द्वयोरित्यभिसंबन्धाद् द्वयोर्द्वयोः पूर्वाः पूर्वगा वेदितव्याः । ननु च द्वयोर्द्वयोरिति ग्रहणमन्यार्थमुक्तम् ? *“अन्यार्थमपि प्रकृतमन्यार्थं भवति”[पातº महाº १ । १ । २२] । इतरासां दिग्विभागप्रतिपत्त्यर्थमाह — शेषास्त्वपरगाः ॥ २२ ॥ २०द्वयोर्द्वयोरवशिष्टा यास्ता अपरगा प्रत्येतव्या अपरं समुद्रं गच्छन्तीत्यपरगाः । तत्र पद्मह्रदप्रभवा पूर्वतोरणद्वारनिर्गता गङ्गा । १ । क्षुल्लकहिमवत उपरि पद्मह्रदो वर्णितश्चतुस्तोरणद्वारमण्डितः । तत्र पूर्वतोरणद्वारेण निर्गता पञ्चयोजनशतानि प्राङ्मुखी गत्वा गङ्गाकूटं स्रोतसा आस्फाल्य पञ्चयोजनशतानि त्रयोविंशानि षट्चैकान्नविंशतिभागान् अपाङ्मुखी गत्वा स्थूलमुक्तावलीव साधिकयोजनशतप्रमाणधाराप्रपाता सक्रोशषड्योजनविस्तारा २५योजनार्धबाहुल्या षष्टियोजनायामविष्कम्भे दशयोजनावगाहे वज्रमयतले श्रीदेवीगृहप्रमाणप्रा- सादमण्डितमध्ये सद्विक्रोशदशयोजनोच्छ्रायाष्टयोजनायामविष्कम्भद्वीपालङ्कृतान्तरे कुण्डे पतिता । दक्षिणतोरणद्वारेण विनिःसृता अर्धगव्यूतावगाहा सक्रोशषड्योजनविस्तारा क्रमेण वर्धमाना भुजङ्गकुटिलगामिनी खण्डकप्रपातगुहामुखेन विजयार्धं व्यतीत्य दक्षिणमुखा दक्षिणार्धभरतमध्यं प्राप्य प्राङ्मुखी सती मुखे सक्रोशयोजनावगाहा सार्धद्विषष्टियोजनविस्तारा ३०लवणोदधिं मागधतीर्थेन प्राविशत् । अपरतोरणद्वाराद्विनिर्गता सिन्धूः । २ । पाश्चात्यतोरणद्वाराद्विनिर्गता पञ्चयोजनशतं गत्वा सिन्धूकूटं वीचीबाहू पगूहेनास्फाल्य गङ्गावत्सिन्धूकुण्डे पतिता तमिस्रगुहामुखागतेन विज- १८८ यार्धं व्यतीत्य प्रभासतीर्थेनापरसमुद्रं प्राविक्षत् । तत्र गङ्गाकुण्डद्वीपप्रासादे गङ्गादेवी वसति । सिन्धूकुण्डद्वीपप्रासादे सिन्धूदेवी वसति । हिमवत उपरि किञ्चित्प्राक् प्रत्यक् चातीत्य गङ्गा- सिन्ध्वोर्मध्ये द्वे पद्माकारे कूटे वैडूर्यपरिणामनाले जलस्योपरि क्रोशमुच्छ्रिते क्रोशद्वयायामवि- ष्कम्भे लोहिताक्षमणिमयार्धगव्यूतायतपत्रे तपनीयकेसरे अर्कमणिनिर्वृत्तगव्यूतायतकर्णिके । ०५तयोः कर्णिकयोर्मध्ये रत्नमयमेकैकं कूटम् । तत्र चैकैकः प्रासादः । प्राच्यकूटप्रासादे पल्योपमस्थि- तिका वला नाम देवी वसति । प्रतीच्यप्रासादकूटे पल्योपमस्थितिका लवणा नाम देवी वसति । उदीच्यतोरणद्वारनिर्गता रोहितास्या । ३ । पद्मह्रदस्यैव उदीच्यतोरणद्वारनिर्गता द्वे योज- नशते षट्सप्तत्युत्तरे षट्चैकान्नविंशतिभागान् हिमवत उपरि उदङ्मुखी गत्वा गङ्गातुल्यायाम- धाराप्रपाता अर्धत्रयोदशयोजनविस्तारा योजनबाहल्या विंशतियोजनशतायामविष्कम्भे विंश- १०तियोजनावगाहे वज्रतले श्रीदेवीगृहप्रमाणप्रासादमण्डितमध्ये सद्विक्रोशदशयोजनोच्छ्रायषोडश- योजनायामविष्कम्भद्वीपालङ्कृतान्तरे कुण्डे पतिता । ततः कुण्डादुदीच्यतोरणद्वारेण निर्गता उदङ्मुखी शब्दवद्वृत्तवेदाढ्यं प्रदक्षिणीकृत्यार्धयोजनेनाप्राप्ता प्रत्यङ्मुखी सती प्रभवे क्रोशा- वगाहाऽर्धत्रयोदशयोजनविष्कम्भा मुखेऽर्धतृतीययोजनावगाहा पञ्चविंशतियोजनशतविष्कम्भा रोहितास्या अपरलवणोदधिं प्राविशत् । रोहितास्याकुण्डप्रासादे रोहितास्या देवी वसति । १५महापद्मह्रदप्रभवाऽपाच्यतोरणद्वारनिर्गता रोहित् । ४ । महाहिमवत उपरि महापद्मह्र- दादपाच्यतोरणद्वारेण निर्गता षोडशयोजनशतानि पञ्चोत्तराणि पञ्चैकान्नविंशतिभागान् अपागागम्य पतितेत्यादि रोहितास्यया तुल्यम् । अयं तु विशेषः — साधिकद्वियोजनशतायाम- धारा । रोहित्कुण्डप्रासादनिवासिनी रोहित् देवी । सा रोहिन्महानदी पूर्वार्णवं प्राविशत् । उदीच्यतोरणद्वारनिर्गता हरिकान्ता । ५ । तत एव महापद्मह्रदादुदीच्यतोरणद्वारेण निर्गता २०हरिकान्ता नाम महानदी रोहिदिवाद्रितले गत्वा उदङ्मुखी साधिकद्वियोजनशतधाराप्रपाता द्वियोजनबाहल्या पञ्चविंशतियोजनविस्तारा श्रीदेवीगृहतुल्यप्रासादमण्डितमध्ये सद्विक्रोशदश — योजनोच्छ्रायद्वात्रिंशद्योजनायामविष्कम्भद्वीपालङ्कृतान्तरे चत्वारिंशद्योजनावगाहे चत्वा — रिंशद्द्विशतयोजनायामविष्कम्भे वज्रतले कुण्डे पतिता । ततः कुण्डादुदीच्यतोरणद्वारेण निर्गता प्रभवेऽर्धयोजनावगाहा पञ्चविंशतियोजनविष्कम्भा विकृतवद्वृत्तवेदाढ्यमर्धयोजनेनाप्राप्य २५प्रदक्षिणीकृत्य प्रत्यङ्मुखी सती मुखे पञ्चयोजनावगाहा अर्धतृतीययोजनशतविष्कम्भा पाश्चात्याऽर्णवं प्राविक्षत् । हरिकान्ताकुण्डप्रासादे हरिकान्तादेवी वसति । तिगिञ्छह्रदप्रभवा दक्षिणद्वारनिर्गता हरित् । ६ । निषधस्योपरि तिगिञ्छह्रदाद् दक्षिण- तोरणद्वारेण विनिःसृता हरिन्महानदी सप्तसहस्राणि चत्वारि शतान्येकविंशानि योजनानामेकं चैकान्नविंशतिभागमद्रितले प्राङ्मुखी गत्वा पतितेत्यादि सर्वं हरिकान्तातुल्यम् । अयं तु ३०विशेषः साधिकचतुर्योजनशतायामधारा । हरिकुण्डप्रासादनिवासिनी हरिदेवी । सा प्राच्यमु — दधिं प्राविक्षत् । उदीच्यतोरणद्वारविनिर्गता सीतोदा । ७ । तत एव तिगिञ्छह्रदादुदीच्यतोरणद्वारेण हरिदिवाद्रितले गत्वोदङ्मुखी साधिकचतुर्योजनशतधाराप्रपाता चतुर्योजनबाहल्या पञ्चाशद्यो — १८९ जनविस्तारा श्रीदेवीगृहप्रमाणप्रासादमण्डितमध्ये सद्विक्रोशदशयोजनोच्छ्रायचतुष्षष्टियोजनाया — मविष्कम्भद्वीपालङ्कृतान्तरे साशीतिचतुर्योजनशतायामविष्कम्भे अशीतियोजनावगाहे वज्रतले कुण्डे पतिता । ततः कुण्डादुदीच्यतोरणद्वारेण निर्गता देवकुरुषु चित्रविचित्रकूटमध्येनोद — ङ्मुखी गत्वा अर्धयोजनेनाऽप्राप्ता मेरुं प्रदक्षिणीकृत्य विद्युत्प्रभं विदार्य अपरविदेहमध्यगामिनी, ०५प्रभवे योजनावगाहा पञ्चाशद्योजनविस्तारा मुखे दशयोजनावगाहा पञ्चयोजनशतविस्तारा सीतोदा नाम महानदी पाश्चात्यसमुद्रं प्राविक्षत् । सीतोदाकुण्डप्रासादनिवासिनी सीतोदा देवी । केसरिह्रदप्रभवाऽपाच्यद्वारनिर्गता सीता । ८ । नीलस्योपरि केसरिह्रदादपाच्यतोरणद्वारेण निर्गता सीता महानदीत्यादि सर्वं सीतोदातुल्यम् । अयं तु विशेषः सीताकुण्डप्रासादे सीतादेवी १०वसति । सा माल्यवन्तं विदार्य पूर्वविदेहमध्यगामिनी प्राच्यसमुद्रं प्राविक्षदिति । उदीच्यतोरणद्वारनिर्गता नरकान्ता । ९ । तत एव केसरिह्रदादुदीच्यतोरणद्वारेण निर्गता नरकान्ता महानदीत्यादि सर्वं हरिता व्याख्यातम् । अयं तु विशेषः नरकान्ताकुण्डप्रासादे नरकान्ता देवी वसति । गन्धवद्वृत्तवेदाढ्यं प्रदक्षिणीकृत्य पाश्चात्यसमुद्रं प्राविक्षदिति । महापुण्डरीकह्रदप्रभवा दक्षिणतोरणद्वारनिर्गता नारी । १० । रुक्मिण उपरि महापुण्डरीक- १५ह्रदाद् दक्षिणतोरणद्वारेण निर्गता नारी महानदीत्यादि सर्वं हरि(नर)कान्तया व्याख्यातम् । अयं तु विशेषः नारीकुण्डप्रासादे नारीदेवी वसति । गन्धवद्वृत्तवेदाढ्यं प्रदक्षिणीकृत्य पूर्वो- दधिं प्राविशदिति । उदीच्यद्वारनिर्गता रूप्यकूला । ११ । तस्मादेव महापुण्डरीकह्रदादुदीच्यतोरणद्वारेण निर्गता रूप्यकूला महानदीत्यादि सर्वं तु रोहिता व्याख्यातम् । अयं तु विशेषः रूप्यकूलाकुण्ड- २०प्रासादे रूप्यकूला देवी वसति । माल्यवद्वृत्तवेदाढ्यं प्रदक्षिणीकृत्य प्रतीच्यसमुद्रं प्राविक्षदिति । पुण्डरीकह्रदप्रभवापाच्यतोरणद्वारनिर्गता सुवर्णकूला । १२ । शिखरिण उपरि पुण्डरीक- ह्रदाद् दक्षिणतोरणद्वारेण निर्गता सुवर्णकूला महानदीत्यादि सर्वं रोहितास्यया व्याख्यातम् । अयं तु विशेषः सुवर्णकूलाकुण्डप्रासादे सुवर्णकूला देवी वसति । माल्यवद्वृत्तवेदाढ्यं प्रदक्षिणी- कृत्य प्राच्यमर्णवं प्राविक्षदिति । २५पूर्वतोरणद्वारनिर्गता रक्ता । १३ । तस्मादेव पुण्डरीकह्रदात् पूर्वतोरणद्वारेण विनिर्गता रक्ता महानदीत्यादि सर्वं गङ्गया व्याख्यातम् । अयं तु विशेषः रक्ताकुण्डप्रासादे रक्तादेवी वसति । प्रतीच्यद्वारनिर्गता रक्तोदा । १४ । तस्मादेव पुण्डरीकह्रदात् प्रतीच्यतोरणद्वारेण विनिर्गता रक्तोदा महानदीत्यादि सर्वं सिन्ध्वा वर्णितम् । अयं तु विशेषः रक्तोदाकुण्डप्रासादे ३०रक्तोदा देवी वसति । गङ्गासिन्धूरक्तारक्तोदाः भुजङ्गकुटिलगतयः अन्यत्र गिरितलधाराप्रपाताभ्याम्, शेषा ऋजुगतयः अन्यत्र मेरुनाभिगिरिप्रदेशेभ्यः । चतुर्दशाप्येता अर्धयोजनविष्कम्भनदीसमायामाभ्या — मुभयपार्श्वगताभ्यां प्रत्येकमर्धयोजनोत्सेधपञ्चधनुःशतविष्कम्भवनसमायामपद्मवरवेदिका- द्वयपरिवृताभ्यां वनषण्डाभ्यामलङ्कृताः । ३५तासां परिवारप्रतिपादनार्थमाह — १९० चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः ॥ २३ ॥ गङ्गासिन्ध्वाद्यग्रहणं प्रकरणादिति चेत्; न; अनन्तरग्रहणप्रसङ्गात् । १ । स्यान्मतम् — गङ्गासिन्ध्वादिग्रहणमनर्थकम् । कुतः ? प्रकरणात् । प्रकृताहिता इति; तन्न; किं कारणम् ? ०५अनन्तरग्रहणप्रसङ्गात् । “अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा”[पातº महाº १ । २ । ४७] इति अपरगानामेव ग्रहणं स्यात् । गङ्गादिग्रहणमिति चेत्; न; पूर्वगाग्रहणप्रसङ्गात् । २ । अथ मतम् — गङ्गादिग्रहणमे — वास्तु अनन्तरनिवृत्त्यर्थमिति; तच्च न; कस्मात् ? पूर्वगाग्रहणप्रसङ्गात् । गङ्गादयो हि पूर्वगा इति । १०नदीग्रहणात् सिद्धिरिति चेत्; न; द्विगुणाभिसंबन्धार्थत्वात् । ३ । स्यादेतत् — नद्यः प्रकृतास्ततो नदीग्रहणमन्तरेणापि नदीसंप्रत्यये सिद्धे तद्ग्रहणं सर्वनदीसंप्रत्ययार्थं भविष्यति नार्थो गङ्गासिन्ध्वादिग्रहणेनेति ? तन्न; किं कारणम् ? द्विगुणाभिसंबन्धार्थत्वात् । द्विगुणा द्विगुणा इत्यस्याभिसंबन्ध इह कथं स्यादिति गङ्गासिन्ध्वादिग्रहणं क्रियते । किं गतमेतदनेन आहोस्विच्छब्दाधिक्यादर्थाधिक्यं गतमिति ? आह । कथम् ? द्विगुणानुवृत्तौ १५गङ्गाचतुर्दशनदीसहस्रपरिवृता तद्द्विगुणनदीसहस्रपरिवारा सिन्धूरिति प्रसक्ते तन्निवृत्त्यर्थं गङ्गासिन्धूग्रहणमिति । तत्र गङ्गासिन्ध्वौ प्रत्येकं चतुर्दशनदीसहस्रपरिवृते । ततो द्विगुणा द्विगुणाः परिवारनद्यो वेदितव्या आसीतोदायाः, ततः परतोऽर्धहीनाः । उक्तो जम्बूद्वीपविष्कम्भाम्भोनिधिह्रदसरित्पर्वतवर्षनिवेशक्रमः । इदमिदानीं प्रक्रि- यतां किममूनि क्षेत्राणि तुल्यविस्ताराण्युत विस्तारविशेषोऽस्तीति ? अत आह — २०भरतः षड्विंशपञ्चयोजनशतविस्तारः षट्चैकान्नविंशति- भागा योजनस्य ॥ २४ ॥ षडधिका विंशतिः षड्विंशतिः षड्विंशतिरधिका येषु तानि षड्विंशानि पञ्चयोजन- शतानि विस्तारोऽस्य षड्विंशपञ्चयोजनशतविस्तारो भरतः । किमेतावानेव ? नेत्याह — षट्चैकान्नविंशतिभागा योजनस्य, विस्तारोऽस्येत्यभिसंबध्यते । २५इतरेषां विष्कम्भविशेषप्रतिपत्त्यर्थमाह — तद्द्विगुणाद्विगुणविस्तारा वर्षधरवर्षा विदेहान्ताः ॥ २५ ॥ ततो द्विगुणो द्विगुणो विस्तारो येषां त इमे तद्द्विगुणद्विगुणविस्ताराः । वर्षधरशब्दस्य पूर्वनिपात आनुपूर्व्यप्रतिपत्त्यर्थः । १ । वर्षधरशब्दस्य पूर्वनिपातः क्रियते आनुपूर्व्यप्रतिपत्तिर्यथा स्यादिति । इतरथा हि वर्षधराश्च वर्षाश्चेति द्वन्द्वे वर्षशब्दस्य ३०पूर्वनिपातः प्रसज्येत अल्पाच्तरत्वात् । न च लक्षणमस्ति आनुपूर्व्यप्रतिपत्त्यर्थः पूर्वप्रयोगः कर्तव्य इति ? सत्यं नास्ति कण्ठोक्तम्, ज्ञापकात्तु भवति *“लक्षणहेत्वोः क्रियायाः” [जैनेन्द्रº २ । २ । १०४] इति । १९१ विदेहान्तवचनं मर्यादार्थम् । २ । विदेहः अन्तो येषां त इमे विदेहान्ता इति मर्यादा क्रियते । इतरथा हि नीलादयोऽपि द्विगुणद्विगुणविस्ताराः प्रसज्येरन् । तथाहि — हिमवतो विष्कम्भो द्विपञ्चाशमेकं योजनसहस्रं द्वादश चैकान्नविंशतिभागाः । हैमवतस्य द्वियोजन — सहस्रे पञ्चोत्तरशतं पञ्च चैकान्नविंशतिभागाः । महाहिमवतश्चत्वारि योजनसहस्राणि ०५दशाधिके द्वे शते दश चैकान्नविंशतिभागाः । हरिवर्षस्याष्टौ योजनसहस्राणि चत्वारि शतानि एकविंशानि एकश्चैकान्नविंशतिभागः । निषधस्य षोडशयोजनसहस्राणी अष्टौ शतानि द्विचत्वारिंशानि द्वौ चैकान्नविंशतिभागौ । विदेहस्य त्रयस्त्रिंशद्योजनसहस्राणि षट्शतानि चतुरशीत्यधिकानि चत्वारश्चैकान्नविंशतिभागाः । यद्येवं भरतादीनां विदेहान्तानां विस्तारक्रम उक्तः, अथोत्तरेषां कथमिति ? अत १०आह — उत्तरा दक्षिणतुल्याः ॥ २६ ॥ उत्तरा ऐरावतादयः नीलान्ता भरतादिभिर्दक्षिणैस्तुल्याः द्रष्टव्याः, अतीतस्य सर्वस्यायं विशेषो द्रष्टव्यः । अत्राह — उक्तेषु भरतादिषु क्षेत्रेषु मनुष्याणां किं तुल्योऽनुभवादिः आहोस्वित्कश्चिदस्ति १५प्रतिविशेष इति ? अत आह — भरतैरावतयोर्वृद्धिह्रासौ षट्समयाम्यामुत्सर्पिण्यवसर्पिणीभ्याम् ॥ २७ ॥ इमौ वृद्धिह्रासौ कस्य ? भरतैरावतयोः । ननु ते क्षेत्रे व्यवस्थितावधिके कथं तयोर्वृद्धिह्रासौ ? अत उत्तरं पठति — तात्स्थ्यात्ताच्छब्द्यसिद्धिर्भरतैरावतयोर्वृद्धिह्रासयोगः । १ । इह लोके तात्स्थ्यात्ताच्छब्द्यं २०भवति, यथागिरिस्थेषु वनस्पतिषु दह्यमानेषु गिरिदाह इत्युच्यते, तथा भरतैरावतस्थेषु मनुष्येषु वृद्धिह्रासावापद्यमानेषु भरतैरावतयोर्वृद्धिह्रासावुच्येते । अधिकरणनिर्देशो वा । २ । अथवा भरतैरावतयोरित्यधिकरणनिर्देशोऽयम्, स चाधेय- माकाङ्क्षतीति भरते ऐरावते च मनुष्याणां वृद्धिह्रासौ वेदितव्यौ । किं कृतौ पुनस्तौ ? अनुभवायुःप्रमाणादिकृतौ वृद्धिह्रासौ । ३ । अनुभवः उपभोगपरिभोगसम्पत्, आयु- २५र्जीवितपरिमाणम्, प्रमाणं शरीरोत्सेध इत्येवमादिकृतौ मनुष्याणां वृद्धिह्रासौ प्रत्येतव्यौ । किं हेतुकौ पुनस्तौ ? कालहेतुकौ । स च कालो द्विविधः — उत्सर्पिणी अवसर्पिणी चेति । तद्भेदाः षट् प्रत्येकम् । अन्वर्थसंज्ञे चैते । अनुभवादिभिरवसर्पणशीला अवसर्पिणी । ४ । अनुभवादिभिः पूर्वोक्तैरवसर्पणशीला हानि- स्वाभाविका अवसर्पिणीसमा । ३०तद्विपरीतोत्सर्पिणी । ५ । तद्विपरीतैरेवोत्सर्पणशीला वृद्धिस्वाभाविकोत्सर्पिणीत्युच्यते । तत्रावसर्पिणी षड्विधा — सुषमसुषमा-सुषमा-सुषमदुःषमा-दुःषमसुषमा-दुःषमा-अतिदुःषमा चेति । उत्सर्पिण्यपि अतिदुःषमाद्या सुषमसुषमान्ता षड्विधैव भवति । अवसर्पिण्याः परिमाणं दश सागरोपमकोटीकोट्यः, उत्सर्पिण्यपि तावत्येव । सोभयी कल्प इत्याख्यायते । १९२ तत्र सुषमसुषमा चतस्रः सागरोपमकोटीकोट्यः । तदादौ मनुष्या उत्तरकुरुमनुष्यतुल्याः । ततः क्रणेण हानौ सत्यां सुषमा भवति तिस्रः सागरोपमकोटीकोट्यः । तदादौ मनुष्या हरिवर्षमनुष्यसमाः । ततः क्रमेण हानौ सुषमदुःषमा भवति द्वे सागरोपमकोटीकोट्यौ तदादौ मनुष्या हैमवतमनुष्यसमाना भवन्ति । ततः क्रमेण हानौ सत्यां दुःषमसुषमा भवति ०५एकसागरोपमकोटीकोटी द्विचत्वारिंशद्वर्षसहस्रोना । तदादौ मनुष्या विदेहजनतुल्या भवन्ति । ततः क्रमेण हानौ सत्यां दुःषमा भवति एकविंशतिवर्षसहस्राणि । ततः क्रमेण हानौ सत्यां अतिदुःषमा भवति एकविंशतिवर्षसहस्राणि । एवमुत्सर्पिण्यपि विपरीतक्रमा वेदितव्या । अथेतरासु भूमिषु काऽवस्थितिः ? अत आह — ताभ्यामपरा भूमयोऽवस्थिताः ॥ २८ ॥ १०ताभ्यां भरतैरावताभ्यामपरा भूमय अवस्थिता भवन्ति । न हि तत्रोत्सर्पिण्यव — सर्पिण्यौ स्तः । किं तासु भूमिषु मनुष्यास्तुल्यायुष आहोस्वित् कश्चिदस्ति प्रतिविशेष इति ? अस्तीत्याह — एकद्वित्रिपल्योपमस्थितयो हैमवतकहारिवर्षकदैवकुरवकाः ॥ २९ ॥ हैमवतादिभ्यो भवार्थे वुञ् मनुष्यप्रतिपत्त्यर्थः । १ । हैमवते भवा इत्येवमादिना विग्रहेण १५वुञि कृते हैमवतकादिसिद्धिर्भवति । स किमर्थः ? मनुष्यप्रतिपत्त्यर्थः । तत्र भवा मनुष्याः प्रतिपद्येरन्निति । एकादीनां हैमवतकादिभिर्यथासंख्यं संबन्धः । २ । हैमवतकादयस्त्रय एकादयस्त्रयः तत्र यथासंख्यं संबन्धो भवति । एकपल्योपमस्थितयो हैमवतकाः । द्विपल्योपमस्थितयो हारिवर्षकाः । त्रिपल्योपमस्थितयो दैवकुरवका इति । तत्र पञ्चसु हैमवतेषु सुषमदुःषमा २०सदा अवस्थिता । तत्र मनुष्या एकपल्योपमायुषो द्विधनुःसहस्रोच्छ्रिताश्चतुर्थभक्ताहारा नीलोत्पलवर्णाः । पञ्चसु हरिवर्षेषु सुषमा सदा अवस्थिता, तत्र मनुष्या द्विपल्योपमस्थितयः चतुश्चापसहस्रोत्सेधाः षष्ठभक्ताहाराः शङ्खवर्णाः । पञ्चसु देवकुरुषु सुषमसुषमा सदा अवस्थिता, तत्र मनुष्यास्त्रिपल्योपमायुषः षड्धनुःसहस्रोत्सेघा अष्टमभक्ताहारा कनकवर्णाः । अथोत्तरेषु काऽवस्थेति ? अत आह — २५तथोत्तराः ॥ ३० ॥ यथा दक्षिणाः तथोत्तरा वेदितव्याः । हैरण्यवतका हैमवतकैस्तुल्याः । राम्यका हारिवर्षकैस्तुल्याः । दैवकुरवकैरौत्तरकुरवका व्याख्याताः । अथ विदेहष्ववस्थितेषु का स्थितिक्रिया ? अत उच्यते — विदेहेषु संख्येयकालाः ॥ ३१ ॥ ३०सर्वेषु विदेहेषु संख्येयकालाः मनुष्याः । तत्र कालः सुषमदुःषमान्तोपमः सदा अवस्थितः । मनुष्याश्च पञ्चधनुःशतोत्सेधा नित्याहाराः उत्कर्षेण एकपूर्वकोटिस्थितिका जघन्येनान्त- र्मुहूर्तायुषः । १९३ भरतस्य विष्कम्भो जम्बूद्वीपस्य नवतिशतभागः ॥ ३२ ॥ किमर्थमिदमुच्यते ननु पुरस्ताद्भरतस्य विष्कम्भो व्याख्यातः ? पुनर्भरतविष्कम्भवचनं प्रकारान्तरप्रतिपत्त्यर्थम् । १ । पुनर्भरतविष्कम्भ उच्यते प्रकारा- ०५न्तरेण प्रतिपत्तिः कथं स्यादिति । भरतविष्कम्भप्रमाणैः खण्डैः छिद्यमानो जम्बूद्वीपः नवत्यु- त्तरेण खण्डशतेन परिच्छिद्यत इत्यर्थः । उत्तराभिसम्बन्धार्थं वा । २ । अथवा, उत्तरत्र वक्ष्यते — *“द्विर्धातकी खण्डे । पुष्करार्धे च” [तº सूº३ । ३३ — ३४] इति, तदभिसंबन्धार्थं पुनर्वचनं क्रियते । तलमूलयोर्दशयोजनसहस्रविस्तारो लवणोदः । ३ । समे भूमितले द्वियोजनशतसहस्रवि- १०ष्कम्भ इत्युक्तं पुरस्तात् । तस्य गोतीर्थवदुभयतोऽधः क्रमेण हान्या मूले दशयोजनसहस्र- विस्तारः तावद्विष्कम्भजलतलः योजनसहस्रावगाहः समाद् भूमितलादूर्ध्वं षोडशयोजनसह- स्रजलोत्सेधः यवराशिरिवोच्छ्रितजलः मृदङ्गसंस्थानो लवणोदो वेदितव्यः । तन्मध्ये दिक्षु महापातालानि योजनशतसहस्रावगाहानि । ४ । तस्य लवणोदस्य मध्ये चतसृषु दिक्षु रत्नवेदिकायाः पञ्चनवतियोजनसहस्राणि तिर्यगतीत्य क्षितिविवराणि वज्र- १५मयतलपार्श्वानि, अलिञ्जरसंस्थानानि प्रत्येकमेकयोजनशतसहस्रावगाहानि तावन्मध्यविष्क- म्भाणि तलमूलयोर्दशयोजनसहस्रविस्ताराणि महापातालानि वेदितव्यानि चत्वारि — पाताल- बडवामुख-यूपकेसर-कलम्बुकसंज्ञानि । तत्र प्राच्यां दिशि पातालम्, प्रतीच्यां बडवामुखम्, उदीच्यां यूपकेसरम्, अपाच्यां कलम्बुकम् । तेषामेकैकस्त्रिभागस्त्रयस्त्रिंशत्सहस्राणि योजनानां त्रीणि शतानि त्रयस्त्रिंशानि योजनत्रिभागश्च साधिकः । तेषामधस्त्रिभागे वातस्तिष्ठति । २०मध्यत्रिभागे वायुतोये । उपरित्रिभागे तोयम् । रत्नप्रभाखरपृथ्वीभागसन्निवेशिभवनालयवात- कुमारतद्वनिताक्रीडाजनिताऽनिलसंक्षोभकृतपातालोन्मीलननिमीलनहेतुकौ वायुतोयनिष्क्रम- प्रवेशौ भवतः । तत्कृता दशयोजनसहस्रविस्तारमुखजलस्योपरि पञ्चाशद्योजनावधृता जल — वृद्धिः । तत उभयत आरत्नवेदिकायाः सर्वत्र द्विगव्यूतप्रमाणा जलवृद्धिः । पातालोन्मीलन- वेगोपशमेन हानिः । पातालानां चतुर्णामप्यन्तराणि प्रत्येकं द्वे शतसहस्रे सप्तविंशतिसहस्राणि २५सप्ततिशतं च योजनानां त्रीणि च गव्यूतानि साधिकानि । विदिक्षु क्षुद्रपातानि दशयोजनसहस्रावगाहानि । ५ । तन्मध्ये चतसृषु विदिक्षु चत्वारि क्षुद्रपातालानि दशयोजनसहस्रावगाहानि तावन्मध्यविष्कम्भाणि मुखमूलयोर्योजनसहस्रविस्ता- राणि वेदितव्यानि । तेषामेकैकस्त्रिभागस्त्रीणि सहस्राणि त्रीणि शतानि त्रयस्त्रिंशानि योज- नानां योजनत्रिभागश्च साधिकः । अधस्त्रिभागे वातः, मध्यत्रिभागे वायुतोये, उपरि ३०त्रिभागे तोयम् । तदन्तरेषु क्षुद्रपातालानां योजनसहस्रावगाहानां सहस्रम् । ६ । तेषां दिग्विदिग्विभागानां पातालानाम् अन्तरेष्वष्टास्वपि योजनसहस्रावगाहानां तावन्मध्यविष्कम्भाणां मुखमूलयोस्त- दर्धविस्ताराणां क्षुद्रपातालानां सहस्रं प्रत्येतव्यम् । तेषां त्रिभागाः पूर्ववद्वेदितव्याः । तत्रैकैक- स्मिन्नन्तरे क्षुद्रपातालानां मुक्तावलीवदवस्थितानां शतं पञ्चविंशमन्यान्यपि पातालानि ३५सन्ति । अन्तरालेषु सप्तसहस्राण्यष्टौ शतान्यशीतिश्च पातालसमुदायः । १९४ दिक्षु वेलन्धरनागाधिपतिनगराणि चत्वारि । ७ । रत्नवेदिकायास्तिर्यग्द्वाचत्वारिंशद्यो- जनसहस्राणि गत्वा चतसृषु दिक्षु द्वाचत्वारिंशद्योजनसहस्रायामविष्कम्भाणि चत्वारि वेलन्ध- रनागाधिपतिनगराणि भवन्ति । तेषु वेलन्धरनागाधिपतयः पल्योपमायुषो दशकार्मु कोत्सेधाः प्रत्येकं चतसृभिरग्रमहिषीभिः परिवृता वेलन्धरनागाश्च निवसन्ति । तत्र द्वाचत्वारिंशन्नाग- ०५सहस्राणि लवणोदाभ्यन्तरवेलां धारयन्ति । द्वासप्ततिर्नागसहस्राणि बाह्यवेलां धारयन्ति । अष्टाविंशतिर्नागसहस्राणि अग्रोदकं धारयन्ति । तान्येतानि समुदितान्येकं शतसहस्रं द्वाचत्वारिं- शच्च सहस्राणि । द्वादशयोजनसहस्रायामविष्कम्भो गौतमद्वीपश्च । ८ । रत्नवेदिकायास्तिर्यग्द्वादशयोजन- सहस्राणि गत्वा द्वादशयोजनसहस्रायामविष्कम्भो गौतमस्य समुद्राधिपतेर्द्वीपश्च तत्र भवति । १०रत्नवेदिकायास्तिर्यक्पञ्चनवतिप्रदेशेषु गतेषु एकः प्रदेशावगाहः, पञ्चनवतिहस्तेषु गतेष्वेकहस्तावगाहः, पञ्चनवतियोजनेषु गतेष्वेकयोजनावगाहः, पञ्चनवतियोजनशतेषु गते- ष्वेकयोजनशतावगाहः, पञ्चनवतियोजनसहस्रेषु गतेष्वेकयोजनसहस्रावगाहः । लवणोदस्यान्ते यथा वेला तथा बहिरपि, विजयादीनि द्वाराणि चात्र । लवणोदस्यैव वेला नान्योदधीनां तत्रैव च पातालानि नान्यत्र । सर्वे च लवणोदादयः स्वयम्भूरमणपर्यन्ता एकयोजनसहस्रा- १५वगाहाः । द्वीपोदधिपर्यन्ते चोभे वेदिके । या द्वीपान्ते ता द्वीपानां याः समुद्रान्ते ताः समुद्रा — णाम् । लवणोद उच्छ्रितसलिलः, शेषाः प्रस्तारजलाः । भिन्नरसाश्चत्वारः, त्रय उदकरसाः, शेषा इक्षुरसाः सागराः । लवणोदो लवणरसजलः । वारुण्युदो वारुणीरसजलः । क्षीरोदः क्षीररसजलः । घृतोदो घृतरसजलः । कालोदपुष्करोदस्वयम्भूरमणोदा उदकरसाः । लवणोद- कालोदस्वयम्भूरमणोदा मत्स्यकूर्मादिजलचरावासाः नेतरे । लवणोदे नदीमुखे नवयोजन- २०शरीरा मत्स्याः, सागराभ्यन्तरेऽष्टादशयोजनशरीराः । कालोदे नदीमुखेऽष्टादशयोजन — शरीरा मत्स्याः, सागराभ्यन्तरे षट्त्रिंशद्योजनशरीराः । स्वयम्भूरमणोदे नदीमुखे पञ्चशत- योजनशरीरा मत्स्याः, सागराभ्यन्तरे एकयोजनसहस्रशरीरा मत्स्याः । योऽयं वर्षवर्षधरह्रदपुष्करादीनां संख्याविष्कम्भादिविधिरुक्तो जम्बूद्वीपे, तद्द्विगुणो धातकीषण्ड इति प्रतिपादयितुमिच्छन्नाह — २५द्विर्धातकीषण्डे ॥ ३३ ॥ द्रव्याभ्यावृत्तौ सुजभाव इति चेत्; न; क्रियाध्याहाराद् द्विस्तावानिति यथा । १ । स्यान्मतम् — भरतादीनि द्रव्याणि अत्राभ्यावर्तन्ते न तु क्रिया तस्मान्नास्ति सुजिति ? तन्न; किं कारणम् ? क्रियाध्याहारात् । यथा द्विस्तावानयं प्रासाद इति ‘मीयते’ इत्येवमाद्यध्याह्रि- यमाणक्रियापेक्षया सुजुत्पत्तिः, एवमिहापि धातकीषण्डे भरतादयो ‘द्विःसंख्यायन्ते’ इत्येवं ३०सामर्थ्यप्रापितक्रियापेक्षया सुज्वेदितव्यः । तच्च संख्यानं द्विधा — स्वरूपभेदेन विष्कम्भादिभेदेन च । तत्र स्वरूपसंख्यानं द्वौ भरतौ द्वौ हिमवन्तावित्येवमादि । विष्कम्भादिसंख्यानं जम्बूद्वीपे हिमवदादीनां वर्षधराणां यो विष्कम्भः तद्द्विगुणो धातकीषण्डे हिमवदादीनामिति । १९५ अथ धातकीषण्डे भरतस्य को विष्कम्भः ? उच्यते — षट्षष्टिशतानि चतुर्दशानि योजनानां धातकीषण्डभरताभ्यन्तरविष्कम्भः एकान्नत्रिं — शच्च भागशतम् । २ । षट्सहस्राणि षट्शतानि चतुर्दशोत्तराणि योजनानां योजनस्य द्वादश- द्विशतभागाः एकान्नत्रिंशच्च भागशतं धातकीषण्डभरताभ्यन्तरविष्कम्भः । ०५सैकाशीतिपञ्चशताधिकद्वादशसहस्राणि मध्यविष्कम्भः षट्त्रिंशच्च भागाः । ३ । द्वादश- सहस्राणि योजनानां पञ्चशतान्येकाशीत्युत्तराणि षट्त्रिंशच्च भागा धातकीषण्डभरतमध्य- विष्कम्भः । सप्तचत्वारिशत्पञ्चशताष्टादशसहस्राणि बाह्यविष्कम्भः पञ्चपञ्चाशञ्च भागश- तम् । ४ । अष्टादशसहस्राणि योजनानां पञ्चशतानि सप्तचत्वारिंशानि पञ्चपञ्चाशञ्च १०भागशतं बाह्यभरतविष्कम्भः । वर्षाद्वर्षश्चतुर्गुणविस्तार आ विदेहात् । ५ । वर्षाद्वर्षश्चतुर्गुणविस्तार आ विदेहाद् द्रष्टव्यः । भरताच्चतुर्गु णविष्कम्भो हैमवतः । हैमवताच्चतुर्गुणविष्कम्भो हरिवर्षः । हरिवर्षाच्चतु- र्गु णविष्कम्भो विदेह इति । तथा च भरततुल्यविस्तार ऐरावतः । ऐरावताच्चतुर्गु णविस्तारो हैरण्यवतः । हैरण्यवताच्चतुर्गुणविस्तारो रम्यकः । धतकीषण्डवलयविष्कम्भश्चत्वारि योजन- १५शतसहस्राणि । तत्परिधिरेकचत्वारिंशद्योजनशतसहस्राणि दशसहस्राणि नव योजनशतानि विशेषोनैकषष्ट्युत्तराणि एकं शतसहस्रं अष्टसप्ततिसहस्राणि अष्टौ शतानि च द्वाचत्वारिंशानि योजनानि धातकीषण्डे वर्षधररुद्धक्षेत्रम् । तत्परिधिमपनीयावशिष्टं द्वादशद्विशतभागहृतं लब्धम्, भरतविष्कम्भ उक्तः । वर्षाणां वर्षधराणां सरितां वृत्तवेदाढ्यानां ह्रदानामन्येषां च तान्येव नामानि । २०वर्षधरा हिमवदादयः उक्तोत्सेधावगाहा द्विगुणविस्ताराः । चत्वारोऽपि वृत्तवेदाढ्या उक्तोच्छ्रा — यावगाहसमा द्वियोजनसहस्रविस्ताराः । यमकाद्री च व्याख्यातोत्सेधावगाहौ द्वियोजनसहस्र- मूलविस्तारौ पञ्चदशयोजनशतमध्यविष्कम्भौ उपर्येकयोजनसहस्रविस्तारौ । काञ्चनाद्रयश्च व्याख्यातोच्छ्रायावगाहा द्विगुणविस्ताराः । ह्रदाश्व पद्मादयः षडपि द्विगुणायामविष्कम्भाव- गाहाः । द्वीपाः पद्मानि च द्विगुणायामविष्कम्भावगाहानि । २५भरतैरावतविभाजिनाविष्वाकारगिरी । ६ । उदगपाक् भरतैरावतयोर्विभागहेतू कालो- दलवणोदस्पर्शिनौ योजनशतावगाहौ चतुर्योजनशतोत्सेधौ अध उपरि चैकयोजनसहस्रविस्तारौ काञ्चनपरिणामौ इष्वाकारगिरी भवतः । तत्र धातकीषण्डे द्वौ मेरू पूर्वापरौ योजनसहस्रावगाहौ पञ्चनवतियोजनशतमूल- विष्कम्भौ धरणीतले चतुर्नवतियोजनशतविस्तारौ चतुरशीतियोजनसहस्रोत्सेधौ योजनसहस्र- ३०विस्तारतलौ पूर्वोक्तप्रमाणचूलिकौ । समाद् भूमितलात् पञ्चयोजनशतान्युत्प्लुत्य नन्दनवनं भवति पञ्चयोजनशतविस्तारम् । पञ्चपञ्चाशद्योजनशताधिकपञ्चाशद्योजनसहस्राणि १९६ तत उत्प्लुत्य सौमनसं नाम वनं पञ्चशतयोजनविष्कम्भं भवति । ततोऽष्टाविंशतियोजन — सहस्राण्युत्प्लुत्य पाण्डुकवनं भवति । तयोर्दशसु प्रदेशेष्वेकप्रदेशवृद्धिः । जम्बूद्वीपे यत्र जम्बूवृक्षः तत्र धातकीषण्डे धातकीवृक्षः । परिवाराश्च पूर्वोक्तवर्णनाः । तन्निवासी द्वीपाधिपतिस्तत एव द्वीपस्य धातकीषण्ड इति नाम वेदितव्यम् । तत्र चक्रारान्तर- ०५संस्थाना वर्षा वर्षधराश्च चक्राराकारा उभयजलधिस्पर्शिनः । तत्परिक्षेपिकालोदसमुद्रः टङ्कच्छिन्नतीर्थः अष्टयोजनशतसहस्रवलयविष्कम्भ एकनवतिशतसहस्राणि सप्ततिश्च सहस्राणि साधिकपञ्चोत्तराणि षट्शतानि योजनानां तत्परिधिः । कालोदपरिक्षेपिपुष्करद्वीपः षोडशयोजनशतसहस्रवलयविष्कम्भः । तत्र द्वीपाम्भोनिधि- द्विगुणपरिक्लृप्तिवत् धातकीषण्डवर्षादिद्विगुणविधिप्रसङ्गे विशेषावधारणार्थमाह — १०पुष्करार्धे च ॥ ३४ ॥ चशब्दः किमर्थः ? संख्याभ्यावृत्त्यनुवर्तनार्थश्चशब्दः । १ । द्विरित्येतस्याः संख्याभ्यावृत्तेरनुवर्त्तनार्थश्चशब्दः क्रियते, पुष्करार्धे च द्विर्भरतादयः संख्यायन्त इति । किं जम्बूद्वीपभरतादिसंख्या द्विरावर्त्यत इत्यभिसंबध्यते आहोस्वित् धातकीषण्डभरतादिसंख्येति ? ‘जम्बूद्वीपभरतादिसंख्यैव संब- १५ध्यते । अनन्तरा कस्मान्नाभिसंबध्यत इति ? इच्छातो विशेषसम्बन्ध इति । अतश्चैतदेवं धातकीषण्डे हिमवदादीनामपि विष्कम्भः, पुष्करार्धे च हिमवदादीनां द्विगुण इष्यत इति । नामानि च तान्येव वेदितव्यानि । अथ भरतस्य को विष्कम्भः ? एकान्नाशीत्युत्तरपञ्चशताधिकैकचत्वारिंशद्योजनसहस्राणि भरताभ्यन्तरविष्कम्भः सत्रि- सप्ततिभागशतं च । २ । एकचत्वारिंशत्सहस्राणि पञ्चशतान्येकान्नाशीत्युत्तराणि योजनानां २०त्रिसप्तत्युत्तरभागशतं च भरताभ्यन्तरविष्कम्भो वेदितव्यः । द्वादशपञ्चशतोत्तरत्रिपञ्चाशद्योजनसहस्राणि मध्यविष्कम्भो नवनवत्यधिकं च भाग- शतम् । ३ । त्रिपञ्चाशत्सहस्राणि योजनानां पञ्चशतानि द्वादशानि नवनवत्यधिकं च भागशतं मध्यभरतविष्कम्भः । द्वाचत्वारिंशच्चतुःशतोत्तरपञ्चषष्टिसहस्राणि बाह्यविष्कम्भस्त्रयोदश च भागाः । ४ । २५पञ्चषष्टिसहस्राणि योजनानां चत्वारि शतानि द्वाचत्वारिंशानि त्रयोदशभागाः बाह्य- भरतविष्कम्भः । वर्षाद्वर्षश्चतुर्गुणविस्तार आविदेहात् । ५ । वर्षात् वर्षः चतुर्गुणविस्तार आविदेहात् द्रष्ट- व्यः । भरताच्चतुर्गुणविष्कम्भो हैमवतः, हैमवताच्चतुर्गुणविष्कम्भो हरिवर्षः, हरिवर्षाच्चतुर्गुण- विष्कम्भो विदेह इति । तथा भरततुल्यविस्तार ऐरावतः, ऐरावताच्चतुर्गुंणविस्तारो हैरण्यवतः, ३०हैरण्यवताच्चतुर्गुणविस्तारो रम्यक इति । एककोटिद्वाचत्वारिंशच्छतसहस्राणि त्रिंशत्सहस्राणि द्वे च शते योजनानां सविशेषा चैकान्नपञ्चाशत् पुष्करार्धान्तःपरिधिः । त्रीणि शतसहस्रणि १९७ पञ्चपञ्चाशत्सहस्राणि षट्शतानि चतुरशीतिश्च योजनानि पुष्करार्धे पर्वतरुद्धक्षेत्रम्, परिधेरपनीयाऽवशिष्टं द्वादशद्विशतभागहृतलब्धं भरतविष्कभ्भ उक्तः । वर्षधरविजयार्धवृत्त — वेदाढ्यादयः जम्बूद्वीपवर्णनायां विहितोत्सेधावगाहाः धातकीषण्डविहितद्विगुणविस्ताराः पुष्करार्धे च वेदितव्याः । इष्वाकारौ मन्दरौ च तावत्परिमाणावेव । यत्र जम्बूवृक्षस्तत्र ०५पुष्करं सपरिवारं वेदितव्यम् । तन्निवासी द्वीपाधिपतिः, तत एव तस्य दीपस्य नाम रूढं पुष्करद्वीप इति । अथ कथं पुष्करार्धसंज्ञा ? मानुषोत्तरशैलेन विभक्तार्धत्वात् पुष्करार्धसंज्ञा । ६ । पुष्करद्वीपस्य बहुमध्यदेशभावी वलय- वृत्तो मानुषोत्तरनामशैलः, तेन विभक्तार्धत्वात् पुष्करार्धसंज्ञा वेदितव्या । सप्तदशयोजनशता- न्येकविंशान्यस्योच्छ्रायः । चत्वारि योजनशतानि त्रिंशानि सक्रोशान्यवगाहः, द्वाविंशं योजनसहस्रं १०मूलविस्तारः । सप्तयोजनशतानि त्रयोविंशानि मध्यविस्तारः । चतुर्विंशानि चत्वारि योजनशता- न्युपरि विस्तारः । सोऽयमभ्यन्तरमुखनिषण्णसिंहाकृतिरर्धयवराश्युपमानः मानुषोत्तराद्रिः । तस्योपरि चतसृषु दिक्षु पञ्चाशद्योजनायामतदर्धविस्तारसार्धयोजनसप्तत्रिंशद्योजनोत्से- धानि अष्टयोजनोत्सेधतदर्धविष्कम्भतावत्प्रवेशद्वाराणि अर्हदायतनवर्णनोपेतानि चत्वार्यर्हदा- यतनानि प्रागादिषु दिक्षु प्रदक्षिणावृतानि । वैडूर्य-अश्मगर्भ-सौगन्धिक-रुचक-लोहिताक्ष-अञ्ज- १५नक — अञ्जनमूल-कनक-रजत-स्फटिक-अङ्क-प्रवाल-वज्र-तपनीयकूटसंज्ञानि चतुर्दशकूटानि पञ्चयोजनशतोच्छ्रायाणि पञ्चयोजनशतमूलविष्कम्भाणि पञ्चसप्तत्युत्तरत्रियोजनशतमध्यवि- ष्कम्भाणि अर्धतृतीययोजनशतोपरिविष्कम्भाणि । तत्र चतसृषु दिक्षु त्रीणि त्रीणि कूटानि पूर्वोत्तरस्यां दिश्येकं कूटं पूर्वदक्षिणस्यां दिश्येकम् । तेषु यशस्वदादयः पल्योपमस्थितयः सुपर्णकु- माराणां राजानो निवसन्ति । प्राच्यां दिशि वैडूर्ये यशस्वान्, अश्मगर्भे यशष्कान्तः, सौगन्धिके २०यशोधरः । अपाच्यां रुचके नन्दनः, लोहिताक्षे नन्दोत्तरः, अञ्जनकेऽशनिधोषः । प्रतीच्यामञ्ज- नमूले सिद्धार्थः, कनके क्रमणः, रजते मानुषः । उदीच्यां स्फटिके सुदर्शनः, अङ्केऽमोघः, प्रवाले सुप्रबुद्धः । पूर्वोत्तरस्यां वज्रे हनूमान् । पूर्वदक्षिणस्यां तपनीये स्वातिः । चतसृषु विदिक्षु पुनरिमानि चत्वारि कूटानि रत्न — सर्वरत्न-वैलम्ब-प्रभञ्जननामानि पूर्वकूटपरिमाणानि । निषधाद्रिस्पृष्टभागे पूर्वदक्षिणस्यां रत्ने पन्नगेन्द्रो वेणुदेवः । नीलाद्रिस्पृष्टभागे पूर्वोत्तरस्यां २५सर्वरत्ने सुपर्णेन्द्रो वेणुतालिः । निषधाद्रिस्पृष्टभागेऽपरदक्षिणस्यां वैलम्बकूटे वातेन्द्रो वैलम्बः । नीलाद्रिस्पृष्टभागेऽपरोत्तरस्यां प्रभञ्जनकूटे वातेन्द्रः प्रभञ्जनो निवसति । अत्राह — किमर्थं जम्बूद्वीपधराधरादिसंख्या द्विरावृत्ता पुष्करार्धे कथ्यते, न पुनः कृत्स्न एव पुष्करद्वीपे इति ? अत्रोच्यते — प्राङ्मानुषोत्तरान्मनुष्याः ॥ ३५ ॥ ३०यस्मात् प्राङ्मानुषोत्तरान्मनुष्या न बहिः, ततो न बहिः पूर्वोक्तक्षेत्रविभागोऽस्ति । अथवा, उक्तमिन्द्रियविकल्पाधिकारे *“कृमिपिपीलिकाभ्रमरमनुष्यादीनामेकैकवृद्धानि” [तº सूº२ । २३] इति; तत्र न ज्ञायते क्व मनुष्या इति ? अतस्तदधिकरणविशेष- १९८ प्रतिपत्त्यर्थमुच्यते — जम्बूद्वीपादारभ्य प्राङ् मानुषोत्तरात् मनुष्या न बहिरिति । व्याख्यातो मानुषोत्तराद्रिः । नास्मादुत्तरं कदाचिदपि विद्याधराः ऋद्धिप्राप्ता अपि मानुषा गच्छन्ति अन्यत्रोपपादसमुद्घाताभ्याम्, ततोऽस्याऽन्वर्थसंज्ञा । एवं द्विगुणद्विगुणवलयविष्कम्भेषु द्वीपसमुद्रेषु गतेष्वष्टमो नन्दीश्वरो द्वीपः । तस्य वलय- ०५विष्कम्भः कोटिशतं त्रिषष्टिकोट्यः चतुरशीतिश्च योजनशतसहस्राणि । तत्परिधिः द्वे कोटि- सहस्रे द्विसप्ततिकोटयः त्रयस्त्रिंशच्छतसहस्राणि चतुःपञ्चाशत्सहस्राण्येकशतं नवतियोजनानि गव्यूतं च साधिकम् । तद्बहुमध्यदेशभाविनश्चतसृषु दिक्षु चत्वारोऽञ्जनगिरयः योजन- सहस्रावगाहाश्चतुरशीतियोजनसहस्रोत्सेधाः मूलमध्याग्रेषूत्सेधसमायामविष्कम्भाः पटहा- काराः । तेषां चतसृषु दिक्षु तिर्यगेकं योजनशतसहस्रमतीत्य प्रत्येकं चतस्रो १०वाप्यो भवन्ति । तत्र पौरस्त्याञ्जनगिरेः नन्दा-नन्दवती-नन्दोत्तरा-नन्दिघोषासंज्ञा योजन- सहस्रावगाहा योजनशतसहस्रायामविष्कम्भाश्चतुष्कोणा मत्स्यकच्छपादिजलचरविरहिताः पद्मोत्पलादिजलरुहकुसुमसञ्छादितस्फटिकमणिस्वच्छगम्भीरनीराः । प्राच्यां दिशि नन्दा शक्रस्य, अपाच्यां नन्दावती ऐशानस्य, प्रतीच्यां नन्दोत्तरा चमरस्य, उदीच्यां नन्दिघोषा वैरोचनस्य । दाक्षिणात्याञ्जनगिरेर्विजया वैजयन्ती जयन्ती अपराजिता चेति चतस्रो १५वाप्यः पूर्वोक्तप्रमाणवर्णनाः शक्रलोकपालानाम् । प्राच्यां दिशि विजया वरुणस्य, अपाच्यां वैजयन्ती यमस्य, प्रतीच्यां जयन्ती सोमस्य, उदीच्यामपराजिता वैश्रवणस्य । पाश्चात्याञ्जन- गिरेरशोका सुप्रबुद्धा कुमुदा पुण्डरीकिणी चेति चतस्रो वाप्यः पूर्वोक्तप्रमाणवर्णनाः । पूर्वस्यां दिशि अशोका वेणुदेवस्य, दक्षिणस्यां सुप्रबुद्धा वेणुतालेः, अपरस्यां कुमुदा वरुणस्य, उत्तरस्यां पुण्डरीकिणी भूतानन्दस्य । उदीच्याञ्जनगिरेः प्रभङ्करा सुमना २०आनन्दा सुदर्शना चेति चतस्रो वाप्यः पूर्वोक्तप्रमावर्णना ऐशानलोकपालानाम् । प्राच्यां दिशि प्रभङ्करा वरुणस्य, अपाच्यां सुमना यमस्य, प्रतीच्याम् आनन्दा सोमस्य, उदीच्यां सुदर्शना वैश्रवणस्य । षोडशानामप्यासामभ्यन्तरान्तराणि पञ्चषष्टिसहस्राणि योजनानां पञ्चशतानि पञ्चचत्वारिंशानि । मध्यान्तराणि एकं शतसहस्रं योजनानां चत्वारिंशत्सहस्राणि षट् च शतानि द्वियोजनोत्तराणि । बाह्यान्तराणि द्वे शतसहस्रे योजनानां त्रयोविंशतिसहस्राणि २५षट् च शतान्येकषष्ट्युत्तराणि । षोडशानामपि तासां मध्येषु सहस्रावगाहा मूलमध्याग्रेषु दशयोजनसहस्रायामविष्कम्भाः तावदुत्सेधाः पटहाकाराः जाम्बूनदमयाः, अर्जुनसुवर्णशिखर- त्वाद् दधिमुखा इति कृत्वा अन्वर्थसंज्ञाः षोडश नगवराः । परितस्ता वापीः चत्वारि वनानि प्रत्येकमशोक-सप्तपर्ण-चम्पक-चूतनामानि वापीसमायामानि तदर्धविष्कम्भाणि । पूर्वेणाऽशोकवनं दक्षिणतः सप्तपर्णवनमाहुः । ३०अपरेण चम्पकवनमुत्तरतश्चूतवृक्षवनम् ॥ १ ॥ एतद्वापीकोणसमीपस्थाः प्रत्येकं चत्वारो नगा रतिकराख्या अर्धतृतीययोजनशता — वगाहा एकयोजनसहस्रोत्सेधा मूलमध्याग्रेषु तावदायामविष्कम्भाः पटहाकाराः काञ्चन — मणिपरिणामाः । सर्वे ते समुदिताश्चतुःषष्टिः । तत्र ये अभ्यन्तरकोणस्था द्वात्रिंशन्नगा देवानामाक्रीडनस्थानैरलङ्कृताः । ये बाह्यकोणस्थाः द्वात्रिंशद्रतिकरा अञ्जनाद्रयो दधिमुखाश्च १९९ तेषां द्विपञ्चाशदुपरि बहुमध्यदेशभावीनि प्राङ्मुखानि योजनशतायामतदर्धविष्कम्भाणि पञ्चसप्ततियोजनोत्सेधानि अष्टयोजनोत्सेधतदर्धविस्तारतावत्प्रवेशपूर्वोत्तरदक्षिणद्वाराणि द्विपञ्चाशदर्हदायतनानि अर्हदायतनवर्णनोपेतानि चातुर्मासिकमहामहिमार्हाणि । पूर्वोक्तचतुः- षष्टिवनषण्डबहुमध्यदेशभाविनो द्विषष्टियोजनोत्सेधा एकत्रिंशद्योजनायामविष्कम्भा अष्ट — ०५योजनोत्सेधतदर्धविस्तारद्वाराश्चतुःषष्टिरेव प्रासादाः । एतेष्वशोकवनावतंसकादयः पल्यो — पमायुषः दशकार्मुकोत्सेधाः स्वभवननामानो देवा निवसन्ति । एवं द्विगुणवलयविष्कम्भेषु द्वीपसमुद्रेषु गतेष्वेकादशमः कुण्डलवरद्वीपः । तद् बहुमध्य- देशभाविवलयाकारः संपूर्णयवराश्युपमानः कुण्डलनगः योजनसहस्रावगाहः द्विचत्वारिंशद्यो- जनसहस्रोत्सेधः द्वाविंशदशसहस्रयोजनमूलविस्तारः त्रयोविंशसप्तसहस्रयोजनमध्यविस्तारः १०चतुर्विंशचतुर्योजनसहस्राग्रविस्तारः । तस्योपरि पूर्वादिदिग्विभावीनि वज्र-वज्रप्रभ-कनक- कनकप्रभ-रजत-रजतप्रभ-सुप्रभ-महाप्रभ-अङ्क-अङ्कप्रभ-मणि-मणिप्रभ-स्फटिक-स्फटिकप्रभ- हिमवत्-महेन्द्रकूटसंज्ञानि षोडश कूटानि मानुषोत्तरकूटतुल्यप्रमाणानि एकैकस्यां दिशि चत्वारि चत्वार्यवसेयानि । पूर्वस्यां दिशि वज्रे त्रिशिराः, वज्रप्रभे पञ्चशिराः, कनके महाशिराः, कनकप्रभे महाभुजः । अपाच्यां रजते पद्मः, रजतप्रभे पद्मोत्तरः, सुप्रभे १५महापद्मः, महाप्रभे वासुकिः । अपरस्यामङ्के स्थिरहृदयः, अङ्कप्रभे महाहृदयः, मणिकूटे श्रीवृक्षः, मणिप्रभे स्वस्तिकः । उदीच्यां स्फटिके सुन्दरः, स्फटिकप्रभे विशालाक्षः, हिमवति पाण्डुरः, महेन्द्रे पाण्डुकः । एते त्रिशिरःप्रभृतयः पाण्डुकान्ताः षोडशापि नागेन्द्राः पल्योप — मायुषः । पूर्वापरयोर्दिशोः कुण्डलनगे एकयोजनसहस्रोत्सेधे तावन्मूलविष्कम्भे अर्धाष्टमशत — मध्यविष्कम्भे पञ्चशताग्रविष्कम्भे कुण्डलवरद्वीपाधिपतेरावासौ द्वे कूटे । तस्यैवोपरि २०पूर्वादिषु दिक्षु चत्वार्यर्हदायतनानि अञ्जनाद्रिजिनायतनतुल्यप्रमाणानि । कुण्डलवरद्वीपद्विगुणवलयविष्कम्भः कुण्डलवरोदः, तद्द्विगुणवलयविष्कम्भः शङ्खवर — द्वीपः, तद्द्विगुणवलयविष्कम्भः शङ्खवरोदः तद्द्विगुणवलयविष्कम्भः रुचकवरद्वीपः । तद्बहुमध्यदेशभावी वलयाकार रुचकवरनगः एकयोजनसहस्रावगाहश्चतुरशीतियोजनसहस्रो- त्सेधः, मूलमध्याग्रेषु द्विचत्वारिंशद्योजनसहस्रविस्तारः । तस्योपरि पूर्वादिषु दिक्षु चत्वारि २५कूटानि नन्द्यावर्त-स्वस्तिक-श्रीवृक्ष-वर्धमानसंज्ञानि पञ्चयोजनशतोत्सेधानि मूलमध्याग्रेषु योजनसहस्रायामविष्कम्भाणि । प्राच्यां दिशि नन्द्यावर्ते पद्मोत्तरः, अपाच्यां स्वस्तिके सुहस्ती, प्रतीच्यां श्रीवृक्षे नीलः, उदीच्यां वर्धमानेऽञ्जनगिरिः । त एते पद्मोत्तरादयः चत्वारो दिग्गजेन्द्राः पल्योपमायुषः । तस्यैवोपरि पूर्वस्यां दिशि वैडूर्य-काञ्चन-कनक- अरिष्ट-दिक्स्वस्तिक-नन्दन-अञ्जन-अञ्जनमूलकनामान्यष्टौ कूटानि पूर्वोक्तकूटतुल्यप्रमा- ३०णानि । वैडूर्ये विजया, काञ्चने वैजयन्ती, कनके जयन्ती, अरिष्टेऽपराजिता, दिक्स्वस्तिके नन्दा, नन्दने नन्दोत्तरा, अञ्जने आनन्दा, अञ्जनमूलके नान्दीवर्धना । एता दिक्कुमार्यः तीर्थकरजन्मकाले इहाऽऽगत्याऽर्हन्मातृसमीपे भृङ्गारान् गृहीत्वाऽवतिष्ठन्ते । दक्षिणस्याममोघ- सुप्रबुद्ध-मन्दिर-विमल-रुचक-रुचकोत्तर-चन्द्र-सुप्रतिष्ठसंज्ञान्यष्टौ कूटानि पूर्वोक्तकूटतुल्य- २०० प्रमाणानि । अमोघे सुस्थिता, सुप्रबुद्धे सुप्रणिधिः, मन्दिरे सुप्रबुद्धा, विमले यशोधरा, रुचके लक्ष्मीमती, रुचकोत्तरे कीर्त्तिमती, चन्द्रे वसुन्धरा, सुप्रतिष्ठे चित्रा । एता दिक्कुमार्यः इहाऽऽगत्याऽर्हन्मातृसमीपे आदर्शधारिण्योऽवतिष्ठन्ते । अपरस्यां लोहिताक्ष-जगत्कुसुम- पद्म-नलिन-कुमुद-सौमनस-यशोभद्राख्यान्यष्टौ कूटानि पूर्वोक्तकूटतुल्यप्रमाणानि । लोहिताक्षे ०५इलादेवी, जगत्कुसुमे सुरादेवी, पद्मे पृथिवी, नलिने पद्मावती, कुमुदे कानना, सौमनसे नवमिका, यशसि यशस्विनी, भद्रकूटे भद्रा । एता दिक्कुमार्य इहाऽऽगत्याऽर्हन्मातृसमीपे छत्राणि धारयन्त्यो गायन्त्य आसते । उदीच्यां स्फटिक-अङ्क-अञ्जन-काञ्चन-रजत-कुण्डल- रुचिर — सुदर्शनसंज्ञान्यष्टौ कूटानि पूर्वोक्तकूटतुल्यप्रमाणानि । स्फटिकेऽलंभूषा, अङ्के मिश्रकेशी, अञ्जने पुण्डरीकिणी, काञ्चने वारुणी, रजत आशा, कुण्डले ह्री, रुचिरे श्रीः, सुदर्शने १०धृतिरिति । एता दिक्कुमार्यः प्रगृहीतचामरा अर्हन्मातृऋः सेवन्ते । पूर्वादिषु दिक्षु पुनरपराणि चत्वारि कूटानि-विमल-नित्यालोक-स्वयंप्रभ-नित्योद्योतसंज्ञानि । पूर्वस्यां दिशि विमले चित्रा, दक्षिणस्यां नित्यालोके कनकचित्रा, अपरस्यां स्वयंप्रभे त्रिशिराः, उत्तरस्यां नित्योद्योते सूत्रमणिः । एता विद्युत्कुमार्यः इहाऽऽगत्य जिनमातृसमीपे भास्करवदुद्योतं कुर्वन्त्य आसते । विदिक्षु चत्वारि कूटानि वैडूर्य-रुचक-मणिप्रभ-रुचकोत्तमनामानि । पूर्वोत्तरस्यां वैडूर्ये १५रुचका, पूर्वदक्षिणस्यां रुचके रुचकाभा, अपरदक्षिणस्यां मणिप्रभे रुचकान्ता, अपरोत्तरस्यां रुचकोत्तमे रुचकप्रभा एता दिक्कुमारीमहत्तरिकाः । विदिक्षु पुनरपराणि चत्वारि कूटानि रत्न-रत्नप्रभ-सर्वरत्न-रत्नोच्चयाख्यानि । पूर्वोत्तरस्यां रत्ने विजया, पूर्वदक्षिणस्यां रत्नप्रभे वैजयन्ती, अपरदक्षिणस्यां सर्वरत्ने जयन्ती, अपरोत्तरस्यां रत्नोच्चये अपराजिता । एता विदिक्कुमारीमहत्तरिकाः । एता अष्टावपि महत्तरिका इह आगत्य तीर्थकराणां जातकर्माणि २०कुर्वन्ति । तान्येतानि विदिक्कुमारीणां महत्तरिकाणां च कूटानि द्वादशाप्येकयोजनसहस्रो- त्सेधानि मूलमध्याग्रेषु एकसहस्राऽर्धाऽष्टमशतपञ्चशतविस्ताराणि । रुचकनगस्योपरि चतसृषु दिक्षु चत्वार्यर्हदायतनानि प्राङ्मुखान्यञ्जनाद्रिजिनालयतुल्यप्रमाणानि । एवं द्विगुणद्विगुण- वलयविष्कम्भा असंख्येया दीपसमुद्रा वेदितव्याः । यो मानुषोत्तराद्रिरुक्तः तस्मात्प्राग्भवन्तः गतिनामापेक्षाभिधानाः पूर्वोंदिता द्विविधाः २५कथमिति चेत् ? उच्यते — आर्या म्लेच्छाश्च ॥ ३६ ॥ आर्या द्विविधा ऋद्धिप्राप्तेतरविकल्पात् । १ । गुणैर्गुणवद्भिर्वा अर्यन्ते सेव्यन्ते इत्यार्याः । ते द्विविधाः ऋद्धिप्राप्तार्याः, अनृद्धिप्राप्तार्याश्चेति । अनृद्धिप्राप्तार्याः पञ्चविधाः क्षेत्रजातिकर्मचारित्रदर्शनभेदात् । २ । ये अनृद्धिप्राप्तार्यास्ते ३०पञ्चविधा भवन्ति — क्षेत्रार्याः जात्यार्याः कर्मायाः चारित्रार्याः दर्शनार्याश्चेति । तत्र क्षेत्रार्याः काशीकोशलादिषु जाताः । इक्ष्वाकुज्ञातिभोजादिषु कुलेषु जाता जात्यार्याः । कर्मार्यास्त्रेधा — सावद्यकर्मार्या अल्पसावद्यकर्मार्या असावद्यकर्मार्याश्चेति । सावद्यकर्मार्याः २०१ षोढा — असि-मषी-कृषि-विद्या-शिल्प-वणिक्कर्मभेदात् । असिधनुरादिप्रहरणप्रयोगकुशला असि- कर्मार्याः । द्रव्यायव्ययादिलेखननिपुणा मषीकर्मार्याः । हलकुलिदन्तालकादिकृष्युपकरण- विधानविदः कृषीबलाः कृषिकर्मार्याः । आलेख्यगणितादिद्विसप्ततिकलावदाता विद्या- कर्मार्याः चतुःषष्टिगुणसम्पन्नाश्च । रजकनापिताऽयस्कारकुलालसुवर्णकारादयः शिल्प- ०५कर्मार्याः । चन्दनादिगन्धघृतादिरसशाल्यादिधान्यकार्पासाद्याच्छादनमुक्तादिनानाद्रव्यसंग्रह- कारिणो बहुविधा वणिक्कर्मार्याः । षडप्येते अविरतिप्रवणत्वात् सावद्यकर्मार्याः, अल्पसावद्य- कर्मार्याः श्रावकाः श्राविकाश्च विरत्यविरतिपरिणतत्वात्, असावद्यकर्मार्याः संयताः, कर्मक्षयार्थो- द्यतविरतिपरिणतत्वात् । चारित्रार्या द्वेधा अधिगतचारित्रार्याः अनधिगमचारित्रार्याश्चेति । तद्भेदः अनुपदेशोपदेशापेक्षभेदकृतः । चारित्रमोहस्योपशमात् क्षयाच्च बाह्योपदेशानपेक्षा १०आत्मप्रसादादेव चारित्रपरिणामास्कन्दिन उपशान्तकषायाः क्षीणकषायाश्चाऽधिगतचारि- त्रार्याः । अन्तश्चारित्रमोहक्षयोपशमसद्भावे सति बाह्योपदेशनिमित्तविरतिपरिणामा अन- धिगमचारित्रार्याः । दर्शनार्या दशधा — आज्ञामार्गोपदेशसूत्रबीजसंक्षेपविस्तारार्थावगाढपरमा- वगाढरुचिभेदात् । तत्र भगवदर्हत्सर्वज्ञप्रणीताज्ञामात्रनिमित्तश्रद्धाना आज्ञारुचयः । निःसङ्ग- मोक्षमार्गश्रवणमात्रजनितरुचयो मार्गरुचयः । तीर्थकरबलदेवादिशुभचरितोपदेशहेतुकश्रद्धाना १५उपदेशरुचयः । प्रव्रज्यामर्यादाप्ररूपणाचारसूत्रश्रवणमात्रसमुद्भूतसम्यग्दर्शनाः सूत्ररुचयः । बीजपदग्रहणपूर्वकसूक्ष्मार्थतत्त्वार्थश्रद्धाना बीजरुचयः । जीवादिपदार्थसमाससंबोधनसमुद्- भूतश्रद्धानाः संक्षेपरुचयः । अङ्गपूर्वविषयजीवाद्यर्थविस्तारप्रमाणनयादिनिरूपणोपलब्ध- श्रद्धाना विस्ताररुचयः । वचनविस्तारविरहितार्थग्रहणजनितप्रसादा अर्थरुचयः । आचारादि- द्वादशाङ्गाऽभिनिविष्टश्रद्धाना अवगाढरुचयः । परमावधिकेवलज्ञानदर्शनप्रकाशितजीवाद्य- २०र्थविषयात्मप्रसादाः परमावगाढरुचयः । ऋद्धिप्राप्तार्या अष्टविधाः — बुद्धि-क्रिया-विक्रिया-तपः-बल-औषध-रस-क्षेत्रभेदात् । ३ । ऋद्धिप्राप्तार्या अष्टविधा भवन्ति बुद्ध्यादिविकल्पात् । तत्र बुद्धिरवगमो ज्ञानं तद्विषया अष्टादश- विधाः ऋद्धयः — केवलज्ञानमवधिज्ञानं मनःपर्ययज्ञानं बीजबुद्धिः कोष्ठबुद्धिः पदानुसारित्वं संभिन्न- श्रोतृत्वं दूरादास्वादनदर्शनस्पर्शनघ्राणश्रवणसमर्थता दशपूर्वित्वं चतुर्दशपूर्वित्वं अष्टाङ्गमहा- २५निमित्तज्ञतां प्रज्ञाश्रवणत्वं प्रत्येकबुद्धता वादित्वं चेति । तत्र (के? ) केवलाऽवधिमनःपर्यया व्या- ख्याताः । सुकृष्टसुमथीकृते क्षेत्रे सारवति कालादिसहायापेक्षं बीजमेकमुप्तं यथा अनेकबीज- कोटिप्रदं भवति तथा नोइन्द्रियश्रुतावरणवीर्यान्तरायक्षयोपशमप्रकर्षे सति एकबीजपद- ग्रहणादनेकपदार्थप्रतिपत्तिर्बीजबुद्धिः । कोष्ठागारिकस्थापितानामसंकीर्णानामविनष्टानां भू- यसां धान्यबीजानां यथा कोष्ठेऽवस्थानं तथा परोपदेशादवधारितानाम् अर्थग्रन्थबीजानां भू- ३०यसामव्यतिकीर्णानां बुद्धाववस्थानं कोष्ठबुद्धिः । पदानुसारित्वं त्रेधा — अनुस्रोतः प्रतिस्रोतः उभयथा चेति । एकपदस्यार्थं परत उपश्रुत्यादौ अन्ते च मध्ये वा शेषग्रन्थार्थावधारणं २०२ पदानुसारित्वम् । द्वादशयोजनायामे नवयोजनविस्तारे चक्रधरस्कन्धावारे गजवाजिखरोष्ट्र- मनुष्यादीनाम् अक्षरानक्षररूपाणां नानाविधशब्दानां युगपदुत्पन्नानां तपोविशेषबललाभापा- दितसर्वजीवप्रदेशश्रोत्रेन्द्रियपरिणामात् सर्वेषामेककालग्रहणं संभिन्नश्रोतृत्वम् । तपःशक्ति- विशेषाविर्भावितासाधारणरसनेन्द्रियश्रुतावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामलाभापेक्षस्य ०५अवधृतनवयोजनक्षेत्राद् बहिर्बहुयोजनविप्रकृष्टक्षेत्रादायातस्य रसस्याऽऽस्वादनसामर्थ्यम् । एवं शेषेष्वपि इन्द्रियविषयेषु अवधृतक्षेत्राद् बहिर्बहुयोजनप्रकृष्टदेशादायातेषु ग्रहणसामर्थ्यं योज्यम् । महारोहिण्यादिभिस्त्रिरागताभिः प्रत्येकमात्मीयरूपसामर्थ्याविष्करणकथनकुशला- भिर्वेगवतीभिर्विद्यादेवताभिरविचलितचारित्रस्य दशपूर्वदुस्तरसमुद्रोत्तरणं दशपूर्वित्वम् । संपूर्णश्रुतकेवलिता चुतुर्दशपूर्वित्वम् । १०अष्टौ महानिमित्तानि अन्तरिक्ष-भौम-अङ्ग-स्वर-व्यञ्जन-लक्षण-छिन्न-स्वप्ननामानि । तत्र रविशशिग्रहनक्षत्रभगणोदयास्तमयादिभिरतीतानागतफलप्रविभागप्रदर्शनमन्तरिक्षम् । भुवो घनशुषिरस्निग्धरूक्षादिविभावनेन पूर्वादिदिक्सूत्रनिवासेन वा वृद्धिहानिजय- पराजयादिविज्ञानं भूमेरन्तर्निहितसुवर्णरजतादिसंसूचनं च भौमम् । अङ्गप्रत्यङ्ग- दर्शनस्पर्शनादिभिस्त्रिकालभाविसुखदुःखादिविभावनमङ्गम् । अक्षरानक्षरशुभाशुभशब्दश्रवणे- १५नेष्टानिष्टफलाविर्भावनं महानिमित्तं स्वरम् । शिरोमुखग्रीवादिषु तिलकमशकलक्ष्मव्रणा- दिवीक्षणेन त्रिकालहिताहितवेदनं व्यञ्जनम् । श्रीवृक्षस्वस्तिकभृङ्गारकलशादिलक्षणवीक्ष- णात् त्रैकालिकस्थानमानैश्वर्यादिविशेषज्ञानं लक्षणम् । वस्त्रशस्त्रछत्रोपानदासनशयनादिषु देवमानुषराक्षसादिविभागैः शस्त्रकण्टकमूषिकादिकृतछेदनदर्शनात् कालत्रयविषयलाभालाभ- सुखदुःखादिसूचनं छिन्नम् । वातपित्तश्लेष्मदोषोदयरहितस्य पश्चिमरात्रिभागे चन्द्रसूर्यधरा- २०द्रिसमुद्रमुखप्रवेशनसकलमहीमण्डलोपगूहनादिशुभघृततैलाक्तात्मीयदेहखरकरभारूढापाग्दिग्ग- मनाद्यशुभस्वप्नदर्शनात् आगामिजीवितमरणसुखदुःखाद्याविर्भावकः स्वप्नः । एतेषु महानि- मित्तेषु कौशलमष्टाङ्गमहानिमित्तज्ञता । अतिसूक्ष्मार्थतत्त्वविचारगहने चतुर्दशपूर्विण एव विषयेऽनुयुक्ते अनधीतद्वादशाङ्गचतुर्दशपूर्वस्य प्रकृष्टश्रुतावरणवीर्यान्तरायक्षयोपशमावि- र्भूताऽसाधारणप्रज्ञाशक्तिलाभान्निःसंशयं निरूपणं प्रज्ञाश्रवणत्वम् । परोपदेशमन्तरेण स्वश- २५क्तिविशेषादेव ज्ञानसंयमविधाननिपुणत्वं प्रत्येकबुद्धता । शक्रादिष्वपि प्रतिबन्धिषु सत्स्व- प्रतिहततया निरुत्तराभिधानं पररन्ध्रापेक्षणं च वादित्वम् । क्रियाविषया ऋद्धिर्द्विविधा — चारणत्वमाकाशगामित्वं चेति । तत्र चारणा अनेकविधाः जलजङ्घातन्तुपुष्पपत्रश्रेण्यग्निशिखाद्यालम्बनगमनाः । जलमुपादाय वाप्यादिष्वप्कायान् जीवानविराधयन्तः भूमाविव पादोद्धारनिक्षेपकुशला जलचारणाः । भुव उपर्याकाशे चतुर- ३०ङ्गुलप्रमाणे जङ्घोत्क्षेपनिक्षेपशीघ्रकरणपटवो बहुयोजनशताशुगमनप्रवणा जङ्घाचारणाः । एवमितरे च वेदितव्याः । पर्यङ्कावस्थानिषण्णा वा कायोत्सर्गशरीरा वा पादोद्धारनिक्षेपण- विधिमन्तरेण आकाशगमनकुशला आकाशगामिनः । विक्रियागोचरा ऋद्धिरनेकविधा — अणिमा महिमा लघिमा गरिमा प्राप्तिः प्राकाम्यमी- शित्वं वशित्वमप्रतिघातोऽन्तर्धानं कामरूपित्वमित्येवमादिः । तत्राणुशरीरविकरणमणिमा, २०३ विसछिद्रमपि प्रविश्याऽऽसित्वा तत्र च चक्रवर्तिपरिवारविभूतिं सृजेत् । मेरोरपि महत्तर- शरीरविकरणं महिमा । वायोरपि लघुतरशरीरता लघिमा । वज्रादपि गुरुतरदेहता गरिमा । भूमौ स्थित्वाऽङ्गुल्यग्रेण मेरुशिखरदिवाकरादिस्पर्शनसामर्थ्यं प्राप्तिः । अप्सु भूमाविव गमनं भूमौ जल इवोन्मज्जननिमज्जनकरणं प्राकाम्यम् । त्रैलोक्यस्य प्रभुता ईशित्वम् । सर्वजीव- ०५वशीकरणलब्धिर्वशित्वम् । अद्रिमध्ये वियतीव गमनागमनमप्रतीघातः । अदृश्यरूपशक्ति- ताऽन्तर्धानम् । युगपदनेकाकाररूपविकरणशक्तिः कामरूपित्वमिति । तपोऽतिशयर्द्धिः सप्तविधा — उग्र-दीप्त-तप्त-महा-घोर-तपो-वीरपराक्रम-घोरब्रह्मचर्यभेदात् । चतुर्थषष्ठाष्टमदशमद्वादशपक्षमासाद्यनशनयोगेष्वन्यतमयोगमारभ्य आमरणादनिवर्तका उग्र- तपसः । महोपवासकरणेऽपि प्रवर्धमानकायवाङ्मानसबलाः विगन्धरहितवदनाः पद्मोत्पलादि- १०सुरभिनिश्वासा अप्रच्युतमहादीप्तिशरीरा दीप्ततपसः । तप्तायसकटाहपतितजलकणवदाशु- शुष्काल्पाहारतया मलरुधिरादिभावपरिणामविरहिताभ्यवहाराः तप्ततपसः । सिंहनिष्क्रीडिता- दिमहोपवासानुष्ठानपरायणायतयो महातपसः । वातपित्तश्लेष्मसन्निपातसमुद्भूतज्वरकासश्वा- साक्षिशूलकुष्ठप्रमेहादिविविधरोगसन्तापितदेहा अपि अप्रच्युताऽनशनकायक्लेशादितपसो भीम- श्मशानाद्रिमस्तकगुहादरीकन्दरशून्यग्रामादिषु प्रदुष्टयक्षराक्षसपिशाचप्रनृत्तवेतालरूपविकारेषु १५परुषशिवारुतानुपरतसिंहव्याघ्रादिव्यालमृगभीषणस्वनघोरचौरादिप्रचरितेष्वभिरुचितावासाश्च घोरतपसः । त एव गृहीततपोयोगवर्धनपरा घोरपराक्रमाः । चिरोषिताऽस्खलितब्रह्मचर्यवासाः प्रकृष्टचारित्रमोहनीयक्षयोपशमात् प्रणष्टदुःस्वप्ना घोरब्रह्मचारिणः । बलालम्बना ऋद्धिस्त्रिविधा — मनोवाक्कायभेदात् । तत्र मनःश्रुतावरणवीर्यान्तराय- क्षयोपशमप्रकर्षे सत्यन्तर्मुहूर्ते सकलश्रुतार्थचिन्तनेऽवदाता मनोबलिनः । मनोजिह्वाश्रुतावरण- २०वीर्यान्तरायक्षयोपशमातिशये सत्यन्तर्मुहूर्ते सकलश्रुतोच्चारणसमर्थाः सततमुच्चैरुच्चारणे सत्यपि श्रमविरहिता अहीनकण्ठाश्च वाग्बलिनः । वीर्यान्तरायक्षयोपशमाविर्भूताऽसाधारण- कायबलत्वात् मासिकचातुर्मासिकसांवत्सरिकादिप्रतिमायोगधारणेऽपि श्रमक्लमविरहिताः कायबलिनः । औषधर्द्धिरष्टविधा — असाध्यानामप्यामयानां सर्वेषां विनिवृत्तिहेतुरामर्शक्ष्वेलजल्लमल- २५विट्सर्वौषधिप्राप्तास्याविषदृष्ट्यविषविकल्पात् । आमर्शः संस्पर्शः, यदीयहस्तपादाद्यामर्श औषधिप्राप्तो यैस्ते आमर्शौषधिप्राप्ताः । क्ष्वेलो निष्ठीवनमौषधिर्येषां ते क्ष्वेलौषधिप्राप्ताः । स्वेदालम्बनो रजोनिचयो जल्लः, स औषधिप्राप्तो येषां ते जल्लौषधिप्राप्ताः । कर्णदन्त- नासाक्षिसमुद्भवं मलं औषधिप्राप्तं येषां ते मलौषधिप्राप्ताः । विडुच्चार औषधिर्येषां ते विडौषधिप्राप्ताः । अङ्गप्रत्यङ्गनखदन्तकेशादिरवयवः तत्संस्पर्शी वाय्वादिस्सर्व औषधि- ३०प्राप्तो येषां ते सर्वौषधिप्राप्ताः । उग्रविषसंपृक्तोऽप्याहारो येषामास्यगतो निर्विषीभवति यदीयास्यनिर्गतवचःश्रवणाद्वा महाविषपरीता अपि निर्विषीभवन्ति ते आस्याविषाः । येषामालोकनमात्रादेवातितीव्रविषदूषिता अपि सन्तः विगतविषा भवन्ति ते दृष्ट्यविषाः । रसर्द्धिप्राप्तार्याः षड्विधाः — आस्यविषा दृष्टिविषाः क्षीरास्रविणः मध्वास्रविणः सर्पिरास्र- विणः अमृतास्रविणश्चेति । प्रकृष्टतपोबला यतयो यं ब्रुवते म्रियस्वेति स तत्क्षण एव महाविष- २०४ परीतो म्रियते, ते आस्यविषाः । उत्कृष्टतपसो यतयः क्रुद्धा यमीक्षन्ते स तदैवोग्रविषपरीतो म्रियते ते दृष्टिविषाः । विरसमप्यशनं येषां पाणिपुटनिक्षिप्तं क्षीररसगुणपरिणामि जायते, येषां वा वचनानि क्षीरवत्क्षीणानां सन्तर्पकाणि भवन्ति ते क्षीरास्रविणः । येषां पाणिपुटपतित आहारो नीरसोऽपि मधुरसवीर्यपरिणामो भवति, येषां वचांसि श्रोतृऋणां दुखार्दितानामपि ०५मधुगुणं पुष्णन्ति ते मध्वास्रविणः । येषां पाणिपात्रगतमन्नं रूक्षमपि सर्पीरसवीर्यविपाकानाप्नो- ति, सर्पिरिव वा येषां भाषितानि प्राणिनां संतर्पकाणि भवन्ति ते सर्पिरास्रविणः । येषां पाणि- पुटप्राप्तं भोजनं यत्किञ्चिदमृततामास्कन्दति, येषां वा व्याहृतानि प्राणिनाम् अमृतवदनुग्राह- काणि भवन्ति तेऽमृतास्रविणः । क्षेत्रर्द्धिप्राप्तार्या द्वेधा — अक्षीणमहानसा अक्षीणमहालयाश्चेति । लाभान्तरायक्षयोपशमप्र- १०कर्षप्राप्तेभ्यो यतिभ्यो यतो भिक्षा दीयते ततो भाजनाच्चक्रधरस्कन्धावारोऽपि यदि भुञ्जीत तद्दिवसे नान्नं क्षीयते ते अक्षीणमहानसाः । अक्षीणमहालयलब्धिप्राप्ता यतयो यत्र वसन्ति देवमनुष्यतैर्यग्योना यदि सर्वेऽपि तत्र निवसेयुः परस्परमबाधमानाः सुखमासते । त एते सर्वे ऋद्धिप्राप्तार्याः । म्लेच्छा द्विविधा अन्तरद्वीपजाः कर्मभूमिजाश्चेति । ४ । म्लेच्छा द्विविधा वेदितव्याः — अन्त- १५रद्वीपजाः कर्मभूमिजाश्चेति । तत्रान्तरद्वीपाः लवणोदधेरष्टासु दिक्ष्वष्टौ, तदन्तरेषु चाष्टौ । हिमवच्छिखरिणोरुभयोश्च विजयार्धयोरन्तेष्वष्टौ । तत्र दिक्षु द्वीपा वेदिकायास्तिर्यक्पञ्चयो- जनशतानि प्रविश्य भवन्ति । विदिक्ष्वन्तरेषु च द्वीपाः पञ्चाशेषु पञ्चयोजनशतेषु गतेषु भवन्ति । शैलान्तेषु द्वीपाः षट्षु योजनशतेषु गतेषु भवन्ति । दिक्षु द्वीपाः शतयोजनविस्तीर्णाः, विदिक्ष्वन्तरेषु च द्वीपाः तदर्धविष्कम्भाः । शैलान्तेषु पञ्चविंशतियोजनविस्ताराः । २०तत्र पूर्वस्यां दिशि एकोरुकाः । अपरस्यां लाङ्गूलिनः । उत्तरस्यामभाषकाः । दक्षिणस्यां विषाणिनः । शशकर्णशष्कुलीकर्णकर्णप्रावरणलम्बकर्णाः विदिक्षु । अश्व-सिंह-श्व-महिष- वराह-व्याघ्र-उलूक-कपिमुखा अन्तरेषु । मेघविद्युन्मुखाः शिखरिण उभयोरन्तयोः । मत्स्य- मुखाः कालमुखा हिमवत उभयोरन्तयोः । हस्तिमुखादर्शमुखा उत्तरविजयार्धस्योभयोरन्तयोः । गोमुखमेषमुखा दक्षिणविजयार्धस्योभयोरन्तयोः । एकोरुका मृदाहारा गुहावासिनः शेषाः २५पुष्पफलाहाराः वृक्षवासिनः । सर्वे ते पल्योपमायुषः । ते चतुर्विंशतिरपि द्वीपा जलतलादेक- योजनोत्सेधाः । तथा कालोदेऽपि वेदितव्याः । त एते अन्तरद्वीपजा म्लेच्छाः । कर्मभूमि- जाश्च शक-यवन-शबर-पुलिन्दादयः । काः पुनः कर्मभूमय इति ? अत आह- भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३७ ॥ ३०अथवा, मोक्षमार्गस्त्रितयः प्रकृतः । स किं सर्वेषु क्षेत्रेषु भवति ? न इत्याह कर्मभू- मिष्वेव । कुत एतत् ? भोगभूमिषु हि यद्यपि मनुष्याणां ज्ञानदर्शने स्तः चारित्रं तु नास्ति अविरतभोगपरिणामित्वात् । यद्येवं कास्ताः कर्मभूमयः इति ? अतस्तत्प्रतिपादनार्थमिदमुच्यते । कर्मभूमय इति विशेषणानुपपत्तिः सर्वत्र कर्मणो व्यापारात् । १ । अष्टविधस्य कर्मणो बन्धस्तत्फलानुभवनं च सर्वेष्वेव मनुष्यक्षेत्रेषु साधारणः । अतः कर्मभूमय इति विशेषणं ३५नोपपद्यते ? २०५ न वा; प्रकृष्टशुभाशुभकर्मोपार्जननिर्जराधिष्ठानोपपत्तेः । २ । न वा एष दोषः । किं कारणम् ? यतः प्रकृष्टं शुभकर्म सर्वार्थसिद्धिसौख्यप्रापकं तीर्थकरत्वमहर्द्धिनिर्वर्तकं वा असाधारणम् । अशुभकर्म च प्रकृष्टं कलङ्कलपृथिवीमहादुःखप्रापकम् अप्रतिष्ठाननरकगमनं च कर्मभूमिष्वेवोपार्ज्यते द्रव्य-भव-क्षेत्र-काल-भावापेक्षत्वात् कर्मबन्धस्य । सकलसंसारकारण- ०५निर्जराकर्म चात्रैव प्रवर्तते । ततो भरतादिष्वेव कर्मभूमय इति युक्तो व्यपदेशः । षट्कर्मदर्शनाच्च । ३ । षण्णां कर्मणाम् असि-कृषि-मषी-विद्या-वणिक्-शिल्पानामत्रैव दर्शनाच्च कर्मभूमिव्यपदेशो युक्तिमान् । अन्यत्रशब्दः परिवर्जनार्थः । ४ । यथा ‘न क्वचित्सर्वदा सर्वविस्रम्भगमनं नयः अन्यत्र धर्मात्’ तस्य अन्यो मार्ग एव न विद्यते इति धर्मं वर्जयित्वा अर्थकामयोरविस्रम्भगमनं नयः, १०धर्मे तु विस्रम्भ एव कार्य इति, एवमिहापि ‘विदेहाः कर्मभूमयः’ इत्युक्ते विदेहाभ्यन्तरत्वाद्देव- कुरूत्तरकुरूणामपि कर्मभूमित्वप्रसङ्गे अन्यत्रवचनाद् देवकुरूत्तरकुरुभ्योऽन्ये विदेहाः कर्मभूमयः, देवकुरूत्तरकुरवो हैमवतादयश्च भोगभूमय इति वेदितव्याः । सर्वास्वेव भूमिषु मनुष्याणां स्थितिपरिच्छेदार्थमाह- नृस्थिती परावरे त्रिपल्योपमान्तर्मुहूर्ते ॥ ३८ ॥ १५यथासंख्यमभिसंबन्धः । १ । त्रिपल्योपमान्तर्मुहूर्तयोर्यथासंख्यमभिसंबन्धो वेदितव्यः — परा नृस्थितिः त्रिपल्योपमा, अपरा अन्तर्मुहूर्ता इति । त्रीणि पल्यानि उपमा यस्याः स्थितेः सा त्रिपल्योपमा । अन्तर्गतो मुहूर्तो यस्याः सा अन्तर्मुहूर्ता । अत्राह-किमिदं पल्यं नाम इति ? उच्यते — तत्परिच्छेदः प्रमाणविधिनिर्णयपुरस्सर इति प्रमाणविधिरेव तावदुच्यते । प्रमाणं द्विविधं लौकिकलोकोत्तरभेदात् । २ । लौकिकं लोकोत्तरमिति प्रमाणं द्वेधा २०विभज्यते । लौकिकं षोढा मानोन्मानावमानगणनाप्रतिमानतत्प्रमाणभेदात् । ३ । लौकिकं मानं षोढा विभज्यते — मानमुन्मानमवमानं गणना प्रतिमानं तत्प्रमाणं चेति । तत्र मानं द्वेधा — रसमानं बीजमानं चेति । घृतादिद्रव्यपरिच्छेदकं षोडशिकादि रसमानम् । कुडवादि बीजमानम् । कुष्ठ- तगरादिभाण्डं येनोत्क्षिप्य मीयते तदुन्मानम् । निवर्तनादिविभागेन क्षेत्रं येनावगाह्य मीयते २५तदवमानं दण्डादि । एकद्वित्रिचतुरादिगणितमानं गणनामानम् । पूर्वमानापेक्षं मानं प्रति- मानं प्रतिमल्लवत् । चत्वारि महिधिकातृणफलानि श्वेतसर्षप एकः, षोडशसर्षपफलानि २०६ धान्यमाषफलमेकम्, द्वे धान्यमाषफले गुञ्जाफलमेकम्, द्वे गुञ्जाफले रूप्यमाष एकः, षोडश- रूप्यमाषकाः धरणमेकम्, अर्धतृतीयधरणानि सुवर्णः, स च कंसः, चत्वारः कंसाः पलम्, पलशतं तुला, अर्धकंसः त्रीणि च पलानि कुडवः, चतुःकुडवः प्रस्थः, चतुःप्रस्थमाढकम्, चतुराढकं द्रोणः, षोडश द्रोणा खारी, विंशति खार्यो वाह इत्यादि मागधकप्रमाणम् । मणिजात्यश्वादेर्द्रव्यस्य ०५दीप्त्युच्छ्रायगुणविशेषादिमूल्यपरिमाणकरणे प्रमाणमस्येति तत्प्रमाणम् । तद्यथा — मणिरत्नस्य दीप्तिर्यावत्क्षेत्रमुपरि व्याप्नोति तावत्प्रमाणं सुवर्णकूटं मूल्यमिति । अश्वस्य च यावानुच्छ्राय- स्तावत्प्रमाणं सुवर्णकूटं मूल्यम् । यावता रत्नस्वामिनः परितोषः तावद्रत्नमूल्यम् एवमन्येषामपि द्रव्याणाम् । लोकोत्तरं चतुर्धा द्रव्यक्षेत्रकालभावभेदात् । ४ । लोकोत्तरं प्रमाणं चतुर्धा भिद्यते । १०कुतः ? द्रव्यक्षेत्रकालभावभेदात् । तत्र द्रव्यप्रमाणं जघन्यमध्यमोत्कृष्टम् एकपरमाणु द्वित्रिचतु- रादिप्रदेशात्मकम् आमहास्कन्धात् । क्षेत्रप्रमाणं जघन्यमध्यमोत्कृष्टमेकाकाशद्वित्रिचतुरादि- प्रदेशनिष्पन्नमासर्वलोकात् । कालप्रमाणं जघन्यमध्यमोत्कृष्टमेकद्वित्रिचतुरादिसमयनिष्पन्नम् आ अनन्तकालात् । भावप्रमाणमुपयोगः साकाराऽनाकारभेदः जघन्यः सूक्ष्मनिगोतस्य, मध्यमो- ऽन्यजीवानाम्, उत्कृष्टः केवलिनः । १५तत्र द्रव्यप्रमाणं द्वेधा संख्योपमाभेदात् । ५ । संख्याप्रमाणमुपमाप्रमाणं चेति द्वेधा द्रव्यप्रमाणं विभज्यते । तत्र संख्याप्रमाणं त्रिधा संख्येयासंख्येयानन्तभेदात् । तत्र संख्येयप्रमाणं त्रेधा, इतरे द्वे नवधा नवधा ज्ञेये । जघन्यमजघन्योत्कृष्टमुत्कृष्टं चेति संख्येयं त्रिविधम् । संख्येयप्र- माणावगमार्थं जम्बूद्वीपतुल्यायामविष्कम्भा योजनसहस्रावगाहः बुद्ध्या कुशूलाश्चत्वारः कर्तव्याः — शलाका-प्रतिशलाका-महाशलाकाख्यास्त्रयोऽवस्थिताः चतुर्थोऽनवस्थितः । अत्र द्वौ २०सर्षपौ निक्षिप्तौ जघन्यमेतत्संख्येयप्रमाणम्, तमनवस्थितं सर्षपैः पूर्णं गृहीत्वा कश्चिद् देवः एकैकं सर्षपमेकैकस्मिन् द्वीपे समुद्रे च प्रक्षिपेत् तेन विधिना स रिक्तः । रिक्त इति शलाका- कुशले एकं सर्षपं प्रक्षिपेत् । यत्र अन्त्यसर्षपो निक्षिप्तस्तमवधिं कृत्वा अनवस्थितं कुशूलं परिकल्प्य सर्षपैः पूर्णं कृत्वा ततः परेषु द्वीपसमुद्रेष्वेकैकसर्षपप्रदानेन स रिक्तः कर्तव्यः । रिक्त इति शलाकाकुशूले पुनरेकं प्रक्षिपेत् । अनेन विधिना अनवस्थितकुशूलपरिवर्धनेन शलाकाकुशूले २५परिपूर्णे, पूर्ण इति प्रतिशलाकाकुशूले एकः सर्षपो निक्षेप्तव्यः । एवं तावत्कर्तव्यो यावत्प्रतिश- लाकाकुशूलः परिपूर्णो भवति । परिपूर्णे इति महाशलाकाकुशूले एकः सर्षपः प्रक्षेप्तव्यः । सोऽपि तथैव परिपूर्णः । एवमेतेषु चतुर्ष्वपि पूर्णेषु उत्कृष्टसंख्येयमतीत्य जघन्यपरीतासंख्येयं गत्वैकं रूपं पतितम्, ततः एकस्मिन् रूपे अपनीते उत्कृष्टसंख्येयं भवति । मध्यममजघन्योत्कृष्टसंख्ये- यम् । यत्र संख्येयेन प्रयोजनं तत्राजघन्योत्कृष्टसंख्येयं ग्राह्यम् । ३०यदसंख्येयं तत्त्रिविधं परीतासंख्येयं युक्तासंख्येयं असंख्येयासंख्येयं चेति । तत्र परीतासं- ख्येयं त्रिविधं जघन्योत्कृष्टमध्यमभेदात् । एवमितरे चाऽसंख्येये भिद्येते । तथा अनन्तमपि त्रिविधं परीतानन्तं युक्तानन्तं अनन्तानन्तं चेति । तदपि प्रत्येकं पूर्व- वत्त्रिधा भेद्यम् । यज्जघन्यपरीतासंख्येयं तद्विरलीकृत्य मुक्तावलीकृता अत्रैकैकस्यां मुक्तायां जघन्यपरीतासंख्येयं देयम् । एवमेतद्वर्गितम् । प्राथमिकीं मुक्तावलीमपनीय यान्येकैकस्यां ३५मुक्तायां जघन्यपरीतासंख्येयानि दत्तानि तानि संपिण्ड्य मुक्तावली कार्या । ततो यो जघन्य- २०७ परीतासंख्येयसंपिण्डनान्निष्पन्नो राशिः स देयः एकैकस्यां मुक्तायाम् । एवमेतत्संवर्गितम् उत्कृ- ष्टपरीतासंख्येयमतीत्य जघन्ययुक्तासंख्येयं गत्वा पतितम् । अत एकरूपेऽपनीते उत्कृष्टपरीता- संख्येयं भवति । मध्यमजघन्योत्कृष्टपरीतासंख्येयम् । यत्रावलिकया कार्यं तत्र जघन्ययुक्ता- संख्येयं ग्राह्यम् । यज्जघन्ययुक्तासंख्येयं तद्विरलीकृत्य मुक्तावली रचिता । तत्रैकैकमुक्तायां ०५जघन्ययुक्तासंख्येयानि देयानि । एवमेतत् सकृद्वर्गितमुत्कृष्टयुक्तासंख्येयमतीत्य जघन्याऽसंख्ये- याऽसंख्येयं गत्वा पतितम्, तत एकरूपेऽपनीते उत्कृष्टं युक्तासंख्येयं भवति मध्यममजघन्योत्कृष्ट- युक्तासंख्येयं भवति । यज्जघन्याऽसंख्येयासंख्येयं तद्विरलीकृत्य पूर्वविधिना त्रीन्वारान् वर्गित- संवर्गितं उत्कृष्टासंख्येयासंख्येयं प्राप्नोति । ततो धर्माधर्मैकजीवलोकाकाशप्रत्येकशरीरजीवबादर- निगोतशरीराणि षडप्येतान्यसंख्येयानि स्थितिबन्धाध्यवसायस्थानान्यनुभागबन्धाध्यवसायस्था- १०नानि योगाविभागपरिच्छेदरूपाणि चासंख्येयलोकप्रदेशपरिमाणान्युत्सर्पिण्यवसर्पिणीसमयांश्च प्रक्षिप्य पूर्वोक्तराशौ त्रीन्वारान् वर्गितसंवर्गितं कृत्वा उत्कृष्टाऽसंख्येयाऽसंख्येयमतीत्य जघन्य- परीतानन्तं गत्वा पतितम् । तत एकरूपेऽपनीते उत्कृष्टाऽसंख्येयाऽसंख्येयं भवति । मध्यमम- जघन्योत्कृष्टाऽसंख्येयाऽसंख्येयं भवति । यत्रासंख्येयाऽसंख्येयेन प्रयोजनं तत्राऽजघन्योत्कृष्टाऽसं- ख्येयाऽसंख्येयं ग्राह्यम् । यज्जघन्यपरीतानन्तं तत्पूर्ववद्वर्गितसंवर्गितमुत्कृष्टपरीतानन्तमतीत्य जघ- १५न्ययुक्तानन्तं गत्वा पतितम् । तत एकरूपेऽपनीते उत्कृष्टपरीतानन्तं तद्भवति । मध्यममजघ- न्योत्कृष्टपरीतानन्तम् । अभव्यराशिप्रमाणमार्गणे जघन्ययुक्तानन्तं ग्राह्यम् । यज्जघन्ययुक्ता- नन्तं तद्विरलीकृत्यात्रैकैकरूपे जघन्ययुक्तानन्तं दत्त्वा सकृद्वर्गितमुत्कृष्टयुक्तानन्तमतीत्य जघन्य- मनन्तानन्तं गत्वा पतितम् । तत एकरूपेऽपनीते उत्कृष्टयुक्तानन्तं भवति । मध्यममजघन्यो- त्कृष्टयुक्तानन्तम् । यज्जघन्याऽनन्ताऽनन्तं तद्विरलीकृत्य पूर्ववत्त्रीन्वारान् वर्गितसंवर्गितमुत्कृ- २०ष्टाऽनन्ताऽनन्तं न प्राप्नोति, ततः सिद्धनिगोतजीववनस्पतिकायातीताऽनागतकालसमयसर्वपुद्ग- लसर्वाऽऽकाशप्रदेशधर्माधर्मान्तिकायाऽगुरुलघुगुणानन्तान् प्रक्षिप्य प्रक्षिप्य त्रीन् वारान् वर्गित- संवर्गिते कृते उत्कृष्टाऽनन्ताऽनन्तं न प्राप्नोति, ततोऽनन्ते केवलज्ञाने दर्शने च प्रक्षिप्ते उत्कृ- ष्टाऽनन्ताऽनन्तं भवति । तत एकरूपेऽपनीतेऽजघन्योत्कृष्टाऽनन्ताऽनन्तं भवति । यत्राऽनन्ता- ऽनन्तमार्गणातत्राजघन्योत्कृष्टाऽनन्ताऽनन्तं ग्राह्यम् । २५उपमाप्रमाणमष्टविधं पल्यसागरसूचीप्रतरघनाङ्गुलजगच्छ्रेणीलोकप्रतरलोकभेदात् । ६ । अन्तादिमध्यहीनः अविभागोऽतीन्द्रियः एकरसवर्णगन्धः द्विस्पर्शः परमाणुः । अनन्तानन्तपरमा- णुसंघातपरिमाणादाविर्भूता उत्संज्ञासंज्ञैका । अष्टावुत्संज्ञासंज्ञासंहताः संज्ञासंज्ञैका । अष्टौ संज्ञासंज्ञा एकस्त्रुटिरेणुः । अष्टौ त्रुटिरेणवः संहताः एकस्त्रसरेणुः । अष्टौ त्रसरेणवः संहताः एको रथरेणुः । अष्टौ रथरेणवः संहताः एका देवकुरूत्तरकुरुमनुजकेशाग्रकोटी भवति । ता ३०अष्टौ समुदिता एका रम्यकहरिवर्षमनुजकेशाग्रकोटी भवति । अष्टौ ताः संहताः हैरण्यवत- हैमवतमनुजकेशाग्रकोटी भवति । ता अष्टौ संपिण्डिताः भरतैरावतविदेहमनुजकेशाग्रकोटी भवति । ता अष्टौ संहता एका लिक्षा भवति । अष्टौ लिक्षा संहता एका यूका भवति । अष्टौ यूका एकं यवमध्यम् । अष्टौ यवमध्यानि एकमङ्गुलमुत्सेधाख्यम् । एतेन नारकतैर्यग्यो- नानां देवमनुष्याणामकृत्रिमजिनालयप्रतिमानां च देहोत्सेधो मातव्यः । तदेव पञ्चशतगुणितं २०८ प्रमाणाङ्गुलं भवति । एतदेव चावसर्पिण्यां प्रथमचक्रधरस्याऽऽत्माङ्गुलं भवति । तदानीं तेन ग्रामनगरादिप्रमाणपरिच्छेदो ज्ञेयः । इतरेषु युगेषु मनुष्याणां यद्यदात्माङ्गुलं तेन तेन तदा ग्रामनगरादिप्रमाणपरिच्छेदो ज्ञेयः । यत्तत्प्रमाणाङ्गुलं तेन द्वीपसमुद्रजगतीवेदिकापर्वतविमा- ननरकप्रस्ताराद्यकृत्रिमद्रव्यायामविष्कम्भादिपरिच्छेदोऽवसेयः । तत्र षडङ्गुलः पादः । द्वाद- ०५शाङ्गुलो वितस्तिः । द्विवितस्तिः हस्तः । द्विहस्तः किष्कुः । द्विकिष्कुर्दण्डः । द्वे दण्डसहस्रे गव्यूतम् । चतुर्गव्यूतं योजनम् । पल्यं त्रिविधं व्यवहारोद्धाराद्धाविकल्पादन्वर्थात् । ७ । व्यवहारपल्यम् उद्धारपल्यम् अद्धापल्य- मिति त्रिधा पल्यं विभज्यते । अन्वर्थश्चायं विकल्पः । आद्यं व्यवहारपल्यमुत्तरपल्यव्यवहारबीज- त्वान्नानेनकिञ्चित्परिच्छेद्यमस्ति । द्वितीयमुद्धारपल्यं तत उद्धृतैर्लोमच्छेदैर्द्वीपसमुद्रसंख्यानिर्णय १०इति । तृतीयमद्धापल्यं अद्धाकाल इत्यर्थः । अतो हि स्थितेः परिच्छेदः इति । तद्यथा — प्रमाणा- ङ्गुलपरिमितयोजनायामविष्कम्भावगाहानि त्रीणि पल्यानि कुशूला इत्यर्थः । एकादिसप्ता- न्ताहोरात्रिजाताविकलोमाग्राणि तावच्छिन्नानि यावद् द्वितीयं कर्तरीच्छेदं नावाप्नुवन्ति । तादृशैर्लोमच्छेदैः परिपूर्णं घनीकृतं व्यवहारपल्यमित्युच्यते । ततो वर्षशते वर्षशते अतीते एकैकलोमापकर्षणविधिना यावता कालेन तद्रिक्तं भवेत् तावत्कालो व्यवहारपल्योपमाख्यः । १५तैरेव रोमच्छेदैः प्रत्येकमसंख्येयवर्षकोटिसमयमात्रच्छिन्नैः पूर्णमुद्धारपल्यम् । ततः समये समये एकैकस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन तद्रिक्तं भवेत् तावत्कालः उद्धारपल्योपमा- ख्यः । एषामुद्धारपल्यानां दशकोटीकोट्यः एकमुद्धारसागरोपमम् । अर्धतृतीयोद्धारसागरोप- माणां यावन्तो रोमच्छेदास्तावन्तो द्वीपसमुद्राः । पुनरुद्धारपल्यरोमच्छेदैर्वर्षशतसमयमात्र- च्छिन्नैः पूर्णमद्धापल्यम् । ततः समये समये एकैकस्मिन् रोमच्छेदेऽपकृष्यमाणे यावता कालेन २०तद्रिक्तं भवति तावत्कालः अद्धापल्योपमाख्यः । एषामद्धापल्यानां दशकोटीकोट्य एकमद्धासा- गरोपमम् । दशाद्धासागरोपमकोटीकोट्य एकाऽवसर्पिणी, तावत्येवोत्सर्पिणी । अनेन अद्धा- पल्येन नारकतैर्यग्योनानां देवमनुष्याणां च कर्मस्थितिर्भवस्थितिरायुःस्थितिः कायस्थितिश्च परिच्छेतव्या । अद्धापल्यस्याऽर्द्धच्छेदेन शलाकाविरलीकृत्य प्रत्येकमद्धापल्यप्रदानं कृत्वा अन्योऽन्यगुणिते कृते यावन्तश्छेदास्तावद्भिराकाशप्रदेशैर्मुक्तावली कृता सूच्यङ्गुलमित्युच्यते । २५तदेवाऽपरेण सूच्यङ्गुलेन गुणितं प्रतराङ्गुलम् । तत्प्रतराङ्गुलमपरेण सूच्यङ्गुलेनाऽभ्यस्तं घनाङ्गुलम् । असंख्येयानां वर्षाणां यावन्तः समयास्तावत्खण्डमद्धापल्यं कृतम्, ततोऽसंख्येयान् खण्डानपनीयाऽसंख्येयमेकं भागं बुद्ध्या विरलीकृत्य एकैकस्मिन् घनाङ्गुलं दत्त्वा परस्परेण गुणिता जाता जगच्छ्रेणी । सा अपरया जगच्छ्रेण्या अभ्यस्ता प्रतरलोकः । स एवाऽपरया जगच्छ्रेण्या संवर्गितो घनलोकः । ३०क्षेत्रप्रमाणं द्विविधम् — अवगाहक्षेत्रं विभागनिष्पन्नक्षेत्रं चेति । तत्रावगाहक्षेत्रमनेकवि- धम् — एकद्वित्रिचतुःसंख्येयाऽसंख्येयाऽनन्तप्रदेशपुद्गलद्रव्यावगाह्येकाद्यसंख्येयाकाशप्रदेशभेदात् । विभागनिष्पन्नक्षेत्रं चाऽनेकविधम् — असंख्येयाकाशश्रेणयः, क्षेत्रप्रमाणाङ्गुलस्यैकोऽसंख्येयभागः, असंख्येयाः क्षेत्रप्रमाणाङ्गुलाऽसंख्येयभागाः क्षेत्रप्रमाणाङ्गुलमेकं भवति । पादवितस्त्यादि पूर्ववद्वेदितव्यम् । कालप्रमाणमुच्यते — सर्वजघन्यगतिपरिणतस्य परमाणोः स्वावगाढप्रदेशव्यति- ३५क्रमकालः परमनिषिद्धो निर्विभागः समयः । असंख्येयाः समयाः आवलिका । असंख्येयावलिका २०९ एक उच्छ्वासस्तावानेव निश्वासः । तावुभावनुपहतस्य पुंसः प्राण एकः । सप्तप्राणाः स्तोकः । सप्त स्तोकाः लवः । सप्तसप्ततिर्लवाः मुहूर्तः । त्रिंशन्मुहूर्ता अहोरात्रः । पञ्चदशाऽ- होरात्राः पक्षः । द्वौ पक्षौ मासः । द्वौ मासौ ऋतुः । ऋतवस्त्रयोऽयनम् । द्वेऽयने संवत्सरः । चतुरशीतिवर्षशतसहस्राणि पूर्वाङ्गम् । चतुरशीतिपूर्वाङ्गशतसहस्राणि पूर्वम् । एवमनयैव ०५वृद्ध्या पर्वाङ्ग-पर्व-नयुताङ्ग-नयुत-कुमुदाङ्ग-कुमुद-पद्माङ्ग-पद्म-नलिनाङ्ग-नलिन-कमला- ङ्ग — कमल-तुट्याङ्ग-तुट्य-अटटङ्ग-अटट-अममाङ्ग-अमम-हूहूअङ्ग-हूहू-लताङ्ग-लता-महाल- ताङ्ग — महालताप्रभृतिसंज्ञा । कालो वर्षगणनागम्यः संख्येयो वेदितव्यः । ततः परोऽसंख्येयः पल्योपमसागरोपम — प्रमितः । ततः परोऽनन्तः कालोऽतीतोऽनागतश्च सर्वज्ञप्रत्यक्षः । भावप्रमाणं पञ्चविधं ज्ञानम् पुरस्ताद्व्याख्यातम् । १०यथैवेते उत्कृष्टजघन्ये स्थिती नृणां तथैव- तिर्यग्योनिजानां च ॥ ३९ ॥ तिरश्चां योनिस्तिर्यग्योनिः । का पुनरसौ ? तिर्यङ्नामकर्मोदयापादितं जन्म तिर्यग्योनिः । १ । तिर्यग्गतिनाम्नः कर्मणः उदयेना- पादितं जन्म तिर्यग्योनिरिति व्यपदिश्यते । तिर्यग्योनौ जातास्तिर्यग्योनिजाः । तेषां १५तिर्यग्योनिजानाम् उत्कृष्टा भवस्थितिः त्रिपल्योपमा, जघन्याऽन्तर्मुहूर्ता । मध्ये विकल्पः, तत्प्रतिपादनार्थमिदमुच्यते- तिर्यञ्चः त्रिविधाः एकेन्द्रियविकलेन्द्रियपञ्चेन्द्रियभेदात् । २ । एकेन्द्रियाः विकलेन्द्रियाः पञ्चेन्द्रियाश्चेति त्रिविधाः तिर्यञ्चो वेदितव्याः । द्वादशद्वाविंशतिदशसप्तत्रिवर्षसहस्राणि एकेन्द्रियाणामुत्कृष्टा स्थितिर्यथासंभवं त्रीणि २०रात्रिन्दिवानि च । ३ । एकेन्द्रियाः पञ्चविधाः पृथिवीकायिका अप्कायिकाः तेजस्कायिका वायुकायिका वनस्पतिकायिकाश्चेति । तत्र पृथिवीकायिका द्विविधाः शुद्धपृथिवीकायिकाः खरपृथिवीकायिकाश्चेति । तत्र शुद्धपृथिवीकायिकानाम् उत्कृष्टा स्थितिर्द्वादशवर्षसहस्राणि । खरपृथिवीकायिकानां द्वाविंशतिवर्षसहस्राणि । वनस्पतिकायिकानां दशवर्षसहस्राणि । अप्कायिकानां सप्तवर्षसहस्राणि । वायुकायिकानां त्रीणि वर्षसहस्राणि । तेजस्कायिकानां २५त्रीणि रात्रिन्दिवानि । विकलेन्द्रियाणां द्वादशवर्षा एकान्नपञ्चाशद्रात्रिन्दिवानि षण्मासाश्च । ४ । द्वीन्द्रियाणा- मुत्कृष्टा स्थितिर्द्वादशवर्षाः । त्रीन्द्रियाणां एकान्नपञ्चाशद्रात्रिन्दिवानि । चतुरिन्द्रियाणां षण्मासाः । पञ्चेन्द्रियाणां पूर्वकोटिनवपूर्वाङ्गानि द्विचत्वारिंशद्द्वासप्ततिवर्षसहस्राणि त्रिपल्योपमा ३०च । ५ । पञ्चेन्द्रियाः तैर्यग्योनाः पञ्चविधाः — जलचराः, परिसर्पाः, उरगाः, पक्षिणः, चतुः- पादश्चेति । तत्र जलचराणामुत्कृष्टा स्थितिः मत्स्यादीनां पूर्वकोटी । परिसर्पाणां गोधा- नकुलादीनां नव पूर्वाङ्गानि । उरगाणां द्विचत्वारिंशद्वर्षसहस्राणि । पक्षिणां द्वासप्ततिवर्ष- सहस्राणि । चतुःपदां त्रीणि पल्योपमानि । सर्वेषां तेषां जघन्या स्थितिरन्तर्मुहूर्ता । किमर्थो योगविभागः ? २१० पृथग्योगकरणं यथासंख्यनिवृत्त्यर्थम् । ६ । प्रत्येकं यथा स्यातामिति यथासंख्यनिवृत्त्यर्थो योगविभागः क्रियते । अथैतेषां भवस्थितिः कायस्थितिः का ? कः पुनरनयोर्विशेषः ? एकभवविषया भवस्थितिः । कायस्थितिरेककायापरित्यागेन नानाभवग्रहणविषया । यद्येवमुच्यतां कस्य ०५का कायस्थितिः ? उच्यते — पृथिव्यप्तेजोवायुकायिकानां कायस्थितिरुत्कृष्टा असंख्येया लोकाः । वनस्पतिकायिकस्याऽनन्तः कालः असंख्येयाः पुद्गलपरिवर्ताः आवलिकाया असंख्येयभागमात्राः । विकलेन्द्रियाणाम् असंख्येयानि वर्षसहस्राणि । पञ्चेन्द्रियाणां तिर्यङ्- मनुष्याणां तिस्रः पल्योपमाः पूर्वकोटीपृथक्त्वेनाऽभ्यधिकाः । तेषां सर्वेषां जघन्या कायस्थितिरन्तर्मुहूर्ता । देवनारकाणां भवस्थितिरेव कायस्थितिरिति । १०इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे तृतीयोऽध्यायः समाप्तः । २११ चतुर्थोऽध्यायः असकृद् देवशब्द उक्तः *“भवप्रत्ययोऽवधिर्देवनारकाणाम्”[तº सूº१ । २०] इत्येव- मादिषु, तत्र न ज्ञायते के देवाः कियन्तो वा इति ? तन्निश्चयार्थमित उत्तरं प्रक्रम्यते । अथवा, सम्यग्दर्शनविषयजीवभेदत्रसस्थावरनिर्णयाय तदधिकरणभूताधस्तिर्यग्लोकनिवेशक्रमो व्याख्यातः, इतस्तद्विशेषप्रतिपत्तये ऊर्ध्वलोकविभागो वक्तव्यः । तत्र बहुवक्तव्यसद्भावेऽप्यधि- ०५पतिप्रतिपादनपुरस्सरस्तदधिकरणविभागनिर्णय इतीदमुच्यते- देवाश्चतुर्णिकायाः ॥ १ ॥ देवगतिनामकर्मोदये सति द्युत्याद्यर्थावरोधाद् देवाः । १ । अन्तरङ्गहेतौ देवगतिनामकर्मो- दये सति बाह्यद्युत्यादिक्रियासंबन्धमन्तर्नीय दीव्यन्तीति देवा इति व्यपदिश्यन्ते । एकत्वेन निर्देशः कर्तव्यः देवश्चतुर्णिकायः इति; स जात्यभिधानाद् बहूनामर्थानां प्रतिपादको भवति १०इति ? अत उत्तरं पठति- बहुत्वनिर्देशोऽन्तर्गतभेदप्रतिपत्त्यर्थः । २ । इन्द्रादिकृताः स्थित्यादिजनिताश्चाऽन्तर्गता बहवो देवभेदाः सन्ति तेषां प्रतिपत्त्यर्थं बहुत्वनिर्देशः क्रियते । स्वधर्मविशेषापादितसामर्थ्यात् निचीयन्त इति निकायाः । ३ । तस्य देवगतिनाम- कर्मोदयस्वधर्मविशेषापादितभेदस्य सामर्थ्यान्निचीयन्त इति निकायाः संघाता इत्यर्थः । चत्वारो १५निकाया येषां ते चतुर्णिकायाः । के पुनस्ते ? भवनवासिनो व्यन्तरा ज्योतिष्का वैमानि- काश्चेति । तेषां लेश्यावधारणार्थमुच्यते- आदितस्त्रिषु पीतान्तलेश्याः ॥ २ ॥ आदित इति वचनं विपर्यासनिवृत्त्यर्थम् । १ । अन्ते अन्यथा वा ग्रहणं मा विज्ञायीति २०आदित इत्युच्यते । आदौ आदितः । द्व्येकनिवृत्त्यर्थं त्रिग्रहणम् । २ । द्वयोरेकस्य च निवृत्त्यर्थं त्रिग्रहणं क्रियते । अथ चतुर्णां निवृत्त्यर्थं कस्मान्न भवति ? आदित इति वचनात् । लेश्यावधारणार्थं पीतान्तवचनम् । ३ । षट्लेश्या उक्ताः । तत्र चतसृणां लेश्यानाम- वधारणार्थं क्रियते पीतान्तग्रहणम् । पीतं तेज इत्यर्थः । पीता अन्ते यासां ताः पीतान्ताः, २५पीतान्ता लेश्या येषां ते पीतान्तलेश्याः । तेनैतदुक्तं भवति — आदितस्त्रिषु निकायेषु भवन- वासिव्यन्तरज्योतिष्कनामसु देवानां कृष्णा नीला कापोता पीतेति चतस्रो लेश्या भवन्तीति । तेषां निकायानामन्तर्विकल्पप्रतिपादनार्थमाह- २१२ दशाष्टपञ्च द्वादशविकल्पाः कल्पोपपन्नपर्यन्ताः ॥ ३ ॥ चतुर्णां दशादिभिर्यथासंख्यमभिसंबन्धः । १ । चतुर्णां देवनिकायानां दशादिभिः संख्याशब्दैः यथासंख्यमभिसंबन्धो वेदितव्यः । दशविकल्पा भवनवासिनः, अष्टविकल्पा ०५व्यन्तराः, पञ्चविकल्पाः ज्योतिष्काः, द्वादशविकल्पा वैमानिका इति । सर्वेषां वैमानिकानां द्वादशविकल्पान्तःपातित्वे प्रसक्ते तद्व्यपोहार्थमाह- कल्पोपपन्नपर्यन्तवचनं ग्रैवेयकादिव्युदासार्थम् । २ । ग्रैवेयकादयोः वक्ष्यन्ते तेषां द्वादशवि- कल्पेष्वन्तर्भावो मा विज्ञायीति विशेषणमुपादीयते । अथ कथं कल्पाः ? इन्द्रादिविकल्पनाधिकरणत्वात्कल्पा रूढिवशात् । ३ । इन्द्रादयः प्रकारा वक्ष्यमाणा दश १०एषु कल्प्यन्ते इति कल्पाः । भवनवासिषु च दशविकल्पसद्भावात् कल्पप्रसङ्ग इति चेत्; न; रूढिवशादिति विशेष्योक्तत्वात् । कल्पेषूपपन्नाः कल्पोपपन्नाः पर्यन्ता येषां ते इमे कल्पोपप- न्नपर्यन्ताः । कल्पोपपन्ना इति कथं वृत्तिः ? *“साधनं कृता”[जैनेन्द्रº १ । ३ । २९] इति वा मयूरव्यंसकादित्वाद्वा । पुनरपि तद्विशेषप्रतिपत्त्यर्थमाह- १५इन्द्रसामानिकत्रायस्त्रिंशपारिषदात्मरक्षलोकपालानीकप्रकीर्ण- काभियोग्यकिल्विषिकाश्चैकशः ॥ ४ ॥ परमैश्वर्यादिन्द्रव्यपदेशः । १ । अन्यदेवाऽसाधारणाणिमादिगुणयोगादिन्दन्तीतीन्द्राः । तत्स्थानार्हत्वात् सामानिकाः । २ । तेषामिन्द्राणामाज्ञैश्वर्यवर्जितं यत् स्थानायुर्वीर्य- परिवारभोगोपभोगादि तदेतेषां समानम्, समाने भवाः सामानिकाः *“समानस्य तदादेश्च” २०[जैनेन्द्रवाº ३ । ३ । ३५] इति ठञ् । महत्तरपितृगुरूपाध्यायतुल्याः । मन्त्रिपुरोहितस्थानीयास्त्रायस्त्रिंशाः । ३ । यथेह राज्ञां मन्त्रिपुरोहिता हितानुशासिनस्तथा तत्रेन्द्राणां त्रायस्त्रिंशा वेदितव्याः । कथं त्रायस्त्रिंशाः ? त्रयस्त्रिंशति जाताः त्रायस्त्रिंशाः *“दृष्टे साम्नि च जाते च अण् डिद्वा विधीयते”[पातº महाº २ । ४ । ७] इत्यभिधानमस्तीति अण् डिद् भवति । ननु च भेदाभावाद् वृत्तिर्न प्राप्नोति ? संख्यानसंख्येयभेदविवक्षायाम् आधाराधेयत्वो- २५पपत्तेर्वृत्तिर्भवति । स्वार्थे को वा, वात् अण्, त्रयस्त्रिंशदेव त्रायस्त्रिंशा इति । कुतः ? *“हृत”[जैनेन्द्रº ३ । १ । ६१] इति बहुत्वनिर्देशाद् अन्तमादिवत् । वयस्यपीठमर्दसदृशाः पारिषदाः । ४ । परिषदि जाता भवा वा पारिषदाः, ते वयस्य- पीठमर्दसदृशा वेदितव्याः । २१३ आत्मरक्षाः शिरोरक्षोपमाः । ५ । आत्मानं रक्षन्तीति आत्मरक्षास्ते शिरोरक्षोपमाः । आवृतावरणाः प्रहरणोद्यता रौद्राः पृष्ठतोऽवस्थायिनः । अपायाभावात्तत्कल्पनावैयर्थ्य- मिति चेत्; न; ऋद्धिविशेषख्यापनार्थत्वात् प्रीतिप्रकर्षहेतुत्वाच्च । आरक्षिकार्थचरसमा लोकपालाः । ६ । लोकं पालयन्तीति लोकपाला अर्थचरा रक्षिक- ०५समाः ते वेदितव्याः । दण्डस्थानीयान्यनीकानि । ७ । पदात्यादीनि सप्तानीकानि दण्डस्थानीयानि वेदितव्यानि । प्रकीर्णकाः पौरजनपदकल्पाः । ८ । यथेह राज्ञां पौरा जानपदाश्च प्रीतिहेतवः तथा तत्रेन्द्राणां प्रकीर्णकाः प्रत्येतव्याः । १०आभियोग्या दाससमानाः । ९ । यथेह दासा वाहनादिव्यापारं कुर्वन्ति तथा तत्राऽऽभि- योग्या वाहनादिभावेनोपकुर्वन्ति । आभिमुख्येन योगोऽभियोगः, अभियोगे भवा आभियोग्याः ततः स्वार्थे चातुर्वर्ण्यादिवत् ट्यण् । अथवा अभियोगे साधवः आभियोग्याः, अभियोग- मर्हन्तीति वा । अन्त्यवासिस्थानीयाः किल्विषिकाः । १० । किल्विषं पापं तदेषामस्तीति किल्विषिकाः १५ते अन्त्यवासिस्थानीया मताः । एकश इति वीप्सार्थे शस् । ११ । एकैकस्य निकायस्य एकश इति वीप्सार्थे द्योत्ये शस् प्रयुज्यते । एत इन्द्रादयो दश विकल्पाश्चतुर्षु निकायेषु उत्सर्गेण प्रसक्तास्ततोऽपवादार्थमाह- त्रायस्त्रिंशलोकपालवर्ज्या व्यन्तरज्योतिष्काः ॥ ५ ॥ व्यन्तरेषु ज्योतिष्केषु च त्रायस्त्रिंशान् लोकपालांश्च वर्जयित्वा इतरेऽष्टौ विकल्पा २०द्रष्टव्याः । अथ तेषु निकायेषु किमेकैक इन्द्रः उताऽन्यः प्रतिनियमः कश्चिदस्तीति ? अत आह- पूर्वयोर्द्वीन्द्राः ॥ ६ ॥ पूर्वयोरिति वचनं प्रथमद्वितीयनिकायप्रतिपत्त्यर्थम् । १ । प्रथमस्य द्वितीयस्य च निकायस्य प्रतिपत्त्यर्थं पूर्वयोरिति द्विवचनं क्रियते । कथं पूर्वशब्दो द्वितीयं गमयति ? २५तृतीयापेक्षया पूर्वोपपत्तेः । चतुर्थापेक्षया तृतीयस्यापि पूर्वत्वप्रसङ्ग इति चेत्; न; प्रत्यासत्ते- र्द्वितीयस्यैवोपादानात् । अथ कथमत्र भेदः ? ननु व्यतिरेकाभावादभेदेन निर्देशो न्याय्यः ? उच्यते- समूहसमूहिनोः कथञ्चिदर्थान्तरत्वोपपत्तेर्भेदविवक्षा । २ । संज्ञालक्षणप्रयोजनादिभिः कथञ्चिदर्थान्तरत्वं समहसमूहिनोर्लोके दृष्टम् । यथा व्रीहीणां राशिः, आम्राणां वनमिति । ३०तथा देवानां निकाययोश्च भेदविवक्षायाम् अधिकरणत्वेन सम्बन्धित्वेन वा निर्देशः क्रियते । द्वीन्द्रा इत्यन्तर्नीतवीप्सार्थो निर्देशः । ३ । द्वौ द्वाविन्द्रौ येषां ते द्वीन्द्रा इति वीप्सार्थ- मन्तर्नीय निर्देशः क्रियते यथा द्विपदिका त्रिपदिका इति । युज्यते तत्र वीप्सागतिर्वीप्सायां २१४ वुनो विधानात्, इह तु न विधानमस्ति ? यथा तर्हि सप्तपर्णोऽष्टापदमिति न चोच्यते वीप्सायामिति गम्यते च, तथेहापि वीप्सार्थसंप्रत्ययः । के पुनस्ते द्वित्ववीप्साविषयत्वेन विवक्षिताः इति ? अत्रोच्यते — भवनवासिषु तावत् द्वौ असुरकुमाराणामिन्द्रौ चमरो वैरोचनश्च । नागकुमाराणां धरणो भूतानन्दश्च । विद्युत्कुमा- ०५राणां हरिसिंहो हरिकान्तश्च । सुपर्णकुमाराणां वेणुदेवो वेणुधारी च । अग्निकुमाराणाम् अग्निशिखोऽग्निमाणवश्च । वातकुमाराणां वैलम्बः प्रभञ्जनश्च । स्तनितकुमाराणां सुघोषो महाघोषश्च । उदधिकुमाराणां जलकान्तो जलप्रभश्च । द्वीपकुमाराणां पूर्णो वशिष्टश्च । दिक्कुमाराणाम् अमितगतिरमितवाहनश्चेति । व्यन्तरेष्वपि द्वौ किन्नराणामिन्द्रौ किन्नरः किम्पुरुषश्च । किम्पुरुषाणां सत्पुरुषो महा- १०पुरुषश्च । महोरगाणाम् अतिकायो महाकायश्च । गन्धर्वाणां गीतरतिर्गीतयशाश्च । यक्षाणां पूर्णभद्रो माणिभद्रश्च । राक्षसानां भीमो महाभीमश्च । पिशाचानां कालो महाकालश्च । भूतानां प्रतिरूपोऽप्रतिरूपश्च । अथ एषां देवानां सुखं कीदृशमित्युक्ते सुखावबोधार्थमुच्यते- कायप्रवीचारा आ ऐशानात् ॥ ७ ॥ १५प्रवीचार इति कोऽयं शब्दः ? मैथुनोपसेवनं प्रवीचारः । १ । प्रविपूर्वाच्चरेः संज्ञायां घञ् । प्रविचरणं प्रवीचारः मैथुनव्यवहार इत्यर्थः । काये प्रवीचारो येषां ते इमे कायप्रवीचाराः । आङ्ग्रहणमभिविध्यर्थम् । २ । आङयमभिविध्यर्थो वेदितव्यः — ईशानोऽधिपतिः *“तस्येदम्”[जैनेन्द्रº ३ । ३ । ८८] इत्यणि, ऐशानः कल्पः । आ एतस्मादधो ये देवास्ते २०कायप्रवीचाराः संक्लिष्टकर्मत्वात् मनुष्यवत् स्त्रीविषयसुखमनुभवन्तीत्यर्थः । प्राग्ग्रहणे हि क्रियमाणे ऐशाने कल्पे देवान् वर्जयित्वेत्ययमर्थः संप्रतीयेत । असंहितानिर्देशोऽसन्देहार्थः । ३ । आ ऐशानादित्यसंहितया निर्देशः क्रियतेऽसन्देहार्थम् । ऐशानादित्युच्यमाने सन्देहः स्यात् — ‘किमाङन्तर्भूतः उत दिक्शब्दोऽध्याहार्यः’ इति ? अथवा विमुच्य संशयम्, अनिष्टं कल्प्येत पूर्वयोरित्यधिकारात् ऐशानात् पूर्वयोरित्यवधिग्रहणात् । २५इतरेषां सुखविभागेऽनिर्ज्ञाते तत्प्रतिपादनार्थमाह- शेषाः स्पर्शरूपशब्दमनःप्रवीचाराः ॥ ८ ॥ शेषग्रहणं किमर्थम् ? उक्तावशिष्टसंग्रहार्थं शेषग्रहणम् । १ । उक्तानामवशिष्टानां संग्रहार्थं शेषग्रहणं क्रियते । के पुनस्ते ? सानत्कुमारादिकल्पनिवासिनः, इतरथा हि ग्रैवेयकादिष्वपि संप्रत्ययः ३०स्यात् *“परेऽप्रवीचाराः”[४ । ९] इति वक्ष्यमाणमनवधारितविषयं स्यात् । स्पर्शश्च रूपं च शब्दश्च मनश्च स्पर्शरूपशब्दमनांसि, स्पर्शरूपशब्दमनःसु प्रवीचारो येषां त इमे स्पर्शरूप- शब्दमनःप्रवीचाराः । अत्र चोद्यते- २१५ विषयविवेकापरिज्ञानादनिर्देशः । २ । इमे स्पर्शप्रवीचारा एते रूपप्रवीचारा इत्यादि- विषयविवेकापरिज्ञानादयमनिर्देशः, अगमको निर्देशः अनिर्देशः । द्वयोर्द्वयोरिति वचनात्सिद्धिरिति चेत्; न; आर्षविरोधात् । ३ । स्यान्मतं द्वयोर्द्वयो- रिति वक्तव्यं तेन विषयविवेकसिद्धिर्भवति इति ? तन्न; किं कारणम् ? आर्षविरोधात् । ०५आर्षे ह्युक्तम् — *“सानत्कुमारमाहेन्द्रयोर्देवाः स्पर्शप्रवीचाराः, बह्मब्रह्मोत्तरलान्तवकापिष्ठेषु रूपप्रवीचाराः । शुक्रमहाशुक्रसतारसहस्रारेषु शब्दप्रवीचाराः । आनतप्राणताऽऽरणाऽच्युत- कल्पेषु मनःप्रवीचाराः । ” इन्द्रापेक्षयेति चेत्; न; आनतादिषु दोषात् । ४ । स्यादेतत् — इन्द्रापेक्षया द्वयोः द्वयोरिति वचनं नार्षविरोधि ? तद्यथा — सानत्कुमारमाहेन्द्रयोः कल्पयोर्द्वाविन्द्रौ तयोर्देवाः स्पर्शप्रवी- १०चाराः, ब्रह्मब्रह्मोत्तरयोरेक इन्द्रः, लान्तवकापिष्ठयोरप्येकः, तयोर्देवा रूपप्रवीचाराः । शुक्र- महाशुक्रयोरेक इन्द्रः, सतारसहस्रारयोरप्येकः, तयोर्देवाः शब्दप्रवीचारा इति ? तन्न; किं कारणम् ? आनतादिषु दोषात् । आनतादिषु हि चत्वार इन्द्राः । कथं तर्हि निर्देशः कर्तव्यः ? यथागममिति । स तर्हि तथानिर्देशः कर्तव्यः ? न वा पुनःप्रवीचारग्रहणादिष्टार्थगतेः । ५ । न वैष दोषः, किं कारणम् ? पुनःप्रवीचार- १५ग्रहणादिष्टार्थगतेः । कथम् ? प्रवीचारग्रहणमनुवर्तते । क्व प्रकृतम् ? ‘कायप्रवीचाराः’ इति । ननु च तद्वृत्तावुपसर्जनीभूतमशक्यमनुवर्तयितुम् ? अर्थवशात् अनुवर्तत इति व्याख्यायते । तत एवं वक्तव्यं शेषाः स्पर्शरूपशब्दमनःस्विति । एवमप्यनुवर्तमानः प्रवीचारशब्दः भावसा- धनो वृत्तिमन्तरेण ‘शेषाः’ इत्यनेन सामानाधिकरण्यं न प्रतिपद्यते ? शेषाणामिति तर्हि निर्देशः कर्तव्यः, एवं सिद्धे यत्पुनः प्रवीचारग्रहणं तस्यैतत्प्रयोजनम् इष्टप्रवीचारसिद्धिः कथं २०स्यात् इति । कः पुनरिष्टः । आर्षाविरोधी — सानत्कुमारमाहेन्द्रयोर्हि देवान् मैथुनसुखप्रेप्सयोत्प- न्नेच्छान् विदित्वा देव्य उपतिष्ठन्ते, तदङ्गस्पर्शनमात्रादेव प्रीतिमुपलभन्ते विनिवृत्तेच्छाश्च भवन्ति तथा देव्योऽपि । ब्रह्मब्रह्मोत्तरलान्तवकापिष्ठेषु देवा दिव्याङ्गनास्वभावसुभगशृंगा- राकारविलासचतुरमनोज्ञवेषरूपालोकनमात्रादेव परं सुखमवाप्नुवन्ति । शुक्रमहाशुक्रसतार- सहस्रारेषु देवाः सुरवनितानां मधुरसङ्गीतमृदुहसितकथनभूषणरवोपदर्शनश्रवणरसायनं २५पीत्वैव परां प्रीतिमास्कन्दन्ति । आनतप्राणताऽऽरणाऽच्युतकल्पेषु देवाः स्वाङ्गनामनःसंकल्प- मात्रादेव परं सुखमनुभवन्ति । अथोत्तरेषां किं प्रकारं सुखमित्युक्ते तन्निश्चयार्थमाह- परेऽप्रवीचाराः ॥ ९ ॥ पर इति किमर्थम्, अप्रवीचारा इत्येव सिद्धमुत्तरेषां ग्रहणम् ? ३०परवचनं कल्पातीतसर्वदेवसंग्रहार्थम् । १ । कल्पातीतानां सर्वेषां देवानां संग्रहार्थं पर- वचनं क्रियते, इतरथाऽनिष्टमपि कल्पयितुं शक्येत । अप्रवीचारग्रहणं प्रकृष्टसुखप्रतिपत्त्यर्थम् । २ । प्रवीचारो हि वेदनाप्रतीकारस्तदभावे तेषां परमसुखमनवरतमित्येतस्य प्रतिपत्त्यर्थमप्रवीचारा इत्युच्यते । २१६ उक्तमादिनिकायदेवा दश विकल्पा इति तेषां सामान्यविशेषसंज्ञानिर्ज्ञानार्थमाह- भवनवासिनोऽसुरनागविद्युत्सुपर्णाग्निवातस्तनितोदधिद्वीपदिक्कुमाराः ॥ १० ॥ भवनेषु वसनशीला भवनवासिनः । १ । भवनेषु वसन्तीत्येवंशीला भवनवासिन इति प्रथमनिकायस्येयं सामान्यसंज्ञा । ०५असुरादयस्तद्विकल्पाः । २ । तेषां भवनवासिनामसुरादयो दश विकल्पा द्रष्टव्याः । सर्वे नामकर्महेतुकाः । ३ । सर्वे ते नामकर्मोदयापादितविशेषा वेदितव्याः । अस्यन्ति देवैः सहासुरा इति चेत्; न; अवर्णवादात् । ४ । स्यान्मतं युद्धे देवैः सहास्यन्ति प्रहरणादीनित्यसुरा इति; तन्न; किं कारणम् ? अवर्णवादात् । अवर्णवाद एषः देवानामु- परि मिथ्याज्ञाननिमित्तः । कुतः ? १०महाप्रभावत्वात् । ५ । ते हि सौधर्मादयो देवा महाप्रभावाः, न तेषामुपरि इतरेषां निकृष्टबलानां मनागपि प्रातिलोम्येन वृत्तिरस्ति । अपि च, वैरकारणाभावात् । ६ । तेषां प्रतिविशिष्टशुभकर्मोदयापादितविभवानामर्हत्पूजाभोगा- नुभवनमात्रतन्त्राणां परदारहरणादिनिमित्तं न वैरमस्ति ततो नासुराः सुरैर्युध्यन्ते । अथ ते कथं कुमाराः ? १५कौमारवयोविशेषविक्रियादियोगात्कुमाराः । ७ । सर्वेषां देवानामवस्थितवयःस्वभावत्वेऽपि कौमारवयोविशेषस्वभावस्वरूपं विक्रिया च कुमारवदुद्धतवेषभाषाऽऽभरणप्रहरणावरणयानवा- हनत्वं च उल्वणरागक्रीडनप्रियत्वं चेत्येतैर्योगात् कुमारा इति व्यपदिश्यन्ते । प्रत्येकमभिसम्बन्धः । ८ । तस्य कुमारशब्दस्य प्रत्येकमभिसम्बन्धः क्रियते — असुरकुमारा नागकुमारा इति एवमादि । २०अत्राह क्व तेषां भवनानि इति ? अत्रोच्यते- अस्या रत्नप्रभायाः पङ्कबहुलभागेऽसुरकुमाराणां भवनानि चतुःषष्टिशतसहस्राणि । अस्माज्जम्बूद्वीपात् तिर्यगपागसंख्येयान् द्वीपसमुद्रान् अतीत्य पङ्कबहुलभागे चमरस्याऽसु- रेन्द्रस्य चतुस्त्रिंशद्भवनशतसहस्राणि, चतुःषष्टिसामानिकसहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशाः, तिस्रः परिषदः, सप्तानीकानि चत्वारो लोकपालाः, पञ्चाग्रमहिष्यः, चत्वारि चतुःषष्ट्युत्त- २५राणि आत्मरक्षसहस्राणि, एवं विभवपरिवारः दक्षिणार्धपतिः दिव्यान् भोगान् अनुभवति । तथोत्तरस्यां दिशि वैरोचनस्य त्रिंशद्भवनशतसहस्राणि षष्टिसामानिकसहस्राणि, त्रयस्त्रिं- शत्त्रायस्त्रिंशाः, तिस्रः परिषदः, सप्तानीकानि, चत्वारो लोकपालाः, पञ्चाग्रमहिष्यः, चत्वारि चतुःषष्ट्युत्तराणि आत्मरक्षसहस्राणि, एवं विभवपरिवारः उत्तरार्धपतिः दिव्यान् भोगान् अनुभुङ्क्ते । ३०खरपृथ्वीभागे उपर्यधश्चैकैकयोजनसहस्रं वर्जयित्वा शेषे नवानां कुमाराणां भवनानि भवन्ति । तद्यथा — अस्माज्जम्बूद्वीपात्तिर्यगपागसंख्येयान् द्वीपसमुद्रानतीत्य धरणस्य नागराजस्य चतुश्चत्वारिंशत्भवनशतसहस्राणि, षष्टिसामानिकसहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशाः, तिस्रः २१७ परिषदः, सप्तानीकानि, चत्वारो लोकपालाः, षडग्रमहिष्यः, षडात्मरक्षसहस्राण्याख्यायन्ते । तथा अस्माज्जम्बूद्वीपात्तिर्यगुदगसंख्येयान् द्वीपसमुद्रान् अतीत्य भूतानन्दस्य नागेन्द्रस्य चत्वारिं- शद्भवनशतसहस्राणि, अवशिष्टं धरणेन्द्रवज्ज्ञेयम् । तान्येतानि नागकुमाराणां चतुरशीति- भवनशतसहस्राणि । तथा सुपर्णकुमाराणां द्विसप्ततिर्भवनशतसहस्राणि । तत्र वेणुदेवस्य ०५दक्षिणाधिपतेः अष्टत्रिंशद्भवनशतसहस्राणि । इतरद्धरणेन्द्रवन्नेयम् । उत्तराधिपतेर्वेणुधारिणः चतुस्त्रिंशद्भवनशतसहस्राणि । अवशिष्टं धरणेन्द्रवन्नेयम् । विद्युदग्निस्तनितोदधिद्वीपदिक्कुमा- राणां षण्णामपि प्रत्येकं षट्सप्ततिर्भवनशतसहस्राणि । तत्र दक्षिणेन्द्राणां हरिसिंहाग्निशिख- सुघोषजलकान्तपूर्णामितगतीनां प्रत्येकं चत्वारिंशद्भवनशतसहस्राणि । हरिकान्ताग्निमाणव- महाघोषजलप्रभवशिष्टामितवाहनानाम् उत्तराधिपतीनां प्रत्येकं षट्त्रिंशद्भवनशतसहस्राणि । १०वातकुमाराणां षण्णवतिर्भवनशतसहस्राणि । तत्र वैलम्बस्य दक्षिणेन्द्रस्य पञ्चाशद्भवनशतस- हस्राणि । उत्तराधिपतेः प्रभञ्जनस्य षट्चत्वारिंशद्भवनशतसहस्राणि । सर्वेषामेषां धरणेन्द्र- वन्नेयम् । तान्येतानि भवनानि समुदितानि सप्तकोट्यो द्विसप्ततिश्च शतसहस्राणि । द्वितीयनिकायस्य सामान्यविशेषसंज्ञावधारणार्थमाह- व्यन्तराः किन्नरकिम्पुरुषमहोरगगन्धर्वयक्षराक्षसभूतपिशाचाः ॥ ११ ॥ १५विविधदेशान्तरनिवासित्वाद् व्यन्तराः । १ । विविधदेशान्तराणि येषां निवासास्ते व्यन्तरा इत्यन्वर्थाः । सामान्यसंज्ञेयमष्टानामपि विकल्पानाम् । किन्नरादयस्तद्विकल्पाः । २ । तेषां व्यन्तराणामष्टौ विकल्पाः किन्नरादयो द्रष्टव्याः । नामकर्मोदयविशेषतस्तद्विशेषसंज्ञाः । ३ । देवगतिनाम्नो मूलस्य उत्तरोत्तरप्रकृतिभेदस्यो- दयाद्विशेषसंज्ञा भवन्ति । किन्नरनामकर्मोदयात् किन्नराः, किम्पुरुषनामकर्मोदयात् किम्पुरुषाः २०इत्यादि । क्रियानिमित्ता एवेति चेत्; न; उक्तत्वात् । ४ । स्यादेतत् — क्रियानिमित्ता एवैताः संज्ञाः, किन्नरान् कामयन्त इति किन्नराः, किम्पुरुषान् कामयन्त इति किम्पुरुषाः, पिशिताशनात् पिशाचा इत्यादि; तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् — अवर्णवाद एष देवानामु- परीति । कथम् ? न हि ते शुचिवैक्रियिकदेहा अशुच्यौदारिकशरीरान् नरान् कामयन्ते, २५नापि पिशितमश्नन्ति । मांसमदिरादिषु दृष्टा लोके प्रवृत्तिरिति चेत्; न; क्रीडासुख- निमित्तत्वात्, मानसाहाराहि ते । क्व पुनस्तेषामावासाः इति ? अत्रोच्यते — अस्माज्जम्बूद्वीपात्तिर्यगपागसंख्येयान् द्वीप- समुद्रान् अतीत्य औपरिष्टे खरपृथिवीभागे किन्नरस्य किन्नरेन्द्रस्य असंख्येयानि नगरशत- सहस्राणि वर्ण्यन्ते । तस्य चत्वारि सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, ३०चतस्रोऽग्रमहिष्यः, षोडशात्मरक्षसहस्राणि । उदीच्यां दिशि पूर्ववदेव किन्नरेन्द्रः किम्पुरुषस्ता- दृग्विभवपरिवारः । एवं शेषाणां षण्णां दक्षिणेन्द्राणां सत्पुरुषातिकायगीतिरतिपूर्णभद्रस्वरूप- कालाख्यानां दक्षिणे भागे आवासाः । तथा महापुरुषमहाकायगीतयशोमाणिभद्राऽप्रतिरूप- महाकालानां तु उत्तराधिपतीनाम् उत्तरभागे आवासास्तावन्त एव वेदितव्याः । राक्षसेन्द्रस्य २१८ भीमस्य दक्षिणस्यां दिशि पङ्कबहुलभागेऽसंख्येयानि नगरशतसहस्राणि आख्यायन्ते । उत्तरस्यां दिशि महाभीमस्य राक्षसेन्द्रस्य पङ्कबहुलभागेऽसंख्येयानि नगरशतसहस्राणि वर्ण्यन्ते । षोड- शानामपि एषां व्यन्तरेन्द्राणां सामानिकादिपरिवारास्तुल्याः । भूमितलेऽपि द्वीपाद्रिसमुद्र- देशग्रामनगरत्रिकचतुष्कचत्वरगृहाङ्गणरथ्याजलाशयोद्यानदेवकुलादीनि असंख्येयानि आवास- ०५शतसहस्राणि तेषामाख्यायन्ते । तृतीयस्य निकायस्य सामान्यविशेषसंज्ञासंकीर्तनार्थमाह- ज्योतिष्काः सूर्याचन्द्रमसौ ग्रहनक्षत्रप्रकीर्णकतारकाश्च ॥ १२ ॥ द्योतनस्वभावत्वाज्ज्योतिष्काः । १ । द्योतनं प्रकाशनं तत्स्वभावत्वादेषां पञ्चानामपि विकल्पानां ज्योतिष्का इतीयमन्वर्था सामान्यसंज्ञा । काऽस्याः सिद्धिः ? १०ज्योतिःशब्दात्स्वार्थे के निष्पत्तिः । २ । ज्योतिःशब्दात् स्वार्थे के सति ज्योतिष्का इति निष्पद्यते । कथं स्वार्थे कः ? यावादिषु पाठात् । प्रकृतिलिङ्गानुवृत्तिप्रसङ्ग इति चेत्; न; अतिवृत्तिदर्शनात् । ३ । स्यान्मतम् — यदि स्वा- र्थिकोऽयं कः, ज्योतिःशब्दस्य नपुंसकलिङ्गत्वात् कान्तस्यापि नपुंसकलिङ्गता प्राप्नोतीति ? तन्न; किं कारणम् ? अतिवृत्तिदर्शनात् । प्रकृतिलिङ्गातिवृत्तिरपि दृश्यते — यथा कुटीरः १५शमीरः शुण्डार इति । तद्विशेषाः सूर्यादयः । ४ । तेषां ज्योतिष्काणां सूर्यादयः पञ्च विकल्पा द्रष्टव्याः । पूर्ववत्तन्निर्वृत्तिः । ५ । तेषां संज्ञाविशेषाणां पूर्ववन्निर्वृत्तिर्वेदितव्या — देवगतिनामकर्म- विशेषोदयादिति । सूर्याचन्द्रमसावित्यानङ् देवताद्वन्द्वे । ६ । सूर्यश्च चन्द्रमाश्च द्वन्द्वे कृते पूर्वपदस्य *“देवता- २०द्वन्द्वे”[जैनेन्द्रº ४ । ३ । १३९] इत्यानङ् भवति । सर्वत्र प्रसङ्ग इति चेत्; न; पुनर्द्वन्द्वग्रहणादिष्टे वृत्तिः । ७ । स्यादेतत् — यदि *“देवताद्वन्द्वे” [जैनेन्द्रº ४ । ३ । १३९] इत्यानङ् भवति, इहापि प्राप्नोति ग्रहनक्षत्रप्रकीर्णकताराः किन्न- रकिम्पुरुषादयः असुरनागादय इति; तन्न; किं कारणम् ? *“आनङ् द्वन्द्वे”[जैनेन्द्रº ४ । ३ । १३८] इत्यतः द्वन्द्व इति वर्तमाने पुनर्द्वन्द्वग्रहणात् इष्टे द्वन्द्वे वृत्तिर्जायते । २५पृथग्ग्रहणं प्राधान्यख्यापनार्थम् । ८ । सूर्याचन्द्रमसोर्ग्रहादिभ्यः पृथक् ग्रहणं क्रियते प्राधान्य- ख्यापनार्थम् । ज्योतिष्केषु हि सर्वेषु सूर्याणां चन्द्रमसां च प्राधान्यम् । किं कृतं पुनस्तत् ? प्रभावादिकृतम् । सूर्यस्यादौ ग्रहणम् अल्पाच्तरत्वात् अभ्यर्हितत्वाच्च । ९ । सूर्यशब्द आदौ प्रयुज्यते । कुतः ? अल्पाच्तरत्वात् अभ्यर्हितत्वाच्च । सर्वाभिभवसमर्थत्वाद्धि अभ्यर्हितः सूर्यः । ३०ग्रहादिषु च । १० । किम् ? ‘अल्पाच्तरत्वात् अभ्यर्हितत्वाच्च पूर्वनिपातः’ इति वाक्यशेषः । ग्रहशब्दस्तावत् अल्पाच्तरोऽभ्यर्हितश्च तारकाशब्दात्, नक्षत्रशब्दोऽभ्यर्हितः । २१९ क्व पुनस्तेषां निवास इति ? अत्रोच्यते — अस्मात् समात् भूमिभागादूर्ध्वं सप्त योजनशतानि नवत्युत्तराणि उत्पत्य सर्वज्योतिषाम् अधोभाविन्यस्तारकाश्चरन्ति । ततो दशयोजनान्युत्पत्य सूर्याश्चरन्ति । ततोऽशीतिर्योजनान्युत्पत्य चन्द्रमसो भ्रमन्ति । तत- स्त्रीणि योजनान्युत्पत्य नक्षत्राणि । ततस्त्रीणि योजनानि उत्पत्य बुधाः । ततस्त्रीणि ०५योजनानि उत्पत्य शुक्राः । ततस्त्रीणि योजनान्युत्पत्य बृहस्पतयः । ततश्चत्वारि योजना- न्युत्पत्य अङ्गारकाः । ततश्चत्वारि योजनान्युत्क्रम्य शनैश्चराश्चरन्ति । स एष ज्योतिर्गणगोचरो नभोऽवकाशः दशाधिकयोजनशतबहुलः तिर्यगसंख्यातद्वीपसमुद्रप्रमाणो घनोदधिपर्यन्तः । उक्तं च- *“णवदुत्तरसत्तसया दससीदिच्चदुतिगं च दुगचदुक्कं । १०तारारविससिरिक्खा बुधभग्गवगुरुअंगिरारसणी ॥ ” तत्राभिजित् सर्वाभ्यन्तरचारी, मूलः सर्वबहिश्चारी, भरण्यः सर्वाधश्चारिण्यः, स्वातिः सर्वोपरिचारी । तप्ततपनीयसमप्रभाणि लोहिताक्षमणिमयानि अष्टचत्वारिंशद्योजनैकषष्टि- भागविष्कम्भायामानि तत्त्रिगुणाधिकपरिधीनि चतुर्विंशतियोजनैकषष्टिभागबाहुल्यानि अर्ध- गोलकाकृतीनि षोडशभिर्देवसहस्रैरूढानि सूर्यविमानानि । प्रत्येकं पूर्वदक्षिणोत्तरापरान् १५भागान् क्रमेण सिंहकुञ्जरवृषभतुरगरूपाणि विकृत्य चत्वारि चत्वारि देवसहस्राणि वहन्ति । एषामुपरि सूर्याख्या देवाः । तेषां प्रत्येकं चतस्रोऽग्रमहिष्यः — सूर्यप्रभा सुसीमा अर्चिमालिनी प्रभङ्करा चेति, प्रत्येकं देवीरूपचतुःसहस्रविकरणसमर्थाः । ताभिः सह दिव्यं सुखमनु- भवन्तोऽसंख्येयशतसहस्राधिपतयः सूर्याः परिभ्रमन्ति । विमलमृणालवर्णान्यङ्कमयानि चन्द्रविमानानि । षट्पञ्चाशद्योजनैकषष्टिभागविष्कम्भायामानि अष्टाविंशतियोजनैक- २०षष्टिभागबाहुल्यानि, प्रत्येकं षोडशभिर्देवसहस्रैः पूर्वादिषु दिक्षु क्रमेण सिंहकुञ्जराश्ववृषभ- रूपविकारिभिरूढानि । तेषामुपरि चन्द्राख्या देवाः । तेषां प्रत्येकं चतस्रोऽग्रमहिष्यः — चन्द्र- प्रभा सुसीमा अर्चिमालिनी प्रभङ्करा चेति, प्रत्येकं चतुर्देवीरूपसहस्रविकरणपटवः । ताभिः सह सुखमुपभुञ्जानाश्चन्द्रमसोऽसंख्येयविमानशतसहस्राधिपतयो विहरन्ति । अञ्जन- समप्रभाणि अरिष्टमणिमयानि राहुविमानान्येकयोजनायामविष्कम्भाण्यर्धतृतीयधनुःशतबाह- २५ल्यानि । नवमल्लिकाप्रभाणि रजतपरिणामानि शुक्रविमानानि गव्यूतायामविष्कम्भाणि । जात्यमुक्ताद्युतीनि अङ्कमणिमयानि बृहस्पतिविमानानि देशोनगव्यूतायामविष्कम्भाणि । कनकमयान्यर्जुनवर्णानि बुधविमानानि । तपनीयमयानि तप्ततपनीयाभानि शनैश्चरविमा- नानि । लोहिताक्षमयानि तप्तकनकप्रभाण्यङ्गारकविमानानि । बुधादिविमानान्यर्धगव्यू- तायामविष्कम्भाणि । शुक्रादिविमानानि राहुविमानतुल्यबाहल्यानि । राह्वादिविमानानि ३०प्रत्येकं चतुर्भिः देवसहस्रैरुह्यन्ते । नक्षत्रविमानानां प्रत्येकं चत्वारि देवसहस्राणि वाहकानि । तारकाविमानानां प्रत्येकं द्वे देवसहस्रे वाहके । राह्वाद्याभियोग्यानां रूपविकाराश्चन्द्र- वन्नेयाः । नक्षत्रविमानानाम् उत्कृष्टो विष्कम्भः क्रोशः । तारकाविमानानां वैपुल्यं जघन्यं क्रोशचतुर्भागः । मध्यमं साधिकः क्रोशचतुर्भागः । उत्कृष्टम् अर्धगव्यूतम् । ज्योतिष्क- विमानानां सर्वजघन्यवैपुल्यं पञ्चधनुःशतानि । ज्योतिषामिन्द्राः सूर्याचन्द्रमसः, ते ३५चाऽसंख्याताः । २२० ज्योतिष्काणां गतिविशेषप्रतिपत्त्यर्थमाह- मेरुप्रदक्षिणा नित्यगतयो नृलोके ॥ १३ ॥ मेरुप्रदक्षिणवचनं गत्यन्तरनिवृत्त्यर्थम् । १ । मेरोः प्रदक्षिणा मेरुप्रदक्षिणा इत्यु- च्यन्ते । किमर्थम् ? गत्यन्तरनिवृत्त्यर्थं विपरीता गतिर्माभूत् । ०५गतेः क्षणे क्षणेऽन्यत्वात् नित्यत्वाभाव इति चेत्; न; आभीक्ष्ण्यस्य विवक्षितत्वात् । २ । अयं नित्यशब्दः कूटस्थेष्वविचलेषु भावेषु वर्तते, गतिश्च क्षणे क्षणेऽन्या, ततोऽस्या नित्येति विशेषणं नोपपद्यत इति चेत्; न; किं कारणम् ? आभीक्ष्ण्यस्य विवक्षितत्वात् । यथा नित्यप्रह- सितो नित्यप्रजल्पित इति आभीक्ष्ण्यं गम्यत इति, एवमिहापि नित्यगतयः अनुपरतगतय इत्यर्थः । अनेकान्ताच्च । ३ । यथा सर्वभावेषु द्रव्यार्थादेशात् स्यान्नित्यत्वं पर्यायार्थादेशात् स्याद- १०नित्यत्वं तथा गतावपीति नित्यत्वमविरुद्धमविच्छेदात् । नृलोकग्रहणं विषयार्थम् । ४ । ये अर्धतृतीयेषु द्वीपेषु द्वयोश्च समुद्रयोर्ज्योतिष्कास्ते मेरु- प्रदिक्षणा नित्यगतयो नान्ये इति विषयावधारणार्थं नृलोकग्रहणं क्रियते । गतिकारणाभावादयुक्तिरिति चेत्; न; गतिरताभियोग्यदेववहनात् । ५ । स्यान्मतम्- इह लोके भावानां गतिः कारणवती दृष्टा, न च ज्योतिष्कविमानानां गतेः कारणमस्ति ततस्त- १५दयुक्तिरिति; तन्न; किं कारणम् ? गतिरताभियोग्यदेववहनात् । गतिरता हि आभियोग्य- देवा वहन्तीत्युक्तं पुरस्तात् । कर्मफलविचित्रभावाच्च । ६ । कर्मणां हि फलं वैचित्र्येण पच्यते ततस्तेषां गतिपरिणति- मुखेनैव कर्मफलमवबोद्धव्यम् । एकादशभिः योजनशतैरेकविंशैर्मेरुमप्राप्य ज्योतिष्काः प्रद- क्षिणाश्चरन्ति । २०तत्र जम्बूद्वीपे द्वौ सूर्यौ, द्वौ चन्द्रमसौ, षट्पञ्चाशन्नक्षत्राणि, षट्सप्तत्यधिकं ग्रहशतम्, एकं कोटीकोटिशतसहस्रं त्रयस्त्रिंशत्कोटीकोटिसहस्राणि नवकोटीकोटिशतानि पञ्चाशच्च कोटीकोट्यस्तारकाणाम् । लवणोदे चत्वारः सूर्याः, चत्वारश्चन्द्राः, नक्षत्राणां शतम्, द्वादशम् ग्रहाणाम्, त्रीणि शतानि द्वापञ्चाशानि द्वे कोटीकोटिशतसहस्रे सप्तषष्टिकोटीकोटिसहस्राणि नव च कोटीकोटिशतानि तारकाणाम् । धातकीषण्डे द्वादश सूर्याः, द्वादश चन्द्राः, नक्षत्राणां २५त्रीणि शतानि षट्त्रिंशानि, ग्रहाणां सहस्रं षट्पञ्चाशम्, अष्टौ कोटीकोटिशतसहस्राणि सप्त- त्रिंशच्च कोटीकोटिशतानि तारकाणाम् । कालोदे द्वाचत्वारिंशदादित्याः, द्वाचत्वारिंशच्चन्द्राः, एकादश नक्षत्रशतानि षट्सप्तत्यधिकानि, षट्त्रिंशत् ग्रहशतानि षण्णवत्यधिकानि, अष्टा- विंशतिकोटीकोटिशतसहस्राणि द्वादशकोटीकोटिसहस्राणि नवकोटीकोटिशतानि पञ्चाशच्च कोटीकोट्यस्तारकाणाम् । पुष्करार्धे द्वासप्ततिः सूर्याः, द्वासप्ततिश्चन्द्राः, द्वे नक्षत्रसहस्रे षोडशे, ३०त्रिषष्टिः ग्रहशतानि षट्त्रिंशानि । अष्टचत्वारिंशत्कोटीकोटिशतसहस्राणि द्वाविंशतिः कोटी- कोटिसहस्राणि द्वे कोटीकोटिशते तारकाणाम् । बाह्ये पुष्करार्धे च ज्योतिषामियमेव संख्या । ततश्चतुर्गुणाः पुष्करवरोदे, ततः परा द्विगुणा द्विगुणा ज्योतिषां संख्या अवसेया । जघन्यं तारकान्तरं गव्यूतसप्तभागः, मध्यं पञ्चाशत् गव्यूतानिं, उत्कृष्टं योजन- सहस्रम् । जघन्यं सूर्यान्तरं चन्द्रान्तरं च नवनवतिः सहस्राणि योजनानां षट्शतानि चत्वा- २२१ रिंशदधिकानि । उत्कृष्टमेकं योजनशतसहस्रं षट्शतानि पष्ट्युत्तराणि । जम्बूद्वीपादिषु एकैकस्य चन्द्रमसः षट्षष्टिकोटीकोटिसहस्राणि नवकोटीकोटिशतानि पञ्चसप्ततिश्च कोटीकोट्यः तारकाणाम् । अष्टाशीतिर्महाग्रहाः, अष्टाविंशतिर्नक्षत्राणि परिवारः । सूर्यस्य चतुरशीतिमण्डलशतम् अशीतिः योजनशतं जम्बूद्वीपस्य अन्तरमवगाह्य प्रकाशयति । ०५तत्र पञ्चषष्टिरभ्यन्तरमण्डलानि लवणोदस्यान्तस्त्रीणि त्रिंशानि योजनशतान्यवगाह्य प्रकाशयति । तत्र मण्डलानि बाह्यान्येकान्नविंशतिशतम् । द्वियोजनमेकैकमण्डलान्तरम् । द्वे योजने अष्टचत्वारिंशद्योजनैकषष्टिभागाश्च एकैकमुदयान्तरम् । चतुश्चत्वारिंशद्योजनसहस्रैः अष्टाभिश्च शतैर्विंशैरप्राप्य मेरुं सर्वाभ्यन्तरमण्डले सूर्यः प्रकाशयति । तस्य विष्कम्भो नवनवतिः सहस्राणि षट्शतानि चत्वारिंशानि योजनानाम् । तदा अहनि मुहूर्ताः अष्टादश १०भवन्ति । पञ्चसहस्राणि द्वे शते एकपञ्चाशयोजनानां एकान्नत्रिंशद्योजनषष्टिभागाश्च मुहूर्त- गतिक्षेत्रम् । सर्वबाह्यमण्डले चरन् सूर्यः पञ्चचत्वारिंशत्सहस्रैः त्रिभिश्च शतैः त्रिशैर्योजनानां मेरुमप्राप्य भासयति । तस्य विष्कम्भः एकं शतसहस्रं षट् च शतानि षष्ट्यधिकानि योजनानाम् । तदा दिवसस्य द्वादश मुहूर्ताः । पञ्चसहस्राणि त्रीणि शतानि पञ्चोत्तराणि योजनानां पञ्चदशयोजनषष्टिभागाश्च मुहूर्तगतिक्षेत्रम् । तदा एकत्रिंशद्योजनसहस्रेषु अष्टासु च १५योजनशतेषु अर्धद्वात्रिंशेषु स्थितो दृश्यते । सर्वाभ्यन्तरमण्डले दर्शनविषयपरिमाणं प्रागुक्तम् । मध्ये हानिवृद्धिक्रमो यथागमं वेदितव्यः । चन्द्रमण्डलानि पञ्चदश, द्वीपावगाहः समुद्राव- गाहश्च सूर्यवद्वेदितव्यः । द्वीपाभ्यन्तरे पञ्च मण्डलानि । समुद्रमध्ये दश । सर्वबाह्याभ्यन्तर- मण्डलविष्कम्भविधिः, मेरुचन्द्रान्तरप्रमाणं च सूर्यवत् प्रत्येतव्यम् । पञ्चदशानां मण्डलाना- मन्तराणि चतुर्दश । तत्रैकैकस्य मण्डलान्तरस्य प्रमाणं पञ्चत्रिंशद्योजनानि योजनैकषष्टि- २०भागास्त्रिंशत् तद्भागस्य चत्वारः सप्तभागाः ३५-(३/६)(०/१)-(४/७) । सर्वाभ्यन्तरमण्डले पञ्चसहस्राणि त्रिसप्तत्यधिकानि योजनानां सप्तसप्ततिर्भागशतानि चतुश्चत्वारिंशानि मण्डलं त्रयोदशभि- र्भागसहस्रैः सप्तभिश्च भागशतैः पञ्चविंशैः छित्वा अवशिष्टानि चन्द्रः एकैकेन मुहूर्तेन गच्छति । सर्वबाह्यमण्डले पञ्चसहस्राणि शतं च पञ्चविंशं योजनानाम् एकान्नसप्ततिर्भाग- शतानि नवत्यधिकानि मण्डलं त्रयोदशभिः भागसहस्रैः सप्तभिश्च भागशतैः पञ्चविंशैः २५छित्वाऽवशिष्टानि चन्द्रः एकैकेन मुहूर्तेन गच्छति । दर्शनविषयपरिमाणं सूर्यवद्वेदितव्यम् । हानिवृद्धिविधानं च यथागममवसेयम् । पञ्चयोजनशतानि दशोत्तराणि सूर्याचन्द्रमसोश्चार- क्षेत्रविष्कम्भः । गतिमज्ज्योतिःसंबन्धेन व्यवहारकालप्रतिपत्त्यर्थमाह- तत्कृतः कालविभागः ॥ १४ ॥ ३०तदिति किमर्थम् ? गतिमज्ज्योतिःप्रतिनिर्देशार्थंतद्वचनम् । १ । गतिमतां ज्योतिषां प्रतिनिर्देशार्थंतदित्युच्यते । न हि केवलया गत्या नापि केवलैर्ज्योतिर्भिः कालः परिच्छिद्यते, अनुपलब्धेरपरिवर्तनाच्च । २२२ ज्योतिःपरिवर्तनलभ्यो हि कालपरिच्छेदः । २ । कालो द्विविधो व्यावहारिको मुख्यश्च । तत्र व्यावहारिकः कालविभागः तत्कृतः समयावलिकादिर्व्याख्यातः, क्रियाविशेषपरिच्छिन्नः अन्यस्यापरिच्छिन्नस्य परिच्छेदहेतुः । मुख्योऽन्यो वक्ष्यमाणलक्षणः । आह — न मुख्यः कालोऽस्ति सूर्यादिगतिव्यतिरिक्तो लिङ्गाभावात् । अपि च, कलानां ०५समूहः कालः, कलाश्च क्रियावयवाः । किञ्च, पञ्चास्तिकायोपदेशात् पञ्चैवास्तिकाया आगमे उपदिष्टा न षष्ठः, ततो न मुख्यः कालोऽस्ति; इत्यपरीक्षिताभिधानमेतत्; यत्ताव- दुक्तम् — लिङ्गाभावान्नास्ति मुख्यः काल इति; अत्रोच्यते- क्रियायां काल इति गौणव्यवहारदर्शनात् मुख्यसिद्धिः । ३ । योऽयमादित्यगमनादौ क्रियेति रूढेः काल इति व्यवहारः कालनिर्वर्तनापूर्वकः, मुख्यस्य कालस्यास्तित्वं गमयति । १०नहि मुख्ये गव्यसति वाहीके गौणे गोशब्दस्य व्यवहारो युज्यते । अत एव न कलासमूह एव कालः । ४ । अत एव । कुत एव ? मुख्यस्य कालस्यास्तित्वा- देव, कलानां समूह एव काल इति व्यपदेशो नोपपद्यते । कल्यते क्षिप्यते प्रेर्यते येन क्रिया- वद्द्रव्यं स कालः, तस्य विस्तरेण निर्णय उत्तरत्र वक्ष्यते । प्रदेशप्रचयाभावादस्तिकायेष्वनुपदेशः । ५ । प्रदेशप्रचयो हि कायः स एषामस्ति ते १५अस्तिकाया इति जीवादयः पञ्चैव उपदिष्टाः । कालस्य त्वेकप्रदेशत्वादस्तिकायत्वाभावः । यदि हि अस्तित्वमेव अस्य न स्यात् षट्द्रव्योपदेशो न युक्तः स्यात् । कालस्य हि द्रव्यत्व- मस्त्यागमे । परलक्षणाभावः स्वलक्षणोपदेशसद्भावात् । इतरत्र ज्योतिषामवस्थाप्रतिपादनार्थमाह- बहिरवस्थिताः ॥ १५ ॥ २०बहिरित्युच्यते । कुतो बहिः ? नृलोकात् । कथमवगम्यते ? अर्थवशाद्विभक्तिपरिणाम इति । नृलोके नित्यगतिवचनादन्यत्रावस्थानसिद्धिरिति चेत्; न; उभयासिद्धेः । १ । स्यान्मतम्- ‘नृलोके नित्यगतयः’ इति वचनात् अन्यत्र अवस्थानं ज्योतिषां सिद्धम्, अतो बहिरवस्थिता इति वचनमनर्थकमिति; तन्न; किं कारणम् ? उभयासिद्धेः । नृलोकादन्यत्र बहिर्ज्योतिषाम- स्तित्वमवस्थानं चाऽप्रसिद्धं अतस्तदुभयसिद्ध्यर्थं ‘बहिरवस्थिताः’ इत्युच्यते । असति हि २५वचने, नृलोके एव सन्ति नित्यगतयश्च इत्यवगम्येत । तुरीयस्य निकायस्य सामान्यसंज्ञाकीर्तनार्थमाह — वैमानिकाः ॥ १६ ॥ वैमानिकग्रहणमधिकारार्थम् । १ । इत ऊर्ध्वं ये वक्ष्यन्ते तेषु वैमानिकसंप्रत्ययः कथं स्यात् इत्यधिकारः क्रियते । विशेषेण आत्मस्थान् सुकृतिनो मानयन्तीति विमानानि, विमा- ३०नेषु भवा वैमानिकाः । तानि विमानानि त्रिविधानि — इन्द्रक-श्रेणि-पुष्पप्रकीर्णकभेदेन । तत्रेन्द्र- कविमानानि इन्द्रवन्मध्येऽवस्थितानि । तेषां चतसृषु दिक्षु आकाशप्रदेशश्रेणिवदवस्थानात् श्रेणिविमानानि । विदिक्षु प्रकीर्णपुष्पवत् अवस्थानात् पुष्पप्रकीर्णकानि । तेषां वैमानिकानां भेदावबोधनार्थमाह- २२३ कल्पोपपन्नाः कल्पातीताश्च ॥ १७ ॥ कल्पेषूपपन्नाः कल्पोपपन्नाः, कल्पानतीताः कल्पातीताः । ग्रैवेयकादिषु नवादिकल्पनासंभवात् कल्पत्वप्रसङ्ग इति चेत्; न; उक्तत्वात् । १ । ०५स्यान्मतम् — नवग्रैवेयका नवानुदिशाः पञ्चानुत्तराः इति च कल्पनासंभवात् तेषामपि कल्पत्वप्रसङ्ग इति; तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् — इन्द्रादिदशतयकल्पना- सद्भावात् कल्पा इति । नवग्रैवेयकादिषु इन्द्रादिकल्पना नास्ति तेषामहमिन्द्रत्वात् । तेषामवस्थानविशेषनिर्ज्ञानार्थमाह- उपर्युपरि ॥ १८ ॥ १०उपर्युपरिवचनमतिर्यगसमस्थितिप्रतिपत्त्यर्थम् । १ । न ज्योतिष्कवत्तिर्यगवस्थिता नापि व्यन्तरवदसमस्थितय इति प्रतिपत्त्यर्थमुपर्युपरीत्युच्यते । कथमत्र द्वित्वम् ? *“सामीप्येऽधोऽध्यु- परि”[जैनेन्द्रº ५ । ३ । ५] इति । ननु च, नात्र सामीप्यमस्ति असंख्येययोजनान्तरत्वात्तेषाम्; नैष दोषः; तुल्यजातीयेनाऽव्यवधानं सामीप्यम् । न च तेषां तुल्यजातीयं व्यवधायकं विवक्षि- तम् । इदं विचार्यते — किमत्राधेयत्वेन कल्प्यमाना देवाः, उत विमानानि, आहोस्वित् कल्पा १५इति, किं वा कामचारः ? देवा इति चेत्; न; अनिष्टत्वात् । २ । यदि देवा उपर्युपरीत्यनेनाभिसंबध्यन्ते; तन्न; किं कारणम् ? अनिष्टत्वात् । देवानां हि उपर्युपरि अवस्थानमनिष्टम् । विमानानि इति चेत्; न; श्रेणिप्रकीर्णकानां तिर्यगवस्थानात् । ३ । अथ विमानान्युप- र्युपरीति कल्प्यन्ते; तदपि नोपपद्यते; श्रेणिप्रकीर्णकानां तिर्यगवस्थानात् । श्रेणिविमानानि २०पुष्पप्रकीर्णकविमानानि च प्रतीन्द्रकं तिर्यगवस्थितानि इति इहेष्यन्ते । कल्पा इति चेददोषः । ४ । यदि कल्पाः; न दोषो भवति । ‘यथा न दोषः तथास्तु’ कल्पा हि उपर्युपरिस्थिता इति । उपसर्जनत्वादनभिसंबन्ध इति चेत्; न; दृष्टत्वात् । ५ । स्यादेतत् — कल्पोपपन्ना इत्यत्र कल्पग्रहणमुपसर्जनं तेनात्र संबन्धो नोपपद्यते इति; तन्न; किं कारणम् ? दृष्टत्वात् । दृष्टो २५हि उपसर्जनीभूतस्यापि अर्थस्य बुद्ध्याऽपेक्षितस्य विशेषणेनाभिसंबन्धः । ‘राजपुरुषोऽयम् । कस्य ? राज्ञः’ इति, एवमिहापि प्रत्यासत्तेः बुद्ध्या उपसर्जनमपि कल्पग्रहणमभिसंबध्यते उपर्यु- परि कल्पा इति । अथ कल्पातीतेषु किमभिसंबध्यते ? विमानानि । यद्येवं कियत्सु कल्पविमानेषु ते देवा भवन्ति इत्यत आह- ३०सौधर्मैशानसानत्कुमारमाहेन्द्रब्रह्मब्रह्मोत्तरलान्तवकापिष्ठशुक्रमहाशुक्र- शतारसहस्रारेष्वानतप्राणतयोरारणाऽच्युतयोर्नवसु ग्रैवेयकेषु विजय- वैजयन्तजयन्ताऽपराजितेषु सर्वार्थसिद्धौ च ॥ १९ ॥ कथमेषां सौधर्मादीनां कल्पाभिधानम् ? २२४ चातुरर्थिकेनाऽणा स्वभावतो वा कल्पाभिधानम् । १ । चातुरर्थिकेन अणा स्वभावतो वा कल्पस्याभिधानं भवति । अथ कथमिन्द्राभिधानम् ? स्वभावतः साहचर्याद्वा इन्द्राभिधानम् । २ । स्वभावतो वा साहचर्याद्वा इन्द्राभिधानं द्रष्ट- व्यम् । तत्कथमिति चेत् ? उच्यते — सुधर्मा नाम सभा, सा अस्मिन्नस्तीत्यण् सौधर्मः कल्पः, ०५“तदस्मिन्”[जैनेन्द्रº ३ । २ । ५८] इत्यण् तत्कल्पसाहचर्यादिन्द्रोऽपि सौधर्मः । ईशानो नाम इन्द्रः स्वभावतः, ईशानस्य निवासः कल्पः ऐशानः, *“तस्य निवासः”[जैनेन्द्रº ३ । २ । ६०] इत्यण्, तत्साहचर्यादिन्द्रोऽपि ऐशानः । सनत्कुमारो नाम इन्द्रः स्वभावतः, तस्य निवासः कल्पः सानत्कुमारः, तत्साहचर्यादिन्द्रोऽपि सानत्कुमारः । महेन्द्रो नाम इन्द्रः स्वभावतः, तस्य निवासः कल्पः माहेन्द्रः, तत्साहचर्यात् इन्द्रोऽपि माहेन्द्रः । ब्रह्मा इन्द्रः तस्य लोको ब्रह्मलोकः १०कल्पः, एवं ब्रह्मोत्तरश्च । ब्रह्मणः इन्द्रस्य निवासः ब्राह्म इति कल्पाभिधानं भवति, तत्साह- चर्याद् ब्राह्म इतीन्द्रस्याऽभिधानम् । लान्तवस्य इन्द्रस्य निवासः लान्तवः कल्पः, तत्साहचर्याद्वा इन्द्रोऽपि लान्तवः । शुक्रस्य इन्द्रस्य निवासः शौक्रः कल्पः, तत्साहचर्यात् इन्द्रोऽपि शौक्रः । अथवा शुक्रः कल्पः, तत्साहचर्यात् इन्द्रोऽपि शुक्रः । शतारस्येन्द्रस्य निवासः शातार इति कल्पः, तत्साहचर्यादिन्द्रोऽपि शातारः, । अथवा शतारः कल्पः तत्साहचर्यात् इन्द्रोऽपि शतारः । १५सहस्रारस्याप्येवम् । आनतस्येन्द्रस्य निवासः आनतः कल्पः, तत्साहचर्यात् इन्द्रोऽपि आनतः । अथवा आनतः कल्पः, तत्साहचर्यात् इन्द्रोऽप्यानतः । प्राणतस्य इन्द्रस्य निवासः प्राणतः कल्पः तत्साहचर्यात् इन्द्रोऽपि प्राणतः । अथवा प्राणतः कल्पः तत्सहचरित इन्द्रोऽपि प्राणतः । आर- णस्य इन्द्रस्य निवासः आरणः कल्पः, तत्साहचर्यात् इन्द्रोऽप्यारणः । अथवा आरणः कल्पः, तत्सहचरित इन्द्रोऽप्यारणः । अच्युतस्येन्द्रस्य निवासः आच्युतः कल्पः, तत्साहचर्यात् इन्द्रोऽप्या- २०च्युतः । अथवा अच्युतः कल्पः, तत्सहचरित इन्द्रोऽप्यच्युतः । लोकपुरुषस्य ग्रीवास्थानीयत्वात् ग्रीवाः, ग्रीवासु भवानि ग्रैवेयकाणि विमानानि, तत्साहचर्यात् इन्द्रा अपि ग्रैवेयकाः । विजया- दयोऽन्वर्थसंज्ञाः अभ्युदयविघ्नहेतुविजयात् । सर्वार्थानां सिद्धेश्च, विजयादीनि विमानानि, तत्साहचर्यात् इन्द्रा अपि विजयादिनामानः । अथ किमर्थं सर्वार्थसिद्धस्य पृथग्ग्रहणं न तैः सह द्वन्द्वः कर्तव्यः ? २५सर्वार्थसिद्धस्य पृथग्ग्रहणं स्थित्यादिविशेषप्रतिपत्त्यर्थम् । ३ । विजयादिषु चतुर्षु जघन्या स्थितिर्द्वात्रिंशत्सागरोपमाः साधिकाः; उत्कृष्टा त्रयस्त्रिंशत्सागरोपमाः । सर्वार्थसिद्धेजघन्यो- त्कृष्टा च त्रयस्त्रिंशत्सागरोपमा । यः प्रभावः सर्वार्थसिद्धैकदेवस्य नासौ सर्वविजयादिदेवा- नाम् इत्येवमादिविशेषप्रतिपत्त्यर्थं विजयादिभ्यः सर्वार्थसिद्धस्य पृथग्ग्रहणं क्रियते । ग्रैवेयकादीनां पृथग्ग्रहणं कल्पातीतत्वनिर्ज्ञापनार्थम् । ४ । सौघर्मादयः अच्युतान्ता द्वादश ३०कल्पाः, ततोऽन्ये कल्पातीता इत्येतस्य निर्ज्ञापनार्थं ग्रैवेयकादीनां पृथक् ग्रहणं क्रियते । नवशब्दस्य वृत्त्यकरणं अनुदिशसूचनार्थम् । ५ । नवशब्दस्य ग्रैवेयकशब्देन वृत्तिः कर्तव्या नवग्रैवेयकेष्विति, तदकरणम् अन्यान्यपि नव सन्ति इत्येतस्य सूचनार्थम्, तेन अनुदिशसंग्रहः २२५ कृतो भवति । इतरथा हि लघ्वर्था वृत्तिः क्रियेत । किमिदमनुदिशमिति ? प्रतिदिशमित्यर्थः । दिक्शब्दस्य शरत्प्रभृतिषु पाठात् डः (टः) अनुदिशं विमानानि अनुदिशविमानानि । आकारान्तो वा दिशाशब्दो दिक्पर्यायवाची इति तेनानोर्वृत्तिः । उपर्युपरीत्यनेन द्वयोर्द्वयोरभिसंबन्धः । ६ । आगमाऽपेक्षया व्यवस्था भवति इति उपर्यु- ०५परीत्यनेन द्वयोर्द्वयोरभिसंबन्धो वेदितव्यः । प्रथमौ सौधर्मैशानकल्पौ, तयोरुपरि सानत्कुमार- माहेन्द्रौ । तयोरुपरि ब्रह्मलोकब्रह्मोत्तरौ । तयोरुपरि लान्तवकापिष्ठौ । तयोरुपरि शुक्रमहा- शुक्रौ । तयोरुपरि शतारसहस्रारौ । तयोरुपरि आनतप्राणतौ । तयोरुपरि आरणाऽच्युतौ । प्रत्येकमिन्द्रसंबन्धो मध्ये प्रतिद्वयम् । ७ । प्रत्येकमिन्द्रसंबन्धो वेदितव्यः, मध्ये प्रति- द्वयम् । सौधर्मैशानकल्पयोर्द्वाविन्द्रौ । सानत्कुमारमाहेन्द्रयोर्द्वौ । ब्रह्मलोकब्रह्मोत्तरयोरेकः १०ब्रह्मा नाम । लान्तवकापिष्ठयोरेको लान्तवाऽऽख्यः । शुक्रमहाशुक्रयोरेकः शुक्रसंज्ञः । शतारसहस्रारयोरेकः शतारनामा । आनतप्राणतयोर्द्वौ । आरणाऽच्युतयोर्द्वौ । तथा चोत्तरयोः पृथग्वचनमर्थवत् । ८ । एवं कृत्वा उत्तरयोः पृथग्वचनमर्थवत् भवति- आनतप्राणतयोरारणाऽच्युतयोरिति । इतरथा हि लघ्वर्थ एक एव द्वन्द्वः क्रियेत । तद्यथा- अस्माद् भूमितलान्नवनवतिर्योजनसहस्राणि चत्वारिंशच्च योजनान्युत्पत्य सौधर्मैशानकल्पौ १५भवतः । तयोरेकत्रिंशद् विमानप्रस्ताराः — ऋतु-चन्द्र-विमल-वल्गु-वीर-अरुण-नन्दन-नलिन- लोहित-काञ्चन-वञ्चन्-मारुत-ऋद्धीश-वैडूर्य-रुचक-रुचिर-अङ्क-स्फटिक-तपनीय-मेघ-हारिद्र- पद्म-लोहिताक्ष-वज्र-नन्द्यावर्त-प्रभङ्कर-पिष्टक-गज-मस्तक-चित्रप्रभासंज्ञाः । मन्दरचूलि- काया उपरि ऋतुविमानम्, तयोरन्तरं वालाग्रमात्रम् । ऋतुविमानाच्चतसृषु दिक्षु चतस्रो विमानश्रेण्यो निर्गताः, प्रत्येकं द्विषष्टिविमानसंख्याः । विदिक्षु पुष्पप्रकीर्णकविमानानि । २०एवम् एकैकश्रेणीविमानहानिराप्रभाविमानाद्वेदितव्या । एकैकप्रस्तारान्तरमसंख्येयानि योजनशतसहस्राणि । तत्र प्रभासंज्ञादिन्द्रकविमानाद् दक्षिणस्यां दिशि श्रेण्यां द्वात्रिंशद्विमान- संख्यायामष्टादशं श्रेणीविमानं तत्कल्पविमानम् । तस्य स्वस्तिक — वर्धमान-विश्रुताख्यास्त्रयः प्राकाराः । तत्र बाह्यप्राकारान्तरनिवासीनि अनीकानि पारिषदाश्च । मध्यप्राकारान्तर- निवासिनस्त्रिदशसचिवाः, अभ्यन्तरप्राकारनिवासी देवराजः शक्रः सौधर्म इति चोच्यते । २५तस्य विमानस्य चतसृषु दिक्षु चत्वारि नगराणि — काञ्चन-अशोकमन्दिर-मसार-गल्वसंज्ञानि । तस्य द्वात्रिंशद्विमानशतसहस्राणि, त्रयस्त्रिंशत् त्रायस्त्रिंशाः, चतुरशीतिरात्मरक्षसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, चतुरशीतिः सामानिकसहस्राणि, चत्वारो लोकपालाः, पद्मा शिवा सुजाता सुलसा अञ्जुका कालिन्दी श्यामा भानुरित्येता अष्टावग्रमहिष्यः । अन्यानि चत्वारिंशद्वल्लभिकानां देवीनां सहस्राणि । सर्वाश्चैता अग्रमहिष्यो वल्लभिकाश्च प्रत्येकं ३०पञ्चपल्योपमस्थितिकाः षोडशदेवीसहस्रपरिवृताः । एकैका चाऽग्रमहिषी वल्लभिका च षोडशदेवीरूपसहस्रविकरणसमर्था । तत्र शक्रस्याभ्यन्तरपरिषत् समिता नाम, द्वादश- २२६ सहस्राणि देवानां पञ्चपल्योपमायुषाम् । चन्द्रा नाम मध्यपरिषत् चतुर्दशसहस्राणि देवानां चतुःपल्योपमायुषाम् । जातुर्नाम बाह्यपरिषत् षोडशसहस्राणि देवानां त्रिपल्योपमायुषाम् । आभ्यन्तरपरिषदि देवानामेकैकस्य देवस्य देव्यः सप्तशतसंख्याः अर्धतृतीयपल्योपमस्थितयः । मध्यमपरिषदि देवानामेकैकस्य देवस्य देव्यः षट्शतसंख्याः द्विपल्योपमस्थितयः । बाह्य- ०५परिषदि देवानामेकैकस्य देवस्य देव्यः पञ्चशतसंख्याः अध्यर्धपल्योपमस्थितयः, तावद्देवी- रूपविकरणसमर्थाः । अष्टानामपि अग्रमहिषीणामभ्यन्तरपरिषत् सप्तदेवीशतानि । मध्यम- परिषत् षड्देवीशतानि । बाह्यपरिषत् पञ्चदेवीशतानि । एतासु तिसृषु अपि परिषत्सु देव्यः अर्धतृतीयपल्योपमस्थितयः । पदात्यश्वगजवृषभरथनर्तकीगन्धर्वाख्यानि सप्तानी- कानि पल्योपमस्थितीनि । अनीकमहत्तराश्च पल्योपमायुषः । तत्र वायुर्नाम पदात्यनीक- १०महत्तरः सप्तभिः कक्षाभिः परिवृतः । प्रथमा कक्षा चतुरशीतिः पदातिशतसहस्राणि । द्वितीया तद्द्विगुणा । एवं द्विगुणा द्विगुणा पदातिसंख्या आसप्तम्याः । हरिरश्वानीक- महत्तरः । ऐरावतो गजानीकमहत्तरः । दामयष्टिर्वृषभानीकमहत्तरः । मातली रथानीक- महत्तरः । नीलाञ्जना नर्तकीगणमहत्तरिका । अरिष्टयशस्को नाम गन्धर्वानीकमहत्तरः । एषां षण्णामप्यनीकानां संख्या पदातिसंख्यया तुल्या, सैषा विक्रियाकृता । प्राकृती तु १५एकैकस्यानीकस्य षट्छतसंख्या । तेषां प्राकृतानां देवानां प्रत्येकं षट्छतसंख्यानामेकैकस्य देवस्य षट्देवीशतानि । एकैका चात्र देवी षड्देवीरूपविकरणसमर्था अर्धपल्योपमस्थितिका । सप्तानामप्यनीकमहत्तराणामेकैकस्य षट्देवीशतानि । एकैका चात्र देवी देवीषड्रूपविकरण- समर्था अर्धपल्योपमस्थितिका । आत्मरक्षाणां चतुरशीतिसहस्रसंख्यानां पल्योपमायषामेकै- कस्य द्वे द्वे देवीशते । एकैका चात्र देवी षड्देवीरूपविकरणसमर्था अर्धपल्योपमस्थितिका । २०शक्रस्य बालको नामाऽऽभियोग्यः पल्योपमायुः, जम्बूद्वीपप्रमाणायामयानविमानविक्रिया- समर्थः । तस्य षड्देवीशतानि । एकैका चात्र षड्देवीरूपविकरणसमर्था अर्धपल्योपम- स्थितिका । प्राच्यां दिशि स्वयंप्रभे विमाने सोमो लोकपालः अर्धतृतीयपल्योपमायुः । तस्य चत्वारि सामानिकसहस्राणि अर्धतृतीयपल्योपमायूंषि । चत्वारि देवीसहस्राणि अर्धतृतीयपल्योपमायूंṃषि । चतस्रोऽग्रमहिष्यः अर्धतृतीयपल्योपमायुषः । सोमस्याभ्यन्तर- २५परिषत् ईषा नाम पञ्चपञ्चाशद्देवाः सपादपल्योपमायुषः । दृढा नाम मध्यमपरिषत् चत्वारि देवशतानि सपादपल्योपमायूंṃषि । चतुरन्ता नाम बाह्यपरिषत् पञ्चदेवशतानि सपाद- पल्योपमायूंṃषि । अपाच्यां दिशि वरज्येष्ठे विमाने यमो नाम लोकपालः । शेषं सोमवत् । प्रतीच्यां दिशि अञ्जने विमाने वरुणो नाम लोकपालः पादोनत्रिपल्योपमायुः । ईषा नाम तस्याऽभ्यन्तरपरिषत् षष्टिर्देवा अध्यर्धपल्योपमायुषः । मध्या दृढा पञ्चदेवशतानि देशो- ३०नाध्यर्धपल्योपमायूंषि । बाह्या चतुरन्ता षड्देवशतानि देशाधिकाध्यर्धपल्योपमायूंṃषि । तिसृष्वपि परिषत्सु स्वभर्तृस्थितयो देव्यः । शेषं सोमवत् । उदीच्यां दिशि वल्गुविमाने वैश्रवणो नाम लोकपालः त्रिपल्योपमायुः, तस्याऽभ्यन्तरपरिषत् ईषा, सप्ततिर्देवाः अध्यर्ध- पल्योपमायुषः । मध्या दृढा षड्देवशतानि देशोनाध्यर्धपल्योपमायूंṃषि । बाह्या चतुरन्ता सप्तदेवशतानि सपादपल्योपमायूंṃषि । तिसृष्वपि परिषत्सु स्वभर्तृस्थितयो देव्यः । २२७ शेषं सोमवत् । चतुर्णामपि लोकपालानामेकैकस्याऽर्धचतुर्थकोटीसंख्या अप्सरसः । सौधर्मेन्द्रक- विमानानाम् एकत्रिंशच्छ्रेणीविमानानां चत्वारि सहस्राणि त्रीणि शतानि एकसप्तत्यधि- कानि । पुष्पप्रकीर्णकविमानानाम् एकत्रिंशच्छतसहस्राणि पञ्चनवतिः सहस्राणि पञ्च- शतान्यष्टनवत्यधिकानि । तान्येतानि समुदितानि द्वात्रिंशद्विमानशतसहस्राणि भवन्तीत्युक्तः ०५सौधर्मकल्पः । तथा तस्मात् प्रभाविमानात् उदक्छ्रेण्यां द्वात्रिंशद्विमानविरचितायां यदष्टादशं तत्कल्पविमानम् । तस्य परिवारवर्णना पूर्ववद्वेदितव्या । तस्याधिपतिः — ऐशानो देवराजः । यस्याऽष्टाविंशतिर्विमानशतसहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, अशीतिः सामानिक- सहस्राणि, तिस्रः परिषदः, सप्तानीकानि, अशीतिरात्मरक्षसहस्राणि, चत्वारो लोकपालाः । १०श्रीमती सुसीमा वसुमित्रा वसुन्धरा जया जयसेना अमला प्रभा चेत्यष्टावग्रमहिष्यः सप्त- पल्योपमस्थितयः । द्वात्रिंशद्वल्लभिकासहस्राणि सप्तपल्योपमायूंṃषि । अभ्यन्तरपरिषत्समिता दशदेवसहस्राणि सप्तपल्योपमायूंṃषि । चन्द्रा मध्यमा परिषत् द्वादशदेवसहस्राणि षट्पल्यो- पमायूंṃषि । जातुर्बाह्यपरिषत् चतुर्दशदेवसहस्राणि पञ्चपल्योपमायूंṃषि । लघुपराक्रमः पदात्यनीकमहत्तरः, अमितगतिः अश्वानीकमहत्तरः, द्रुमकान्तो वृषभानीकमहत्तरः, किन्नरो १५रथानीकमहत्तरः, पुष्पदन्तो गजानीकमहत्तरः, गीतयशा गन्धर्वानीकमहत्तरः, श्वेता नर्तकी- गणमहत्तरिका । तत्र पदात्यनीकमहत्तरस्य प्रथमा कक्षा अशीतिर्देवसहस्राणि, द्वितीया तद्- द्विगुणा, एवं द्विगुणा द्विगुणा आ सप्तम्याः । एवं शेषाणामप्यनीकानां विक्रियासंख्या । त ऐते सर्वे अनीकदेवाः तन्महत्तराश्च साधिकपल्योपमायुषः । ऐशानस्य दक्षिणस्यां दिशि समे विमाने सोमो नाम लोकपालः, अर्धपञ्चपल्योपमायुः । तस्याभ्यन्तरपरिषत् षष्टिर्देवाः । २०मध्यममरिषत् पञ्चदेवशतानि । बाह्यपरिषत् षड्देवशतानि सप्त च देवाः । अपरस्यां दिशि सर्वतोभद्रे यमो लोकपालः अर्धपञ्चमपल्योपमायुः । शेषः सोमवत् । उत्तरस्यां दिशि सुभद्रे वरुणो लोकपालः पञ्चपल्योपमायुः । तस्याभ्यन्तरपरिषदशीतिर्देवाः । मध्यमपरिषत् सप्तदेवशतानि । बाह्यपरिषदष्टौ देवशतानि । पूर्वस्यां दिशि अमिते विमाने वैश्रवणो लोकपालः पादोनपञ्चपल्योपमायुः । तस्याभ्यन्तरपरिषत् सप्ततिर्देवाः । मध्यमपरिषत् २५षड्देवशतानि । बाह्यपरिषत् सप्तदेवशतानि । ईशानस्य पुष्पको नाम आभियोग्यो देवः बालकतुल्यः जम्बूद्वीपप्रमाणपुष्पकयानविमानविकरणसमर्थः । शेषः शक्रवन्नेयः । एवमुत्तर- श्रेणिविमानपुष्पकप्रकीर्णकाधिपतिरीशानो वर्णितः । प्रभाविमानादूर्ध्वं बहूनि योजनसहस्राणि उत्पत्य सानत्कुमारमाहेन्द्रकल्पौ भवतः । तयोः सप्तविमानप्रस्ताराः — अञ्जन-वनमाल-नाग-गरुड-लाङ्गल-बलभद्र-चक्राभिधानाः । ३०तत्राञ्जनविमानाच्चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो निर्गताः । विदिक्षु पुष्पप्रकीर्णकविमानानि । तत्रैकैकस्यां विमानश्रेण्याम् एकत्रिंशद्विमानानि एकै- कहीनान्याचक्रात् । तेषामन्तराण्यपि बहूनि योजनशतसहस्राणि । चक्राख्यादन्त- विमानाद् दक्षिणश्रेण्यां पञ्चविंशतिविमानविराजितायां पञ्चदशं कल्पविमानं सौधर्म- कल्पविमानसदृशम् । तस्याधिपतिः सानत्कुमारो देवराजः । तस्य द्वादशविमानशत- २२८ सहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, द्विसप्ततिः सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, द्विसप्ततिः आत्मरक्षसहस्राणि, चत्वारो लोकपालाः । अष्टावग्रमहिष्यः शक्राग्रमहिषीसमाना नवपल्योपमायुषः । एकैका चात्राऽष्टाभिः देवीसहस्रैः परिवृताः द्वात्रिंशद्देवीसहस्रविकरणसमर्थाः । अष्टावन्यानि वल्लभिकानां सहस्राणि तावदायुर्विकरण- ०५समर्थानि । समिताऽभ्यन्तरपरिषदष्टौ देवसहस्राणि साधिकार्धचतुर्थसागरोपमायूंषि । चन्द्रा मध्यमपरिषद् दशदेवसहस्राणि साधिकार्धचतुर्थसागरोपमायूंषि । जातुर्बाह्यपरिषत् द्वादश- देवसहस्राणि साधिकार्धचतुर्थसागरोपमायूंषि । अभ्यन्तरपरिषद्देवानाम् एकैकस्य सप्तदेवी- शतानि पञ्चपल्योपमायूंषि । मध्यमपरिषद्देवानाम् एकैकस्य, षड्देवीशतानि पञ्चपल्यो- पमायूंषि । बाह्यपरिषद्देवानाम् एकैकस्य पञ्चदेवीशतानि पञ्चपल्योपमायूंषि । सर्वाणि १०च तानि तावद्विक्रियासमर्थानि । तस्यानीकमहत्तराः शक्रानीकमहत्तरसमाना अर्धचतुर्थ- सागरोपमायुषः । पदातीनां प्रथमकक्षा द्विसप्ततिसहस्राणि । द्वितीया तद्द्विगुणा । एवं द्विगुणा द्विगुणा आ सप्तम्याः । तथा शेषेष्वपि षट्सु अनीकेषु अनीकमहत्तराणामेकैकस्य त्रीणि देवीशतानि पञ्चपल्योपमायूंषि । आत्मरक्षदेवानाम् एकैकस्य देवीशतं पञ्चपल्यो- पमायुः । बालकनामाभियोग्यदेवस्याऽऽयुः अर्धचतुर्थानि सागरोपमाणि । त्रीणि देवीशतानि १५पञ्चपल्योपमायूंषि । पूर्वादिषु दिक्षु स्वयंप्रभ-वरज्येष्ठ-स्वयंजन-वल्गुविमानवासिनः सोमयम- वरुणवैश्रवणाः चत्वारो लोकपालाः । एषामेकैकस्य दश दश सामानिकशतानि, दशदशदेवी- शतानि, चतस्रोऽग्रमहिष्यः, तिस्रः परिषदः । सागरोपमत्रयस्थिती सोमयमौ । पादाधिकता- वदायुर्वरुणः । अर्धाधिकतावदायुर्वैश्रवणः । सोमयमयोरभ्यन्तरपरिषच्चत्वारिंशद् देवाः । मध्यमपरिषत् त्रीणि देवशतानि । बाह्यपरिषच्चत्वारि देवशतानि । वरुणस्याऽभ्यन्तर- २०परिषत्पञ्चाशद् देवाः । मध्या चत्वारि देवशतानि । बाह्या पञ्चदेवशतानि । वैश्रवणस्य अभ्यन्तरपरिषत् पष्टिर्देवाः । मध्या पञ्चदेवशतानि । बाह्या परिषत् षड्देवशतानि । चतसृष्वपि अभ्यन्तरपरिषत्सु देवानामायुः त्रीणि सागरोपमाणि । एकैकस्य देवीशतम् । चतसृष्वपि मध्यमपरिषत्सु देवानामायुः देशोनानि त्रीणि सागरोपमाणि । एकैकस्य पञ्चसप्त- तिर्देव्यः । चतसृष्वपि बाह्यपरिषत्सु देवा अर्धतृतीयसागरोपमायुषः, एकैकस्य पञ्चाशद् देव्यः । २५तस्माच्चक्रविमानादुत्तरस्यां दिशि श्रेण्यां पञ्चविंशतिविमानमण्डितायां पञ्चदशं कल्पविमानं पूर्वोक्तवर्णनम् । तस्येश्वरो महेन्द्रो देवराजः । यस्याऽष्टौ विमानशतसहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, सप्ततिः सामानिकसहस्राणि, तिस्रः परिषदः, सप्ततिरात्मरक्ष- सहस्राणि, चत्वारो लोकपालाः, ऐशानाग्रमहिषीतुल्यसंज्ञा अष्टावग्रमहिष्यः एकादशपल्यो- पमायुषः । अष्टौ चास्य वल्लभिकानां सहस्राणि तावदायूंṃषि । शेषः सानत्कुमाराग्रमहिषी- ३०वल्लभिकावत् । समिताऽभ्यन्तरपरिषत् षड्देवसहस्राणि । चन्द्रा मध्यमपरिषत् अष्टौ- देवसहस्राणि । जातुर्बाह्यपरिषत् दशदेवसहस्राणि । तिसृष्वपि परिषत्सु देवानां सानत्कुमार- परिषद्देवस्थितेरधिका स्थितिः । शेषो देवीगणपरिमाणायुर्विक्रियासामर्थ्यादिविधिः सानत्कु- मारपरिषद्वत् । अनीकमहत्तराणामाख्या ऐशानवद्वेदितव्याः । पदात्यनीकस्य प्रथमकक्षा सप्त- तिर्देवसहस्राणि, द्वितीया तद्द्विगुणा, एवं द्विगुणा द्विगुणा आ सप्तम्याः । तथा शेषेष्वपि षट्सु २२९ अनीकेषु । अनीकमहत्तराणाम् एकैकस्य त्रीणि देवीशतानि । एकैका चाऽत्र सप्तपल्योपम- स्थितिका । आत्मरक्षाणामायुः साधिकार्धचतुर्थानि सागरोपमाणि । एकैकस्य सप्तपल्योपमा- युषां देवीनां शतम् । दक्षिणादिषु दिक्षु सम-सर्वतोभद्र-सुभद्र-समितविमानवासिनः सोमयम- वरुणवैश्रवणलोकपालाः । एकैकस्य दश दश सामानिकशतानि, तावत्संख्या देव्यः, चतस्रोऽग्रम- ०५हिष्यः, तिस्रः परिषदः । तत्रार्धचतुर्थसागरोपमस्थितिर्वरुणः, तदूनस्थितिर्धनदः, ततोऽप्यून- स्थिती सोमयमौ, सोमयमयोरभ्यन्तरपरिषत् पञ्चाशद् देवाः । मध्या चत्वारि देवशतानि । बाह्या पञ्चदेवशतानि । वैश्रवणस्याऽभ्यन्तरपरिषत् षष्टिर्देवाः । मध्या पञ्चदेवशतानि । बाह्या षड्देवशतानि । वरुणस्याभ्यन्तरपरिषत्सप्ततिर्देवाः । मध्या षड्देवशतानि । बाह्या सप्तदेव- शतानि । लोकपालचतुष्टयाभ्यन्तरपरिषद्देवानामैकैकस्य देवीशतम् । मध्यमपरिषद्देवानां १०एकैकस्य सप्ततिर्देव्यः । बाह्यपरिषद्देवानाम् एकैकस्य पञ्चाशद्देव्यः । आयुश्च तेषां यथा- संख्यं साधिकानि समानि देशोनानि च त्रीणि सागरोपमाणि । पुष्पकयानविमानाभियोग्यदेवः साधिकार्धचतुर्थसागरोपमायुः । तस्य देवानां साधिकद्विसागरायुषां शतम् । चक्रविमानादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्य ब्रह्मलोकब्रह्मोत्तरकल्पौ स्तः । तयोश्चत्वारो विमानप्रस्ताराः — अरिष्टो देवसमितो ब्रह्म ब्रह्मोत्तर इति । अरिष्टविमानाच्च १५चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो निर्गताः चतुर्विंशतिविमानगणनाः । विदिक्षु पुष्प- प्रकीर्णकानि । एवमेकैकश्रेणिविमानहान्यानेतव्या आ ब्रह्मोत्तरात् । तेषां प्रस्ताराणामन्त- राण्यपि बहूनि योजनशतसहस्राणि । ब्रह्मोत्तरविमानाद् दक्षिणश्रेण्याम् एकविंशतिविमान- विराजितायां द्वादशं कल्पविमानं पूर्वोक्तवर्णनम् । तस्याधिपतिः ब्रह्मो (ह्म) देवराजः । यस्य साधिके द्वे विमानशतसहस्रे, त्रयस्त्रिंशत्त्रायस्त्रिंशाः देवाः, षट्त्रिंशत् सामानिकसहस्राणि, २०तिस्रः परिषदः, सप्तानीकानि, षड्त्रिंशदात्मरक्षसहस्राणि, चत्वारो लोकपालाः । पद्मादयः शक्राग्रमहिषीतुल्यसंज्ञा अष्टावग्रमहिष्यः त्रयोदशपल्योपमस्थितयः चतुर्देवीसहस्रपरिवृताः । द्वे च वल्लभिकासहस्रे त्रयोदशपल्योपमस्थितिके । एकैकाग्रमहिषी वल्लभिका चतुष्षष्टिदेवी- रूपसहस्रविकरणसमर्था । समिताभ्यन्तरपरिषत् चत्वारि देवसहस्राणि अष्टसागरोपमायूंषि । चन्द्रा मध्यमपरिषत् षड्देवसहस्राणि देशोनाष्टसागरोपमायूंषि । जातुर्बाह्या अष्टौ देव- २५सहस्राणि अष्टसागरोपमायूंषि । अभ्यन्तरपरिषद्देवानामेकैकस्य पञ्चाशद् देव्यः । मध्यम- परिषद्देवानां चत्वारिंशद् देव्यः । बाह्यपरिषद्देवानां त्रिंशद् देव्यः । वाय्वादयः सप्तानी- कमहत्तरा अर्धाष्टमसागरोपमायुषः । तत्र वायोः पदात्यनीकमहत्तरस्य प्रथमकक्षा षट्- त्रिंशत्सहस्राणि, द्वितीया तद्द्विगुणा, एवं द्विगुणा द्विगुणा आ सप्तम्याः । सर्वेषामनीकमहत्त- राणामेकैकस्य अर्धतृतीयानि देवीशतानि । चतस्रोऽग्रमहिष्यः । आत्मरक्षदेवानामायुः अर्धाऽष्ट- ३०मानि सागरोपमाणि । एकैकस्य पञ्चाशद् देव्यः । बालकाभियोग्यदेवोऽपि तावदायुर्देवीकः । पूर्वादिषु दिक्षु स्वयंप्रभवरज्येष्ठस्वयंजनवल्गुविमाननिवासिनः सोमयमवरुणवैश्रवणा लोक- पालाः । तेषामेकैकस्य पञ्च सामानिकशतानि, पञ्च देवीशतानि, चतस्रोऽग्रमहिष्यः । अर्धाष्टमसागरोपमायुर्धनदः । तदूनायुर्वरुणः । ततोऽप्यूनस्थिती सोमयमौ । सोमयमयोरभ्यन्तर- परिषत् त्रिंशद्देवाः । मध्या द्वे देवशते । बाह्या त्रीणिदेवशतानि । वरुणस्याभ्यन्तरपरिषच्चत्वा- ३५रिंशद् देवाः । मध्या त्रीणि देवशतानि । बाह्या चत्वारि देवशतानि । वैश्रवणस्याभ्यन्तर- परिषत् पञ्चाशद् देवाः । मध्या चत्वारि देवशतानि । बाह्या पञ्च देवशतानि । चतसृषु अभ्यन्तरपरिषत्सु देवानामायुरष्टौ सागरोपमाणि । मध्यमपरिषद्देवानां देशोनान्यष्टौ २३० सागरोपमाणि । बाह्यपरिषद्देवानां तान्येवार्धाष्टमानि । तेषां देव्यो यथासंख्यं पञ्चा- शच्चत्वारिंशत् त्रिंशच्च वेदितव्याः । ब्रह्मोत्तरादुत्तरश्रेण्यामेकविंशतिविमानायां द्वादशं कल्पविमानं पूर्ववत् । तस्याधिपतिः ब्रह्मोत्तरः । यस्य न्यूने द्वे विमानशतसहस्रे, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, द्वात्रिंशत्सामानिक- ०५सहस्राणि, तिस्रः परिषदः, सप्तानीकानि, द्वात्रिंशदात्मरक्षसहस्राणि, चत्वारो लोकपालाः, ऐशानेन्द्राग्रमहिषीतुल्यसंज्ञा अष्टावग्रमहिष्यः पञ्चदशपल्योपमायुषः, द्वे च वल्लभिकासहस्रे तावदायुषी । अवशिष्टं ब्रह्मेन्द्रवत् । ब्रह्मोत्तरस्याभ्यन्तरपरिषत् समिता द्वे देवसहस्रे । चन्द्रा मध्या चत्वारि देवसहस्राणि । जातुर्बाह्या षड्देवसहस्राणि । अवशिष्टं ब्रह्मेन्द्रपरिषद्वत् । पुष्पकाभियोग्योऽपि तद्वदेव । पदात्यनीकस्य प्रथमकक्षा द्वात्रिंशद् देवसहस्राणि । इतरद् १०ब्रह्मेन्द्रवत् । आत्मरक्षाश्च तद्वदेव । दक्षिणादिदिक्षु सोमादयो लोकपाला ब्रह्मेन्द्रवन्नेयाः । ब्रह्मोत्तरविमानादूर्ध्वं बहुयोजनशतसहस्राणि उत्पत्य लान्तवकापिष्ठौ कल्पौ भवतः । ययोर्द्वौ विमानप्रस्तारौ ब्रह्महृदयलान्तवाख्यौ । तत्र लांतवविमानाद् दक्षिणश्रेण्याम् एकान्न- विंशतिविमानविरचितायां नवमं कल्पविमानं पूर्वोक्तपरिवारम् । तस्याधिपतिर्लान्तवो नाम देवराजः । यस्याधिकानि पञ्चविंशतिविमानसहस्राणि, त्रयस्त्रिंशत् त्रायस्त्रिंशा देवाः, १५चतुर्विंशतिः सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, चतुर्विंशतिरात्मरक्ष- सहस्राणि, चत्वारो लोकपालाः, शक्राग्रमहिषीसमानसंज्ञा अष्टावग्रमहिष्यः सप्तदशपल्योप- मायुषः, प्रत्येकं द्वाभ्यां देवीसहस्राभ्यां परिवृताः । अन्यानि च वल्लभिकानां तावदायुषां पञ्चशतानि । एकैका चात्राग्रमहिषी वल्लभिका च एकं देवीशतसहस्रमष्टाविंशति च देवी- सहस्राणि विकरोति । समिताऽभ्यन्तरपरिषत् एकं देवसहस्रम् । तत्रैकैकस्य साधिकानि दश- २०सागरोपमाणि आयुः, सप्ताशीतिश्च देव्यः । मध्या चन्द्रा द्वे देवसहस्रे । अत्रैकैकस्य देशोनानि दशसागरोपमाण्यायुः, पञ्चसप्ततिश्च देव्यः । जातुर्बाह्या चत्वारि देवसहस्राणि । तत्रैकैकस्य मध्यपरिषद्देवायुषः किञ्चिन्न्यूनमायुः, त्रिषष्टिश्च देव्यः । बालकाभियोग्यो बाह्य- परिषत्समायुः, षष्टिश्चास्य देव्यः । अनीकानां तन्महत्तराणां चायुः मध्यमपरिषदायुषः किञ्चिन्न्यूनमायुः । सर्वेषां प्रथमकक्षा चतुर्विंशतिः सहस्राणि । ततो द्विगुणा द्विगुणा आ २५सप्तम्याः । तत्रैकैकस्य देवस्य महत्तरस्य च षष्टिर्देव्यः । पूर्वादिषु दिक्षु स्वयंप्रभ-वरज्येष्ठ- स्वयंजन-वल्गुविमाननिवासिनः सोमादयश्चत्वारो लोकपालाः । तत्रैकैकस्य चत्वारि सामानि- कशतानि, अर्धतृतीयानि देवीशतानि, चतस्रोऽग्रमहिष्यः, तिस्रः परिषदः । जातुपरिषत्सदृशा- युर्वैश्रवणः । ततो न्यूनायुर्वरुणः । ततो न्यूनायुषौ सोमयमौ । सोमयमयोरभ्यन्तरपरिषद्विंशति- र्देवाः, मध्या देवशतम्, बाह्या द्वे देवशते । वरुणस्याभ्यन्तरपरिषत्त्रिंशद् देवाः, मध्या द्वे ३०देवशते, बाह्या त्रीणि देवशतानि । वैश्रवणस्याभ्यन्तरपरिषच्चत्वारिंशद् देवाः, मध्या त्रीणि देवशतानि, बाह्या चत्वारि देवशतानि । सर्वाभ्यन्तरपरिषद्देवानामायुरेकादशसागरोप- माणि । मध्यमपरिषद्देवानां तान्येव किञ्चिन्न्यूनानि । बाह्यपरिषद्देवानां ततोऽपि किञ्चिन्न्यूनानि । तेषां यथाक्रमं पञ्चविंशतिः विंशतिः पञ्चदशदेव्यः । लान्तवविमानादुत्तरश्रेण्याम् एकान्नविंशतिविमानविराजितायां नवमं कल्पविमानं ३५पूर्वोक्तवर्णनम् । तस्याधिपतिः कापिष्ठः । यस्योनानि पञ्चविंशतिः विमानसहस्राणि, २३१ त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, द्वाविंशतिः सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, द्वाविंशतिरात्मरक्षसहस्राणि, चत्वारो लोकपालाः, श्रीमत्यादयोऽष्टावग्रमहिष्यः पञ्चशत- संख्याश्च वल्लभिका एकान्नविंशतिपल्योपमायुषः । अवशिष्टं लान्तवेन्द्रवत्, परिषदश्च । सर्वेषामनीकानां प्रथमकक्षा द्वाविंशतिसहस्राणि, इतरल्लान्तवेन्द्रवत् । आत्मरक्षादिविधिश्च ०५तथैव ज्ञेयः । अयं तु विशेषः लान्तवेन्द्रजातुपरिषत्सदृशायुर्वरुणः । तत ऊनायुः वैश्रवणः । ततोऽप्यूनायुषौ सोमयमौ । लान्तवविमानाद्बहूनि योजनशतसहस्राणि उत्पत्य महाशुक्रो नाम विमानप्रस्तारो भवति । ततो महाशुक्रविमानात् दक्षिणश्रेण्याम् अष्टादशविमानपरिमण्डितायां द्वादशं कल्प- विमानं पूर्वोक्तपरिवारम् । तस्याधिपतिः शुक्रो नाम देवराजः । यस्याधिकानि विंशतिर्विमान- १०सहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, चतुर्दश सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, चतुर्दशाऽऽत्मरक्षसहस्राणि, चत्वारो लोकपालाः, पद्मादयोऽष्टावग्रमहिष्यः, एकैका चात्र दशभिर्देवीसहस्रैः परिवृता । वल्लभिकाश्च अर्धतृतीयशतसंख्याः । एकैका यत्राग्र- महिषी वल्लभिका चैकविंशतिपल्योपमायुः, द्वे देवीरूपशतसहस्रे षट्पञ्चाशतं च देवीरूपसह- स्राणि विकरोति । समिताऽभ्यन्तरपरिषत् पञ्चदेवशतानि चतुर्दशसागरोपमायूंषि । १५तत्रैकैकस्य त्रिचत्वारिंशद् देव्यः । चन्द्रा मध्या एकं देवसहस्रं देशोनचतुर्दशसागरोपमायुः । तत्रैकैकस्याष्टत्रिंशद् देव्यः । जातुर्बाह्या द्वे देवसहस्रे मध्यमपरिषदूनायुषी । अत्रैकैककस्य पञ्च- त्रिंशद् देव्यः । अनीकानां महत्तराणां च जातुवदायुः । सर्वेषां प्रथमकक्षा चतुर्दशदेवसहस्राणि, एकैकस्य पञ्चाशद् देव्यः । बालकाभियोग्योऽपि तावदायुर्देवीकः, आत्मरक्षाश्च । पूर्वादिषु दिक्षु स्वयंप्रभ-वरज्येष्ठ-स्वयंजन-वल्गुविमानवासिनः सोमादयश्चत्वारो लोकपालाः । धनदस्य २०जातुवदायुः, ततोऽप्यूनायुर्वरुणः, ततोऽप्यूनायुषौ सोमयमौ । तयोरभ्यन्तरपरिषदष्टदेवाः । मध्या पञ्चाशत् । बाह्या देवशतम् । वरुणस्याभ्यन्तरपरिषत् विंशतिर्देवाः । मध्या देवशतम् । बाह्या द्वे देवशते । वैश्रवणस्याभ्यन्तरपरिषद्विंशतिर्देवाः । मध्या द्वे देवशते । बाह्या त्रीणि देवशतानि । सर्वाभ्यन्तरपरिषद्देवानामायुः पञ्चदशसागरोपमाणि । मध्यमपरिषद्देवानामायु- स्तान्येव देशोनानि । बाह्यपरिषद्देवानामायुः सार्धचतुर्दशसागरोपमाणि । तेषां यथाक्रमं २५विंशतिः पञ्चदश दश च देव्यो भवन्ति । महाशुक्रविमानादुत्तरश्रेण्याम् अष्टादशविमानशोभितायां द्वादशं कल्पविमानम् । तस्याधिपतिः महाशुक्रः । यस्योनानि विंशतिर्विमानसहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, द्वादश सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, द्वादशात्मरक्षसहस्राणि, चत्वारो लोकपालाः, श्रीमत्यादयोऽष्टावग्रमहिष्यः अर्धतृतीयशतसंख्याश्च वल्लभिकाः ३०त्रयोविंशतिपल्योपमायुषः । शेषं शुक्रवत् । तिस्रोऽपि परिषदः शुक्रवदेव वेदितव्याः । अनीकानां प्रथमकक्षा द्वादशदेवसहस्राणि । शेषं शुक्रवत् । आत्मरक्षाणां पुष्पकाभियोग्यस्य च तथैव विधिः । दक्षिणादिषु दिक्षु सम-सर्वतोभद्र-सुभद्र-समितविमाननिवासिनः सोमाद-, यश्चत्वारो लोकपालाः । शुक्रजातुपरिषत्समस्थितिर्वरुणः । तत ऊनायुर्वैश्रवणः । ततोऽप्यू- नायुषौ सोमयमौ । शेषं शुक्रवत् । ३५महाशुक्रविमानादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्य सहस्रार एकविमानप्रस्तारो भवति । यत्र दक्षिणोत्तरौ शतारसहस्रारकल्पौ । तत्र सहस्रारविमानाद् दक्षिणश्रेण्यां सप्तदश- २३२ विमानगणनायां नवमं कल्पविमानम् । तस्याधिपतिः शतारो नाम देवराजः । यस्याधिकानि त्रीणि विमानसहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, चत्वारि सामानिकसहस्राणि, तिस्रः परिषदः, सप्तानीकानि, चत्वारि आत्मरक्षसहस्राणि, चत्वारो लोकपालाः, पद्मादयोऽष्टावग्रमहिष्यः पञ्चविंशतिपल्योपमायुषः । एकैका चात्र पञ्चभिर्देवीशतैः परि- ०५वृताः पञ्चदेवीरूपशतसहस्राणि द्वादशदेवीरूपसहस्राणि विकरोति । द्विषष्टिर्वल्लभिका- स्तावदायुर्विक्रियाः । समिताऽभ्यन्तरपरिषदर्धतृतीयानि देवशतानि साधिकषोडशसागरो- पमायूंषि । तेषामेकैकस्यैकविंशतिर्देव्यः । चन्द्रा मध्या पञ्चदेवशतानि देशोनषोडशसा- गरोपमायूंषि । तेषाम् एकैकस्याऽष्टादश देव्यः । जातुर्बाह्या एकं देवसहस्रं चन्द्रायुरू- नायुः, तेषामेकैकस्य पञ्चदश देव्यः । सर्वेषामप्यनीकानां महत्तराणां च जातुवदायुः । प्रथम- १०कक्षा चत्वारि देवसहस्राणि । एकैकस्य चत्वारिंशद् देव्यः । पूर्वादिषु दिक्षु स्वयंप्रभादिवि- माननिवासिनः सोमादयश्चत्वारो लोकपालाः । जातुपरिषत्समायुर्वैश्रवणः । तत ऊनायु- र्वरुणः, ततोऽप्यूनायुषौ सोमयमौ । तयोरभ्यन्तरपरिषत्पञ्चदेवाः । मध्या पञ्चविंशति- र्देवाः । बाह्या पञ्चाशद् देवाः । वरुणस्याभ्यन्तरपरिषद् दशदेवाः । मध्या पञ्चाशद् देवाः । बाह्या देवशतम् । वैश्रवणस्याभ्यन्तरपरिषत् पञ्चदशदेवाः । मध्या देवशतम् । बाह्या द्वे १५देवशते । सर्वाभ्यन्तरपरिषद्देवानामायुः सप्तदशसागरोपमाणि । मध्यमपरिषद्देवानामायुः तान्येव देशोनानि । बाह्यपरिषद्देवानामायुः सार्धानि षोडशसागरोपमाणि । तेषां यथा- क्रमं पञ्चदश दश पञ्चदेव्यो भवन्ति । सहस्रारविमानादुत्तरश्रेण्यां सप्तदशविमानभूषितायां नवमं कल्पविमानम् । तस्याधिपतिः सहस्रारः । यस्योनानि त्रीणि विमानसहस्राणि, त्रयस्त्रिंशत्त्रायस्त्रिंशा देवाः, द्वे सामानि- २०कसहस्रे, तिस्रः परिषदः, सप्तानीकानि, द्वे आत्मरक्षसहस्रे, चत्वारो लोकपालाः, श्रीमत्याद- योऽष्टावग्रमहिष्यः सप्तविंशतिपल्योपमायुषः । शेषः शतारेन्द्रवत् । परिषदात्मरक्षाऽनीकाभि- योग्यवर्णना च शतारेन्द्रवत् । अयं तु विशेषः — अनीकानां प्रथमकक्षा द्वे देवसहस्रे । दक्षि- णादिषु दिक्षु सम-सर्वतोभद्र-सुभद्र-समितविमाननिवासिनः सोमादयश्चत्वारो लोकपालाः । तेषामेकैकस्य द्वे सामानिकदेवशते, त्रिषष्टिर्देव्यः, चतस्रोऽग्रमहिष्यः, तिस्रः परिषदः । शेषः २५शतारेन्द्रवत् । शतारेन्द्रजातुपरिषत्सदृशायुर्वरुणः । ततो न्यूनायुर्धनदः । ततो न्यूनायुषौ सोमयमौ । शेषः शतारेन्द्रवत् । सहस्रारविमानादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्य आनतप्राणतारणाच्युतकल्पाः सन्ति । तत्र षड्विमानप्रस्ताराः — आनत-प्राणत-पुष्पक-सातक-आरण-अच्युतसंज्ञकाः । तत्रानतविमानाच्चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो निर्गताः । विदिक्षु ३०पुष्पप्रकीर्णकानि । तत्रैकैकस्यां विमानश्रेण्यां षोडशश्रेणिविमानानि । एवमौ- परिष्टेषु पञ्चसु विमानप्रस्तारेषु एकैकश्रेणिविमानहानिर्वेदितव्या । तत्रारणा- च्युतविमानाद् दक्षिणश्रेण्याम् एकादशविमानविरचितायां षष्ठं कल्पविमानम् । तस्या- धिपतिरारणो नाम देवराजः । यस्याधिकान्यर्धचतुर्थानि विमानशतानि, त्रयस्त्रिंशत्त्त्रायत्रिंशा देवाः, दश सामानिकशतानि, तिस्रः परिषदः, सप्तानीकानि, दशात्मरक्षशतानि, चत्वारो ३५लोकपालाः, पद्मादयोऽष्टावग्रमहिष्यः अष्टचत्वारिंशत्पल्योपमायुषः । एकैका चात्राऽर्धतृतीयैः २३३ देवीशतैः परिवृता दशदेवीरूपशतसहस्राणि चतुर्विंशति च देवीरूपसहस्राणि विकरोति । वल्लभिकाश्च पञ्चदश तावदायुर्विक्रियाः । समिताऽभ्यन्तरपरिषत् पञ्चविंशतिर्देवशतम् । तत्रैकैकः साधिकविंशतिसागरोपमायुर्दशदेवीकः । चन्द्रा मध्या, अर्धतृतीयानि देवशतानि । तत्रै- कैकः देशोनविंशतिसागरोपमस्थितिरष्टदेवीकः । जातुर्बाह्या पञ्चदेवशतानि । तत्रैकैकः अर्धविं- ०५शतिसागरोपमस्थितिः षड्देवीकः । अनीकानां प्रथमकक्षा एकं देवसहस्रम् । सर्वेषां देवानां तन्महत्तराणां च एकैकस्य त्रिंशद् देव्यः । आत्मरक्षाणां च त्रिंशत् । बालकाभियोग्यस्य चन्द्रायुषः ऊनमायुः, त्रिंशद् देव्यः । पूर्वादिषु दिक्षु स्वयंप्रभादिविमाननिवासिनः सोमादयश्चत्वारो लोक- पालाः । तेषामेकैकस्य सामानिकशतम् । द्वात्रिंशद् देव्यः, चतस्रोऽग्रमहिष्यः, तिस्रः परि- षदः । जातुसमानायुर्वैश्रवणः । ततो न्यूनायुर्वरुणः । ततो न्यूनायुषौ सोमयमौ । तयो- १०रभ्यन्तरपरिषत्त्रयो देवाः । मध्या द्वादश । बाह्या पञ्चविंशतिः । वरुणस्याभ्यन्तरपरिषत् पञ्चदेवाः । मध्या पञ्चविंशतिः । बाह्या पञ्चाशत् । वैश्रवणस्याभ्यन्तरपरिषत् षड्देवाः । मध्या पञ्चाशत् । बाह्या शतम् । तेषां यथाक्रमम् एकविंशतिसागरोपमाणि तान्येव देशो- नानि तान्येव चार्धोनान्यायुरवगन्तव्यम्, सप्त पञ्च तिस्रश्च देव्यो ज्ञेयाः । आरणाच्युतविमानादुत्तरश्रेण्याम् एकादशविमानविभूषितायां षष्ठं कल्पविमानम् । १५तस्याधिपतिरच्युतो नाम देवराजः । यस्योनान्यर्धचतुर्थानि विमानशतानि । त्रयस्त्रिंशत्त्रा- यस्त्रिंशा देवाः । दश सामानिकशतानि । तिस्रः परिषदः । सप्तानीकानि । दश आत्म- रक्षशतानि । चत्वारो लोकपालाः । श्रीमत्यादयोऽष्टावग्रमहिष्यः पञ्चपञ्चाशत्पल्योप- मायुषः, वल्लभिकाश्च पञ्चदश तावदायुषः । अवशिष्टम् आरणेन्द्रवत् । परिषदादिविधिश्च तथैव नेयः । अयं तु विशेषः वरुणोऽधिकायुः । ततो न्यूनायुर्धनदः । ततोऽप्यूनायुषौ २०सोमयमौ । त एते लोकानुयोगोपदेशेन चतुर्दशेन्द्रा उक्ताः । इह द्वादश इष्यन्तेपूर्वोक्तेन क्रमेण ब्रह्मोत्तरकापिष्ठमहाशुक्रसहस्रारेन्द्राणां दक्षिणेन्द्रानुवर्तित्वात् आनतप्राणतकल्पयोश्च एकैकेन्द्रत्वात् । सौधर्मविमानसंख्या प्रागुक्ता । ऐशानेऽष्टाविंशतिर्विमानशतसहस्राणि । श्रेणिविमा- २५नानि चतुर्दशशतानि सप्तपञ्चाशानि । पुष्पप्रकीर्णकानां सप्तविंशतिः शतसहस्राणि अष्ट- नवतिः सहस्राणि पञ्चशतानि त्रिचत्वारिंशानि । सानत्कुमारे द्वादशविमानशतसहस्राणि । श्रेणिविमानानां पञ्चशतानि पञ्चनवत्यधिकानि । प्रकीर्णकानाम् एकादशशतसहस्राणि नवनवतिः सहस्राणि चत्वारि शतानि पञ्चोत्तराणि । माहेन्द्रेऽष्टौ विमानशतसहस्राणि । श्रेणिविमानानाम् एकं शतं षण्णवत्यधिकम् । प्रकीर्णकानां सप्तशतसहस्राणि नवनवति- ३०सहस्राणि अष्टौ शतानि चतुरुत्तराणि । ब्रह्मलोकब्रह्मोत्तरकल्पयोः चत्वारि विमानशत- सहस्राणि । श्रेणिविमानानां त्रीणि शतानि चतुःषष्ट्यधिकानि । प्रकीर्णकानां त्रीणि शतसहस्राणि नवनवतिः सहस्राणि षट्शतानि षट्त्रिंशानि । लान्तवकापिष्ठयोः पञ्चा- शत्सहस्राणि । श्रेणिविमानानां शतम् अष्टपञ्चाशम् । प्रकीर्णकानामेकान्नपञ्चाशत्सहस्राणि २३४ अष्टौ शतानि द्विचत्वारिंशानि । शुक्रमहाशुक्रयोः चत्वारिंशत्सहस्राणि । श्रेणिविमानानां त्रिसप्ततिः । प्रकीर्णकानाम् एकान्नचत्वारिंशत्सहस्राणि नवशतानि सप्तविंशानि । शता- रसहस्रारकल्पयोः षड्विमानसहस्राणि । श्रेणिविमानानाम् एकान्नसप्ततिः । प्रकीर्णकानाम् एकान्नषष्टिशतानि एकत्रिंशानि । आरणाच्युतकल्पयोः सप्तविमानशतानि । श्रेणिविमानानां ०५त्रीणि शतानि त्रिंशानि । प्रकीर्णकानां त्रीणि शतानि सप्तत्यधिकानि । चतुर्दशस्वपि कल्पविमानेषु विमानसंख्या चतुरशीतिः शतसहस्राणि षण्णवतिः सहस्राणि सप्त च विमान- शतानि । आरणाच्युतविमानादूर्ध्वं बहूनि योजनशतसहस्राण्युत्पत्य सन्ति तत्राधोग्रैवेयकविमा- नानि । येषु त्रयो विमानप्रस्ताराः सुदर्शनामोघसुप्रबुद्धाः । तत्र सुदर्शनेन्द्रकाच्चतसृष्वपि १०दिक्षु चतस्रो विमानश्रेण्यः । तत्रैकैकस्यां विमानश्रेण्यां दश विमानानि । सुदर्शनादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्याऽस्ति अमोघो नाम विमानप्रस्तारः । अत्रापि चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो निर्गताः । अत्रैकस्यां विमानश्रेण्यां नवविमानानि । अमोघादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्य अस्ति सुप्रबुद्धो नाम विमानप्रस्तारः । अत्रापि चतसृष्वपि दिक्षु चतस्रो विमानश्रेण्यो विनिर्गताः । एकैकस्यां विमानश्रेण्याम् अष्टौ विमानानि । त्रिष्वेप्येतेषु १५पुष्पप्रकीर्णकविमानानि न सन्ति । तान्येतान्येकादशोत्तरविमानशतम् । सुप्रबुद्धविमानादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्य सन्ति तत्र मध्यमग्रैवेयकविमानानि । येषु त्रयः प्रस्तारा यशोधरसुभद्रविशालाः । पूर्ववदत्रापि एकैकश्रेणिविमानहान्या पञ्चसप्ततिश्रेणिविमानानि । पुष्पप्रकीर्णकानि द्वात्रिंशत् । तान्येतानि सप्तोत्तरं शतम् । सुविशालविमानादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्य सन्ति तत्रोपरिमग्रैवेयकविमानानि । येषु त्रयः प्रस्ताराः सुमनाः २०सौमनाः प्रीतिङ्कर इति । पूर्ववदत्राप्येकैकविमानहान्या एकान्नचत्वारिंशत् श्रेणिविमानानि । द्वापञ्चाशत्पुष्पप्रकीर्णकानि । तान्येतानि समुदितानि एकनवतिर्विमानानाम् । प्रीतिङ्करविमानादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्य सन्ति तत्राऽनुदिशविमा- नानि । येष्वेक एवाऽऽदित्यो नाम विमानप्रस्तारः । तत्र दिक्षु चत्वारि श्रेणिविमानानि । प्राच्यां दिशि अर्चिर्विमानम्, अपाच्यामर्चिमाली, प्रतीच्यां वैरोचनम्, उदीच्यां प्रभासम्, २५मध्ये आदित्याख्यम् । विदिक्षु पुष्पप्रकीर्णकानि चत्वारि — पूर्वदक्षिणस्यामर्चिप्रभम्, दक्षिणा- परस्याम् अर्चिर्मध्यम्, अपरोत्तरस्याम् अर्चिरावर्तम्, उत्तरपूर्वस्यामर्चिर्विशिष्टम् । तान्ये- तानि नव । आदित्यविमानादूर्ध्वं बहूनि योजनशतसहस्राणि उत्पत्य सन्ति तत्रानुत्तरविमा- नानि । यत्रैक एव सर्वार्थसिद्धसंज्ञो विमानप्रस्तारः । दिक्षु प्रदक्षिणानि विजयवैजयन्त- ३०जयन्तापराजितविमानानि चत्वारि, मध्ये सर्वार्थसिद्धसंज्ञम् । पुष्पप्रकीर्णकानि न सन्ति । सौधर्मैशानयोः कल्पयोर्विमानानि सप्तविंशैकयोजनशतबाहल्यानि पञ्चयोजनशतो- च्छ्रायाणि । सानत्कुमारमाहेन्द्रयोर्ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु शुक्रमहाशुक्रशतार- सहस्रारेषु आनतप्राणताऽऽरणाऽच्युतेषु नवसु ग्रैवेयकेषु अनुदिशाऽनुतरेषु च विमानानां बाहल्यमेकैकयोजनविहीनम्, उच्छ्रायश्च एकैकयोजनशताधिको यथाक्रमं वेदितव्यः । तान्ये- २३५ तानि श्रेणीन्द्रप्रकीर्णकविमानानि कानिचित् संख्येययोजनशतविस्ताराणि । कानिचिद- संख्येययोजनशतविस्ताराणि । यानि संख्येयविस्ताराणि तानि संख्येययोजनशतसहस्र- विस्ताराणि, यान्यसंख्येयविस्ताराणि तानि असंख्येययोजनशतसहस्रविस्ताराणि । सौधर्मै- शानयोर्विमानानि पञ्चवर्णानि कृष्णनीलरक्तहारिद्रशुक्लवर्णानि । सानत्कुमारमाहेन्द्रयोः ०५चतुर्वर्णानि कृष्णहीनानि । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु त्रिवर्णानि विमानानि कृष्ण- नीलवर्जितानि । शुक्रमहाशुक्रशतारसहस्राराऽऽनतप्राणतारणाच्युतेषु द्विवर्णानि विमानानि हारिद्रशुक्लवर्णानि । ग्रैवेयकानुदिशानुत्तरविमानानि शुक्लवर्णान्येव । परमशुक्लं सर्वार्थसिद्धविमानम् । एषामधिकृतानां वैमानिकानां देवानां परस्परतो विशेषप्रत्तिपत्त्यर्थमाह- १०स्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २० ॥ स्वोपात्तायुष उदयात् स्थानं स्थितिः । १ । स्वेनोपात्तस्यं देवायुषः उदयात्तस्मिन् भवे तेन शरीरेण स्थानं स्थितिरित्युच्यते । शापानुग्रहलक्षणः प्रभावः । २ । शापोऽनिष्टापादनम्, अनुग्रह इष्टप्रतिपादनम्, तल्ल- क्षणः प्रवृद्धो भाव प्रभाव इत्याख्यायते । १५सद्वेद्योदये सति इष्टविषयानुभवनं सुखम् । ३ । सद्वेद्योदयमूलहेतौ सति बाह्यस्येष्ट- विषयस्य उपनिपाते तद्विषयमनुभवनं सुखमिति कथ्यते । शरीरवसनाभरणादिदीप्तिर्द्युतिः । ४ । शरीरस्य वसनस्याऽऽभरणादीनां च दीप्तिः द्युतिरिति उपाख्यायते । लेश्याशब्द उक्तार्थः । ५ । लेश्याशब्द उक्तार्थ एव वेदितव्यः । लेश्याया विशुद्धिः २०लेश्याविशुद्धिः । इन्द्रियावधिभ्यां विषयाभिसंबन्धः । ६ । विषयशब्दस्य इन्द्रियावधिभ्यामभिसंबन्धो भवति । इन्द्रियं चाऽवधिश्च इन्द्रियावधी, तयोर्विषय इन्द्रियावधिविषय इति । इतरथा हि तदाधिक्यप्रसङ्गः । ७ । अक्रियमाणे ह्येवमभिसंबन्धे उपर्युपरि देवेषु इन्द्रि- याणामाधिक्यं प्रसज्येत । २५स्थितिग्रहणमादौ तत्पूर्वकत्वादितरेषाम् । ८ । स्थितिग्रहणमादौ क्रियते तत्पूर्वकत्वादि- तरेषां प्रभावादीनाम् । स्थितिमतां हि प्रभावादयो भवन्ति नाऽस्थितस्येति । तेभ्यस्तैर्वाऽधिका इति तसिः । ९ । तेभ्यः स्थित्यादिभ्यः अधिका इति *“अपादानेऽहीय- रुहोः”[जैनेन्द्रº ४ । ३ । ५०] इति तसिः । तैर्वाधिका इति तसि प्रकरणे *“आद्यादिभ्य उपसंख्या- नम्”[जैनेन्द्रº ४ । २ । ४९] इति तसिः । उपर्यपरि वैमानिकाः इत्यनुवर्तन्ते, तेनैवमभिसंबध्यते ३०उपर्युपरि वैमानिकाः प्रतिकल्पं प्रतिप्रस्तारं च स्थित्यादिभिरेभिरधिका इति । तत्र स्थितिः उत्कृष्टा जघन्या च, सा उपरिष्टाद्वक्ष्यते । इह तु वचनं येषां समा भवति तेषामपि गुणतोऽ- धिकत्वज्ञापनार्थम् । यः प्रभावः सौधर्मकल्पदेवानां निग्रहानुग्रहविक्रियापराभियोगादिषु, उपर्युपरि ततोऽनन्तगुणः मन्दाभिमानतया अल्पसंक्लिष्टत्वाच्च न प्रवर्तते । एवं सुखादयोऽपि प्रत्येतव्याः । लेश्यानियमः उपरि वक्ष्यते । इह तु वचनं यत्र विधानं समानं तत्रापि कर्म- ३५विशुद्धितोऽधिका भवन्ति इति प्रतिपादनार्थम् । २३६ यथा स्थित्यादिभिरुपर्यधिका एवं गत्यादिभिरपि इत्यतिप्रसङ्गे तन्निवृत्त्यर्थमाह- गतिशरीरपरिग्रहाभिमानतो हीनाः ॥ २१ ॥ देशान्तरप्राप्तिहेतुर्गतिः । १ । उभयनिमित्तवशात् उत्पद्यमानः कायपरिस्पन्दो गतिरि- त्युच्यते । ०५शरीरमुक्तलक्षणम् । २ । *“औदारिकवैक्रियिकाऽऽहारकतैजसकार्मणानि शरीराणि” [तº सूº२ । ३६] इत्यत्र शरीरमुक्तलक्षणम् । लोभकषायोदयान्मूर्च्छा परिग्रहः । ३ । लोभकषायवेदनीयस्य उदयान्मूर्च्छा संकल्पःḥ परि- ग्रह इत्याख्यायते । मानकषायोदयापादितोऽभिमानः । ४ । मानकषायवेदनीयस्य उदयापादितोऽहङ्कारः अभि- १०मान इति कथ्यते । गतिश्च शरीरं च परिग्रहश्च अभिमानश्च गतिशरीरपरिग्रहाभिमानाः तैः गतिशरीरपरिग्रहाभिमानतः । तसिप्रकरणे *“आद्यादिभ्य उपसंख्यानम्”[जैनेन्द्रवाº ४ । २ । ४९] इति तसिः । यदि हि अपादानविवक्षा स्यात् *“अहीयरुहोः”[जैनेन्द्रº ४ । ३ । ५०] इति प्रतिषेधः स्यात् । गतिग्रहणमादौ लक्षणद्वययोगात् । ५ । गतिग्रहणमादौ क्रियते । कुतः ? लक्षणद्वय- १५योगात् *“द्वन्द्वेसु”[जैनेन्द्रº १ । ३ । ९८]*“अल्पाच्तरम्”[जैनेन्द्रº १ । ३ । १००] इति । ततः शरीरग्रहणं तस्मिन् सति परिग्रहोपपत्तेः । ६ । ततः परं शरीरग्रहणं क्रियते । कुतः ? तस्मिन् सति परिग्रहोपपत्तेः, सति शरीरे परिग्रहो ममेदं बुद्धिरुपजायते । तद्वत्त्वेऽपि केवलिनः परिग्रहेच्छाभाव इति चेत्; न; देवाधिकारात् । ७ । स्यादेतत्- शरीरवत्त्वेऽपि केवलिनः ममेदमिति संकल्पो न विद्यते ततोऽयं हेतुव्यभिचार इति; तन्न; २०किं कारणम् ? देवाधिकारात् । देवा हि रागादिमन्तोऽधिकृताः, तेषामवश्यं सति शरीरे परिग्रहाभिलाषेण भवितव्यमिति नास्ति व्यभिचारः । तन्मूलत्वात्तदनन्तरमभिमानग्रहणम् । ८ । परिग्रहमूलो हि लोकेऽभिमानो दृष्टः, ततोऽस्य तदनन्तरं ग्रहणं क्रियते । उपर्युपरीत्यनुवर्तते, तेनोपर्युपरि देवानाम् उक्ता गत्यादयो हीना वेदितव्याः । तद्यथा — सौधर्मैशानयोर्देवाः क्रीडादिनिमित्तां गतिं महाविषय- २५त्वेन मुहुर्मुहुर्वृत्त्या चाधिकामास्कन्दन्ति न तथोपरि देवाः विषयाभिष्वङ्गोद्रेकाभावात् । ततस्तन्निमित्ता गतिरपि क्रमेण हीयते । शरीरमपि सौधर्मैशानयोर्देवानां सप्तारत्नि- प्रमाणम् । सानत्कुमारमाहेन्द्रयोः षडरत्निप्रमाणम् । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु पञ्चारत्निः । शुक्रमहाशुक्रशतारसहस्रारेषु च चतुररत्निः । आनतप्राणतयोरर्धचतुर्था- रत्निः । आरणाच्युतयोररत्नित्रयप्रमाणम् । अधोग्रैवेयकेषु अर्धतृतीयारत्निः, मध्यमग्रैवेय- ३०केषु अरत्निद्वयमात्रम्, उपरिमग्रैवेयकेषु अनुदिशविमानेषु च अध्यर्धारत्निः, अनुत्तरेष्वरत्नि- प्रमाणमात्रम् । परिग्रहोऽपि विमानपरिवारादिलक्षण उपर्युपरि हीन इत्युक्तं पुरस्तात् । कुतः पुनरुपर्युपरि परिग्रहाभिमानहानिरिति ? उच्यते — प्रतनुकषायत्वाल्पसंक्लेशावधिविशुद्धितत्त्वावलोकनसंवेगपरिणामानाम् उत्तरोत्तराधिक्याद् अभिमानहानिः । ९ । प्रतनुकषायत्वादल्पसंक्लेशो भवति, ततोऽवधिविशुद्धिर्जायते, संक्लेशवशा- ३५दवधिर्हीयत इत्युक्तं पुरस्तात् । ततोऽवधिविशुद्धेः उपर्युपरि देवाः शारीरमानसदुःखपरीतान् २३७ नारकतैर्यग्योनमानुषान् प्रकर्षेणाऽवलोकयन्ति । ततस्तन्निमित्तसंवेगपरिणामः संसाराद्भी- रुता उपजायते । ततो दुःखहेतुषु दुरन्तेषु परिग्रहेषु अभिभानो हीयते । किञ्च, विशुद्धपरिणामप्रकर्षनिमित्तत्वाच्च उपर्युपर्युपपत्तेः । १० । इह विशुद्धपरिणामभेद- निमित्तः पुण्यकर्मबन्धविकल्पः, तत्पूर्वको देवेषु उपपाद इति उपर्युपरि अभिमानहानिः । ०५कारणसदृशं हि कार्यं दृष्टमिति । तद्यथा — तैर्यग्योनेषु असंज्ञिनः पर्याप्ताः पञ्चेन्द्रियाः संख्येयवर्षायुषः, अल्पशुभपरिणामवशेन पुण्यबन्धमनुभूय भवनवासिषु व्यन्तरेषु च उत्पद्यन्ते । त एव संज्ञिनो मिथ्यादृष्टयः सासादनसम्यग्दृष्टयश्च आसहस्रारादुत्पद्यन्ते । त एव सम्यग्दृष्टयः सौधर्मादिषु अच्युतान्तेषु जायन्ते । असंख्येयवर्षायुषः तिर्यङ्मनुष्या मिथ्या- दृष्टयः सासादनसम्यग्दृष्टयश्च आ ज्योतिष्केभ्य उपजायन्ते, तापसाश्चोत्कृष्टाः । त एव १०सम्यग्दृष्टयः सौधर्मैशानयोर्जन्मानुभवन्ति । मनुष्याः संख्येयवर्षायुषः मिथ्यादर्शनाः सासादन- सम्यग्दर्शनाश्च भवनवासिप्रभृतिषूपरिमग्रैवेयकान्तेषु उपपादमास्कन्दन्ति । परिव्राजकानां देवेषूपपादः आ ब्रह्मलोकात् । आजीवकानाम् आसहस्रारात् । तत ऊर्ध्वमन्यलिङ्गिनां नास्त्युपपादः । निर्ग्रन्थलिङ्गधराणामेव उत्कृष्टतपोऽनुष्ठानोपचितपुण्यबन्धानाम् अस- म्यग्दर्शनानामुपरिमग्रैवेयकान्तेषु उपपादः । तत ऊर्ध्वं सम्यग्दर्शनज्ञानचरणप्रकर्षोपेतानामेव १५जन्म नेतरेषाम् । श्रावकाणां सौधर्मादिष्वच्युतान्तेषु जन्म नाधो नोपरीति परिणामविशुद्धि- प्रकर्षयोगादेव कल्पस्थानातिशययोगोऽवसेयः । पुरस्तात्त्रिषु निकायेषु देवानां लेश्याविधिरुक्त इदानीं वैमानिकेषु लेश्याविधि- प्रतिपत्त्यर्थमाह- पीतपद्मशुक्ललेश्या द्वित्रिशेषेषु ॥ २२ ॥ २०किमर्थं पृथग्लेश्याभिधानं क्रियते, ननु यत्रैवान्यो लेश्याविधिः तत्रैवेदं वक्तव्यम् ? अत उत्तरं पठति- पृथग्लेश्याभिधानं लघ्वर्थम् । १ । पृथगिदं लेश्याभिधानं क्रियते लघ्वर्थम् । तत्र हि पाठे क्रियमाणे वैमानिकानां स्वामिनां भेदेन निर्देशः कर्तव्यः स्यात् । अथ कोऽयं निर्देशः ? पीतपद्मशुक्ललेश्या इति । पीता च पद्मा च शुक्ला च पीतपद्मशुक्लाः, ता लेश्या येषां त २५इमे पीतपद्मशुक्ललेश्या इति । यद्येवं द्वन्द्वे पुंवद्भावात् निर्देशो नोपपद्यते ? नैष दोषः; औत्तरपदिकं ह्रस्वत्वम्, यथाकार्यविपरिणामाद्वा सिद्धम् । *“द्रुतायां तपरकरणे मध्यम- बिलम्बितयोरुपसंख्यानम्”[पातº महाº १ । १ । ६९] इत्यत्रौत्तरपदिकं ह्रस्वत्वम्, एवमिहापि वेदितव्यम् । तत्र कस्य का लेश्या इत्यत्रोच्यते- ३०सौधर्मैशानीयाः पीतलेश्याः । २ । सौधर्मैशानीया देवाः पीतलेश्या द्रष्टव्याः । २३८ सानत्कुमारमाहेन्द्रीया देवाः पीतपद्मलेश्याः । ३ । सनत्कुमारे माहेन्द्रे च देवाः पीत- पद्मलेश्याः प्रत्येतव्याः । ब्रह्मलोकब्रह्मोत्तरलान्तवकापिष्ठेषु पद्मलेश्याः । ४ । चतुर्ष्वेषु देवाः पद्मलेश्याः द्रष्टव्याः । ०५शुक्रमहाशुक्रशतारसंहस्रारेषु पद्मशुक्ललेश्याः । ५ । चतुर्ष्वेषु देवाः पद्मशुक्ललेश्या विज्ञेयाः । आनतादिषु शुक्ललेश्याः । ६ । आनतादिषु शेषेषु देवाः शुक्ललेश्याः प्रत्येतव्याः । तत्राप्यनुत्तरेषु परमशुक्ललेश्याः । शुद्धमिश्रलेश्याविकल्पानुपपत्तिः सूत्रेऽनभिधानादिति चेत्; न; मिश्रयोरन्यतरग्रहणात् १०यथा लोके । ७ । स्यान्मतम् — उक्तो लेश्याविकल्पः शुद्धो मिश्रश्च नोपपद्यते, कुतः ? सूत्रेऽनभि- धानात् इति; तन्न; किं कारणम् ? मिश्रयोरन्यतरग्रहणात्, यथा लोके । तद्यथा — छत्रिणो गच्छन्तीत्यछत्रिष्वपि छत्रिव्यपदेशः, एवमिहापि मिश्रयोरप्यन्यतरग्रहणेन ग्रहणं भवति इति पीतपद्मलेश्याः पूर्वग्रहणेन परग्रहणेन वा गृह्यन्ते, एवं पद्मशुक्ललेश्या अपीति नास्ति दोषः । द्वित्रिशेषग्रहणादग्रहणमिति चेत्; न; इच्छातः संबन्धोपपत्तेः । ८ । स्यान्मतम् — एवमपि १५ग्रहणं नोपपद्यते । कुतः ? द्वित्रिशेषग्रहणात् । सूत्रे ह्येवं पठ्यते — द्वयोः पीतलेश्याः, त्रिषु पद्मलेश्याः, शेषेषु शुक्ललेश्या इति, तच्चानिष्टमिति; तन्न; किं कारणम् ? इच्छातः संबन्धोपपत्तेः । एवं हि संबन्धः क्रियते — द्वयोः कल्पयुगलयोः पीतलेश्याः, सानत्कुमारमाहेन्द्रयोः पद्मलेश्याया अविवक्षातः । ब्रह्मलोकादिषु त्रिषु कल्पयुगलेषु पद्मलेश्याः, शुक्रमहाशुक्रयोः शुक्ललेश्याया अविवक्षातः । शेषेषु शतारादिषु शुक्ललेश्याः, पद्मलेश्याया अविवक्षातः, इति २०नास्त्यार्षविरोधः । पाठान्तराश्रयाद्वा । ९ । अथवा पाठान्तरमाश्रियते । किं पुनः तत् ? ‘पीतमिश्रपद्ममिश्र- शुक्ललेश्या द्विद्विचतुश्चतुःशेषेषु’ इति, ततो न कश्चिदार्षविरोधः । निर्देशवर्णपरिणामसंक्रमकर्मलक्षणगतिस्वामित्वसाधनसंख्याक्षेत्रस्पर्शनकालान्तरभावाल्प- बहुत्वैश्च साध्या लेश्याः । १० । एतैर्निर्देशादिभिः षोडशभिरनुयोगद्वारैः लेश्याः साधयि- २५तव्याः । तत्र निर्देशस्तावत् — कृष्णलेश्या नीललेश्या कपोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति । वर्णो भ्रमरमयूरकण्ठकपोततपनीयपद्मशङ्खवर्णा यथाक्रमं लेश्याः । वर्णान्तरमासाम् अनन्तविकल्पम् । एकद्वित्रिचतुःसंख्येयाऽसंख्येयाऽनन्तकृष्णगुणयोगात् कृष्णलेश्याः अनन्त- ३०विकल्पा । एवमितरा अपि । परिणामः — असंख्येयलोकप्रदेशप्रमाणेषु असंख्येयगुणेषु कषायोदयस्थानेषु उत्कृष्ट- मध्यमजघन्यांशकेषु संक्लेशहान्या परिणामात्मानः अशुभास्तिस्रः कृष्णनीलकापोतलेश्याः २३९ परिणमन्ते । तथा जघन्यमध्यमोत्कृष्टांशकेषु विशुद्धिवृद्ध्या तिस्रः शुभाः तेजःपद्मशुक्ललेश्याः परिणमन्ते । तथोत्कृष्टमध्यमजघन्यांशकेषु विशुद्धिहान्या तिस्रः शुभाः परिणमन्ते । तथा जघन्यमध्यमोत्कृष्टांशेषु संक्लेशविवृद्ध्या तिस्रः अशुभाः परिणमन्ते । एकैका चात्र लेश्या असंख्येयलोकप्रदेशप्रमाणपरिणामाऽध्यवसायस्थाना । ०५संक्रमः — कृष्णलेश्यः संक्लिश्यमानो नान्यां लेश्यां संक्रामति, कृष्णलेश्ययैव षट्स्थान- पतितेन संक्रमेण वर्धते । तद्यथा — कृष्णलेश्याया यत्प्राथमिकं संक्लेशस्थानं ततः स्थानादनन्त- भागाभ्यधिका वृद्धिरसंख्येयभागाऽभ्यधिका वा संख्येयभागाभ्यधिका वा संख्येयगुणाभ्यधिका वा असंख्येयगुणाभ्यधिका वा अनन्तगुणाभ्यधिका वा । तथा हीयमानोऽपि लेश्यान्तरसंक्रमं न करोति कृष्णलेश्ययैव षट्स्थाननिपतितसंक्रमेण हीयते । तद्यथा — कृष्णलेश्याया यदुत्कृष्टं १०संक्लेशस्थानं ततः स्थानादनन्तभागहान्या वा असंख्येयभागहान्या वा संख्येयभागहान्या वा संख्येयगुणहान्या वा असंख्येयगुणहान्या वा अनन्तगुणहान्या वा । यदा कृष्णलेश्या अनन्तगुण- हान्या हीयते तदा नीललेश्याया उत्कृष्टं स्थानं संक्रामति, तदैव कृष्णलेश्यस्य संक्लिश्यमानस्य एको विकल्पो वृद्धौ स्वस्थानसंक्रमो नाम । हानौ पुनर्द्वौ विकल्पौ स्वस्थानसंक्रमः परस्थान- संक्रमश्चेति । एवमितरास्वपि लेश्यासु वृद्धिहान्योः संक्रमविकल्पविधिर्वेदितव्यः । अयं तु १५विशेषः — शुक्ललेश्यस्य विशुद्धिवृद्धौ लेश्यान्तरसंक्रमो नास्ति स्वस्थानसंक्रमोऽस्ति । संक्लेश- विवृद्धौ विशुद्धिहानौ तु स्वस्थानसंक्रमोऽप्यस्ति परस्थानसंक्रमोऽपि । मध्यलेश्यानां हानौ वृद्धौ च उभावपि संक्रमौ स्तः । अनन्तभागपरिवृद्धिः कया परिवृद्ध्या ? सर्वजीवैरनन्तभागपरि- वृद्ध्या । असंख्येयभागपरिवृद्धिः कया परिवृद्ध्या ? असंख्येयलोकभागपरिवृद्ध्या । संख्येय- भागपरिवृद्धिः कया परिवृद्ध्या ? उत्कृष्टसंख्येयभागपरिवृद्ध्या । संख्येयगुणपरिवृद्धिः कया २०परिवृद्ध्या ? उत्कृष्टसंख्येयगुणपरिवृद्ध्या । असंख्येयगुणपरिवृद्धिः कया परिवृद्ध्या ? असंख्येयलोकगुणपरिवृद्ध्या । अनन्तगुणपरिवृद्धिः कया परिवृद्ध्या ? सर्वजीवाऽनन्तगुण- परिवृद्ध्या । लेश्याकर्म उच्यते — जम्बूफलभक्षणं निदर्शनं कृत्वा, स्कन्धविटपशाखानुशाखापिण्डिका- छेदनपूर्वकं फलभक्षणं स्वयं पतितफलभक्षणं चोद्दिश्य कृष्णलेश्यादयः प्रवर्तन्ते । २५अथ लक्षणमुच्यते — अनुनयानभ्युपगमोपदेशाग्रहण-वैरामोचनाऽतिचण्डत्व-दुर्मुखत्व- निरनुकम्पता-क्लेशन-मारणापरितोषणादि कृष्णलेश्यालक्षणम् । आलस्य-विज्ञानहानि-कार्या- निष्ठापन-भीरुता-विषयातिगृद्धि-माया-तृष्णाऽतिमान-वञ्चनाऽनृतभाषण-चापलातिलुब्धत्वादि नीललेश्यालक्षणम् । मात्सर्य-पैशुन्य-परपरि भवाऽऽत्मप्रशंसा-परपरिवादवृद्धिहान्यगणनाऽऽ- त्मीयजीवितनिराशता-प्रशस्यमानधनदान-युद्धमरणोद्यमादि कपोतलेश्यालक्षणम् । दृढमित्रता- ३०सानुक्रोशत्व-सत्यवाद-दानशीलात्मीयकार्यसंपादनपटुविज्ञानयोग-सर्वधर्मसमदर्शनादितेजोले- श्यालक्षणम् । सत्यवाक्य-क्षमोपेत-पण्डित-सात्त्विकदानविशारद-चतुरर्जुगुरुदेवतापूजाकरण- निरतत्वादि पद्मलेश्यालक्षणम् । वैररागमोहविरह-रिपुदोषाग्रहण-निदानवर्जन-सार्वसावद्यका- र्यारम्भौदासीन्य-श्रेयोमार्गानुष्ठानादि शुक्लेश्यालक्षणम् । २४० गतिरुच्यते — कपोतलेश्यापरिणत आत्मा कां गतिं गच्छतीति ? षड्र्विशतिविकल्पेषु ले- श्यांशकेषु आयुषो ग्रहणहेतवः अष्टावंशकाः मध्यमाः । कुतः पुनरेतदनुगम्यते इति चेत् ? *“अष्टाभिः अपकर्षैः मध्यमेन परिणामेनाऽऽयुर्बध्नाति” इत्यार्षोपदेशात् । शेषा अष्टादशलेश्यांशका गतिविशेषहेतवः पुण्यपापविशेषोपचयहेतुत्वात्तेषां तदपेक्षो मध्यमपरिणामः ०५तद्योग्यायुर्बन्धहेतुर्भवति, तत आयुर्नामकर्मोदयापादितो गतिविशेषो लेश्यावशादवसेयः । तद्यथा — उत्कृष्टशुक्ललेश्यांशकपारिणामादात्मानः कालं कृत्वा सर्वार्थसिद्धं यान्ति । जघन्य- शुक्ललेश्यांशकपरिणामात् शुक्रमहाशुक्रशतारसहस्रारान् यान्ति । मध्यमशुक्ललेश्यांशकपरि- णामात् आनतादिषु प्राक् सर्वार्थसिद्धादुत्पद्यन्ते । उत्कृष्टपद्मलेश्यांशकपरिणामात् सहस्रारमु- पगच्छन्ति । जघन्यपद्मशुक्ललेश्यांशकपरिणामात् सानत्कुमारमाहेन्द्रौ यान्ति । मध्यमपद्म- १०लेश्यांशकपरिणामात् ब्रह्मलोकादिषु आ शतारादुपपद्यन्ते । उत्कृष्टतेजोलेश्यांशकपरिणामात् सानत्कुमारमाहेन्द्रकल्पान्त्यचक्रेन्द्रकश्रेणिविमानान्यास्कन्दन्ति । जघन्यतेजोलेश्यांशकपरि- णामात् सौधर्मैशानप्रथमेन्द्रकश्रेणिविमानानि यान्ति । मध्यमतेजोलेश्यांशकपरिणामात् चन्द्रादीन्द्रकश्रेणिविमानादिषु आबलभद्रेन्द्रकश्रेणिविमानेभ्य उपपद्यन्ते । उत्कृष्टकृष्ण- लेश्यांशकपरिणामात् अप्रतिष्ठानमधितिष्ठन्ति । जघन्यकृष्णलेश्यांशकपरिणामात् पञ्च- १५म्यामध इन्द्रकनरकं तमिस्रसंज्ञकं संश्रयन्ते । मध्यमकृष्णलेश्यांशकपरिणामात् हिमेन्द्रकादिषु आ महारौरवादुपजायन्ते । उत्कृष्टनीललेश्यांशकपरिणामात् पञ्चम्यामन्धेन्द्रकमवाप्नुवन्ति । जघन्यनीललेश्यांशकपरिणामात् वालुकायां तप्तेन्द्रकं यान्ति । मध्यमनीललेश्यांशकपरिणा- मात् वालुकायां त्रस्तेन्द्रकादि झषेन्द्रकान्तेषु उत्पद्यन्ते । उत्कृष्टकपोतलेश्यांशकपरिणामात् वालुकाप्रभायां संप्रज्वलितनरकं यान्ति । जघन्यकपोतलेश्यांशकपरिणामात् रत्नप्रभायां २०सीमन्तकं यान्ति । मध्यमकपोतलेश्यांशकपरिणामात् रौरुकादिषु आ संज्वलितेन्द्रकादुपप- द्यन्ते । मध्यमकृष्णनीलकपोततेजोलेश्यांशकपरिणामात् भवनवासिव्यन्तरज्योतिष्कपृथिव्य- म्बुवनस्पतीन् व्रजन्ति । मध्यमकृष्णनीलकपोतलेश्यांशकपरिणामात् तेजोवायुकायिकेषु जायन्ते । देवनारकाः स्वलेश्याभिः तिर्यङ्मनुष्यान् योग्यानायान्ति । स्वामित्वमुच्यते — रत्नप्रभाशर्कराप्रभयोः नारकाः कापोतलेश्याः । वालुकाप्रभायां नील- २५कपोतलेश्याः । पङ्कप्रभायां नीललेश्याः । धूमप्रभायां नीलकृष्णलेश्याः । तमःप्रभायां कृष्णलेश्याः । महातमःप्रभायां परमकृष्णलेश्याः । भवनवासिव्यन्तरज्योतिष्काः कृष्णनील- कापोततेजोलेश्याः । एकद्वित्रिचतुरिन्द्रियाः संक्लिष्टत्रिलेश्याः । असंज्ञिपञ्चेन्द्रियतिर्यञ्चः संक्लिष्टचतुर्लेश्याः । संज्ञिपञ्चेन्द्रियतिरश्चां मनुष्याणां च मिथ्यादृष्टिसासादनसम्यग्दृष्टि- सम्यङ्मिथ्यादृष्ट्यसंयतसम्यग्दृष्टीनां षडपि लेश्याः । संयतासंयतप्रमत्तसंयताऽप्रमत्त- ३०संयतानां तिस्रः शुभाः । अपूर्वकरणादीनां सयोगकेवल्यन्तानां शुक्ललेश्यैव । अयोगकेव- लिनोऽलेश्याः । सौधर्मैशानीयाः तेजोलेश्याः । सानत्कुमारमाहेन्द्रीयाः तेजःपद्मलेश्याः । ब्रह्मब्रह्मोत्तरलान्तवकापिष्ठेषु देवाः पद्मलेश्याः । शुक्रमहाशुक्रशतारसहस्रारेषु पद्मशुक्ल- लेश्याः । आनतादिष्वासर्वार्थसिद्धात् शुक्ललेश्याः । सर्वार्थसिद्धाः परमशुक्ललेश्याः । २४१ साधनमुच्यते — द्रव्यलेश्या नामकर्मोदयनिमित्ताः, भावलेश्याः कषायोदयक्षयोपशमप्र- शमप्रक्षयकृताः । संख्या कथ्यते — कृष्णनीलकापोतलेश्या एकशो द्रव्यप्रमाणेनाऽनन्ताः, अनन्तानन्ताभि- रुत्सर्पिण्यवसर्पिणीभिर्नापह्रियन्ते कालेन । क्षेत्रेणाऽनन्तानन्तलोकाः । तेजोलेश्या द्रव्यप्रमा- ०५णेन ज्योतिर्देवाः साधिकाः । पद्मलेश्या द्रव्यप्रमाणेन संज्ञिपञ्चेन्द्रियतिर्यग्योनीनां संख्येय- भागाः । शुक्ललेश्याः पल्योपमस्याऽसंख्येयभागाः । क्षेत्रमुच्यते — कृष्णनीलकापोतलेश्या एकशः स्वस्थानसमुद्धातोपपादैः सर्वलोके वर्तन्ते । तेजःपद्मलेश्या एकशः स्वस्थानसमुद्धातोपपादैर्लोकस्याऽसंख्येयभागे । शुक्ललेश्याः स्वस्थानो- पपादाभ्यां लोकस्यासंख्येयभागे, समुद्घातेन लोकस्याऽसंख्येयभागे, असंख्येयेषु भागेषु १०सर्वलोके वा । स्पर्शनमुच्यते — कृष्णनीलकापोतलेश्यैः स्वस्थानसमुद्धातोपपादैः सर्वलोकः स्पष्टः । तेजो- लेश्यैः स्वस्थानेन लोकस्यासंख्येयभागः, अष्टौ चतुर्दशभागा वा देशोनाः, समुद्धातेन लोकस्याऽ- संख्येयभागः अष्टौ नव चतुर्दशभागा वा देशोनाः, उपपादेन लोकस्यासंख्येयभागा अध्यर्ध- चतुर्दशभागा वा देशोनाः । पद्मलेश्यैः स्वस्थानसमुद्धाताभ्यां लोकस्यासंख्येयभागः अष्टौ १५चतुर्दशभागा वा देशोनाः, उपपादेन लोकस्यासंख्येयभागः पञ्चचतुर्दशभागा वा देशोनाः । शुक्ललेश्यैः स्वस्थानोपपादाभ्यां लोकस्यासंख्येयभागः स्पृष्टः षट्चतुर्दशभागा वा देशोनाः, समुद्घातेन लोकस्याऽसंख्येयभागः षट् चतुर्दशभागा वा देशोनाः, असंख्येया वा भागाः सर्व- लोको वा । काल उच्यते — कृष्णनीलकपोतलेश्यानाम् एकशः जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रयस्त्रिं- २०शत्सागरोपमाणि साधिकानि, सप्तदशसागरोपमाणि साधिकानि, सप्तसागरोपमाणि साधिकानि । तेजःपद्मशुक्ललेश्यानामेकशः कालो जघन्येन अन्तमुहूर्तः, उत्कर्षेण द्वे सागरो- पमे साधिके, अष्टादश सागरोपमाणि साधिकानि, त्रयस्त्रिंशत्सागरोपमाणि साधिकानि । अन्तरमभिधीयते — कृष्णनीलकपोतलेश्यानाम् — एकशः अन्तरं जघन्येनान्तर्मुहूर्तः, उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि साधिकानि । तेजःपद्मशुक्ललेश्यानामेकशः अन्तरं जघन्येनाऽन्तर्मु- २५हूर्तः, उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । भावो व्याख्यायते — षडपि लेश्या औदयिकभावाः शरीरनाममोहनीयकर्मोदयापादि- तत्वात् । अल्पबहुत्वं वक्ष्यते — सर्वतः स्तोकाः शुक्ललेश्याः, पद्मलेश्या असंख्येयगुणाः, तेजोलेश्या असंख्येयगुणाः, अलेश्या अनन्तगुणाः, कपोतलेश्या अनन्तगुणाः, नीललेश्या विशेषाधिकाः, ३०कृष्णलेश्या विशेषाधिकाः । आह — कल्पोपपन्ना इत्युक्तं तत्रेदं न ज्ञायते के कल्पा इति ? अत्रोच्यते- प्राग्ग्रैवेयकेभ्यः कल्पाः ॥ २३ ॥ इदं नं ज्ञायते कुत आरभ्य कल्पा भवन्ति इति ? सौधर्मादिग्रहणमनुवर्तते, तेनायमर्थो लभ्यते सौधर्मादयः कल्पा इति । यद्येवं तदनन्तरमेवेदंसूत्रं वक्तव्यम् ? अत उत्तरं पठति- २४२ सौधर्माद्यनन्तरं कल्पाभिधाने व्यवधानप्रसङ्गः । १ । यदि सौधर्माद्यनन्तरं कल्पाभि- धानं क्रियते व्यवधानं प्रसज्येत । कस्य ? स्थितिप्रभावादिसूत्रत्रयस्य । सति च व्यवधाने तेन विधीयमानोऽर्थः कल्पेष्वेव स्यात् अनन्तरत्वाद्, ग्रैवेयकादिषु न स्यात् व्यवहितत्वात् । इह पुनः पाठे सति स्थित्यादिविशेषविधिरविशेषेण सिद्धो भवति । अथ के कल्पातीताः ? ०५कल्पातीतसिद्धिः परिशेषात् । २ । कल्पातीतानां सिद्धिर्भवति । कुतः ? परिशेषात् । परिशिष्टा हि ग्रैवेयकादयोऽनुत्तरान्ताः । भवनवास्याद्यतिप्रसङ्ग इति चेत्; न; उपर्युपरीत्यभिसम्बन्धात् । ३ । स्यादेतत्, परिशिष्टा यदि कल्पातीता भवनवास्यादीनामपि वैमानिकत्वमपि प्रसज्येत इति; तन्न; किं कारणम् ? उपर्युपरीत्यभिसंबन्धात् । उपर्युपरि वैमानिका नाधस्तात् इति । तेन १०कल्पातीता अहमिन्द्रा एव । कथं पुनस्तेषामहमिन्द्रत्वम् ? सामानिकादिविकल्पाभावात् । चतुर्णिकायोपदेशानुपपत्तिः षट्सप्तसम्भवादिति चेत्; न; तत्रैवान्तर्भावात् लौकान्तिक- वत् । ४ । स्यान्मतम् — चत्वारो देवनिकाया इत्युपदेशो नोपपद्यते इति । कुतः ? षट्सप्त- संभवात् । षण्णिकायाः सम्भवन्ति भवनपातालव्यन्तरज्योतिष्ककल्पोपपन्नविमानाधिष्ठानात् । भवनवासिनो दशविधा उक्ताः । पातालवासिनो लवणोदादिसमुद्रावासाः सुस्थितप्रभासादयः । १५व्यन्तरा अनादृतप्रियदर्शनादयः जम्बूद्वीपाधिपतयः । ज्योतिष्काः पञ्चविधा व्याख्याताः । कल्पोपपन्ना द्वादश वर्णिताः । विमानानि ग्रैवेयकादीनि उपदिष्टानि । अथवा सप्तदेव- निकायाः, त एवाऽऽकाशोपपन्नैः सह । आकाशोपपन्नाश्च द्वादशविधाः — पांशुतापि-लवणतापि- तपनतापि-भवनतापि-सोमकायिक-यमकायिक-वरुणकायिक-वैश्रवणकायिक-पितृकायिक-अनल- कायिक रिष्टक-अरिष्ट-सम्भवा इति; तन्न; किं कारणम् ? तत्रैवान्तर्भावात्, लौकान्तिकवत् । २०यथा लौकान्तिकानां कल्पवासिष्वन्तर्भावात् न निकायान्तरत्वं तथा पातालवासिनाम् आकाशोपपन्नानां व्यन्तरेष्वन्तर्भावात्, कल्पवासिनां च वैमानिकत्वात् न निकायान्तरत्वम् । इति नास्ति चातुर्विध्यहानिः । आह — य एते दृष्टान्तत्वेनोपात्ताः लौकान्तिकास्ते कस्मिन् कल्पे भवन्तीति ? अत्रोच्यते- ब्रह्मलोकालया लौकान्तिकाः ॥ २४ ॥ २५एत्य तस्मिंल्लीयन्त इत्यालयः । १ । यत्र प्राणिन एत्य लीयन्ते स आलयो निवास इत्यर्थः । ब्रह्मलोक आलयो येषां ते ब्रह्मलोकालयाः । सर्वब्रह्मलोकदेवानां लौकान्तिकत्वप्रसङ्ग इति चेत्; न; लोकान्तोपश्लेषात् । २ । स्यादेतत् ब्रह्मलोकालया इत्यविशेषाभिधानात्तेषां सर्वेषां लौकान्तिकत्वं प्रसज्येत इति; तन्न; किं कारणम् ? लोकान्तोपश्लेषात् । ब्रह्मलोकस्यान्तो लोकान्तः, तस्मिन् भवा लौकान्तिकाः । ३०अथवा, जातिजरामरणाकीर्णो लोकः तस्यान्तो लोकान्तः तत्प्रयोजना लौकान्तिकाः । ते हि परीतसंसाराः, ततश्च्युता एकं गर्भवासमवाप्य परिनिर्वान्ति । तेषां सामान्येनोपदिष्टानां भेदप्रदर्शनार्थमिदमुच्यते- २४३ सारस्वतादित्यवह्न्यरुणगर्दतोयतुषिताव्याबाधारिष्टाश्च ॥ २५ ॥ क इमे सारस्वतादयः ? पूर्वोत्तरादिषु दिक्षु यथाक्रमं सारस्वतादयः । १ । पूर्वोत्तरादिषु अष्टासु अपि दिक्षु यथा- ०५क्रममेते सारस्वतादयो देवगणा वेदितव्याः । तद्यथा अरुणसमुद्रप्रभवः मूले संख्येययोजन- विस्तारः तमस्कन्धः समुद्रवद्वलयाकारः अतितीव्रान्धकारपरिणामः, स ऊर्ध्वं क्रमवृद्ध्या गच्छन् मध्येऽन्ते च संख्येययोजनबाहल्यः अरिष्टविमानस्याधोभागे समेतः कुक्कुटकुटीवद- वस्थितः । तस्योपरि तमोराजयोऽष्टावुत्पत्य अरिष्टेन्द्रकविमानसप्रणिधयः । तत्र चतसृष्वपि दिक्षु द्वन्द्वं गताः तिर्यगालोकान्तात्, तदन्तरेषु सारस्वतादयो ज्ञेयाः । तत्र पूर्वोत्तरकोणे सार- १०स्वतविमानम्, पूर्वस्यां दिशि आदित्यविमानम्, पूर्वदक्षिणस्यां वह्निविमानम्, दक्षिणस्यामरुण- विमानम्, दक्षिणापरकोणे गर्दतोयविमानम्, अपरस्यां दिशि तुषितविमानम्, उत्तरापरस्या- मव्याबाधविमानम्, उत्तरस्यामरिष्टविमानम् । चशब्दसमुच्चिताः तदन्तरालवर्तिनः । २ । तेषामन्तरालेषु चशब्दसमुच्चिता द्वन्द्ववृत्त्या देवगणाः प्रत्येतव्याः । तद्यथा — १५अग्न्याभसूर्याभचन्द्राभसत्याभश्रेयस्करक्षेमङ्करवृषभेष्टकामचरनिर्माणरजोदिगन्तर- क्षेतात्मरक्षितसर्वरक्षितमरुद्वस्वश्वविश्वाख्याः । ३ । एते अग्न्याभादयः षोडश देवगणा श्रौकान्तिकभेदाः कथ्यन्ते । सारस्वतादित्यान्तर अग्न्याभसूर्याभाः, आदित्यवह्न्यन्तरे चन्द्राभसत्याभाः, वह्न्यरुणान्तराले श्रेयस्करक्षेमङ्कराः, अरुणगर्दतोयान्तराले वृषभेष्टकाम- चराः, गर्दतोयतुषितमध्ये निर्माणरजोदिगन्तरक्षिताः, तुषिताव्याबाधमध्ये आत्मरक्षितसर्व- २०रक्षिताः, अव्याबाधारिष्टान्तरे मरुद्वस्वः, अरिष्टसारस्वतान्तरे अश्वविश्वाः । तान्येतानि विमाननामानि तन्निवासिनां च तद्योगात् । तत्र सारस्वताः सप्तशतसंख्याः । आदित्याश्च सप्तशतगणनाः । वह्नयः सप्तसहस्राणि सप्ताधिकानि । अरुणाश्च तावन्त एव । गर्दतोया नवसहस्राणि नवोत्तराणि । तुषिताश्च तावन्त एव । अव्याबाधा एकादशसहस्राणि एका- दशानि । अरिष्टा अपि तावन्त एव । चशब्दसमुच्चितानां संख्येत्युच्यते — अग्न्याभे देवाः २५सप्तसहस्राणि सप्ताधिकानि । सूर्याभेऽमरा नवसहस्राणि नवोत्तराणि । चन्द्राभे सुराः एका- दशसहस्राणि एकादशानि । सत्याभे विबुधाः त्रयोदशसहस्राणि त्रयोदशानि । श्रेयस्करे देवाः पञ्चदशसहस्राणि पञ्चदशानि । क्षेमङ्करे अमराः सप्तदशसहस्राणि सप्तदशानि । वृषभेष्टे सुराः एकान्नविंशतिसहस्राणि एकान्नविंशतिश्च । कामचरेऽमराः एकविंशतिसहस्राणि एकविंशतिश्च । निर्माणरजसि देवाः त्रयोविंशतिसहस्राणि त्रयोविंशतिश्च । दिगन्तरक्षिते ३०देवाः पञ्चविंशतिसहस्राणि पञ्चविंशतिश्च । आत्मरक्षिते सुराः सप्तविंशतिसहस्राणि सप्तविंशतिश्च । सर्वरक्षिते विबुधा एकान्नत्रिंशत्सहस्राणि एकान्नत्रिंशच्च । मरुति देवाः २४४ एकत्रिंशत्सहस्राणि एकत्रिंशच्च । वसुनि सुराः त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्च । अश्वे सुराः पञ्चत्रिंशत्सहस्राणि पञ्चत्रिंशच्च । विश्वे देवाः सप्तत्रिंशत्सहस्राणि सप्तत्रिंशच्च । त एते चतुर्विंशतिलौकान्तिकगणाः समुदिताः चत्वारिंशत्सहस्राणि अष्टसप्ततिश्च शतानि षडुत्तराणि । सर्वे ते स्वतन्त्रा हीनाधिकत्वाभावात्, विषयरतिविरहाद् देवर्षयः, तत इतरेषां ०५देवानामर्चनीयाः, चर्तुदशपूर्वधराः, सततं ज्ञानभावनावहितमनसः, संसारान्नित्यमुद्विग्नाः अनित्याशरणाद्यनुप्रेक्षासमाहितमानसाः, अतिविशुद्धसम्यग्दर्शनाः, तीर्थकरनिष्क्रमणप्रतिबोधन- पराः । नामकर्मणोऽसंख्योत्तरोत्तरप्रकृतित्वात् संसारिणां जीवानां संज्ञाः शुभाशुभनामकर्मो- दयापादिताः वेदितव्याः । एवमयं कार्मणशरीरप्रणालिकया आस्रवापेक्षयापादितसुखदुःखानां भव्याभव्यभेदाहित- १०द्वैविध्यानां प्राणिनां संसारोऽनादिः अपर्यवसानः । अन्येषां मोहोपशमप्रध्वंसनं प्रत्यादृतानां अप्रतिपतितसम्यग्दर्शनानां परीतविषयः, सप्ताष्टानि भवग्रहणानि उत्कर्षेण वर्तन्ते, जघन्येन द्वित्राणि अनुबन्ध्योच्छिद्यन्ते । प्रतिपतितसम्यक्त्वानां तु भाज्यम् । आह — अप्रतिपतितसम्यक्त्वेषु किमविशेष एव आहोस्वित् कश्चिदस्ति प्रतिविशेषः इति ? अत्रोच्यते- १५विजयादिषु द्विचरमाः ॥ २६ ॥ विजयादिषु इति आदिशब्दः प्रकारार्थः । १ । अयम् आदिशब्दः प्रकारार्थो द्रष्टव्यः । तेन विजयवैजयन्तजयन्तापराजिताऽनुदिशविमानानामिष्टानां ग्रहणं सिद्धं भवति । कः पुनरत्र प्रकारार्थः ? अहमिन्द्रत्वे सति सम्यग्दृष्ट्युपपादः । सर्वार्थसिद्धग्रहणप्रसङ्ग इति चेत्; न; तेषां परमोत्कृष्टत्वात्, सर्वार्थसिद्ध इत्यन्वर्थनिर्देशात् एकचरमत्वसिद्धेश्च । २०द्विचरमत्वं मनुष्यदेहद्व यापेक्षम् । २ । चरमशब्द उक्तार्थः । द्वौ चरमौ देहौ येषां ते द्विचरमाः, तेषां भावो द्विचरमत्वम् । एतन्मनुष्यदेहद्वयापेक्षमवगन्तव्यम् । विजयादिभ्यः च्युता अप्रतिपतित- सम्यक्त्वा मनुष्येषूत्पद्य संयममाराध्य पुनर्विजयादिषूत्पद्य च्युता मनुष्यभवमवाप्य सिध्यन्ति इति द्विचरमदेहत्वम्, इतरथा हि द्वौ मनुष्यभवौ एको देवभवश्चेति त्रिचरमत्वं स्यात् न द्विचरमत्वम् । कुतः पुनः मनुष्यदेहस्य चरमत्वमिति चेत् ? उच्यते- २५मनुष्यदेहस्य चरमत्वं तेनैव मुक्तिपरिणामोपपत्तेः । ३ । यतो मनुष्यभवमवाप्य देवनारक- तैर्यग्योनाः सिध्यन्ति न तेभ्य एवेति मनुष्यदेहस्य चरमत्वम् । एकस्य चरमत्वमिति चेत्; न; औपचारिकत्वात् । ४ । स्यान्मतम् — एकस्य भवस्य चरमत्वम् अन्त्यत्वात्, न द्वयोस्ततो द्विचरमत्वमयुक्तमिति; तन्न; किं कारणम् ? औपचारि- कत्वात् । येन देहेन साक्षान्मोक्षोऽवाप्यते स मुख्यश्चरमः, तस्य प्रत्यासन्नो मनुष्यभवः तत्प्र- ३०त्यासत्तेश्चरम इत्युपचर्यते । देवभवेन व्यवहितत्वात् प्रत्यासत्त्यभाव इति चेत्; न; *“येन नाव्यवधानं तेन व्यवहितेऽपि वचनप्रामाण्यात्” इति । आर्षविरोध इति चेत्; न; प्रश्नविशेषापेक्षत्वात् । ५ । स्यान्मतम् — विजयादिषु द्विचर- मत्वमार्षविरोधि । कुतः ? त्रिचरमत्वात । एवं ह्यार्षे उक्तमन्तरविधाने — *“अनुदिशानुत्त- रविजयवैजयन्तजयन्तापराजितविमानवासिनामन्तरं जघन्येन वर्षपुथक्त्वम् उत्कर्षेण द्वे साग- २४५ रोपमे सातिरेके”[षट्खंº] इति । तस्यायमर्थः — तेभ्यः च्युता मनुष्येषूत्पद्य अष्टवर्षाः संयममा- राध्य अन्तर्मृहूर्तेन विजयादिषु भवमाप्नुवन्ति इति जघन्येन वर्षपृथक्त्वम् । केचित्तेभ्यश्च्युता मनुष्येषूत्पद्य संयममवाप्य सौधर्मैशानकल्पयोः जनित्वा पुनरपि मनुष्यभवमनुभूय विजयादिषु जायन्ते इति उत्कर्षेण द्वे सागरोपमे साधिके इति, ततो मनुष्यभवत्रयोपपत्तेर्द्विचरमत्वमयुक्त- ०५मिति; तन्न; किं कारणम् ? प्रश्नविशेषापेक्षत्वात् । एवं हि व्याख्याप्रज्ञप्तिदण्डकेषूक्तम् — विजयादिषु देवा मनुष्यभवमास्कन्दन्तः कियतीर्गत्यागतीः विजयादिषु कुर्वन्ति इति गौतम- प्रश्ने भगवत्तोक्तं जघन्येनैको भवः आगत्या उत्कर्षेण गत्यागतिभ्यां द्वौ भवौ । सर्वार्थसिद्धाः च्युता मनुष्येषूत्पद्य तेनैव भवेन सिध्यन्तीति, न लौकान्तिकवदेकभविका एवेति विजया- दिषु द्विचरमत्वं नार्षविरोधि, कल्पान्तरोत्पत्त्यनपेक्षत्वात् प्रश्नस्येति । १०आह — उक्तं भवता जीवस्य औदयिकेषु भावेषु तैर्यग्योनिगतिरौदयिकीति, स्थितौ- चोक्तम् *“तिर्यग्योनिजानां च”[तº सूº३ । ३९] इति । आस्रवविधाने च वक्ष्यते *“माया तैर्यग्योनस्य”[तº सूº६ । १६] इति । तद्वक्तव्यं के तिर्यग्योनय इति ? अत्रोच्यते- औपपादिकमनुष्येभ्यः शेषास्तिर्यग्योनयः ॥ २७ ॥ अयुक्तोऽयं निर्देशः ‘औपपादिकमनुष्येभ्यः’ इति । कुतः ? मनुष्यशब्दस्य अल्पाच्तर- १५त्वात् पूर्वनिपातप्राप्त्यर्हत्वात्; नैष दोषः; अभ्यर्हितत्वात् औपपादिकशब्दस्य पूर्वनिपातः । कथमभ्यर्हितत्वम् ? देवानामौपपादिकेष्वन्तर्भावात्, देवा हि स्थितिप्रभावादिभिरभ्यर्हिता इति व्याख्याताः । उक्तेभ्य औपपादिकमनुष्येभ्योऽन्ये शेषाः । १ । औपपादिका उक्ता देवनारकाः, मनु- ष्याश्च व्याख्याताः *“प्राङ् मानुषोत्तरान्मनुष्याः”[तº सूº३ । ३५] इति । तेभ्योऽन्ये ये ते २०शेषाः तिर्यग्योनयः । सिद्धप्रसङ्ग इति चेत्; न; सांसारिकप्रकरणात् । २ । स्यान्मतम् — औपपादिकमनुष्येभ्यो- ऽन्यत्वं सिद्धानामप्यस्ति इति तिर्यग्योनित्वप्रसङ्ग इति; तन्न; किं कारणम् ? सांसारिक- प्रकरणात् । संसारिणः प्रकृताः, तेन तेभ्योऽन्ये संसारिण एव तिर्यग्योनयो न सिद्धाः । अथ केयं तिर्यग्योनिः ? २५तिरोभावात् तैर्यग्योनिः । ३ । तिरोभावो न्यग्भावः उपबाह्यत्वमित्यर्थः, ततः कर्मोदया- पादितभावा तिर्यग्योनिरित्याख्यायते । तिरश्चि योनिर्येषां ते तिर्यग्योनयः । ते च त्रसस्थावरादिविकल्पा व्याख्याताः । देवादिवत्तदाधारनिर्देश इति चेत्; न; सर्वलोकव्यापित्वात् । ४ । स्यान्मतम् — यथा देवानामूर्ध्वलोकः, मनुष्याणां तिर्यग्लोकः, नारकाणामधोलोक आधारविशेष उक्तः तथा तिर- २४६ श्चामपि आधारो विशिष्टो निर्देष्टव्य इति; तन्न; किं कारणम् ? सर्वलोकव्यापित्वात् ते हि तिर्यञ्चः सर्वान् लोकान् व्याप्य वर्तन्ते इति । कुतः पुनः सर्वलोकव्यापित्वमेषा- मिति चेत् ? उच्यते- सूक्ष्मबादरभेदात् । ५ । तिर्यञ्चो द्विविधाः — सूक्ष्मा बादराश्चेति सूक्ष्मबादरनामक- ०५र्मोदयापादितभावाः । तत्र सूक्ष्माः पृथिव्यप्तेजोवायुवनस्पतयः सर्वलोकव्यापिनः । बादराः पृथिव्यप्तेजोवायुवनस्पतयः विकलेन्द्रियाः पचेन्द्रियाश्च क्वचिदेव वर्तन्ते न सर्वत्र । द्वितीयेऽध्याये तन्निर्देश इति चेत्; न; कृत्स्नलोकभावात् । ६ । स्यादेतत् — द्वितीयेऽध्याये एषां तिरश्चां निर्देशः कर्तव्यः नात्रेति; तन्न; किं कारणम् ? कृत्स्नलोकभावादयमेव तन्निर्देशो युक्तः, सर्वांल्लोकानुक्त्वा तदाधारनिर्देशः सुगम इति । १०शेषसंप्रतिपत्तेश्च । ७ । नारकादीन् सर्वानुक्त्वा तेभ्योऽन्ये शेषास्तिर्यञ्च इति शेषसंप्र- तिपत्तिश्च भवति इति इहैव तन्निर्देशो युक्तः । स्थितिरिदानीं वक्तव्या । सा नारकाणां मनुष्याणां तिरश्चां चोक्ता, देवानामुच्यते । तत्र चादावुद्दिष्टानां भवनवासिनां स्थितिप्रतिपादनार्थमाह- स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमार्धहीनमिता ॥ २८ ॥ १५असुरादीनां सागरोपमादिभिरभिसंबंधो यथाक्रमम् । १ । असुरादीनां सागरोपमादिभि- र्यथाक्रममभिसंबन्धो वेदितव्यः । इयं स्थितिरुत्कृष्टा । जघन्याप्युत्तरत्र वक्ष्यते । तद्यथा- असुराणां सागरोपमा स्थितिः, नागानां त्रीणि पल्योपमानि, सुपर्णानाम् अर्धतृतीयानि, द्वीपानां द्वे, शेषाणां षण्णाम् अध्यर्धपल्योपमम् । आद्यदेवनिकायस्थित्यभिधानानन्तरं व्यन्तरज्योतिष्कस्थितिवचने क्रमप्राप्ते सति २०तदुल्लङ्घ्य वैमानिकानां स्थितिरुच्यते । कुतः ? तयोरुत्तरत्र लघुनोपायेन स्थितिवचनात् । तेषु च आदावुद्दिष्टयोः कल्पयोः स्थितिविधानार्थमाह- सौधर्मैशानयोः सागरोपमेऽधिके ॥ २९ ॥ द्विवचननिर्देशाद् द्वित्वगतिः । १ । सागरोपमे इति द्विवचननिर्देशाद् द्वे सागरोपमे इति गम्यते । २५अधिके इत्यधिकार आ सहस्रारात् । २ । अधिके इत्ययं अधिकारो द्रष्टव्यः । आ कुतः ? आ सहस्रारात् । तेन सौधर्मैशानयोर्देवानामुत्कृष्टा स्थितिः द्वे सागरोपमे सातिरेके प्रत्येतव्ये । उत्तरयोः स्थितिविशेषप्रतिपत्त्यर्थमाह- सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३० ॥ ३०अधिकारात् सागराधिकसंप्रत्ययः । १ । सागरग्रहणम् अधिकग्रहणं च अनुवर्तते । तेना- यमर्थो लभ्यते — सानत्कुमारमाहेन्द्रयोर्देवानामुत्कृष्टा स्थितिः सप्तसागरोपमाणि साधि- कानि इति । ब्रह्मलोकादिष्वच्युतावसानेषु स्थितिविशेषप्रतिपत्यर्थमाह- २४७ त्रिसप्तनवैकादशत्रयोदशपञ्चदशभिरधिकानि तु ॥ ३१ ॥ सप्तग्रहणस्य त्र्यादिभिरभिसंबन्धः द्वयोर्द्वयोः । १ । सप्तग्रहणं प्रकृतम्, तस्येह निर्दिष्टैः त्र्यादिभिरभिसंबन्धो द्रष्टव्यः । सप्त त्रिभिरधिकानि, सप्त सप्तभिरधिकानीत्यादि । ०५तुशब्दो विशेषणार्थः । २ । तुशब्दो विशेषणार्थो द्रष्टव्यः । किं विशिनष्टि ? अधिक- शब्दोऽनुवर्त्तमानः चतुर्भिरिह संबध्यते नोत्तराभ्यामित्ययमर्थो विशेष्यते । तेनायमर्थो भवति- ब्रह्मलोकब्रह्मोत्तरयोः दशसागरोपमाणि साधिकानि । लान्तवकापिष्ठयोश्चतुर्दशसागरोप- माणि साधिकानि । शुक्रमहाशुक्रयोः षोडशसागरोपमाणि साधिकानि । शतारसहस्रारयोरष्टा- दशसागरोपमाणि साधिकानि । आनतप्राणतयोर्विंशतिः सागरोपमाणि । आरणाच्युतयोर्द्वा- १०विंशतिः सागरोपमाणि उत्कृष्टा स्थितिरिति । ननु च तुशब्दोऽनर्थकः ‘अधिके’ इत्यधिकारे आसहस्रारादित्युक्तत्वात् ? न, अतस्तत्सिद्धेः । तत ऊर्ध्वं स्थितिविशेषप्रतिपत्यर्थमाह- आरणाच्युतादूर्ध्वमेकैकेन नवसु ग्रैवेयकेषु विजयादिषु सर्वार्थसिद्धे च ॥ ३२ ॥ १५अधिकारादधिकसंबन्धः । १ । अधिकग्रहणमनुवर्तते तेनेह संबन्धो वेदितव्यः — एकैकेनाऽधि- कानीति । किमर्थं नवसु ग्रैवेयकेषु विजयादिष्किति पृथग् ग्रहणम् ? ग्रैवेयकेभ्यो विजयादीनां पृथग्ग्रहणमनुदिशसंग्रहार्थम् । २ । ग्रैवेयकविजयादिष्वित्युच्यमाने अनुदिशविमानानामसंग्रहः स्यात्, ततस्तत्संग्रहार्थं पृथग्ग्रहणं क्रियते । प्रत्येकमेकैकवृद्ध्यभिसंबन्धार्थं नवग्रहणम् । ३ । ग्रैवेयकेष्वित्युच्यमाने यथा विजयादिषु २०सर्वेषु एकमेव सागरोपममधिकं तथा सर्वेषु ग्रैवेयकेषु एकमेव सागरोपममधिकमिति प्रतीयेत तस्मान्नवग्रहणं क्रियते । नवसु प्रत्येकमेकैकस्य सागरोपमस्य आधिक्यं यथा स्यादिति । अथ सर्वार्थसिद्धस्य पृथग्ग्रहणं किमर्थम् ? सर्वार्थसिद्धस्य पृथग्ग्रहणं विकल्पनिवृत्त्यर्थम् । ४ । यथाऽधस्ताज्जघन्योत्कर्षस्थितिविकल्प- तथा सर्वार्थसिद्धे माभूत् इत्येवमर्थं पृथग्ग्रहणं क्रियते । तेनायमर्थो वेदितव्यः — अधोग्रैवेयकेषु २५प्रथमे त्रयोविंशतिसागरोपमाणि । द्वितीये चतुर्विंशतिसागरोपमाणि । तृतीये पञ्चविंशति- सागरोपमाणि । मध्यमग्रैवेयकेषु प्रथमे षड्विंशतिसागरोपमाणि, द्वितीये सप्तविंशतिः, तृतीये अष्टाविंशतिः । उपरिमग्रैवेयकेषु प्रथमे एकान्नत्रिंशत्, द्वितीये त्रिंशत्, तृतीये एकत्रिंशत् । अनुदिशविमानेषु द्वात्रिंशत् । विजयादिषु त्रयस्त्रिंशत् सागरोपमाणि उत्कृष्टा स्थितिः । सर्वा- र्थसिद्धे त्रयस्त्रिंशदेवेति । ३०अत्राह मनुष्यतिर्यग्योनिजानां परापरस्थिती व्याख्यायते, देवानां किं उत्कृष्टैव न वेति ? उच्यते- अपरा पल्योपममधिकम् ॥ ३३ ॥ अपरा जघन्येत्यर्थः । स्थितिरित्यनुवर्तते । व्याख्यातपरिमाणपल्योपमम् । केषाम् ? देवानामियं जघन्या स्थितिः ? सौधमै शानयोर्देवानाम् । कथं गम्यते ? २४८ पारिशेष्यात्सौधर्मैशानयोरपरा स्थितिः । १ । भवनवास्यादीनां जघन्या स्थितिर्वक्ष्यते । सानत्कुमारादीनां च परतः परतः पूर्वा पूर्वाऽनन्तरा इति । ततः परिशेषात् सौधर्मैशानयो- र्देवानां साधिकं पल्योपमं जघन्या स्थितिर्वेदितव्या । तत ऊर्ध्वं जघन्यस्थितिप्रतिपादनार्थमाह — ०५परतः परतः पूर्वा पूर्वानन्तरा ॥ ३४ ॥ परस्मिन् देशे परतः, तस्य वीप्सायां द्वित्वम् । पूर्वशब्दस्यापि । किमुक्तं भवति — पूर्वा पूर्वा या स्थितिरुत्कृष्टोक्ता सा सा उपरि उपरि देवानां जघन्येत्येतदुक्तं भवति । किम- विशेषेण ? नेत्याह । अधिकग्रहणानुवृत्तेः सातिरेकसंप्रत्ययः । १ । अधिकग्रहणमनुवर्तते ? क्व प्रकृतम् ? १०‘अपरा पल्योपममधिकम्’ इत्यत्र, सातिरेकसंप्रत्ययो भवति । सौधर्मैशानयोः परा स्थितिः द्वे सागरोपमे साधिके । ते सानत्कुमारमाहेन्द्रयोः सातिरेके जघन्या स्थितिः । सानत्कु- मारमाहेन्द्रयोः परा स्थितिः सप्तसागरोपमाणि साधिकानि । तानि सातिरेकाणि ब्रह्मलोक- ब्रह्मोत्तरयोर्जघन्या स्थितिरित्यादि । आ कुतोऽयमधिकारः ? आ विजयादिभ्योऽधिकारः । २ । आ विजयादिभ्योऽनुत्तरेभ्यः अयमधिकारो वेदितव्यः । १५कथं गम्यते ? ‘सर्वार्थसिद्धस्य पृथग् ग्रहणात्’ इत्युक्तं पुरस्तात् । अनन्तरेत्यवचनं पूर्वोक्तेरिति चेत्; न; व्यवहिते पूर्वशब्दप्रयोगात् । ३ । स्यान्मतम्, पूर्वेति वचनात् आनन्तर्यप्रतीतेः अनन्तरेति वचनमनर्थकमिति; तन्न; किं कारणम् ? व्यवहितेऽपि पूर्वशब्दप्रयोगात् । अयं हि पूर्वशब्दः व्यवहितेऽपि प्रयुज्यते । तद्यथा — पूर्वं मथुरायाः पाटलिपुत्र- मिति । ततः सोधर्मैशानयोः या परा स्थितिः सा ब्रह्मलोकब्रह्मोत्तरलोकयोर्जघन्या स्थिति- २०रित्येवमाद्यनिष्टं प्रतीयेत ततोऽनन्तरमुच्यते । नारकाणामुत्कृष्टा स्थितिरुक्ता, जघन्या सूत्रेऽनुक्ता, तामप्रकृतामपि लघुनोपायेन प्रतिपादयितुमिच्छन्नाह- नारकाणां च द्वितीयादिषु ॥ ३५ ॥ चशब्दः किमर्थः ? २५चशब्दः प्रकृतसमुच्चयार्थः । १ । चशब्दः क्रियते प्रकृतसमुच्चयार्थः । किं प्रकृतम् ? परतः परतः पूर्वा पूर्वाऽनन्तरा अपरा स्थितिरिति । तेनायमर्थो लभ्यते — रत्नप्रभायां नारकाणां परा स्थितिरेकं सागरोपमं सा शर्कराप्रभायां जघन्या । शर्कराप्रभायामुत्कृष्टा स्थितिः त्रीणि सागरोपमाणि, सा बालुकाप्रभायां जघन्येत्येवमादि । तद्व्यासो व्याख्यातः पुरस्तात् । अथ प्रथमायां पृथिव्यां का जघन्या स्थितिरिति ? अत आह- ३०दशवर्षसहस्राणि प्रथमायाम् ॥ ३६ ॥ अपरा स्थितिरित्यनुवर्तते । अथ भवनवासिनां का जघन्या स्थितिरिति ? अत आह- २४९ भवनेषु च ॥ ३७ ॥ चशब्दः किमर्थः ? प्रकृतसमुच्चयार्थ इति । एवं तेन भवनवासिनामपरा स्थितिर्दश- वर्षसहस्राणि इत्यभिसंबध्यते । ०५व्यन्तराणां तर्हि का जघन्या स्थितिरिति ? अत आह- व्यन्तराणां च ॥ ३८ ॥ चशब्दः प्रकृतसमुच्चयार्थ इति, एवं तेन व्यन्तराणामपरा स्थितिः दशवर्षसहस्राणि इत्यवगम्यते । परा व्यन्तराणां प्रागभिधातव्येति चेत्; न; लाघवार्थत्वात् । १ । स्यादेतत् — यथा १०अन्येषां देवनिकायानां परा स्थितिः प्रागुक्ता तथा व्यन्तराणामपि परा प्रागभिधातव्या इति ? तन्न; किं कारणम् ? लाघवार्थत्वात् । यदि परा स्थितिः प्रागुच्येत पुनः दशवर्षसहस्रग्रहणं क्रियेत, तथा सति गौरवं स्यात् । यद्येवम्, अमीषां का परा स्थितिरिति ? अत आह- परा पल्योपममधिकम् ॥ ३९ ॥ १५स्थित्यभिसंबन्धात् स्त्रीलिङ्गनिर्देशः । १ । स्थितिरित्यनुवर्तते । तेनाभिसंबन्धात् परेति स्त्रीलिङ्गनिर्देशो द्रष्टव्यः । इदानीं ज्योतिष्काणां परा स्थितिर्वक्तव्येति, अत आह- ज्योतिष्काणां च ॥ ४० ॥ चशब्दः प्रकृतसमुच्चयार्थ इति, एवं तेनैवमभिसंबध्यते — ज्योतिष्काणां च परा स्थितिः २०पल्योपममधिकमिति । अथापरा ज्योतिष्काणां कियती स्थितिरिति ? अत आह- तदष्टभागोऽपरा ॥ ४१ ॥ तस्य पल्योपमस्याष्टभागो ज्योतिष्काणामपरा स्थितिरित्यर्थः । अत्राह — ‘ज्योतिष्काणां पल्योपममधिकं परा स्थितिः’ इत्यविशेषाभिधाने न ज्ञायते चन्द्रादीनां किं स्थितिविशेष २५इति ? अत्रोच्यते- चन्द्राणां वर्षशतसहस्राधिकम् । १ । चन्द्राणां वर्षशतसहस्राधिकं पल्योपमं परा स्थितिः । सूर्याणां वर्षसहस्राधिकम् । २ । वर्षसहस्राधिकं पल्योपमं सूर्याणां परा स्थितिः । शुक्राणां शताधिकम् । ३ । शुक्राणां वर्षशताधिकं पल्योपमं परा स्थितिः । बृहस्पतीनां पूर्णम् । ४ । बृहस्पतीनां पूर्णपल्योपमं परा स्थितिः, नाधिकम् । ३०शेषाणामर्धम् । ५ । शेषाणां ग्रहाणां बुधादीनां पल्योपमस्यार्धं परा स्थितिः । नक्षत्राणां च । ६ । किम् ? अर्धपल्योपमं परा स्थितिः । तारकाणां चतुर्भागः । ७ । पल्योपमस्य चतुर्भागस्तारकाणां परा स्थितिः । २५० तदष्टभागो जघन्योभयेषाम् । ८ । तस्य पल्योपमस्याष्टभागः जघन्या स्थितिः उभयेषां तारकाणां नक्षत्राणां च भवति । शेषाणां चतुर्भागः । ९ । शेषाणां सूर्यादीनां पल्योपमस्य चतुर्भागो जघन्या स्थिति- र्वेदितव्या । ०५अथ लौकान्तिकदेवानां का स्थितिरिति ? अत्रोच्यते- लौकान्तिकानामष्टौ सागरोपमाणि सर्वेषाम् ॥ ४२ ॥ अष्टसागरोपमस्थितयो लौकान्तिकाः । १ । एकैव लोकान्तिकानां स्थितिः । काऽसौ ? अष्टौ सागरोपमाणि । सर्वे ते शुक्ललेश्याः पञ्चहस्तोत्सेधशरीराः । व्याख्यातो जीवः । २ । सम्यग्दर्शनस्य विषयप्रदर्शनमुखेनोपन्यस्तेषु जीवादिषु आद्यो १०जीवपदार्थो व्याख्यातः । स च एकोऽनेकात्मकः । ३ । स जीव एकः अनेकात्मको भवति । कुत एकस्या- नेकात्मकत्वमिति चेत् ? अत्रोच्यते- अभावविलक्षणत्वात् । ४ । अभूतं नास्तीत्येकरूपोऽभावः । न हि अभावः अभावात्मना भिद्यते । तद्विसदृशस्तु नानारूपो भावः, इतरथा हि तयोरविशेष एव स्यात् । स तु षोढा १५भिद्यते — जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यतीति । तत्र उभयनिमित्तव- शादात्मलाभमापद्यमानो भावः जायत इत्यस्य विषयः । यथा मनुष्यगत्यादिनामकर्मोदया- पेक्षया आत्मा मनुष्यादित्वेन जायत इत्युच्यते । तस्यायुरादिनिमित्तवशादवस्थानमस्तित्वम् । सत एवावस्थान्तरावाप्तिर्विपरिणामः । अनिवृत्तपूर्वस्वभावस्य भावान्तरेण आधिक्यं वृद्धिः । क्रमेण पूर्वभावैकदेशनिवृत्तिरपक्षयः । तत्पर्यायसामान्यविनिवृत्तिर्विनाशः । एवं प्रतिक्षणं २०वृत्तिभेदादनन्तरूपा जायन्ते इति नानात्मता भावस्य, अथवा सत्ज्ञेयद्रव्यामूर्तातिसूक्ष्मावगा- हनासंख्येयप्रदेशाऽनादिनिधनचेतनत्वादिना । किञ्च, अनेकवाग्विज्ञानविषयत्वात् । ५ । इह लोके एकोऽर्थोंऽनेकशब्दवाच्यो भवति तथाभि- धेयपरिणामे सति तेषां शब्दानां तत्र प्रयोगात् । प्रयोगो हि प्रतिपादनक्रिया, तस्याः शब्दार्थावु- भावपि साधकौ । शब्दस्तावद् व्यञ्जकत्वात् साधकः । अर्थोऽपि व्यङ्ग्यत्वात् कर्मभावमापद्य- २५मानः तत्समकालमेव स्वातन्त्र्यमनुभवति, तस्मिन् सति क्रियाप्रवृत्तेः । यथा पचौ तण्डुला कर्म- रूपापन्ना एव कर्तृतामास्कन्दन्ति येनोच्यते कर्मकारकमिति, अतः तस्मिन् सति अनेकः शब्दः प्रयुज्यते यथा घटः पार्थिवः मार्तिकः सन् ज्ञेयो नवो महान् इत्यादि, एवमात्मकानां च विज्ञानानामालम्बनं भवति तैर्विना तस्याभावात् । सर्वे ते घटस्य आत्मानः । तथा आत्मन्यपि अनेकवाग्विज्ञानालम्बनदर्शनादेकस्यानेकात्मकत्वमवसेयम् । अपि च, २५१ अनेकशक्तिप्रचितत्वात् । ६ । यथा घृतं स्नेहयति तर्पयति उपबृंहयतीति अनेकशक्ति, घटो वा जलधारणाहरणादिलक्षणयाऽनेकया शक्त्या प्रचितः, तथा आत्मनोऽपि द्रव्यक्षेत्र- कालभावनिमित्तवशादनेकविकारप्राप्तियोग्यबहुशक्तियोगादनेकात्मकत्वम् । इतश्च, वस्त्वन्तरसम्बन्धाविर्भूतानेकसम्बन्धिरूपत्वात् । ७ । यथैको घटः पूर्वापरान्तरितानन्त- ०५रित-दूरासन्न-नवपुराण-समर्थासमर्थ-देवदत्तकृतचैत्रस्वामिकत्व-संख्या-परिमाण-पृथक्त्व-संयोग- विभागादिभेदादनेकव्यपदेशभाग्भवति, सम्बन्धानामानन्त्यात्, तत्तत्सम्बन्धिनमवेक्ष्य तस्य तस्य पर्यायस्य भावात् । अथवा, पुद्गलानामानन्त्यात्तत्तत्पुद्गलद्रव्यमपेक्ष्य एकपुद्गलस्थस्य तस्यैकस्यैव पर्यायस्याऽन्यत्वभावात् । यथा प्रदेशिन्याः मध्यमाभेदात् यदन्यत्वं न तदेव अनामिकाभेदात् । मा भूत् मध्यमाऽनामिकयोरेकत्वं मध्यमाप्रदेशिन्यन्यत्वहेतुत्वेनाऽविशेषा- १०दिति । न चैतत्परावधिकमेवार्थसत्त्वम् । यदि मध्यमासामर्थ्यात् प्रदेशिन्याः ह्रस्वत्वं जायेत शशविषाणेऽपि स्याच्छक्रयष्टौ वा । नापि स्वत एव, परापेक्षाभावे तद्व्यक्त्यभावात् । तस्मा- त्तस्यानन्तपरिणामस्य द्रव्यस्य तत्तत्सहकारिकारणं प्रतीत्य तत्तद्रूपं वक्ष्यते । न तत् स्वत एव नापि परकृतमेव । एवं जीवोऽपि कर्मनोकर्मविषयवस्तूपकरणसम्बन्धभेदादाविभूर्त- जीवस्थानगुणस्थानमार्गणास्थानविकल्पाऽनन्तपर्यायरूपः प्रत्येतव्यः । इतश्च, १५अन्यापेक्षाभिव्यङ्ग्याऽनेकरूपोत्कर्षापकर्षपरिणतगुणसम्बन्धित्वात् । ८ । यथा एको घट एकद्वित्रिचतुःसंख्येयाऽसंख्येयानन्तावस्थोत्कर्षापकर्षात्मकरूपादिपरिणतिप्रतियोगिद्रव्यापेक्षासह- कारिकारणाभिव्यञ्जनीयात्मीयानन्तनीलनीलतरादिपरिणामः, तथा जीवोऽपि परद्रव्य- संबन्धापेक्षाभिव्यक्ततीव्राद्यवस्थाविशेषक्रोधाद्यविभागपरिच्छेदाऽनन्तरूपत्वादनेकः । इतश्च, अतीतानागतवर्तमानकालसंबन्धित्वात् । ९ । इह समुदायावयवप्रध्वंसविषयेणातीतेन २०कालेन उत्पत्तिनिर्ज्ञातसंभावनविषयेण च अनागतेन कालेन, साधनप्रवृत्त्यविरामगोचरेण च वर्तमानेन कालेन संबन्धात् मृदादिद्रव्यं तस्मिन् तस्मिन् कालेऽनेकभेदमापद्यमानं दृष्टम् । वर्तमानमात्रत्वेऽपूर्वत्वात् अपरत्वाच्च अवध्यभावे वर्तमानस्याप्यभावो बन्ध्यापुत्रयुक्त्ववत् । तथा जीवस्यापि अनाद्यतीतकालसम्बन्धपरिणतैः अनागतानन्तकालवशवर्तिभिः वर्तमान- कालोद्भूतवृत्तिभिश्च पर्यायैरर्थव्यञ्जनभेदाद् द्वैविध्यमास्कन्दद्भिरभिसम्बन्धाद्नन्तरूपता । २५इतश्च, उत्पादव्ययध्रौव्ययुक्तत्वात् । १० । उत्पादादीनामानन्त्यम् अनन्तकाले एकस्मिंश्च काले । यथा घट एकस्मिन्नेव काले द्रव्यतः पार्थिवत्वेन उत्पद्यते न जलत्वेन, देशत इहत्य- त्वेन न पाटलिपुत्रकत्वेन, कालतो वर्तमानकालतया नातीतानागताभ्याम्, भावतो महत्त्वेन नाल्पत्वेन, एतेषां च एकैक उत्पादः सजातीयान्यपार्थिवानेकघटान्तरगतेभ्यः सौवर्णादीष- ३०द्विजातीयघटान्तरगतेभ्यो वा अत्यन्तविजातीयपटाद्यनन्तमूर्तामूर्तद्रव्यान्तरापन्नेभ्यो वा उत्पादेभ्यो भिद्यमानः तावद्धा भेदमुपयाति अन्यथा तैरविशिष्टः स्यात् । तथा तदैवानुत्पद्य- मानद्रव्यसंबन्धकृतोर्ध्वाधस्तिर्यगन्तरितानन्तरितैकान्तरादिदिग्भेद-महदल्पत्वादिगुणभेद-रूपाद्यु- त्कर्षापकर्षानन्तभेद-त्रैलोक्यत्रिकालविषयसंबन्धिवशभिद्यमानरूपो वा उत्पादोऽनेको भवति । २५२ तथाऽनेकावयवात्मकस्कन्धप्रदेशभेददृष्टविषमोत्पादनानारूपतया वा अनेक उत्पादः । उदका- दिधारणाहरणप्रदानाधिकरणभयहर्षशोकपरितापभेदजननादिस्वकार्यप्रसाधनेन वा अनेक उत्पादः । तदैव तावन्त एव तत्प्रतिपक्षभूता विनाशाः, पूर्वेणाविनष्टस्य उत्तरेणानुत्पादात् । उभयविपक्षभूताः स्थितयोऽपि तदैव तावत्यः तदाधारभूताः, अनवस्थितस्य वन्ध्यापुत्रवदु- ०५त्पादविनाशासंभवात्, अभावप्रसङ्गाच्च । घट उत्पद्यत इति यदा वर्तमानकालता; तदा अनभिनिर्वृत्तत्वात् पूर्वापरीभूतसाध्यमानभावाभिधानाच्चासत्त्वम् । उत्पत्त्यनन्तरं तु विनाशेऽभ्युपगम्यमाने सत्त्वभूतावस्थाभिधायकोत्पन्नशब्दवाच्यत्वाभावात् उत्पादेऽप्यभावो विनाशेप्यभाव इति भावाभावात्तदाश्रयो व्यवहारो विरोधमुपगच्छेत्, बीजशक्त्य- भावाच्च उत्पादविनाशशब्दवाच्यताभ्रेषश्च । तत उत्पद्यमानता उत्पन्नता विनाशश्चेति १०तिस्रोऽवस्था अभ्युपगन्तव्याः । तथा जीवस्याप्येकस्य द्रव्यार्थिकपर्यायार्थिकनयगोचरसामान्य- विशेषानन्तशक्त्यपेक्षार्पितस्थित्युत्पत्तिनिरोधानन्तरूपत्वात् अनेकत्वं प्रत्येतव्यम् । इतश्च, अन्वयव्यतिरेकात्मकत्वाच्च । ११ । इह घट एकोऽप्यन्वयव्यतिरेकात्मकतया अनेको दृष्टः सदचेतननवपुराणत्वादिभिः, तथा आत्मापि एकोऽन्वयव्यतिरेकात्मतया अनेकः प्रत्येतव्यः । के पुनरन्वयाः ? बुद्ध्यभिधानानुवृत्तिलिङ्गेन अनुमीयमानाविच्छेदाः स्वात्मभूताऽस्तित्वा- १५ऽऽत्मत्वज्ञातृत्वद्रष्ट्टत्वकर्तृत्वभोक्तृत्वाऽमूर्तत्वाऽसंख्यातप्रदेशत्वावगाहनातिसूक्ष्मत्वागुरुलघुत्वाहे- तुकत्वाऽनादिसंबन्धित्वोर्ध्वगतिस्वभावादयः । अथ के व्यतिरेकाः ? वाग्विज्ञानव्यावृत्ति- लिङ्गसमधिगम्यपरस्परविलक्षणा उत्पत्तिस्थितिविपरिणामवृद्धिक्षयविनाशधर्माणः गतीन्द्रिय- काययोगवेदकषायज्ञानसंयमदर्शनलेश्यासम्यक्त्वादयः । तस्य शब्देनाभिधानं क्रमयौगपद्याभ्याम् । १२ । तस्यैकस्य जीवस्यानेकात्मकस्य प्रत्यायने २०शब्दः प्रवर्तमानो द्वेधा व्यवतिष्ठते क्रमेण यौगपद्येन वा, न तृतीयो वाक्पथोऽस्ति । ते च कालादिभिर्भेदाभेदार्पणात् ॥ १३ ॥ ते च क्रमयौगपद्ये कालादिभिः भेदाभेदार्प- णाद्भवतः । यदा वक्ष्यमाणैः कालादिभिरस्तित्वादीनां धर्माणां भेदेन विवक्षा तदैकस्य शब्द- स्यानेकार्थप्रत्यायनशक्त्यभावात् क्रमः । यदा तु तेषामेव धर्माणां कालादिभिरभेदेन वृत्त- मात्मरूपमुच्यते तदैकेनापि शब्देन एकधर्मप्रत्यायनमुखेन तदात्मकत्वमापन्नस्य अनेकाशेष- २५रूपस्य प्रतिपादनसंभवात् यौगपद्यम् । तत्र यदा यौगपद्यं तदा सकलादेशः, स एव प्रमाण- मित्युच्यते । *“सकलादेशः प्रमाणाधीनः” इति वचनात् । यदा तु क्रमः तदा विकलादेशः, स एव नय इति व्यपदिश्यते । *“विकलादेशो नयाधीनः” इति वचनात् । कथं सकलादेशः ? एकगुणमुखेनाऽशेषवस्तुरूपसंग्रहात् सकलादेशः । १४ । यदा अभिन्नमेकं वस्तु एक- ३०गुणरूपेण उच्यते गुणिनां गुणरूपमन्तरेण विशेषप्रतिपत्तेरसंभवात् । एको हि जीवोऽस्तित्वा- दिष्वेकस्य गुणस्य रूपेणाऽभेदवृत्त्या अभेदोपचारेण वा निरंशः समस्तो वक्तुमिष्यते, विभाग- निमित्तस्य प्रतियोगिनो गुणान्तरस्य तत्रानाश्रयणात्, तदा सकलादेशः । कथमभेदवृत्तिः २५३ कथं वा अभेदोपचारः ? द्रव्यार्थत्वेनाश्रयणे तदव्यतिरेकादभेदवृत्तिः । पर्यायार्थत्वेनाश्रयणे परस्परव्यतिरेकेऽपि एकत्वाध्यारोपḥ, ततश्चाऽभेदोपचारः । तत्राऽऽदेशवशात् सप्तभङ्गी प्रतिपदम् । १५ । तत्रैतस्मिन् सकलादेश आदेशवशात् सप्तभङ्गी प्रतिपदं वेदितव्या । तद्यथा — स्यादस्त्येव जीवः, स्यान्नास्त्येव जीवः, स्याद- ०५वक्तव्य एव जीवः, स्यादस्ति च नास्ति च, स्यादस्ति चाऽवक्तव्यश्च, स्यान्नास्ति चावक्त- व्यश्च, स्यादस्ति च नास्ति चावक्तव्यश्च इत्यादि । उक्तं च- “*पुच्छावसेण भंगा सत्तेव दु संभवंति जस्स जथा । वत्थुत्ति तं पौच्चदि सामण्णविसेसदो णियदं ॥ १ ॥ ” इति । तत्र स्यादस्त्येव जीव इत्येतस्मिन् वाक्ये जीवशब्दो द्रव्यवचनः विशेष्यत्वात्, अस्तीति १०गुणवचनो विशेषणत्वात् । तयोस्सामान्यार्थाविच्छेदेन विशेषणविशेष्यसंबन्धावद्योतनार्थ एवकारः । तेनेतरनिवृत्तिप्रसङ्गे तत्संभवप्रदर्शनार्थः स्याच्छब्दप्रयोगः, स च लिङ्न्त- प्रतिरूपको निपातः । तस्यानेकान्तविधिविचारादिषु बहुष्वर्थेषु संभवत्सु इह विवक्षावशात् अनेकान्तार्थो गृह्यते । यद्ययमनेकान्तार्थः तेनैव सर्वस्योपादानात् इतरेषां पदानामानर्थक्यं प्रसज्यते; नैष दोषः; सामान्येनोपादानेऽपि विशेषार्थिना विशेषोऽनुप्रयोक्तव्यः, वृक्ष- १५शब्दस्य सामान्यशब्दत्वात् धवादिविशेषप्रतिपादने धवाद्युपादानवत् । अथवा, स्याच्छब्दोऽय- मनेकान्तार्थस्य द्योतकः । द्योतकश्च वाचकप्रयोगसन्निधिमन्तरेणाऽभिप्रेतार्थावद्योतनाय नालमितितद्द्योत्यधर्माधारार्थाभिधानायेतरपदप्रयोगः क्रियते । अथ केनोपात्तोऽनेकान्तार्थः अनेन द्योत्यते ? उक्तमेतत् — अभेदवृत्त्या अभेदोपचारेण वा प्रयुक्तशब्दवाच्यतामेवास्कन्दन्ति इतरे धर्मा इति । एवमितरेष्वपि वाक्येषु अर्थप्रकल्पनं प्रत्येतव्यम् । २०यद्येवं स्यादस्त्येव जीवः इत्यनेनैव सकलादेशेन जीवद्रव्यगतानां सर्वेषां धर्माणां संग्रहात् इतरेषां भङ्गानामानर्थक्यमासजति; नैष दोषः; गुणप्राधान्यव्यवस्थाविशेषप्रतिपादनार्थ- त्वात् सर्वेषां भङ्गानां प्रयोगोऽर्थवान् । तद्यथा, द्रव्यार्थिकस्य प्राधान्ये पर्यायगुणभावे च प्रथमः । पर्यायार्थिकस्य प्राधान्ये द्रव्यगुणभावे च द्वितीयः । तत्र प्राधान्यं शब्देन विवक्षि- तत्वाच्छब्दाधीनम्, शब्देनानुपात्तस्यार्थतो गम्यमानस्याऽप्राधान्यम् । तृतीये तु युगपद्भावे २५उभयस्याप्राधान्यं शब्देनाभिधेयतयाऽनुपात्तत्वात् । चतुर्थस्तूभयप्रधानः क्रमेण उभयस्या- स्त्यादिशब्देन उपात्तत्वात् । तथोत्तरे च भङ्गा वक्ष्यन्ते । तत्रास्तित्वैकान्तवादिनः ‘जीव एव अस्ति’ इत्यवधारणे अजीवनास्तित्वप्रसङ्गभया- दिष्टतोऽवधारणविधिः ‘अस्त्येव जीवः’ इति नियच्छन्ति, तथा चावधारणसामर्थ्यात् शब्दप्रापितादभिप्रायवशवर्तिनः सर्वथा जीवस्याऽस्तित्वं प्राप्नोति । सर्वेणाऽस्तित्वेन ३०व्याप्त इति पुद्गलाद्यस्तित्वेनापि जीवस्यास्तित्वं प्राप्तम्, शब्देन तथा प्रापितत्वात्, शब्दप्रमाणकाश्च वयमर्थाधिगमे । स्यान्मतम्, अस्तित्वसामान्येन व्याप्तिर्न त्वस्तित्व- २५४ विशेषैः यथा अनित्यमेव कृतकमिति अनित्यत्वस्याभावे कृतकत्वस्याप्यभाव एवेत्यवधारणात्, यत्कृतकं तत्सर्वमनित्यमिति, न हि सर्वप्रकारेण अनित्यत्वेन सर्वप्रकारं कृतकत्वं व्याप्यते किन्तु अनित्यत्वसामान्येन, नाऽनित्यत्वव्यक्त्या घटपटरथादिगतयेति । एवं तर्हि त्वयैवा- भ्युपगतं अवधारणनिष्फलत्वं सामान्याऽनित्यत्वेनाऽनित्यत्वं न विशेषाऽनित्यत्वेनेति । ०५स्वगतेनापि विशेषेणानित्यं भवत्येवेति चेत्; न; स्वगतेनेति विशेषणात्, परगतेन विशेषेणा- ऽनित्यत्वं न भवतीति आपद्यते, अनवधारणकं वा वाक्यं प्रयोक्तव्यम् — अनित्यं कृतकमिति । तथा चाऽनित्यस्याऽनवधृतत्वात् नित्यत्वप्रसङ्गोऽपि । एवं यद्यस्तित्वसामान्येनास्ति जीवः न तु पुद्गलादिगतयाऽस्तित्वव्यक्त्या, अतो न पुद्गलाद्यस्तित्वेन, अस्तित्वं जीवस्येति ब्रुवता त्वयैवाभ्युपगतं सामान्यरूपं विशेषरूपं चेति प्रकारवदस्तित्वमिति । तथा सति सामान्यास्ति- १०त्वेनास्ति विशेषास्तित्वेन नास्तीति स्यादस्ति स्यान्नास्तीति प्राप्तमवधारणनिष्फलत्वम् । सर्वेण हि प्रकारेणाऽस्तित्वाभ्युपगमे नास्तित्वनिरासेन अवधारणं फलवत् स्यात् । अनियमे तु अव्यावृत्तत्वात् पुद्गलाद्यस्तित्वेनापि प्राप्तिरित्यवश्यम् एकान्तवादिनाऽवधारणमभ्युपग- मनीयम् । तथा च सति पूर्वोक्तो दोषः । स्यादेतत् — यदस्ति तत् स्वायत्तद्रव्यक्षेत्रकालभावरूपेण भवति नेतरेण तस्याऽ- १५प्रस्तुतत्वात् । यथा घटो द्रव्यतः पार्थिवत्वेन, क्षेत्रत इहत्यतया, कालतो वर्तमान- कालसंबन्धितया, भावतो रक्तत्वादिना, न परायत्तैर्द्रव्यादिभिस्तेषामप्रसक्तत्वात् इति । एवं चेत् द्रव्यक्षेत्रकालभावान्तरसंबन्धितया नास्तीत्यतः स्यादस्ति स्या- न्नास्तीति सिद्धम् । नियमानभ्युपगमे तु स घटो न स्यादेव असामान्यत्वे सति नियतद्रव्य- क्षेत्रकालभावसंबन्धित्वेनाऽभूतत्वात् शशविषाणवत् । अनियतद्रव्यादिरूपत्वे वा सर्वथाभावात् २०सामान्यमेव स्यात् नासौ घटः, अनियतद्रव्यादिरूपत्वात् महासामान्यवत् । कथम् ? यदि हि असौ द्रव्यतः पार्थिवत्वेन तथोदकादित्वेनापि भवेत्, ततोऽसौ घट एव न स्यात् पृथिव्यु- दकदहनपवनादिषु वृत्तत्वात् द्रव्यत्ववत् । तथा, यथा इहत्यतया अस्ति तथाविरोधिदिगन्ता- नियतदेशस्थतयापि यदि स्यात्तथा चासौ घट एव न स्यात् विरोधिदिगन्ताऽनियतसर्व- देशस्थत्वात् आकाशवत् । तथा, यथा वर्तमानघटकालतया अस्ति तथाऽतीतशिवकाद्यनागत- २५कपालादिकालतयापि स्यात् तथा चाऽसौ घट एव न स्यात् सर्वकालसंबन्धित्वात् मृद्द्रव्यवत् । यथा चेहदेशकालविशेषसंबन्धितया अस्मत्प्रत्यक्षत्वं तथा अतीतानागतकालान्यदेशसम्बन्धित्वे- नाप्यस्मत्प्रत्यक्षत्वं स्यात्, उदकाद्यानयनादिसंव्यवहारपातित्वं वा । तथा, यथा नवत्वेन तथा पुराणत्वेन, सर्वरूपरसगन्धस्पर्शसंख्यासंस्थानादित्वेन वा स्यात्; तथा चासौ घट एव न स्यात् सर्वथाभावित्वात् भवनवत् । यथा हि भवनं रूपं रसो गन्धः स्पर्शश्च भवति पृथुः ३०महान् ह्रस्वः पूर्णः रिक्तो वा भवतीति न कुतश्चित् वस्तुनो वस्तुधर्माद्वा व्यावर्तते तच्च न घटः, एवं घटोऽपि स्यात् । एवं जीवस्यापि मनुष्यत्वेनाऽर्प्यमाणस्य स्वद्रव्यादिरूपतयै- वाऽस्तित्वं नेतरथा । यदीतरथापि स्यात्; मनुष्य एव न स्यात् नियतद्रव्यक्षेत्रकालभाव- सम्बन्धित्वेनाऽभूतत्वात् खरविषाणवत् । अनियतद्रव्यादिरूपत्वे वा सर्वथाभावात् सामान्य- मेव स्यात् नासौ मनुष्यः अनियतद्रव्यादिरूपत्वात् महासामान्यवत् । कथम् ? ३५यदि हि असौ यथा जीवद्रव्यत्वेनाऽस्ति एवं पुद्गलादित्वेनापि स्यात् ततोऽसौ २५५ मनुष्य एव न स्यात्, पुद्गलादिष्वपि दृष्टत्वात् द्रव्यत्ववत् । तथा, यथा इहत्यतया अस्ति तथा विरोधिदिगन्तानियतदेशस्थतयापि यदि स्यात्; तथा चासौ मनुष्य एव न स्यात् विरोधिदिगन्तानियतसर्वदेशस्थत्वात् आकाशवत् । तथा, यथा वर्तमानकालतया अस्ति तथा अतीतनारकाद्यनागतदेवादिकालतयापि स्यात्, तथा चासौ मनुष्य एव न ०५स्यात् सर्वकालसंबन्धित्वात् जीवत्ववत् । यथा च इह — देशकालविशेषसंबन्धितया अस्म- त्प्रत्यक्षत्वं तथाऽतीतानागतकालान्यदेशसंबन्धित्वेनापि अस्मत्प्रत्यक्षत्वं स्यात्, यथा यौवनेन तथा वृद्धत्वेन अन्यद्रव्यगतरूपरसादिभिर्वा यदि स्यात् तथा चासौ मनुष्य एव न स्यात् सर्वथाभावित्वात् भवनवत् । तस्मात् स्यादस्ति स्यान्नास्ति । इतश्च स्यादस्ति स्यान्नास्ति स्वपरसत्ताभावाभावोभयाधीनत्वात् जीवस्य । यदि १०परसत्तया अभावं स जीवः स्वात्मनि नापेक्षते, अतः स जीव एव न स्यात् सन्मात्रं स्यात्, नासौ जीवः सत्त्वे सति विशेषरूपेण अनवस्थितत्वात् सामान्यवत् । तथा परसत्ताभावापेक्षायामपि जीवत्वे यदि स्वसत्तापरिणतिं नापेक्षते तथापि तस्य वस्तुत्वमेव न स्यात् जीवत्वं वा, सद्भावापरिणतत्वे पराभावमात्रत्वात् खपुष्पवत् । अतः पराभा- वोऽपि स्वसत्तापरिणत्यपेक्ष एव अस्तित्वस्वात्मवत् । यथा अस्तित्वस्वात्मा अस्तित्वस्वा- १५त्मना अस्ति न नास्तित्वस्वात्मनेति स्यादस्ति, स्यान्नास्ति इतरथा हि वस्त्वभावः स्यात् । कथम् अभावो हि भावनिरपेक्षोऽत्यन्तशून्यं वस्तु प्रतिपादयेत् अन्वयाप्रतिलम्भात् । भावोऽपि वा अभावनिरपेक्षः सर्वरूपं वस्तु प्रतिपादयेत् व्यतिरेकाप्रतिलम्भात् । न च सर्वथा सता सर्वा- भावरूपेण वा शक्यं भवितुम् । किं हि वस्तु सर्वात्मकं सर्वाभावरूपं वा दृष्टमिति ? तद्धि वस्त्वेव न स्यात् सर्वाभावरूपत्वात् खपुष्पवत् । न च वस्तुत्वं सर्वात्मकत्वात् शक्यं प्रति- २०पत्तुम् असाधारणत्वात्, वस्तुत्वे चाऽवस्तुत्वे चाऽदर्शनात् श्रावणत्ववत् । अभावता हि भावरूप- वैलक्षण्यात् क्रियागुणव्यपदेशाभावात् अवतिष्ठते । भावतापि अभाववैलक्षण्यात् क्रियागुण- व्यपदेशवत्त्वात् सिध्यतीति परस्परापेक्षे भावाभावरूपत्वे । अपि च, अभावः स्वसद्भावं भावाभावं च अपेक्षमाणः सिध्यति । भावोऽपि स्वसद्भावं अभावाभावं चाऽपेक्ष्य सिद्धिमुपयाति । यदि तु अभाव एकान्तेनाऽस्ति इत्यभ्युपगम्येत ततः सर्वात्मनाऽस्तित्वात् स्वरूपवद्भावात्म- २५नापि स्यात्, तथा च भावाभावरूपसङ्करादस्थितरूपत्वादुभयोरप्यभावः । अथ एकान्तेन नास्ति इत्यभ्युपगम्येत ततो यथा भावात्मना नास्ति तथा तथाऽभावात्मनापि न स्यात्, ततश्च अभावस्याऽभावात् भावस्याऽप्रतिपक्षत्वात् भावमात्रमेव स्यात् । तथा खपुष्पादयोऽपि भावा एव अभावाभावरूपत्वात् घटवत् इति सर्वभावप्रसङ्गः । एवं भावास्तित्वैकान्तेऽपि योज्यम् । तस्माद्भावः स्यादस्ति स्यान्नास्ति तथा अभावोऽपि । एवं जीवोऽपि स्यादस्ति स्यान्नास्तीत्यव- ३०सेयम् । एवं स्वात्मनि घटादिवस्तुसिद्धौ च भावाभावयोः परस्परापेक्षत्वात् यदुच्यते — *“अर्थात् प्रकरणाद्वा घटे अप्रसक्तायाः पटादिसत्तायाः किमिति निषेधः क्रियते” ? २५६ इति; तदयुक्तम् । किञ्च घटे अर्थत्वात् अर्थसामान्यात् पटादिसर्वार्थप्रसङ्गः संभवत्येव । तत्र विशिष्टं घटार्थत्वम् अभ्युपगम्यमानं पटादिसत्तारूपस्यार्थसामर्थ्य प्रापितस्य अर्थ- तत्त्वस्य निरासेनैव आत्मानं शक्नोति लब्धुम्, इतरथा हि असौ घटार्थ एव न स्यात् पटा- द्यर्थरूपेणाऽनिवृत्तत्वात् पटाद्यर्थस्वरूपवत्, विपरीतो वा । यश्चास्य पटादिरूपेणाभावः ०५सोऽपि घटधर्म एव तदधीनत्वात् भाववत्, अतोऽसौ स्वपर्याय एव, परेण तु विशेष्यमाण- त्वात् परपर्याय इत्युपचर्यते । स्वपरविशेषणायत्तं हि वस्तुस्वरूपप्रकाशनमिति । अथ ‘अस्त्येव जीवः’ इत्यत्राऽस्तिशब्दवाच्यादर्थात् भिन्नस्वभावो वा जीवशब्दवाच्यो- ऽर्थः स्यात्, अभिन्नस्वभावो वा ? यदि अभिन्नस्वभावः, ततो यत् सदर्थस्य रूपं जीव- शब्दार्थस्यापि तदेव रूपमिति ततोऽन्यधर्मानवकाशत्वादविशिष्टार्थता स्यात् । ततश्च सामा- १०नाधिकरण्यविशेषणविशेष्यत्वाभावो घटकुटशब्दवत् अन्यतराप्रयोगश्च स्यात् । किञ्च, सत्त्वस्य सर्वद्रव्यपर्यायविषयत्वात् तदभिन्नस्वभावस्य जीवस्यापि तादात्म्यमिति सर्वस्य तत्त्वस्याऽविशिष्टैकजीवत्वप्रसङ्गः । सत्स्वभावत्वाच्च जीवस्वरूपचैतन्यतद्विकल्पज्ञानादि- क्रोधादिनारकत्वादिसर्वविशेषणाभावत्वप्रसङ्गश्च स्यात् । जीवस्वभावत्वाद्वा अस्तित्वस्य स्वात्मनि पुद्गलादिषु च सत्प्रत्ययाभिधानहेतुत्वाभावो जीवत्ववत् । १५अथायं दोषो माभूत् इति अस्तिशब्दवाच्यात् अर्थात् भिन्नस्वभावो जीवशब्दार्थः प्रतिज्ञायेत; एवमपि स्वतो जीवस्याऽसद्रूपत्वप्रसङ्गः । ततश्च नास्ति जीवोऽस्तिशब्दवाच्या- र्थविविक्तत्वात् खरविषाणवत्, विपर्ययो वा । ततश्च तदधीनबन्धमोक्षादिव्यवहाराभावः । अस्तित्वस्य च जीवादर्थान्तरत्ववत्, इतरेभ्योपि भिन्नत्वात् निराश्रयत्वादभाव एवेति तदाश्र- यव्यवहाराभावः । किञ्च, अस्तित्वाद्भिन्नस्वभावस्य जीवस्य कः स्वभाव इति वक्तव्यम् ? २०यश्चास्य स्वभाव इत्युच्यते स सर्वो न स्यात् असत्स्वभावत्वात् खपुष्पवत् । तस्मात् स्याद्भि- न्नार्थत्वं स्यादभिन्नार्थत्वं चाभ्युपगन्तव्यम् । पर्यायार्थादेशात्भवनजीवनभेदात् अस्ति- जीवशब्दौ स्याद्भिन्नार्थौ । द्रव्यार्थादेशात् तदव्यतिरेकात् तद्ग्रहणेन ग्रहणात् स्याद- भिन्नार्थौ । तस्मात् स्यादस्ति स्यान्नास्तीति सिद्धम् । इतश्च, स्यादस्ति स्यान्नास्ति अर्थाभिधानप्रत्ययानां तथाप्रसिद्धेः । २५कश्चिदाह — जीवार्थो जीवशब्दो जीवप्रत्ययः इत्येतत्त्रितयं लोके अविचारसिद्धम् — तथाहि वर्णाश्रमिणः अस्तित्वमेवाश्रित्य तासु तासु क्रियासु प्रवृत्ताः तस्मादस्त्येवेति । तमितरः प्रत्याह — नास्त्येवैतत्त्रि तयम् — अर्थस्तावन्नास्त्यनुपलब्धेः, विज्ञानमेव तथा परिणतं स्वप्नवत् कल्पयति । प्रत्ययजीवोऽपि नास्त्येव विज्ञानस्य ज्ञेयरूपेणाऽनाख्येयत्वात् । स्वतस्तु विज्ञानं न जीवो नाप्यजीवः प्रकाशमात्रं केनचिदपि रूपेण अनिरूप्यत्वात्यद्यपि २५७ निरूप्येत स्वप्नज्ञानवत् असदाकारेणैव निरूप्येत — नास्ति ज्ञानम् असदाकारनिरूप्यत्वात् खरविषाणवत् । अभिधानमपि नास्ति । तद्धि पदरूपं वा स्यात्, वाक्यरूपं वा ? तन्नास्त्येव अयुगपत्कालावयवत्वात् । यत्पुनरेत् — जीवशब्दग्रहणं तत्परिकल्पितैर्वर्णमागैरनुक्रमेणाऽऽहित- शक्तिकासु बुद्धिषु शक्तिपरिपाकप्राप्तौ प्रत्यस्तमितसकलवर्णभागविषयविज्ञानं जीवशब्दत्वेन ०५अध्यवसीयते नत्वभिधानजीवः कश्चिदस्ति । तदपि विज्ञानं क्षणिकत्वात् प्रत्यर्थवशवर्तित्वाच्च एकस्य पूर्वापरीभूतार्थप्रत्यवभासनासंभवान्नास्त्येवेति । यद्येवं वाच्यवाचकसंबन्धो लोके रूढः प्रत्याख्यातः स्यात् ततश्च लोकविरोधः, तन्नास्तित्वे परीक्षाप्रयासश्च विफलः स्यात् इत्यभ्युपगन्तव्यम् — जीवः स्यादस्ति स्यान्नास्तीति । अतः द्रव्यार्थिकः पर्यायार्थिकमात्मसात्कुर्वन् व्याह्रियते, पर्यायार्थिकोऽपि द्रव्यार्थिकमिति उभावपि इमौ सकलादेशौ । १०तृतीयो विकल्पः उच्यते — द्वाभ्यां गुणाभ्यामेकस्यैव अभिन्नस्याभेदरूपेण युगपद्वक्तु- मिष्टत्वात् । तत्र यथा प्रथमद्वितीययोर्विकल्पयोरेकस्मिन् काले एकेन शब्देन एकस्यार्थस्य समस्तस्यैव एकेन गुणरूपेणाभिधानं क्रमात्, एवं यदा द्वाभ्यां प्रतियोगिभ्यां गुणाभ्यामवधारणात्काभ्यां युगपदेकस्मिन् काले एकेन शब्देन एकस्यार्थस्य कृत्स्नस्यैवाभेदरूपेणाभिधित्सा तदा अवाच्यः तद्विधार्थस्य शब्दस्य चाऽभावात् । तत्र युगप- १५द्भावो गुणानां कालादिभिरभेदेन विवक्षितानां वृत्तिः, न च तैरभेदोऽत्र सम्भवति । के पुनस्ते कालादयः ? काल आत्मरूपमर्थः सम्बन्धः उपकारो गुणिदेशः संसर्गः शब्द इति । तत्र येन कारणेन विरुद्धा भवन्ति गुणास्तेषामेकस्मिन् काले क्वचिदेकवस्तुनि वृत्तिर्न दृष्टा अतस्तयोर्नास्ति वाचकः शब्दः तथावृत्त्यभावात् । अत एकस्मिन्नात्मनि सदसत्त्वे प्रविभक्ते असंसर्गात्मरूपे २०अनेकान्तरूपे न स्तः । एककाले येनात्मा तथोच्येत ताभ्यां विविक्तं च परस्परत आत्मरूपं गुणानांनान्योन्यात्मनि वर्तते, यत उभाभ्यां युगपदभेदेनोच्येत । न च विरुद्धत्वात् सदसत्त्वा- दीनाम् एकान्तपक्षे गुणानामेकद्रव्याधारा वृत्तिरस्ति यतः अभिन्नाधारत्वेनाऽभेदो युगपद्भावः स्यात्, येन केनचित् शब्देन वा सदसत्त्व उच्येयाताम् । न च सम्बन्धतोऽभिन्नता गुणानां संभवति भिन्नत्वात् संबन्धस्य । यथा छत्रदेवदत्तसम्बन्धोऽन्यः दण्डदेवदत्तसंबन्धात् । कारणयोः २५संबन्धिनोर्भिन्नत्वात् न तावेकेन संबन्धेनाभिन्नौ । एवं सदसत्त्वयोरात्मना सह संबन्धस्य भिन्नत्वात् न संबन्धेनापि युगपद्वृत्तिसंभवः यतः शब्देनोच्यते । समवाय इति चेत्; न; तेनापि भिन्नेन भवितव्यं भिन्नाभिधानप्रत्ययहेतुत्वात् संयोगवत् । न च गुणा उपकारेणाऽ- भिन्नाः; यतो द्रव्यस्य गुणाधीन उपकारो नीलरक्ताद्युपरञ्जनम्, ते च स्वरूपतो भिन्नाः । यच्च तेषामात्मनि नीलरक्तत्वाद्यस्ति रूपं यावच्च नीलनीलतरादि तावता द्रव्यं रञ्जयति ३०अतस्तेषामुपकारोऽपि भिद्यत एव । एवं सदसत्त्वयोर्भिन्नत्वात् सत्त्वेनोपरक्तं सत् असत्त्वेनोप- २५८ रक्तं असन्नोपकारसारूप्यम्, यतः तदभेदेन शब्दो वाचकः स्यात् । न चैकदेशेन गुणिन उपकारः संभवति येनैकदेशोपकारेण सहभावो भवेत् नीलादेर्गुणस्य । कृत्स्नस्य हि गुणस्योपकारकत्वं द्रव्यस्य च पटादेः समस्तस्योपकार्यत्वम्, गुण उपकारको गुणी उपकार्य इति । न चैकदेशो गुणगुणिनोः । अतः कृत्स्नयोः उपकार्योपकारकरूपसिद्धिर्न देशेन यतो ०५देशतः सहभावात् कश्चिच्छब्दो वाचकः कल्प्येत । न चैकान्तपक्षे गुणानां संसृष्टमनेकात्मकं रूपमस्ति अवधृतैकान्तरूपत्वात् सत्त्वासत्त्वादेर्गुणस्य । यदा शवलरूपव्यतिरिक्तौ परस्पर- विविक्तौ शुक्लकृष्णौ गुणौ असंसृष्टौ नैकस्मिन्नर्थे सह वर्तितुं समर्थौ अवधृतरूपत्वात्, अतः ताभ्यां संसर्गाभावात् एकान्तपक्षे न युगपदभिधानमस्ति अर्थस्य तथा वर्त्तितुं शत्त्यभावात्, तद्विधस्य च अर्थसंबन्धस्याऽभावात् । न चैकः शब्दो द्वयोर्गुणयोः सहवाचकोऽस्ति । यदि स्यात् १०सच्छब्दः स्वार्थवदसदपि सत्कुर्यात् असच्छब्दोऽपि स्वार्थवत् सदपि असत्कुर्यात्, न च तथा लोके संप्रत्ययोऽस्ति तयोर्विशेषशब्दत्वात् । एवमुक्तात् कालादियुगपद्भावासंभवात् । शब्दस्य च एकस्य उभयार्थवाचिनोऽनुपलब्धेः अवक्तव्य आत्मा । अथवा वस्तुनि मुख्यप्रवृत्त्या तुल्यबलयोः परस्पराभिधानप्रतिबन्धे सति इष्टविप- रीतनिर्गुणत्वापत्तेः विवक्षितोभयगुणत्वेनाऽनभिधानात् अवक्तव्यः । अयमपि सकलादेशः १५परस्परावधारितविविधरूपैकात्मकाभ्यां गुणाभ्यां गुणविशेषणत्वेन युगपदुपक्षिप्ताभ्याम् अविवक्षितांशभेदस्य वस्तुनः समस्तस्य एकेन गुणरूपेणाभेदवृत्त्या अभेदोपचारेणं वाऽभिधातुं प्रक्रान्तत्वात् । स च अवक्तव्यशब्देन अन्यैश्च षड्भिर्वचनैः पर्यायान्तरविवक्षया च वक्त- व्यत्वात् स्यादवक्तव्यः । यदि सर्वथा अवक्तव्यः स्यात् अवक्तव्य इत्यपि चाऽवक्तव्यः स्यात् कुतो बन्धमोक्षादिप्रक्रियाप्ररूपणविधिः ? २०ताभ्यामेव क्रमेणाभिधित्सायां तथैव वस्तुसकलस्वरूपसंग्रहात् चतुर्थोऽपि विकल्पः सकलादेशः । अयमपि स्यादित्येवार्पयितव्यः, सर्वथोभयात्मकत्वे परस्परविरोधात् उभयदोष- प्रसङ्गाच्च । कथमेते निरूप्यन्ते ? सर्वसामान्येन तदभावेन च, विशिष्टसामान्येन तदभावेन च विशिष्टसामान्येन तदभावसामान्येन च, विशिष्टसामान्येन तद्विशेषेण च, सामान्येन विशि- ष्टसामान्येन च, द्रव्यसामान्येन गुणसामान्येन च, धर्मसमुदायेन तद्व्यतिरेकेण च, धर्मसामान्य- २५सम्बन्धेन तदभावेन च, धर्मविशेषसंबन्धेन तदभावेन च । तद्यथा सर्वसामान्येन तदभावेन च इह द्विविधोऽर्थः श्रुतिगम्योऽर्थाधिगम्यश्च । तत्रानपेक्षितवृत्तिनिमित्तः श्रुतिमात्रप्रापितः श्रुतिगम्यः । अर्थप्रकरणसंभवाभिप्रायादिशब्द- न्यायात् कल्पितोऽर्थाधिगम्यः । तत्र आत्मा अस्तीति सर्वप्रकारानाश्रयणादिच्छावशात् कल्पितेन सर्वसामान्येन वस्तुत्वेन अस्तीति प्रथमः । तत्प्रतिपक्षेणाऽभावसामान्येनाऽवस्तुत्वेन ३०नास्त्यात्मा इति द्वितीयः । आभ्यामेव युगपदभेदविवक्षायां वाचकाभावान्नाभिधीयत इति तृतीयः । आभ्यामेव क्रमेणार्पिताभ्यामुभयरूपं वस्तु उच्यते इति चतुर्थः । विशिष्टसामान्येन तदभावेन च — यथाश्रुतत्वात् श्रुत्युपात्तेन आत्मनैवाभिसंबन्धः, ततश्चात्मत्वेनैव अस्त्यात्मा इति प्रथमः । यथाश्रुतप्रतियोगित्वात् अनात्मत्वेनैव नास्त्यात्मा इति द्वितीयः । युगपदुभाभ्यां २५९ आत्मानात्मत्वसदसत्त्वाभ्यामवक्तव्यः । आभ्यामेव क्रमेणार्पिताभ्यामुभयरूपं वस्तूच्यते इति चतुर्थः । विशिष्टसामान्येन तदभावसामान्येन च — यथाश्रुतत्वात् आत्मत्वेनैवास्तीति प्रथमः । अभ्युपगमविरोधभयात् वस्त्वन्तरात्मना क्षित्युदकज्वलनघटपटगुणकर्मादिना सर्वेण प्रकारेण सामान्यतो नास्तीति द्वितीयः । आभ्यामेव युगपदात्मघटादिसदसत्त्वाभ्यामवक्तव्यः । क्रमेण ०५तु वाच्यत्वात् चतुर्थः । विशिष्टसामान्येन तद्विशेषेण च — आत्मसामान्येनास्त्यात्मा । आत्म- विशेषेण मनुष्यत्वेन नास्ति । आत्मत्वमनुष्यत्वापेक्षाभ्यां सदसत्त्वाभ्याम् एकत्वे युगपद- वक्तव्यः । पर्यायेणाभिधेयत्वाच्चतुर्थः । सामान्येन विशिष्टसामान्येन च — अविशेषरूपेण द्रव्यत्वेन अस्त्यात्मा । विशिष्टेन सामान्येन प्रतियोगिनाऽनात्मत्वेन नास्त्यात्मा । ताभ्यां तु द्रव्यत्वानात्मत्वसदसत्त्वाभ्यां युगपदवक्तव्यः । क्रमेण ताभ्यां वक्तव्यत्वात् चतुर्थः । द्रव्य- १०सामान्येन गुणसामान्येन च वस्तुनस्तथा तथा संभवात् तां तां विवक्षामाश्रित्याविशेषरूपेण द्रव्यत्वेनास्त्यात्मा, तत्प्रतियोगिना विशेषरूपेण गुणत्वेन नास्त्यात्मा । ताभ्यां तु द्रव्यत्व- गुणत्वसदसत्त्वाभ्यां युगपदवक्तव्यः । क्रमेण तदुभयवाग्गोचरत्वाच्चतुर्थः । धर्मसमुदायेन तद्व्यतिरेकेण च — त्रिकालगोचरानेकशक्तिज्ञानादिधर्मसमुदायरूपेणाऽऽत्मास्ति । तद्व्यतिरेकेण नास्त्यनुपलब्धेः । ताभ्यां युगपदवक्तव्यः । क्रमेण अभिधेयतामनुभवति इति चतुर्थः । धर्म- १५सामान्यसंबन्धेन तदभावेन च — गुणरूपगतसामान्यसंबन्धविवक्षायां यस्य कस्यचित् धर्मस्य आश्रयत्वेन अस्त्यात्मा । न तु कस्यचिदपि धर्मस्याश्रयो न भवतीति धर्मसामान्यानाश्रयत्वेन नास्त्यात्मा । आभ्यां युगपदवक्तव्यः । पर्यायेण तु तदुभयविशेष्यत्वात् चतुर्थः । धर्मविशेष- संबन्धेन तदभावेन च — अनेकधर्मणोऽन्यतमधर्मसंबन्धेन तद्विपक्षेणे वा विवक्षायाम्, यथा अस्त्यात्मा नित्यत्वेन निरवयवत्वेन चेतनत्वेन वा, तेषामेवान्यतमधर्मप्रतिपक्षेण नास्त्यात्मा । २०युगपत्ताभ्यामवक्तव्यः । क्रमेण तदभिधानविषयत्वाच्चतुर्थः । पञ्चमो भङ्ग उच्यते — त्रिभिः आत्मभिर्द्व्यंशः । जीवस्यानेकद्रव्यात्मकस्याऽनेक- पर्यायात्मकस्य च किञ्चिद् द्रव्यार्थविशेषं पर्यायार्थविशेषं वा आश्रित्यास्तीत्युच्यते एक आत्मा, तस्यैवाऽन्य आत्मा द्रव्यसामान्यं पर्यायसामान्यं तद्विशेषद्वयं वाऽङ्गीकृत्य युगपदविभाग- विवक्षायां वचनगोचरातीतः । यथा स्यादस्त्यात्मा द्रव्यत्वेन, द्रव्यविशेषेण वा जीवत्वेन, २५मनुष्यत्वादिना वा । द्रव्यपर्यायसामान्यमुररीकृत्य वस्तुत्वसत्त्वमवस्तुत्वासत्त्वं च युगपद- भेदविवक्षायामवाच्यः । विशेषद्वयं वा मनुष्यत्वामनुष्यत्वादि, यतः सर्वेऽपि तस्यैकस्यैव ते आत्मानो विद्यन्ते तदैवेति । ततः स्यादस्ति चाऽवक्तव्यश्च जीवः । अयमपि सकलादेशः, अंशाभेदविवक्षायाम् एकांशमुखेन सकलसंग्रहात् । तथा षष्ठः त्रिभिः आत्मभिर्द्व्यंशः । यतो वस्तुगतं नास्तित्वमवक्तव्यरूपानुविद्धं ३०नान्तरेणात्मभेदं शक्यं कल्पयितुं वस्तुनस्तथापि भावात् । तत्र नास्तित्वं पर्यायाश्रयम् । स च पर्यायो युगपद्वृत्तः क्रमवृत्तो वा । सहवृत्तो जीवस्य पर्यायः अविरोधात् सहावस्थायी सहवृत्तेः गतीन्द्रियकाययोगवेदकषायज्ञानसंयमादिः । क्रमवर्ती तु क्रोधादिदेवादिबाल्याद्यवस्था- लक्षणः । तत्र गत्यादिव्यतिरिक्तः क्रोधादिक्रमवृत्तधर्मरूपनैरन्तर्यमात्रादर्थान्तरभूत एकोऽ- वस्थितो द्रव्यार्थो जीवो नाम नास्ति, किन्तु त एव धर्मास्तथा सन्निविष्टा जीवव्यपदेशभाजः २६० इति अस्यां कल्पनायां नास्तित्वम् । यश्च वस्तुत्वेन सन्निति द्रव्यार्थांशः यश्च तत्प्रतियोगि- नाऽवस्तुत्वेनाऽसन्निति पर्यायांशः, ताभ्यां युगपदभेदविवक्षायाम् अवक्तव्य इति द्वितीयोंऽशः । तस्मान्नास्ति चावक्तव्यश्चाऽऽत्मा । अयमपि सकलादेशः शेषवाग्गोचरस्वरूपसमूहस्याऽविना- भावात् तत्रैवान्तर्भूतस्य स्याच्छब्देन द्योतितत्वात् । ०५तथा सप्तमो विकल्पः चतुर्भिरात्मभिः त्र्यंशः । द्रव्यार्थविशेषं कञ्चिदाश्रित्याऽस्ति- त्वं पर्यायविशेषं च कञ्चिदाश्रित्य नास्तित्वमिति समुच्चितरूपं भवति, द्वयोरपि प्राधान्येन विवक्षितत्वात् । द्रव्यपर्यायविशेषेण च केनचित् द्रव्यपर्यायसामान्येन च केनचित् युगपद- वक्तव्यः इति तृतीयोंऽशः । ततः स्यादस्ति च नास्ति चाऽवक्तव्यश्च आत्मा । अयमपि सकलादेशः, यतः सर्वान् द्रव्यार्थान् द्रव्यमित्यभेदादेकं द्रव्यार्थं मन्यते । सर्वान् पर्यायार्थांश्च १०पर्यायजात्यभेदादेकं पर्यायार्थम् । अतो विवक्षितवस्तुजात्यभेदात् कृत्स्नं वस्तु एकद्रव्यार्थाभिन्नम् एकपर्यायाभेदोपचरितं वा एकमिति सकलसंग्रहात् । अथ कथं विकलादेशः ? निरंशस्यापि गुणभेदादंशकल्पना विकलादेशः । १६ । स्वेन तत्त्वेनाप्रविभागस्यापि वस्तुनो विविक्तं गुणरूपं स्वरूपोपरञ्जकमपेक्ष्य प्रकल्पितमंशभेदं कृत्वा अनेकात्मकैकत्व- व्यवस्थायां नरसिंहसिंहत्ववत् समुदायात्मकमात्मरूपमभ्युपगम्य कालादिभिरन्योन्यविषयानु- १५प्रवेशरहितांशकल्पनं विकलादेशः, नतु केवलसिंहे सिंहत्ववत् एकात्मकैकत्वपरिग्रहात् । यथा वा पानकमनेकखण्डदाडिमकपूंṃरादिरसानुविद्धमास्वाद्य अनेकरसात्मकत्वमस्यावसाय पुनः स्वशक्तिविशेषादिदमप्यस्तीदमप्यस्तीति विशेषनिरूपणं क्रियते, तथा अनेकात्मकैकवस्त्वभ्यु- पगमपूर्वकं हेतुविशेषसामर्थ्यात् अर्पितसाध्यविशेषावधारणं विकलादेशः । कथं पुनरर्थस्याऽ- भिन्नस्य गुणो भेदकः ? दृष्टो हि अभिन्नस्याप्यर्थस्य गुणस्तत्त्वभेदं कल्पयन् यथा परुत् २०भवान् पटुरासीत् पटुतर एषम इति गुणविविक्तरूपस्य द्रव्यस्याऽसंभवात् गुणभेदेन गुणिनोऽपि भेदः । तत्रापि तथा सप्तभङ्गी । १७ । तत्रापि विकलादेशे तथा आदेशवशेन सप्तभङ्गी वेदितव्या । कथम् ? गुणिभेदकेष्वंशेषु क्रमेण यौगपद्येन क्रमयौगपद्याभ्यां वा विवक्षावशात् विकलादेशा भवन्ति । तत्र प्रथमद्वितीययोरप्रचितः क्रमः, तृतीये यौगपद्यम्, चतुर्थे प्रचितः २५क्रमः, पञ्चमे षष्ठे वा अप्रचितक्रमयौगपद्ये, सप्तमे प्रचितक्रमयौगपद्ये । तद्यथा सर्व- सामान्यादिषु द्रव्यार्थादेशेषु केनचिदुपलभ्यमानत्वात् स्यादस्त्येवात्मेति प्रथमो विकलादेशः । अत्रेतरेषां वस्तुनि सतामपि कालादिभिर्भेदविवक्षातः शब्दवाच्यत्वेनान्तर्भावाभावान्निरासा- भावाच्च न विधिर्न प्रतिषेधः । एवं शेषभङ्गेष्वपि विवक्षितांशमात्रप्ररूपणायां इतरेष्वौ- दासीन्येन विकलादेशकल्पना योज्या । ननु च सामान्यार्थाविच्छेदेन विशेषणविशेष्यसंबन्धा- ३०वद्योतनार्थे एवकारे सति तदवधारणादितरेषां निवृत्तिः प्राप्नोति ? नैष दोषः; अत्राप्यत एव स्याच्छब्दप्रयोगः कर्तव्यः ‘स्यादस्त्येव जीवः’ इत्यादि । कोऽर्थः ? एवकारेणेतरनिवृत्तिप्रसङ्गे स्वात्मलोपात् सकलो लोपो मा विज्ञायीति वस्तुनि यथावस्थितं विवक्षितधर्मस्वरूपं तथैव द्योतयति स्याच्छब्दः । *“विवक्षितार्थवागङ्गम्” इति वचनात् । एवमा- २६१ देशवशात् सप्तवचनप्रकारा भवन्तीति विकल्पान्तरप्रवृत्तिनिमित्ताभावात् । अयं च मार्गः द्रव्यार्थिकपर्यायार्थिकनयद्वयाश्रयः । तौ च संग्रहाद्यात्मकौ । ते चार्थ- नयरूपेण शब्दनयरूपेण च प्रवृत्ताः । तत्र संग्रहव्यवहारर्जुसूत्रा अर्थनयाः । शेषाः शब्दनयाः । तत्र संग्रहः सत्त्वविषयः, सकलं वस्तुतत्त्वं सत्त्वे अन्तर्भाव्य संग्रहात् । व्यवहारोऽसत्त्वविषयः ०५विविक्तसत्त्वपरिग्रहादन्यापेक्षासत्त्वप्रतिपत्तेः । ऋजुसूत्रो वर्तमानविषयः अतीतानागतयोः विनष्टानुत्पन्नत्वेन व्यवहाराभावात् । एते त्रयोऽर्थनया एकैकात्मकाः संयुक्ताश्च सप्त वाक्- प्रकारान् जनयन्ति । तत्राद्यः संग्रह एकः, द्वितीयो व्यवहार एकः, तृतीयः संग्रहव्यवहाराव- विभक्तौ, चतुर्थः संग्रहव्यवहारौ समुच्चित्तौ, पञ्चमः संग्रहः संग्रहव्यवहारौ चाविभक्तौ । षष्ठो ब्यवहारः संग्रहव्यवहारौ चाविभक्तौ । सप्तमः संग्रहव्यवहारौ प्रचितौ तौ चाविभक्तौ । १०एष ऋजुसूत्रेऽपि योज्यः । व्यञ्जनपर्यायास्तु शब्दनया द्विविधं वचनं प्रकल्पयन्ति — अभेदेनाभिधानं भेदेन च । यथा शब्दे पर्यायशब्दान्तरप्रयोगेऽपि तस्यैवार्थस्याभिधानादभेदः । समभिरुढे वा प्रवृत्ति- निमित्तस्य अप्रवृत्तिनिमित्तस्य च घटस्याभिन्नस्य सामान्येनाभिधानात् । एवंभूतेषु प्रवृत्ति- निमित्तस्य भिन्नस्यैकस्यैवार्थस्याभिधानात् भेदेनाभिधानम् । १५अथवा, अन्यथा द्वैविध्यम् — एकस्मिन्नर्थेऽनेकशब्दप्रवृत्तिः, प्रत्यर्थं वा शब्दविनिवेश इति । यथा शब्दे अनेकपर्यायशब्द वाच्य एकः । समभिरूढे वा नैमित्तिकत्वात् शब्दस्यैक- शब्दवाच्य एकः । एवंभूते वर्तमाननिमित्तशब्द एकवाच्य एकः । अत्र चोद्यते कथमेते अस्तित्वनास्तित्वादयो धर्माः विरुद्धरूपा एकस्मिन् वस्तुनि अविरोधमुपयान्तीति ? उच्यते- विरोधाभावस्तल्लक्षणाभावात् । १८ । नास्त्येषामादेशवशादर्प्यमाणानां विरोधः । २०कुतः ? तल्लक्षणाभावात् । इह विरोधः कल्प्यमानः त्रिधा व्यवतिष्ठते — वध्यघातकभावेन वा सहानवस्थात्मना वा प्रतिबन्ध्यप्रतिबन्धकरूपेण वा । तत्र वध्यघातकभावः अहिनकुलाग्न्युद- कादिविषयः । स त्वेकस्मिन् काले विद्यमानयोः सति संयोगे भवति, संयोगस्यानेकाश्रयत्वात् द्वित्ववत् । नासंयुक्तमुदकमुग्निं विध्यापयति सर्वत्राग्न्यभावप्रसङ्गात् । ततः सति संयोगे बलीयसोत्तरकालमितरद्बाध्यते । न चैवमस्तित्वनास्तित्वयोः क्षणमात्रमपि एकस्मिन् २५वृत्तिरस्ति, इति भवताऽभ्युपगम्यते, यतो वध्यघातकभावरूपो विरोधः तयोः कल्प्येत । अथैक- स्मिन् वृत्तिरभ्युपगम्येत तत्तुल्यबलहेतुसाध्यत्वात् तयोरन्यतरस्य बलीयस्त्वाभावात् वध्यघातकत्वाभावः । अतस्तल्लक्षणाभावात् नासौ विरोधः संभवति । २६२ नापि सहानवस्थानलक्षणो विरोधः तल्लक्षणाभावात् । स ह्ययुगपत्कालयोर्भवति यथा आम्रफले श्यामतापीततयोः । पीततोत्पद्यमाना पूर्वकालभाविनीं श्यामतां निरुणद्धि । न च तथा जीवस्यास्तित्वनास्तित्वे पूर्वोत्तरकालभाविनी । यदि स्याताम्, अस्तित्वकाले नास्तित्वा- भावात् जीवसत्तामात्रं सर्वं प्राप्नुवीत । नास्तित्वकाले च अस्तित्वाभावात्तदाश्रयो बन्ध- ०५मोक्षादिव्यवहारो विरोधमुपगच्छेत् । सर्वथैवासतः पुन आत्मलाभाभावात्, सर्वथा च सतः पुनरभावप्राप्त्यनुपपत्तेः नैतयोः सहानवस्थानं युज्यते । तथा जीवादिषु प्रतिबन्ध्यप्रतिबन्धकभावोऽपि न विरोधः संभवति । यथा सति फलवृन्तसंयोगे प्रतिबन्धके गौरवं पतनकर्म नारभते प्रतिबन्धात्; तदभावे तु पतनकर्म दृश्यते *“संयोगाभावे गुरुत्वात् पतनम्”[वैशेº सूº ५ । १ । ७] इति वचनात् । न च तथा १०अस्तित्वं नास्तित्वस्य प्रयोजनं प्रतिबध्नाति तस्मिन्नेव काले परद्रव्यादिरूपेणानुपलब्धि- बुद्ध्युत्पत्तिदर्शनात् । नास्तित्वं वा सदस्तित्वप्रयोजनं प्रतिबध्नाति तदैव स्वरूपाद्यपेक्षयो- पलब्धिबुद्धिदर्शनात् । तस्मात् वाङ्मात्रमेव विरोधः । एक्मर्पणाभेदादविरुद्धोऽनेकात्मको जीव इति स्थितमेतत् । इति तत्त्वार्थवार्तिके व्याख्यानालङ्कारे चतुर्थोऽध्यायः । ४३१ श्रीमद्भट्टाकलङ्कदेवविरचितं तत्त्वार्थवार्तिकम् पञ्चमोऽध्यायः इदानीं सम्यग्दर्शनस्य विषयभावेनोपक्षिप्तेषु जीवादिषु अजीवपदार्थो विचारप्राप्तः, तस्य भेदसंज्ञासंकीर्तनार्थमिदमुच्यते तत्पूर्वकत्वादितरस्येति — अजीवकाया धर्माधर्माकाशपुद्गलाः ॥ १ ॥ अजीवकाया इति समानाधिकरणा वृत्तिः । १ । अजीवाश्च ते कायाश्च ते अजीवकाया ०५इति समानाधिकरणलक्षणा वृत्तिरियं वेदितव्या । कथं वृत्तिः ? “विशेषणं विशेष्येण” [जैनेन्द्रº १ । ३ । १२] इति सति व्यभिचारे नीलोत्पलादिषु वृत्तिः ? इहाप्यस्ति व्यभिचारः, कायशब्दस्य जीवेष्वपि वृत्तेः, अजीबशब्दस्यापि काले । भिन्नाधिकरणवृत्तौ को दोषः ? भिन्नाधिकरणत्वे हि अर्थान्तरभावप्रसङ्गः । २ । यथा राज्ञः पुरुषः राजपुरुष इति अर्था- न्तरभावे भिन्नाधिकरणत्वं भवति, तथा अजीवानां कायः अजीवकायः इति भिन्नाधिकरणत्वे १०गृह्यमाणेऽर्थान्तरभावः प्रसज्येत । दृष्टत्वात् सुवर्णाङ्गुलीयकवदिति चेत्; न; तत्रान्यविशेषनिवृत्त्यर्थत्वात् । ३ । स्यान्म- तम् — भिन्नाधिकरणत्वेऽपि नार्थान्तरभावः । कुतः ? दृष्टत्वात् । कथम् ? सुवर्णाङ्गुलीयकवत् । यथा सुवर्णस्य अङ्गुलीयकं सुवर्णाङ्गुलीयकमिति भिन्नाधिकरणत्वेऽपि नार्थभेदः, तथा इहापि न दोष इति । तन्न; किं कारणम् ? तत्रान्यविशेषनिवृत्त्यर्थत्वात् । तत्र हि सुवर्णशब्दप्रयोगः १५रूप्यादेः प्रमाणान्तरस्य च निवृत्त्यर्थम्, सुवर्णस्येदमङ्गुलीयकं न रूप्यादेर्न माषादेर्वेति, न तथेह अजीवस्य काया अजीवकाया इति विशेषणेन कदाचिदर्थान्तरनिवृत्तिरस्ति । ४३२ अस्तु वाऽविरोधात् । ४ । अथवा अस्तु भिन्नाधिकरणा वृत्तिः । कुतः ? अविरोधात् । यस्माज्जीवोऽपि कायः पञ्चास्तिकायोपदेशात् अतस्तन्निवृत्त्यर्थोऽत्राजीवशब्दप्रयोगः । अजीवस्य कायो न जीवस्येति । किञ्च, कथञ्चिद्भेदोपपत्तेः । ५ । केनचित्प्रकारेण संज्ञालक्षणप्रयोजनादिना भेद उपपद्यते । यथा ०५सुवर्णस्याङ्गुलीयकमित्यत्र सुवर्णं सामान्यं तद्विशेषोऽङ्गुलीयकं तयोः सामान्यविशेषयोः संज्ञा- लक्षणादिभिः कथञ्चिन्नानात्वम् । यदि सर्वथैकत्वं स्यात्; सुवर्णसामान्यस्याङ्गुलीयकवत् कुण्डलादिषु वृत्तिर्न स्यात् । सुवर्णसामान्यवद्वा अङ्गुलीयकत्वस्य कुण्डलादिषु वृत्तिः स्यात् । त एवाऽन्यनिवृत्त्यर्थः प्रयोगो युक्तः, सुवर्णस्येदमङ्गुलीयकं न रूप्यादेरिति । यदि सर्वथैकत्वं स्यात्; व्यपदेश एव न स्यात् । तथा अजीवानां काया इत्यत्रापि कायशब्दः प्रदेशवाची । प्रदेशाश्च धर्मा- १०दीनां वक्ष्यन्ते । ते च तेभ्यः संज्ञालक्षणादिभिः कथञ्चिद्भिन्नाः । अन्यथा ऐकान्तिकैकत्वे धर्मा- दीनामेकत्ववत् प्रदेशानामप्येकत्वं स्यात्, प्रदेशानां बहुत्ववत् धर्मादीनां बहुत्वं प्रसज्येत । तत एव अन्यनिवृत्त्यर्थः प्रयोगो युक्तः अजीवानां काया न जीवस्येति । यदि सर्वथैकत्वं स्यात्; व्यप- देश एव न स्यात् । ततो भेदोपपत्तेः युक्ता भिन्नाधिकरणा वृत्तिः । ननु चाभेदेऽपि लोके व्यपदेशो दृष्टः यथा शिलापुत्रकस्य शरीरं राहोः शिर इति । न हि शिलापुत्रकादन्यच्छरीरमस्ति, नापि १५राहोरन्यच्छिरः, शिरोमात्रत्वादिति । तत्राप्यस्ति भेदः । कुतः ? शक्तितः । योऽनेकक्रियानिष्पादन- शक्तिभेदेन भिन्नरूपः शिलापुत्रकः तस्येदं शरीरं एकक्रियाविषयमिति शब्दप्रकल्पिताद् बुद्धिभेदाद्वा कथञ्चित्पृथक्त्वमध्यवसेयम् । अतश्चैतदेवं तदन्यनिवृत्त्यर्थं विशेषणम् उपादीयते — शिलापुत्र- कस्येदं शरीरं न मनुष्यादेः, राहोरिदं शिरः नान्यस्य इति । ऐकान्तिकैकत्वे हि अन्यनिवृत्तिर्न स्यात् यथा सुवर्णस्य सुवर्णं धटस्य घट इति । २०अजीव इत्यभावमात्रप्रसङ्ग इति चेत्; न; भावान्तरप्रतिपत्तेरनश्ववत् । ६ । स्यान्मतम् — न जीवोऽजीव इत्युक्तेऽभावमात्रं प्रसज्येत यथा न भावः अभाव इति; तन्न; किं कारणम् ? भावा- न्तरप्रतिपत्तेः । कथम् ? अनश्ववत् । यथा नायमश्वः अनश्व इत्युक्ते नाभावसंप्रत्ययः किन्तु “नञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः” [पातº महाº ३ । १ । १२] इति, अन्यस्मिन् भाव एव तुल्योदरैकशफादिलक्षणे गर्दभे संप्रत्ययो भवति । एवमिहापि नायं जीव इति प्रतिषेधात् नाभावे २५संप्रत्ययः, किन्तु अन्यस्मिन् भाव एव अनुपयोगलक्षणे धर्मादौ प्रतिपत्तिर्भवति । सादृश्याभावात् अप्रतिपतिरिति चेत्; न; सत्त्वद्रव्यत्वादिभिः सादृश्योपपत्तेः । यच्चोक्तम् — यथा ‘न भावः अभावः’ इत्युक्ते अभावमात्रसंप्रत्यय इति; तदप्ययुक्तम्; सत एव पररूपत्वादिभिः अभावशब्दगो- चरत्वोपपत्तेः । अभ्यन्तरीकृतेवार्थः कायशब्दः । ७ । इवार्थमभ्यन्तरीकृत्य अत्र कायशब्दः प्रयुक्तः काया ३०इव काया इति । क उपमार्थः ? यथौदारिकादिशरीरनामकर्मोदयवशात् पुद्गलैश्चीयन्ते कायाः तथा धर्मादीनामनादिपारिणामिकप्रदेशचयनात् कायत्वम् । तद्ग्रहणं प्रदेशावयवबहुत्वज्ञापनार्थम् । ८ । तस्य कायशब्दस्य ग्रहणं क्रियते । किमर्थम् ? प्रदेशावयवबहुत्वज्ञापनार्थम् । मुख्यरूपेणाऽविद्यमानत्वेऽपि श्रोतृऋणां सुखावबोधार्थं प्रज्ञया द्रव्य- परमाण्ववगाहमात्रत्वेन प्रदिश्यन्त इति प्रदेशाः, प्रदेशा एवावयवाः प्रदेशावयवाः तेषां बहुत्वस्य ३५ज्ञापनार्थम् । न, असंख्येयाः प्रदेशाः धर्माधर्मैकजीवानामिति शास्त्रप्रवृत्तेः । ९ । न त तत्प्रयोजनम् उपपद्यते । कुतः ? अन्यत एव तत्सिद्धेः । वक्ष्यते हि — “असंख्येयाः प्रदेशाः धर्माधर्मैकजीवानाम्” [तº सूº५ । ८] इति । अत एवैषां प्रदेशबहुत्वं सिद्धं नार्थः कायग्रहणेन । ४३३ प्रदेशसंख्यावधारणार्थमिति चेत्; न; अतोऽप्यनिश्चयात् । १० । स्यादेतत् “असंख्येयाः प्रदेशाः धर्माधर्मैकजीवानाम्” [तº सूº५ । ८] इत्यनेन न प्रदेशसंख्यावधारणं क्रियते । कुतः ? त्रयाणां संभूय प्रदेशासंख्येयत्वप्रतिपत्तेः । ततः एकैकस्याऽसंख्येयप्रदेशख्यापनार्थं कायग्रहणमिति; तन्न; किं कारणम् ? अतोऽप्यनिश्चयात् । कायग्रहणादपि नास्ति निश्चयः, प्रदेशप्रचयमात्रप्रतिपत्तेः । ०५कुतस्तर्हि तन्निश्चयः ? “लोकाकाशेऽवगाहः” [तº सूº५ । १२] इत्यादि वचनात् तन्निश्चयः । ११ । यदयं “लोकाकाशेऽवगाहः” इत्युक्त्वा “धर्माधर्मयोः कृत्स्ने” [तº सूº५ । १३] इत्यादि वक्ष्यते, तेन तस्य प्रदेशपरिमाणस्य निश्चयो भवति । अप्रदेशैकद्रव्यत्वप्रसङ्ग इति चेत्; न; उक्तत्वात् । १२ । स्यादेतत् — कायग्रहणादृते अप्र- १०देशैकद्रव्यता प्राप्नोति, अतस्तन्निवृत्त्यर्थं कायग्रहणमिति; तन्न; किं कारणम् ? उक्तत्वात् । उक्तमे- तत् — ‘असंख्येयाः प्रदेशाः धर्माधर्मैकजीवानाम् इति वक्ष्यते’ इति । आर्षानुवादार्थमिति चेत्; न; तदवस्थत्वात् । १३ । स्यादेतत् — आर्षमेवं प्रवृत्तम् “पञ्चा- स्तिकायाः” इति । अतः तदनुवादार्थं कायग्रहणमिति; तच्च न, कस्मात् ? तदव- स्थत्वात् ‘असंख्येयाः प्रदेशाः’ इत्यनेनैव आर्षानुवादस्य कृतत्वात् । १५स्वभावापरित्यागार्थमिति चेत्; न; नित्यावस्थितवचनात् सिद्धेः । १४ । स्यान्मतं कायस्वभावापरित्यागार्थं कायग्रहणमिति; तन्न; किं कारणम् ? नित्यावस्थितवचनात् सिद्धेः वक्ष्यते हि “नित्यावस्थितान्यरूपाणि” [तº सूº५ । ४] इति, तत एव स्वभावापरित्यागः सिद्धः । तत्तर्हि कायग्रहणं न कर्तव्यम् ? कर्तव्यं च । किं प्रयोजनम् ? तत्सिद्धावसंख्येयप्रदेशावधारणसिद्धेः । १५ । तस्य कायशब्दस्य पञ्चस्वपि अस्तिकायेषु २०प्रदेशावयवबहुत्वार्थस्य सिद्धौ सत्याम् उत्तरवचनमवधारणार्थं युज्यते — असंख्येयाः प्रदेशाः न संख्येयाः नाप्यनन्ताः इति, विधिपूर्वकत्वादवधारणस्य । अद्धाप्रदेशप्रतिषेधार्थं च । १६ । अद्धाशब्दो निपातः कालवाची, स वक्ष्यमाणलक्षणः, तस्य प्रदेशप्रतिषेधार्थमिह कायग्रहणं क्रियते । यथाऽणोः प्रदेशमात्रत्वात् द्वितीयादयोऽस्य प्रदेशा न सन्तीत्यप्रदेशोऽणुः, तथा कालपरमाणुरपि एकप्रदेशत्वादप्रदेश इति । २५धर्मादयः संज्ञाः सामा(म)यिक्यः । १७ । धर्मादयः संज्ञाः सामा(म)यिक्यो द्रष्टव्याः । आर्हते हि प्रवचनेऽनादिनिधने अर्हदादिभिः यथाकालमभिव्यक्तज्ञानदर्शनातिशयप्रकाशैरवद्योति- तार्थसारे रूढा एताः संज्ञा ज्ञेयाः । क्रियानिमित्ता वा । १८ । अथवा क्रियानिमित्ता एताः संज्ञाः वेदितव्याः । कथमिति चेत् ? उच्यते — ३०स्वयं क्रियापरिणामिनां साचिव्यधानाद्धर्मः । १९ । स्वयं क्रियापरिणामिनां जीवपुद्ग- लानां यस्मात्साचिव्यं दधाति तस्माद्धर्म इत्याख्याते । तद्विपरीतोऽधर्मः । २० । तस्य विपरीतलक्षणः अधर्म इत्याम्नायते । ४३४ आकाशन्तेऽस्मिन् द्रव्याणि स्वयं चाकाशत इत्याकाशम् । २१ । जीवादीनि द्रव्याणि स्वैः स्वैः पर्यायैः अव्यतिरेकेण यस्मिन्नाकाशन्ते प्रकाशन्ते तदाकाशम्, स्वयं चाऽऽत्मीयपर्याय- मर्यादया आकाशत इत्याकाशम् । अवकाशदानाद्वा । २२ । अथवा इतरेषां द्रव्याणाम् अवकाशदानादाकाशमिति पृषोदरादिषु ०५निपातितः शब्दः । अलोकाकाशस्यावकाशदानाभावात्तदभाव इति चेत्; न; तत्सामर्थ्याऽविरहात् । २३ । स्यान्मतम् — यद्यवकाशदानादाकाशमित्युच्यते अलोकाकाशे जीवाद्यवकाशदानाभावात् आकाशव्य- पदेशो नोपपद्यते इति; तन्न, किं कारणम् ? तत्सामर्थ्याऽविरहात् । यथैष्यत्कालस्यातिदूरस्यापि वर्तमानप्राप्त्यर्हत्वात् तत्प्राप्त्यभावेऽपि भविष्यद्व्यपदेशो भवति, एवमलोकाकाशस्यावगाहिद्र- १०व्याभावेऽपि अवगाहनशक्तिरविरुद्धा इत्यवकाशदानात् आकाशत्वं युज्यते । अथवा, क्रियानिमित्त- त्वेऽपि रूढिविशेषबललाभात् गोशब्दवत् तदभावेऽपि प्रवर्तते । पूरणगलनान्वर्थसंज्ञत्वात् पुद्गलाः । २४ । यथा भासं करोति भास्कर इति भासनार्थ- मन्तर्नीय भास्करसंज्ञाऽन्वर्था प्रवर्तते तथा भेदात् संघातात् भेदसंघाताभ्यां च पूर्यन्ते गलन्ते चेति पूरणगलनात्मिकां क्रियामन्तर्भाव्य पुद्गलशब्दोऽन्वर्थः पृषोदरादिषु निपातितः, यथा शवशायनं १५श्मशानमिति । परमाणुषु तदभावात् पुद्गलत्वाभाव इति चेत्; न; गुणापेक्षया तत्सिद्धेः । २५ । स्यान्म- तम् — अणूनां निरवयवत्वात् पूरणगलनक्रियाभावात् पुद्गलव्यपदेशाभावप्रसङ्ग इति; तन्न; किं कारणम् ? गुणापेक्षया तत्सिद्धेः । रूपरसगन्धस्पर्शयुक्ता हि परमाणवः एकगुणरूपादिपरिणताः द्वित्रिचतुःसंख्येयाऽसंख्येयाऽनन्तगुनत्वेन वर्धन्ते, तथैव हानिमपि उपयान्तीति गुणापेक्षया पूरणग- २०लनक्रियोपपत्तेः परमाणुष्वपि पुद्गलत्वमविरुद्धम् । अथवा गुण उपचारकल्पनम् पूरणगलनयोः भावित्वात् भूतत्वाच्च शक्त्यपेक्षया परमाणुषु पुद्गलत्वोपचारः । पुङ्गिलानाद्वा । २६ । अथवा पुमांसो जीवाः, तैः शरीराहारविषयकरणोपकरणादिभावेन गिल्यन्त इति पुद्गलाः । अण्वादिषु तदभावादपुद्गलत्वमिति चेत्; उक्तोत्तरमेतत् । बहुवचनं स्वातन्त्र्यप्रतिपत्त्यर्थम् । २७ । धर्माधर्माकाशपुद्गला इति बहुवचनं स्वातन्त्र्य- २५प्रतिपत्त्यर्थं द्रष्टव्यम् । किं पुनः स्वातन्त्र्यम् ? धर्मादयो गत्याद्युपग्रहान् प्रति वर्तमानाः स्वयमेव तथा परिणमन्ते न परप्रत्ययाधीना तेषां प्रवृत्तिः इत्येतदत्र विवक्षितं स्वातन्त्र्यम् । ननु च बाह्य- द्रव्यादिनिमित्तवशात् परिणामिनां परिणाम उपलभ्यते, स च स्वातन्त्र्ये सति विरुध्यत इति; नैष दोषः; बाह्यस्य निमित्तमात्रत्वात् । न हि गत्यादिपरिणामिनो जीवपुद्गलाः गत्याद्युपग्रहे धर्मा- दीनां प्रेरकाः । ननु इतरेतरयोगलक्षणे द्वन्द्वे न्यायप्राप्तं बहुवचनं तेन कथं स्वातन्त्र्यं प्रतीयते ? ३०समाहारे समुदायप्रधाने एकवचनेन सिद्धे बहुवचनं ज्ञापकं स्वातन्त्र्यस्य । यथा “हृतः” [जैनेन्द्रº ३ । १ । ६१] इत्यत्र एकवचनेन सिद्धे बहुवचनं ज्ञापकम् — अनुक्तस्यापि हृत उत्पत्तिर्यथा स्यात् इति, तेन सिद्धः अन्ते भवः अन्तिमः, यमेन प्रोक्तं याम्यं धर्मशास्त्रमित्यादि । प्रशस्ताभिधानाद्धर्मग्रहणमादौ । २८ । धर्मशब्दोऽयं लोके प्रशस्तार्थः ततोऽस्य ग्रहणमादौ क्रियते । ४३५ तदनन्तरमधर्मग्रहणं लोकव्यवस्थाहेतुत्वात् । २९ । तदनन्तरम् अधर्मग्रहणं क्रियते । कुतः ? लोकव्यवस्थाहेतुत्वात् । पञ्चास्तिकायाः कालश्च लोकः, अवतिष्ठन्ते पदार्था अनया āकृत्येत्यवस्था, विविधा अवस्था व्यवस्था विविधसन्निवेशो वेत्रासनाद्याकार इत्यर्थः, लोकस्य व्यवस्था लोकव्यवस्था तस्या हेतुत्वात् लोकव्यवस्थाहेतुत्वात् । असति हि अधर्मास्तिकाये गति- ०५मतां द्रव्याणां गतिविषयनियमाभावात् । विष्वग्भावे सति लोकव्यवस्था विशिष्टा न स्यात्, अतोऽस्य धर्मानन्तरं ग्रहणं न्याय्यम् । तत्प्रतिपक्षत्वाच्च । ३० । तस्य धर्मास्तिकायस्य प्रतिपक्षोऽधर्मास्तिकायः स्थितिकारणत्वात् । ततश्चानन्तरं ग्रहणं क्रियते । तत्परिच्छेद्यत्वात्तदनन्तरम् आकाशग्रहणम् । ३१ । ताभ्यां धर्माधर्माभ्याम् आकाशं परि- १०च्छिद्यते — यत्र धर्माधर्मौ तल्लोकाकाशम् इतरदलोकाकाशमिति । अतः तदनन्तरम् आकाश- ग्रहणं क्रियते । अमूर्तत्वसाधर्म्याच्च । ३२ । यथा धर्माधर्मावमूर्तौ रूपादिविरहात् एवमाकाशमप्यमूर्तम्, अतश्चानन्तरमुक्तम् । तदवगाहित्वात् तत्समीपे पुद्गलवचनम् । ३३ । तदाकाशमवगाह्य पुद्गला वर्तन्ते इति १५तत्समीपे तेषां वचनं क्रियते । आकाशग्रहणमादौ धर्मादीनामाधारत्वादिति चेत्; न; लोकविनिवेशस्यानादित्वात् । ३४ । स्यान्मतम् — धर्मादीनां पञ्चानामपि द्रव्याणामाकाशम् आधारः साधारणः, ततस्तस्य ग्रहणं सर्वेषा- मादौ न्याय्यमिति; तन्न; किं कारणम् ? लोकविनिवेशस्यानादित्वात् । नाऽयं नियमोऽस्ति लोक- विनिवेशे आकाशमाधारः इतराणि द्रव्याणि आधेयानि इति । किन्तु लोकविनिवेशक्रम एवायम- २०नादिसिद्ध इति नाकाशमाधारः । आदिमतां हि कुण्डबदरादीनां दृष्ट आधाराधेयभावः । आर्षविरोध इति चेत्; न; आदेशवचनात् । ३५ । स्यादेतत् — यद्याधाराधेयभावो नेष्यते यदुक्तमार्षे — “स्वप्रतिष्ठमाकाशम् आकाशप्रतिष्ठं तनुवातवलयं तनुवातवलयप्रतिष्ठं घनवातवलयं तत्प्रतिष्टं घनो- दधिवलयम्” इत्यादि, तद्विरोधः इति; तन्न; किं कारणम् ? आदेशवचनात् ? यदि एकान्तेनाधाराधेयभावो न स्यात् स्यादार्षविरोधः, यदा तु ‘स्यादाधाराधेयभाव इति २५स्यान्नाधाराधेयभावः’ इति आदेशवचनादिष्यते ततो नास्त्यार्षविरोधः । कथमिति चेत् ? उच्यते — आकाशादीनां द्रव्यार्थादेशात् स्यादाधाराधेयत्वाभावो यतः पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् प्रतिनियतानादिपारिणामिकद्रव्यार्थेनादिष्टानामाकाशादीनां षण्णामाधारा- धेयपर्यायाभावः । द्रव्यार्थिकगुणभावे च पर्यायार्थिकप्राधान्यात् षण्णामपि द्रव्याणाम् आदि- मत्त्वोपपत्तेराधाराधेयभावो युज्यते । ततस्तदपेक्षया आधाराधेयभाव आर्षे प्रणीत इति नास्ति ३०विरोधः । अथवा व्यवहारनयादेशात् स्यादाधाराधेयता, यतोऽनादिपारिणामिकलोकविनि- वेशेऽपि व्यवहार एवं प्रवृत्तः ‘आकाशमाधारः अन्यानि द्रव्याणि आधेयानि’ इति । एवम्भूतनया- देशात् स्यादनाधाराधेयता, यतोऽनादिपारिणामिकलोकविनिवेशस्यैवंभूतत्वात् ‘स्वात्मप्रतिष्ठान्येव सर्वद्रव्याणि’ इति । ननु च व्यवहारनयापेक्षया आधाराधेयभावाभ्युपगमे अनवस्थाप्रसङ्गः — घनोद- धिवलयस्य घनवातवलयमाधारः, घनवातवलयस्य तनुवातवलयमाधारः, तनुवातवलयस्य आका- ४३६ शम्, आकाशस्याऽन्यत्, तस्यान्यत्, तस्याप्यन्यदिति; नैषः दोषः; आकाशस्य सर्वगतत्वात् अनन्तत्वाच्च । यद्धि सर्वगतमनन्तं च तस्य सर्वत्र सान्निध्यात् ‘तस्याप्यन्यत् तस्याप्यन्यत्’ इति व्यवहाराभावात् अनवस्था नास्ति । परिशेषादसर्वगतस्यान्तवतो मूर्तिमतः सावयवस्यैन्द्रियकस्य स्यादनवस्था, तद्विपरीतलक्षणञ्चाकाशम्, अतो नास्त्यनवस्था । यदि सर्वगतत्वादिलक्षणस्यानवस्था ०५दृष्टा सोच्यताम्, नैषोच्यते ततो विमुच्यतामनवस्थादोषकल्पना । तस्मान्निःप्रतिद्वन्द्वः पूर्वोक्त एवास्तु क्रमहेतुः । कालोपसंख्यानमिति चेत्; न; वक्ष्यमाणलक्षणत्वात् । ३६ । स्यादेतत् — कालोऽपि कश्चिद- जीवपदार्थोऽस्ति । अतश्चास्ति यद्भाष्ये बहुकृत्वः “षड्द्रव्याणि” इत्युक्तम्, अतोऽस्योप- संख्यानं कर्तव्यमिति ? तन्न; किं कारणम्; वक्ष्यमाणलक्षणत्वात् । वक्ष्यते हि तस्य लक्षणमु- १०परिष्टात् । अत्राह “सर्वद्रव्यपर्यायेषु केवलस्य” [तº सूº१ । २९] इत्येवमादिषु द्रव्याण्युक्तानि कानि तानीति ? अत्रोच्यते — द्रव्याणि ॥ २ ॥ स्वपरप्रत्ययोत्पादविगमपर्यायैः द्रूयन्ते द्रवन्ति वा तानीति द्रव्याणि । १ । स्वश्च परश्च १५स्वपरौ, स्वपरौ प्रत्ययौ ययोः तौ स्वपरप्रत्ययौ । उत्पादश्च विगमश्चोत्पादविगमौ स्वपरप्रत्ययौ उत्पादविगमौ येषां ते स्वपरप्रत्ययोत्पादविगमाः । के पुनस्ते ? पर्यायाः । द्रव्यक्षेत्रकालभाव- लक्षणो बाह्यः प्रत्ययः परः प्रत्ययः तस्मिन् सत्यपि स्वयमतत्परिणामोऽर्थो न पर्यायान्तरम् आस्क- न्दति इति । तत्समर्थः स्वश्च प्रत्ययः । तावुभौ संभूय भावानाम् उत्पादविगमयोः हेतू भवतः नान्यतरापाये कुशूलस्थमाष-पच्यमानोदकस्थघोटकमाषवत् । एवमुभयहेतुकोत्पादविगमैः तैस्तैः २०स्वपर्यायैः द्रूयन्ते गम्यन्ते द्रवन्ति गच्छन्ति तान् पर्यायानिति द्रव्याणीति व्यपदिश्यन्ते । भेदनयव- शात् कर्तृकर्मणोर्भेदं कृत्वा निर्देशः क्रियते स्वजात्यपरित्यागेनावस्थितिरन्वयैरुपलब्धस्वरूपाणां मुहुर्मुहुरुत्पादाविगमवतां च भेदोपपत्तेः । यदा द्रव्याणां कर्मविवक्षा तदा न्यायप्राप्तः कर्मणि यः । यदा कर्तृविवक्षा तदा बहुलापेक्षया कर्तरि यः । अथवा उत्पादकविनश्वरनानापर्यायोत्पाद- विनाशाविच्छेदेऽपि सान्ततिकद्रव्यार्थादेशवशेन द्रवणात् गमनात् संप्रत्ययाद् द्रव्याणि । कुत एतत् ? २५गत्यर्थानां ज्ञानार्थत्वात् । इवार्थे वा निपातितो द्रव्यशब्दः । २ । अथवा “द्रव्यं भव्ये” [जैनेन्द्रº ४ । १ । १५८] इत्य- नेन निपातितो द्रव्यशब्दो वेदितव्यः । द्रु इव भवतीति द्रव्यम् । क उपमार्थः ? द्रु इति दारु नाम यथा अग्रन्थि अजिह्मं दारु तक्ष्णोपकल्प्यमानं तेन तेन अभिलषितेनाकारेण आविर्भवति, तथा द्रव्यमपि आत्मपरिणामगमनसमर्थं पाषाणखननोदकवदविभक्तकर्तृकरणमुभयनिमित्तवशोपनीता- ३०त्मना तेन तेन पर्यायेण द्रु इव भवतीति द्रव्यमित्युपमीयते । द्रव्यत्वादिति चेत्; न; तदभावात् । ३ । स्यान्मतम् — यथा दण्डसम्बन्धात् दण्डीत्यभिधानं प्रत्ययश्च देवदत्ते भवति तथा द्रव्यत्वं नाम सामान्यविशेषोऽस्ति पृथिव्यादिषु द्रव्यं द्रव्यमिति प्रत्ययाभिधानानुप्रवृत्तिदर्शनात्, गुणकर्मभ्यो व्यावृत्त्युपलब्धेश्चानुमीयमानान्वयव्यतिरेकः तेन ४३७ योगाद् द्रव्यं न पर्यायद्रवणादिति; तन्न; किं कारणम् ? तदभावात् । यथा दण्डसम्बन्धात् प्राक् देवदत्तो जात्यादिभिः सिद्धः । देवदत्तसंबन्धाच्च प्राग्दण्डो वृत्तत्वद्राधिमादिभिः प्रसिद्धः, ततस्तयोः संबन्धो युक्तः । न च तथा द्रव्यत्वयोगात् प्राक् द्रव्यमुपलभ्यते । यद्युपलभ्येत संबन्धकल्पनम- नर्थकं स्यात् । द्रव्यत्वमपि द्रव्यसंबन्धात् प्राङ् नोपलब्धस्वरूपम्, अतः तयोरसतोर्न युक्तः संबन्धः । ०५अस्तित्वे चाभ्युपगम्यमाने पृथगनुपलभ्यमानशक्तिकयोः संबन्धेऽपि न तच्छक्तिप्रादुर्भावोऽस्ति, यथा जात्यन्धयोः पृथग्दर्शनशक्तिविरहात्, न योगेऽपि रूपालोकनशक्तिसंभवः । तथा द्रब्यद्रब्यत्वयोरपि द्रव्यप्रत्ययाभिधानोपत्त्यसामर्थ्ये तत्संबन्धेऽपि न सामर्थ्यम् । तत्र द्रव्यं तावत् प्राक् द्रव्यत्वसमवा- यात् द्रव्यात्मनैव नात्मनि द्रव्यप्रत्ययाभिधानयोरुत्पादकम् । यदि स्यात्; द्रव्यत्वसंबन्धस्य वैयर्थ्यं स्यात् । तथा द्रव्यत्वमपि प्राग्द्रव्यसमवायात् द्रव्यत्वात्मन्येव न द्रव्यप्रत्ययाभिधाननिमित्तमस्ति । १०माभूद् द्रव्यत्वस्य द्रव्येण समवायस्य वैयर्थ्यमिति अतस्तयोः पृथगनुपलभ्यमानसामर्थ्ययोः संबन्धे- ऽपि न तत्सामर्थ्यमस्ति इत्यवेमः न द्रव्यत्वयोगाद् द्रव्यमिति । ननु च द्रव्यत्वसंबन्धात् प्राक् द्रव्य- व्यपदेशो नास्ति, अस्ति तु तत्, ततः सतो द्रव्यत्वस्य युक्तः संबन्धः; नैषोऽस्ति परिहारः । कुतः ? सतोऽसत्त्वात् । नहि तद्द्रव्यं स्वतोऽस्ति सत्तायोगादेव सत्स्यात् स च नास्तीत्युक्तम् । अथासता- मपि संबन्धः स्यात् खरविषाणादीनामपि स्यात् । किञ्च, द्रव्यत्वं नाम सर्वगतः पदार्थः, स यदि १५अतदात्मकेन संबन्ध्यते गुणकर्मभिः, खरविषाणादिभिश्च संबन्ध्येत, न चेष्यते संबन्धः । अथ तदात्मकेनैव संबन्ध्यते द्रव्यत्वसंबन्धो व्यर्थः प्रागपि तदात्मकत्वात्, ततः स्वतो द्रव्यसिद्धिः । आह — समवायिकारणत्वाद् द्रव्यत्वेन द्रव्यमेव सम्बध्यते न गुणकर्माणि नापि खरविषाणा- दीनि, द्रव्यत्वस्य हि द्रव्यमेव समवायिकारणमिष्टं नेतराणि इति । उच्यते — न, स्वतोऽसिद्धत्वात् । यदि द्रव्यत्वादन्यद्द्रव्यं स्वतःसिद्धं स्यात् अतस्तत्समवायिकारण- २०मिति व्यपदेशार्हं स्यात्, न च तत्स्वतःसिद्धं किञ्चिदस्ति, अतः स्वतोऽसिद्धत्वात् न तत्समवा- यिकारणम् । अथ तत्स्वतोऽसिद्धमपि समवायिकारणं खरविषाणादिषु को मत्सरः ? अथाऽसत्त्वान्न समवायिकारणं तानि; नन्वसत्त्वाद् द्रव्यमपि द्रव्यत्वस्य न समवायिकारणम् । किञ्च, अतस्तत्सिद्धेः । यत एव द्रव्यत्वस्य समवायिकारणं द्रव्यं न गुणकर्माणि अतस्तद्द्रव्यत्वं द्रव्य एव समवैति न गुणकर्मादिषु इति विवक्षितम्, ननु अत एव द्रव्यात्मैव २५द्रव्यत्वम्, आभ्यन्तरोऽर्थोऽनादिपारिणामिकः द्रव्यापरित्यागी न द्रव्याद् बहिरन्यः सामान्य- विशेषाख्यः इत्येतत्सिद्ध्यति । आह — विशेषोपलब्धेर्द्रव्यमेव समवायिकारणं द्रव्यत्वस्य । को विशेषः ? आश्रयभावः, यस्माद् द्रव्यमितेरषां पदार्थानामाधारः उच्यते — न द्रव्यमाश्रयः स्वतोऽसिद्धत्वात् । लोके स्वतः- सिद्ध आधेयानामाश्रयो भवति यथा घटो जलादीनां न तथा द्रव्यत्वात् पृथक् द्रव्यं स्वतःसिद्ध- ३०मस्ति यदाधारो द्रव्यत्वस्येति व्यपदिश्येत । किञ्च, द्रव्याभिधानानुपपत्तिश्च । ४ । यस्य वादिना द्रव्यत्वयोगात् द्रव्यमित्यभिमतं तस्य द्रव्यमित्यभिधानं नोपपद्यते । कथमिति चेत् ? उच्यते — इहाऽभेदेन वा व्यपदेशः स्यात्, भेदेन वा ? यदि अभेदेन व्यपदेशः; यथा यष्टिसहचरितः पुरुषो यष्टिरित्युच्यते तथा द्रव्यत्व- ३५सहचरितं द्रव्यत्वमिति व्यपदिश्येत न द्रव्यमिति । अथ मतं द्रव्यत्वस्य द्रव्यत्वमित्यभिधानमस्ति द्रव्यमिति च, तेन द्रव्यत्वेन द्रव्यमित्यमिधीयमानेन योगाद् द्रव्यमिति; तदिदमसिद्धमसिद्धेन ४३८ साध्यते । द्रव्यत्वस्य द्रव्यमित्यभिधानं कुतः ? स्वत एवेति चेत्; द्रव्ये कोऽपरितोषः ? अर्थान्तरा- दिति चेत्; तत्रापि स एव दोषः, द्रव्यत्वाभिधानप्रसङ्गश्च । कुतो ह्येतत् — उभयशब्दवाच्यत्वे द्रव्यत्वस्य तद्योगात् द्रव्ये द्रव्यमित्यभिधानं भवति न द्रव्यत्वमिति । अथ भेदेन व्यपदेशः; यथा यष्टिरस्यास्तीति यष्टिमानिति व्यदिश्यते, एवं द्रव्यत्वमस्यास्तीति द्रव्यत्ववद्द्रव्यमित्यभिधानं ०५प्रसज्येत न द्रव्यमिति । अथ मतमेतत् — यथा शुक्लगुणयोगात् शुक्लः पटः इति मत्वर्थीयस्य निवृत्तिः, एवमिहापि मत्वर्थीयस्याभाव इति; विषम उपन्यासः । युज्यते तत्र मत्वर्थीयस्याभावः गुणवचनेभ्यो निवृत्तेरन्वाख्यातत्वात् । अनन्वाख्याने वा ‘उभयवचनाः शुक्लादयः’ इति व्याकर- णाभ्युपगमात् । अयं तु द्रव्यत्वशब्दो न गुणवचनः तेन अस्मान्मतोर्निवृत्तिर्दुरुपपादा । किञ्च, त्वस्यापि निवृत्तिर्नान्वाख्याता ततो द्रव्यमित्यभिधानं नोपपद्यते । १०द्रव्यत्वोत्पत्त्यभावश्चोभयथा दोषात् । ५ । द्रव्यस्य भावो द्रव्यत्वमिति त्वस्य चोत्पत्तिर्न प्राप्नोति । कुतः ? उभयथा दोषात् । इदमिह संप्रधार्यम्-असौ भावः द्रव्यस्य आत्मभूतो वा स्यात्, अनात्मभूतो वा ? यद्यात्मभूतः; अनादिपारिणामिकद्रव्यस्य आत्मभवने त्वस्य विधानात्, नान्यद् द्रव्याद् द्रव्यत्वमिति संसर्गवादहानिः । अथ अर्थान्तरभूतः; द्रव्यस्य भावो द्रव्यत्वमिति विग्रहो नोपपद्यते, द्रव्यानात्मभूतत्वात् द्रव्यत्वस्य । न हि घटस्य भाव इति पटे वृत्तिरुपपद्यते । १५किञ्च, द्रव्यस्य भावो द्रव्यत्वमिति यथा अन्यो भावः तथा द्रव्यत्वस्यान्यो भावः स्याद्वा, न वा ? यदि नास्ति; तस्य स्वभावाभावादभावः स्यात् । अथास्ति; तस्मिन्नभिधेये त्वत्तोत्पत्तेः द्रव्यत्वत्वमिति प्राप्नोति, तथा सति अनवस्था । अथ मतमेतत् — यथा अवेर्मांसमिति विगृह्य अविकशब्दादुत्पत्तिर्भवति आविकमिति, तथा द्रव्यत्वस्य भाव इति विगृह्य द्रव्यशब्दादेव त्वोत्पत्तिर्भवतीति; नैतद्युक्तम्; अर्थान्तरविषयत्वात् । युज्यते अवेर्मांसमविकस्य मांसमिति २०केवलो विग्रहभेदो नार्थभेद इति एकेन विग्रहः अपरस्मादुत्पत्तिरिति । इह तु द्रव्य-द्रव्य- त्वशब्दयोः पदार्थान्तरविषयत्वात् विग्रहभेदे अर्थभेद इति नासौ न्यायः कल्पयितुं शक्यः । एकस्यानेकत्र वृत्त्यभावो बहुत्वप्रसङ्गो वा । ६ । तद्द्रव्यत्वमेकमित्यभ्युपगम्यते तद्वा- दिभिः । तत्कथमेकं निरवयवम् अनेकत्र पृथिव्यादौ वर्तितुमुत्सहते ? अथ वरेत; बहुत्वमेवास्य स्यात् अनेकत्र वृत्तेः रूपादिवत् । आकाशवदेकं सत् अनेकमवगाहत इति चेत्; न; वैषम्यात् । २५युज्यते महापरिमाणं वियदवगाहते सकलमिति गुणानां तु द्रव्यपदार्थविषयत्वात् कथममहद्द्रव्यत्वं कृत्स्नं वेवेष्टि । एकत्वसंख्यागुणवदुपचारतो महत्त्वमस्येति चेत्; तदिदमसिद्धेन साध्यते । सिद्धसाध्यव्यवस्थाश्रया हि कथामार्गाः । उपचरितस्य मुख्यकार्यसाधनाशक्तेश्च । अपि च द्रव्यत्वेन एकमाकाशं प्रदेशभेदेन त्वनन्तमितीष्टत्वात् दृष्टान्ताभावः । नीलद्रव्यवदिति चेत्; न; असिद्धत्वात् । ७ । स्यान्मतम् — यथा नीलीद्रव्यमेकम् अनेकशाटी- ३०पटकम्बलसंबन्धि दृष्टं तथैकं द्रव्यत्वमपि अनेकद्रव्यसंबन्धीति । तन्न; किं कारणम् ? असिद्ध- त्वात् । नैतत् सिद्धं शाटीपटकम्बलेषु एकमेव नीलीद्रव्यमिति । यथा शाट्यादिभेदः तथा ४३९ तद्रञ्जकस्य नीलीद्रव्यस्यापि भेदोपपत्तेः । एकस्मिन्नपि पटे यन्मध्ये नीलीद्रव्यं न तत्प्रान्तयोः, यच्च प्रान्तयोः न तन्मध्ये इति भेदोऽभ्युपगन्तव्यः किमुत भिन्नेषु द्रव्येषु । नीलत्ववदिति चेत्; न; तदपि साध्यसमम् । अथ मतमेतत् — दृष्टान्ताभावेऽपि एकत्वमस्य सिद्धमग्निवदिति चेत्; न; प्रतिज्ञाहानेः । ८ । यथा अग्ने- ०५रन्यस्मिन्नुष्णे दृष्टान्ते असत्यपि औष्ण्यम् । एवमसत्यपि एकस्मिन् अनेकसंबन्धिनि दृष्टान्ते द्रव्यत्वस्य द्रव्येषु वृत्तिः सिद्ध्यतीति; तदपि नोपपद्यते; प्रतिज्ञाहानेः । ननु दृष्टान्तो नास्तीति प्रतिज्ञाय दृष्टान्तं ब्रुवतस्ते प्रतिज्ञा हीयते । किञ्च, युक्त्यभावेऽपि यदि द्रव्यत्वमेकमनेकसंबन्धीति मन्यते स्वत एव द्रव्यं द्रव्यमिति कस्मान्न प्रतिपद्यते ? समवायादिति चेत्; न; तस्य प्रत्युक्तत्वात् । गुणसंद्रावो द्रव्यमिति चेत्; न; एकान्ते दोषोपपत्तेः । ९ । स्यादेतद् — गुणसंद्रावो द्रव्यमित्ये- १०तल्लक्षणमनवद्यम् । गुणैः संद्रूयते प्राप्यते गुणान्वा संद्रवति प्राप्नोति इति द्रव्यमिति; तन्न; किं कारणम् ? एकान्ते दोषोपपत्तेः । कथमिति चेत् ? उच्यते — गुणेभ्यो द्रव्यम् अन्यद्वा स्यात्, अनन्यद्वा ? यद्यनन्यत; कर्तृकर्मभेदाभावात् निर्देशो नोपपद्यते । अपि च, एकान्तानन्यत्वे हि गुणा एव वा स्युः, द्रव्यमेव वा । यदि गुणा एव; द्रव्याभावे तदविनाभाविनां गुणानामपि निराधारत्वादभावः स्यात् । अथ द्रव्यमेव; एवमपि अलक्षणत्वात् खरविषाणत्वकल्पना द्रव्यस्य १५स्यात् । अथान्यत्वं गृह्येत एवमप्येकान्तेन पृथग्भावे स्वरूपशून्यत्वं स्यात् । अभ्युपगम्योच्यते गुणैः संद्रूयते द्रव्यमिति लक्षणं नोपपद्यते; गुणानां निष्क्रियत्वे द्रव्यं प्रत्याभिमुख्येन द्रवणा- भावात् । “दिक्कालावाकाशं च क्रियावद्भ्यो वैधर्म्यात् निष्क्रियाणि । एतेन कर्माणि गुणाश्च व्याख्याताः निःक्रियाः । ” [वैशेº दº ५ । २ । २१, २२] इति वचनात् । गुणान् संद्रवति इति च लक्षणं नोपपद्यते निःक्रियद्रव्याणां गुणान् प्रति द्रवणाभावात् । २०किञ्च, स्वतोऽसिद्धत्वात् । यथा वाटीपरिक्षेपादिलक्षणान् ग्रामादीन् स्वतःसिद्धान् देवदत्तः सिद्धः प्राप्नोति न तथा गुणाः स्वतःसिद्धाः सन्ति यान् प्राप्नुयाद् द्रव्यम् । आह — पाकजदर्शनात् तत्सिद्धिः । पार्थिवेषु परमाणुषु अग्निसंयोगात् औष्ण्यापेक्षात् श्यामाद्युच्छेदेन रक्ताद्यारम्भे च ननु प्राप्यते गुणैर्द्रव्यम् । उच्यते — ननु युतसिद्धत्वप्रसङ्गात् । यदि द्रव्यमवतिष्ठते रूपादयो विनश्यन्ति प्रादुर्भवन्ति च । ननु युतसिद्धा द्रव्यरूपादय इत्यासक्तम् । २५अथ अयुतसिद्धाः समवायसंबन्धात् इति मतम्; ननु द्रव्यवत्तन्नित्यत्वप्रसङ्गः । एवं सति अयुतसिद्धिर्भवति — यदा रूपादयस्तदा द्रव्यं यदा द्रव्यं तदा रूपादय इति, नन्वेवं सति यथा द्रव्यं नित्यं तथा रूपादयोऽपि नित्याः यथा रूपादीनामनित्यत्वं तथा द्रव्यस्येति प्राप्तं तुल्यवृत्तित्वम् । किञ्च, विरोधात् पण्डितमूर्खवत् । यदि पण्डितो न मूर्खः अथ मूर्खो न पण्डितः तथा यदि समवायसंबन्धात् द्रव्यादयुतसिद्धाः रूपादयः न विनक्ष्यन्ति न वोत्पत्स्यन्ते । अथ विनश्यन्त्यु- ३०त्पद्यन्ते च नाऽयुतसिद्धाः । अथवा, अयुतसिद्धाश्च नाम रूपादयः विनश्यन्ति उत्पद्यन्ते च द्रव्यं चावतिष्ठत इति कुतस्त्योऽयं न्यायः । न च गुणैद्रूयते गम्यते उपलभ्यते तदिति द्रव्यम्, कस्मात् ? अर्थान्तरत्वात् । न हि घटेन पट उपलभ्यते अन्यत्वात् । अथोपलभ्यते द्रव्यगुणलक्षणभेदकल्पनाविरोधः । ४४० आह — भेदे एव उपलभ्योपलम्भकभावो दृष्टः अग्निधूमादिषु, नाऽभेदे स्वात्मनि वृत्ति- विरोधात् । न ह्यङ्गुल्यग्रमात्मानं स्पृशति इति ? उच्यते — युज्यते अग्निधूमादिषु भिन्नेष्वेव लक्ष्यलक्षणभावः पृथक्सिद्धरूपत्वात् । न च द्रव्यगुणानां पृथक् प्रसिद्धरूपता व्यतिरेकेण अनुपलब्धेः । ०५यच्चोक्तम् — स्वात्मनि वृत्तिविरोध इति; तदप्येकान्तग्रहणात् सूक्तं न भवति । दृश्यते हि स्वात्मन्यपि वृत्तिः यथा प्रदीपः स्वात्मानं प्रकाशयति, न तस्य स्वरूपप्रकाशने प्रदीपान्तरमपेक्षते । यद्यपेक्षेत; पटादिवदप्रकाशकत्वमेवाऽस्य स्यात् । किञ्च, तस्य तत्त्वस्योपदेष्टा स्वात्मानं वेत्ति वा, न वा ? यदि न वेत्ति; स्ववचनविरोधः — “आत्मन्यात्ममनसोः संयोगविशेषात् आत्मप्रत्यक्षम् । ” [वैशेº ९ । १ । ११] इति वचनात् । १०असर्वज्ञत्वप्रसङ्गश्च । यद्यात्मानमेवासौ न वेत्ति कथम् इतरद्विजानीयात् ततोऽस्य स्वपर- विशेषानभिज्ञत्वात् असर्वज्ञत्वं प्रसज्यते । अथ वेत्ति; ननु स्वात्मनि वृत्तिविरोधात् इति प्रतिज्ञातं हीयते । तस्मात् स्वात्मनि वृत्त्यविरोधात् द्रव्यात्मका एव पर्यायाः द्रव्यं लक्षयन्तीति साधूक्तम् । यो हि मन्यते — गुणसमुदायमात्रं द्रव्यं नातोऽन्यत् किञ्चिदिति; तस्यापि गुणसंद्रावो द्रव्यमिति १५एतल्लक्षणं नोपपद्यते । कुतः ? कर्तृकर्मभेदाभावादेव । गुणसमुदायमात्रद्रव्यवादिनो हि वादिनो न गुणाः पृथक् सन्ति नापि समुदायः ततोऽन्योऽस्ति येषां कुतश्चित् भेदात् कर्तृकर्मभावो भवेत् । ननु चाऽभेदेऽपि कर्तृकर्मभावो दृष्टः यथा आत्मानं प्रदीपः प्रकाशयति इति, तत्रापि कथञ्चिद् भेदेन भवितव्यम्, भासुरस्य रूपस्य द्रव्यस्य च स्याद् भेददर्शनात् । यदि सर्वथैवाऽभेदः स्यात्; सर्वं द्रव्यं भासुररूपं स्याद् भासुरस्य च द्रव्यस्य सर्वदैव ताद्रूप्यं प्रसज्येत । दृश्यते च २०माषादिभावः । न च समुदायकल्पना युज्यते गुणानां पृथक्स्वरूपानुपलब्धेः । दृश्यते माषादीनां पृथगुपलभ्यमानरूपाणां समुदायः । नापि गुणकल्पनोपपद्यते, गुण्यते विशेष्यते यैरर्थास्ते गुणाः विशेषणानीत्यर्थः । न च गुणिनं विशेष्यं कञ्चिदन्तरेण गुणानां गुणत्वं भवति । किञ्च, समुदायो गुणेभ्योऽन्यो वा स्यात्, अनन्यो वा, अवक्तव्यो वा ? अन्यत्वानन्यत्वयोः २५विहिता दोषाः । यद्यवक्तव्यः; स्ववचनविरोधः प्रसज्यते । यदि समुदायोऽस्ति नावक्तव्यः, अथ अवक्तव्यो न समुदायोऽस्ति, सतः संज्ञोपपत्तेः, अवक्तव्यस्य च सर्ववाग्गोचरात्यये निरात्मकत्वप्रस- ङ्गात् इति शिष्टेतरवचनवत् अन्यत्वोपपत्तेश्च । यदि वक्तव्यलक्षणा गुणाः समुदायो न वक्तव्य- लक्षणः; ननु च लक्षणभेदादन्यत्वं सिद्धम् । किञ्च, रूपादिपरमाणुसमुदायमात्रत्वे तुट्यादेः धर्मान्तरस्याऽप्रादुर्भावात्, अणूनामती- ३०न्द्रियस्वभावव्यतिक्रमाभावात् दृश्यमिदं भ्रान्तिरूपं स्यात् । सत्यमेवेदमिति चेत्, प्रत्यक्षानु- मानयोः तदाभासयोश्च अविशेषप्रसङ्गः स्यात् । ४४१ ‘द्रव्यं भव्ये’ इत्ययमपि द्रव्यशब्दः कान्तवादिनां न संभवति; स्वतोऽसिद्धस्य द्रव्यस्य भव्यार्थासंभवात् । संसर्गवादिनस्तावत् गुणकर्मसत्ताद्रव्यत्वादिसामान्यविशेषेभ्यो द्रव्यस्यात्यन्त- मन्यत्वे खरविषाणकल्पस्य स्वतोऽसिद्धत्वात् न भवनक्रियायाः कर्तृत्वं युज्यते । परतः सिद्धिरपि स्वतोऽसिद्धस्य न संभवति खरविषाणवत् । गुणसमुदायमात्रत्वेऽपि समुदायस्य संवृत्या कल्पि- ०५तस्याऽसत्त्वात् गुणानां च प्रत्येकं अनुपलभ्यत्वात् तदव्यतिरेकाच्चाऽसत्त्वमिति भवनक्रियायाः कर्तृता दुरुपपादा । अनेकान्तवादिनस्तु गुणसंद्रावो द्रव्यम्, द्रव्यं भव्य इति चोपपद्यते, पर्यायि- पर्याययोः कथञ्चिद्भेदोपपत्तेरित्युक्तं पुरस्तात् । धर्मादिसामानाधिकरण्याद्बहुवचनम् । १३ । प्रकृताः धर्मादयो बहवः तत्सामानाधिक- रण्याद् बहुवचनेन निर्देश क्रियते । धर्मादीन्येव द्रव्याणि नान्यानीति । १०पुल्लिङ्गप्रसङ्ग इति चेत्; न; आविष्टलिङ्गत्वात् । १४ । स्यादेतत् — यदि तत्सामानाधि- करण्याद्बहुवचनं क्रियते तत एव पुल्लिङ्गमपि प्राप्नोति इति । ते हि अजीवकाया उक्ताः पुल्लिङ्गा इति; तन्न; किं कारणम् ? आविष्टलिङ्गत्वात् । आविष्टो ह्ययं द्रव्यशब्दः वचनादिवत् स्वलिङ्गं न जहाति । अनन्तरत्वाच्चतुर्णामेव द्रव्यव्यपदेशप्रसङ्ग अन्यावापार्थमिदमुच्यते — १५जीवाश्च ॥ ३ ॥ जीवशब्दो व्याख्यातार्थः । जीवत्वादिति चेत्; न; प्रतिषिद्धत्वात् । १ । स्यादेतत् — जीवत्व नाम सामान्यविशेषोऽस्ति तेन योगात् जीवा इति; तन्न; किं कारणम् ? प्रतिषिद्धत्वात् । द्रव्यत्ववदस्य प्रतिषेधो वेदितव्यः । किञ्च, २०अनवस्थाप्रतिज्ञाहानिदोषप्रसङ्गात् । २ । यो जीवत्वसंयोगाज्जीव इति प्रत्ययाभिधाने कल्प- यति स प्रष्टव्यः — जीवत्वे केन योगात् प्रत्ययाभिधानवृत्तिरिति ? तत्रापि अन्यत एवेति चेत्; अनवस्थाप्रसङ्गः । अथाऽनवस्थादोषो माक्लृपत् इति जीवत्वे स्वत एव वृत्तिरभ्युपगम्यते; ननु प्रतिज्ञाहानिस्ते अर्थान्तरसंसर्गात् सर्वत्र वृत्तिरिति, तद्वज्जीवेऽपि स्यात् । अथ मतमेतत् — जीवत्वे प्रदीपवत् स्वत एव वृत्तिरिति; जीवे कोऽपरितोषः । आह — पदार्थान्त- २५रत्वादेव जीवजीवत्वयोः न जीवत्ववत् जीवे स्वतः प्रत्ययाभिधानसिद्धिः, यस्मात् न पदार्थान्तर- धर्मः पदार्थान्तरे भवितुमर्हति पदार्थान्तरत्वादेव, अन्यथा पदार्थसंकरप्रसङ्गः, स च नास्ति, अतो नानवस्थाप्रतिज्ञाहानिदोषौ स्त इति । उच्यते — न पदार्थान्तरत्वासिद्धेः । यदि जीवजीवत्वयोः पदार्थान्तरत्वमभविष्यत् अपि तर्हि धर्मसंकराभावोऽसेत्स्यत् । न तु पदार्थान्तरत्वमस्ति इत्युक्तं पुरस्तात् ‘स्वतोऽसिद्धत्वात्’ इति । ३०किञ्च, प्रतिज्ञाहानिस्ते प्रसजति यदि पदार्थान्तरधर्मः पदार्थान्तरे न भवेत्; सत्तायाः सदिति प्रत्ययाभिधानहेतुत्वलक्षणो धर्मः द्रव्यगुणकर्मसु न स्यात् । अथ योगेऽपि सत्प्रत्ययाभि- धानहेतुत्वं सत्ताया एवेति चेत्; न सन्ति द्रव्यगुणकर्माणि सत्प्रत्ययाभिधानहेतुत्वविरहात् खरविषाणवत् इत्यासक्तम् । ततः सिद्धमेतत् — जीवनक्रियोपलक्षितद्रव्यविशेषविषयाऽनादिपारि- णामिकी जीवसंज्ञेति । ४४२ द्रव्यलक्षणयोगाद्द्रव्याणीति चेत्; न; नियमार्थत्वात् । ३ । स्यान्मतम् “उत्पादव्ययध्रौव्ययुक्तं सत्” [५ । २९] इति द्रव्यलक्षणं वक्ष्यते, तेन योगाद् धर्मादीनां द्रव्यत्वं सिद्धं नार्थोंऽनेन द्रव्यसंख्या- नेन इति; तन्न; किं कारणम् ? नियमार्थत्वात् । नियमार्थोऽयमारम्भः । धर्माऽधर्माऽऽकाश- पुद्गला जीवाश्च वक्ष्यमाणलक्षणेन कालेन सह षडेव द्रव्याणीति । तेनान्यवादिपरिकल्पितानां ०५दिगादीनां निवृत्तिः सिद्धा । कथमिति चेत् ? उच्यते — पृथिव्यप्तेजोवायुमनांसि पुद्गलद्रव्ये अन्त- र्भवन्ति रूपरसगन्धस्पर्शवत्त्वात् । वायोर्मनसश्च रूपादियोगाभाव इति चेत्; न; रूपादिमत्त्वात् । वायुस्तावत् रूपादिमान् स्पर्शवत्त्वात् घटादिवत् । चक्षुरादिकरणग्राह्यत्वाभावात् रूपाद्यभाव इति चेत्; न; परमाण्वादिषु अतिप्रसङ्गात् । मनोऽपि द्विविधं द्रव्यमनो भावमनश्चेति । तत्र भावमनो ज्ञानं तस्य जीवगुणत्वादात्मन्य- १०न्तर्भावः । द्रव्यमनश्च रूपादियोगात् पुद्गलद्रव्यविकारः । तद्योगाभावोऽनुपलभ्यत्वात् इति चेत्; परमाण्वादिषु विधर्मस्वपि वृत्तेः संशयहेतुत्वम् । रूपादिमन्मनो ज्ञानोपयोगकरणत्वात् चक्षुरिन्द्रियवत् । अमूर्तेऽपि शब्दे ज्ञानोपयोगकरणत्व- दर्शनात् व्यभिचारी हेतुरिति चेत्; न; तस्य पौद्गलिकत्वात् मूर्तिमत्त्वोपपत्तेः । परमाण्वादीना- मतीन्द्रियत्वेऽपि रूपादिमत्कार्यदर्शनात् रूपादिमत्त्वमनुमीयते न तथा वायूनां मनसां च १५रूपादिमत्कार्यमुपलभ्यते यतोऽवसीयते रूपादिमत्त्वमेषामिति चेत्; न; तेषामपि तदुपपत्तेः । सर्वेषां परमाणूनां सर्वरूपादिमत्कार्यत्वप्राप्तियोग्यताभ्युपगमात् । न च केचित् पार्थिवादिजाति- विशेषयुक्ताः परमाणवः सन्ति; जातिसंकरेण आरम्भदर्शनात् । दिशोऽप्याकाशे अन्तर्भावः आदित्योदयाद्यपेक्षया आकाशप्रदेशपङक्तिषु इत इदमिति व्यवहारोपपत्तेः । जीवा इति बहुवचनं वैविध्यख्यापनार्थम् । ४ । जीवा इति बहुवचनं क्रियते वैविध्यख्या- २०पनार्थम् । विविधा हि जीवाः संसारिणो मुक्ताश्चेति । संसारिणोऽपि गतीन्द्रियादिचतुर्दशमार्गणा- स्थानविकल्पात् मिथ्यादृष्ट्यादिचतुर्दशगुणस्थानभेदात् सूक्ष्मबादरादिचतुर्दशजीवस्थानविकल्पाच्च विविधाः । मुक्ताश्च एकद्वित्रिःचतुःसंख्येयासंख्येयानन्तसमयसिद्धपर्यायभेदाश्रयात् मुक्तिहेतुशरीरा- कारानुविधायिस्वक्षेत्रपरक्षेत्रावगाहनादिभेदाच्च विविधाः । एकयोग इति चेत्; न; जीवानामेव प्रसङ्गात् । ५ । स्यान्मतम् — एक एव योगः कर्तव्यः २५द्रव्याणि जीवा इति । एवं च सति चशब्दाकरणात् लध्विति; तन्न; कि कारणम् ? जीवानामेव प्रसङ्गात् । तथा सति जीवा एव द्रव्याणि न धर्मादीनि इत्यनिष्टमासज्यते । बहुवचनादिति चेत्; न; उक्तत्वात् । ६ । स्यादेतद् — द्रव्याणीति बहुवचनात् धर्मादीनां जीवानां च द्रव्यसंज्ञा सिद्ध्यतीति; तन्न, किं कारणम् ? उक्तत्वात् । उक्तमेतत् ‘जीवा इति बहु- वचनं वैविध्यख्यापनार्थम्’ इति । तत्सामानाधिकरण्यात् द्रव्याणि इति बहुवचनं न्यायप्राप्तम् इति ३०इति न ततो धर्मादिगतिः । अधिकारादिति चेत्; न; उक्तत्वात् । ७ । स्यादेतत् — “अजीवकायाः घर्माधर्माकाशपुद्गलाः” [५ । १] इत्यजीवाधिकारात् एकयोगेऽपि जीवाजीवयोर्द्रव्यसंज्ञा सेत्स्यति इति; तन्न; किं कारणम् ? जीवावबद्धत्वात् । द्रव्यशब्दोऽयं जीवावबद्ध इति जीवानामेव द्रव्यसंज्ञा प्राप्नोति । ४४३ सत्यप्यधिकारे यत्नाभावाच्च । ८ । अनुवर्तमाना अपि विधयो न चानुवर्तनादेव भवन्ति । किं तर्हि ? यत्नाद्भवन्तीति । जीवानामेव द्रव्यसंज्ञा स्यात् अजीवानां न स्यात् यत्नाभावात् । ततः पृथक्योगग्रहणं न्याय्यम् । एवं च कृत्वा चशब्दोऽप्यर्थवान् भवति । उक्तानां द्रव्याणां विशेषप्रतिपत्त्यर्थमाह — ०५नित्यावस्थितान्यरूपाणि ॥ ४ ॥ नित्यशब्दो ध्रौव्यवचनः । १ । अयं नित्यशब्दः ध्रौव्यवचनो वेदितव्यः । नेर्ध्रुवे त्योऽन्वा- ख्यातः । किं पुनरिह नित्यत्वम् ? तद्भावाव्ययो नित्यत्वम् । २ । येन भावेन उपलक्षितं द्रव्यं तस्य भावस्याऽव्ययो नित्यत्वमु- च्यते । वक्ष्यते “तद्भावाव्ययं नित्यम्” [५ । ३१] इति । धर्मादीनि द्रव्याणि गतिहेतुत्वादिविशेपलक्ष- १०णद्रव्यार्थादेशात् अस्तित्वादिसामान्यलक्षणद्रव्यार्थादेशाच्च कदाचिदपि न व्ययन्तीति नित्यानि । इयत्तानतिवृत्तेरवस्थितानि । ३ । धर्मादीनि पडपि द्रव्याणि कदाचिदपि पडिति इयत्त्वं नातिवर्तन्ते, ततोऽवस्थितानीत्युच्यन्ते । अथवा, धर्माधर्मलोकाकाशैकजीवानां तुल्यासंख्येयप्रदे- शत्वम्, अलोकाकाशस्य पुद्गलानां चाऽनन्तप्रदेशत्वमित्येतदियत्त्वम्, तस्यानतिवृत्तेः अवस्थि- १५तानीति व्यपदिश्यन्ते । गतार्थत्वादवक्तव्यमिति चेत्; न; परिणामानेकत्वात् । ४ । स्यान्मतम् — नित्यवचनेनैव गतार्थत्वात् अवस्थितानीति न वक्तव्यम्, न हि नित्यत्वमतिक्रम्यावस्थित्वमस्तीति; तन्न; किं कारणम् ? परिणामानेकत्वात् । धर्मादीनामनेकः परिणामोऽस्ति गतिस्थित्युपग्रहादिपर्यायोत्पादव्य- यव्यवस्थितिलक्षणः । अतः किम् ? अमुष्मिन् परिणामानेकत्वेऽपि न मूर्तिमत्त्वोपयोगपरिणामो २०भवति धर्माधर्मकालाकाशानाम्, नापि जीवानामचेतनत्वम्, पुद्गलानां च अमूर्तत्वम् अवस्थितवचनात् । विरोधादयुक्तमिति चेत्; न; उभयनयसद्भावात् । ५ । स्यादेतत् — परिणामानेकत्वं येपामिष्ट- मवस्थितत्वं चेति एतद्विरुद्धमिति; तन्न; किं कारणम् ? उभयनयसद्भावात् । धर्मादीनां सर्वेषां द्रव्याणां द्रव्यार्थिकपर्यायार्थिकाऽन्यतरगुणप्रधानभावार्पणाभेदात् स्थित्युत्पत्तिनिरो- २५धात्मकमविरुद्धम् । अवस्थितविशेषणं वा नित्यग्रहणम् । ६ । अथवा, नित्यग्रहणमिदमवस्थितविशेषणं विज्ञायते । यथा गमनागमनाद्यनेकपर्यायसद्भावेऽप्यभीक्ष्णप्रजल्पनसद्भावात् ‘नित्यप्रजल्पितो देवदत्तः’ इत्युच्यते, तथोभयकारणवशोपनीतोत्पादनिरोधसंभवेऽपि अमूर्तत्वादिस्वभावं कदा- चिदपि धर्माधर्मादीनि न जहतीति नित्यावस्थितानीत्युच्यन्ते । ३०क्रियावत्त्वनिवृत्त्यर्थमवस्थितवचनमिति चेत्; न; निःक्रियाणीत्याम्नातत्वात् । ७ । स्यादेतत् — परिस्पन्दात्मिकायाः क्रियायाः निवृत्त्यर्थमवस्थितवचनमिति; तन्न; किं कारणम् ? निष्क्रि- याणीत्याम्नातत्वात् । ४४४ अरूपग्रहणं द्रव्यस्वतत्त्वनिर्ज्ञानार्थम् । ८ । अरूपग्रहणं क्रियते द्रव्यस्वतत्त्वनिर्ज्ञानार्थम् । न विद्यते रूपं येषां तान्यरूपाणि । रूपव्युदासात्तदविनाभाविनां रसादीनामपि व्युदासो वेदि- तव्यः । अरूपाणि अमूर्तानीति यावत् । वृत्तौ पञ्चवचनात् षड्द्रव्योपदेशव्याघात इति चेत्; न; अभिप्रायाऽपरिज्ञानात् । ९ । ०५स्यान्मतम् — वृत्तावुक्तम् — “अवस्थितानि धर्मादीनि न हि कदाचित्पञ्चत्वं व्यभिचरन्ति” इति, ततः षड्द्रव्याणीत्युपदेशस्य व्याघात इति; तन्न; किं कारणम् ? अभिप्रायापरिज्ञानात् । अयमभि- प्रायो वृत्तिकारस्य — “कालश्च” [५ । ३८] इति पृथग् द्रव्यलक्षणं कालस्य वक्ष्यते, तदनवेक्ष्य अधि- कृतानि पञ्चैव द्रव्याणीति षड्द्रव्योपदेशाविरोधः । यथा सर्वेषां द्रव्याणां नित्यावस्थितानि इत्येतत् साधारणं लक्षणं तथा अरूपत्वमपि १०प्राप्तम्, अतस्तदपवादार्थमाह — रूपिणः पुद्गलाः ॥ ५ ॥ रूपशब्दस्याऽनेकार्थत्वे मूर्तिपर्यायग्रहणं शास्त्रसामर्थ्यात् । १ । रूपशब्दोऽनेकार्थः । क्वचिद् द्रव्ये वर्तते — गोरूपाणि गोद्रव्याणि इत्यर्थः । क्वचित् स्वभावे वर्तते — “चैतन्यं पुरुषस्य स्वरूपम्” [योगभाº१ । ९] स्वभाव इत्यर्थः । क्वचिदभ्यासे वर्तते, दशरूपमध्ययनं कार्यम् — दशवारानभ्यासः कार्य १५इत्यर्थः । क्वचिच्छ्रुतौ वर्तते — स्वं रूपं शब्दस्य स्वा श्रुतिरित्यर्थः । क्वचिन्महाभूतेषु वर्तते — “रूपं चत्वारि महाभूतानि उपादाय रूपं चेति । ” इति । क्वचित् गुणविशेषे वर्तते — चक्षुर्ग्रहणयोग्यो योऽर्थ- स्तद्रूपमिति । क्वचिन्मूर्तिपर्यायवचनः — रूपिद्रव्यं मूर्तिमद् — द्रव्यमित्यर्थः । तत्रेह मूर्तिपर्यायवचनो रूपशब्दो ग्रहीतव्यः । कुतः ? शास्त्रसामर्थ्यात् । अर्हत्प्रोक्ते हि गणधरावधारिते श्रौते शास्त्रे- अभिहितम् — “रूपिद्रव्यं मूर्तिद्रव्यम्” इति । तस्मात् रूपिणः पुद्गला मूर्तिमन्तः पुद्गला २०इत्यर्थः । कापुनः मूर्तिः ? रूपादिसंस्थानपरिणामो मूर्तिः । २ । रूपमादिर्येषां त इमे रूपादयः । के पुनस्ते ? रूपरस- गन्धस्पर्शाः, परिमण्डलत्रिकोणचतुरस्रायतचतुरस्रादिराकृतिः संस्थानम्, तै रूपादिभिः संस्थानैश्च परिणामो मूर्तिरित्याख्यायते । गुणविशेषवचनग्रहणं वा । ३ । अथवा रूपमित्यनेन गुणविशेषो गृह्यते चक्षुर्ग्रहणयोग्यः । २५रसाद्यग्रहणमिति चेत्; न; तदविनाभावात् तदन्तर्भावसिद्धेः । ४ । स्यादेतत् — गुणविशेष- ग्रहणे सति रसादीनामग्रहणं प्रसक्तमिति; तन्न; किं कारणम् ? तदविनाभावात् तदन्तर्भावसिद्धेः । रूपाविनाभाविनो हि रसादयो रूपग्रहणेन गृह्यन्ते । इनोऽनुत्पत्तिरभेदादिति चेत्; न; कथञ्चिद् व्यतिरेकसिद्धेः । ५ । स्यादाकूतम् — सति भेदे इन उत्पत्तिर्दृष्टा यथा दण्डोऽस्यास्तीति दण्डीति । न च तथा रूपं द्रव्याद्भिन्नमस्ति तस्यैव रूपादिपर्याय- ३०परिणामात् । तत इन उत्पत्तिर्नोपपद्यते ‘रूपमेषामस्ति ते रूपिणः’ इति; तन्न; किं कारणम् ? कथञ्चिद्व्यतिरेकसिद्धेः । यद्यपि पुद्गलद्रव्यादनन्यद्रूपं तत्परिणामात्, द्रव्यार्थादेशाद् व्यतिरेकेणाऽ- नुपलब्धेः । तथापि पर्यायार्थिकनयविवक्षाविजृम्भितैः रूपविनाशे पुद्गलावस्थानात् उत्पाद्या- ४४५ नुत्पाद्यत्वाद् आदिमदनादिमत्त्वात् अन्वयव्यतिरेकरूपवाग्विज्ञानवृत्तिहेतुत्वादित्येवमादिभिः हेतुभिः कथञ्चिद् व्यतिरेकः सिद्ध्यतीति तदपेक्ष इनः प्रादुर्भावः सिद्धः । तेनैव व्यपदेशाच्च । ६ । अनन्यत्वेऽपि लोके व्यपदेशो दृष्टः ‘आत्मवान् आत्मा, सारवान् वृक्षः’ इति । नहि आत्मनोऽन्य आत्मास्ति, नापि वृक्षादन्यः सारः, तथापि व्यपदेशो ०५दृश्यते । एवमिह अनन्यत्वेऽपि व्यपदेशो वेदितव्यः । पुद्गला इति बहुवचनं भेदप्रतिपादनार्थम् । ७ । पुद्गला इति बहुवचनं क्रियते । किं प्रयोजनम् ? भेदप्रतिपादनार्थम् । भिन्ना हि पुद्गलाः परमाणभेदात् स्कन्धभेदाच्च । तद्विकल्पा उपरिष्टाद्वक्ष्यन्ते । अत्राह — किं पुद्गलवद्धर्मादीन्यपि द्रव्याणि प्रत्येकं भिन्नानि इति ? अत्रोच्यते — १०आ आकाशादेकद्रव्याणि ॥ ६ ॥ अभिविधावाङ्प्रयोगः । १ । अभिविधिरभिव्याप्तिः, तस्मिन्नर्थे अयमाङ् प्रयुज्यते, तेनाऽऽ- काशस्यापि एकद्रव्यत्वं संकीर्तितं भवति । यदि हि मर्यादायां गृह्यते आकाशस्यान्तर्भावो न स्यात् । सौत्रीमानुपूर्वीमाश्रित्य इदमुक्तं तेन धर्माधर्माकाशानि गृह्यन्ते । एकशब्दः संख्यावचनः । २ । अन्याऽसहायाद्यनेकार्थसंभवेऽप्ययमेकशब्दः संख्यावचनो १५द्रष्टव्यः । तत्संबन्धाद् द्रव्यशब्दस्यैकवचनप्रसङ्ग इति चेत्; न; धर्माद्यपेक्षया बहुत्वसिद्धेः । ३ । स्यान्मतम् — यद्ययमेकशब्दः संख्यावचनः तेन सामानाधिकरण्याद् द्रव्यशब्दस्याप्येकवचनमेव प्राप्नोतीति; तन्न; किं कारणम् ? धर्माद्यपेक्षया बहुत्वसिद्धेः । धर्मादीनि बहूनि द्रव्याणि तद- पेक्षया बहुवचनं युज्यते एकस्यानेकार्थप्रत्यायनशक्तियोगात् । २०एकैकमित्यस्तु लघुत्वात् । ४ । अत्र कश्चिदाह — ‘आ आकाशादेकैकम्’ इत्येव तावदस्तु सूत्रम्; कुतः ? लघुत्वात् । कथं द्रव्यगतिः ? प्रसिद्धत्वाद् द्रव्यगतिः । ५ । धर्मादीनि षड्द्रव्याणि इति प्रसिद्धमतो द्रव्यगतिर्भवति, तस्मादनर्थकं द्रव्यग्रहणमिति । न वा द्रव्यापेक्षयैकत्वख्यापनार्थत्वात् । ६ । न वानर्थकम् । किं कारणम् ? द्रव्यापेक्षया २५एकत्वख्यापनार्थत्वात् । एकैकमित्युक्ते न ज्ञायते किं द्रव्यतः क्षेत्रतः भावत इति ? अतोऽसन्देहार्थं द्रव्यग्रहणं क्रियते । तेनाऽयमर्थो गृह्यते — गतिस्थितिपरिणामिविविधजीवपुद्गलद्रव्यानेकपरिणाम- निमित्तत्वेन सत्यपि भावतो बहुत्वे, सति च प्रदेशभेदादसंख्येयक्षेत्रत्वे धर्मद्रव्यमधर्मद्रव्यं च द्रव्यत एकैकमेव । अवगाह्यनेकद्रव्यविविधावगाहननिमित्तत्वेन अनन्तभावत्वेऽपि प्रदेशभेदात् सति चानन्तक्षेत्रत्वे द्रव्यतः एकमेवाकाशमिति न जीवपुद्गलवदेषां बहुत्वम्, नापि धर्मादिवत् ३०जीवपुद्गलानामेकद्रव्यत्वम् । यदि हि स्यात्, दृष्टस्य क्रियाकारकभेदस्य इष्टस्य च संसारमोक्ष- क्रियाविस्तरस्य विरोधः स्यात् । आह कालद्रव्यं किम् एकमनेकमिति ? उत्तरत्र तस्य निर्णयो वक्ष्यते । अधिकृतानामेवैकद्रव्याणां विशेषप्रतिपत्त्यर्थमिदमुच्यते — ४४६ निष्क्रियाणि च ॥ ७ ॥ उभयनिमित्तापेक्षः पर्यायविशेषो द्रव्यस्य देशान्तरप्राप्तिहेतुः क्रिया । १ । अभ्यन्तरं क्रिया- परिणामशक्तियुक्तं द्रव्यम्, बाह्यं च नोदनाभिघाताद्यपेक्ष्योत्पद्यमानः पर्यायविशेषः द्रव्यस्य देशान्तर- ०५प्राप्तिहेतुः क्रियेत्युपदिश्यते । उभयनिमित्त इति विशेषणं द्रव्यस्वभावनिवृत्त्यर्थम् । यदि हि द्रव्य- स्वभावः स्यात् परिणामिनो द्रव्यस्याऽनुपरतक्रियत्वप्रसङ्गः । द्रव्यस्य पर्यायविशेष इति विशे- षणम् अर्थान्तरभावनिवृत्त्यर्थम् । यदि हि क्रिया द्रव्यादर्थान्तरभूता स्यात् द्रव्यस्य निश्चलनत्वप्र- सङ्गः । देशान्तरप्राप्तिहेतुरिति विशेषणं ज्ञानादिरूपादिनिवृत्त्यर्थम् । तस्याः प्रादिवृत्त्या अन्यपदार्थगतिः । २ । तस्याः क्रियायाः प्रादिवृत्त्या अन्यपदार्थगतिर्भ- १०वति — निष्क्रान्तानि क्रियायाः निष्क्रियाणीति । निष्क्रियत्वादुत्पादाभाव इति चेत्; न; अन्यथोपपत्तेः । ३ । स्यादेतत् — धर्मादीनि द्रव्याणि यदि निष्क्रियाणि ततस्तेषाम् उत्पादो न भवेत् । क्रियापूर्वको हि घटादीनामुत्पादो दृष्टः, उत्पादा- भावाच्च व्ययाभाव इति सर्वद्रव्याणामुत्पादादित्रितयरूपकल्पनाव्याघात इति; तन्न; किं कारणम् ? अन्यथोपपत्तेः । क्रियानिमित्तोत्पादाभावेऽपि एषां धर्मादीनामन्यथोत्पादः कल्प्यते । १५तद्यथा, द्विविध उत्पादः — स्वनिमित्तः, परप्रत्ययश्च । स्वनिमित्तस्तावत् अनन्तानामगुरुलघुगुणाना- मागमप्रामाण्यादभ्युपगम्यमानानां षट्स्थानपतितया वृद्ध्या हान्या च वर्तमानानां स्वभावादेषा- मुत्पादो व्ययश्च । परप्रत्ययोऽपि अश्वादेर्गतिस्थित्यवगाहनहेतुत्वात्, क्षणे क्षणे तेषां भेदात् तद्धेतुत्वमपि भिन्नमिति परप्रत्ययापेक्ष उत्पादो विनाशश्च व्यवह्रियते । निष्क्रियत्वात् गतिस्थित्यवगाहनक्रियाहेतुत्वाभाव इति चेत्; न; वलाधानमात्रत्वा- २०दिन्द्रियवत् । ४ । स्यादेतत् — यद्येतानि निष्क्रियाणि गतिस्थित्यवगाहनक्रियाहेतुत्वमेषां नोपपद्यते । क्रियावन्ति हि जलादीनि मत्स्यादीनां गत्यादिनिमित्तानि दृष्टानि इति; तन्न; किं कारणम् ? बला- धानमात्रत्वात् इन्द्रियवत् । यथा दिदृक्षोश्चक्षुरिन्द्रियं रूपोपलब्धौ बलाधानमात्रमिष्टं न तु चक्षुषः तत्सामर्थ्यम् इन्द्रियान्तरोपयुक्तस्य तदभावात् । यथा वा, आयुःसंक्षयात् आत्मनि शरीरान्निष्क्रान्ते सदपीन्द्रियम् रूपाद्युपलब्धौ समर्थं न भवति, ततो ज्ञायते आत्मन एवैतत्सामर्थ्यम् इन्द्रियाणां तु २५बलाधानमात्रत्वमिति, तथा स्वयमेव गतिस्थित्यवगाहनपर्यायपरिणामिनां जीवपुद्गलानां धर्मा- धर्माकाशद्रव्याणि गत्यादिनिर्वृत्तौ बलाधानमात्रत्वेन विवक्षितानि न तु स्वयं क्रियापरिणामीनि । कुतः पुनरेतदेवमिति चेत् ? उच्यते — द्रव्यसामर्थ्यात् । ५ । यथा आकाशमगच्छत् सर्वद्रव्यैः संबद्धम्, न चास्य सामर्थ्यमन्य- स्यास्ति । तथा च निष्क्रियत्वेऽप्येषां गत्यादिक्रियानिर्वृत्तिं प्रति बलाधानमात्रत्वमसाधारणमवसेयम् । ३०चशब्दोऽभिहितसंबन्धार्थः । ६ । चशब्दः क्रियते अभिहितानामेकद्रव्याणां संबन्धार्थः । अतो धर्माऽधर्माकाशानां निष्क्रियत्वनियमाज्जीवपुद्गलानां स्वतः परतश्च क्रियापरिणामित्वं सिद्धम् । ४४७ अत्र कश्चिदाह — आत्मा सर्वगतत्वान्निष्क्रियः, क्रियाहेतुगुणसमवायात् परत्र क्रिया- हेतुरिति; तत्प्रतिविधानार्थमाह — द्रव्यस्य क्रियापरिणामिनोऽर्थान्तरे तत्परिणामसामर्थ्यं वायुवत् । ७ । यथा वायुः स्वयं क्रियापरिणतत्वात् वनस्पतौ क्रियानिमित्तं तथा आत्मनः क्रियापर्यायस्वभावस्य वीर्यान्तरायज्ञाना- ०५वरणक्षयक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भे सति विहायोगतिनामोदयापादितशक्तिविशेषे च सति व्रज्यामनुतिष्ठतो हस्तादिषु क्रियोत्पत्तिर्युक्ता, न तु निष्क्रियस्यात्मनः परत्र क्रियाहेतुत्वं युक्तम् । तत्र यदुक्तम् — “आत्मसंयोगप्रयत्नाभ्यां हस्ते कर्म” [वैशेº ५ । १ । १] इत्येतदपाकीर्णम् । कथमिति चेत् ? उच्यते — अतत्परिणामस्य तदभावो व्योमवत् । ८ । यथा व्योम्नो निष्क्रियस्य घटादिषु सत्यपि १०संयोगे न क्रियाहेतुत्वम्, तथा आत्मनो निष्क्रियस्य सत्यपि संयोगे हस्तादिषु न क्रियाहेतुत्वं युक्तम् । किञ्च, उभयोः निष्क्रियत्वात् । ९ । यथोभयोर्जात्यन्धयोः सम्बन्धे न दर्शनशक्तिप्रादुर्भावोऽस्ति तथा आत्मसंयोगप्रयत्नयोः निष्क्रियत्वात् क्रियाहेतुत्वमयुक्तम् । कथं निःक्रियत्वमिति चेत् ? उच्यते — “दिक्कालावाकाशं च क्रियावद्भ्यो वैधर्म्यात् निःक्रियाणि । एतेन कर्माणि गुणाश्च व्याख्याताः” १५[वैशेº ५ । २ । २१, २२] निष्क्रिया इति वचनात् संयोगप्रयत्नयोः गुणत्वात् निष्क्रियत्वम् । अग्निसंयोगवदिति चेत्; न; अस्मदिष्टसिद्धेः । १० । स्यान्मतम् — यथा अग्निसयोगः औष्ण्यापेक्षः परत्र घटादौ पाकजान् रूपादीनारभते नात्माधारेऽग्नौ तथा आत्मसंयोगप्रयत्नयोर- दृष्टापेक्षयोः हस्तादौ क्रियाहेतुत्वं युक्तं नात्मनीति; तन्न; किं कारणम् ? अस्मदिष्टसिद्धेः । यथा अग्निसंयोगो रूपादिमद्द्रव्यगुणः परत्र घटादौ रूपादिमति रूपाद्यन्तरोत्पत्तिहेतुर्भवति, तथा आत्म- २०संयोगप्रयत्नावपि परत्र हस्तादौ क्रियामारभमाणौ क्रियावद्द्रव्यगुणाविति क्रियावत्त्वमात्मनोऽस्म- दिष्टं सिद्धम् । तत्सामर्थ्याभावाच्च । ११ । य उक्तोऽग्निसंयोगो दृष्टान्तः न तस्य तत्सामर्थ्यमस्ति । कुतः ? अनुष्णाशीतस्याऽप्रेरकस्यानुपघातिनोऽप्राप्तस्य संयोगस्य रूपाद्युच्छेदोत्पत्त्योर्हेतुत्वासंभवात् । तस्मादसौ असिद्धो दृष्टान्तो दार्ष्टान्तिकार्थसिद्धये नालम् । २५गुरुत्ववदिति चेत्; न; तुल्यत्वात् । १२ । स्यादेतत् — यथा निष्क्रियं गुरुत्वं लोष्टे वर्तमानं तृणादौ क्रियाया हेतुः तथा आत्मसंयोगप्रयत्नौ निष्क्रियावपि सन्तौ हस्तादौ क्रियाहेतू इति; तन्न; किं कारणम् ? तुल्यत्वात् । अग्निसंयोगेन तुल्यमेतत् । यथा क्रियापरिणामिनो लोष्टस्य गुणो गुरुत्वं परत्र क्रियाहेतुः तथा आत्मसंयोगप्रयत्नावपि क्रियापरिणामिद्रव्यगुणाविति क्रियावत्त्वमात्मनः सिद्धम् । किञ्च, निष्क्रियस्य गुरुत्वस्याऽस्पर्शकस्याऽप्रेरकस्यानुपघातिनोऽन्यत्र क्रियाहेतुत्वं नोपपद्यते ३०इति दृष्टान्तोऽसिद्धः । द्रव्यमेव तथापरिणतं क्रियाहेतुरिति । धर्मास्तिकायवदिति चेत्; न; वैषम्यात् । १३ । स्यान्मतम् — यथा धर्मास्तिकायो निष्क्रियः जीवपुद्गलानां गतिहेतुः तथा आत्मसंयोगादिः निष्क्रियोऽपि परत्र क्रियाहेतुरिति; तन्न; किं कारणम् ? वैषम्यात् । युज्यते धर्मास्तिकायस्य जीवपुद्गलगतिं प्रत्यप्रेरकत्वम्, निष्क्रियस्यापि बलाधानमात्रत्व- दर्शनात्, आत्मगुणस्तु अपरत्र क्रियारम्भे प्रेरको हेतुरिष्यते तद्वादिभिः । न च निष्क्रियो द्रव्यगुणः ३५प्रेरको भवितुमर्हति इति वैषम्यम् । किञ्च, धर्मास्तिकायाख्यं द्रव्यमाश्रयकारणं भवतु, न तु ४४८ निष्क्रियात्मद्रव्यगुणस्य ततो व्यतिरेकेणाऽनुपलभ्यमानस्य क्रियाया आश्रयकारणत्वं युक्तम् । अर्थान्तरभावे चासत्त्वमिति वैषम्यम् । किञ्च, शरीरे क्रियाभावो जीवस्य निष्क्रियत्वात् आकाशप्रदेशवत् । १४ । यथा आकाशप्रदेशो निष्क्रियः शरीरे क्रियारम्भहेतुर्न भवति तथा आत्मा तद्गुणश्च निष्क्रियत्वात् क्रियाहेतुर्न भवेत् । ०५किञ्च, एकान्तेनाऽमूर्तस्य निष्क्रियस्य शरीरेण सह सम्बन्धाभावात् परस्परोकारो नोपपद्यते आका- शवदेव । शरीरवियोगे निष्क्रियत्वप्रसङ्ग इति चेत्; न; अभ्युपगमात् । १५ । स्यान्मतम् — यस्य कार्म- णशरीरसम्बन्धे सति तत्प्रणालिकापादिता क्रिया आत्मनोऽभिप्रेता तस्याष्टविधकर्मसंक्षये शरीर- वियोगात् अशरीरस्यात्मनो निष्क्रियत्वं प्रसक्तमिति; तन्न; किं कारणम् ? अभ्युपगमात्, कारणा- १०भावात् कार्याभाव इति । कर्मनोकर्मनिमित्ता या क्रिया सा तदभावे नास्तीति निष्क्रियत्वं मुक्तस्या- भ्युपगम्यतेऽस्माभिः । अथवा, परनिमित्तक्रियानिवृत्तावपि स्वाभाविकी मुक्तस्योर्ध्वगतिरभ्युपगम्यते प्रदीपवत् । अथवा, स्यात् शरीरवियोगे मुक्तस्य निष्क्रियस्य यद्यनन्तवीर्यज्ञानदर्शनाचिन्त्यसु- खानुभवनादयः क्रिया नाऽभ्युपगम्येरन्, अभ्युपगम्यन्ते तु, तस्मादयमदोषः शरीरवियोगा- दात्मनो निष्क्रियत्वप्रसङ्ग इति । १५वक्ष्यमाणत्वाच्च पूर्वप्रयोगादिभिः । १६ । वक्ष्यते चोत्तरत्र मुक्तानां क्रिया । कथम् ? पूर्व- प्रयोगादिभिः । पुद्गलानामपि द्विविधा क्रिया विस्रसा प्रयोगनिमित्ता च । १७ । पुद्गलाना द्विविधा क्रिया वक्ष्यते । सा द्वितयी भवति विस्रसा प्रयोगनिमित्ता चेति । सा अनन्या स्वात्मविशेषभावात् । १८ । सा क्रिया तद्वतोऽनन्या वेदितव्या । कुतः ? २०स्वात्मविशेषभावात् । यथा अग्नेर्नान्यदौष्ण्यं स्वात्मविशेषभावात् । यद्यन्यत् स्यात्; अग्नेरभाव- प्रसङ्गः स्यात् अलक्षणत्वात् । तथा क्रियापि क्रियावतो नान्या स्वात्मविशेषभावात् । यद्यन्या स्यात्; द्रव्यस्यास्पन्दत्वं स्यात् क्रियायाश्चाऽभावः, तस्मादनन्या क्रिया । अर्थान्तरत्वेऽपि योगात् व्यपदेशो दण्डदण्डिवदिति चेत्; न; स्वतोऽसिद्धत्वात् । १९ । अर्थान्तरत्वेऽपि क्रियायाः तद्योगाद् द्रव्यस्य क्रियावद्व्यपदेशः दण्डदण्डिवदिति च यदि मतम्, २५तदपि नोपपद्यते; कुतः ? स्वतोऽसिद्धत्वात् । युज्यते स्वतःसिद्धेन दण्डेन योगात् देवदत्तस्य दण्डिव्यपदेशः, न च तथा क्रिया स्वतःसिद्धा व्यतिरेकेणानुपलब्धेः । तस्मात्तद्वद्व्यपदेशो न युक्तः । समवायादिति चेत्; न; अविशेषप्रसङ्गात् । २० । स्यान्मतम्, सत्यमेतत् न दण्डदण्डि- वद्योगः, स्वतःसिद्ध्यभावात् । कथं तर्हि ? समवायो नामाऽयुतसिद्धिलक्षणः संबन्धोऽस्ति, तेनै- कत्वमिव नीतस्य द्रव्यस्य क्रियावद्व्यपदेशो भवतीति; तन्न; किं कारणम् ? अविशेषप्रसङ्गात् । ३०अयुतसिद्धिलक्षणश्चेत् संबन्धः क्रियाक्रियावतोरविशिष्टः; यद्द्रव्यं सैव क्रिया, या च क्रिया, तदेव द्रव्यमित्यविशेषः प्राप्नोति, तथा च सति पदार्थान्तरकल्पनाव्याघातः । पदार्थान्तरत्वं चेदभ्यु- पगम्यते; न नामाऽयुतसिद्धिलक्षणः संबन्धः । अनन्यत्वे द्वयोरैकात्म्यमिति चेत्; न; कथञ्चिद्व्यतिरेकसिद्धेः । २१ । स्यादेतत्, यदि क्रियाक्रियावतोरनन्यत्वमभ्युपगम्यते तयोरैकात्म्यं प्रसज्येत । दृष्टा च नानात्मता — द्रव्यमवस्थितं ४४९ क्रिया क्षणिकात्मिका, द्रव्यमकारणं क्रिया कारणवतीति । यद्यैकात्म्यं स्यात् द्रव्यस्यावस्थानवत् अकारणवच्च क्रियाया अप्यवस्थानमकारणत्वं च स्यात्, विपर्ययो वेति; तन्न; किं कारणम् ? कथ- ञ्चिद् व्यतिरेकसिद्धेः । अत एवाऽस्माभिः कथञ्चिदन्यत्वमवसीयते ऐकात्म्यं मा विज्ञायीति । क्रियावत्त्वे सत्यनित्यत्वमिति चेत्; न; व्यभिचारात् । २२ । स्यादेतत्, यदि क्रियावत्त्व- ०५मभ्युपगम्यते जीवस्यानित्यत्वं प्राप्नोति । दृष्टा हि क्रियावतां प्रदीपादीनामनित्यतेति; तन्न; किं कारणम् ? व्यभिचारात् । महदहङ्कारादीनां परमाण्वादीनां च क्रियावतामपि नित्यत्वदर्शनात् व्यभिचारी हेतुः । अथ सर्वानित्यत्ववादी आत्मानित्यत्वे हेतुं ब्रूयात् असिद्धो हेतुः “सर्वे प्रत्ययजाश्चैव सर्वे चैव निरीहकाः” इति क्रियावत्त्वनिह्नवात् । किञ्च, १०अभ्युपगमात् । २३ । अभ्युपगम्यतेऽस्मामिः क्रियावतां जीवादीनां पर्यायार्थिकनयादेशात् अनित्यत्वं ततो न बाधाकरोऽयं हेतुः । असिद्धेश्च । २४ । नेदं क्रियावत्त्वमस्मान् प्रति सिद्धं द्रव्यार्थिकनयादेशात् निष्क्रियत्वो- पपत्तेः । एतेन प्रदीपादिदृष्टान्तासिद्धिश्च योज्या । किञ्च, अनुत्पादाव्ययोत्पादव्ययदर्शनात् । २५ । पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् सर्वे १५भावा अनुत्पादाव्ययदर्शनात् निष्क्रिया नित्याश्च । द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् सर्वे भावा उत्पादव्ययदर्शनात् सक्रिया अनित्याश्चेति अनेकान्तोपपत्तेः एकान्तवादिविहिता दोषा नानेकान्तवादे अवकाशं लभन्ते । अजीवकाया इत्यत्र कायग्रहणे प्रदेशास्तित्वमात्रत्वं निर्ज्ञातं नत्वियत्ताऽवधारिता प्रदेशानाम्, अतस्तन्निर्धारणार्थमिदमुच्यते — २०असंख्येयाः प्रदेशा धर्माऽधर्मैकजीवानाम् ॥ ८ ॥ संख्याविशेषातीतत्वादसंख्येयाः । १ । संख्यानं संख्या गणनेत्यर्थः । स्वलक्षणेन परस्परतो विशेष्यत इति विशेषः । संख्यायाः संख्यैव वा विशेषः संख्याविशेषः तमतिक्रान्ता ये तेऽसंख्येयाः । न केनचित् संख्यातुं शक्यन्त इति यावत् । तदनुपलब्धेरसर्वज्ञत्वप्रसङ्ग इति चेत्, न; तेनात्मनाऽवसितत्वात् । २ । स्यान्मतम्, यदि २५ते न केनचिदपि संख्यातुं शक्यन्ते, प्राप्तं तर्हि तदनुपलब्धेरसर्वज्ञत्वमिति; तन्न; किं कारणम् ? तेनात्मनाऽवसितत्वात् । यथा अनन्तमनन्तात्मनोपलभमानस्य न सर्वज्ञत्वं हीयते तथा असंख्ये- यमसंख्येयात्मनाऽवबुध्यमानस्य नास्ति सर्वज्ञत्वहानिः । न हि अन्यथाऽवस्थितमर्थमन्यथा वेत्ति सर्वज्ञो यथार्थज्ञत्वात् । अर्थस्य चाधिगमे त्रिविधं मानं व्याख्यातं संख्येयमसंख्येयमनन्त- मिति । तत्रेहाऽजघन्योत्कृष्टासंख्येयं परिगृह्यते । ३०प्रदिश्यन्त इति प्रदेशाः । ३ । प्रदिश्यन्ते प्रतिपाद्यन्त इति प्रदेशाः । कथं प्रदिश्यन्ते ? परमाण्ववस्थानपरिच्छेदात् । ४ । वक्ष्यमाणलक्षणो द्रव्यपरमाणुः स यावति क्षेत्रेऽवतिष्ठते स प्रदेश इति व्यवह्रियते । ते धर्माधर्मैकजीवाः तुल्याऽसंख्येयप्रदेशाः । तत्र धर्माधर्मौ निष्क्रियौ व्याप्य स्थितौ । जीवः तावत्प्रदेशोऽपि संहरणविसर्पणस्वभावत्वात् कर्मनिर्वर्तितं शरीरमणु महद्वा ४५० अधितिष्ठंस्तावदवगाह्य वर्तते । यदा तु लोकपूरणं भवति तदा मन्दरस्याधश्चित्रवज्रपटलयोर्मध्ये जीवस्याष्टौ मध्यप्रदेशाः व्यवतिष्ठन्ते, इतरे प्रदेशाः ऊर्ध्वमधस्तिर्यक् च कृत्स्नं लोकाकाशं व्यश्नुवते । एकद्रव्यस्य प्रदेशकल्पनोपचार इति चेत्; न; मुख्यक्षेत्रविभागात् । ५ । स्यान्मतम्, एक- द्रव्यस्य प्रदेशकल्पना उपचारतः स्यात् । उपचारश्च मिथ्योक्तिर्न तत्त्वपरीक्षायामधिक्रियते प्रयो- ०५जनाभावात् । न हि मृगतृष्णिकया मृषार्थात्मिकया जलकृत्यं क्रियते इति; तन्न; किं कारणम् ? मुख्यक्षेत्रविभागात् ? मुख्य एव क्षेत्रविभागः, अन्यो हि घटावगाह्यः आकाशप्रदेशः इतरावगा- ह्यश्चान्य इति । यदि अन्यत्वं न स्यात्; व्याप्तित्वं व्याहन्यते । निरवयवत्वानुपपत्तिरिति चेत्; न; द्रव्यविभागाभावात् । ६ । स्यादेतत्, यदि मुख्य एव विभागोऽभ्युपगम्यते निरवयवत्वं तर्हि नोपपद्यते इति; तन्न; किं कारणम् ? द्रव्यविभागाभावात् । १०यथा घटो द्रव्यतो विभागवान् सावयवः, न च तथैषां द्रव्यविभागोऽस्तीति निरवयवत्वं प्रयुज्यते । भेद्यत्वादात्मनामेकग्रहणम् । ७ । भेद्या आत्मानो बहव इत्यर्थः, तेन एकग्रहणं क्रियते, नानाजीवापेक्षया हि अनन्तप्रदेशत्वं स्यात् । कथञ्चित्प्रदेशभेदोपपत्तेः संबन्धनिर्देशः । ८ । एकश्चासौ जीवश्च एकजीवः, धर्मश्चाऽधर्म- श्चैकजीवश्च धर्माधर्मैकजीवाः तेषां धर्माधर्मैकजीवानाम् । प्रदेशा इति संबन्धनिर्देशः क्रियते । १५कुतः ? कथञ्चित्प्रदेशभेदोपपत्तेः । असंख्येयप्रदेशा इत्यस्तु लघुत्वात् इति चेत्; न; उत्तरार्थत्वात् भेदकरणस्य । ९ । स्यान्म- तम् — ‘असंख्येयप्रदेशाः धर्माधर्मैकजीवाः’ इत्यस्तु सूत्रम्, कुतः ? लघुत्वादिति; तन्न; किं कारणम् ? उत्तरार्थत्वात् भेदकरणस्य । प्रदेशा इति भेदकरणमुत्तरार्थम् । द्रव्यप्रधाने हि निर्देशे सति प्रदेशाना- मुपसर्जनत्वात् उत्तरत्राभिसंबन्धो न स्यात् । ततः प्रतिसूत्रं प्रदेशग्रहणे क्रियमाणे गौरवं स्यात् । २०कश्चिदाह — प्रदेशकल्पना निरवयवत्वादौपचारिकी सिंहवत् । १० । धर्मादीनां या प्रदेशकल्पना सा औपचारिकी । कुतः ? निरवयवत्वात् । कथम् ? सिंहवत् । यथा विशिष्टपञ्चेन्द्रियतिर्यङ्नामकर्मो- दयापादिताविशेषे क्रौर्यशौर्यादिगुणप्रकर्पाधिष्ठाने खरनखोग्रदंष्ट्राभासुरकेसरकपिलनयनतारकाद्यव- यवविशिष्टे केसरिणि सिंहशब्दोऽध्यवसितः माणवके अतद्गुणे भक्त्याऽध्यारोप्यते, तथा पुद्गलेषु २५मुख्यः प्रदेशशब्दः धर्मादिषु भक्त्योपचर्यते इति । न वा; प्रत्ययाभेदात् । ११ । न वा औपचारिकी । कुतः ? प्रत्ययाभेदात् । इह मुख्यप्रत्ययात् सिंहविशेषात् अध्यवसानरूपात् माणवके सिंह इति गौणप्रत्ययोऽध्यारोपरूपो भिन्न उपलभ्यते, न च तथा पुद्गलेषु धर्मादिषु च प्रदेशप्रत्ययो भिन्नोऽस्ति, उभयत्रावगाहभेदतुल्यत्वात् । इतश्च, उभयत्र सोपपदत्वात् । १२ । सिंहशब्दो निरुपपदो मुख्यं गमयति सोपपदो गौणम् — ३०सिंहो माणवक इति, न तथा प्रदेशशब्दे विशेषोऽस्ति पुद्गलेषु धर्मादिषु च सोपपदत्वात् — ‘घटस्य प्रदेशाः धर्मादीनां प्रदेशाः’ इति । ततो नास्त्यत्र विशेषः । इतश्च, हेत्वपेक्षाभावात् । १३ । सिंहे प्रसिद्धः क्रौर्यादिधर्मः तदेकदेशसादृश्यं माणवके गौणव्यवहारस्य हेतुरस्ति, न तथा पुद्गलेषु प्रसिद्धं हेतुमवेक्ष्य धर्मादिषु प्रदेशोपचारः क्रियते तेषामपि स्वाधीन- प्रदेशत्वात् । तस्मादुपचारकल्पना न युक्ता । ३५स्वतोऽवधारणाभावात् नाञ्जसा इति चेत्; न; अत्यन्तपरोक्षत्वात् । १४ । स्यान्मतम्; यदि घटादिवत् धर्मादीनाम् आञ्जसाः प्रदेशा भवेयुर्ननु घटादिवदेव स्वतः प्रदिश्येरन् । घटादीनां ४५१ हि प्रदेशा ग्रीवादय आञ्जसाः स्वत एव प्रदिश्यन्ते न द्रव्यान्तरतः, न त्वेवं धर्मादीनां प्रदेशाः स्वतः प्रदिश्यन्ते परमाण्ववगाहपरिच्छेद्यत्वात्, अतो न मुख्या इति; तन्न; किं कारणम् ? अत्यन्तपरोक्षत्वात् । युज्यते घटादीनां प्रत्यक्षत्वात् स्वत एव प्रदेशावधारणम् । अत्यन्तपरोक्षास्तु धर्मादयः, तत एषां मुख्या अपि प्रदेशा न शक्याः स्वात्मन्येवावधारयितुं न गौणप्रदेशत्वात् । ०५अर्हदागमप्रामाण्यात् । १५ । युगपत् सकलपदार्थत्वावभासनज्ञानातिशयेनार्हता आविष्कृत आगमः गणधरैरनुस्मृतवचनरचनः श्रुताख्यः, तच्छिष्यप्रशिष्यप्रज्ञावीचिपरम्परासमुपनीतोऽस्ति । तस्य प्रामाण्याद्धर्मादीनां क्षेत्रप्रदेशाः मुख्याः इत्येतदभ्युपगन्तव्यम् । तद्यथा, एकैकस्मिन्नात्मप्रदेशे अनन्तानन्ता ज्ञानावरणादिकर्मप्रदेशा अवतिष्ठन्ते, एकैकस्मिन् कर्मप्रदेशे अनन्तानन्ता औदारि- कादिशरीरप्रदेशाः, एकैकस्मिन् शरीरप्रदेशे अनन्तानन्ता वैस्रसोपचयप्रदेशाः क्लिन्नगुडरेण्वाद्यु- १०पचयवदवतिष्ठन्ते, तथा धर्मादिप्रदेशेष्वपि । किञ्च, स्थितास्थितवचनात् । १६ । भावान्तर(भवान्तर)परिणामे सुखदुःखानुभवने क्रोधादिपरि- णामे वा जीवप्रदेशानाम्उद्धवनिधवपरिस्पन्दस्याप्रवृत्तिः स्थितिः, प्रवृत्तिरस्थितिरित्युच्यते । तत्र “सर्वकालं जीवाष्टमध्यप्रदेशा निरपवादाः सर्वजीवानां स्थिता एव, केवलिनामपि अयोगिनां सिद्धानां च सर्वे प्रदेशाः स्थिता एव, व्यायामदुःखपरितापोद्रेकपरिणतानां जीवानां यथोक्ताष्टमध्यप्रदेशवर्जितानाम् इतरे १५(ता इतरे) प्रदेशाः अस्थिता एव, शेषाणां प्राणिनां स्थिताश्चाऽस्थिताश्च” इति वचना- न्मुख्या एव प्रदेशाः । किञ्च, इन्द्रियपरिणामवचनात् । १७ । इह वीर्यान्तरायमतिश्रुतज्ञानावरणक्षयोपशमाङ्गोपाङ्ग- नामलाभोपष्टम्भात् उत्सेधाङ्गुलस्यासंख्येयभागप्रमितानां विशुद्धानाम् आत्मप्रदेशानां चक्षुरा- दीन्द्रियपर्यायपरिणाम उक्तः प्रतिविशिष्टप्रदेशत्वात् परस्परस्थानासंक्रमेण साक्षाच्च दृश्यते तस्मा- २०न्मुख्या एवाऽऽत्मप्रदेशाः । किञ्च, द्रव्याणां प्रतिनियतप्रदेशावस्थानात् । १८ । इहान्येषु आकाशप्रदेशेषु पाटलिपुत्रं स्थितम्, अन्येषु च मथुरा, अतो नाना आकाशप्रदेशाः । यस्यैकान्तेन अप्रदेशमाकाशं तस्य यद्देशं पाटलिपुत्रं तद्देशभाविन्येव मथुरापि स्यात् । किञ्च, उभयदोषप्रसङ्गात् । १९ । संसरतोऽप्यस्य पिण्डस्य कर्णशष्कुल्यन्तरे अदृष्टविशेषसंस्कृतमा- २५काशं श्रोत्रमिति यदाख्यायते; तत्कृत्स्नं वा आकाशं स्यात्, न वा ? यदि कृत्स्नम्; ननूर्ध्वाधस्तिर्यग- वस्थितस्पर्शवद्द्रव्याभिघातोत्पन्नाः सर्वे शब्दाः सदा सर्वैः जीवैरुपलभ्या इत्यासक्तम् । अथैष दोषो मा प्रापत् इति प्रतिनियताकाशप्रदेशाः श्रोत्रमितीष्यते; नन्वाकाशप्रदेशानां बहुत्वात् यत्प्रति- ज्ञातम् — ‘न सन्त्याकाशप्रदेशा मुख्याः’ इति तद्धीनम् । अथवा, परमाणुराकाशेन कृत्स्रेन वा संयुज्येत, न वा ? यदि कृत्स्नेन; नन्वेवमणुमात्रमाकाशम् आकाशमात्रो वाऽणुः प्राप्नोति । अथ ३०एकप्रदेशेन संयुज्यते; ननु निरपवादमेतत् सिद्धं मुख्या एवाऽऽकाशप्रदेशा इति । किञ्च, कर्माभावप्रसङ्गात् । २० । इहोत्पन्नं कर्म स्वाश्रयम्आश्रयान्तराद्वियोज्य आश्रयान्तरेण संयोजयति इत्येषः कर्मणः स्वभावः, सत्येवं प्रदेशवत्त्वमाकाशस्य सिद्धम्, इतरथा हि कर्माभाव- प्रसङ्गः प्रदेशान्तरसङ्क्रमाभावात् । किञ्च, ४५२ एकानेकप्रदेशत्वं प्रत्यनेकान्तात् पुरुषवत् । २१ । यथा पुंसः सामान्यपौरुषेयशरीरद्रव्यार्था- देशात् स्यादेकत्वम्, तस्यैव शिरःपृष्ठोरूदरपाणिपादाङ्गुलिपर्वाद्यङ्गोपाङ्गपर्यायार्थादेशात् स्यादने- कत्वम् । अथवा, पुरुषद्रव्यार्थादेशात्स्यादेकत्वम्, स्वजात्यपरित्यागेन पावकलावकादिपर्यायार्था- देशात् स्यादनेकत्वम्, पितृपुत्रभ्रातृभागिनेयभ्रातृव्यमातुलादिपर्यायार्थादेशात् वा स्यादनेकत्वम्, ०५पञ्चेद्रियारोग्यमेधाविपटुकुशलसुशीलत्वादिपर्यायार्थादेशाद्वा स्यादनेकत्वम्, तथा धर्माधर्मा- काशजीवानाम् आत्मीयद्रव्यार्थादेशात् स्यादेकप्रदेशत्वं प्रतिनियतप्रदेशपर्यायार्थादेशात् स्यान्ना- नात्वम् इत्यनेकान्तः । संसारिणश्च व्यवहारतः सावयवत्वात् । २२ । व्यवहाराद् व्यवहारतः व्यवहारनयार्पणादि- त्यर्थः । कः पुनर्व्यवहारः ? अनादिकर्मबन्धनबद्धत्वम्, अतस्तदावेशात् तदनुविधायित्वे सति १०सावयवत्वोपपत्तेः संसारिणो जीवस्य प्रदेशवत्त्वम् । शुद्धनयादेशात्तूपयोगस्वभावस्याऽऽत्मनोऽप्रदे- शत्वम् । अथाकाशस्य कति प्रदेशा इति ? अत आह — आकाशस्यानन्ताः ॥ ९ ॥ अनन्ता इत्यन्यपदार्थनिर्देशः । १ । अन्तोऽवसानमित्यर्थः, अविद्यमानोऽन्तो येषां त १५इमेऽनन्ताः । अन्यपदार्थनिर्देशोऽयम् । के पुनस्ते ? प्रदेशाः । कुतः ? प्रत्यासत्तेस्तदभि- संबन्धोपपत्तेः । असंख्येयानन्तयोरविशेष इति चेत्; न; उक्तत्वात् । २ । स्यान्मतम् — असंख्येयानन्तयोर्नास्ति विशेषः । कुतः ? इयत्तापरिच्छेदाभावतुल्यत्वादिति; तन्न; किं कारणम् ? उक्तत्वात् । उक्तोऽनयो- र्भेदः “नृस्थिती परावरे” [तº सूº३ । ३८] इत्यत्र । २०अनन्तत्वादपरिज्ञानमिति चेत्; न; अतिशयज्ञानदृष्टत्वात् । ३ । स्यादेतत् — सर्वज्ञेनानन्तं परिच्छिन्नं वा, अपरिच्छिन्नं वा ? यदि परिच्छिन्नम्; उपलब्धावसानत्वात् अनन्तत्वमस्य हीयते । अथापरिच्छिन्नम्; तत्स्वरूपानवबोधात् असर्वज्ञत्वं स्यादिति । तन्न; किं कारणम् ? अतिशयज्ञान- दृष्टत्वात् । यत्तत्केवलिनां ज्ञानं क्षायिकम् अतिशयवत् अनन्तानन्तपरिमाणं तेन तदनन्तमवबुध्यते साक्षात् । तदुपदेशादितरैरनुमानेनेति न सर्वज्ञत्वहानिः । न च तेन परिच्छिन्नमित्यतः सान्तम् २५अनन्तेनाऽनन्तमिति ज्ञातत्वात् । किञ्च, सर्वेषामविप्रतिपत्तेः । ४ । नात्र सर्वे प्रवादिनो विप्रतिपद्यन्ते । केचित्तावदाहुः — “अनन्त लोकधातवः” इति । अपरे मन्यन्ते दिक्कालात्माकाशानां सर्वगतत्वात् अनन्तत्वमिति । iतरे ब्रुवते — प्रकृतिपुरुषयोरनन्तत्वं सर्वगतत्वादिति । न चैतेषामनन्तत्वादपरिज्ञानम्, नापि परिज्ञानत्वमात्रादेव तेषामन्तवत्त्वम् । तस्मात् नैतद्युक्तम् अनन्तत्वादपरिज्ञानमिति । ३०सर्वज्ञाभावप्रसङ्गाच्च । ५ । यस्य अर्थानामानन्त्यमपरिज्ञानकारणं तस्य सर्वज्ञाभावः प्रसजति । अनन्तो हि ज्ञेयः, तस्यानन्त्यादेव न च कश्चित् परिच्छेत्ताऽस्तीति । अथान्तवत्त्वं स्यात्; संसारो मोक्षश्च नोपपद्यते । कथमिति चेत्; उच्यते — जीवाश्चेत्सान्ताः; सर्वेषां हि मोक्षप्राप्तौ संसारोच्छेदः प्राप्नोति । तद्भयात् मुक्तानां पुनरावृत्त्यभ्युपगमे स मोक्ष एव न स्यात् अनात्यन्तिकत्वात् । एकैक- स्मिन्नपि जीवे कर्मादिभावेन व्यवस्थिताः पुद्गला अनन्ताः, तेषामन्तवत्त्वे सति कर्मनोकर्मविषय- ४५३ विकल्पाभावात् संसाराभावः तदभावान्मोक्षश्च न स्यात् । तथा अतीतानागतकालयोरन्त- वत्त्वे प्राक् पश्चाच्च कालव्यवहाराभावः स्यात् । न चासौ युक्तः, असतः प्रादुर्भावाभावात् सतश्चात्यन्तविनाशानुपपत्तेरिति । तथा आकाशस्यान्तवत्त्वाभ्युपगमे ततो बहिर्घनत्वप्रसङ्गः । नास्ति चेद्घनत्वम्; आकाशेनापि भवितव्यमित्यन्तवत्त्वाभावः । ०५उक्तममूर्तानां प्रदेशपरिमाणम्, इदानीं मूर्तानां पुद्गलानां प्रदेशपरिमाणं निर्ज्ञातव्यमित्यत आह — संख्येयाऽसंख्येयाश्च पुद्गलानाम् ॥ १० ॥ चशब्दोऽनन्तसमुच्चयार्थः । १ । अनन्ताः प्रकृतास्तेषां समुच्चयार्थश्चशब्दः क्रियते — संख्येया असंख्येया अनन्ताश्चेति । के पुनस्ते ? ‘प्रदेशाः’ इत्यनुवर्तते । कस्यचित्पुद्गलद्रव्यस्य द्व्यणु- कादेः संख्येयाः प्रदेशाः कस्यचिदसंख्येयाः अनन्ताश्च । १०अनन्तानन्तोपसंख्यानमिति चेत्; न; अनन्तसामान्यात् । २ । स्यादेतत् — अनन्तानन्तप्रदे- शाश्च पुद्गलाः सन्ति तदुपसंग्रहार्थं तदुपसंख्यानं कर्तव्यमिति; तन्न; किं कारणम् ? अनन्तसामा- न्यात् । अनन्तप्रमाणं त्रिविधमुक्तम् — परीतानान्तं युक्तानन्तम् अनन्तानन्तं चेति । तत्सर्वमनन्त- सामान्येऽन्तर्भावात् अनन्तग्रहणेन गृह्यत इति नोपसंख्यातव्यम् । अधिकरणविरोधादानन्त्याभाव इति चेत्; न; सूक्ष्मपरिणामावगाहनसामर्थ्यात् । ३ । १५स्यान्मतम् — असंख्यातप्रदेशो लोकः, अनन्तप्रदेशस्य अनन्तानन्तप्रदेशस्य च स्कन्धस्याधिकरणमिति विरोधः, ततो नानन्त्यमिति; तन्न; किं कारणम् ? सूक्ष्मपरिणामावगाहनसामर्थ्यात् । परमाण्वादयो हि सूक्ष्मभावेन परिणता एकैकस्मिन्नप्याकाशप्रदेशे अनन्तानन्ता अवतिष्ठन्ते । अवगाहनसामर्थ्य- मप्येषामव्याहतमस्ति येन एकैकस्मिन्नपि प्रदेशे अनन्ताऽनन्तानामवस्थानं न विरुध्यते । किञ्च, अनेकान्तात् । ४ । नायमेकान्तः — अल्पेऽधिकरणे महद्द्रव्यं नावतिष्ठते इति । कुतः ? २०प्रचयविशेषात् । ५ । प्रचयविशेषः संघातविशेषः इत्यर्थः । पुद्गलानां हि प्रचयविशेषात् अल्पे क्षेत्रे बहूनामवस्थानं दृष्टम् । कथम् ? संहृतविसर्पितचम्पकादिगन्धादिवत् । ६ । यथाऽल्पे कुड्मलावस्थे चम्पके सूक्ष्मप्रचय- परिणामात् संहृताश्चम्पकपुष्पगन्धावयवाः तद्व्यापिनो बहवोऽवतिष्ठमाना दृष्टाः । तस्मिन्नेव विसर्पिते स्थूलप्रचयपरिणामाद्विनिर्गताश्चम्पकगन्धावयवाः सर्वदिग्व्यापिनो दृष्टाः । यथा वाल्पे २५करीषपटले दारुपिण्डे च प्रचयविशेषावगाढाः सन्तः पुद्गला अग्निना दह्यमानाः प्रचयविशेषेण धूमभावेन दिङ्मण्डलव्यापिनो दृष्टाः, तथाऽल्पेऽपि लोकाकाशे अनन्तानामनन्तानन्तानां च जीव- पुद्गलानामवस्थानमिति नास्ति विरोधः । पुद्गलानामित्यविशेषवचनात् परमाणोरपि प्रदेशवत्त्वप्रसङ्गे तत्प्रतिषेधार्थमाह — नाणोः ॥ ११ ॥ ३०अणोः प्रदेशाः न, सन्तीति वाक्यशेषः । कुतो न सन्तीति चेत् ? उच्यते — प्रदेशमात्रत्वात् । १ । यथा आकाशप्रदेशस्यैकस्य प्रदेशभेदाभावात् अप्रदेशवत्त्वम्, एवम- णोरपि प्रदेशमात्रत्वात् प्रदेशभेदाभावः । किञ्च, ४५४ ततोऽल्पपरिमाणाभावात् । २ । न हि अणोरल्पीयान् अस्ति यतोऽस्य प्रदेशाः भिद्येरन् । अतः स्वयमेवाद्यन्तपरिमाणत्वादप्रदेशोऽणुः । किञ्च, अन्वर्थसंज्ञत्वात् । ३ । यथा प्रदीपनात् प्रदीप इत्यन्वर्थसंज्ञा तथाऽणुरितीयमप्यन्वर्थसंज्ञा अणुत्वात् सूक्ष्मत्वात् अणुरिति । यदि ह्यणोरपि प्रदेशाः स्युः; अणुत्वमस्य न स्यात् प्रदेशप्रचय- ०५रूपत्वात्, तत्प्रदेशानामेवाणुत्वं प्रसज्येत । अप्रदेशत्वादभावः खरविषाणवदिति चेत्; न; उक्तत्वात् । ४ । स्यादेतत् — यथा खरविषाणम- प्रदेशत्वान्नास्ति तथाणुरपि भवेदिति; तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् — प्रदेशमात्रोऽणुः, न खरविषाणवदप्रदेश इति । आदिमध्यान्तव्यपदेशाभावादिति चेत्; न; विज्ञानवत् । ५ । स्यान्मतम् — आदिमध्यान्तव्य- १०पदेशः परमाणोः स्याद्वा, न वा ? यद्यस्ति; प्रदेशवत्त्वं प्राप्नोति । अथ नास्ति; खरविषाणवदस्या- भावः स्यादिति । तन्न; किं कारणम् ? विज्ञानवत् । यथा विज्ञानमादिमध्यान्तव्यपदेशाभावे- ऽप्यस्ति तथाऽणुरपि इति । उत्तरत्र च तस्यास्तित्वं वक्ष्यते । एषामवधृतप्रदेशानां धर्मादीनामाधारप्रतिपत्त्यर्थमाह — लोकाकाशेऽवगाहः ॥ १२ ॥ १५अनन्तरत्वात् पुद्गलानामवगाहप्रसङ्ग इति चेत्; न, समुदायापेक्षत्वात् । १ । स्यादेतत् अनन्तराः पुद्गलाः ततस्तेषामेव लोकाकाशेऽवगाहः इत्ययमर्थ आसक्त इति; तन्न; किं कारणम् ? समुदायापेक्षत्वात् । धर्मादीनि द्रव्याणि समुदितान्यत्रापेक्ष्यन्ते, तत्रानन्तरमिदं व्यवहितमिदमिति विवेको नास्ति । ततः सर्वद्रव्याणामाधारगतिः सिद्धा भवति । आकाशस्यापि अन्याधारकल्पनेति चेत्; न; स्वप्रतिष्ठत्वात् । २ । स्यान्मतम् — यथा धर्मा- २०दीनां लोकाकाशमाधारः तथा आकाशस्याप्यन्येनाधारेण भवितव्यमिति; तन्न; किं कारणम् ? स्वप्रतिष्ठत्वात् । स्वस्मिन् प्रतिष्ठाऽस्येति स्वप्रतिष्ठमाकाशम् । स्वात्मैवास्याधेय आधारश्चेत्यर्थः । कुतः ? ततोऽधिकप्रमाणद्रव्यान्तराधाराभावात् । ३ । न हि आकाशादधिकप्रमाणं द्रव्यान्तरमस्ति यत्राकाशमाधेयं स्यात्, ततः सर्वतो विरहितान्तस्यास्याधिकरणान्तरस्याऽभावात् स्वप्रतिष्ठ- मवसेयम् । २५तथा चानवस्थानिवृत्तिः । ४ । एवं च कृत्वा अनवस्थादोषनिवृत्तिर्भवति — यतः स्वप्रतिष्ठमा- काशं न तस्यान्यदधिकरणं द्रव्यान्तरमस्ति । अन्याधिकरणत्वे हि तस्याप्यन्यत् तस्याप्यन्यदित्य- नवस्था प्रसज्येत । किञ्च, परमार्थतया आत्मवृत्तित्वात् । ५ । एवंभूतनयादेशात् सर्वद्रव्याणि परमार्थतया आत्मप्रति- ष्ठानीत्याधाराधेयाभावात् कुतोऽनवस्था ? ३०अन्योन्याधारताव्याघात इति चेत्; न; व्यवहारतस्तत्सिद्धेः । ६ । स्यान्मतम् — यदि सर्वाणि द्रव्याणि परमार्थतया स्वात्मप्रतिष्ठानि ननु यदुक्तम् — “वायोराकाशमधिकरणम्, उदकस्य वायुः, पृथिव्या उदकम्, सर्वजीवानां पृथिवी, अजीवा जीवाधाराः, जीवाश्चाऽजीवाधाराः, कर्मणामधिकरणं जीवाः, जीवानां कर्माणि, धर्माधर्मकाला आकाशाधिकरणाः” इत्येतस्या अन्योन्याधारतायाः व्याघात इति; तन्न; किं कारणम् ? व्यवहारतस्तत्सिद्धेः । सर्वमिदमुक्तम् अन्योन्याधारत्वं ४५५ व्यवहारनयवक्तव्यबललाभादेशात् सिद्ध्यति । व्यावहारिकमेतत् — आकाशे वातादीनामवगाह इति । आधारान्तरकल्पनायामनवस्थाप्रसङ्ग इति । परमार्थतस्तु आकाशवत् वातादीन्यपि स्वात्माधिष्ठानानि । तत्कथमिति चेत् ? उच्यते — क्रियाविष्टकर्तृकर्माधारवत् । ७ । क्रिया द्विविधा — कर्तृसमवायिनी कर्मसमवायिनी चेति । ०५तत्र कर्तृसमवायिनी आस्ते गच्छतीति । कर्मसमवायिनी ओदनं पचति, कुशूलं भिनत्तीति । तदा विष्टस्य कर्तुः कर्मणश्चाधार आसनादिः स्थाल्यादिश्च । तत्र व्यवहारनयवशात् क्रियायाः द्रव्य- मधिकरणम्, तदाविष्टस्य द्रव्यस्य द्रव्यान्तरम् । परमार्थतस्तु एवंभूतनयवशात् क्रिया क्रियात्म- न्येव, द्रव्यमपि स्वात्मन्येव । तथा लोकाकाशेऽवगाहो धर्मादीनामिति व्यवहारनयादेशादुक्तम्, परमार्थतस्तु सर्वद्रव्याणि स्वात्माधिकरणानि । १०आकाशधर्मादीनामाधाराधेयत्वात् कुण्डबदरवत् प्रसङ्ग इति चेत्; न; अयुतसिद्धेऽपि तद्दर्शनात् शरीरे हस्तवत् । ८ । स्यादेतत् — यथा कुण्डे बदराणि इत्याधारः कुण्डम्, आधेयानि बद- राणीति पूर्वापरकालत्वं युतसिद्धिश्च तेषाम्, तथा आधारत्वात् पूर्वमाकाशं पश्चाद्धर्मादीन्याधेयत्वा- दिति युतसिद्धि; अतोऽनादित्वव्याघात इति; तन्न; किं कारणम् ? अयुतसिद्धेऽपि तद्दर्शनात् । कथम् ? शरीरे हस्तवत् । यथा हस्तशरीरयोर्युगपदुत्पत्तौ पूर्वापरत्वेऽसति अयुतसिद्धस्य हस्तस्य १५शरीरमाधारः, तथा आकाशधर्मादीनामनादिपारिणामिकयौगपद्यसिद्धौ असति पूर्वापरीभावे भवत्याधाराधेयत्वम् । किञ्च, अनेकान्तात् । ९ । नैतदैकान्तिकम् — युतसिद्धस्यैवाधाराधेयत्वं नायुतसिद्धस्येति । स्तम्भसारा- दिषु कुण्डबदरादिषु च दर्शनात् । तस्मादनेकान्तान्नायमुपालम्भः । अथ लोकाकाश इत्युच्यते, को लोको नाम ? २०यत्र पुण्यपापफललोकनं स लोकः । १० । पुण्यपापयोः कर्मणोः फलं सुखदुःखलक्षणं यत्रा- (यत्र)लोक्यते स लोकः । कः पुनरसौ ? आत्मा । लोकतीति वा लोकः । ११ । लोकति पश्यत्युपलभते अर्थानिति लोकः । इतरद्द्रव्यालोकप्रसङ्ग इति चेत्; न; रूढौ क्रियाया व्युत्पत्तिमात्रनिमित्तत्वात् । १२ । स्यादेतत् — द्विधाप्युक्तेन क्रमेण जीवस्यैव लोकत्वं प्राप्तम् इतरेषां द्रव्याणामलोकत्वं ततश्च “षड्- २५द्रव्यसमूहो लोकः” इत्यार्षस्य विरोध इति; तन्न; किं कारणम् ? रूढौ क्रियाया व्युत्प- त्तिमात्रनिमित्तत्वात् । यथा गच्छतीति गौरिति व्युत्पत्तौ स्थितादीनां न गोत्वनिवृत्तिः, तथा लोक- नाल्लोक इति व्युत्पत्तावपि धर्मादीनामपि न लोकत्वं हीयते । लोक्यत इति वा लोकः । १३ । सर्वज्ञेनाऽनन्ताऽप्रतिहतकेवलदर्शनेन लोक्यते यः स लोकः । तेन धर्मादीनामपि लोकत्वं सिद्धम् । ३०आत्मनोऽलोकत्वप्रसङ्ग इति चेत्; न; स्वात्मलोकनात् । १४ । यो लोकते आत्मा तस्याऽ- लोकत्वं प्राप्नोति लोक्यत्वाभावादिति; तन्न; किं कारणम् ? स्वात्मलोकनात् । योऽसौ सर्वज्ञो बाह्यं लोकमानः स आत्मानमपि लोकते इति लोकत्वमस्य सिद्धम्, इतरथा हि तस्य सर्वदर्शित्वाभावः आत्मानवलोकनात् । आत्मानमनवलोकमानस्य बाह्यलोकनासंभवश्च घटादिवत् । यथा घटादि- रात्मानमपश्यन्नपरान् न पश्यति । ३५अलोकस्यापि लोकत्वप्रसङ्ग इति चेत्; न; उक्तत्वात् । १५ । स्यान्मतम् — यदि लोक्यत इति लोकः, अलोकस्यापि लोकत्वं प्राप्नोति सर्वदर्शिना लोक्यत्वात् । अथालोकं न लोकते; सर्वदर्शित्व- ४५६ मस्य हीयते, न चैतदिष्टम्, तस्माल्लोकत्वप्रसङ्ग इति; तन्न; किं कारणम् ? उक्तत्वात् — रूढिविशेष- बललाभात् विशेषे वृत्तिरिति । उभयविशेषणभावाद्वा । १६ । अथवा, उभयविशेषणमिहोपादीयते । यत्रस्थेन सर्वज्ञेन लोक्यते यः स लोक इति । न चाऽलोकस्थेनाऽलोको लोक्यते ततो नालोकस्य लोकत्वप्रसङ्गः । ०५तस्याऽऽकाशं लोकाकाशं जलाशयवत् । १७ । यथा जलस्य आशय(यः)स्थानं जलाशय इत्यु- च्यते, तथा लोकस्याकाशं लोकाकाशमिति स्थानापेक्षः संबन्धोऽवसेयः । धर्माधर्मपुद्गलकालजीवा यत्र लोक्यन्ते स लोक इति वा । १८ । अथवा, धर्माधर्मपुद्गलकाल- जीवा यत्र लोक्यन्ते स लोक इत्यधिकरणसाधनो घञ् । किं पुनरधिकरणम् ? आकाशम् । लोक एवाकाशं लोकाकाशमिति समानाधिकरणलक्षणा वृत्तिः, तस्मिन्नवस्थानं धर्मादीनां द्रव्याणाम् । अत १०आकाशं परप्रत्ययवशात् द्वेधा विभज्यते — लोकाकाशमलोकाकाशं चेति । लोकाकाशं धर्माधर्म- तुल्याऽसंख्येयप्रदेशम् । बहिः समन्तादनन्तमलोकाकाशम् । तत्रावध्रियमाणानामवस्थानभेदसंभवात् विशेषप्रतिपत्त्यर्थमाह — धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ निरवशेषव्याप्तिप्रदर्शनार्थं कृत्स्नवचनम् । १ । यथा अगारैकदेशे घटस्यावस्थानं न तथा १५धर्माधर्मयोः लोकाकाशेऽवगाहः । किं तर्हि ? तिलेषु तैलवदिति निरवशेषव्याप्तिप्रदर्शनार्थं कृत्स्न- वचनं क्रियते । धर्माधर्मौ हि लोकाकाशमशेषं नैरन्तर्येण व्याप्य स्थितौ । कथमेषां परस्पर- प्रदेशाविरोधः ? अमूर्तित्वात् त्रयाणां परस्परप्रदेशाविरोधः । २ । मूर्तिमन्तोऽपि केचित् जलभस्मसिकतादयः एकत्र अविरोधेनाऽवतिष्ठन्ते किमुताऽमूर्तीनि धर्माधर्माकाशानि । तस्मादमूर्तित्वादेषां परस्पर- २०प्रदेशाविरोधो वेदितव्यः । अनादिसंबन्धपरिणामाच्च । ३ । भेदसंघातगतिपरिणामपूर्वकादिमत्संबन्धानां स्थवि- ष्ठानां स्कन्धानां केषाञ्चित् प्रदेशविरोधः स्यात् न तु धर्मादीनां तद्वत् आदिमान् संबन्धः, पारि- णामिकाऽनादिसंबन्धात्तेषाम्, ततश्च अन्योऽन्यप्रदेशाविरोधः सिद्धः । ततो विपरीतानां मूर्तिमतामप्रदेशसंख्येयाऽनन्तप्रदेशानां पुद्गलानामवगाहनविशेषप्रति- २५पत्त्यर्थमाह — एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ एकप्रदेशादिष्वित्यवयवेन विग्रहः समुदायो वृत्त्यर्थः । १ । एकश्चासौ प्रदेशश्चैकप्रदेशः, एकप्रदश आदिर्येषां त इमे एकप्रदेशादयः । के पुनस्ते ? प्रदेशाः । कुत एतत् ? तुल्यजातीयत्वात् उपलक्ष्योपलक्षणयोः सोमशर्मादिवत् । प्रदेशग्रहणानुवृत्तेर्वा, तेष्वेकप्रदेशादिषु इति विग्रहे समु- ३०दायो वृत्त्यर्थः सर्वादिवत् । तेनैकप्रदेश उपलक्षणभूतोऽप्यन्तर्भवति । भाज्यो विकल्प्यः । २ । भजनीयो भाज्यः पृथक्कर्तव्यः विकल्प्यो विभाज्य इत्यनर्थान्तरम् । कः पुनरसौ ? अवगाह इत्यनुवर्तते । तद्यथा-एकस्य परमाणोरेकत्रैव आकाशप्रदेशेऽवगाहः, ४५७ द्वयोरेकत्रोभयत्र च बद्धयोरबद्धयोश्च, त्रयाणामेकत्र द्वयोस्त्रिषु च बद्धानामबद्धानां च । एवं संख्ये- यासंख्येयाऽनन्तप्रदेशानां स्कन्धानामेकसंख्येयासंख्येयप्रदेशेषु लोकाकाशे अवस्थानं प्रत्येतव्यम् । एकप्रदेशे नैकस्यावस्थानमयुक्तमिति चेत्; न; उक्तत्वात् । ३ । स्यान्मतम् — भवतु तावद्ध- र्मादीनां एकप्रदेशेऽवस्थानम् अमूर्तिस्वभावत्वात्, मूर्तिमतां तु पुद्गलानाम् एकप्रदेशेऽवस्थान- ०५मयुक्तम् । भवति चेत्; प्रदेशस्य विभागवत्त्वं प्रसक्तम्, अवगाहिनां चैकत्वमिति; तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् — प्रचयविशेषादिभिरै(रे)कत्रावस्थानमिति । किञ्च, एकापवरकेऽनेकप्रकाशावस्थानदर्शनादविरोधः । ४ । यथैकस्मिन्नपवरके बहवः प्रकाशाः वर्तन्ते न च क्षेत्रविभागः, नापि एकक्षेत्रावगाहित्वात् तेषां प्रकाशानामेकत्वम्, तथैकस्मिन् प्रदेश अनन्ता अपि स्कन्धाः सूक्ष्मपरिणामात् असङ्करेण व्यवतिष्ठन्त इति नास्ति विरोधः । किञ्च, १०द्रव्यस्वभावस्याऽचोदनार्हत्वात् । ५ । द्रव्याणां हि स्वभावाः प्रतिनियताः सन्ति, न ते चोद- नार्हाः — एवं भवतु मैवं भूदिति । यथा अग्न्यादीनां दहनादयः तृणादीनां च दाह्यत्वादयस्तथा मूर्तिमत्त्वेऽपि अवगाहनस्वभावत्वादेकस्मिन्नपि प्रदेशे बहूनां स्कन्धानामवरोधो न विरोधाय कल्प्यते । किञ्च, आर्षोक्तत्वात् सूक्ष्मनिगोतावस्थानवत् । ६ । सर्वज्ञज्ञानद्योतितार्थसारं गणधरानुस्मृतवचन- १५रचनं शिष्यप्रशिष्यप्रबन्धाऽव्युपरमादव्युच्छिन्नसन्तानम् आर्षमवितथमस्ति — “ओगाढगाढणिचिदो पोग्गलकाएहि सव्वदो लोगो । सुहुमेहिं बादरेहिं अणंताणंतेहि विविधेहिं ॥ ”[पञ्चास्तिº गाº ६४] इत्येवमादि । अतस्तत्प्रामाण्यादपि उक्तोऽवगाहोऽवसेयः । यथैकनिगोतजीवशरीरेऽनन्ता निगोतजीवाः तिष्ठन्ति साधारणाऽऽहारप्राणापानजीवितमरणत्वात् साधारणा इत्यन्वर्थसंज्ञा इत्येत- २०दागमप्रामाण्यादवसीयते तथैवेदमपीति । अथ जीवानामवगाहः कथमित्यत इदमुच्यते — असंख्येयभागादिषु जीवानाम् ॥ १५ ॥ असंख्येयभागादिष्विति चोक्तम् । किमुक्तम् ? अवयवेन विग्रहः समुदायो वृत्त्यर्थ इति । १ । असंख्येयानां भागानामेको भागोऽसंख्येय- २५भागः, असंख्येयभाग आदिर्येषां ते असंख्येयभागादयः तेषु असंख्येयभागादिषु । किं भाज्यः ? अवगाह इत्यनुवर्तते । अत्राह — कस्याऽसंख्येयभागादिष्विति ? लोकाकाशप्रकरणात्तदभिसंबन्धः । २ । लोकाकाश इत्यनुवर्तते, अतस्तदभिसंबन्धोऽत्र वेदि- तव्यः । ननु च असावधिकरणनिर्देशः, संबन्धनिर्देशेन चेहार्थः । अर्थवशाद्विभक्तिपरिणामः । ३ । यथा ‘उच्चानि देवदत्तस्य गृहाणि आमन्त्रयस्वैनम्’ ‘देवदत्तम्’ ३०इति गम्यते, एवमसंख्येयभागादिषु इत्यनेनाभिसंबन्धात् लोकाकाश इत्येष निर्देशः । लोकाका- शस्येत्यर्थवशात् विभक्तिः परिणम्यते । तद्यथा — लोकस्य प्रदेशाः असंख्येया भागाः कृताः, तत्रै- ४५८ कस्मिन्नसंख्येयभागे एको जीवोऽवतिष्ठते । तथा द्वित्रिचतुरादिष्वपि असंख्येयभागेषु आ सर्व- लोकादवगाहः प्रत्येतव्यः । नानाजीवानां तु सर्वलोक एव । असंख्येयत्वाविशेषादवगाहाविशेष इति चेत्; न; असंख्येयस्याऽसंख्येयविकल्पत्वात् । ४ । स्यान्मतम् — एकस्मिन्नप्यसंख्येयभागे प्रदेशा असंख्येयाः, द्वित्रिचतुरादिष्वपि असंख्येया एव ततो ०५नास्ति जीवानामवगाहविशेष इति; तन्न; किं कारणम् ? असंख्येयस्यासंख्येयविकल्पत्वात् । अज- घन्योत्कृष्टासंख्येयस्य हि असंख्येया विकल्पाः । अतोऽवगाहविकल्पो जीवानां सिद्धः । प्रमाणविरोधादवगाहायुक्तिरिति चेत्; न; जीवद्वैविध्यात् । ५ । स्यादेतत् — यदैकस्मिन् लोकस्यासंख्येयभागे एको जीवोऽवतिष्ठते द्रव्यप्रमाणेनानन्तानन्तो जीवराशिः लोकाकाशे प्रमा- णविरोधान्न स्थातुमर्हति इति; तन्न; किं कारणम् ? जीवद्वैविध्यात् । द्विविधा जीवाः बादराः १०सूक्ष्माश्चेति । तत्र बादराः सप्रतिघातशरीराः । सूक्ष्मा जीवाः सूक्ष्मपरिणामादेव सशरीरत्वेऽपि परस्परेण बादरैश्च न प्रतिहन्यन्त इत्यप्रतिघातशरीराः । ततो यत्रैकसूक्ष्मनिगोतजीवस्तिष्ठति तत्रानन्तानन्ताः साधारणशरीराः वसन्ति । बादराणां च मनुष्यादीनां शरीरेषु संस्वेदजसंमूर्च्छन- जादीनां जीवानां प्रतिशरीरं बहूनामवस्थानमिति नास्त्यवगाहविरोधः । यदि बादरा एव जीवा अभविष्यन्नपि तर्हि अवगाहविरोधोऽजनिष्यत । कथं सशरीरस्यात्मनोऽप्रतिघातत्वमिति चेत् ? १५दृष्टत्वात् । दृश्यते हि वालाग्रकोटिमात्रछिद्ररहिते घनबहलायसभित्तितले वज्रमयकपाटे बहिः समन्तात् वज्रलेपलिप्ते अपवरके देवदत्तस्य मृतस्य मूर्तिमज्ज्ञानावरणादिकर्मतैजसकार्मणशरीर- संबन्धित्वेऽपि गृहमभित्त्वैव निर्गमनम्, तथा सूक्ष्मनिगोतानामप्यप्रतिघातित्वं वेदितव्यम् । अत्राह — लोकाकाशतुल्यप्रदेशः एको जीव इत्युक्तम्, तस्य कथं लोकस्यासंख्येयभागादिषु वृत्तिः ? ननु सर्वलोकव्याप्त्यैव भवितव्यमित्यत्रोच्यते — २०प्रदेशसंहारविसर्पाभ्यां प्रदीपवत् ॥ १६ ॥ कार्मणशरीरवशात् उपात्तसूक्ष्मबादरशरीरानुवर्तनं प्रदेशसंहारविसर्पः । १ । अमूर्तस्व- भावस्याप्यात्मनः अनादिसंबन्धं प्रत्येकत्वात् कथञ्चिन्मूर्ततां बिभ्रतः लोकाकाशतुल्यप्रदेशस्यापि कार्मणशरीरवशात् उपात्तसूक्ष्मशरीरमधितिष्ठतः शुष्कचर्मवत् संकोचनं प्रदेशसंहारः । बादरश- रीरमधितिष्ठतो जले तैलवत् विसर्पणं विसर्पः । २५ताभ्यामसंख्येयभागादिषु वृत्तिः प्रदीपवत् । २ । यथा निरावरणव्योमप्रदेशावधृतप्रकाश- परिमाणः प्रदीपः शरावमानिकापवरकाद्यावरणवशात् तत्परिमाणप्रकाश उपलभ्यते, तथा ताभ्यां प्रदेशसंहारविसर्पाभ्याम् असंख्येयभागादिषु परिच्छिन्ना वृत्तिरात्मनोऽवगन्तव्या । तद्वदनित्यत्वप्रसङ्ग इति चेत्; न; इष्टत्वात् । ३ । स्यादेतत् — यदि संहारविसर्पणस्वभाव आत्मा प्रदीपादिवदेवास्यानित्यत्वं प्रसजतीति; तन्न; किं कारणम् ? इष्टत्वात् । इष्टमेवैतत् — आत्मनः ३०कार्मणशरीरापादितप्रदेशसंहारविसर्पपर्यायादेशादनित्यत्वम् । अथवा इष्टत्वात्, इष्टमेवैतत्, संको- चविकासस्वभावत्वेऽपि रूपिद्रव्यसामान्यादेशान्नित्यत्वं तथात्मनोऽपीति न बाधाकरो दृष्टान्तः । सावयवत्वात् प्रदेशविशरणप्रसङ्ग इति चेत्; न; अमूर्तस्वभावापरित्यागात् । ४ । स्यान्मतम् — प्रदीपादिवत् यदि प्रदेशसंहारविसर्पवानात्मा, अतः संसारिणः घटादिवत् छेदभेदा- ४५९ दिभिः प्रदेशविशरणप्रसङ्गः, ततश्च शून्यता प्राप्नोति इति; तन्न; किं कारणम् ? अमूर्तस्वभावा- परित्यागात् । बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदादन्यत्वमापद्यमानः नामूर्तस्वभावं जहातीति घटादिवत् न प्रदेशविशरणमस्ति । किञ्च, अनेकान्तात् । ५ । यो ह्येकान्तेन संहारविसर्पवानेवात्मा सावयवश्चेति वा ब्रूयात् तं प्रत्यय- ०५मुपालम्भो घटामुपेयात् । यस्य त्वनादिपारिणामिकचैतन्यजीवद्रव्योपयोगादिद्रव्यार्थादेशात् स्यान्न प्रदेशसंहारविसर्पवान्, द्रव्यार्थादेशाच्च स्यान्निरवयवः, प्रतिनियतसूक्ष्मबादरशरीरापेक्षनिर्माण- नामोदयपर्यायार्थादेशात् स्यात् प्रदेशसंहारविसर्पवान्, अनादिकर्मबन्धपर्यायार्थादेशाच्च स्यात् सावयवः, तं प्रत्यनुपालम्भः । किञ्च, तत्प्रदेशानामकारणपूर्वकत्वादणुवत् । ६ । यस्यावयवाः कारणपूर्वका भवन्ति तस्यावयव- १०विशरणं भवति, अवयूयन्ते इत्यवयवाः । यथा पटादेरनेकतन्त्वादिसंघातकारणत्वात् तन्त्वादिवि- श्लेषे विशरणं भवति न तथा आत्मनः अन्यद्रव्यसंघातपूर्वकाः प्रदेशाः । कुतः ? तत्प्रदेशानाम- कारणपूर्वकत्वात् । यथा अणोः प्रदेशः नान्यद्रव्यसंघातपूर्वकः ततो नासाववयवविश्लेषपूर्वकमनि- त्यत्वमास्कन्दति किन्तु संघातेनाऽनित्यः, तथा आत्मप्रदेशानामपि नान्यद्रव्यसंघातपूर्वकत्वमतः प्रदेशवत्त्वात् आत्मा सावयवोऽपि नावयवविश्लेषादनित्यः, किन्तु गत्यादिपर्यायादेशादनित्यः । १५तत एव प्रतिप्रदेशं गुणविशेषाभावो घटवत् । ७ । कुत एव ? प्रदेशानामकारणपूर्वकत्वादेव । यथा घटस्य प्रदेशा अन्यद्रव्यसंघातपूर्वका इति तेषु प्रतिप्रदेशं रूपादिगुणविशेषो दृष्टः, न तथा आत्मप्रदेशा अन्यद्रव्यसंघातपूर्वका इति न तेषु प्रतिप्रदेशं सुखादिगुणविशेषो भवति । यदि अन्य- द्रव्यसंघातपूर्वकाः स्युरात्मप्रदेशाः तेषु घटवत् सुखादिविशेषवृत्तिः स्यात्, ततश्चात्मनो बहुत्वं प्रसज्येत । यथाऽणौ निरवयवे एकजातीयो गुणः शुक्लादिरेककाले भवति एक एव न भिन्नजातीय- २०स्तथा आत्मनि निरवयवे एकजातीयो गुणः सुखादिरेककाले भवति एक एव । अत्र कश्चिदाह — “वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमश्चेत् सोऽनित्यः खतुल्यश्चेदसत्फलम् ॥ ” इति । अत्रोच्यते — पिष्टपेषणमेतत्, मूर्ताऽमूर्तत्वं प्रति नित्यानित्यत्वं च प्रत्यनैकान्तिकत्वात् उपालम्भाभाव इति । २५पुद्गलवदेकप्रदेशादिषु वृत्तिप्रसङ्ग इति चेत्; न; शरीरप्रमाणानुविधानात् । ८ । स्या- न्मतम् — प्रदेशसंहारविसर्पाभ्यामेव पुद्गलवदेकप्रदेशादिषु जीवस्य वृत्तिः प्राप्नोतीति; तन्न; किं कारणम् ? शरीरप्रमाणानुविधानात् । कार्मणशरीरवशादुपात्तं महदल्पं वा शरीरमधितिष्ठति संसारी जीव इत्युक्तम् । न चैकप्रदेशादिकं शरीरमस्ति जघन्येनाऽङ्गलस्याऽसंख्येयभागप्रमा- णत्वात् । अतो नास्यैकप्रदेशादिषु वृत्तिरस्ति । ३०मुक्तानां तत्प्रसङ्ग इति चेत्; न; देशोनान्त्यविग्रहप्रमाणावस्थानात् । ९ । स्यादेतत् — यदि शरीरप्रमाणानुविधानात् आत्मनो नैकप्रदेशादिषु वृत्तिः, मुक्तानां तर्हि तदभावात्तत्प्रसङ्ग इति; तन्न; किं कारणम् ? देशोनान्त्यविग्रहप्रमाणावस्थानात् । येन शरीरेण मुक्तिमवाप्तवान् जीवस्तत्प्रमाणमेव देशोनमवलम्ब्यावतिष्ठते, न ततो वृद्धिर्नापि हानिः, पुनः प्रदेशसंहारविसर्पकारणाभावात् । अत्राह — ४६० न धर्मादीनां नानात्वम्, कुतः ? देशसंस्थानकालदर्शनस्पर्शनावनाहनाद्यभेदात् । १० । देशस्तावदेषामभिन्नः — यस्मिन् देशे धर्मोऽवस्थितः तस्मिन्नेवेतरेषामवस्थानात् । संस्थानमप्यभिन्नम् — यदेव धर्मस्य संस्थानमाकारः तदेवेतरेषाम् । कालश्चाभिन्नः — त्रिषु कालेषु धर्मादीनां तुल्यवृत्तित्वात् । दर्शनमप्यविशिष्टम् — येषु(तेषु)यत्रैको धर्मः प्रत्यक्षज्ञानिभिर्दृष्टः तत्रैवेतरेषामपि दर्शनम् । स्पर्शन- ०५मप्यविशिष्टम् — धर्मादीनि द्रव्याणि सर्वात्मनाऽन्योन्यं स्पृशन्तीति । अवगाहनं चाऽभिन्नम् — एषां सर्वगतत्वात् । तथा अरूपत्वद्रव्यत्वज्ञेयत्वादिभिरप्यविशेषोऽवसेयः । अत्रोच्यते — न; अतस्तत्सिद्धेः । ११ । यत एव धर्मादीनां देशादिभिः अविशेषस्त्वया चोद्यते अत एव नानात्वसिद्धिः, यतो नासति नानात्वेऽविशेषसिद्धिः । न ह्येकस्याविशेषोऽस्ति । किञ्च, यथा रूप- रसादीनां तुल्यदेशादित्वे नैकत्वं तथा धर्मादीनामपि नानात्वमिति । १०आह — रूपादीनां तुल्यदेशत्वेऽपि चाक्षुपत्वादिविशिष्टलक्षणोपेतत्वात् नानात्वं युक्तं न तथा धर्मादीनां विशेषकरं किञ्चिल्लक्षणमुक्तम् । स्यादेतत्, यदि न लक्षणभेदः । अस्ति तु भिन्नं लक्षणम् । किं पुनस्तदिति ? अत उत्तरं पठति — गतिस्थित्युपग्रहौ धर्माधर्मयोरुपकारः ॥ १७ ॥ अथवा, अणुस्कन्धभेदात् पुद्गलानाम् असंख्येयप्रदेशत्वाच्च आत्मनाम् अवगाहिनाम् एक- १५प्रदेशादिषु पुद्गलानाम् असंख्येयभागादिषु च जीवानामवस्थानं युक्तमुक्तम् । तुल्ये पुनरसंख्येय- प्रदेशत्वे कृत्स्नलोकव्यापित्वमेव धर्माधर्मयोः न पुनरसंख्येयभागादिवृत्तिरित्येतत्कथमनपदिष्ट- हेतुकमवसातुं शक्यमिति । अत्र ब्रूमः — अवसेयमसंशयम् । यथा मत्स्यगमनस्य जलमुपग्रहकारण- मिति नासति जले मत्स्यगमनं भवति, तथा जीवपुद्गलानां प्रयोगविस्रसा परिणामनिमित्ताहित- प्रकारां गतिस्थितिलक्षणां क्रियां स्वत एवाऽऽरभमाणानां सर्वत्र भावात् तदुपग्रहकारणाभ्यामपि २०धर्माधर्माभ्यां सर्वगताभ्यां भवितव्यम्, नासतोस्तयोर्गतिस्थितिवृत्तिरिति व्यापित्वदर्शनार्थमिद- मुच्यते । द्रव्यस्य देशान्तरप्राप्तिहेतुः परिणामो गतिः । १ । द्रव्यस्य बाह्यान्तरहेतुसन्निधाने सति परि- णममानस्य देशान्तरप्राप्तिहेतुः परिणामो गतिरित्युच्यते । तद्विपरीता स्थितिः । २ । द्रव्यस्य स्वदेशादप्रच्यवनहेतुर्गतिनिवृत्तिरूपा स्थितिरवगन्तव्या । २५उपग्रहोऽनुग्रहः । ३ । द्रव्याणां शक्त्यन्तराविर्भावे कारणभावोऽनुग्रह उपग्रह इत्याख्यायते । गतिस्थित्युपग्रहावित्यनेकविग्रहसंभवादर्थानिश्चयः । ४ । विग्रहपूर्वको हि लोके वृत्तिपद- स्यार्थनिश्चयो भवति । गतिस्थित्युपग्रहौ इत्यत्र तु अनेकविग्रहसंभवात् नास्त्यर्थानिश्चयः । तद्यथा — गतिश्च स्थितिश्च गतिस्थिती, गतिस्थिती उपग्रहौ ययोस्तौ गतिस्थित्युपग्रहौ । गतिस्थि- त्योरुपग्रहौ गतिस्थित्युपग्रहौ । गतिस्थिती एव वा उपग्रहौ गतिस्थित्युपग्रहौ इति ? नैष दोषः । ३०अन्यपदार्थवृत्त्यभावो गतिस्थित्युपग्रहौ धर्माधर्मावित्यवचनात् । ५ । नात्राऽन्यपदार्था वृत्तिः संभवति । कुतः ? गतिस्थित्युपग्रहौ धर्माधर्मावित्यवचनात् । ४६१ न षष्ठीवृत्तिर्द्विवचननिर्देशात् । ६ । नेयं षष्ठी वृत्तिः — गतिस्थित्योरुपग्रहौ गतिस्थित्युपग्रहा- विति । कुतः ? द्विवचननिर्देशात् । यदि हि अत्र षष्ठीवृत्तिः स्यात्, उत्तरपदार्थस्य भावस्यैकस्य प्राधान्यात् लघ्वर्थ एकवचननिर्देशः क्रियेत, भेदेन च प्रयोजनाभावात् । परिशेषात् समानाधिकरणा वृत्तिः । ७ । परिशेषात् समानाधिकरणलक्षणा वृत्तिर्वेदितव्या — ०५गतिस्थिती एव उपग्रहौ गतिस्थित्युपग्रहाविति । तथा च द्वित्वोपपत्तिः । ८ । एवं च कृत्वा द्वित्वमुपपन्नं भवति, गतिस्थित्योर्भेदात् तत्सा- मानाधिकरण्यात् भेदसिद्धेः । कथं सामानाधिकरण्यम् ? कर्मसाधनत्वात् — उपगृह्येते इत्युपग्रहौ गतिस्थिती इति । धर्माधर्मयोरिति कर्तृनिर्देशः । ९ । धर्माधर्मयोरित्ययं कर्तृनिर्देशो द्रष्टव्यः । कथम् ? कर्तरि १०षष्ठीविधानात् । कां क्रियामपेक्ष्य कर्तृत्वं विवक्षितम् ? उपकार इत्युच्यते — उपकरोति क्रियायाः कर्तृत्वम् उपकार इति । किंसाधनोऽयं शब्दः ? भावसाधनः । उपकार इति भावसाधनश्चेत्; पूर्वेण सामानाधिकरण्यानुपपत्तिरर्थान्तरवृत्तेः । १० । यद्युपकरणमुपकार इति भावसाधनशब्दः, गतिस्थित्युपग्रहावित्यनेन सामानाधिकरण्यं नोपपद्यते धर्माधर्मयोरुपकारो गतिस्थित्युपग्रहाविति । कुतः ? अर्थान्तरवृत्तेः । उपकारो हि धर्माधर्मयो- १५र्वर्तते कर्तृस्थक्रियात्वात् करोतेः, उपगृह्यमाणे तु गतिस्थिती जीवपुद्गलेष्विति । एवं तर्हि कर्म- साधनः ? कर्मसाधनश्चेद्वचनभेदानुपपत्तिः । ११ । यदि कर्मसाधनः; वचनभेदो नोपपद्यते, सामा- नाधिकरण्यात् द्विवचनं प्राप्नोति । न वा सामान्योपादानात् । १२ । न वैष दोषः, किं कारणम् ? सामान्योपादानात् । यथा २०‘साधोः कार्यं तषःश्रुते’ इति प्राक्सामान्यमपेक्ष्य लब्धैकवचनः कार्यशब्दः पश्चाद्विशेषसन्निधा- नेऽपि नोपात्तं वचनं जहाति, तदिहापि (तद्वदिहापि) उपकारशब्दः उपात्तान्तरङ्गैकवचनो भिन्नवचनपदान्तरापेक्षायामपि न वचनान्तरसंक्रमं करोति । षष्ठीवृत्तिर्वा भावसाधनत्वोपपत्तेः । १३ । अथवा, गतिस्थित्योरुपग्रहौ गतिस्थित्युपग्रहाविति षष्ठीवृत्तिरियम् । कुतः ? भावसाधनत्वोपपत्तेः, उपग्रहणमुपग्रह इति भावसाधनोऽयं शब्दः । तथा २५उपकारशब्दश्च भावसाधनः — उपकरणमुपकारः इति । ननु चोक्तं भावस्यैकत्वात् द्विवचननिर्देशो नोपपद्यते इति; नैष दोषः; यथासंख्यप्रतिपत्त्यर्थो द्विवचनप्रयोगः । १४ । धर्माधर्मौ द्वौ गतिस्थित्युपग्रहौ द्वौ, तयोः सामान्यात् यथासंख्यं स्यादिति द्विवचनप्रयोगः क्रियते । एकवचने हि सति यथा भूमिरेकै- वाऽश्वादीनां गतिस्थित्योरुपग्रहे वर्तते, तथा धर्म एक एव जीवपुद्गलानां गतिस्थित्योरुपग्रहं कुर्यात्, ३०तथाऽधर्मोऽपि इत्ययमर्थो गम्येत । अत्यतरस्य वैयर्थ्यमिति चेत्; न; अनेकसहायकारणदर्शनात् । तेनैतदुक्तं भवति — जीवपुद्गलानां स्वयमेव गतिपरिणामिनां तदुपग्रहकारणत्वेनानुमीयमानो धर्मा- ४६२ स्तिकायः । तेषामेव स्वत एव स्थितिमास्कन्दतां बाह्योपग्रहकारणत्वेनानुमीयमानोऽधर्मास्ति- कायः । सर्वत्र च तत्प्रयोजनदर्शनात् सर्वगतौ चैताविति । उपग्रहावचनमुपकारेण कृतत्वात् । १५ । उपग्रहवचनमनर्थकम् । कुतः ? उपकारेण कृत- त्वात् । उपग्रह उपकार इत्यनर्थान्तरम् । तेन गतिस्थिती धर्माधर्मयोरुपकार इत्यस्तु लघुत्वात् । ०५तयोः कर्तृत्वप्रसङ्ग इति चेत्; न; उपकारवचनात् यष्ट्यादिवत् । १६ । स्यादेतत् — गतिस्थित्योः धर्माधर्मौ कर्तारौ इत्ययमर्थः प्रसक्त इति; तन्न; किं कारणम् ? उपकारवचनात् । उपकारो बलाधानम् अवलम्बनम् इत्यनर्थान्तरम् । तेन धर्माधर्मयोः गतिस्थितिनिर्वर्तने प्रधान- कर्तृत्वमपोदितं भवति । यथा अन्धस्येतरस्य वा स्वजङ्घाबलाद्गच्छतः यष्ट्याद्युपकारकं भवति न तु प्रेरकं तथा जीवपुद्गलानां स्वशक्त्यैव गच्छतां तिष्ठतां च धर्माधर्मौ उपकारकौ न प्रेरकौ १०इत्युक्तं भवति । गतिस्थिती धर्माधर्मकृते इत्यनुपदेशाच्च । १७ । यदि धर्माधर्मौ गतिस्थित्योः प्रधानक- र्तारौ स्याताम् ‘गतिस्थिती धर्माधर्मकृते’ इत्युच्येत, न त्वेवमुक्तम् । ततश्च मन्यामहे न प्रधानक- र्तारौ इति । न वा, यथासंख्यनिवृत्त्यर्थत्वात् । १८ । न वैष दौषः । किं कारणम् ? यथासंख्यनिवृत्त्यर्थ- १५त्वात् । ‘गतिस्थिती धर्माधर्मयोरुपकारः’ इत्युच्यमाने आत्मनां गतिपरिणामोपकारो धर्मस्य न पुद्गलानाम्, स्थितिपरिणामोपकार इतरस्य नात्मनामिति याथासंख्यं प्रतीयेत, तन्निवृत्त्यर्थमुपग्रह- वचनं क्रियते । व्याख्यानादिष्टसंप्रत्यय इति चेत्; न; प्रतिपत्तेर्गौरवात् । १९ । स्यादेतत्, सर्वसन्देहेष्विद- मुपतिष्ठते — “व्याख्यानतो विशेषप्रतिपत्तिर्न हि सन्देहादलक्षणम्” [पातº महाº पस्पशाº सूº ६] इति । २०तत इष्टस्य संप्रत्ययो भवतीति; तन्न; किं कारणम् ? प्रतिपत्तेर्गौरवात् । व्याख्यानादिष्टसंप्रत्यये क्रियमाणे बुद्धिखेदो माभूत् इत्युपग्रहवचनं कृतम् । सौषिर्यादाकाशस्योपग्रह इति चेत्; न; धर्माधर्मकालात्मपुद्गलाधिकरणत्वात् नगरान्त- र्गतवेश्मवत् । २० । स्यादेतत् — आकाशं सर्वगतमस्ति, तच्च सौषिर्यगुणोपेतम्, अतः तस्यैव गतिस्थि- त्युपग्रहौ युक्तः, किमन्याभ्यां वृथा कल्पिताभ्यां धर्माधर्माभ्यामिति ? तन्न; किं कारणम् ? धर्मा- २५धर्मकालात्मपुद्गलाधिकरणत्वात् नभसः । कथम् ? नगरान्तर्गतवेश्मवत् । यथा नगरान्तर्गतानां वेश्मनां नगरमधिकरणं तथा धर्मादीनां पञ्चानाम् आकाशमधिकरणम् । न चान्यस्य धर्मोंऽन्यस्य भवितुमर्हति । यदि स्यात्, अप्तेजोगुणा द्रवदहनादयः पृथिव्या एव कल्प्यन्ताम् । किञ्च, आकाशास्तित्वेऽपि अनुगृहीतृद्रव्यसंबन्धेन सामर्थ्याविर्भावदर्शनात् अनिमिषव्रज्या- वत् । २१ । यथा अनिमिषस्य व्रज्या जलोपग्रहाद्भवति, जलाभावे च भुवि न भवति सत्यप्या- ३०काशे । यद्याकाशोपग्रहात् मीनस्य गतिर्भवेत् भुवि अपि भवेत् । तथा गतिस्थितिपरिणामिनाम् आत्मपुद्गलानां धर्माधर्मोपग्रहात् गतिस्थिती भवतो नाकाशोपग्रहात् । यद्याकाशोपग्रहात् गतिस्थिती स्याताम्; अलोकाकाशेऽपि भवेताम् । ततश्च लोकालोक्विभागाभावः स्यात् । लोकव्यतिरिक्तेन चाऽलोकेन भवितव्यं नञ्पदोषहितस्यार्थवत्त्वदर्शनात् अब्राह्मणाभिधानवत् । ४६३ स्वबाह्यकारणभावाऽभावयोस्तद्भावाभावदर्शनात् तदभाव इति चेत्; न; साधारणकार- णत्वादाकाशवत् । २२ । स्यान्मतम् — इह गतिमतां स्थितिमतां च द्रव्याणां प्रतिनियतस्वबाह्यकारणसन्नि- धाने सति नियतगतिस्थित्योर्भावो दृष्टः, यथा मत्स्यादीनां जलादिसद्भावे भावः तदभावे चाभावो दृष्टः । तेषामेव जलाद्यभावे धर्माधर्मयोः सतोरपि गतिस्थित्यभावः, तस्मात्तदधीने गतिस्थिती इति ०५धर्माधर्मयोरभावः इति; तन्न; किं कारणम् ? साधारणकारणत्वात् आकाशवत् । यथा सत्यपि भूम्यादावधिकरणे सर्वेषां साधारणमधिकरणमाकाशमिष्यते तथा मत्स्यादीनां सत्स्वपि जलादिषु कारणेषु सर्वेषां गतिस्थित्योः साधारणकारणौ धर्माधर्मावभ्युपगन्तव्यौ । आकाशमेव पर्याप्तमिति चेत्; न; सर्वतन्त्रविरोधात् । २३ । स्यादेतत् — आकाशमेव विभु- त्वात् सर्वद्रव्याणां गतिस्थित्योः साधारणकारणत्वेन पर्याप्तमिति; तन्न; किं कारणम् ? सर्वतन्त्र- १०विरोधात् । आकाशमेव पर्याप्तं नान्यदिति नियच्छतः सर्वतन्त्रविरोधो भवति । तद्यथा — केचि- त्तावदाहुः — आकाशकालदिगात्मानः सर्वगता अपि सन्तः प्रतिनियतस्वलक्षणाः इति । तत्र हि दिङ्निमित्तो यो व्यवहारः इत इदमिति, कालनिमित्तश्च परोऽयमपरोऽयमिति नासावाकाशादृ- तेऽस्ति इत्याकाशस्यैवादः सामर्थ्यं न दिक्कालयोरिति दिक्कालाभावः प्रसक्तः । तथा च सर्वा- त्मनां चैकत्वप्रसङ्गः । यदि व्यापित्वादाकाशस्यैव गतिस्थित्युपग्रहः कल्प्यते, ननु यत्प्रत्यर्थनियत- १५बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारगुणोपपत्तेः “व्यवस्थातः । शास्त्रसामर्थ्याच्च नाना” [वैशेº ३ । २ । २०, २१] आत्मान इति व्यवस्थितं तद्विरुध्यते । अपर आहुः — त्रयो गुणाः सत्त्वरजस्तमोऽभि- धानाः प्रसादलाघवशोषतापावरणसादनादिभिन्नस्वभावा इति । यदि व्यापित्वादाकाशस्यैव गतिस्थित्युपग्रहाविष्टौ; ननु सत्त्वस्य व्यापित्वात् शोषतापादयो रजोधर्माः सादनावरणादयश्च तमो- धर्माः सत्त्वस्यैवेषितव्याः । तथेतरयोरपि प्रतिपक्षधर्मा इति सङ्करप्रसङ्गः । तथा सर्वक्षेत्रज्ञानां २०चैकत्वसङ्गः चैतन्यस्वरूपाविशेषात् आद्यन्तभोगाविशेषाच्च । अन्ये मन्यन्ते — रूपणानुभवन- निमित्तग्रहणसंस्कृताभिसंस्करणालम्बनप्रज्ञप्तिस्वभावलक्षणा रूपवेदनासंज्ञासंस्कारविज्ञानाभिधानाः पञ्च स्कन्धाः इति । तत्र यद्येकस्यैव सर्वधर्माः कल्प्यन्ते; नासति विज्ञानेऽनुभवादयः संभवन्तीत्य — नुभवादयो विज्ञानस्यैव कल्प्येरन् । तथा सति शेषस्कन्धनिवृत्तौ स्वनिवृत्तिरपि स्यात्, न चैतत् सर्वमिष्टम् । तस्मादभ्युपगम्यतामाकाशस्य विभुत्वेऽपि न धर्माधर्मयोः प्रयोजनं नास्तीति सिद्धौ २५धर्माधर्मास्तिकायौ । उभयानुग्रहात् परस्परप्रतिबन्ध इति चेत्; न; स्वतः परिणामसामर्थ्यस्याऽनुग्रहाकाङ्- क्षित्वात् कुण्टनयनयष्टिप्रदीपवत् । २४ । स्यान्मतम्, यथा तुल्यबलाभ्यां शकुन्ताभ्यामाकृष्यमाणो मांसपिण्डः — यावत्क्षेत्रमेकेनाऽऽकृष्यते तावदितरेण अपकृष्येतेति नास्योत्कर्षापकर्षगतिविधिः संभवति, तथा जगद्व्यापित्वात् धर्माधर्मयोर्यदा धर्मोपग्रहाद् आत्मपुद्गलानां गतिस्तदैवाधर्मोप- ३०ग्रहात् स्थितिरिति गतेः प्रतिबन्धः । यदा वा अधर्मानुग्रहात्स्थितिस्तदैव धर्मानुग्रहाद्गतिरिति स्थितेः प्रतिबन्धः । एवं तेषां न गतिर्न स्थितिरित्युभयाभावः इति; तन्न; किं कारणम् ? स्वतः परिणाम- सामर्थ्यस्य अनुग्रहाकाङ्क्षित्वात् । कथम् ? कुण्टनयनयष्टिप्रदीपवत् । यथा कुण्टस्य गतिपरि- णामसमर्थस्य यष्टिरुपग्राहिका न तु सा तस्य गतेः कर्त्री । यद्यसमर्थस्यापि कर्त्री भवेत्; मूर्च्छित- सुषुप्तादीनामपि यष्टिसंबन्धाद्गतिः स्यात् । यथा वा नयनस्य स्वतो दर्शनसमर्थस्य प्रदीप उपग्राहकः ३५न तु प्रदीपो नेत्रस्य दर्शनशक्तेः कर्ता । यद्यसमर्थस्यापि कर्ता स्यात्, मूर्च्छितसुषुप्तजात्यन्धानामपि दर्शनं कुर्यात् । तथा आत्मपुद्गालानामपि स्वयमेव गतिस्थितिपरिणामिनां धर्माधर्मावुपग्राहकौ ४६४ गतिस्थित्योर्न कर्तारौ । यदि कर्तारौ स्यातां स्याद् गतिस्थितिविरोधः । अतोऽनुग्राहकत्वान्नास्ति दोषः । किञ्च, क्वचिदुपग्राहकाभावेऽपि गतिस्थितिदर्शनात् पतत्त्रिवत् । २५ । यथा पतत्त्रिणः प्रकृष्टगति- स्थितिक्रियापरिणामसामर्थ्यात् जलतुल्यबाह्योपग्राहकाभावेऽपि धर्माधर्मद्रव्यसद्भावात् गतिस्थिती ०५दृष्टे, तथेतरेषामपि द्रव्याणां धर्माधर्मोपष्टम्भात् गतिस्थितिसिद्धिरिति तदुपपत्तिः । तत्राप्याकाशं निमित्तमिति चेदुक्तम् । २६ । यदि तत्रापि पतत्त्र्यादिषु आकाशमुपग्राहक- मस्तीति कल्प्यते; उक्तमेतत् — नाकाशं गतिस्थित्युपग्रहकारणम् अवगाहनलक्षणत्वात्तस्येति । अनेकान्ताच्च समग्रविकलेन्द्रियवत् । २७ । यथा नायमेकान्तः — सर्वश्चक्षुष्मान् बाह्यप्रकाशोप- ग्रहात् रूपं गृह्णातीति । यस्मात् द्वीपिमार्जारादयः स्वजातिविशेषोपात्तनयनबलादेव विनापि १०बाह्यप्रदीपाद्युपग्रहात् रूपग्रहणसमर्थाः, मनुष्यादयस्तु तथादर्शनशक्त्यभावात् प्रदीपाद्युपग्रहमपे- क्ष्यन्त इत्यनेकान्तः । यथा वा, नायमेकान्तः — सर्व एव गतिमन्तो यष्ट्याद्युपग्रहात् गतिमारभन्ते नवेति, यस्मात् समग्रपञ्चेन्द्रियो बाह्ययष्ट्याद्युपग्रहात् बिनापि धर्मोपग्रहाद्गतिमारभते नैवं चक्षु- र्विकलः, स तु समविषमादिभूप्रदेशादर्शनात् तद्विशेषाविष्करणसमर्थां यष्टिमवष्टभ्य गतिमारभते इत्यनेकान्तः । तथा नायमेकान्तः — सर्वेषाम् आत्मपुद्गलानां सर्वे बाह्योपग्रहहेतवः सन्तीति, किन्तु १५केषाञ्चित् पतत्त्रिप्रभृतीनां धर्माधर्मावेव, अपरेषां जलादयोऽपीत्यनेकान्तः । अनुपलब्धेरभाव इति चेत्; न; स्वतीर्थकराद्यभावप्रसङ्गात् । २८ । स्यान्मतम्, नच धर्मा- धर्मौ स्तः अनुपलब्धेः खरविषाणवत् । सतां हि यष्ट्यादीनाम् उपलब्धिरस्ति, तदुपकारश्च निम्नो- न्नतादिभूप्रदेशे भेददर्शनं दृष्टम् । न च तथा धर्माधर्मावुपलभ्येते नापि तदुपकार इत्यसत्त्वमिति; तन्न; किं कारणम् ? स्वतीर्थकराद्यभावप्रसङ्गात् । न वयमेवंप्रतिज्ञाः — यो यो नोपलभ्यः स सोऽस- २०न्निति । यस्तु एवंवादी तस्य स्वतीर्थकराद्यभावप्रसङ्गः खरविषाणवत् । यथा खरविषाणम् अनु- पलब्धेरसत् तथा स्वतीर्थकरपुण्यापुण्यपरलोकादीनामप्यसत्त्वमासक्तम्, न चाऽसत्त्वमिष्टं ततो हेतोर्व्यभिचारः । किञ्च, अनुपलब्ध्यसिद्धेः । २९ । भगवदर्हत्सर्वज्ञप्रत्यक्षज्ञानगोचरत्वात् तत्प्रणीतपरमागमप्रमाणगम्य- त्वात् तदनुसारिस्वकार्यदर्शनाद्यनुमानविषयत्वाच्च धर्माधर्मयोरुपलब्धेरनुपलब्धिलक्षणो हेतुर- २५स्मान् प्रत्यसिद्धः । न च हेतुः स्वयमसिद्धः साध्यमर्थं साधयितुमलम् । अत एव विवादात् । ३० । यत एव यष्ट्यादिवत् न प्रत्यक्षौ धर्माधर्मावत एव विवादः — किमनुपलब्धेः खरविषाणवदभावोऽनयोः, उत अण्वाकाशमूलोदकादिवत् अभाव इति ? न हि यत एव विवादः तत एव निर्णयो भवितुमर्हति । किञ्च, कार्यस्यानेकोपकरणसाध्यत्वात् तत्सिद्धेः । ३१ । इह लोके कार्यमनेकोपकरणसाध्यं दृष्टम्, ३०यथा मृत्पिण्डो घटकार्यपरिणामप्राप्तिं प्रति गृहीताभ्यन्तरसामर्थ्यः बाह्यकुलालदण्डचक्रसूत्रोदक- कालाकाशाद्यनेकोपकरणापेक्षः घटपर्यायेणाऽऽविर्भवति, नैक एव मृत्पिण्डः कुलालादिबाह्यसाध- नसन्निधानेन विना घटात्मनाविर्भवितुं समर्थः, तथा पतत्त्रिप्रभृतिद्रव्यं गतिस्थितिपरिणामप्राप्तिं प्रत्यभिमुखं नान्तरेण बाह्यानेककारणसन्निधिं गतिं स्थितिं चावाप्तुमलमिति तदुपग्रहकारणधर्माऽ- धर्मास्तिकायसिद्धिः । ततः किम् ? अनुमानविरोधो वेदितव्यः । ३५संसर्ग एव हेतुरिति चेत्; न; कारणनियमाभावप्रसङ्गात् । ३२ । स्यान्मतम् — नानेकका- रणसाध्यं कार्यम् । किं तर्हि ? संसर्ग एव हेतुः कार्यात्मलाभस्य, विवक्तानां तन्त्वादीनां कार्यारम्भ- ४६५ सामर्थ्याभावात् इति; तन्न; किं कारणम् ? कारणनियमाभावप्रसङ्गात् — यस्मात्कस्माच्चित्कार- णसंसर्गात् पटनिष्पत्तिरस्तु । नो चेदेवं प्रतिविशिष्टतन्त्वादिकारणविषयसंसर्गापेक्षत्वादनेककार- णत्वसिद्धिः । किञ्च, एकस्य कारणस्य संसर्गाभावात् । ३३ । अनेककारणसाध्यत्वात् संसर्गस्य । संसर्गकारणत्वे ०५प्रतिज्ञाहानिः । अपि च, संसर्गकारणानां संयोगविशेषःसंयोगिनां बहुत्वादनेकः तत्साध्यत्वात् कार्यस्य अनेककारणत्वसिद्धिः । किञ्च, स्वसमयविरोधात् । ३४ । न च वयमेवंपक्षाः — यन्नोपलभ्यते प्रत्यक्षेण तन्नास्तीति । यस्य तु वादिन एषोऽभिप्रायस्तस्य स्वसमयविरोधः । तद्यथा — सर्वे हि वादिनः प्रत्यक्षाऽप्रत्यक्षार्थवादिनः । केचित्तावदाहुः — प्रत्येकं रूपपरमाणवोऽतीन्द्रियास्तत्समुदायोऽनेकपरमाणुक इन्द्रियग्राह्यो नाम १०चित्तचैतसिकविकल्पमतीन्द्रियमिति । अपर आहुः — व्यक्तस्य पृथिव्यादेः प्रधानपरिणामस्य प्रत्यक्षत्वं सत्त्वादीनां गुणानां परमात्मनां चाऽप्रत्यक्षमिति । अन्ये तु मन्यन्ते — “महत्यनेकद्रव्य- त्वात् रूपाच्चोपलब्धिः” [वैशेº ४ । १ । ६] इत्येवमादिना अनेकपरमाणुसमुदयभावेन निष्पन्नाः पृथि- व्यादयस्तद्विषयाश्च रूपादयस्तत्समवायिनः संख्यापरिमाणपृथक्त्वसंयोगविभागादयश्च प्रत्यक्षाः, अण्वाकाशादयोऽप्रत्यक्षा इति । यदि यष्ट्यादिवदनुपलब्धेः धर्माधर्मयोरभावः प्रतिज्ञायेत; ननु १५विज्ञानादीनां सत्त्वादीनाम् अण्वादीनां चाऽप्रत्यक्षत्वादभावः स्यादिति स्वसमयविरोधः । अथैषां कार्यदर्शनात् अस्तित्वमनुमीयते; धर्माधर्मयोः को मत्सरः ? किञ्च, त्वदीयजीवितमरणादिवत्तत्सिद्धिः । ३५ । यथा त्वदीयजीवितमरणसुखदुःखलाभालाभा- दीनां मनुष्यमात्राप्रत्यक्षाणाम् अतिशयज्ञानिभिरुपलभ्यमानस्वरूपाणाम् अस्तित्वम्, तथा ताव- कीनप्रमाणगोचरातीतयोरपि परमर्षिसर्वज्ञदृष्टयोः धर्माधर्मयोरस्तित्वमिति को विरोधः ? किञ्च, २०ज्ञानादिवदिति चेत्; न; उक्तत्वात् । ३६ । स्यादेतत् — यथा ज्ञानादीनामात्मपरिणामानां पुद्गल- परिणामानां च दध्यादिद्रव्यादीनां निर्वृत्तिः परस्पराश्रया न धर्माधर्मास्तिकायस्थानीयद्रव्यान्त- राश्रया, तथा जीवपुद्गलेषु गतिस्थितिपरिणामा अपि अन्योन्याश्रया इति धर्माधर्माभाव इति । तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् — पतत्त्रिप्रभृतीनां गतिस्थितिकारणेन साधारणेन बाह्येन भवितव्यमिति । किञ्च, ज्ञानादिदध्यादिविकाराणामपि निर्वृत्तेः कालो हेतुः बाह्योऽस्तीत्यभ्युपगमाद- २५समस्समाधिः । अदृष्टहेतुके गतिस्थिती इति चेत्; न; पुद्गलेष्वभावात् । ३७ । स्यान्मतम् — अदृष्टो नामात्म- गुणोऽस्ति यद्धेतुकः सुखदुःखविपाकः तत्साधनसन्निधानं च । एवं च कृत्वोक्तम् — “अग्नेरूर्ध्वज्वलनं वायोश्चतिर्यक्पवनम् अणुमनसोश्चाद्यं कर्मेत्येतान्यदृष्टकारितानि, उपसर्पणमपसर्पणमसितपीतसंयोगाः कायान्तर- संयोगश्चेति अदृष्टकारितानि” [वैशेº ५ । २ । १३, १७] इत्यादि, तद्धेतुके गतिस्थिती इति; तन्न; किं कारणम् ? ३०पुद्गलेष्वभावात् । अचेतनत्वात् पुद्गलानां पुण्यापुण्यकरणाभावात् तत्कृतगतिस्थित्यभावदोषः । यस्योपकारस्तादर्थ्या क्रियाप्रवृत्तिरिति चेत्; न; अन्यधर्मस्याऽन्यत्र क्रियारम्भे सामर्थ्याभावात् । ३८ । स्यादेतत् — यस्य घटादय उपकरिष्यन्ति तस्य पुंसोऽदृष्टाद् वटादिषु गतिस्थिती भवत इति; तन्न; किं कारणम् ? अन्यधर्मस्याऽन्यत्र क्रियारम्भे सामर्थ्याभावात् । न हि स्वाश्रये क्रियामनारभमाणः अन्यत्र क्रियाहेतुरस्तीत्युक्तं पुरस्तात् । किञ्च, ४६६ पुण्यापुण्यात्ययेऽपि गतिस्थितिदर्शनात् । ३९ । विनिर्मुक्तपुण्यापुण्यबन्धानां सिद्धानां गति- स्थिती इष्येते । ततो नादृष्टहेतुके गतिस्थिती । अमूर्तत्वाद्गतिस्थितिनिमित्तत्वानुपपत्तिरिति चेत्; न; दृष्टान्ताभावात् । ४० । स्यान्मतम् — रूपादिगुणविरहितत्वात् अमूर्तौ धर्माधर्मावभ्युपगम्येते, ततस्तयोर्गतिस्थितिहेतुत्वं नोपपद्यते इति; ०५तन्न; किं कारणम् ? दृष्टान्ताभावात् । न हि दृष्टान्तोऽस्ति येनामूर्तत्वात् गतिस्थितिहेतुत्वं व्यावर्तेत । किञ्च, आकाशप्रधानविज्ञानादिवत्तत्सिद्धेः । ४१ । यथा आकाशममूर्तमपि सत् सर्वपदार्थानाम- वगाहनप्रयोजनमुपपादयति । यथा वा, प्रधानममूर्तमपि पुरुषार्थप्रवृत्त्या महदादिविकारमापद्य- मानं पुरुषस्योपकरोति । यथा वा, विज्ञानममूर्तमपि सन्नामरूपोत्पत्तौ निमित्तं “विज्ञानप्रत्ययं १०नामरूपम्” इति वचनात् । यथा वा, अपूर्वाख्यो धर्मः क्रियया अभिव्यक्तः सन्न- मूर्तोऽपि पुरुषस्योपकारी वर्तते, तथा धर्माधर्मयोरपि गतिस्थित्युपग्रहोऽवसेयः । अत्राह — यद्यतीन्द्रिययोर्धर्माधर्मयोरुपकारसंबन्धेनास्तित्वमवध्रियते तदनन्तरमुद्दिष्टस्य नभ- सोऽतीन्द्रियस्याधिगमे क उपकार इति ? अत्रोच्यते — आकाशस्यावगाहः ॥ १८ ॥ १५आकाशशब्दो व्याख्यातार्थः । अवगाहशब्दो भावसाधनः । १ । अवगाहनमवगाह इति भावसाधनोऽवगाहशब्दो वेदि- तव्यः । अवगाहोऽनुप्रवेश इत्यर्थः । धर्माधर्मयोरवगाहं प्रति कर्तृत्वादनादिसंबन्धनिवृत्तिरिति चेत्; न; औपचारिकत्वात् व्याप्तिसद्भावात् । २ । स्यान्मतम् — यथा जलमवगाहते हंस इति न जलहंसयोरनादिसंबन्धः, तथा २०आकाशं धर्माधर्माववगाहेते इत्यभ्युपगमात् अनादिसंबन्धो निवर्तत इति; तन्न; किं कारणम् ? औपचारिकत्वात् । औपचारिकोऽयमवगाहः । कुतः ? क्रियाऽभावात् । कुतस्तर्हि उपचारः ? व्याप्तिसद्भावात् । यथा गमनाभावेऽपि सर्वगतमाकाशमित्युच्यते व्याप्तिसद्भावात्, तथा मुख्यावगाहक्रियाऽभावेपि लोकाकाशेऽपि सर्वत्र व्याप्तिदर्शनात् व्यवह्रियते — धर्माधर्मयोर्लोकाका- शेऽवगाह इति । २५अयुतसिद्धानामाधाराधेयत्वानुपपत्तिरिति चेत्; न; तत्रापि दर्शनात् पाणिरेखावत् । ३ । स्यादेतत् — युतसिद्धानां लोके दृष्ट आधाराधेयभावः यथा कुण्डबदरादीनाम् । अयुतसिद्धाश्चैते आकाशधर्माधर्माः अप्राप्तिपूर्वकप्राप्त्यभावात्, तत आधाराधेयभावो नोपपद्यत इति; तन्न; किं कारणम् ? तत्रापि दर्शनात् । यथा युतसिद्ध्यभावे पाणौ रेखेति आधाराधेयभावो दृष्टः तथा लोकाकाशे धर्माधर्मावित्याधेयाधारभावः सिद्धः । ३०दृष्टत्वादीश्वरैश्वर्यवत् । ४ । यथेश्वरस्यैश्वर्यस्य वाऽयुतसिद्धेऽपि ईश्वरे ऐश्वर्यमिति व्यव- वहारो दृष्टस्तथा लोकाकाशे धर्माधर्माविति व्यपदेशो युक्तः । अनेकान्ताच्च तत्सिद्धिः । ५ । नायमेकान्तः — अनादिसंबन्धौ धर्माधर्मौ अयुतसिद्धौ चेति । किं तर्हि ? स्यादनादिसंबन्धौ स्यान्नाऽनादिसंबन्धौ, स्यादयुतसिद्धौ स्यान्नाऽयुतसिद्धावित्यादि । ४६७ तद्यथा — पर्यायार्थिकगुणभावे द्रव्यार्थिकप्राधान्यात् व्ययोदयाभावात् स्यादनादिसंबन्धौ अयुतसिद्धौ च । द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् पर्यायाणां व्ययोत्पादसद्भावात् स्यान्नाऽनादि- संबन्धौ नायुतसिद्धौ चेत्यादि योज्यम् । ततः किम् ? कथञ्चित् अवगाहः आधाराधेयभावश्च सिद्धो भवति । ०५जीवपुद्गलानां मुख्योऽवगाहः क्रियापरिणामात् । ६ । जीवानां पुद्गलानां च मुख्योऽवगाहो वेदितव्यः । कुतः ? क्रियापरिणामात् । यथा हंसो जलमवगाहते इति मुख्यो व्यपदेशः तथा जीवपुद्गला आकाशमवगाहन्ते क्रियापरिणामात् इति मुख्यो व्यपदेशोऽवसेयः । आकाशस्यावकाशदानसामर्थ्यात् परस्परप्रतिघाताभाव इति चेत्; न; स्थूलानामन्योन्य- प्रतिघातात् । ७ । स्यान्मतम् — यद्यवकाशदानसमर्थमाकाशं तस्य च सर्वत्र सन्निधानात्, मूर्तानां १०परस्परप्रतिघातो न स्यात् । दृश्यते च बज्रादिभिर्लोष्टादीनां भित्त्यादिभिश्च गवादीनाम्, ततोऽ- स्याऽवकाशदानसामर्थ्यं हीयत इति; तन्न; किं कारणम् ? स्थूलानामन्योन्यप्रतिघातात् । स्थूला हि परस्परतः प्रतिहन्यन्ते न सूक्ष्मास्तेषामन्योन्यप्रवेशशक्तियोगात्, न तस्य तावता अवकाशदान- सामर्थ्यं हीयते । असाधारणलक्षणत्वानुपपत्तेरिति चेत्; न; सर्वावगाहविशेषलक्षणोपपत्तेः । ८ । स्यादेतत् — १५यदि सूक्ष्मभावात् इतरेऽपि पदार्थाः अन्योन्यावकाशदानं कुर्वन्ति नाकाशस्येदमसाधारणलक्षणम् । असाधारणेन हि लक्षणेन अस्तित्वमनुमीयते, अतस्तदभावादाकाशाभाव इति; तन्न; किं कारणम् ? सर्वावगाहविशेषलक्षणोपपत्तेः । यथा भूम्यादिषु अश्वादिगतिस्थित्युपग्रहदर्शनेऽपि सर्वद्रव्यगति- स्थित्युपग्रहरूपेणासाधारणलक्षणेनानुमीयते (येते) धर्माधर्मौ, तथा सर्वद्रव्यावगाहनविशेषलक्षणो- पपत्तेराकाशस्यास्तित्वमनुमीयते । २०अलोकाकाशे तदभावादभाव इति चेत्; न; स्वभावापरित्यागात् । ९ । स्यान्मतम् — यद्यवकाश- दानलक्षणमाकाशम् अलोकाकाशेऽवगाहिनामभावात् तल्लक्षणाभावात् लक्ष्यानवधारणप्रसङ्ग इति; तन्न; किं कारणम् ? स्वभावापरित्यागात् । यथा हंसस्यावगाहकस्याभावेऽप्यवगाह्यत्वं जलस्य न हीयते, तथा अवगाहित्रभावेऽपि नाऽलोकाकाशस्य अवकाशदानसामर्थ्यहानिः । अजातत्वादभाव इति चेत्; न; असिद्धेः । १० । स्यादेतत् — नास्त्याकाशमजातत्वात् खरविषा- २५णवत् इति; तन्न; किं कारणम् ? असिद्धेः । द्रव्यार्थिकगुणभावे पर्यायार्थिकप्राधान्यात् स्वप्रत्ययाऽ- गुरुलघुगुणवृद्धिहानिविकल्पापेक्षया अवगाहकजीवपुद्गलपरप्रत्ययावगाहभेदविवक्षया च आका- शस्य जातत्वोपपत्तेः हेतोरसिद्धिः । अथवा, व्ययोत्पादौ आकाशस्य दृश्येते । यथा चरमसम- यस्याऽसर्वज्ञस्य सर्वज्ञत्वेनोत्पादस्तथोपलब्धेः, असर्वज्ञत्वेन व्ययस्तथाऽनुपलब्धेः, एवं चरमस- मयस्यासर्वज्ञस्य साक्षादनुपलभ्यमाकाशं सर्वज्ञत्वोपपत्तौ उपलभ्यत इति उपलभ्यत्वेनोत्पन्नमनु- ३०पलभ्यत्वेन च विनष्टम् । यदि तेनाऽविनष्टमनुत्पन्नं च स्यात्; सर्वज्ञत्वमेवास्य न स्यात् । अतो व्ययोत्पाददर्शनात् असिद्धो हेतुः । बुद्धिशब्दलक्षणस्य खरविषाणस्य स्वकारणसन्निधाने सति जन्मवत्त्वात् अस्तित्वाच्च साध्यसाधनधर्मासिद्धता दृष्टान्तस्य — खरो मृतः गौर्जातः स एव जीव इत्ये- कजीवविवक्षायां खरव्यपदेशभाजो जीवस्य गोजातिसंक्रमे विषाणोपलब्धेः, अर्थखरविषाणस्यापि जात्यस्तित्वसद्भावात् उभयधर्मासिद्धता । निरन्वयविनश्वरत्वे तु स्मृत्यभावात् लोकसंव्यवहार- ३५लोपः स्यात् । अनावृतिराकाशमिति चेत्; न; नामवत् तत्सिद्धेः । ११ । स्यादेतत् — नाकाशं नाम ४६८ किञ्चिद्वस्त्वस्ति, आवरणाभावमात्रं हि तदिति; तन्न; किं कारणम् ? नामवत्तत्सिद्धेः । यथा नाम- वेदनादि अमूर्तत्वात् अनावृत्यपि सदस्तीत्यभ्युपगम्यते, तथा आकाशमपि वस्तुभूतमित्यवसेयम् । शब्दलिङ्गत्वादिति चेत्; न; पौद्गलिकत्वात् । १२ । स्यान्मतम् — नावगाहेन आकाशमनुमीयते । कुतस्तर्हि ? शब्दलिङ्गत्वात् । शब्दो ह्याकाशगुणः वाताभिघातबाह्यनिमित्तवशात् सर्वत्रोत्पद्य- ०५मान इन्द्रियप्रत्यक्षः अन्यद्रव्यासंभवी गुणिनमाकाशं सर्वगतं गमयति, गुणानामाधारपरतन्त्र- त्वादिति; तन्न; किं कारणम् ? पौद्गलिकत्वात् । पुद्गलद्रव्यविकारो हि शब्दः, नाकाशगुणः । तस्यो- परिष्टात् युक्तिर्वक्ष्यते । प्रधानविकार आकाशमिति चेत्; न; तत्परिणामाभावात् आत्मवत् । १३ । स्यान्मतम् — प्रधानं नाम सत्त्वरजस्तमसां साम्यरूपमस्ति प्रसवस्वभावकम्, तद्विकारा महदादयस्तद्विकार- १०विशेषः कश्चित् आकाशमिति; तन्न; किं कारणम् ? तत्परिणामाभावात् आत्मवत् । यथा पर- मात्मनां नित्यत्वात् निष्क्रियत्वात् अनन्तत्वाद्यविशेषात् आविर्भावतिरोभावाऽभावात् परिणामा- भावः, तथा प्रधानस्यापि नित्यत्वनिष्क्रियत्वानन्तत्वाद्यविशेषान्न स्यात्परिणामः, तदभावात् प्रधान- विकाराकाशकल्पनाव्याघातः । किञ्च, यथा घटस्य प्रधानविकारस्याऽनित्यत्वं मूर्तत्वमसर्वग- तत्वं च तथा आकाशस्यापि स्यात् विपर्ययो वा । १५उपकारप्रकरणाभिसंबन्धेनेदमुच्यते — शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ शरीरे सत्युत्तरेषां प्रवृत्तिदर्शनात् आदौ तद्वचनम् । १ । सति शरीरेऽधिष्ठानभूते उत्तरेषां वागादीनामाधेयानां प्रवृत्तिरिति कृत्वा शरीरं प्रधानमतस्तस्यादौ ग्रहणं क्रियते । तदनन्तरं वागुपादानं पुरुषहितावाप्तिमूलत्वात् । २ । तदनन्तरं वागुपादानं क्रियते । कुतः ? २०पुरुषहितावाप्तिमूलत्वात् । पुरुषस्य हि वाक् हिते प्रवर्तिका श्रोत्रेन्द्रियद्वारेण । अन्येन्द्रियोपसंख्यानमिति चेत्; न; चशब्दस्येष्टसमुच्चयार्थत्वात् । ३ । स्यान्मतम् — चक्षु- रादीन्यपीन्द्रियाणि पुरुषस्योपकारकाणि सन्ति, तेषामुपसंख्यानं कर्तव्यमिति; तन्न; किं कारणम् ? चशब्दस्येष्टसमुच्चयार्थत्वात् । उत्तरसूत्रे वक्ष्यते चशब्दः, स इष्टसमुचयार्थो भवति । आत्मप्रदेशाच्चक्षुराद्यग्रहणमिति चेत्; न; द्रव्येन्द्रियस्य पौद्गलिकत्वात् । ४ । स्यादेतत् — २५उत्सेधाङ्गुलासंख्येयभागप्रमिता आत्मप्रदेशा ज्ञानावरणवीर्यान्तरायक्षयोपशमनिमित्ताश्चक्षुरा- दिव्यपदेशभाजो न पौद्गलिका इत्यनुपसंख्यानमिति; तन्न; किं कारणम् ? द्रव्येन्द्रियस्य पौद्गलिक- त्वात् । अङ्गोपाङ्गनामलाभनिमित्ता हि द्रव्येन्द्रियपरिणामाः पौद्गलिकाः आत्मनामुपकारे वर्तन्ते । मनोऽग्रहणप्रसङ्गाच्च । ५ । यदि ज्ञानावरणवीर्यान्तरायक्षयोपशमनिमित्तत्वाच्चक्षुराद्य- ग्रहणं न्याय्यं मन्यते मनसोऽप्यग्रहणं प्राप्नोति । मनोऽपि हि नोइन्द्रियावरणक्षयोपशमापेक्षम् । ३०अनवस्थितत्वात् मनोग्रहणमिति चेत्; न; अनवस्थानेऽपि तन्निमित्तत्वात् । ६ । स्यान्म- तम् — यथा चक्षुरादिव्यपदशेभाज आत्मप्रदेशा अवस्थिता नियतदेशत्वात् न तथा मनोऽवस्थित- मस्ति, अत एव तदनिन्द्रियमित्युच्यते, ततोऽस्य न पृथग्ग्रहणमिति; तन्न; किं कारणम् ? अनवस्था- ४६९ नेऽपि तन्निमित्तत्वात् । यत्र यत्र प्रणिधानं तत्र तत्र आत्मप्रदेशा अङ्गुलासंख्येयभागप्रमिता मनोव्यपदेशभाजः । वागग्रहणप्रसङ्गाच्च । ७ । यदि आत्मपरिणामाच्चक्षुराद्यग्रहणं कल्प्यते वाचोऽप्यग्रहणम्, वागपि ज्ञानावरणवीर्यान्तरायक्षयोपशमोपष्टम्भजनितवृत्तिः । ०५बहिर्विनिःसृतानामात्मपरिणामाभावात्तद्ग्रहणमिति चेत्; न; उक्तत्वात् । ८ । स्यादेतत् — बहिर्विनिःसृता वाक्पुद्गला आत्मपरिणामा न भवन्ति, तदर्थं पृथग्ग्रहणमिति; तन्न; किं कार- णम् ? उक्तत्वात् । उक्तमेतत् तदुत्पतद्भि (तदुत्तरद्भि) रेवाऽस्माभिः — चक्षुरादीनि द्रव्येन्द्रियाणि पौद्गलिकानीति । तस्मात् सूक्तं चशब्दस्येष्टसमुच्चयार्थत्वादिति । ततो मनोग्रहणं तद्वतस्तत्सिद्धेः । ९ । ततः पश्चात् मनोग्रहणं क्रियते । कुतः ? तद्वतस्त- १०त्सिद्धेः । यस्यात्मनः शरीरमस्ति वाङ्निर्वर्तनसामर्थ्यं च, तस्य हि तद्भवतीति । अन्ते प्राणापानोपादानं सर्वसंसारिकार्यत्वात् । १० । अन्ते प्राणापानोपादानं क्रियते । कुतः ? सर्वसंसारिकार्यत्वात् । सर्वेषां हि संसारिणां जीवानां प्राणापानलक्षणं कार्यमस्ति । पुद्गलद्रव्यलक्षणार्थमिति चेत्; न; वक्ष्यमाणत्वात् । ११ । स्यान्मतम् — शरीरवाङ्मनःप्राणा- पानग्रहणमिदं पुद्गलद्रव्यस्य लक्षणार्थं नोपकारप्रतिपादनार्थमिति; तन्न; किं कारणम् ? वक्ष्यमा- १५णत्वात् । वक्ष्यते हि उत्तरत्र पुद्गललक्षणं व्यापि, इदं तु आत्मोपकारकत्वादुपग्रहप्रकरणे उच्यते । प्रत्यक्षत्वादनुपदेशः इति चेत्; न; केपाञ्चिदप्रत्यक्षत्वात् । १२ । स्यादेतत् — धर्मादीनां गत्युपग्रहादिप्रयोजनमुक्तं युक्तं तेपामप्रत्यक्षाणामधिगमहेतुत्वात् । शरीराद्युपग्रहाभिधानं तु पुद्गला- नामयुक्तं प्रत्यक्षत्वात् । यो हि ब्रूयात् — पुरस्तात् आदित्य उदेति पश्चादस्तं गच्छति, मधुरो गुडः, कटुकं शृङ्गिवेरमिति; किं तेन कृतं स्यादिति ? तन्न; किं कारणम् ? केपाञ्चित् अप्रत्यक्षत्वात्, २०औदारिकवैक्रियिकाहारकतैजसकार्मणशरीराणि सौक्ष्म्यादप्रत्यक्षाणि, तदुदयापादितवृत्तीन्युपचय- शरीराणि कानिचित् प्रत्यक्षाणि कानिचिदप्रत्यक्षाणि । मनोऽप्रत्यक्षमेव । वाक्प्राणापानाः केचित् प्रत्यक्षाः, केचिदप्रत्यक्षा इन्द्रियगोचरातीतत्वात् । अतः पुद्गलोपकारस्फुटीकरणार्थः शरी- राद्युपदेशः क्रियते । शरीराण्युक्तानि । १३ । शरीराण्यौदारिकादीनि व्याख्यातानि पौद्गलिकानि । २५कार्मणमपौद्गलिकमिति चेत्; न; तद्विपाकस्य मूर्तिमत्संबन्धनिमित्तत्वात् । १४ । स्यादेतत् — कार्मणं पौद्गलिकं न भवति । कुतः ? अनाकारत्वात् । आकारवतां हि औदारिकादीनां पौद्गलि- कत्वं युक्तं कार्मणं तु अनाकारमिति; तन्न; किं कारणम् ? तद्विपाकस्य मूर्तिमत्संबन्धनिमित्तत्वात् । यथा ब्रीह्यादीनामुदकादिद्रव्यसंबन्धप्रापितपाकानां पौद्गलिकत्वं दृष्टं तथा कार्मणमपि गुडकण्टका- दिमूतिमद्द्रव्योपनिपाते सति विपच्यमानत्वात् पौद्गलिकमित्यवसेयम् । न हि अमूर्तं किञ्चि- ३०न्मूर्तिमत्संबन्धे सति विपच्यमानं दृष्टमिति । वाग् द्विधा अपि पौद्गलिकी तन्निमित्तत्वात् । १५ । द्विधा वाक् — भाववाक् द्रव्यवागिति । सोभयी पौद्गलिकी । कुतः ? तन्निमित्तत्वात् पुद्गलकार्यत्वादित्यर्थः । भाववाक् तावद्वीर्यान्तरायम- तिश्रुतज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभनिमित्तत्वात् पौद्गलिकी, तदभावे तद्वृत्त्यभावात् । ४७० तत्सामर्थ्योपेतेन क्रियावतात्मना प्रेर्यमाणाः पुद्गला वाक्त्वेन विपरिणमन्त इति द्रव्यवागपि पौद्ग- लिकी श्रोत्रेन्द्रियविषयत्वात् । पुनः कुतो न गृह्यते इति चेत् ? उच्यते — पुनरग्रहणं तडिद्द्रव्यवदसंहतत्वात् । १६ । यथा तडिद्द्रव्यं चक्षुषोपलब्धं विष्वग्वि- शीर्णत्वात् पुनर्न दृश्यते तथा श्रोत्रेण उपलब्धा वाक् विष्वग्विशीर्णा पुनर्न श्रूयते । अथ कथं ०५चक्षुरादिभिरसौ न गृह्यते ? चक्षुरादिग्रहणाभावो घ्राणग्राह्ये रसाद्यनुपलब्धिवत् । १७ । यथा घ्राणग्राह्ये गन्धद्रव्ये तद- विनाभाविनः सन्तोऽपि रसादयो नोपलभ्यन्ते, तथा श्रोत्रेन्द्रियविषयोऽपि शेषेन्द्रियैर्न गृह्यते सूक्ष्मत्वात् । अमूर्तिरिति चेत्; न; मूर्तिमद्ग्रहणप्रेरणावरोधदर्शनात् । १८ । स्यादेतत् — अमूर्तः शब्दः १०अमूर्तगुणत्वादिति; तन्न; किं कारणम् ? मूर्तिमद्ग्रहणप्रेरणावरोधदर्शनात् । मूर्तिमता इन्द्रियेण शब्दो गृह्यते । न चामूर्तः कश्चिदिन्द्रियग्राह्योऽस्ति । प्रेर्यते च मूर्तिमता पवनेन अर्कतूलराशिवत् दिगन्तरस्थेन ग्राह्यत्वात् । न चाऽमूर्तस्य मूर्तिमता प्रेरणं प्रयुज्यते । अवरुध्यते च शब्दः नल- विलादिभिः कुल्याजलवत् । नचाऽमूर्तं किञ्चिन्मूर्तिमता अवरुध्यमानं दृष्टमिति । अत्राह — नैते हेतवः । यस्तावदुच्यते — इन्द्रियग्राह्यत्वादिति; श्रोत्रमाकाशमयममूर्त्तममूर्त्तस्य १५ग्राहकमिति को विरोधः ? यश्चोच्यते — प्रेरणादिति; नासौ प्रेर्यते गुणस्य गमनाभावात् । देशान्तरस्थेन कथं गृह्यते इति चेत् ? “संयोगाद्बिभागात् शब्दाच्च शब्दनिष्पत्तिः” [वैशेº २ । २ । ३१] इति शब्दा- न्तरारम्भाद् ग्रहणम् । वेगवद्द्रव्याभिघातात् तदनारम्भेऽग्रहणं न प्रेरणमिति । योऽप्युच्यते — अव- रोधादिति; स्पर्शवद्द्रव्याभिघातादेव दिगन्तरे शब्दान्तरानारम्भात्, एकदिक्कारम्भे सति अवरोध इव लक्ष्यते न तु मुख्योऽस्तीति । अत्रोच्यते — नैते दोषाः । श्रोत्रं ‘तावदाकाशमयम्’ इति नोपपद्यते; २०आकाशस्यामूर्तस्य कार्यन्तरारम्भशक्तिविरहात् । अदृष्टवशादिति चेत्; चिन्त्यमेतत् — किमसावदृष्ट आकाशं संस्करोति, उतात्मानम्, आहोस्वित् शरीरैकदेशमिति ? न तावदाकाशे संस्कारो युज्यते; अमूर्तित्वात् अन्यगुणत्वादसंबन्धाच्च । आत्मन्यपि शरीरादत्यन्तमन्यत्वेन कल्पिते नित्ये निरवयवे संस्काराधानं न युज्यते, तदुपार्जनफलादानाऽसंभवात् । नापि शरीरैकदेशे युज्यते; अन्यगुणत्वात् अनभिसंबन्धाच्च । किञ्च, मूर्तिमत्संबन्धजनितवि पत्संपत्तिदर्शनात् श्रोत्रं मूर्त्तमेवेत्यवसेयम् । यद- २५प्युच्यते — स्पर्शवद्द्रव्याभिघातात् शब्दान्तरानारम्भ इति; खात्पतिता नो रत्नवृष्टिः, स्पर्शवद्द्रव्या- भिघातादेव मूर्त्तत्वमस्य सिद्धम् । न हि अमूर्तः कश्चित् मूर्तिमता विहन्यते । तत एव च मुख्या- वरोधसिद्धिः स्पर्शवदभिघाताभ्युपगमात् । अभिभवादिदर्शनाच्च मूर्तः शब्दः इत्यवगन्तव्यम् । १९ । यथा तारकादयो भास्करप्रभाभि- वान्मूर्तिमन्तः, तथा सिंहगजभेर्यादिशब्दैर्बृहद्भिः शकुनिरुतादयोऽभिभूयन्ते । तथा कंसादिषु ३०पतिता ध्वन्यन्तरारम्भे हेतवो भवन्ति । गिरिगह्वरादिषु च प्रतिहताः प्रतिश्रुद्भावमास्कन्दन्ति । अत्राह — अमूर्तेरप्यभिभवा दृश्यन्ते — यथा विज्ञानस्य सुरादिभिः मूर्तिमद्भिस्ततो नायं निश्चयहेतुरिति; उच्यते — नायं व्यभिचारः, विज्ञानस्य क्षायोपशमिकस्य पौद्गलिकत्वाभ्युपगमात् । इतरथा हि आकाशवन्नाभिभूयते (भूयेत) । ४७१ मनश्च द्वितयं पौद्गलिकं तन्मयत्वात् । २० । द्विप्रकारं मनो भावमनो द्रव्यमनश्चेति । तदुभयमपि पौद्गलिकम् । कुतः ? तन्मयत्वात् । भावमनस्तावत् लब्ध्युपयोगलक्षणं पुद्गलावल- म्बनत्वात् पौद्गलिकम् । द्रव्यमनश्च ज्ञानावरणवीर्यान्तरायक्षयोपशमलाभप्रत्ययाः गुणदोषविचार- स्मरणादिप्रणिधानाभिमुखस्याऽऽत्मनोऽनुग्राहकाः पुद्गलाः वीर्यविशेषावर्जनसमर्थाः मनस्त्वेन ०५परिणता इति कृत्वा पौद्गलिकं नाकाशमयम् । अर्थान्तरमिति चेत्; न; अनेकान्तात् इन्द्रियवत् । २१ । स्यादेतत् — अर्थान्तरम् आत्मनो मन इति; तन्न; किं कारणम् ? अनेकान्तात् इन्द्रियवत् । यथा वीर्यान्तरायज्ञानावरणक्षयोपशमापेक्षस्य आत्मन एवेन्द्रियपरिणामादेशादात्मनो नानन्यदिन्द्रियम्, इन्द्रियनिवृत्तावपि आत्मनोऽवस्थानात् स्यादन्यत् । तथाऽऽत्मन एव तत्क्षयोपशमापेक्षस्य मनःपरिणामादेशात् स्यादनन्यत्, १०मनोनिवृत्तावात्मनोऽवस्थानात् स्यदन्यत् । अवस्थायीति चेत्; न; अनन्तरसमयप्रच्युतेः । २२ । स्यादेतत् — अवस्थायि मनः, न तस्य निवृत्तिरिति; तन्न; किं कारणम् ? अनन्तरसमयप्रच्युतेः । मनस्त्वेन हि परिणताः पुद्गला गुणदोष- विचारस्मरणादि कार्यं कृत्वा तदनन्तरसमय एव मनस्त्वात् प्रच्यवन्ते । आदेशवचनाच्च । २३ । नायमेकान्तः — अवस्थाय्येव मन इति । कुतः ? आदेशवचनात् — १५द्रव्यार्थादेशान्मनः स्यादवस्थायि, पर्यायादेशात् स्यादनवस्थायि । एकद्रव्यमिति चेत्; न; असामर्थ्यात् । २४ । स्यादेतत् — एकद्रव्यं मनः प्रत्यात्मं वर्तते इति । उक्तं च — “प्रयत्नायौगपद्यात् ज्ञानायौगपद्याच्चैकं मनः” [वैशेº ३ । २ । ३] इति; तन्न; किं कारणम् ? असामर्थ्यात् । कथमसामर्थ्यम् ? परमाणुमात्रत्वात् । परमाणुमात्रं हि मनः तदात्मनेन्द्रियेण च युक्तं सत् स्वप्रयोजनं प्रति व्याप्रियते इत्यभिमतम् । तत्रेदं विचार्यते — तत् आत्मेन्द्रियाभ्यां सर्वात्मना वा २०संबन्ध्येत, तदेकदेशेन वा ? यदि सर्वात्मना; तयोरात्मेन्द्रिययोरर्थान्तरभावात् व्यतिरिक्तयोरन्यतरेण सर्वात्मना संबन्धः स्यात् अणोर्मनसः नोभाभ्यां युगपत्, विरोधात् । अथान्येन देशेन आत्मना संबध्यते अन्येन देशेनेन्द्रियेण; एवं सति प्रदेशवत्त्वं मनसः प्रसक्तम् । तच्चानिष्टम्, अणुमात्रत्वात् मनसः । किञ्च, यद्यात्मा मनसा सर्वात्मना संबध्यते; मनसोऽणुत्वात् आत्मनोऽप्यणुत्वम्, आत्मनो विभुत्वात् मनसो वा विभुत्वं प्रसज्यते । अथैकदेशेनाऽऽत्मा मनसा संयुज्यते, ननु प्रदेशवत्त्वमात्मनः २५प्रसक्तम् । ततश्चतुष्टयत्रयद्वयसन्निकर्षजज्ञानसुखदुःखादीनां प्रदेशवृत्तित्वात् आत्मनः कश्चित् प्रदेशो ज्ञानादियुक्तः कश्चित् प्रदेशो ज्ञानादिविरहित इति । यत्र ज्ञानादिविरहितः तत्रात्मलिङ्गाभावात् तदभाव इति सर्वगतत्वाभावः स्यात् । तथेन्द्रियेण मनो यदि सर्वात्मना संयुज्यते; इन्द्रियस्याणु- मात्रत्वं मनसो वेन्द्रियमात्रत्वान्नाणुत्वम् । अथैकदेशेन मन इन्द्रियेण संयुज्यते; न तर्हि अणु तत् । किञ्च, गुणगुणिनोरन्यत्वान्नित्यत्वाच्च मनसः संयोगविभागपरिणामाभावात् नास्यात्मना न चेन्द्रियैः ३०संयोगविभागौ स्तः । अथ संयोगविभागाभ्यां मनः परिणमते; न तर्हि नित्यम् । न च गुणगुणिनो- रन्यत्वम् । अचेतनत्वाच्च मनसः अनेनैव इन्द्रियेणाऽनेनैव चात्मना संयोक्तव्यं नेन्द्रियान्तरैर्न चात्मान्तरैरिति विशेषज्ञानाभावात् प्रतिनियतात्मेन्द्रियसंयोगाभावः । कर्मवदिति चेत्; न; पौरुषे- यपरिणामानुरञ्जित्वात् कर्मणः स्याच्चैतन्यम्, पुद्गलद्रव्यादेशाच्च स्यादचेतनत्वमिति विषमो दृष्टान्तः । ४७२ सौक्ष्म्याच्च मनसश्चक्षुरादीनां रूपादिग्रहणयोग्यत्वाभावः अणुना मनसा चक्षुरादेः कृत्स्नस्याऽनधि- ष्ठितत्वात् । यावान् देशश्चक्षुरादीनामणुना मनसाऽधिष्ठितस्तावता एव रूपादिग्रहणसामर्थ्यं भवेत् न कृत्स्नस्य । दृष्टं च कृत्स्नग्रहणं तस्मात् नाणु । आशुसंचारीति चेत्; न; अचेतनत्वात् । २५ । स्यान्मतम् — अणुमात्रमपि सन्मनः आशुसंचा- ०५रित्वात् कृत्स्नग्रहणहेतुरिति; तन्न; किं कारणम् ? अचेतनत्वात् । न हि अचेतनस्य मनसः बुद्धि- पूर्विका सर्वत्र व्यापृतिर्युक्ता । अदृष्टवशादिति चेत्; न; क्रियापरिणामाभावात् । २६ । स्यादेतत् — यथा पुरुषेण प्रेर्यमाणम- लातचक्रमाशुसंचरणात् सर्वत्रोपलभ्यते, तथाऽदृष्टवशान्मनसो भ्रमणमिति; तन्न; किं कारणम् ? क्रियापरिणामाभावात् । क्रियावता हि पुरुषेण प्रेर्यमाणमलातचक्रं सर्वत्रोपलभ्यते इत्येतद्युक्तम्, १०अदृष्टः पुनरात्मगुणः स्वयमक्रियोऽन्यत्र क्रियाहेतुरित्येतदयुक्तमित्युक्तं पुरस्तात् । अनादिसंबन्धमिति चेत्; न; संयोगित्वात् । २७ । स्यादेतत् — अनादिसंबन्धमात्मना मनः स्वभावत एवेति; तन्न; किं कारणम् ? संयोगित्वात् । अप्राप्तिपूर्विका हि प्राप्तिः संयोगः इत्यणुम- नोवादिनाऽभ्युपगम्यते इति न मनोद्रव्यस्याऽऽत्मनाऽनादिसंबन्धः । क्षायोपशमिकत्वाच्च नार्हतस्य आत्मनाऽनादिसंबन्धं मन इति सिद्धमस्ति । १५तत्परित्यागविरोधाच्च । २८ । यदि अनादिसंबन्धं मनो भवेत्, अतोऽस्य परित्यागविरोधः स्यात् । अस्ति च परित्यागः । अतो नानादिसंबन्धं मनः । कर्मवदिति चेत्; न; अनेकान्तात् । २९ । स्यादेतत् — यथा जीवकर्मणोरनादिसम्बन्धेऽपि कर्म- परित्यागाविरोधः तथा मनसोऽपीति; तन्न; किं कारणम् ? अनेकान्तात् । नायमेकान्तः — जीव- कर्मणोरनादिसंबन्ध इति । किं तर्हि ? कर्मबन्धसन्तत्यपेक्षया स्यादनादिसंबन्धः, मिथ्यादर्शनादि- २०प्रत्ययापादितबन्धभेदापेक्षया स्यादादिमान् । अतोऽस्य तत्प्रत्यनीकभावनाप्रकर्षसन्निधौ परित्याग इति नास्ति विरोधः । इन्द्रियसहकारिवेदनावगमादिति चेत्; न; चेतनास्वभावत्वात् । ३० । स्यादेतत् — इन्द्रियाण सहकारिकारणं मनः । कुतः ? चक्षुरादिभिरिष्टानिष्टरूपरसादिविषयोपलब्धौ तत्सन्निधाने सुखदुः- खवेदनावगमात् नान्योऽस्य व्यापारोऽस्ति इति; तन्न; किं कारणम् ? चेतनास्वभावत्वात् । २५निष्टप्तायःपिण्डवत् इन्द्रियपरिणामात् आत्मैव इन्द्रियम्, अतश्चेतनास्वाभाव्यात् इन्द्रिया- ण्येव वेदनावगमं कुर्वन्ति । अतश्चैतदेवं यदि मनोऽन्तरेण इन्द्रियाणां वेदनावगमो न स्यात् एकेन्द्रियविकलेन्द्रियाणामसंज्ञिपञ्चेन्द्रियाणां च वेदनावगमो न स्यात् । पृथगुपकारानुपलम्भात् तदभाव इति चेत्; न; गुणदोषविचारादिदर्शनात् । ३१ । स्या- न्मतम् — नास्ति मनः पृथगुपकारानुपलम्भात् इति; तन्न; किं कारणम् ? गुणदोषविचारादिदर्शनात् ३०मनसः । मनोलब्धिमता आत्मना मनस्त्वेन परिणामिता पुद्गलाः तिमिरान्धकारादिबाह्याभ्यतरेन्द्रि- यप्रतिघातहेतुसन्निधानेऽपि गुणदोषविचारस्मरणादिव्यापारे साचिव्यमनुभवन्ति, अतोऽस्त्यन्तः- करणं मनः । विज्ञानमिति चेत्; न; तत्सामर्थ्याभावात् । ३२ । स्यान्मतम् — न मनो नामाऽन्यदस्ति । किं तर्हि ? विज्ञानमेव किञ्चिन्मनः इति व्यपदिश्यते । उक्तं च — ४७३ “पण्णामनन्तरातीतं विज्ञानं यद्धि तन्मनः” [अभिधº१ । १७] इति; तन्न; किं कारणम् ? तत्साम- र्थ्याभावात् । वर्तमानमेव विज्ञानं बाह्यमर्थं नावबोद्धुमलं किमङ्ग पुनरतीतम् ? वर्तमानं ताव- द्विज्ञानं क्षणिकं पूर्वोत्तरविज्ञानसंबन्धनिरुत्सुकं कथं गुणदोषविचारस्मरणादिव्यापारे साचिव्यं कुर्यात् ? अनुस्मरणं हीदं स्वयमनुभूतस्यार्थस्य दृष्टं नानुभूतस्य (नाननुभूतस्य) नान्यानुभूतस्य । न ०५च क्षणिकैकान्ते तत्संभवति । एकसन्तानपतितत्वात् तदुपपत्तिरिति चेत्; न; तदवस्तुत्वात् तदतीतमत्यन्तमसत् कथमिव गुणदोषविचारस्मरणादौ सहायि भवेत् ? आलयविज्ञानं बीज- शक्तिरूपं सदवस्थितमालम्बनं भवतीति चेत्; तस्य एकस्य कालान्तरावस्थायित्वाभ्युपगमे क्षणिकत्वप्रतिज्ञाहानिः । न चेत्; तदालम्बनाभावः । प्रधानविकार इति चेत्; न; अचेतनत्वात् । ३३ । स्यादेतत् — न पौद्गलिकं मनः । किं तर्हि ? १०प्रधानविकारः । प्रधानस्य महदहङ्कारादिभावेन परिणामिनः कश्चिद्विकारविशेषो मनः इत्याख्या- यते इति; तन्न; किं कारणम् ? अचेतनत्वात् । प्रधानमचेतनं तद्विकाराश्च तदात्मका इति घटवद- चेतनस्य तस्य गुणदोषविचारस्मरणादिव्यापारे साचिव्याभावः । किञ्च, मनः करणं विचारादेः, कर्ता पुरुषः, प्रधानं वा स्यात् ? न तावत् पुरुषः; निर्गुणत्वात्, सात्त्विका हि गुणदोषविचारादयः । न च प्रधानम्; तस्याऽचेतनत्वात् । न हि लोके किञ्चिदचेतनं गुणदोषविचारादेः कर्तृ दृष्टम् । १५किञ्च, तदव्यतिरेकात्तदभावः । ३४ । प्रधानात् सत्त्वरजस्तमसां साम्यावस्थारूपात् महदहङ्कारा- दयः परिणामा वैषम्यरूपाःव्यतिरिक्ता वा स्युः, अव्यतिरिक्ता वा ? यदि व्यतिरिक्ताः; कार्य- कारणैकत्वैकान्तप्रतिज्ञाहानिः । अथाव्यतिरिक्ताः; प्रधानमेव न परिणामा नाम केचन सन्तीति मनसो निवृत्तिः । २०कोष्ठ्यो वायुरुच्छ्वासलक्षणः प्राणः । ३५ । वीर्यान्तरायज्ञानावरणक्षयोपशमाङ्गोपाङ्ग- नामोदयापेक्षिणा आत्मना उदस्यमानः कोष्ठ्यो वायुरुच्छ्वासलक्षणः प्राण इत्युच्यते । बाह्यो वायुरभ्यन्तरीक्रियमाणोऽपानः । ३६ । तेनैव आत्मना बाह्यो वायुरभ्यन्तरीक्रियमाणो निःश्वासलक्षणोऽपान इत्याख्यायते । एतावप्यात्मानुग्राहिणौ जीवितहेतुत्वात् । तन्मूर्तिमत्त्वं प्रतिघातादिदर्शनात् । ३७ । तयोः प्राणापानयोः तेषां वाङ्मनःप्राणापानानां २५वामूर्तिमत्त्वमवगन्तव्यम् । कुतः ? प्रतिघातादिदर्शनात् । प्रतिभयहेतुभिरशनिशब्दादिभिर्मनसः प्रतिघातो दृश्यते, सुरादिभिश्चाऽभिभवः । हस्तपुटादिभिरास्यसंवरणात् प्राणापानयोः प्रतिघात उपलभ्यते, श्लेष्मणा चाभिभवः । नचाऽमूर्तस्य मूर्तिमद्भिरभिघातादयः स्युः । अत आत्मास्तित्वसिद्धिः प्राणापानादिकर्मणः तत्कार्यत्वात् । ३८ । अत आत्मनोऽस्तित्वं प्रासिधत् । कुतः ? प्राणापानादिकर्मणः तत्कार्यत्वात् । यथा यन्त्रप्रतिमाचेष्टितं प्रयोक्तुरस्तित्वं ३०गमयति तथा प्राणापानादिकर्मापि क्रियावन्तमात्मानं साधयति, असति तस्मिन्नप्रवृत्तेः । नाक- स्मात्; नियमदर्शनात् । न विज्ञानादिकृतम्; तेषाममूर्तत्वे प्रेरणशक्तिविरहात् । न रूपस्कन्ध- ४७४ कृतम्; तस्याचेतनत्वात् । सर्वेषां निरीहकत्वात्कर्माभाव इति चेत्; न; देशान्तरप्राप्त्यभाव- प्रसङ्गात् । वायुधातुविशेषात् देशान्तरे प्रादुर्भावः क्रियेत्युपचर्यते न मुख्या क्रियाऽस्ति “भूतिर्यैषां क्रिया सैव” इति वचनात् इति चेत्; न; वायुधातुविशेषाऽसामर्थ्यात् । वायुधातुरपि निःक्रियः स कथमिव देशान्तरप्रादुर्भूतिहेतुः स्यात् । क्षणिकत्वाभ्युपगमादनवस्थितानां कर्मा- ०५भावः इति चेत्; न; असिद्धत्वात्, अयुक्तेश्च । प्राण्यङ्गत्वाद् द्वन्द्वैकवद्भावप्रसङ्ग इति चेत्; न; अङ्गाङ्गिद्वन्द्वे तदभावात् । ३९ । स्यान्मतम् — शरीरं च वाक् च मनश्च प्राणश्चाऽपानश्च शरीरवाङ्मनःप्राणापाना इति द्वन्द्वे कृते एकवद्भावः प्राप्नोति । कुतः ? प्राण्यङ्गत्वात् इति; तन्न; किं कारणम् ? अङ्गाङ्गिद्वन्द्वे तदभावात् । प्राण्यङ्गानामेव यो द्वन्द्वः तस्यैकवद्भावः उक्तः । अङ्गमवयव एकदेश इत्यनर्थान्तरम् । शरीरमत्राङ्गि १०चास्तीत्येकवद्भावो न भवति । अथवा, वागादीनि नाङ्गानि दन्तादिवदनवस्थितत्वात् । अथवा, द्वन्द्वैकवद्भावः सर्वः समाहारविषयः । समाहारश्चैकप्राणिविषयाणां युक्तः । नानाप्राणिस्थाश्चैते विवक्षिताः, ततो नास्त्येकवद्भावः । पुद्गलशब्दो निर्दिष्टार्थः । ४० । पुद्गलशब्दस्यार्थो निर्दिष्टः — पुंगिलनात् पूरणगलनाद्वा पुद्गल इति । उपग्रहप्रकरणात्कर्तरि षष्ठी । ४१ । उपग्रहशब्दः प्रकृतः, स च भावसाधनः तेन कर्तुरनुक्त- १५त्वात् पुद्गलानामिति कर्तरि षष्ठी द्रष्टव्या । तेन शरीरादिपरिणामैरात्मनां पुद्गला उपग्रहीतार इत्युक्तं भवति । ते चात्मानः सक्रियाः कर्ममलीमसाः सन्तः शरीरादिकृतमुपकारं तद्बन्धपूर्वकम- नुभवन्तीत्येतदुक्तम् । एकान्तनिष्क्रियत्वे अत्यन्तशुद्धत्वे च शरीरादिभिः बन्धाभावात् तत्कृतो- पकाराभावः, तत्क्रियाहेतुत्वाभावश्चेति संसाराभावः, तदभावात् कुतो मोक्षः ? यथा चैतच्चतुष्टयं गमनव्याहरणचिन्तनप्राणनादिभावेन परिणामविशेषाहितमनुग्राहकं २०पौद्गलिकत्वात् तथाऽयमपि तत्कृत एवोपकार इति प्रदर्शयन्नाह — सुखदुःखजीवितमरणोपग्रहाश्च ॥ २० ॥ बाह्यप्रत्ययवशात् सद्वेद्योदयादात्मनः प्रसादः सुखम् । १ । यदात्मस्थं सद्वेद्यं कर्म द्रव्यादि- बाह्यप्रत्ययवशात् परिपाकमुपयाति तदात्मनः प्रसादः प्रीतिरूपः सुखमित्याख्यायते । तथा असद्वेद्योदयात् आत्मपरिणामः संक्लेशप्रायो दुःखम् । २ । तथा तेन प्रकारेण बाह्यप्रत्य- २५यवशेनेत्यर्थः, असद्वेद्योदयादात्मपरिणामो यः संक्लेशप्रायः स दुःखमिति कथ्यते । भवस्थितिनिमित्तायुर्द्रव्यसंबन्धिनो जीवस्य प्राणापानलक्षणक्रियाविशेषाव्युपरमो जीवि- तम् । ३ । भवधारणकारणमायुराख्यं कर्म, तदुदयापादितां भवस्थितिमादधानस्य जीवस्य पूर्वोक्तस्य प्राणापानलक्षणस्य क्रियाविशेषास्याविच्छेदो जीवितमिति प्रत्येतव्यम् । तदुच्छेदो मरणम् । ४ । तस्य जीवितस्योच्छेदो जीवस्य मरणमित्यवसेयम् । ३०सुखग्रहणमादौ तदर्थत्वात्परिस्पन्दस्य । ५ । सर्वेषां प्राणिनां परिस्पन्दः सुखप्राप्त्यर्थः, ततोऽस्य ग्रहणमादौ क्रियते । ४७५ तदनन्तरं दुःखवचनं तत्प्रतिपक्षत्वात् । ६ । सुखस्य हि प्रतिपक्षभूतं दुःखम्, अप्रीतिहेतु- त्वात् । ततोऽस्य वचनं तदनन्तरं क्रियते । जीवतस्तदुभयदर्शनात् तदनन्तरं जीवितग्रहणम् । ७ । यतः तदुभयं सुखदुःखं जीवनो भवति, ततः तदनन्तरं जीवितग्रहणं क्रियते । ०५अन्ते प्राप्यत्वान्मरणस्यान्ते वचनम् । ८ । आयुःक्षयनिमित्तं मरणमन्ते प्राणिभिरवाप्यत इति तदुपादानमन्ते क्रियते । सुखं च दुःखं च जीवितं च मरणं च सुखदुःखजीवितमरणानि तान्येवोपग्रहः सुखदुःख- जीवितमरणोपग्रहः । केषाम् ? पुद्गलानामिति प्रकृतमभिसंबध्यते । प्रकृतत्वादुपग्रहावचनमिति चेत्; न; स्वोपग्रहप्रदर्शनार्थत्वात् । ९ । स्यान्मतम् — प्रकृतमुप- १०ग्रहवचनमस्ति तेन शरीरवाङ्मनःप्राणापानैः सुखदुःखजीवितमरणैश्च पुद्गला जीवान् उपगृह्णन्ति इत्यस्मिन्नर्थे प्रतिपादिते पुनरुपग्रहवचनमनर्थकमिति; तन्न; किं कारणम् ? स्वोपग्रहप्रदर्शनार्थ- त्वात् । यथा धर्माधर्माकाशानि परेषामेवोपग्रहं कुर्वन्ति न तथा पुद्गलाः, स्वोपग्रहश्चैपामस्तीति प्रदर्शनार्थं पुनरुपग्रहवचनं क्रियते । तद्यथा — कंसादीनां भस्मादीनि जलादीनां कतकादीनि अयः- प्रभृतीनामुदकादीनि उपकारं कुर्वन्ति । १५मरणमात्मोपग्रहो नेति चेत्; न; निर्विण्णस्य तत्प्रियत्वात् । १० । स्यादेतत् — मरणमात्मोप- ग्रहो नोपपद्यते । कुतः ? अनिष्टत्वात् । न हि कस्यचित् मरणमीप्सितमिति; तन्न; किं कारणम् ? निर्विण्णस्य तत्प्रियत्वात् । व्याधिपीडाशोकादिभिर्जीवितान्निवृत्तादरस्य निर्विण्णस्य हि जनस्य मरणं प्रियं लोके दृश्यते । प्रयोजनप्रतिपादनार्थत्वाच्च दुःखवत् । ११ । यथा दुःखमनिष्टमपि जीवानां पुद्गलैः प्रति- २०पाद्यं प्रयोजनमिति गृह्यते तथा मरणमपीति नास्ति दोषः । लघ्वर्थमेकसूत्रीकरणमिति चेत्; न; आशङ्कानिवृत्त्यर्थत्वात् । १२ । स्यान्मतम् — ‘शरीर- वाङ्मनःप्राणापानाः सुखदुःखजीवितमरणोपग्रहाश्च पुद्गलानाम्’ इत्येकमेव सूत्रं कर्तव्यं लघ्वर्थमिति; तन्न; किं कारणम् ? आशङ्कानिवृत्त्यर्थत्वात् । शरीरवाङ्मनःप्राणापाना हेत- वश्चत्वारः सुखदुःखजीवितमरणानि च फलानि चत्वारि, तेषां याथासंख्यमनिष्टमाशङ्क्येत, २५तन्निवृत्त्यर्थं नानायोगकरणम् । उत्तरसूत्रे सुखादिसंबन्धनार्थं च । तदनुपपत्तिर्नित्यानित्यपक्षयोर्विकारावस्थानाभावात् । १३ । तेषां सुखादीनाम् अनुपपत्तिः । क्व ? नित्यपक्षेऽनित्यपक्षे च । कुतः ? विकारावस्थानाभावात् । तद्यथा — नित्यपक्षे तावत् आत्मनां पूर्वापरकालतुल्यत्वात् परिणामान्तरसंक्रान्तिलक्षणस्य विकारस्याभावात् सुखादिककल्पनमयुक्तम् । अनित्यपक्षे चावस्थानाभावात् सुखादिसंबन्धोऽनुपपन्नः । अवस्थितस्य हि इष्टानिष्टशब्दस्पर्शादि- ३०सन्निपाते सति सुखादिप्रभवः स्यात् । स चाकस्मान्न भवति । किं तर्हि ? कुशलाकुशलभावना- पूर्वकः । कुशलाकुशलभावना च स्मृत्यभिसंबन्धिचेष्टाभिनिर्वृत्तिलक्षणा । स्मृत्यादयश्चान- वस्थितस्य न संभवन्तीत्यतो नित्यानित्यात्मकस्यात्मनः सुखादिनिरूपणं निरवद्यम् । ४७६ आह — अजीवद्रव्यचतुष्टयस्य यथा परानुग्रहः सान्ततिकः किमेवमात्मनामपि, उतान्यो विधिरस्तीति ? अत्रोच्यते — परस्परोपग्रहो जीवानाम् ॥ २१ ॥ कर्मव्यतिहारविषयः परस्परशब्दः । १ । कर्मव्यतिहारः क्रियाव्यतिहार इत्यर्थः । तद्विष- ०५योऽयं परस्परशब्दः । परस्परस्योपग्रहः परस्परोपग्रहः । कः पुनरसौ ? स्वामिभृत्यादिभावेन वृत्तिः परस्परोपग्रहः । २ । स्वामी भृत्य आचार्यः शिष्य इत्येव- मादिभावेन वृत्तिः परस्परोपग्रह इत्युच्यते । स्वामी तावत् वित्तत्यागादिना भृत्यादीनामुपग्रहे वर्तते, भृत्याश्च हितप्रतिपादनेन अहितप्रतिषेधेन च । आचार्य उभयलोकफलप्रदोपदेशदर्शनेन तदुपदेश- विहितक्रियानुष्ठापनेन च शिष्याणामनुग्रहे वर्तते । शिष्या अपि तदानुकूल्यवृत्त्या । १०प्रकृतत्वादुपग्रहावचनमिति चेत्; न; अनन्तरचतुष्टयप्रतिनिर्देशार्थत्वात् । ३ । स्यादेतत् — प्रकृतमुपग्रहवचनमस्ति तदभिसंबन्धात् पुनरुपग्रहवचनमनर्थकमिति; तन्न; किं कारणम् ? अन- न्तरचतुष्टयप्रतिनिर्देशार्थत्वात् । नाऽपूर्वः कश्चित् परस्परोपग्रहो जीवानामस्ति, अनन्तरसूत्रे निर्दिष्टः सुखादिचतुष्टयोपग्रह एवेति प्रदर्शनार्थं पुनरुपग्रहवचनम् । स्त्रीपुंसरतिवदनियमप्रदर्शनार्थं च । ४ । यथा स्त्रीपुंसौ यौगपद्येन रतिक्रियायां परस्परस्योप- १५कुरुतः न तथा सुखाद्युपग्रहे नियम इति प्रदर्शनार्थं च पुनरुपग्रहवचनं क्रियते । जीवो हि कश्चित् स्वस्य सुखं कुर्वन् परस्यैकस्य सुखं करोति कश्चिद् द्वयोः कश्चिद्वहूनाम् । कश्चिद् दुःख- मात्मनः कुर्वन् परस्यैकस्य द्वयोः बहूनां वा दुःखं करोति । कदाचिद् द्वौ बहवो वाऽऽत्मानः सुखं दुःखं वा कुर्वन्तः परस्यैकस्य द्वयोर्बहूनां वा सुखं दुःखं[वा]उत्पादयन्ति । एवमितरत्रापि योज्यम् । आह — यदि अवश्यं सतोपकारिणा भवितव्यम्, संश्च कालोऽभिमतः स किमुपकारः इति ? २०अत्रोच्यते — तस्य खलु वक्ष्यमाणस्वतत्त्वस्याऽमूर्तेः — वर्तनापरिणामक्रियाः परत्वापरत्वे च कालस्य ॥ २२ ॥ अथवा, यथा धर्मादीनामस्तित्वस्याऽऽविर्भावक उपकार उक्तो गत्यादिः, तथा कालस्यापि प्रतिनियत उपकारोऽस्तित्वसंसूचकोऽस्ति, उत नास्ति ? अस्त्युपकारः । यद्येवं स उच्यतामिति ? अत आह — वर्तनादीनि । २५करणाधिकरणयोर्वर्त्तनेति चेत्; युटि सति ङीप्रसङ्गः । १ । स्यादेतत् — वर्ततेऽनया अस्यां वेति विगृह्य वर्तनाशब्दो निष्पाद्यत इति । एवं सति परत्वाद्युटि सति टित्त्वात् ङी प्राप्नोति कथं तर्हि सिद्धिः ? णिजन्ताद्युचि वर्तना । २ । स्त्रीलिङ्गे कर्मणि भावे वा णिजन्ताद्युचि सति वर्तनेति भवति । वर्त्यते वर्तनमात्रं वा वर्तनेति । ४७७ अनुदात्तेत्त्वात्ताच्छीलिको वा । ३ । अथवा, वृत्तिरयमनुदात्तेत्, ततस्ताच्छीलिको युच् वर्तनशीला वर्तनेति । का पुनर्वर्तना ? प्रतिद्रव्यपर्यायमन्तर्नीतैकसमया स्वसत्तानुभूतिर्वर्तना । ४ । द्रव्यस्य पर्यायो द्रव्यपर्यायः, द्रव्यपर्यायं द्रव्यपर्यायं प्रति प्रतिद्रव्यपर्यायम्, अन्तर्नीत एकः समयोऽनया सा अन्तर्नीतैकसमया, ०५का पुनरसौ ? स्वसत्तानुभूतिः, उत्पादव्ययध्रौव्यैक्यवृत्तिः सत्ता, न ततोऽन्या काचिदस्ति । स्वा सत्ता स्वसत्ता, प्रतिनियता असाधारणीत्यर्थः, बुद्ध्यभिधानानुप्रवृत्तिलिङ्गेनानुमीयमाना सादृश्योपचारादेकापि सती जीवाजीवतद्भेदप्रभेदैः संबन्धमापद्यमाना विशिष्टशक्तिभिरेव संब- ध्यते । तस्या अनुभूतिः स्वसत्तानुभूतिर्वतनेत्युच्यते । एकस्मिन्नविभागिनि समये धर्मादीनि द्रव्याणि षडपि स्वपर्यायैरादिमदनादिमद्भिरुत्पादव्ययध्रौव्यविकल्पैर्वर्तन्त इति कृत्वा तद्विषया १०वर्तना । सा आनुमानिकी व्यावहारिकदर्शनात् पाकवत् । ५ । यथा व्यावहारिकस्य पाकस्य तण्डु- लविक्लेदनलक्षणस्यौदनपरिणामस्य दर्शनादनुमीयते — अस्ति प्रथमसमयादारभ्य सूक्ष्मपाकाभि- निर्वृत्तिः प्रतिसमयमिति । यदि हि प्रथमसमये अग्न्युदकसन्निधाने कश्चित् पाकविशेषो न स्यात्, एवं द्वितीये तृतीये च न स्यादिति पाकाभाव एव स्यात् । तथा सर्वेषामपि द्रव्याणां स्वपर्याया- १५भिनिर्वृत्तौ प्रतिसमयं दुरधिगमा निष्पत्तिरभ्युपगन्तव्या । तल्लक्षणः कालः । ६ । सा वर्तना लक्षणं यस्य स काल इत्यवसेयः । समयादीनां क्रिया- विशेषाणां समयादिनिर्वृत्त्यानां च पर्यायाणां पाकादीनां स्वात्मसद्भावानुभवनेन स्वत एव वर्त- मानानां निर्वृत्तेर्बहिरङ्गो हेतुः समयः । पाक इत्येवमादिस्वसंज्ञारूढिसद्भावे काल इत्ययं व्यव- हारोऽकस्मान्न भवतीति तद्व्यवहारहेतुना अन्येन भवितव्यमित्यनुमेयः । २०आदित्यगतेरिति चेत्; न; तद्गतावपि तत्सद्भावात् । ७ । स्यादेतत् — आदित्यगतिनिमित्ता द्रव्याणां वर्तनेति; तन्न; किं कारणम् ? तद्गतावपि तत्सद्भावात् । सवितुरपि व्रज्यायां भूतादि- व्यवहारविषयभूतायां क्रियेत्येवं रूढायां वर्तनादर्शनात् तद्धेतुना अन्येन कालेन भवितव्यम् । आकाशप्रदेशनिमित्तेति चेत्; न; तां प्रत्यधिकरणभावाद्भाजनवत् । ८ । स्यादेतत् — आकाशप्रदेशनिमित्ता वर्तना नान्यस्तद्धेतुः कालोऽस्तीति; तन्न; किं कारणम् ? तां प्रत्यधिकरण- २५भावात् भाजनवत् । यथा भाजनं तण्डुलानामधिकरणं न तु तदेव पचति, तेजसो हि स व्यापारः, तथा आकाशमप्यादित्यगत्यादिवर्तनायामधिकरणं न तु तदेव निर्वर्तयति । कालस्य हि स व्यापारः । सत्तात इति चेत्; न; तस्या अप्यनुग्रहात् । ९ । स्यान्मतम् — सत्ता नाम सर्वपदार्थानां साधारण्यस्ति तद्धेतुका वर्तनेति; तन्न; किं कारणम् ? तस्या अप्यनुग्रहात् । कालानुगृहीतवर्तना हि सत्तेति ततोऽप्यन्येन कालेन भविनव्यम् । ३०द्रव्यस्य स्वजात्यपरित्यागन प्रयोगविस्रसालक्षणो विकारः परिणामः । १० । द्रव्यस्य चेतनस्येतरस्य वा द्रव्यार्थिकनयस्य अविवक्षातो न्यग्भूतां स्वां द्रव्यजातिमजहतः पर्यायार्थिक- नयार्पणात् प्राधान्यं विभ्रता केनचित् पर्यायेण प्रादुर्भावः पूर्वपर्यायनिवृत्तिपूर्वको विकारः प्रयोग- विस्रसालक्षणः परिणाम इति प्रतिपत्तव्यः । तत्र प्रयोगः पुद्गलविकारः, तदनपेक्षा विक्रिया विस्रसा । तत्र परिणामो द्विविधः — अनादिरादिमांश्च । अनादिर्लोकसंस्थानमन्दराकारादिः । आदिमान् प्रयो- ४७८ गजो वैस्रसिकश्च । तत्र चेतनस्य द्रव्यस्यौपशमिकादिर्भावः कर्मोपशमाद्यपेक्षोऽपौरुषेयत्वात् वैस्रसिक इत्युच्यते । ज्ञानशीलभावनादिलक्षणः आचार्यादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । अचेतनस्य च मृदादेः घटसंस्थानादिपरिणामः कुलालादिपुरुषप्रयोगनिमित्तत्वात् प्रयोगजः । इन्द्रधनुरादिनानापरिणामो वैस्रसिकः । तथा धर्मादेरपि परिणामो योज्यः । ०५परिणामाभावः सत्त्वासत्त्वयोर्दोषोपपत्तेरिति चेत्; न; पक्षान्तरत्वात् । ११ । स्यान्मतम् — नास्ति परिणामः । कुतः ? सत्त्वासत्त्वयोः दोषोपपत्तेः । बीजमङ्कुरे स्याद्वा, न वा ? यदि सदङ्कुरे बीजम्; अङ्कुराभावो बीजवत् । अथासत्; न बीजमङ्कुरत्वेन परिणतम्, अङ्कुरे तत्स्वभावाभा- वात् । अतः परिणामाभावः इति; तन्न; किं कारणम् ? पक्षान्तरत्वात् । यथा सत्पक्षदोषो नाऽसत्पक्षं स्पृशति पक्षान्तरत्वात्, असत्पक्षदोषोऽपि सत्पक्षं तत एव । तथा सदसदेकान्तपक्षदोषावप्यने- १०कान्तपक्षं न स्पृशतः पक्षान्तरत्वादेव, इतरथा हि पक्षसङ्करप्रसङ्गः । उभयदोषप्रसङ्ग इति चेत्; न; जात्यन्तरत्वान्नरसिंहरूपवत् । शालिबीजादिद्रव्यार्थादेशात् अङ्कुरे स्याद्वीजमस्ति । यद्यन्वयो- च्छेदः स्यात्; फलविशेषाभावः प्रसज्येत । शालिबीजादिपर्यायार्थादेशात् स्यादङ्कुरे नास्ति बीजम् । यद्यविपरिणामः स्यात्; अन्यथावृत्तिदर्शनमयुक्तं स्यात् । प्रतिषेधाभावाच्च । १२ । इदमसि त्वं प्रष्टव्यः ? परिणामः सन्वा प्रतिषिध्येत, असन्वेति ? १५उभयथा च प्रतिषेधाभावः ? यदि सन्; सत्त्वादेव न प्रतिषिध्येत । अथ सन्नपि प्रतिषिध्येत; ननु परिणामप्रतिषेधोऽपि सत्त्वात् प्रतिषिध्यत इति प्रतिषेधाभावः । तदभावादप्रतिषिद्धः परिणामः । अथ प्रतिषेधः सत्त्वादप्रतिषिद्धः; ननु परिणामोऽपि सत्त्वात् अप्रतिषिद्धः । अथाऽसन् परिणामः; असत्त्वादेव खरविषाणवत् न प्रतिषिध्यते इति प्रतिषेधाभावः । अथवा, यस्य परिणामो नास्ति स वक्तृत्वेनापरिणतः वाच्यस्याप्यर्थस्याभिधेयत्वेनापरिणामः अभिधानस्य च वाचकत्वेनापरिणाम २०इति वक्तृवाच्यवचनानामभावात् प्रतिषेधाभावः, तदभावादप्रतिषिद्धः परिणामः स्थितः । अन्यानन्यत्वदोषादिति चेत्; न; उक्तत्वात् । १३ । स्यान्मतम् — नास्ति परिणामः । कुतः ? अन्यानन्यत्वयोर्दोषात् । बीजादङ्कुरोऽन्यो वा स्यात्, अनन्यो वा ? यदि अन्यो बीजादङ्कुरः; न तर्हि बीजपरिणामोऽङ्कुरः । अथानन्यो बीजादङ्कुरः; न तर्हि अङ्कुरोऽस्ति बीजादनन्यत्वात् । उक्तं च- “स्याच्चेद्वीजं परिणतं नान्यो बीजाच्च सोऽङ्कुरः । २५तच्च नैवं यदि ह्यन्यो न तत्तच्चेन्न सोऽङ्कुरः ॥ ” तन्न; किं कारणम् ? उक्तत्वात् । उक्तमेतत् — पक्षान्तरत्वात् दोषाभाव इति । स्याद्बीजादङ्कु- रोऽन्यः स्यादनन्यः । यस्मात् प्रागङ्कुरोत्पादात् बीजेऽङ्कुरपर्यायो नासीत् पश्चाच्च जातः तस्मात् बीजादङ्कुरः पर्यायार्थादेशात् स्यादन्यः । यस्माच्च शालिबीजजातिविशिष्टोऽन्योऽङ्कुरोऽसन्, तस्माच्छालिबीजजात्यात्मकद्रव्यार्थादेशात् बीजादङ्कुरः स्यादनन्यः । ३०व्यवस्थिताव्यवस्थितदोषादिति चेत्; न; अनेकान्तात् । १४ । स्यान्मतम् — बीजेऽङ्कुरत्वेन परिणते अङ्कुरे बीजं व्यवस्थितं वा स्यात्, अव्यवस्थितं वा ? यदि व्यवस्थितम्; बीजस्य व्यवस्थानात् विरो- धात् अङ्कुराभावः । अथाव्यवस्थितम्; न तर्हि बीजमङ्कुरत्वेन परिणतम् । तस्मादुभयत्र दोषान्नास्ति ४७९ परिणाम इति ? तन्न; किं कारणम् ? अनेकान्तात् । यथा मनुष्यायुर्नामकर्मोदयादङ्गोपाङ्गपर्यायाना- स्कन्दन् निष्टप्तायःपिण्डवत् अङ्गुल्युपाङ्गपरिणामात् अङ्गुलिरात्मा, अतो वीर्यान्तरायक्षयोपशमा- पेक्षोऽङ्गुल्यात्मा संकोचनप्रसारणपर्यायावास्कदन् अनादिपारिणामिकचैतन्यद्रव्यार्थादेशात् स्यात् सन्, पौद्गलिकपरिवृत्तावस्थितागुङ्ल्युपाङ्गपर्यायार्थादेशाच्च स्यात् सन्, अत एव स्यादनन्यः स्याद- ०५वस्थितः । संकोचनप्रसारणपर्यायार्थादेशात् स्यादसन् अत एव स्यादन्यः स्यादनवस्थितः । तथै- केन्द्रियवनस्पतिनामायुरुदयाविष्कृतः आत्मैव बीजपर्यायमास्कन्दन् निष्टप्तायःपिण्डवत् बीजपरि- णामात् बीजव्यपदेशभाक् । अतः किम् ? अनादिपारिणामिकचैतन्यद्रव्यार्थादेशात् स्यात् सन्, पौद्गलिकशालिजात्येकेन्द्रियरूपरसशब्दस्पर्शपर्यायार्थादेशाच्च स्यात् सन्, अत एव स्यादनन्यः स्यादवस्थितः । पौद्गलिकशालिबीजपर्यायार्थादेशात् स्यादसन्, अत एव स्यादन्यः स्यादन- १०वस्थितः । इत्येवमनेकान्ताश्रयणादेकान्तपक्षदोषनुषङ्गाभावः । वृद्ध्यभावप्रसङ्ग इति चेत्; न; अन्यहेतुत्वात् । १५ । स्यादेतत् — नास्ति परिणामः । कुतः ? वृद्ध्यभावप्रसङ्गात् । यदि बीजमङ्कुरत्वेन परिणमेत; बीजमात्र एवाङ्कुरः स्यात् पयःपरिणामदधिवत्, ततो वृद्ध्यभावः । उक्तं च — “किञ्चान्यद्यदि तद्बीजं गच्छेदङ्कुरतामिह । १५विवृद्धिरङ्कुरस्य स्यात् कथं बीजादपुष्कलात् ॥ १ ॥ ” भौमौदकरससंबन्धाद्वृद्धिरिति चेत्; न; बीजपरिणामाभावप्रसङ्गात् । उक्तं च — “अथेष्टं तै रसैभैमैरौदकैश्च विवर्धते । नन्वेवं सति बीजस्य परिणामो न युज्यते ॥ १ ॥ ” भौमौदकरसद्रव्यान्तरसंचयात् वृद्धिरिति चेत्; न; द्रव्यान्तरसंयोगेऽपि वृद्ध्यभावात् । २०यदि भौमौदकरसद्रव्यान्तराणि संयोगवृद्ध्या वर्तन्ते; ननु वृद्ध्यभावः जतुसंयोगे काष्ठबृद्ध्य- भाववत् । उक्तं च — “आलिप्तं जतुना काष्ठं यथा स्थूलत्वमृच्छति । ननु काष्ठं तथैवास्ते जतु चात्र विवर्धते ॥ १ ॥ तथैव यदि तद्बीजमास्ते येनात्मना स्थितम् । २५रसाश्च वृद्धिं कुर्वन्ति बीजं तत्र करोति किम् ॥ २ ॥ ” इति; तन्न; किं कारणम् ? अन्यहेतुत्वात् । ‘बीजमात्रः अङ्कुरो भवेत्’ इति ब्रुवता त्वयैवाभ्युपगतः परिणामः । यस्तु भवता दोष उपन्यस्तः वृद्ध्यभावप्रसङ्ग इति; नासौ युक्तः; कुतः ? अन्यहेतुत्वात् । यथा मनुष्यायुर्नामोदयाभ्यां जातो बालः बाह्यसावित्रकिरणादिसंबन्धापेक्षस्तन्यनवनीताद्याहारमनु- भवन् अभ्यन्तरवीर्यान्तरायक्षयोपशमाविर्भाविताहारजरणसामर्थ्यकायाग्निबलोपेतः उपयुक्ताहार- ३०रसादिपरिणामान्निर्माणनामकर्मोदयापेक्षो वर्धते, तथा वनस्पतिविशेषायुर्नामोदयापेक्षो बीजाधिष्ठानो जीवोऽङ्कुरो जातः भौमौदकरसाहारं तप्तायः पिण्डवत् आत्मसात्कुर्वन् बाह्यसावित्रकिरणसंतापा- भ्यन्तरवीर्यान्तरायक्षयोपशमाविर्भाविताङ्कुरकायाग्निबलात् भौमौदकरसान् जरयन् स्वानुरूपनिर्मा- णकर्मोदयापेक्षो वर्धते । अयं तु वृद्ध्यभावदोष एकान्तवादिनामेव भवति । नित्यत्वैकान्ते तावद्वि- परिणामाभावात् वृद्ध्यभावः । क्षणिकैकान्तवादेऽपि प्रतीत्यसमुत्पादाभ्युपगमात् तावतोऽधिगमे ४८० तावत एवोपगमाद् वृद्ध्यभावः । किञ्च सर्वेषां क्षणिकत्वात् अङ्कुरस्य तत्कारणाभिमतानां च भौमौदकरसादीनां युगपद्वा विनाशः स्यात्, पौर्वापर्येण वा ? यदि युगपत्; नास्ति तत्कृता वृद्धिः । न हि वृद्धिहेतवो विनश्यन्तोऽन्यस्य विनश्यतोऽर्थस्य वृद्धिं कुर्वन्तो दृष्टाः । अथ पौर्वापर्येण; विनष्ट- स्याङ्कुरस्य भौमादयः किं कुर्वन्ति, विनष्टा वा किं कुर्युः ? अनेकान्तवादिनां तु अङ्कुरो भौमादयश्च ०५द्रव्यार्थादेशात् स्यान्नित्याः पर्यायार्थादेशाच्च स्यात्क्षणिका इति वृद्ध्युपपत्तिः । क्षणिकत्वे प्रबन्धभेदाभ्युपगमात् वृद्धिरिति चेत्; न; तदभावात् । १६ । स्यान्मतम् — भावानां क्षणिकत्वेऽपि वृद्धिर्युज्यते । कुतः ? प्रबन्धभेदाभ्युपगमात् । त्रिविधो हि प्रबन्धः — सभागरूपः, क्रमा- पेक्षः, अनियतश्चेति । तत्र प्रदीपात् प्रदीप एकः प्रबध्यते स्रोतसः स्रोत एवेति (इवेति), सादृश्यात् सभागरूपः प्रबन्धः । स (स्व) सन्ततिपरिणामक्रमोपलम्भात् बालकुमारबीजाङ्कुराद्यविच्छेदः क्रमा- १०पेक्षः । कृकलासानेकवर्णप्रबन्धानियमो मेघेन्द्रधनुरादिष्वनियतः । ततोऽस्ति वृद्धिरिति; तन्न; किं कारणम् ? तदभावात् । इदमिह संप्रधार्यम् — सतोर्वा प्रबन्धः स्यात्, सदसतोः, असतोर्वा ? न ताव- दसतोः प्रबन्धः वन्ध्यासुताकाशकुसुमयोः । नापि सदसतोः खरखरविषाणयोः । परिशेषात् सतोरेव । क्षणिकवादे तु पूर्वोत्तरस्कन्धयोर्नैकस्मिन् क्षणेऽस्तित्वमिति प्रबन्धाभावः । अस्तित्वे च क्षणिक- प्रतिज्ञाहानिः । आह — क्षणिकत्वेऽपि तुलान्तनामोन्नामवत् युगपदुत्पादविनाशभावात् अर्थप्रबन्ध १५इत्यस्ति वृद्धिरिति; उच्यते — यदि युगपदुत्पादविनाशयोः वृत्तिः; कार्यकारणभावाभावः सव्येतरगोविषाणवत् । ध्रौव्यैकान्ते परिणामाभावोऽनेकदोषप्रसङ्गात् । १७ । ध्रौव्यैकान्ते य उक्तः परिणामः “व्यवस्थितस्य द्रव्यस्य धर्मान्तरनिवृत्तौ धर्मान्तरोपजनने च परिणामः । ” [योगभाº३ । १३] अवस्थितस्य हि ध्रौव्यादिलक्षणस्य द्रव्यस्य क्षीरधर्ममात्रनिवृत्तौ दधिधर्ममात्रोत्पत्तौ परिणाम इति; स २०नोपपद्यते; कुतः ? अनेकदोषप्रसङ्गात् । न हि तस्यद्रव्यमवस्थितमस्ति यस्य परिणामो भवेत् । अथास्ति समुदायव्यतिरिक्तं द्रव्यम्; ननु गुणसमुदायमात्रद्रव्यप्रतिज्ञाहानिः । किञ्च, उभयदोषप्रसङ्गात् । १८ । इदमिह मीमांस्यम् — यन्निवर्तते यच्चोत्पद्यते यच्च व्यवतिष्ठते तदेतत्- त्रितयं गुणसमुदायमात्रं वा स्यात्, ततोऽन्यद्वेति ? यदि गुणसमुदायमात्रम्; ननु स एवासौ प्राक पश्चाच्च गुणसमुदायः कोऽत्र कस्य वा परिणामः ? अन्येन नाम निवृत्तेन अन्येनावस्थितेनाऽन्येन- २५चोत्पन्नेन भवितव्यमिति न्याय्यम् । अथान्यदिति गृह्यते; एवमपि गुणसमुदायमात्रद्रव्यप्रतिज्ञा- हातिः । किञ्च, ध्रौव्यैकान्तविरोधः, एकश्चेद्धर्मो निवर्तते एकश्चेदुत्पद्यते अनित्यताप्राप्तेरिति । किञ्च, समुदायः गुणेभ्योऽन्यो वा स्यात्, अनन्यो वा ? यद्यनन्यः; गुणा एवेति समुदायकल्प- नाव्याघातः, तदभावाच्च तदविनाभाविनां गुणानामप्यभावः । अथान्यः समुदायः; पुनरत्र प्रतिक्षाविरोधः परस्पराविनाभाविनोः स्वरूपशून्यत्वं च स्यात्, कुतः परिणामकल्पना ? ३०यच्चोक्तम् — पूर्वभावस्यान्यभावाप्तिः परिणाम इति; तदयुक्तम्; कस्मात् ? उभयदोषप्रसङ्गात् । शब्दादीनां सुखादिसमन्वयभावानुपपत्तिः शब्दादिभावनिवृत्तिर्वेति । यदि पूर्वभावस्य अन्यभावा- पत्तिः परिणामः; सुखदुःखमोहानां शब्दादिभावापत्तेः शब्दादिषु सुखादिसमन्वयभावानुप- पत्तिः । किं कारणम् ? पूर्वभावस्यान्यभावापत्तिः परिणामः इति प्रतिज्ञानात् । अथ पूर्वभावस्य ४८१ नान्यभावापत्तिः सुखादिसमन्वयात्; कथं तर्हि पूर्वभावस्यान्यभावापत्तिः परिणामः ? तथैव सुखा- द्यवस्थानात् शब्दादिभावानुपपत्तिः प्रसजति, सा चानिष्टा, तस्मान्न पूर्वभावस्यान्यभावापत्तिः परिणामः । किञ्च, अभावस्यापरिणामात् । यद्येनात्मना नास्ति न तस्य तद्भावापत्तिः विद्यते । यथा ०५अभावस्य भावात्मनाऽभावान्न तद्भावापत्तिः, एवं गुणानां स्थूलत्वेन अभावात् तद्भावापत्तिर- युक्ता । अथास्ति तद्भावः; ततः परिणामानुपपत्तिः तद्भावात् । येनात्मना यद्विद्यते तस्य न पुनस्त- द्भावापत्तिः । नह्यभाव अभावात्मकत्वात् पुनरभावो भवति । एवमेकान्ते कारणस्योभयथा परि- णामानुपपत्तेः अनेकान्त आश्रयणीयः — पर्यायार्थादेशात् स्यादन्यभावापत्तिः, द्रव्यार्थादेशात् स्यान्ना- न्यभावापत्तिः परिणाम इति । तथा द्रव्यर्थादेशात् स्यादवस्थितस्य द्रव्यस्य परिणामः, पर्यायार्था- १०देशात् स्यादनवस्थितस्येति । अथ का क्रियेति ? अत्रोच्यते — क्रिया परिस्पन्दात्मिका द्विविधा । १९ । द्रव्यस्य द्वितयनिमित्तवशात् उत्पद्यमाना परिस्पन्दा- त्मिका क्रियेत्यवसीयते । सा द्विविधा पूर्ववत् प्रयोगविस्रसानिमित्ता । प्रायोगिकी शकटादीनाम् । विस्रसानिमित्ता मेघादीनाम् । स्थितिग्रहणमिति चेत्; न; परिणामावरोधात् । २० । स्यादेतत् — यदि परिस्पन्दात्मिका क्रिया १५इत्युच्यते स्थितेर्ग्रहणं प्राप्नोति । गतिनिवृत्तिर्हि स्थितिरिति; तन्न; किं कारणम् ? परिणामावरो- धात् । स्थितिर्हि परिणामेऽन्तर्भवति । परिणामग्रहणमेवास्तु इति चेत्; न; भावद्वैविध्यख्यापनार्थत्वात् । २१ । स्यान्मतम् — यथा स्थितिः परिणामेऽन्तर्भवति तथा क्रियापि तत्रैवावरुध्यते इति परिणामग्रहणमेवैकमस्तु इति; तन्न; किं कारणम् ? भावद्वैविध्यख्यापनार्थत्वात् । द्रव्यस्य हि भावो द्विविधः — परिस्पन्दात्मकः, अपरि- २०स्पन्दात्मकश्च । तत्र परिस्पन्दात्मकः क्रियेत्याख्यायते, इतरः परिणामः, इत्येतत् ख्यापनार्थं पृथग- ग्रहणम् । क्षेत्रप्रशंसाकालनिमित्तात् परत्वापरत्वानवधारणमिति चेत्; न; कालोपकारप्रकरणात् । २२ । स्यान्मतम् — क्षेत्रप्रशंसाकालनिमित्ते परत्वापरत्वे । तत्र क्षेत्रनिमित्ते तावदाकाशप्रदेशाल्पबहु- त्वापेक्षे । एकस्यां दिशि बहूनाकाशप्रदेशानतीत्य स्थितः परः, ततः अल्पानदीत्य स्थितोऽपरः । २५प्रशंसाकृते अहिंसादिप्रशस्तगुणयोगात् परो धर्मः, तद्विपरीतोऽधर्मोऽपरः इति । कालहेतुके शतवर्षः परः, षोडशवर्षोऽपर इति । अतोऽर्थभेदात् परत्वापरत्वयोरनवधारणमिति; तन्न; किं कारणम् ? कालोपकारप्रकरणात् कालकृतेऽत्र परत्वापरत्वे गृह्येते, दूरासन्नदेशावस्थायिनोः कुमारस्थविरयोः, तपस्विचाण्डालयोः सन्निकृष्टदेशे चाण्डाले पर इति व्यवहारो दृश्यते, विप्रकृष्टे च तपस्विनि अपर इति । ते एते परत्वापरत्वे कालकृते इह गृह्येते । ३०वर्तनाद्युपकारलिङ्गः कालः । २३ । उक्ता वर्तनादयः उपकारा यस्याऽर्थस्य लिङ्गं स काल इत्यनुमीयते । तथा चोक्तम् — “येन मूर्तानामुपचयाश्चापचयाश्च लक्ष्यन्ते स कालः” इति । वर्तनाग्रहणमेवास्त्विति चेत्; न; कालद्वैविध्यप्रदर्शनार्थत्वात् प्रपञ्चस्य । २४ । स्यान्मतम् — वर्तनाग्रहणमेवास्तु कालास्तित्वख्यापनं तद्विकल्पत्वात् परिणामादीनामिति; तन्न; किं कारणम् ? ४८२ कालद्वैविध्यप्रदर्शनार्थत्वात् प्रपञ्चस्य । द्विविधः कालः — परमार्थकालः व्यवहाररूपश्चेति । तत्र परमार्थकालः वर्तनालिङ्गः गत्यादीनां धर्मादिवत् वर्तनाया उपकारकः । स किंस्वरूप इति चेत् ? उच्यते — यावन्तो लोकाकाशे प्रदेशास्तावन्तः कालाणवः परस्परं प्रत्यबन्धाः एकैकस्मिन्नाकाशप्रदेशे एकैकवृत्त्या लोकव्यापिनः मुख्योपचारप्रदेशकल्पनाऽभावान्निरवयवाः । मुख्यप्रदेशकल्पना हि ०५धर्माधर्मजीवाकाशेषु पुद्गलेषु च द्व्यणुकादिषु स्कन्धेषु । परमाणुषूपचारप्रदेशकल्पना, प्रचयशक्ति- योगात् । उभयथा च कालाणूनां प्रदेशकल्पनाऽभावात्, धर्मास्तिकायादिवत् कायत्वाभावः । अत एव विनाशहेतुत्वाभावात् नित्याः । परप्रत्ययोत्पादविनाशसद्भावादनित्याः । सूचीसूत्रमार्गा- काशच्छिद्रवत् परिच्छिन्नमूर्तित्वेऽपि रूपादियोगाभावात् अमूर्ताः । निष्क्रियाश्च प्रदेशान्तर- संक्रमाभावात् । व्यवहारकालः परिणामादिलक्षणः । कालवर्तनया लब्धकालव्यपदेशः, कुतश्चित १०परिच्छिन्नः अपरिच्छिन्नस्य परिच्छेदहेतुः । कालबैविध्यसिद्धिः परस्परापेक्षत्वात् । २५ । भूतो वर्तमानो भविष्यन्निति त्रिविधः कालः सिद्धः । कुतः ? परस्परापेक्षत्वात् । यथा वृक्षपङ्क्तिमनुसरतो देवदत्तस्य एकैकतरुं प्रति प्राप्तः प्राप्नुवन प्राप्स्यन् व्यपदेशस्तथा तान् कालाणूननुसरतां द्रव्याणां क्रमेण वर्तनापर्यायमनुभवतां भूतवर्त- मानभविष्यद्व्यवहारसद्भावः । तत्र परमार्थकाले भूतादिव्यवहारो गौणः, व्यवहारकाले मुख्यः । १५परस्परापेक्षश्चासौ — यद्द्रव्यं क्रियापरिणतं कालपरमाणुं प्राप्नोति तद्द्रव्यं तेन कालेन वर्तमान- समयस्थितिसंबन्धवर्तनया वर्तमानः कालः, कालाणुरपि वर्तयंस्तद्द्रव्यमनतिक्रान्तसंबन्ध- वर्तनात्तदाख्यो भवति । तदेव कालवशात् अनुभूतवर्तनासंबन्धं भूतम्, कालाणुरपि भूतः । तदेव वर्त्स्यत्स्थितिसंबन्धवर्तनापेक्षं भविष्यदिति व्यपदिश्यते, कालाणुश्च भविष्यन्निति । एवं सवितुरनुसमयगतिप्रचयापेक्षया आवलिकोच्छ्वासप्राणस्तोकलवनालिकामुहूर्ताऽहोरात्रपक्षमासर्त्व- २०यनादिसवितृगतिपरिवर्तनकालवर्तनया व्यवहारकालो मनुष्यक्षेत्रे संभवति इत्युच्यते, तत्र ज्यो- तिषां गतिपरिणामात्, न बहिः निवृत्तगतिव्यापारत्वात् ज्योतिषाम् । मनुष्यक्षेत्रसमुत्थेन ज्योति- र्गतिसमयावलिकादिना परिच्छिन्नेन क्रियाकलापेन कालवर्तनया कालाख्येन ऊर्ध्वमधस्तिर्यक् च प्राणिनां संख्येयाऽसंख्येयाऽनन्तानन्तकालगणनाप्रभेदेन कर्मभवकायस्थितिपरिच्छेदः सर्वत्र जघन्यमध्यमोत्कृष्टावस्थः क्रियते । २५क्रियामात्रमेव कालस्तद्व्यतिरेकेणानुपलब्धिरिति चेत्; न; तद्भावे कालाभिधानलोप- प्रसङ्गात् । २६ । स्यान्मतम् — क्रियामात्रमेव कालः । कुतः ? तद्व्यतिरेकेणानुपलब्धेः । सर्वोऽयं कालव्यवहारः क्रियाकृतः । क्रिया हि क्रियान्तरपरिच्छिन्ना अन्यक्रियापरिच्छेदे वर्तमाना कालाख्या भवति । योऽपि समयो नाम भवद्भिरुच्यते स परमाणुपरिवर्तनक्रियासमय एव काल- सामानाधिकरण्यात् । न समयपरिमाणपरिच्छेदकोऽन्यः ततः सूक्ष्मतरः कश्चिदस्ति कालः । तत्स- ३०मयक्रियाकलाप आवलिका, तत्प्रचय उच्छ्वास इत्यादि समयक्रियाकलापपरिच्छिन्ना आवलिका उच्छ्वासपरिच्छेदे वर्तमाना कालाख्या । एवमुत्तरत्रापि योज्यम् । लोकेऽपि तथैव गोदोहेन्धनपा- कादिरन्योन्यपरिच्छेदे वर्तमानः कालाख्यः इति क्रियैव काल इति; तन्न; किं कारणम् ? तदभावे कालाभिधानलोपप्रसङ्गात् । सत्यम्, क्रियाकृत एवायं व्यवहारः सर्वः — उच्छ्वासमात्रेण कृतं मुहूर्तेन कृतमिति, किन्तु समय उच्छ्वासो निश्वासो मुहूर्तः इति स्वसंज्ञाभिर्निरूढानां काल इत्यभि- ४८३ धानमकस्मान्न भवति । यथा देवदत्तसंज्ञया निरूढे पिण्डे दण्ड्यभिधानमकस्मान्न भवतीति दण्ड- संबन्धसिद्धिः, तथा कालसिद्धिरपि । इतरथा कालव्यवहाराभावप्रसङ्गः स्यात् । वर्तमानाभावप्रसङ्गाच्च । २७ । यस्य क्रियामात्रमेव कालो नान्यः कश्चिदस्ति वर्तनालक्षणः, तस्य वर्तमानकालाभावः प्रसक्तः । कथम् ? ऊयते पट इति यः प्रक्षिप्तस्तन्तुः सोऽतिक्रान्तः, यः ०५प्रक्षेप्स्यते सोऽनागतः, न च तयोरन्तरे काचिदन्या अनतिक्रान्ताऽनागामिनी क्रिया अस्ति या वर्त- मानत्वेन परिगृह्येत । वर्तमानापेक्षौ च पुनरतीतानागताविष्येते तदभावे तयोरप्यभावः स्यात् । यदप्युक्तम् — आरम्भादिरपवर्गान्तः क्रियाकलापो वर्तमान इति । “आरम्भाय प्रसृता यस्मिन् काले भवन्ति कर्तारः । कार्यस्यानिष्ठातः तन्मध्यमकालमिच्छन्ति ॥ ” इति; १०तदप्ययुक्तम्; कुतः ? अभ्युपगमविरोधात् । पूर्वं क्रियाकाल इत्युक्तं पश्चात् क्रियासमूह इति । क्षणिकानां क्रियावयवानां समूहाभावाच्च । यस्य पुनरन्यो वर्तनालक्षणः कालः, तस्य प्रथम- समयक्रियावर्तनया आरम्भमुपादाय द्वितीयादिसमयक्रियाविशेषाणां द्रव्यार्थतयाऽवस्थानमनुभवतां समुदायमुपचर्य तत्समूहसाध्यस्य घटादेरापरिसमाप्तेर्वर्तते घटादिक्रियेति वर्तमानकालसिद्धिः कल्प्यते । यदि व्यतिरेकेणानुपलब्धेः कालो नास्तीत्युच्यते; ननु क्रियायाः क्रियासमूहस्य १५चाभावः । कारकाणां हि प्रवृत्तिविशेषः क्रिया, न तेभ्यः प्रवृत्तिर्व्यतिरिक्ता उपलभ्यते । यथा सर्पात्म- लाभ एव कौटिल्यं न तत्तस्माद् व्यतिरिक्तमुपलभ्यते एवं क्रियापीति । तथा क्रियावयवेभ्यो व्यति- रिक्तो न तत्समूह उपलभ्यते तदात्मकत्वात्, अतस्तयोरभा वप्रसङ्गः स्यात् । किञ्च, क्रिया क्रियान्तरस्य परिच्छेदिका कालव्यपदेशभागित्यनुपपन्नम् अनवस्थानात् । स्थितो हि लोके प्रस्थादिः परिमाणविशेषः ब्रीह्यादेरवस्थितस्य परिच्छेदको दृष्टः । न च तथा क्रियाऽवस्थिता अस्ति- २०क्षणमात्रावलम्बनाभ्युपगमात् । न हि स्वयमनवस्थितः कश्चिदनवस्थितस्य परिच्छेदको दृष्टः । प्रदीपपरिस्पन्दवत् इति चेत्; यथा प्रदीपोऽनवस्थितः परिस्पन्दस्यानवस्थितस्यैव परिच्छेदे वर्तते तथा क्रियापीति; एतच्चायुक्तम्; असिद्धत्वात् । प्रदीपः परिस्पन्दश्च क्षणिक इति नास्माभिरभ्यु- पगम्यते स्वकार्यस्य प्रकाशनादेरनेकक्षणसाध्यत्वात् । समूहस्य परिच्छेद्यपरिच्छेदकभावादिति चेत्; न; क्षणिकानां समूहाभावात् । शब्दवदिति चेत्; न; यथा क्षणिकानां वर्णध्व नीनां समुदायः २५पदवाक्यरूपः तथा क्रियावयवानामिति; एतदप्यसाम्प्रतम् असिद्धत्वादेव । न हि वर्णध्वनयः क्षणिकाः; देशान्तरस्थश्रोतृविषयभावापत्तिदर्शनात् । शब्दान्तरारम्भात् तत्प्रतिसिद्धिरिति चेत्; न; क्षणिकस्यारम्भशक्तिविरहात् । यस्मिन् क्षणे स्वयमात्मलाभमापद्यते न तदाऽन्यमुत्पादयति असत्त्वात्, उत्तरक्षणे च नारभते उत्पत्त्यनन्तरापवर्गित्वात् । आसन्नसदवस्थाको हि क्षण उत्पत्तिकाल इति व्यपदिश्यते, उत्तरकालमस्य सत्त्वं नास्ति इत्युत्पत्तिव्यवहार एव न स्यात् । ३०पूर्वविज्ञानाहितसंस्कारबीजाधारभूतायां बुद्धौ समुदायकल्पनेति चेत्; न; तस्या अपि तादा- त्म्यात् । यस्य तु द्रव्यार्थादेशात् स्यान्नित्या क्रिया पर्यायार्थादेशाच्च स्यादनित्या बुद्धिरपि; तस्य वस्तुनि बुद्धौ च क्रियावयवसमूहस्य शक्तिव्यक्तिस्वरूपेण व्यवस्थितस्य कालवर्तनया प्रतिलब्ध- कालव्यपदेशस्य परिच्छिन्नस्यान्यपरिच्छेदे वृत्तिरुपपद्यते इति व्यवहारकालसिद्धिः । तत्प्रसिद्धौ च ४८४ मुख्यकालसिद्धिः इत्युक्तम् । अथ किमर्थं परत्वापरत्वयोः पृथग्ग्रहणम्, वर्तनापरिणामक्रिया- परत्वापरत्वानीत्येवं वक्तव्यम् ? परत्वापरत्वयोः पृथग्ग्रहणं परस्परापेक्षत्वात् । २८ । परत्वापरत्वे पृथग्गृह्येते । कुतः ? पर- स्परापेक्षत्वात् । परत्वं ह्यपेक्ष्यापरत्वं भवति, अपरत्वं चापेक्ष्य परत्वमिति । ०५अथ किमर्थं वर्तनाग्रहणमादौ क्रियते ? वर्तनाग्रहणमादौ अभ्यर्हितत्वात् । २९ । वर्तनाग्रहणमादौ क्रियते । कुतः ? अभ्यर्हितत्वात् । कथमभ्यर्हितत्वम् ? वर्तनापूर्वकत्वात् परमार्थकालप्रतिपत्तेः । तन्निमित्तत्वात् व्यवहारकाललिङ्ग- स्याप्राधान्यम् । अत्राह — उक्तं भवता शरीरादीनि पुद्गलानामुपकार इति, तन्त्रान्तरीया जीवं परिभाषन्ते, १०तत्कथमिति ? अत्रोच्यते — स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ॥ २३ ॥ स्पर्शग्रहणमादौ विषयबलदर्शनात् । १ । स्पर्शग्रहणमादौ क्रियते । कुतः ? विषयबलदर्श- नात् । सर्वेषु हि विषयेषु स्पर्शस्य बलं दृश्यते । स्पृष्टग्राहिष्विन्द्रियेषु स्पर्शस्यादौ ग्रहणव्यक्तिः, सर्वसंसारिजीवग्रहणयोग्यत्वाच्च । १५रसप्रसङ्ग इति चेत्; न; स्पर्शे सति तद्भावात् । २ । स्यान्मतम् — यदि विषयबलात् आदौ स्पर्शोऽधीतः, ननु विषयबलत्वात् आदौ रस एवाध्येयः । स्पर्शसुखनिरुत्सुकेष्वपि रसव्यापारद- र्शनादिति; तन्न; किं कारणम् ? स्पर्शे सति तद्भावात्, तत्रापि सति स्पर्शे रसव्यापार इति स्पर्शग्रहणमेवादौ ज्यायः । तत एवानन्तरं रसवचनं स्पर्शग्रहणानन्तरभावितत्वात् (भावित्वात्) रसग्रहणस्य, तदनन्तरं तद्ग्रहणं क्रियते । २०वायौ तदभावात् व्यभिचार इति चेत्; न; तत्राप्यभ्युपगमात् । ३ । स्यादेतत् — वायुः स्पर्श- वान् इति तदनन्तरं रसग्रहणाभावात् व्यभिचार इति; तन्न; किं कारणम् ? तत्राप्यभ्युपगमात् । रूपादयो हि स्पर्शाविनाभाविनः घटादिष्विव वायावप्यभ्युपगम्यन्ते । स्पर्शवत्तत्र सतां रूपादीना- मपि ग्रहणं कस्मान्नेति चेत् ? स्थूलविषयग्राहित्वाच्चक्षुरादीनां घ्राणेन्द्रियविषयवत् वायौ सता- मपि रूपादीनामग्रहणम् । २५रूपात् प्राग् गन्धवचनम् अचाक्षुषत्वात् । ४ । रूपात् प्राक् गन्धवचनं क्रियते । किं कार- णम् ? अचाक्षुषत्वात् । अन्ते वर्णग्रहणं स्थोल्ये सति तदुपलब्धेः । ५ । सर्वेषामन्ते वर्णग्रहणं क्रियते । कुतः ? स्थौल्ये सति तदुपलब्धेः । नित्ययोगे मतुविधानम् । ६ । स्पर्शश्च रसश्च गन्धश्च वर्णश्च स्पर्शरसगन्धवर्णास्ते येषां सन्ति ३०ते स्पर्शरसगन्धवर्णवन्तः इति नित्ययोगे मतुविधानं द्रष्टव्यम् । यथा क्षीरिणो न्यग्रोधा इति क्षीरेण नित्ययोगात् मत्वर्थीयविधानम्, तथा अनादिपारिणामिकस्पर्शादिगुणसामान्यनित्ययोगे मतुरिति । स्पर्शादीनामनन्तपर्यायत्वेऽपि मौलभेदप्रसिद्ध्यर्थमितः क्रियते । मृदुकठिनगुरुलघुशीतोष्णस्निग्धरूक्षस्पर्शभेदाः । ७ । एते मृद्वादयोऽष्टौ स्पर्शस्य मूलभेदा द्रष्टव्याः । ४८५ तिक्तकटुकाम्लमधुरकषाया रसप्रकाराः । ८ । तिक्तादयः पञ्च रसप्रकाराः वेदितव्याः । गन्धः सुरभिरसुरभिश्च । ९ । गन्धो द्विविधः — सुरभिरसुरभिश्चेति । वर्णाः पञ्चधा नीलपीतशुक्लकृष्णलोहितभेदात् । १० । नीलादिभिः पञ्चभिः प्रकारैः वर्णा भिद्यन्ते । एषां च स्पर्शनादीनामेकैकस्य एकद्वित्रिचतुःसंख्येयाऽसंख्येयानन्तगुणपरिणामोऽवसेयः । ०५सकलरूपादिद्रव्यधर्मनिर्देशात् अवशिष्टविशेषप्रतिपत्त्यर्थमाह — शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपो- द्योतवन्तश्च ॥ २४ ॥ शब्दादीनामभिहितनिर्वचनानां परिप्राप्तद्वन्द्वानां मतुना अभिसंबन्धः । १ । शब्दादीनां निर्वचनेन प्रतिलब्धार्थानां परस्परापेक्षायां सत्यां द्वन्द्वं कृत्वा मतुना संबन्धो योजयितव्यः । १०तद्यथा — शपत्यर्थमाह्वयति प्रत्याययति, शप्यते येन, शपनमात्रं वा शब्दः । बध्नाति, बध्यतेऽसौ, बध्यतेऽनेन, बन्धनमात्रं वा बन्धः । लिङ्गेन आत्मानं सूचयति, सूच्यतेऽसौ, सूच्यतेऽनेन, सूच- नमात्रं वा सूक्ष्मः, सूक्ष्मस्य भावः कर्म वा सौक्ष्म्यम् । स्थूलयते परिवृंहयति, स्थूल्यतेऽसौ, स्थूल्य- तेऽनेन, स्थूलनमात्रं वा स्थूलः । स्थूलस्य भावः कर्म वा स्थौल्यम् । संतिष्ठते, संस्थीयतेऽनेनेति, संस्थितिर्वा संस्थानम् । भिनत्ति, भिद्यते, भेदनमात्रं वा भेदः । पूर्वोपात्ताशुभकर्मदयात् ताम्यति १५आत्मा, तम्यतेऽनेन, तमनमात्रं वा तमः । पृथिव्यादिघनपरिणाम्युपश्लेषात् देहादिप्रकाशावरण- तुल्याकारेण छिद्यते, छिनत्त्यात्मानमिति वा छाया । असद्वेद्योदयात् आतपत्यात्मानम्, आतप्यते- ऽनेन, आतपनमात्रं वा आतपः । निरावरणमुद्योतयति, उद्योत्यतेऽनेन, उद्योतनमात्रं वा उद्योतः । शब्दश्च बन्धश्च सौक्ष्म्यं च स्थौल्यं च संस्थानं च भेदश्च तमश्च छाया च आतपश्च उद्योतश्च शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योताः, ते येषां सन्ति ते शब्दबन्धसौक्ष्म्य- २०स्थौल्यसंस्थानभेदतमश्छायातपोद्योतवन्तः । शब्दो द्वेधा भाषालक्षणविपरीतत्वात् । २ । शब्दो द्वेधा व्यवतिष्ठते । कुतः ? भाषालक्षण- विपरीतत्वात् — भाषालक्षणो विपरीतश्चेति । भाषात्मक उभयथा अक्षरीकृतेतरविकल्पात् । ३ । तत्र भाषात्मकः शब्दः उभयथा कल्प्यते । कुतः ? अक्षरीकृतेतरविकल्पात् । अक्षरीकृतः शास्त्राभिव्यञ्जकः संस्कृतविपरीतभेदात् २५आर्यम्लेच्छव्यवहारहेतुः । अवर्णात्मको द्वीन्द्रियादीनाम्, अतिशयज्ञानस्वरूपप्रतिपादनहेतुश्च । स एव सर्वः प्रायोगिकः । अभाषात्मको द्वेधा प्रयोगविस्रसानिमित्तत्वात् । ४ । अभाषात्मकः शब्दो द्वेधा विभज्यते । कुतः ? प्रयोगविस्रसानिमित्तत्वात् । तत्र वैस्रसिको वलाहकादिप्रभवः । प्रयोगश्चतुर्धा ततविततघनसौषिरभेदात् । ५ । प्रयोगजः शब्दः चतुर्धा भिद्यते । कुतः ? तत- ३०विततघनसौषिरभेदात् । तत्र चर्मतननात्ततः पुष्करभेरीदर्दुरादिप्रभवः । विततः तन्त्रीकृतो वीणा- सुघोषादिसमुद्भवः । घनस्तालघण्टालालनाद्यभिघातजः । सौषिरो वंशशङ्खादिनिमित्तः । स शब्दः आकाशगुणः इति केषाञ्चित् दर्शनम्; तदयुक्तमित्युक्तं पुरस्तात् । ४८६ aपरे मन्यन्ते — ध्वनयः क्षणिकाः क्रमजन्मानः स्वरूपप्रतिपादनादेवोपक्षीणशक्तिका नार्था- न्तरमवबोधयितुमलम् । यदि समर्थाः स्युः; पदेभ्य इव पदार्थेषु प्रतिवर्णं वर्णार्थेषु प्रत्ययः स्यात् । एकेन चार्थे कृते वर्णन्तरोपादानमनर्थकं स्यात् । नापि क्रमजन्मनां सहभावः संघातोऽस्ति योऽर्थेन युज्यते । अतस्तेभ्योऽर्थप्रतिपादने समर्थः शब्दात्मा अमूर्तो नित्योऽतीन्द्रियो निरवयवो निष्क्रियो ०५ध्वनिभिरभिव्यङ्ग्य इत्यभ्युपगन्तव्य इति; एतच्चानुपपन्नम्; कुतः ? व्यङ्ग्यव्यञ्जकभावानुपपत्तेः । व्यङ्ग्यस्तावत् शब्दात्मा स्वेन स्वरूपेणावस्थितो वा व्यज्येत, अनवस्थितो वा ? यदि स्वरूपेणा- वस्थितो व्यज्येत; तत्रापि द्वैतं भवति ध्वनिसन्निधेः प्राक् पश्चाच्चानुपलब्धेः सौक्ष्म्यं वा हेतुः स्यात्, प्रतिबन्धकं वा किञ्चित् ? यदि सौक्ष्म्यान्नोपलभ्येत; सर्वकालमस्याग्रहणमेव स्यात् आकाशादिवत् । अथ ध्वनिसन्निधाने स्थौल्यमस्य स्यात्; विकारप्राप्तेः नित्यता हीयते । नापि किञ्चित् प्रति- १०बन्धकमस्ति घटोपलब्धौ तमोवत् । प्रभाभावस्तमो न वस्त्वन्तरमिति चेत्; न; अतिशयवत्त्वात् सम्पन्नरूपवत्त्वाच्च नीलादिवर्णवत् । स्वरूपेणानवस्थितश्चेत्; नासौ व्यङ्ग्यः कार्यः स्यात् ध्वनिसन्निधाने स्वरूपप्राप्तेः । तत एवैषां ध्वनीनां व्यञ्जकत्वमयुक्तम् । किञ्च, आद्यो वर्णध्वनिः शब्दात्मनः सकलस्य वा व्यञ्जकः स्यात्, एकदेशस्य वा ? यदि सकलस्य; इतरेषां ध्वनीनाम् आनर्थक्यं स्यात् । अथैकदेशस्य; निरवयवत्वमस्य हीयते । किञ्च, स १५ध्वनिर्व्यञ्जकः स्फोटस्य वा उपकारं कुर्यात्, श्रोत्रस्य, उभयस्य वा ? न तावत् पृथिवीगन्धस्य जल- सेकवत् स्फोटस्योपग्रहे वर्तते; तस्य नित्यत्वात् विकारप्राप्त्यनभ्युपगमात् । न चामूर्तस्याभिव्यङ्- ग्यस्य विक्रियोपपद्यते । नापि चक्षुषोऽञ्जनवत् श्रोत्रस्योपकारे वर्तते; वधिरस्य गुणान्तरोत्पादनश- क्त्यभावात् । युज्यते नेत्रस्याञ्जनमुपकारकमिति तिमिरादिदोषहननदर्शनात्, न तथोपहतश्रवणस्य ध्वनिकृतमुपकारं किञ्चिदप्युपलभामहे । अथ कल्पेन्द्रियस्य उपग्रहे वर्तते; न तत्रार्थावबोधना- २०दुपग्रहोऽन्योऽस्ति । तदभ्युपगमे तेनैव कृतकृत्यत्वात् स्फोटकल्पना अनर्थिका । नाप्युभयस्यो- पग्रहो युक्तः; प्रत्येकमयुक्तत्वादेव । किञ्च, न ध्वनयः स्फोटाभिव्यक्तिहेतवो भवन्ति उत्पत्तिक्षणादूर्ध्वमनवस्थानात् उत्पत्तिक्षणे चाऽसत्त्वात् । अथ क्षणिका अपि सन्तः अभिव्यक्तिहेतवः; कश्चेदानीं भवतो मत्सरः ? अर्थप्रत्यायने तदभ्युपगमे च स्फोटकल्पना व्यर्था । प्रदीपवदिति चेत्; न; तस्यासिद्ध- २५त्वात् । नोत्पत्त्यनन्तरापवर्गी प्रदीपः आत्मलाभे देशान्तरसंबन्धनिमित्तक्रियापरिणाम- विप्रकृष्टदेशस्थघटादिप्रकाशनदर्शनात् । कर्मवदिति चेत्; असिद्धत्वादेव, कर्मव्यक्तयः क्षणिकाः सत्यः कर्मत्वजातिमभिव्यञ्जयन्तीत्यसिद्धमस्मान् प्रति, द्रव्यगुणकर्मविपयसामा- ४८७ न्य विशेषस्यार्थान्तरभूतस्यानभ्युपगमात् । कर्मणोऽपि द्रव्यादपृथग्भूतस्य द्रव्यार्थावस्थाना- भ्युपगमात् । किञ्च, अभिव्यञ्जकाभिव्यङ्ग्यवैधर्म्यात् । यथा मूर्तः क्रियावान् प्रदीपोऽभिव्यञ्जकः तद्व्यङ्ग्याश्च घटादयः क्रियावन्तो मूर्तिमन्तो दृष्टाः, न च तथा ध्वनिर्मूर्त्तः क्रियावांश्च, तद्व्यङ्ग्यः ०५स्फोटोऽपि न तद्धर्मः ततोऽभिव्यक्त्यभावः । किञ्च, स्फोटः ध्वनेरन्यो वा स्यात्, अनन्यो वा ? यद्यनन्यः; तादात्म्यं प्राप्नोति, व्य- ङ्ग्यत्वाभावश्च भेदाभावात् । अथान्यः; तस्य श्रोत्रोपलभ्यत्वाभावः । किञ्च, व्यङ्ग्यत्वे सति अनित्यत्वं स्यात् स्फोटस्य घटादिवत् विज्ञानेन व्यङ्ग्यत्वात् । आकाशादेर्व्यभिचार इति चेत्; न; मूर्तिमता व्यङ्ग्यत्वादिति विशेष्यवचनात् । किञ्च, यस्य १०व्यङ्ग्यत्वं तस्य कार्यत्वमपि दृष्टं यथा घटादेः । न तथा स्फोटस्य कार्यत्वमस्ति नित्यत्वाभ्युपगमा- दिति व्यङ्ग्यत्वाभावः । महदादिवदिति चेत्; साध्यसमत्वात्, यथा महदादि व्यङ्ग्यमेव न कार्यं तथा स्फोटोऽपीति; तन्न; साध्यसमत्वात् । यथेदं